श्रीधनञ्जयविरचितं-दशरूपकम्

[[श्रीधनञ्जयविरचितं-दशरूपकम् Source: EB]]

[

श्रीधनञ्जयविरचितं दशरूपकम्

(१)

प्रथमं प्रकाशम्

नमस्तस्मै गणेशाय यत्कण्ठं पुष्करायते ।

मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ॥१॥

दशरूपानुकारेण यस्य माद्यन्ति भावकाम् ।

नमं सर्वविदे तस्मै विष्णवे भरताय च ॥२॥

कस्यचिदेव कदाचिद्दयया विषयं सरस्वती विदुषम् ।

घटयति कमपि तमन्यो व्रजति जनो येन वैदग्धीम् ॥३॥

उद्धृत्योद्धृत्य सारं यमखिलनिगमान्नाट्यवेदं विरिञ्चि

श्चक्रे यस्य प्रयोगं मुनिरपि भरतस्ताण्डवं नीलकण्ठम् ।

शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कं कर्तुमीष्टे

नाट्यानां किन्तु किञ्चिद्प्रगुणरचनया लक्षणं सङ्क्षिपामि ॥४॥

व्याकीर्णे मन्दबुद्धीनां जायते मतिविभ्रमम् ।

तस्यार्थस्तत्पदैस्तेन संक्षिप्य क्रियतेऽञ्जसा ॥५॥

आनन्दनिस्यन्दिषु रूपकेषु व्युत्पत्तिमात्रं फलमल्पबुद्धिम् ।

योऽपीतिहासादिवदाह साधुस्तस्मै नमं स्वादुपराङ्मुखाय ॥६॥

अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते ।

रूपकं तत्समारोपात्दशधैव रसाश्रयम् ॥७॥

नाटकं सप्रकरणं भाणं प्रहसनं डिमम् ।

व्यायोगसमवकार वीथ्यङ्केहामृगा इति ॥८॥

अन्यद्भावाश्रयं नृत्यं नृत्तं ताललयाश्रयम् ।

आद्यं पदार्थाभिनयो मार्गो देशी तथा परम् ॥९॥

मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनम् ॥

लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥१०॥

वस्तु नेता रसस्तेषां भेदकं वस्तु च द्विधा ।

तत्राधिकारिकं मुख्यमाङ्गं प्रासङ्गिकं विदुम् ॥११॥

अधिकारं फलस्वाम्यमधिकारी च तत्प्रभुम् ।

तन्निर्वर्त्यमभिव्यापि वृत्तं स्यादाधिकारिकम् ॥१२॥

प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतम् ।

सानुबन्धं पताकाढ्यं प्रकरीति प्रदेशभाक॥१३॥

प्रस्तुतागन्तुभावस्य वस्तुनो व्यक्तिसूचकम् ।

पताकास्थानकं तुल्यसंविधानविशेषणम् ॥१४॥

प्रख्यातोत्पाद्यमिश्रत्वभेदात्त्रेधापि तत्त्रिधा ।

प्रख्यातमितिहासादिरुत्पाद्यं कविकल्पितम् ॥१५॥

मिश्रं च सङ्करान्नान्तो दिव्यमर्त्यादिभेदतम् ।

कार्यं त्रिवर्गस्तच्छुद्धमेकानेकानुबन्धि च ॥१६॥

स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा ।

अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥१७॥

बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाम् ।

अर्थप्रकृतयं पञ्च ता एतां परिकीर्तिताम् ॥१८॥

अवस्थां पञ्च कार्यस्य प्रारब्धस्य फलार्थिभिम् ।

आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाम् ॥१९॥

औत्सुक्यमात्रमारम्भं फललाभाय भूयसे ।

प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितम् ॥२०॥

उपायापायशङ्काभ्यां प्राप्तिर्नियताप्तिं सुनिश्चिता ॥२१॥

समग्रफलसम्पत्तिं फलयोगो यथोचिता ।

अर्थप्रकृतयं पञ्च पञ्चावस्थासमन्विताम् ॥२२॥

यथासङ्ख्येन जायन्ते मुखाद्यां पञ्च सन्धयम् ।

अन्तरैकार्थसम्बन्धं सन्धिरेकान्वये सति ॥२३॥

मुखप्रतिमुखे गर्भं सावमर्शोपसंहृतिम् ।

मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवाम् ॥२४॥

अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात।

उपक्षेपं परिकरं परिन्यासो विलोभनम् ॥२५॥

युक्तिं प्राप्तिं समाधानं विधानं परिभावना ।

उद्भेदभेदकरणान्यन्वर्थान्यथ लक्षणम् ॥२६॥

बीजन्यास उपक्षेपं तद्बाहुल्यं परिक्रिया ।

तन्निष्पत्तिं परिन्यासो गुणाख्यानं विलोभनम् ॥२७॥

सम्प्रधारणमर्थानां युक्तिं प्राप्तिं सुखागमम् ।

बीजागमं समाधानं विधानं सुखदुम्खकृत॥२८॥

परिभावोऽद्भुतावेश उद्भेदो गूढभेदनम् ।

करणं प्रकृतारम्भो भेदं प्रोत्साहना मता ॥२९॥

लक्ष्यालक्ष्यतयोद्भेदस्तस्य प्रतिमुखं भवेत।

बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥३०॥

विलासं परिसर्पश्च विधूतं शमनर्मणी ।

नर्मद्युतिं प्रगमनं निरोधं पर्युपासनम् ॥३१॥

वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ।

रत्यर्थेहा विलासं स्याद्दृष्टनष्टानुसर्पणम् ॥३२॥

परिसर्पं विधूतं स्यादरतिं तच्छमं शमम् ।

परिहासवचो नर्म धृतिस्तज्जा द्युतिर्मता ॥३३॥

उत्तरा वाक्प्रगमनं हितरोधो निरोधनम् ।

