कविकल्पलता

[[कविकल्पलता Source: EB]]

[

[TABLE]

.

[TABLE]

.

[TABLE]

.

**कविकल्पलतायाः सूचीपत्रम्

.

**विषयः
मङ्गलाचरणम्
शब्दस्तवके छन्दोऽभ्यासः
शब्दस्तवकेसामान्यशब्दः
शब्दस्तवकेवर्णस्थितिः
शब्दस्तवकेअनुप्रासः
श्लेषस्तवके उद्दिष्टवर्णनम्
श्लेषस्तवकेवर्ण्यवर्णनम्
श्लेषस्तवकेप्रकीर्णम्
श्लेषस्तवकेसंख्या
श्लेषस्तवकेरूढ़ियौगिकमिश्राः
कथास्तवके राजदर्शनम्
कथास्तवकेगङ्गास्तुतिः
कथास्तवकेभगवत्पादानुभाषणम्
कथास्तवकेविप्रसम्भाषणम्
कथास्तवकेतडागादिवर्णनम्
कथास्तवकेवादितर्जनम्
अर्थस्तवके अर्थोत्पादनम्
अर्थस्तवकेअद्भुतम्
अर्थस्तवकेचित्रम्
अर्थस्तवकेसादृश्यम्
अर्थस्तवकेरूपकादिकम्
अर्थस्तवकेसमस्यापूरणोपायः
अर्थस्तवकेसमस्याः

इति सूचीपत्रंसमाप्तम्।
_____

कविकल्पलता।

<MISSING_FIG href="../books_images/U-IMG-1697105441Untitled113.png"/>

गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखाः
रत्नैःकोरकिताःसितांशकलया स्मेरैकपुष्पश्रियः ।
आनन्दाश्रुपरिप्लुताक्षिहुभुग्धूमैर्मिलद्दोहदां
नाल्पंकल्पलताः फलं ददतु वोऽभीष्टं जटा धूर्जटेः॥

मालवेन्द्रमहामात्यः श्रीमद्वाग्भटनन्दनः ।
देवेश्वरःप्रतनुते कविकल्पलतामिमाम्॥

प्रतिभा-भावितात्मानः कवित्वं केन कुर्व्वते ।
अन्ये तु कविताधानकुशला विरलाःपुनः॥

यदन्यैर्वन्धैर्नक्षुणंतत्र सञ्चरतो मम ।
पदे पदे प्रस्खलतः सन्तः सन्त्ववलम्बनम्॥

कविशिक्षाशतं वीक्ष कवीन्द्रानुपजीव्य च ।
निवद्धेयं मया धीरास्त्वरितश्लोकसिद्ध्ये॥

सुवृत्तरम्यस्तवका सदालिपरिशीलिता ।
कविकल्पलताख्येयं कविशिक्षा निषेव्यताम्॥

शब्द-श्लेष-कथार्थाख्याश्चत्वारः स्तवका इष्ट।
ते चतुः-पञ्च-षट्-सप्त-कुसुमैरन्विताः क्रमात्॥

तत्राद्यस्तवके छन्दोऽभ्यासःसामान्यशब्दकाः ।
वर्णस्थितिरनुप्रासः कुसुमानि यथाक्रमम्॥

अथ शब्दस्तवके छन्दोऽभ्यासः ।

छन्दोऽभ्यासप्रसूनेऽत्न नेत्रभूता विपश्चिताम् ।
ऋष्यन्ते केऽपि शब्दायैच्छन्दो मन्दोऽपि विन्दति॥

श्रीर्लक्ष्मीःकमला पद्मालया च हरिवल्लभा ।
दुग्धाब्धितनया क्षीरसागरापत्यमित्यपि॥

क्षीरपाथोधितनयेत्येवमेकाक्षरादिकम्॥

आदौसाध्यं पदं स्थाप्यं शेषं कुर्य्याद्विशेषणेः ।
विशेष्यार्थोवर्णाकाराधाराधेयक्रियागुणैः।
सादृश्यपरिवाराद्यैः क्रियेत सविशेषणः॥

यथा सुधांशुर्धवलोऽतिवृत्तः क्रान्तान्तरिक्षो हरिषं दधानः ।
महत्तमोघ्नन् जनतापद्वारीमृगेन्द्रवद्राजति ऋक्षमध्ये॥

बन्धुश्चौरः सुहृद् वादी कल्पःप्रख्यः प्रभः समः ।
देशीय-देश्य-विप्राभाःसोदराद्याइवार्थकाः॥

यथेन्दुबन्धु र्मुक्ता-श्री-चौरो हार-श्रियः सुहृत् ।
कुन्दवादी हंसकल्पः चौरप्रख्यो हिमप्रभः॥

गङ्गासमोऽब्जदेशीयः शेषदेश्यः सुधारिपुः ।
विषाभस्ते यशोराशिः कैलासोदरसोदरः॥

कथानगर सर्वार्थनित्यक्वत्यादिवर्णनैः।
लोकानां दृष्टचेष्टाभिश्छन्दोऽभ्यासक्रमो यथा॥

आसीद्दशरथो राजा चत्वारस्तस्य सूनवः ।
राम-लक्ष्मण-भरत-शत्रुघ्नाचेति विश्रुताः॥

ध्वस्तधान्तभरं रत्नवेश्म विस्रोररश्मिभिः ।
राजधानी दिनस्येव तत्पुर द्योतते सदा॥

स्थाली भात्यन्त्रपूर्णेयमर्णोभिः शोभते घटः।
पटः संतक्ष्यते सूक्ष्मः साक्षाल्लक्ष्मीरियं वधूः॥

प्रातः कृतश्रमः स्नातोऽर्चितदेवो हुतानलः ।
भुक्तान्नः श्रुतमच्छास्त्रः सायं शय्यागृहं ययौ॥

पुष्पाणि पाणिदेशेऽसौ क्वत्वा क्रीड़ति कामुकः।
ताम्बलिकोऽत्र ताम्बलमस्य पयार्पयत्यसी॥