पर्युपास्तिरनुनयं पुष्पं वाक्यं विशेषवत॥३४॥

उपन्यासस्तु सोपानं वज्रं प्रत्यक्षनिष्ठुरम् ।

चातुर्वर्ण्योपगमनं वर्णसंहार इष्यते ॥३५॥

गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुम् ।

द्वादशाङ्गं पताका स्यान्न वा स्यात्प्राप्तिसम्भवम् ॥३६॥

अभूताहरणं मार्गो रूपोदाहरणे क्रमम् ।

सङ्ग्रहश्चानुमानं च तोटकाधिबले तथा ॥३७॥

उद्वेगसम्भ्रमाक्षेपां लक्षणं च प्रणीयते ।

अभूताहरणं छद्म मार्गस्तत्त्वार्थकीर्तनम् ॥३८॥

रूपं वितर्कवद्वाक्यं सोत्कर्षं स्यादुदाहृतिम् ।

क्रमं सञ्चिन्त्यमानाप्तिर्भावज्ञानमथापरे ॥३९॥

सङ्ग्रहं सामदानोक्तिरभ्यूहो लिङ्गतोऽनुमा ।

अधिबलमभिसन्धिं संरब्धं तोटकं वचम् ॥४०॥

तोटकस्यान्यथाभावं ब्रुवतेऽधिबलं बुधाम् ।

संरब्धवचनं यत्तु तोटकं तदुदाहृतम् ॥४१॥

उद्वेगोऽरिकृता भीतिं शङ्कात्रासौ च सम्भ्रमम् ।

गर्भबीजसमुद्भेदादाक्षेपं परिकीर्तितम् ॥४२॥

क्रोधेनावमृशोद्यत्र व्यसनाद्वा विलोभनात।

गर्भनिर्भिन्नबीजार्थं सोऽवमर्शा इति स्मृतम् ॥४३॥

तत्रापवादसम्फेटौ विद्रवद्रवशक्तयम् ।

द्युतिं प्रसङ्गश्छलनं व्यवसायो विरोधनम् ॥४४॥

प्ररोचना विचलनमादानं सम्फेटो रोषभाषणम् ।

विद्रवो वधबन्धादिर्द्रवो गुरुतिरस्कृतिम् ॥४५॥

विरोधशमनं शक्तिस्तर्जनोद्वेजने द्युतिम् ।

गुरुकीर्तनं प्रसङ्गश्छलनं चावमाननम् ॥४६॥

व्यवसायं स्वशक्त्युक्तिं संरब्धानां विरोधनम् ।

सिद्धामन्त्रणतो भाविदर्शिका स्यात्प्ररोचना ॥४७॥

विकत्थना विचलनमादानं कार्यसङ्ग्रहम् ।

बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ॥४८॥

ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत।

सन्धिर्विबोधो ग्रथनं निर्णयं परिभाषणम् ॥४९॥

प्रसादानन्दसमयां कृतिभाषोपगूहनाम् ।

पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥५०॥

सन्धिर्बीजोपगमनं निबोधं कार्यमार्गणम् ।

ग्रथनं तदुपक्षेपोऽनुभूताख्यो तु निर्णयम् ॥५१॥

परिभाषा मिथो जल्पं प्रसादं पर्युपासनम् ।

आनन्दो वाञ्छितावाप्तिं समयो दुम्कनिर्गमम् ॥५२॥

कृतिर्लब्धार्थशमनं मानाद्याप्तिश्च भाषणम् ।

कार्यदृष्ट्यद्भुतप्राप्ती पूर्वभावोपगूहने ॥५३॥

वराप्तिं काव्यसंहारं प्रशास्तिं शुभशंसनम् ।

उक्ताङ्गानां चतुम्षष्टिं षोढा चैषां प्रयोजनम् ॥५४॥

इष्टस्यार्थस्य रचना गोप्यगुप्तिं प्रकाशनम् ।

रागं प्रयोगस्याश्चर्यं वृत्तान्तस्यानुपक्षयम् ॥५५॥

द्वेधा विभागं कर्तव्यं सर्वस्यापीह वस्तुनम् ।

सूच्यमेव भवेत्किञ्चिद्दृश्यश्रव्यमथापरम् ॥५६॥

नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरम् ।

दृश्यस्तु मधुरोदात्तरसभावनिरन्तरम् ॥५७॥

अर्थोपक्षेपकैं सूच्यं पञ्चभिं प्रतिपादयेत।

विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैम् ॥५८॥

वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकम् ।

सङ्क्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितम् ॥५९॥

एकानेककृतं शुद्धं सङ्कीर्णो नीचमध्यमैम् ।

तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितम् ॥६०॥

प्रवेशोऽङ्कद्वयस्यान्तं शेषार्थस्योपसूचकम् ।

अन्तर्जवनिकासंस्थैश्चूलिकार्थस्य सूचना ॥६१॥

अङ्कान्तपात्रैरङ्कास्यं छिन्नाङ्कस्यार्थसूचनात।

अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतम् ॥६२॥

एभिं संसूचयेत्सूच्यं दृश्यमङ्कैं प्रदर्शयेत।

नाट्यधर्ममपेक्ष्यैतत्पुनर्वस्तु त्रिधेष्यते ॥६३॥

सर्वेषां नियतस्यैव श्राव्यमश्राव्यमेव च ।

सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् ॥६४॥

द्वेधान्यन्नाट्यधर्माख्यं जनान्तमपवारितम् ।

त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् ॥६५॥

अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ।

रहस्यं कथ्यतेऽन्यस्य परावृत्त्यापवारितम् ॥६६॥

किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत।

श्रुत्वेवानुक्तमप्येकस्तत्स्यादाकाशभाषितम् ॥६७॥

इत्याद्यशेषमिह वस्तुविभेदजातं

रामायणादि च विभाव्य बृहत्कथां च ।

आसूत्रयेत्तदनु नेतृरसानुगुण्याच्

चित्रां कथामुचितचारुवचम्प्रपञ्चैम् ॥६८॥

इति धनञ्जयकृतदशरूपकस्य

प्रथमं प्रकाशं समाप्तम्

॥१॥

******

(२)

द्वितीयं प्रकाशम्

नेता विनीतो मधुरस्त्यागी दक्षं प्रियंवदम् ।

रक्तलोकं शुचिर्वाग्मी रूढवंशं स्थिरो युवा ॥१॥

बुद्ध्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितम् ।

शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकाम् ॥२॥

भेदैश्चतुर्धा ललितशान्तोदात्तोद्धतैरयम् ।

निश्चिन्तो धीरललितं कलासक्तं सुखी मृदुम् ॥३॥

सामान्यगुणयुक्तस्तु धीरशान्तो द्विजादिकम् ।

महासत्त्वोऽतिगम्भीरं क्षमावानविकत्थनम् ॥४॥

स्थिरो निगूढाहङ्कारो धीरोदात्तो दृढव्रतम् ।

दर्पमात्सर्यभूयिष्ठो मायाच्छद्मपरायणम् ॥५॥

धीरोद्धतस्त्वहङ्कारी चलश्चण्डो विकत्थनम् ।

स दक्षिणं शठो धृष्टं पूर्वा प्रत्यन्यया हृतम् ॥६॥

दक्षिणोऽस्यां सहृदयं गूढविप्रियकृच्छठम् ।

व्यक्ताङ्गवैकृतो धृष्टोऽनुकूलस्त्वेकनायिकम् ॥७॥

पताकानायकस्त्वन्यं पीठमर्दो विचक्षणम् ।

तस्यैवानुचरो भक्तं किञ्चिदूनश्च तद्गुणैम् ॥८॥

एकविधो विटश्चान्यो विटश्चान्यो हास्यकृच्च विदूषकम् ।

लुब्धो धीरोद्धतं स्तब्धं पापकृद्व्यसनी रिपुम् ॥९॥

शोभा विलासो माधुर्यं गाम्भीर्यं स्थैर्यतेजसी ।

ललितौदार्यमित्यष्टौ सात्त्विकां पौरुषा गुणाम् ॥१०॥

नीचे घृणाधिके स्पर्धा शोभायां शौर्यदक्षते ।

गतिं सधैर्या दृष्टिश्च विलासे सस्मितं वचम् ॥११॥

श्लक्ष्णो विकारो माधुर्यं संक्षोभे सुमहत्यपि ।

गाम्भीर्यं यत्प्रभावेन विकारो नोपलक्षते ॥१२॥

व्यवसायादचलनं स्थैर्यं विघ्नकुलादपि ।

अधिक्षेपाद्यसहनं तेजं प्राणात्ययेष्वपि ॥१३॥

शृङ्गाराकारचेष्टात्वं सहजं ललितं मृदु ।

प्रियोक्त्याजीविताद्दानमौदार्यं सदुपग्रहम् ॥१४॥

स्वान्या साधारणस्त्रीति तद्गुणा नायिका त्रिधा ।

मुग्धा मध्या प्रगल्भेति स्वीया शीलार्जवादियुक॥१५॥

मुग्धा नववयं कामा रतौ वामा मृदु क्रुधि ।

मध्योद्यद्यौवनानङ्गा मोहान्तसुरतक्षमा ॥१६॥

धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम् ।

खेदयेद्दयितं कोपादधीरा परुषाक्षरम् ॥१७॥

यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके ।

विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥१८॥

सावहित्थादरोदास्ते रतौइ धीरेतरा क्रुधा ।

सन्तर्ज्य ताडयेत्मध्या मध्याधीरेव तं वदेत॥१९॥

द्वेधा ज्येष्ठा कनिष्ठा चेत्यमुग्धा द्वादशोदिताम् ।

अन्यस्त्री कन्यकोढा च नान्योढाङ्गिरसे क्वचित॥२०॥

कन्यानुरागमिच्छातं कुर्यादङ्गाङ्गिसंश्रयम् ।

साधरणस्त्री गणिका कलाप्रागल्भ्यधौर्त्ययुक॥२१॥

छन्नकामसुखार्थज्ञस्वतन्त्राहंयुपण्डकान।

रक्तेव रञ्जयेदाढ्यान्निम्स्वान्मात्रा विवासयेत॥२२॥

रक्तैव त्वप्रहसने नैषा दिव्यनृपाश्रये ।

आसामष्टाववस्थां स्युं स्वाधीनपतिकादिकाम् ॥२३॥

आसन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका ।

मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये ॥२४॥

चिरयत्यव्यलीके तु विरहोत्कण्ठितोन्मनाम् ।

ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता ॥२५॥

कलहान्तरितामर्षाद्विधूतेऽनुशयार्तियुक।

विप्रलब्धोक्तसमयप्राप्तेऽतिविमानिता ॥२६॥

दूरदेशान्तरस्थे तु कार्यतं प्रोषितप्रिया ।

कामार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका ॥२७॥

चिन्तानिम्श्वासखेदाश्रुवैवर्ण्यग्लान्यभूषणैम् ।

युक्तां षडन्त्या द्वे चाद्ये क्रीडौज्ज्वल्यप्रहर्षितैम् ॥२८॥

दूत्यो दासि सखी कारूर्धात्रेयी प्रतिवेशिका ।

लिङ्गिनी शिल्पिनी स्वं च नेतृमित्रगुणान्विता ॥२९॥

यौवने सत्त्वजां स्त्रीणामलङ्कारास्तु विंशतिम् ।

भावो हावश्च हेला च त्रयस्तत्र शरीरजाम् ॥३०॥

शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।

औदार्यं धैर्यमित्येते सप्त भावा अयत्नजाम् ॥३१॥

लीला विलासो विच्छित्तिर्विभ्रमं किलकिञ्चितम् ।

मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ॥३२॥

विहृतं चेति विज्ञेया दश भावां स्वभावजाम् ।

निर्विकारात्मकात्सत्त्वाद्भावस्तत्राद्यविक्रिया ॥३३॥

अल्पालापं सशृङ्गारो हावोऽक्षिभ्रूविकारकृत।

स एव हेला सुव्यक्तशृङ्गाररससूचिका ॥३४॥

रूपोपभोगतारुण्यैं शोभाङ्गनानां विभूषणम् ।

मन्मथापितच्छाया सैव कान्तिरिति स्मृता ॥३५॥

अनुल्बणत्वं माधुर्यं दीप्तिं कान्तेस्तु विस्तरम् ।