तदर्थान्यपदैश्चान्यश्लोकस्य परिवर्त्तनात्।
तत्रैव छन्दस्यभ्यस्येदय छन्दोऽन्तरे यथा॥

प्रत्यर्थिपृथिवीपाल तमोजालदिवाकरः।
नीतिव्रततिपर्य्यन्यो राजते पृथिवीपतिः॥

प्रत्यणीकावनीकान्तध्वान्तविध्वंसनांशुमान्।
नयवल्लीनवाम्भोदः शोभते भूमिवल्लभः॥

व्रत्यर्थिपृथ्वीहृदयाधिनाथध्वान्तीधविध्वंसप्नघासरेशः।
सन्नीतिवल्लीनववारिवाहो विश्वम्भराया दयितो विभाति॥

दुर्धरारिधरणीधरोद्धतध्वान्तमण्डलत्रिखण्डनांशमान्।
नीतिवल्लीनच नूतनाम्बुदो मेदिनीपरिवृढ़ोऽधिराजते॥

यतिभङ्गो नामधातुभागभेदे भवेत् यथा।
पुनातु नरकारिश्चक्रभूषित-कराम्बुजः॥

दिविषद्वन्दवन्द्यं वन्दे गोविन्दपदाम्बुजम्।
स्वरसन्धौ तु न श्रीशोऽस्तु भूत्यै भवतो यथा॥

न स्याद्विभक्तिभेदे भात्येष राजेति कुत्रचित्।
कचित्तु स्याद् यथा देवाय नमश्चन्द्रमौलये॥

चादयो न प्रयोक्तव्या विच्छेदात् परतो यथा।
नमः शिवाय कृष्णाय च दानवविनाशिने॥

एकस्वरोपसर्गेण विच्छेदः श्रुतिसौख्यहृंत्।
यथा पिनाकपाणिं प्रणमामि स्मरनाशनम्॥

एवं यथायथोद्वेगः सुधियां नोपजायते।
तथा तथा मधुरतानिमित्तं यतिरिष्यते॥

अवाद्धार्थापि मधुरा मनो हरति भारती।
तमोनिचयशङ्खाशा मञ्जुला देवकोकिलाः॥

इति शब्दस्तवके छन्दोऽभ्यासो नाम प्रथमं कुसुमम्।

अथ शब्दस्तवके सामान्यशब्दः।

सामान्यशब्दाः केथ्यन्ते क्रमादेकाक्षरादयः।

श्री भो हे हि नु निः मं नि ग्रं वि प्राक् ट्राक् सुसद् यथा॥

श्रीकृष्ण भोःकेशव हे हरे ट्राङ्रिष्पीड़ितारो सुमतिं प्रयच्छ।
निकाममासेव्य विभासि नु त्वं सद्योगिनां चेतसि सङ्गतो हि॥

इत्येकाक्षरम्।

स्फुटं स्फूर्य्यत् स्फुरत् स्फारं सारं तारं वरं परम्।
प्राग्र्यंप्राज्यं प्रियं प्रेष्ठं ज्येष्ठं श्रेष्ठं मुहुर्बहु॥

कीर्त्त्यंकाभ्यं काम्नं कान्तं मञ्जु मंक्षु महन् मिलत्।
वाढ़ं गाढ़ं दृढ़ं प्रौढ़ं वल्गुबल्गात् ललत् लसत्॥

स्वैरं सम्यक् सदा शश्वत् सत्यं नित्यं ध्रुवं द्रुतम्।
ध्रर्य्यं वर्य्यंपुनः प्रायः सुष्ठुसद्यो भृशं लसत्॥

ननु नाम किल क्रीडत् चञ्चत् चारु जेवात् खलु।
श्रीमत् प्रौच्चैः शनैर्माद्यत् रिङ्गद्राजच्चिरं परि॥

इति द्वाक्षरम्।

झटिति प्रकटं संपदि प्रसभं निविडं सुभगं सुचिरं प्रवरम।
विहसद्विकसद् विलसद् विचरद् विमलं सकलं बहुलं प्रवलम्॥

सर्वदा सर्वथा सर्वतः शीघ्रतः सत्वरं सेन्ततं निश्चितं वेगतः।
उच्चकैरञ्जसा नित्यशः सुन्दरं पेशलं मञ्जुलं प्रोल्लसत् विस्फुरत्॥

प्रोद्दामद् विभ्राजदुत्तुङ्गद् विस्फूर्ज-
दुत्तान शोभाढ्य विस्फार विक्रीड़त्।
सच्छाय सच्छोभ निःशङ्ग निःशेष-
मित्थंबुधैस्त्यक्षराणि प्रयोज्यानि॥

इति त्र्यक्षरम्।

मनोरमं मनोहरं समन्ततः समीहितम्।
वरद्युति स्फुरत्प्रभं महोज्ज्वलं जलुच्छवि॥

रयादेव जयादेव सर्वकालं सुनिश्चितम्।
स्फारशोभं प्रभायुक्तां स्फुरच्छायं श्रियान्वितम्॥

वराभोगं वरश्रीकं लसत्कान्ति स्फुरद्यशः।
घनच्छायं झटित्येव शोभायुक्तं विकस्वरम्॥

इति चतुरक्षरम्।

प्रवरश्रीकं रुचिरच्छायं स्फुटलक्ष्मीकं बहुलश्रीमत्।
कलया युक्तं विलसद्रोचिः प्रचुरज्योतिर्द्युतिरोचिष्णुः॥

विलसच्छवि प्रसरत्प्रभं प्रसरद्रसं सुषमाभयम्।
बहुवैभवं रुचिभासुरं कलयान्वितं बलवर्जितम्॥

स्फुरितोदयं खचितं श्रिया विकटोच्छ्रयं प्रमदालयम्।
धनविभ्रमं भुवनाद्भुतं वरदीधिति द्युतिसुन्दरम्॥

इति पञ्चाक्षरम्।

अद्भुतवैभव भक्षिमहोत्सव मुज्जलभाषित भूरितरद्युति।
कान्तिनिकेतन मिद्धतमाकृति चारुतरद्युति सुन्दरदीधिति।
मनोहरच्छायमुदञ्चितद्युति स्फुरत्प्रभाचारु घनश्रियान्वितम्।
ससुल्लसत्कान्ति विभाविताकृति नियोज्यमेवन्तु षड़क्षरं पदम्॥

इति षड़क्षरम्।

ससुल्लसितशोभाढ्यो रोचिर्निचयरोचिसः।
चारुचञ्चतृपलाशाक्षी कान्तिकान्तिनिकेतनम्॥

वल्गुवल्गद्वपुर्लक्ष्मीर्मंहामहिममन्दिरम्।
आभासम्भारसंशोभी दीप्तिमण्डलमण्डितः॥

प्रभाप्राग्भारसारश्रीरुद्यद्धृद्यतरद्युतिः।
मनोरमतमच्छायो विभावैभवशोभितः॥

चमत्कारकरस्फारः प्रभाप्राम्भावभासुरः।
मनोरमतमक्रीड़त् कान्तिमण्डलमण्डितः॥

मनोहरतरस्फूर्ज दुर्जस्वलकलोज्वलः।

अत्यद्भुतवपुर्लक्ष्मीक्षोभितक्षितिमण्डलः॥

मनोहरतरोच्छाय कायच्छायाचयान्वितः।
प्रीतिस्फीतिकरप्रेङ्गत् प्रभासंहतिसंहितः॥

विस्फुरद्रश्मिविस्मेर विस्मयाविष्टविष्टपः।
नयनानन्दनोद्दाम रमणीयकमन्दिरम्॥

इत्यष्टाक्षरम्।

अवनीतलवर्त्तिदृशाममृतांशः सम्पदेकंकुलगेहम्।
चित्ताकर्ष महौषधिवासः कीर्त्तिकेतक्याः॥

परिस्फुरत्कान्तिभरप्रचारकः स्वपीड़नेनापि परोपकारकः।
समीपभाजां हृदयैकहारकः स्वभावसौन्दर्य्य विशेषभूषकः॥

जगत्प्रमोदोदयदानसज्जनः शुभौघलब्ध प्रबल प्रशसनः।
नियन्त्रितनिकमनस्तुरङ्गमः स्थिरीकृतालोककदृग्विहङ्गमः॥

प्रमोदपात्नीकृतसर्वभूतलः प्रतिक्षणक्षीणगुणोर्म्मिशीतलः।
समुल्लंसद्दीधितिपुञ्जमञ्जुलः समस्तचित्तोत्सवकृत् स्वभावतः॥

जगत्त्रयैकान्तमनोज्ञताभूरनन्यसाधारणकान्तिकान्तः।
अव्याजमाधुर्थ्यसुधानिधानं मनोविहङ्गाहरणैकपाशः॥

निरवद्यसमुद्यदुज्ज्वलस्वगुणश्रेणिमनोहराकृतिः।
त्रिजगज्जनचित्तचित्रकृन्नयनानन्दसिताम्रवर्त्तिका॥

अवनीतलवर्त्तिलोचनामृतवर्त्तिः प्रमदैकमन्दिरम्।
घनविस्मयचित्रशालिका हृदयाम्भोरुहभानुमण्डलः॥

हृद्यतरद्युति वारिपयोधिर्लोकविलोचनशीतमयूखः।
चारुतमापघनौघनिवेशो भूवलयस्थितविस्मयहेतुः॥

मुख्यस्वामीसम्पदां सम्मदानां लीलाशालाभाविताभावितानैः।
पुंसां नेत्रक्षेत्रपीयूषवृष्टिर्विश्योद्दामाश्चर्य्यहर्य्यक्षशैलः॥

उद्यदुज्ज्वलगुणौध मेदुरो रामणीयक विलासमन्दिरम्।
सुन्दरावयवसन्निवेशनः कान्तिकान्तभरभासुराकृतिः॥

गुणमणिप्रकरैकमहोदधिः सकललोकविलोचनचन्द्रमाः।
विलसदुज्वलकान्तिनिकेतनं सहृदयौघचमत्कृतकारणम्॥

लसदङ्गरुचिप्रचयेन युतो नयनौघमधुव्रतफुल्लवनम्।
सहृदयाब्जविजृम्भणतीक्ष्णकरो घनविस्मयसम्मदवासगृहम्॥

तडित्पुज्जमञ्जुप्रसर्पतप्रतीकप्रभापूरदूरावधूतान्धकारः।
मनोमीनहर्षप्रकर्षैकवर्षं दृगम्भोरुहानन्दसन्दोहहेतुः॥

अखिलजगदवेक्ष्यमाणलक्ष्मीः स्वगुणविराजिभिरङ्गकैः प्रशस्यः।
वसतिरतिवलक्षपक्षन्द्रप्रकरविजित्वरकीर्त्तिकौमुदीनाम्॥

निःशेषलोकपरितोषकरस्वरूपः
शोभान्वितावयवसुन्दरसन्निवेशः।
दूरं निरस्तखलदूर्वचनावकाशो
व्याजृम्भमाणगुणसंग्रहणप्रवीणः॥

प्रव्यक्त तत्तदखिलावयवानवद्यः
प्रोद्यन्निजोज्वलगुणप्रकराभिरामः।
आनन्दिभिः सहृदयैरभिनन्द्यमानः
सुप्रक्रियाभिरभितः सुविराजमानः॥

कुतुकतरलचित्तैः सज्जनैःस्तूयमान-
स्त्रिभुवनजननेत्रक्षेत्रपीयूषदृष्टिः।
प्रविकलसमुदञ्चद्रूपसम्पन्निधानं
सकलमलविमुक्तः साधुवादेन युक्तः॥

सुखरखरखरोक्तिध्वान्तविध्वंसनेन्दु-
र्विलसदमलकायव्यापृतानन्तकान्तिः।
अननुगुणमणिश्रीश्रेणिविश्रामधाम-
क्षयितनिखिलदोषःसर्वसन्तोषहेतुः॥