निम्साध्वसत्वं प्रागल्भ्यमौदार्यं प्रश्रयं सदा ॥३६॥

चापलाविहता धैर्यं चिद्वृत्तिरविकत्थना ।

प्रियानुकरणं लीला मधुराङ्गविचेष्टितैम् ॥३७॥

तात्कालिको विषेषस्तु विलासोऽङ्गक्रियोक्तिषु ।

आकल्परचनाल्पापि विच्छित्तिं कान्तिपोषकृत॥३८॥

विभ्रमस्त्वरया काले भूषास्थानविपर्ययम् ।

क्रोधाश्रुहर्षभीत्यादें सङ्करं किलकिञ्चितम् ॥३९॥

मोट्टायितं तु तद्भावभावनेष्टकथादिषु ।

सानन्दान्तं कुट्टमितं कुप्येत्केशाधरग्रहे ॥४०॥

गर्वाभिमानादिष्टेऽपि बिब्बोकोऽनादरक्रिया ।

सुकुमाराङ्गविन्यासो मसृणो ललितं भवेत॥४१॥

प्राप्तकालं न यद्ब्रूयाद्व्रीडया विहृतं हि तत।

मन्त्री स्वं वोभयं वापि सखा तस्यार्थचिन्तने ॥४२॥

मन्त्रिणा ललितं शेषा मन्त्रिस्वायत्तसिद्धयम् ।

ऋत्विक्पुरोहितौ धर्मे तपस्विब्रह्मवादिनम् ॥४३॥

सुहृत्कुमाराटविका दण्डे सामन्तसैनिकाम् ।

अन्तम्पुरे वर्षवरां किराता मूकवामनाम् ॥४४॥

म्लेच्छाभीरशकाराद्यां स्वस्वकार्योपयोगिनम् ।

ज्येष्ठमध्याधमत्वेन सर्वेषां च त्रिरूपता ॥४५॥

तारतम्याद्यथोक्तानां गुणानां चोत्तमादिता ।

एवं नाट्ये विधातव्यो नायकं सपरिच्छदम् ॥४६॥

तद्व्यापारात्मिका वृत्तिश्चतुर्धा तत्र कैशिकी ।

गीतनृत्यविलासाद्यैर्मृदुं शृङ्गारचेष्टितैम् ॥४७॥

नर्मतत्स्फिञ्जतत्स्फोटतद्गर्भश्चतुरङ्गिका ।

वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् ॥४८॥

हास्येनैव सशृङ्गारभयेन विहितं त्रिधा ।

आत्मोपक्षेपसम्भोगमानैं शृङ्गार्यपि त्रिधा ॥४९॥

शुद्धमङ्गं भयं द्वेधा त्रेधा वाग्वेषचेष्टितैम् ।

सर्वं सहास्यमित्येवं नर्माष्टादशधोदितम् ॥५०॥

नर्मस्फिञ्जं सुखारम्भो भयान्तो नवसङ्गमे ।

नर्मस्फोटस्तु भावानां सूचितोऽल्परसे लवैम् ॥५१॥

छन्ननेतृप्रतीचारो नर्मगर्भोऽर्थहेतवे ।

अङ्गैं सहास्यनिर्हास्यैरेभिरेषोऽत्र कैशिकी ॥५२॥

विशोका सात्त्वती सत्त्वशौर्यत्यागदयार्जवैम् ।

संलापोत्थापकावस्थां साङ्घात्यं परिवर्तकम् ॥५३॥

संलापको गभीरोक्तिर्नानाभावरसा मिथम् ।

उत्थापकस्तु यत्रादौ युद्धायोत्थापयेत्परम् ॥५४॥

मन्त्रार्थदैवशक्त्यादें साङ्घात्यं सङ्घभेदनम् ।

प्रारब्धोत्थानकार्यान्यकरणात्परिवर्तकम् ॥५५॥

एभिरङ्गैश्चतुर्धेयं सात्त्वत्यारभटी पुनम् ।

मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितैम् ॥५६॥

सङ्क्षिप्तिका स्यात्संफेटो वस्तूत्थानावपातने ।

सङ्क्षिप्तवस्तुरचना सङ्क्षिप्तिं शिल्पयोगतम् ॥५७॥

पूर्वनेतृनिवृत्त्यान्ये नेत्रन्तरपरिग्रहम् ।

सम्फेटस्तु समाघातं क्रुद्धसंरब्धयोर्द्वयोम् ॥५८॥

मायाद्युत्थापितं वस्तु वस्तूत्थापनमिष्यते ।

अवपातस्तु निष्क्रामप्रवेशत्रासविद्रवैम् ॥५९॥

एभिरङ्गैश्चतर्धेयं नार्थवृत्तिरतं परा ।

चतुर्थी भारती सापि वाच्या नाटकलक्षणे ॥६०॥

कैशिकी सात्त्वती चार्थवृत्तिमारभटीमिति ।

पठन्तं पञ्चमीं वृत्तिमौद्भटां प्रतिजानते ॥६१॥

शृङ्गारे कैशिकी वीरे सात्त्वत्यारभटी पुनम् ।

रसे रौद्रे च बीभत्से वृत्तिं सर्वत्र भारती ॥६२॥

देशभाषाक्रियावेषलक्षणां स्युं प्रवृत्तयम् ।

लोकादेवावगम्यैता यथौचित्यं प्रयोजयेत॥६३॥

पाठ्यं तु संस्कृतं नृणामनीचानां कृतात्मनाम् ।

लिङ्गिनीनां महादेव्या मन्त्रजावेश्ययों क्वचित॥६४॥

स्त्रीणां तु प्राकृतं प्रायं शौरसेन्यधमेषु च ।

पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा ॥६५॥

यद्देशं नीचपात्रं यत्तद्देशं तस्य भाषितम् ।

कार्यतश्चोत्तमादीनां कार्यो भाषाव्यतिक्रमम् ॥६६॥

भगवन्तो वरैर्वाच्या विद्वद्देवर्षिलिङ्गिनम् ।

विप्रामात्याग्रजाश्चार्था नटीसूत्रभूतौ मिथम् ॥६७॥

रथी सूतेन चाउष्मान्पूज्यैं शिष्यात्मजानुजाम् ।

वत्सेति तातं पूज्योऽपि सुगृहीताभिधस्तु तैम् ॥६८॥

भावोऽनुगेन सूत्री च मार्षेत्येतेन सोऽपि च ।

देवं स्वामीति नृपतिर्भृत्यैर्भट्टेति चाधमैम् ॥६९॥

आमन्त्रणीयां पतिवज्ज्येष्ठमध्याधमैं स्त्रियम् ।

समा हलेति प्रेष्या च हञ्जे वेश्याज्जुका तथा ॥७०॥

कुट्टिन्यत्तेत्यनुगतैं पूज्याम्बा जरतीजनैम् ।

विदूषकेण भवती राज्ञी चेटीति शब्द्यते ॥७१॥

चेष्टागुणोदाहृतिसत्त्वभावान्

अशेषतो नेतृदशाविभिन्नान।

को वक्तुमीशो भरतो न यो वा

यो वा न देवं शशिखण्डमौलिम् ॥७२॥

इति धनञ्जयकृतदशरूपकस्य

द्वितीयं प्रकाशं समाप्तम्

॥२॥

******

(३)