समुद्यत्प्रत्यङ्गं प्रसृमरमनोज्ञद्युतिरो
मनोमीनाकृष्टि प्रबलवड़िशं कामभृगयोः।

घनाश्चर्य्यस्थानं जगति कुतुकोत्तानितदृशां
नराणामानन्दामृतलहरि दुग्धाम्बुधिरयम्॥

उच्चैश्चेतोहरिणहरणास्वर्वगन्धर्वगीतम्।
तं तं नेत्रावलिमधुलिहां माकरन्दप्रवाहः।
सर्वाश्चर्य्यप्रदसमुदयद्रूपसम्पन्निधानं
चञ्चत्कान्तिप्रचयनिचयच्छन्नसम्पन्नगात्रः॥

सकलजनताचित्ताश्चर्य्यप्रदप्रकटोल्लसन्-
मधुरिमपरीपाकोद्रेकस्फुरं द्युतिसुन्दरः।
नयनललितानन्दोल्लासग्रहाधिपमण्डलो
मिलदवयवश्रीरोचिष्णुर्निजान्वयभूषणम्॥

लसद्घनरसच्छटानयनमीनयोर्जन्मिना-
मुदञ्चदतिसुन्दर प्रसृमर प्रभाभास्वरः।
अनन्तगुणमन्दिरं सुभगतालतामण्डपः
समस्तजनविस्मयप्रदससुल्लसत्स्वाकृतिः॥

अवयवसन्निवेश जितसर्वमनोज्ञचयो
घनवसुधाजनेक्षण सुधारससेचनकम्।
सहृदयमानसाम्बुजविजृह्मणतीक्ष्णकरो
द्युतिभरभाविताकृतितयातिचमत्कृतिकृत्॥

सर्वावद्यनिवारकः कृतपरीरम्भः समस्तैर्गुणै-
रानन्दैकनिदानमालवपतिःक्ष्मावासिराशिस्तुतः।
उन्मीलन्निजकान्तिकेतकसमाकृष्टाक्षिपुष्पाक्षयो-
र्विद्यन्मानसराजहंसविसरावासाय सौधं सरः॥

सान्द्रानन्दसुधासमुद्रलहरी साम्राज्यमग्नात्मभिः
सर्वैः सर्वकलाकलापकुशलैः साकाङ्क्षमुद्वीक्षतः।
उद्यद्धृद्यतरोरुकान्तिपटली विन्यासरम्वाकृतिः
साधारण्यपदव्यतीतसहजोन्मीलत्तनुश्रीभरः॥

अङ्गप्रत्यङ्गरङ्गत् प्रचुरतरमहाकान्तिभाराभिरामो
निर्व्याजभ्राजमानानुगुणनिजगुणग्रामविश्रामधाम।
लोकैगलोकमानःप्रमदजनपरिव्यक्तनेचारविन्दै-
रानन्दस्यैकसौधःसकलवसुमतीमण्डलीसारभूतः॥

एवं साधारणैः शब्दै रौचित्येन निवेशितैः।
दक्षैच्छन्दःसु सर्वेषु कर्त्तव्यं पदयोजनम्॥

अथ संस्कृतप्राकृतयोः समाः।

हाराहार विहार सार सरसाःसम्भोगरोगासुराः
संहारामर वारवारण गणाष्टङ्कार ताराकराः।
लोलोल्लोलविलास वायसहराहङ्गार हीराङ्कुरा
नौहारोरगराग ताल तरला गोविन्द कन्दोदराः॥

तरुणतरणिदासा मोहसन्दोहभासाः
खुरखरतरुघासाः वासरारम्भहासाः।
कर करि किरि कीराःकोल कल्लोल धीरा
मलमलयकरीरा वामदेवासि वीराः॥

नरनरककङ्का देण्डचण्डालरङ्का
दर-सरल-कलङ्काःकम्बलाकारपङ्काः।
खलबहुलकुरङ्गा देहसन्देहसङ्काः
पर-कुरर-तरङ्गाश्चारुसञ्चारभङ्गाः॥

अरिहरि-परिणाहाः कण्ठ-कुण्ठाहिदाहाः
परिसर परिणाहा मञ्जु-मञ्जीर-वाहाः।
अचल-कुलकुमाराः कुम्भकुम्भीरसाराः
विरल-कवलजाराः सुन्दरोदारपाराः॥

जम्बीर केशरि वराह सुरीरि कालाः
काकोल कुन्तल चमूरुविराम वालाः।
आलोल बाहु रण सङ्गर चोल तालाः

संसार केरल समीरण टङ्क भालाः॥

आसार चामर कुलीर तुरङ्ग सूराः
कङ्काल कन्दल कराल विकासपूराः।
हेरम्ब कम्बु विधु सिन्धु बुधानुबन्धाः
कुन्देन्दु मन्दर समीर समूह गन्धाः॥

भीमाङ्कशङ्कर किरीट तमाल कुञ्जा
हिन्ताल तोमर महीरुह विम्ब पुञ्जाः।
हिण्डीर पिण्ड वर सम्बर कोण काणाः
संरम्भ सोम परिरम्भ विकार वाणाः॥

वसन्तावास वेशन्त वासवासव वासराः
कासार सार सरसाःकिरणारुणवारणाः॥

एते पुंलिङ्गाः।

हेला खेला कला माला रसाला काहलाऽचला।
कीला लीला ऽवला बाला लोला दोला वसा मसी॥

धरणी धारण़ीगोणी रोहिणी रमणी मणी।
वीणा वाणी रमा वेणी रीढ़ा गङ्गा तरङ्गिणी॥

कन्दली लहरी नारी रामा मेरी वसुन्धरा।
काली कराली चामुण्डा चण्डा रण्डा तुला मही॥

एते स्त्रीलिङ्गाः।

जल फल पल मूलं वारि कीलाल तूलं
वन पलल टुकूलं लिङ्ग गम्भीर कूलं
सलिल कमल चीरं तुच्छ राजीव नीरं
हल रजत कुटीरं दारु नालं पटीरम्।
कारणं रोहणं चेलं कुहराम्बर मन्दिरम्।
कुड्मलं मण्डलं तामरसं कुण्डलमङ्गदम्॥
पुरारविन्द लोहाङ्ग तड़ाग करणं कुलम्।

तोरणं मरणं तुङ्ग मलमागार भासुरम्॥

एते नपुंसकलिङ्गाः।

भण देहि गच्छ संहर कुरु चोरयमारयावगच्छेहि।
अवलोकयावचिन्तय स्वादय चेति धातुजं विद्धि॥

अथ निरोष्ठ्याः।

नीहार हार हरिणाङ्ग हराट्टहास
कैलास काम रद नारद सिंह सङ्घाः।
शेषाहि हंस घनसर हरीन्द्र नाग
हिण्डीर निर्झर शरद्घन चन्द्रकान्ताः॥

शृङ्गार सागर तड़ाग जड़ाग याग
हर्य्यक्षतक्षक नख क्षत दाक्षिताक्षाः॥

नाराच काच कच कीचक चञ्चरीक
चाणक्य चारण गण क्षण काण शोणाः।
संसार सार सरलारि रसाल साल
कङ्काल काल कलि शैल खलालकार्काः॥

किञ्जल्क कल्क कर शङ्कर कीर हीर
लङ्गेश केश गर केशव देश लेशाः।
आनन्द नन्दन धनञ्जय खञ्जरीटाः
कीटाग्नि कण्टक कटाह कटाक्ष यक्षाः॥

दक्षाङ्ग यज्ञ जनकाञ्जलि यन्त्र यत्ना
रत्नाकरान्धक धराधर धीर सीराः।

एते पुंलिङ्गाः।

गङ्गा गीता सती सीता सिद्धिः स गया गदा।
आशीःकाशीनिशा नासा कान्तिः शान्तिर्दया वशा॥

आर्द्रा निद्रा हरिद्रा दृक् द्राक्षा लाक्षाधृतिः कृतिः।
छाया जाया कथा कान्ता धात्री रात्री रतिर्गतिः॥

कन्धरा धारणा धारा तारा कारा जरा धरा।
आजी राजी रजन्यर्त्तिः कीर्त्तिःकन्या तटी नटी॥

नारी सारी दरी दासी घटिका खटिका जटा।
कक्षा रक्षा शिखा सङ्ख्या कालिन्दी कलिकालका॥

एते स्त्रीलिङ्गाः।

चरण करण चक्रं क्षेत्र नक्षत्र तक्रं
रजत शत शरीरं क्षीर नीराक्षि तीरम्।
धन कनक निधानं ध्यान सन्धान दानं
नलिन नगर गात्रं छत्र नेत्रास्थि दात्रम्॥

आलिङ्गन स्नान शिरश्चरित्रं जल स्थल स्थान कलत्र चित्रम्।
कीलाल जालालिक नाल दैत्यं लिङ्गाङ्गणारण्य हिरण्य सैन्यम्॥

अञ्जनाजिन यानासृक् काञ्चनानन काननम्।
हाटकं नाटकं नाट्यं तैलं चेलं रसातलम्॥

अदनं सदनं ज्ञानं निदानं दधि चन्दनम्।
अक्षरंलक्षणं लक्ष्यं शस्त्रं शास्त्रं दलं हलम्॥

एते नपुंसकाः।

आशास्तेऽस्ति चकास्ति निन्दति सृजत्याशंसति क्रीड़ति
ध्यायत्यर्च्चति याचते द्यति हरत्याराध्यति त्रस्यति।
शेते गच्छति यच्छतीच्छति नयत्यायाति हन्तीहते
ऽश्नाति स्नाति दधाति याति जयतीत्याद्या क्रियाश्चिन्तयेत्॥

इति प्रथमस्तवके सामान्यशब्दो नाम द्वितीयं कुसुमम्।

————

अथ शब्दस्तवके वर्णस्थितिः।

अथ वर्ण्यानि कथ्यन्ते तानि यानि कवीश्वरैः।
महाकाव्यप्रभृतिषु प्रबन्धेषु ववन्धिरे॥

राजा-राजवधू-पुरोहित-कुमारामात्य-सेनाधिपा
देश-ग्राम-पुरी-सरोऽब्धि-सरिदुद्यानाद्यरण्याश्रमाः।
मन्त्रोदूत रणप्रयाणमृगयाश्वेभर्त्त्विनेन्दूदया
वीवाहो विरह-स्वयंवर-सुरा-पुष्पाम्बुखेत्ता-रतम्॥

देव्याः सौभाग्य-लावण्य-शील-शृङ्गार-मन्मथाः।
त्रपा-चातुर्य्य-दाक्षिण्य-प्रेम-मान-व्रतादयः॥

वेणीधम्मिल्यसीमन्तभालश्रवणनासिकम्।
कपोलाधरनेत्रभ्रुकटाक्षरदकन्धराः॥

गण्डबाहुकरोरोजनाभिमध्यवलित्रयम्।
रोमाणि श्रोणिजङ्घोरुपादयुग्मनखक्रमात्॥

घुरोहितो हितोवेदस्मृतिज्ञः सत्यवाक् शुचिः।
ब्रह्मण्यो बिमलाचारः प्रतिकर्त्तापदामृजुः॥

कुमारशस्त्रशास्त्रश्रीकलातलगुणोच्छयाः।
वाह्मालीस्वुरणी राजभक्तिःसुभगतोदयः॥

मन्त्रीभक्तः शुचिः शूरोऽनुद्धतो बुद्धिमान् क्षमी।
आन्वीक्षिक्यादिकुशलः परिच्छेदी सुदेशजः॥

सेनापतिर्जितायासः स्वामिभक्तः सुधीरभीः।
अभ्यासी वाहने शस्त्रे शास्त्रे च विजयौरणे॥