अथ तृतीयं प्रकाशम्

प्रकृतित्वादथान्येषां भूयो रसपरिग्रहात।

सम्पूर्णलक्षणत्वाच्च पूर्वं नाटकमुच्यते ॥१॥

पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते ।

प्रविश्य तद्वदपरं काव्यार्थं स्थापयेन्नटम् ॥२॥

दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोम् ।

सूचयेद्वस्तु बीजं वा मुखं पात्रमथापि वा ॥३॥

रङ्गं प्रसाद्य मधुरैं श्लोकैं काव्यार्थसूचकैम् ।

ऋतुं कञ्चिदुपादाय भारतीं वृत्तिमाश्रयेत॥४॥

भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयम् ।

भेदैं प्ररोचनायुक्तैर्वीथीप्रहसनामुखैम् ॥५॥

उन्मुखीकरणं तत्र प्रशंसातं प्ररोचना ।

वीथी प्रहसनं चापि स्वप्रसङ्गेऽभिधास्यते ॥६॥

वीथ्यङ्गान्यामुखत्वादुच्यन्तेऽत्रैव तत्पुनम् ।

सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् ॥७॥

स्वकार्यं प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ।

तत्र स्युं कथोद्घातं प्रवृत्तकम् ॥८॥

प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश ।

स्वेतिवृत्तसमं वाक्यमर्थं वा तत्र सूत्रिणम् ॥९॥

गृहीत्वा प्रविशेत्पात्रं कथोद्घातो द्विधैव सम् ।

कालसाम्यसमाक्षिप्तप्रवेशं स्यात्प्रवृत्तकम् ॥१०॥

एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतम् ।

पात्रप्रवेशो यत्रैष प्रयोगातिशयो मतम् ॥११॥

उद्घात्यकावलगिते प्रपञ्चत्रिगते छलम् ।

वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ॥१२॥

असत्प्रलापव्याहारमृदवानि त्रयोदश ।

गूढार्थपदपर्यायमाला प्रश्नोत्तरस्य वा ॥१३॥

यत्रान्योन्यं समालापो द्वेधोद्घात्यं तदुच्यते ।

यत्रैकत्र समावेशात्कार्यमन्यत्प्रसाध्यते ॥१४॥

प्रस्तुतेऽन्यत्र वान्यत्स्यात्त च्चावलगितं द्विधा ।

असद्भूतं मिथम्स्तोत्रं प्रपञ्चो हास्यकृन्मतम् ॥१५॥

श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं त्विह ।

नटादित्रितयालापं पूर्वरङ्गे तदिष्यते ॥१६॥

प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छलनाच्छलम् ।

विनिवृत्तस्य वाक्केली द्विस्त्रिं प्रत्युक्तितोऽपि वा ॥१७॥

अन्योन्यवाक्याधिक्योक्तिं स्पर्धयाधिबलं भवेत।

गण्डं प्रस्तुतसम्बन्धिभिन्नार्थं सहसोदितम् ॥१८॥

रसोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत।

सोपहासा निगूढार्था नालिकैव प्रहेलिका ॥१९॥

असम्बद्धकथाप्रायोऽसत्प्रलापो यथोत्तरम् ।

अन्यार्थमेव व्याहारो हास्यलोभकरं वचम् ॥२०॥

दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत।

एषामन्यतमेनार्थं पात्रं चाक्षिप्य सूत्रभृत॥२१॥

प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत।

अभिगम्यगुणैर्युक्तो श्रीरोदात्तं प्रतापवान॥२२॥

कीर्तिकामो महोत्साहस्त्रय्यास्त्राता महीपतिम् ।

प्रख्यातवंशो राजर्षिर्दिव्यो वा यत्र नायकम् ॥२३॥

तत्प्रख्यातं विधातव्यं वृत्तमत्राधिकारिकम् ।

यत्तत्रानुचितं किञ्चिन्नायकस्य रसस्य वा ॥२४॥

विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत।

आद्यन्तमेवं निश्चित्य पञ्चधा तद्विभज्य च ॥२५॥

खण्डशं सन्धिसंज्ञास्तान्विभागानपि खण्डयेत।

चतुम्षष्ठिस्तु तानि स्युरङ्गानीति अपरं तथा ॥२६॥

पताकावृत्तमप्यूनमेकाद्यैरनुसन्धिभिम् ।

अङ्गान्यत्र यथालाभमसन्धिं प्रकरीं न्यसेत॥२७॥

आदौ विष्कम्भकं कुर्यादङ्कं वा कार्ययुक्तितम् ।

अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् ॥२८॥

यदा सन्दर्शयेच्छेषं कुर्याद्विष्कम्भकं तदा ।

यदा तु सरसं वस्तु मूलादेव प्रवर्तते ॥२९॥

आदावेव तदाङ्कं स्यादामुखाक्षेपसंश्रयम् ।

प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतम् ॥३०॥

अङ्को नानाप्रकारार्थसविधानरसाश्रयम् ।

अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिम् ॥३१॥

गृहीतमुक्तैं कर्तव्यमङ्गिनं परितोषणम् ।

न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत॥३२॥

रसं वा न तिरोदध्याद्वस्त्वलङ्कारलक्षणैम् ।

एको रसोऽङ्गी कर्तव्यो वीरं शृङ्गार एव वा ॥३३॥

अङ्गमन्ये रसां सर्वे कुर्यान्निर्वहणेऽद्भुतम् ।

दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् ॥३४॥

संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ।

अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत॥३५॥

नाधिकारिवधं क्वापि त्याज्यमावश्यकं न च ।

एकाहाचरितकार्थमित्थमासन्ननायकम् ॥३६॥

पात्रैस्त्रिचतुरैरङ्ग्कं तेषामन्तेऽस्य निर्गमम् ।

पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत॥३७॥

एवमङ्कां प्रकर्तव्यां प्रवेशादिपुरस्कृताम् ।