देशे रत्नखनिद्रव्यपण्यधान्याकरोद्भवाः।
दुर्गग्रामजनाधिक्यनदीमातृकतादयः॥

ग्रामे धान्या लता वृक्षसरसी पशुपुष्टयः।
क्षेत्रारुघट्ट केदार ग्रामेयी सुखविभ्रमाः॥

युरेऽट्ट परिखा वप्र प्रतोली तोरण ध्वजाः।
प्रासादाध्व प्रपाराम वापी वेश्या सतीत्वरी॥

सरस्यम्भोलहर्य्यम्भो गजाद्यम्बुजषट्पदाः।
हसचक्रादयस्तीरोद्यान स्त्रीपान्यकेलयः॥

अब्धौद्वीपाद्रि-रत्नोर्मि-पोत-यादो-जलप्लवाः।
विष्णुःकुल्यागमश्चन्द्राद्वृद्धिरौर्वोऽपूरणम्॥

सरित्यम्बुधियायित्वं वीच्योजलगजादयः।
पद्मानि षट्पदा हंसचक्राद्या कूलशाखिनः॥

उद्याने सारणिः सर्वफलपुष्पलताद्रुमाः।
पिकालिकेकिहंसाद्याः क्रीड़ावाप्यध्वगस्थितिः॥

शैले मेधौषधीधातुवंशकिन्नरनिर्झराः।
शृङ्गपादगुहारत्नवनजीवाद्युपत्यकाः॥

अरण्ये हि वराहेभयूथसिंहादयो द्रुमाः।
शुककाककपीताद्या भिल्लभल्लगवादयः॥

आश्रमेऽतिथिपूजैण विश्वासो हिंस्रशान्तता।
यज्ञधूमो मुनिसुता द्रुसेको वल्कलं द्रुमाः॥

मन्त्रे पञ्चाङ्गता शक्ति-षाड़्गुण्योपाय-सिद्धयः।
उदयाश्चिन्तनीयाश्च स्थैर्य्योन्नत्यादिसूक्तयः॥

दूते स्वस्वामि तेजः श्रीविक्रमौन्नत्यकृद्वचः।
शत्रुक्षोभकरी चेष्टा धार्ष्ट्यं दाक्ष्यमभीरता॥

युद्धे तु वर्म्म-बल चार रजांसि तूर्य्य-
निस्वान-नाद-शर-मण्डल-रक्तनद्यः।
छिन्नातपत्न-रथ-चामर-केतुकुम्भि-
मूक्ताः सुरीवृतभटाःसुरपुष्यवृष्टिः॥

प्रयाणे भेरिनिस्वानभूकम्पबलधूलयः।
करभोक्षध्वजछत्रवणिक्शकटवेशराः॥

मृगयायाञ्च सञ्चारो वागुरा नीलवेषिता।
भटढक्का मृगत्रासः सिंहयुद्धं त्वरा गतिः॥

अश्वे वेगित्वमीन्नत्वं तेजः सल्लक्षणस्थितिः।
खुरोत्खातरजोरूपं जातिर्गतिविचित्रता॥

गजे सहस्रयोधित्वमुच्चत्वं कर्णचापलम्।
अरिव्यूहविभेदित्वं कुभ-मुक्ता-मदादयः॥

सुरभौदोलाकोकिलमारुतसूर्य्यगतितरुदलोद्भेदाः।
जातीतरपुष्पचयाभ्रमञ्जरीभ्रमरझङ्गाराः॥

ग्रीष्मे पाटलमल्लीतापसरः पथिकशोषवातोल्काः।
शक्तुप्रपाप्रपास्त्रीमृगतृष्णाम्रादिफलपाकाः॥

वर्षासु घनशिखिस्मयहंसगमाः पङ्गकन्दलोद्भेदौ।
जातिकदम्बकेतकझज्झानिलनिम्नगाहलिप्रीतिः॥

शरदीन्दुरविपटुत्वं जलाच्छतागस्त्यहंसवृषदर्पाः।
सप्तच्छदपद्मसिताभ्रधान्यशिखिपक्षमदपाताः॥

हेमन्ते दिनलघुता शीतयवस्तम्बमरुवकहिमानि।
शिशिरे करीषधूमकुन्दाम्बुजदाहशिशिरोत्कर्षाः॥

सूर्य्येऽरुणता रविमणिचक्राम्बुजपथिकलोचनप्रीतिः।
तारेन्दुदीपकौषधिद्युकतमश्चौरकुमुदकुलटार्त्तिः॥

चन्द्रे कुलटा चक्राम्बुजमानविरहितमोऽर्त्तिरौज्ज्वल्यम्।
जलधिजलनेत्रकैरवचकोरचन्द्राश्मदम्पतिप्रीतिः॥

विवाहे सानशुद्धाङ्गभूषोलूलुत्रयीरवाः।
वेदी सङ्गीतभावेक्षा लाजमण्डलवर्त्तनम्॥

विरहे तापनिःश्वासचिन्तामौनकृशाङ्गता।
अब्दसंख्या निशादैर्घ्यं जागरःशिशिरोष्णता॥

स्वयम्बरे शचीरक्षा मञ्च-मण्डप-सज्जता।
राजपुत्री नृपाकारान्वयचेष्टाप्रकाशनम्॥

सुरापाने विकलता स्खलनं वचने गतौ।
लज्जा मानच्युतिः प्रेमाधिक्य रक्ताक्षता भ्रमः॥

पुष्पावचये पुष्पावचयः पुष्पार्पणेऽर्थिता दयिते।
साला गोत्रस्खलनेर्ष्यां वक्रोक्तिसम्भृमाश्लेषाः॥

जलकेलौसरःक्षोभश्चक्रहंसापसर्पणम्।
पद्मग्लानि पयोविन्दु दृग्रागो भूषणच्युतिः॥

सुरतेसात्विका भावाः शीक्तराः कुद्मलाक्षता।
काञ्चीकङ्कणमज्जीररवोऽधरनखक्षतिः॥

वर्णेषु वर्ण्वभावानां दिङ्मात्रमिह दर्शितम्।
सुधीमिश्चिन्त्यमानानां भवत्येवभनन्तता॥

असतोऽपि निबन्धेनानिबन्धेन सतोऽपि च।
नियमेन च जात्यादेः कवीनां समयस्त्रिधा॥

असतोऽपि निबन्धो यथा।

रत्नानि यत्र तत्राब्धौ हंसाद्यल्पजलाशये।
जलेभादि नभोनद्यामम्मीजाद्यं नदीष्वपि॥

तिमिरस्य तथा मुष्टियाह्यत्वं सचिभेद्यता।
अञ्जलिग्राह्यता कुम्भेऽयवाह्यत्वं विधुद्विषः॥

शुक्लत्वं कीर्त्तिपुण्यादौकार्ष्ण्यञ्चाकीर्त्तिपापयोः।
प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः॥

विभावर्य्यां भिन्नतटाश्रयणं चक्रवाक्योः।
कामिनान्तेषु कुन्दानां कुद्मलेषु च रक्तता॥

हरितत्वं दिवा नीलोत्पलानाञ्च विकाशितम्।
वर्णयेन्न सदप्येतन्नियमोऽथ प्रदर्श्यते॥

भूर्जत्वग्घिमवत्येव मलये ह्येव चन्दनम्।
सामान्यवर्णने शौक्ल्यंकृत्राम्भःपुष्पवाससाम्॥

कृष्णत्वं केशकाकाहि पयोनिधि पयोसुचाम्।
रक्तत्वं रत्न-वन्धूक-विद्याम्भोज-विवस्वताम्॥

तथा वसन्त एवान्यपुष्टानां कलकूजितम्।
वर्षास्वेव मयूराणां रुतं नृत्यञ्च वर्णयेत्॥

नियमस्य विशेषोऽथ पुनः कश्चित् प्रकाश्यते।

कमलासम्पदोः कृष्णहरितोर्नागसर्पयोः॥

पीतलोहितयोःस्वर्णपरागाग्निशिखाद्रिषु।
चन्द्रे शशैणयोः कामध्वजे मकरमत्स्ययोः॥

दानवासुर दैत्यानां ऐक्यमेवाभिसम्मतम्।
बहुकालजन्मनोऽपि शिवचन्द्रस्य बालता॥
मानवा सौलितो वर्ण्या देवाश्चरणतः पुनः॥

इतिप्रथमस्तवके वर्ण्यस्थितिर्नाम तृतीयं कुसुमम्।

————

अनुप्रासः।

अथो कथद्रिके राजवर्णनाद्युपयोगिनः।
अनुप्रासस्य सिद्धर्थं शब्दान्कतिपयान् ब्रुवे॥

वर्णानामनुवृत्तिर्या नातिदूरान्तरस्थितिः।
अनुप्रासः स तेनैव सनाथा काव्यपद्धतिः॥

गतालङ्गारशङ्कोऽपि काव्यबन्धो विराजते।
वर्णाः सभ्यार्णवोदीर्णसुधासंस्यर्द्धिनो यदि॥

मृगनाभिसनाभिश्रीःश्रीकण्ठाकुण्ठकण्टकाः।
सतो यतो वदच्छायो घनाघनघनद्युतिः॥

स्वर्धुनी ते धुनौतेऽयं निर्यन्निर्जरनिर्झराः।
मेदुरा पादुरा पाद्वामक्षता रक्षतात् क्षतात्॥

अर्थ्यमावर्य्यमाहात्माः कोकशोकविलोककृत्।
कीनाशभीनाशकरः प्रवालप्रवलच्छविः॥

घनाभोगेन भेगे त्वां सेवते देवतेश्वरः।
वन्देऽहं गतसन्देहं विमलंकमलं तव॥

स्फुर्जद्धुर्जटिसङ्काशः कोपगोपतिकेतनः।
वैरिमर्द्दी पर्द्दीवाणस्तन्द्रश्च चन्द्रचूड़वत्॥

रणे गणेशसङ्काशो गतार्त्तिः कार्त्तिकेयवत्।
श्रीमद्रामाभिरामश्रीः स त्रिविक्रमविक्रमः॥

विश्वरूपस्वरूपश्रीः क्रतुः पुरुषपौरुषः।
श्रीवत्सलाच्छनच्छायो धरणीधरदुर्धरः॥

विष्टरश्रसाविष्टश्चघनायघनाभवत्।
विराज-राज-राजश्रीःपितामहमहामहाः।
कश्चिद्युश्च्यवनप्रायः पाकशासनशासनः॥

श्रीमानिन्द्र इवानिन्द्यःसमन्युः शतमन्युवत्।
निविड़ोजा विड़ोजावदनघो मघवानिव॥

दम्भम्भजिरम्भः प्रत्यूहव्यूह इवार्ज्जितः।
महीमहीयान् संसारसारः शक्रपराक्रमः॥

सङ्कल्पकल्पवृक्षश्रीः प्रज्ञावज्ञातवाक्पतिः।
श्रीरङ्गवङ्गदङ्गश्रीर्वलिवालिवलाद्वली॥

नयज्ञो यज्ञपुरुषः शिपिविष्टनिविष्टधीः।
स्मरघस्मरसङ्काशो भाग्यसौभाग्यभाग्यसौ॥

धूर्य्यमाधुर्य्यवर्ज्यश्रीःकुशलीसुषली यथा।
रुचिरो रुचिरोक्षिष्णुः क्षमया क्षमया समः।
काशसङ्काशसत्कीर्त्तिः सर्वदा सर्वदानकः॥

प्रीणाति प्राणिनामेष मनोहरमनोहरः।
महादेवमहादेवःकरुणाकरुणालयः॥

तनयो विनयोपेतः केतकःश्वेतकीर्त्तिमान्।
राजते राजवैभाजिःकविराजिविराजितः॥

मणिद्युमणिदुष्प्रेत्त्योज्ज्वलदुज्ज्वलभूषणम्।
उद्धासधामकामश्री धर्मकर्मणि शर्मभाक्॥