पञ्चाङ्कमेतदवरं दशाङ्कं नाटकं परम् ॥३८॥

अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् ।

अमात्यविप्रवणिजामेकं कुर्याच्च नायकम् ॥३९॥

धीरप्रशान्तं सापायं धर्मकामार्थतत्परम् ।

शेषं नाटकवत्सन्धिप्रवेशकरसादिकम् ॥४०॥

नायिका तु द्विधा नेतुं कुलस्त्री गणिका तथा ।

क्वचिदेकैव कुलजा वेश्या क्वापि द्वयं क्वचित॥४१॥

कुलजाभ्यन्तरा बाह्या वेश्या नातिक्रमोऽनयोम् ।

आभिं प्रकरणं त्रेधा सङ्कीर्णं धूर्तसङ्कुलम् ॥४२॥

लक्ष्यते नाटिकाप्यत्र सङ्कीर्णान्यनिवृत्तये ।

तत्र वस्तु प्रकरणान्नाटकान्नायको नृपम् ॥४३॥

प्रख्यातो धीरललितं शृङ्गारोऽङ्गी सलक्षणम् ।

स्त्रीप्रायचतुरङ्कादिभेदकं यदि चोच्यते ॥४४॥

एकद्वित्र्यङ्कपात्रादिभेदेनानन्तरूपता ।

देवी तत्र भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा ॥४५॥

गम्भीरा मानिनी कृच्छ्रात्तद्वशान्नेतृसङ्गमम् ।

नायिका तादृशी मुग्धा दिव्या चातिमनोहरा ॥४६॥

अन्तम्पुरादिसम्बन्धादासन्ना श्रुतिदर्शनैम् ।

अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम् ॥४७॥

नेता तत्र प्रवर्तेत देवीत्रासेन शङ्कितम् ।

कैशिक्यङ्गैश्चतुर्भिश्च युक्ताङ्कैरिव नाटिका ॥४८॥

भाणस्तु धूर्तचरितं स्वानुभूतं परेण वा ।

यत्रोपवर्णयेदेको निपुणं पण्डितो विटम् ॥४९॥

सम्बोधेनोक्तिप्रत्युक्तो कुर्यादाकाशभाषितैम् ।

सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यसंस्तवैम् ॥५०॥

भूयसा भारती वृत्तिरेकाङ्के वस्तु कल्पितम् ।

मुखनिर्वहणे साङ्गे लास्याङ्गानि दशापि च ॥५१॥

गेयं पदं स्थितं पाठ्यमासीनं पुष्पगण्डिका ।

प्रच्छेदकस्त्रिगूढं च सैन्धवाख्यं द्विगूढकम् ॥५२॥

उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च ।

लास्ये दशविधं ह्येतदङ्गनिर्देशकल्पनम् ॥५३॥

तद्वत्प्रहसनं त्रेधा शुद्धवैकृतसङ्करैम् ।

पाखण्डिविप्रप्रभृतिचेटचेटीविटाकुलम् ॥५४॥

चेष्टितं वेषभाषाभिं शुद्धं हास्यवचोऽन्वितम् ।

कामुकादिवचोवेषैं षण्ढकञ्चुकितापसैम् ॥५५॥

विकृतं. सङ्कराद्वीथ्या सङ्कीर्णं धूर्तसङ्कुलम् ।

रसस्तु भूयसा कार्यं षड्विधो हास्य एव तु ॥५६॥

डिमे वस्तु प्रसिद्धं स्याद्वृत्तयं कैशिकीं विना ।

नेतारो देवगन्धर्वयक्षरक्षोमहोरगाम् ॥५७॥

भूतप्रेतपिशाचाद्यां षोडशात्यन्तमुद्धताम् ।

रसैरहास्यशृङ्गारैं षड्भिर्दीप्तैं समन्वितम् ॥५८॥

मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितैम् ।

चन्द्रासूर्योपरागैश्च न्याय्ये रौद्ररसेऽङ्गिनि ॥५९॥

चतुरङ्कं चतुम्सन्धिर्विमर्शो डिमं स्मृतम् ।

ख्यातेतिवृत्तौ व्यायोगं ख्यातोद्धतनराश्रयम् ॥६०॥

हीनो गर्भविमर्शाभ्यां दीप्तां स्युर्डिमवद्रसाम् ।

अस्त्रीनिमित्तसङ्ग्रामो जामदग्न्यजये यथा ॥६१॥

एकाहाचरितैकाङ्को व्यायोगो बहुभिर्नरैम् ।

कार्यं समवकारेऽपि आमुखं नाटकादिवत॥६२॥

ख्यातं देवासुरं वस्तु निर्विमर्शास्तु सन्धयम् ।

वृत्तयो मन्दकैशिक्यो नेतारो देवदानवाम् ॥६३॥

द्वादशोदात्तविख्यातां फलं तेषां पृथक्पृथक।

बहुवीररसां सर्वे यद्वदम्भोधिमन्थने ॥६४॥

अङ्कैस्त्रिभिस्त्रिकपटस्त्रिशृङ्गारस्त्रिविद्रवम् ।

द्विसन्धिरङ्कं प्रथमं कार्यो द्वादशनालिकम् ॥६५॥

चतुर्द्द्विनालिकावन्त्यौ नालिका घटिकाद्वयम् ।

वस्तुस्वभावदैवारिकृतां स्युं कपटास्त्रयम् ॥६६॥

नगरोपरोधयुद्धे वाताग्न्यादिकविद्रवाम् ।

धर्मार्थकामैं शृङ्गारो नात्र बिन्दुप्रवेशकौ ॥६७॥

वीथ्यङ्गानि यथालाभं कुर्यात्प्रहसने यथा ।

वीथी तु कैशिकीवृत्तौ सन्ध्यङ्गाङ्कैस्तु भाणवत॥६८॥

रसं सूच्यस्तु शृङ्गारं स्पृशेदपि रसान्तरम् ।

युक्ता प्रस्तावनाख्यातैरङ्गैरुद्घात्यकादिभिम् ॥६९॥

एवं वीथी विधातव्या द्व्येकपात्रप्रयोजिता ।

उत्सृष्टिकाङ्के प्रख्यातं वृत्तं बुद्ध्या प्रपञ्चयेत॥७०॥

रसस्तु करुणं स्थायी नेतारं प्राकृता नराम् ।

भाणवत्सन्धिवृत्त्यङ्गैर्युक्तं स्त्रीपरिदेवितैम् ॥७१॥

वाचा युद्धं विधातव्यं तथा जयपराजयौ ।

मिश्रमीहामृगे वृत्तं चतुरङ्कं त्रिसन्धिमत॥७२॥

नरदिव्यावनियमान्नायकप्रतिनायकौ ।

ख्यातौ धीरोद्धतावन्त्यो विपर्यासादयुक्तकृत॥७३॥

दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतम् ।

शृङ्गाराभासमप्यस्य किञ्चित्किञ्चित्प्रदर्शयेत॥७४॥

संरम्भं परमानीय युद्धं व्याजान्निवारयेत।

वधप्राप्तस्य कुर्वीत वधं नैव महात्मनम् ॥७५॥

इत्थं विचिन्त्य दशरूपकलक्ष्ममार्गम्

आलोक्य वस्तु परिभाव्य कविप्रबन्धान।

कुर्यादयत्नवदलङ्कृतिभिं प्रबन्धं

वाक्यैरुदारमधुरैं स्फुटमन्दवृत्तैम् ॥७६॥

इति धनञ्जयकृतदशरूपकस्य

तृतीयं प्रकाशं समाप्तम्

॥३॥

******

(४)

चतुर्थं प्रकाशम्

विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिम् ।

आनीयमानं स्वादुत्वं स्थायी भावो रसं स्मृतम् ॥१॥

ज्ञायमानतया तत्र विभावो भावपोषकृत।

आलम्बनोद्दीपनत्वप्रभेदेन स च द्विधा ॥२॥

अनुभावो विकारस्तु भावसंसूचनात्मकम् ।

हेतुकार्यात्मनों सिद्धिस्तयों संव्यवहारतम् ॥३॥

सुखदुम्खादिकैर्भावैर्भावस्तद्भावभावनम् ।

पृथग्ब्रह्मा भवन्त्यन्येऽनुभावत्वेऽपि सात्त्विकाम् ॥४॥

सत्त्वादेव समुत्पत्तेस्तच्च तद्भावभावनम् ।

स्तम्भप्रलयरोमाञ्चां स्वेदो वैवर्ण्यवेपथूम् ॥५॥

अश्रुवैस्वर्यमित्यष्टौ स्तम्भोऽस्मिन्निष्क्रियाङ्गता ।

प्रलयो नष्टसंज्ञत्वं शेषां सुयक्तलक्षणाम् ॥६॥

विशेषादभिमुख्येन चरन्तो व्यभिचारिणम् ।

स्थायिन्युन्मग्ननिर्मग्नां कल्लोला इव वारिधौ ॥७॥

निर्वेदग्लानिशङ्काश्रमधृतिजडताहर्षदैन्यौग्र्यचिन्तास्

त्रासेर्ष्यामर्षगर्वां स्मृतिमरणमदां सुप्तिनिद्राविबोधाम् ।

व्रीडापस्मारमोहां समतिरलसतावेगतर्कावहित्था

व्याध्युन्मादौ विषादोत्सुकचपलयुतास्त्रिंशदेते त्रयश्च ॥८॥

तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदं स्वावमाननम् ।

तत्र चिन्ताश्रुनिम्श्वासवैवर्ण्योच्छ्वासदीनताम् ॥९॥

रत्याद्यायासतृट्क्षुद्भिर्ग्लानिर्निष्प्राणतेह च ।

वैवर्ण्यकम्पानुत्साहक्षामाङ्गवचनक्रियाम् ॥१०॥

अनर्थप्रतिभा शङ्का परक्रौर्यात्स्वदुर्नयात।

कम्पशोषाभिवीक्षादिरत्र वर्णस्वरान्यता ॥११॥

श्रमं खेदोऽध्वरत्यादें स्वेदोऽस्मिन्मर्दनादयम् ।

सन्तोषो ज्ञानशक्त्यादेर्धृतिरव्यग्रभोगकृत॥१२॥

अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिम् ।

अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥१३॥

प्रसत्तिरुत्सवादिभ्यो हर्षोऽश्रुस्वेदगद्गदाम् ।

दौर्गत्याद्यैरनौजस्यं दैन्यं कार्ष्ण्यामृजादिमत॥१४॥

दृष्टेऽपराधदौर्मुख्यक्रौर्यैश्चण्डत्वमुग्रता ।

तत्र स्वेदशिरम्कम्पतर्जनाताडनादयम् ॥१५॥

ध्यानं चिन्तेहितानाप्तें शून्यताश्वासतापकृत।

गर्जितादेर्मनम्क्षोभस्त्रासोऽत्रोत्कम्पितादयम् ॥१६॥

परोत्कर्षाक्षमासूया गर्वदौर्जन्यमन्युजा ।

दोषोक्त्यवज्ञे भ्रुकुटिमन्युक्रोधेङ्गितानि च ॥१७॥

अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता ।

तत्र स्वेदशिरम्कम्पतर्जनाताडनादयम् ॥१८॥

गर्वोऽबिजनलावण्यबलैश्वर्यादिभिर्मदम् ।

कर्माण्याधर्षणावज्ञा सविलासाङ्गवीक्षणम् ॥१९॥

सदृशज्ञानचिन्ताद्यैं संस्कारात्स्मृतिरत्र च ।

ज्ञातत्वेनार्थभासिन्यां भ्रूसमुन्नयनादयम् ॥२०॥

मरणं सुप्रसिद्धत्वादनर्थत्वाच्च नोच्यते ।

हर्षोत्कर्षो मदं पानात्स्खलदङ्गवचोगतिम् ॥२१॥

निद्रा हासोऽत्र रुदितं ज्येष्ठमध्याधमादिषु ।

सुप्तं निद्रोद्भवं तत्र श्वासोच्छ्वासक्रिया परम् ॥२२॥

मनं संमीलनं निद्रा चिन्तालस्यक्लमादिभिम् ।

तत्र जृम्भाङभङ्गाक्षिमीलनोत्स्वप्नतादयम् ॥२३॥

विबोधं परिणामादेस्तत्र जृम्भाक्षिमर्दने ।

दुराचारादिभिर्व्रीडा धार्ष्ट्याभावस्तमुन्नयेत।

साचीकृताङ्गावरणवैवर्ण्याधोमुखादिभिम् ॥२४॥

आवेशो ग्रहदुम्खाद्यैरपस्मारो यथाविधि ।

भूपातकम्पप्रस्वेदलालाफेनोद्गमादयम् ॥२५॥

मोहो विचित्तता भीतिदुम्खावेशानुचिन्तनैम् ।

तत्राज्ञानभ्रमाघातघूर्णनादर्शनादयम् ॥२६॥

भ्रान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीर्मतिम् ।

आलस्यं श्रमगर्भादेर्जाड्यं जृम्भासितादिमत॥२७॥

आवेगं सम्भ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो

वातात्पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गम् ।

उत्पातात्स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा

वह्नेर्धूनाकुलास्यं करिजमनु भयस्तम्भकम्पापसाराम् ॥२८॥

लज्जाद्यैर्विक्रियागुप्ताववहित्थाङ्गविक्रिया ।

व्याधयं सन्निपाताद्यास्तेषामन्यत्र विस्तरम् ॥२९॥

अप्रेक्षाकारितोन्मादं सन्निपातग्रहादिभिम् ।

अस्मिन्नवस्था रुदितगीतहासासितादयम् ॥३०॥

प्रारब्धकार्यासिद्ध्यादेर्विषादं सत्त्वसङ्क्षयम् ।

निम्श्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत॥३१॥

कालाक्षमत्वमौत्सुक्यं रम्येच्छारतिसम्भ्रमैम् ।

तत्रोच्छ्वासत्वराश्वासहृत्तापस्वेदविभ्रमाम् ॥३२॥

मात्सर्यद्वेषरागादेश्चापलं त्वनवस्थितिम् ।

तत्र भर्सनपारुष्यस्वच्छन्दाचरणादयम् ॥३३॥

विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यम् ।

आत्मभावं नय्त्यन्यान्स स्थायी लवणाकरम् ॥३४॥

रत्युत्साहजुगुप्सां क्रोधो हासं स्मयो भयं श्लोकम् ।

शममपि केचित्प्राहुं पुष्टिर्नाट्येषु नैतस्य ॥३५॥

निर्वेदादिरताद्रूप्यादस्थायी स्वदते कथम् ।

वैरस्यायैव तत्पोषस्तेनाष्टौ स्थायिनो मताम् ॥३६॥

वाच्या प्रकरणादिभ्यो बुद्धिस्था वा यथा क्रिया ।

वाक्यार्थं कारकैर्युक्ता स्थायी भावस्तथेतरैम् ॥३७॥

रसं स एव स्वाद्यत्वाद्रसिकस्यैव वर्तनात।

नानुकार्यस्य वृत्तत्वात्काव्यस्यातत्परत्वतम् ॥३८॥

द्रष्टुं प्रतीतिव्रीडेर्ष्यारागद्वेषप्रसङ्गतम् ।

लौकिकस्य स्वरमणीयुक्तस्येव दर्शनात॥३९॥

धीरोदात्ताद्यवस्थानां रामादिं प्रतिपादकम् ।

विभक्तियोग्रत्यादीन्स्वदन्ते रसिकस्य ते ॥४०॥

ता एव च परित्यक्तविशेषो रसहेतवम् ।

क्रीडतं मृण्मयैर्यद्वद्बालानां द्विरदादिभिम् ॥४१॥

स्वोत्साहं स्वदते तद्वच्छ्रोत्èणामर्जुनादिभिम् ।

काव्यार्थभावनास्वादो नर्तकस्य न वार्यते ॥४२॥

स्वादं काव्यार्थसम्भेदादात्मानन्दसमुद्भवम् ।

विकासविस्तरक्षोभविक्सेपैह्स चतुर्विधह॥४३॥

शृङ्गारवीरबीभत्सरौद्रेषु मनसं क्रमात।

हास्याद्भुतभयोत्कर्षकरुणानां त एव हि ॥४४॥

अतस्तज्जन्यता तेषामत एवावधारणम् ।

शमप्रकर्षोऽनिर्वाच्यो मुदितादेस्तदात्मता ॥४५॥

पदार्थैरिन्दुनिर्वेदरोमाञ्चादिस्वरूपकैम् ।

काव्याद्विभावसञ्चार्यनुभावप्रख्यतां गतैम् ॥४६॥

भावितं स्वदते स्थायी रसं स परिकीर्तितम् ।

लक्षणैक्यं विभावैक्यादभेदाद्रसभावयोम् ॥४७॥

रम्यदेशकलाकालवेषभोगादिसेवनैम् ।

प्रमोदात्मा रतिं सैव यूनोरन्योन्यरक्तयोम् ।

प्रहृष्यमाणा शृङ्गारो मधुराङ्गविचेष्टितैम् ॥४८॥

ये सत्त्वजां स्थायिन एव चाष्टौ

त्रिंशत्त्रयो ये व्यभिचारिणश्च ।

एकोनपञ्चाशदमी हि ब्रह्मा

युक्त्या निबद्धां परिपोषयन्ति ।

आलस्यमौग्र्यं मरणं जुगुप्सा

तस्याश्रयाद्वैतविरुद्धमिष्टम् ॥४९॥

अयोगो विप्रयोगश्च सम्भोगश्चेति स त्रिधा ।

तत्रायोगोऽनुरागोऽपि नवयोरेकचित्तयोम् ॥५०॥

पारतन्त्र्येण दैवाद्वा विप्रकर्षादसङ्गमम् ।

दशावस्थं स तत्रादावभिलाषोऽथ चिन्तनम् ॥५१॥

स्मृतिर्गुणकथोद्वेगप्रलापोन्मादसंज्वराम् ।

जडता मरणं चेति दुरवस्थं यथोत्तरम् ॥५२॥

अभिलाषं स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे ।

दृष्टे श्रुते वा तत्रापि विस्मयानन्दसाध्वसाम् ॥५३॥

साक्षात्प्रतिकृतिस्वप्नच्छायामायासु दर्शनम् ।

श्रुतिर्व्याजात्सखीगीतमागधादिगुणस्तुतेम् ॥५४॥

सानुभावविब्रह्मास्तु चिन्ताद्यां पूर्वदर्शिताम् ।

दशावस्थत्वमाचार्यैं प्रायोवृत्त्या निदर्शितम् ॥५५॥

महाकविप्रबन्धेषु दृश्यते तदनन्तता ।

दृष्टे श्रुतेऽभिलाषाच्च किं नौत्सुक्यं प्रजायते ॥५६॥

अप्राप्तौ किं न निर्वेदो ग्लानिं किं नातिचिन्तनात।

विप्रयोगस्तु विश्लेषो रूढविस्रम्भयोर्द्विधा ॥५७॥

मानप्रवासभेदेन मानोऽपि प्रणयेर्ष्ययोम् ।

तत्र प्रणयमानं स्यात्कोपावसितयोर्द्वयोम् ॥५८॥

स्त्रीणामीर्ष्याकृतो मानं कोपोऽन्यासङ्गिनि प्रिये ।

श्रुते वानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात॥५९॥

उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितम् ।

त्रिधानुमानिको दृष्टं साक्षादिन्द्रियगोचरम् ॥६०॥

यथोत्तरं गुरुं षड्भिरुपायैस्तमुपाचरेत।

साम्ना भेदेन दानेन नत्युपेक्षारसान्तरैम् ॥६१॥

तत्र प्रियवचं साम भेदस्तत्सख्युपार्जनम् ।

दानं व्याजेन भूषादें पादयों पतनं नतिम् ॥६२॥

सामादौ तु परिक्षीणे स्यादुपेक्षावधीरणम् ।

रभसत्रासहर्षादिं कोपभ्रंशो रसान्तरम् ॥६३॥

कोपचेष्टाश्च नरिनं प्रगेव प्रतिपदितह।

कार्यतं सम्भ्रमाच्छापात्प्रवासो भिन्नदेशता ॥६४॥

द्वयोस्तत्राश्रुनिम्श्वासकार्श्यलम्बालकादिता ।

स च भावी भवन्भूतस्त्रिधाद्यो बुद्धिपूर्वकम् ॥६५॥

द्वितीयं सहसोत्पन्नो दिव्यमानुषविप्लवात।

स्वरूपान्यत्वकरणाच्छापजं सन्निधावपि ॥६६॥

मृते त्वेकत्र यत्रान्यं प्रलपेच्छोक एव सम् ।

व्याश्रयत्वान्न शृङ्गारं प्रत्यापन्ने तु नेतरम् ॥६७॥

प्रणयायोगयोरुत्का प्रवासे प्रोषितप्रिया ।

कल्हान्तरितेर्ष्यायां विप्रलब्धा च खण्डिता ॥६८॥

अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ ।

दर्शनस्पर्शनादीनि स सम्भोगो मुदान्वितम् ॥६९॥

चेष्टास्तत्र प्रवर्तन्ते लीलाद्या दश योषिताम् ।

दाक्षिण्यमार्दवप्रेम्णामनुरूपां प्रियं प्रति ॥७०॥

रमयेच्चाटुकृत्कान्तं कलाक्रीडादिभिश्च ताम् ।

न ग्राम्यमाचरेत्किञ्चिन्नर्मभ्रंशाकरं न च ॥७१॥

वीरं प्रतापविनयाध्यवसायसत्त्व

मोहाविषादनयविस्मयविक्रमाद्यैम् ।

उत्साहभूं स च दयारणदानयोगात्

त्रेधा किलात्र मतिगर्वधृतिप्रहर्षाम् ॥७२॥

बीभत्सं कृमिपूतिगन्धिवमथुप्रायैर्जुगुप्सैकभूर्

उद्वेगी रुधिरान्त्रकीकसवसामांसादिभिं क्षोभणम् ।

वैराग्याज्जघनस्तनादिषु घृणाशुद्धोऽनुभावैर्वृतो

नासावक्त्रविकूणनादिभिरिहावेगार्तिशङ्कादयम् ॥७३॥

क्रोधो मत्सरवैरिवैकृतमयैं पोषोऽस्य रौद्रोऽनुजम्

क्षोभं स्वाधरदंशकम्पभ्रुकुटिस्वेदास्यरागैर्युतम् ।

शस्त्रोल्लासविकत्थनांसधरणीघातप्रतिज्ञाग्रहैर्

अत्रामर्षमदौ स्मृतिश्चपलतासूयौग्र्यवेगादयम् ॥७४॥

विकृताकृतिवाग्वेषैरात्मनोऽथ परस्य वा ।

हासं स्यात्परिपोषोऽस्य हास्यस्त्रिप्रकृतिं स्मृतम् ॥७५॥

स्मितमिह विकासिनयनं,

किञ्चिल्लक्ष्यद्विजं तु हसितं स्यात।

मधुरस्वरं विहसितं,

सशिरम्कम्पमिदमुपहसितम् ॥७६॥

अपहसितं सास्राक्षं,

विक्षिप्ताङ्गं भवत्यतिहसितम् ।

द्वे द्वे हसिते चैषां

ज्येष्ठे मध्येऽधमे क्रमशम् ॥७७॥

निद्रालस्यश्रमग्लानिमूर्च्छाश्च सहचारिणम् ।

अतिलोकैं पदार्थैं स्याद्विस्मयात्मा रसोऽद्भुतम् ॥७८॥

कर्मास्य साधुवादाश्रुवेपथुस्वेदगद्गदाम् ।

हर्षावेगधृतिप्राया भवन्ति व्यभिचारिणम् ॥७९॥

विकृतस्वरसत्वादेर्भयभावो भयानकम् ।

सर्वाङ्गवेपथुस्वेदशोषवैवर्ण्यलक्षणम् ।

दैन्यसम्भ्रमसम्मोहत्रासादिस्तत्सहोदरम् ॥८०॥

इष्टनाशादनिष्टाप्तौ शोकात्मा करुणानुतम् ।

निम्श्वासोच्छ्वासरुदितस्तम्भप्रलपितादयम् ॥८१॥

स्वापापस्मारदैन्याधिमरणालस्यसम्भ्रमाम् ।

विषादजडतोन्मादचिन्ताद्या व्यभिचारिणम् ॥८२॥

प्रीतिभक्त्यादयो ब्रह्मा मृगयाक्षादयो रसाम् ।

हर्षोत्साहादिषु स्पष्टमन्तर्ब्रह्मान्न कीर्तिताम् ॥८३।

षट्त्रिंशद्भूषणादीनि सामादीन्येकविंशतिम् ।

लक्ष्यसन्ध्यन्तराख्यानि सालङ्कारेषु तेषु च ॥८४॥

रम्यं जुगुप्सितमुदारमथापि नीचम्

उग्रं प्रसादिगहनं विकृतं च वस्तु ।

यद्वाप्यवस्तु कविभावकभाव्यमानं

तन्नास्ति यन्न रसभावमुपैति लोके ॥८५॥

विष्णों सुतेनापि धनञ्जयेन

विद्वन्मनोरागनिबन्धहेतुम् ।

आविष्कृतं मुञ्जमहीशगोष्ठी

वैदग्ध्यभाजा दशरूपमेतत॥८६॥

इति धनञ्जयकृतदशरूपकस्य

चतुर्थं प्रकाशं समाप्तम्

॥४॥

**********

]