भूखण्डाखण्डलः काण्डचण्डकोदण्डपण्डितः।
प्रचण्डकुण्डलोद्दण्डगण्डमण्डलमण्डितः॥

सन्निधाननिधानन्ते करवं नरवन्दितम्।
नितरां नितराम्बूनि राजसे राजसेवकः॥

हारमणिरमणीया नाकनायकनायिका।
भाविता भावितानेन कलिता ललितालकैः॥

सन्ता कान्तालकान्तासौ श्रेयसां प्रेयसी भृशम्।
कन्दःकन्दर्पदर्पस्य पाटला पाटलाधरा।
खर्व्वीकृतोर्व्वशीगर्व्वा निर्व्वासितरतिद्युतिः॥

रमणीरमणीयासौ सुमनःसुमनःस्मिता।
शवरीकरवीरम्या प्रवराः स्मरास्तथा॥

पर्वतः सर्वतः श्रीमान् अधुना मधुना गतम्।
वुधा मुधा सुधावृद्धिर्मुग्धा भुग्धाधरेऽधरे॥

सारद सारदन्तोऽयं रुचिरं सुचिरं न किम्।
अमुना यमुनातीरे कैशवं शैशवं पुरा॥

स्फुरदक्षेण दक्षेण स्पष्टदृष्टमदृष्टतः॥
उग्रो गिरीशो गिरिशः शम्भुशोभाच्युतोऽच्युतः॥

कृष्णकृष्णो हृद्यविद्यः सूर्य्यशौर्यो रविच्छविः।
भीमभीमो रुद्रौद्रो धामधाम महामहा॥
मेधा वेधा जिष्णुजिष्णुः शूरशूरो ध्रुवो ध्रुवः॥

देवदेव कालकाल भीमभीम नामनास।
रामराम धामधाम मांसमांस रक्षरक्ष॥

अरुणारुणः कपिशकपिशः सदावदात विसविसदः।
उन्मीलहीननीलश्रीः परितो हरितोऽतिकामतः श्यामः॥

नरा न राजन्ति सखे सखेदाः
प्रभा प्रभातेव कृशा कृशानोः।
वामोरुवामोरुषितो विधाता
मुक्तासि मुक्तासितकीर्त्तिना त्वम्॥

स्वः सिन्धुतीरेऽघविघातनीरे लसत्समीरे करलभ्यनीरे।
वसन् कुटीरे परिधाय चीरे करोत्यधीर न रुचिं शरीरं॥

आनन्दतुन्दिलपुरन्दरमुक्तमन्दा-
मन्दारदामनिकुरम्बकरम्बितानाम्।
गङ्गाभनङ्गरिपुतुङ्गतमोत्तमाङ्ग-
केशग्रहग्रहिलवीधिभुजां भजामि॥

इत्यमर्त्यनृपामात्ययुवत्याद्युपवर्णने।
शब्दान् पश्य यथौचित्यं क्षिप्रानुप्राससिद्धये॥

सुखानुप्राससिद्ध्यार्थं डापयान्त्ररमुच्यते।
आदिक्षान्तलिपौ कादि क्षान्तशब्दगवेषणम्॥

चित्रानुप्रासयमकशब्दनिश्चयकृद्भवेत्॥ यथा—

** ** कल खल गल चल छल जल तल स्खल दल नल पलफल यल मल हलम्। कीर चीर जीर तीर धीर वीर नीरहीर क्षीरमेवमन्येऽपि।

यत् किञ्चिदथ न मया गदितं ग्रन्थस्य गीरवत्रासतः।
सत्कृतकविकल्पलतापरिमलतस्तद्वुधैर्ज्ञेयम्॥

इति अनुप्रासो नाम चतुर्थं कुसुमम्।

—————

अथ श्लेशस्तवके उद्दिष्टवर्णनम्।

उद्दिष्टवर्णनं वर्णप्रकीर्णंसंख्यया सह।
रुढ़ादिश्चेति पञ्चात्र कुसुमानि यथाक्रमम्॥

शैत्यादिभिर्विभिन्नस्योद्दिष्टवर्णद्वयस्य यत्।
अभेदः क्रियते श्लेष्यां तत् स्वादुद्दिष्टवर्णनम्॥

सितकृष्णौ विधुद्धरौ शितिताराभ्रकनागराजघनसाराः।
रामपयोराश्यर्ज्जुनसिंहीजानन्तचन्द्रहासाद्याः॥

** **विधुश्चन्द्रो विष्णुश्च। हरिः कृष्णः सिंहश्च। शिती धवलवाचकी। तारा नक्षत्रं अक्ष्णः कनीनिका च। अभ्रकं गिरिजंघश्च। नागराजः शेषो गजश्च। घनसारः कर्पूरं मेघश्रेष्ठश्च। रामो वलभद्रो दाशरथिश्च। पयोराशिर्दुग्धसमूहः समुद्रश्च।अर्जुनः शुभ्रःपार्थश्च। सिंहीजः सिंहो राहुश्च। अनन्तो बलभद्रःकृष्णश्च। चन्द्रहासश्चन्द्रहास्यं खङ्गश्च।

शङ्घकर तारकेश सदाकाश व्योमकेशर तालाङ्काः।
नीलांशकाधिकेशारिष्ट सदासिचयकलकण्ठाः॥

** ** शङ्खकरःकस्बुक्रान्तिः कृष्णश्च। तारकेशश्चन्द्र उज्ज्वलबालश्च। सदाकाशःसर्वदाकाशः सहगणञ्च। व्योमकेशः शिवोनभोबाणौ च। तालाङ्गो बलभद्रस्तालकलङ्गौ च। नीलांशुको बलभद्रः कृष्णकान्तिश्च। अधिकेशो अधिकशिरोऽधिकबालश्च।अरिष्टश्चक्रवाकोऽरिष्टश्च। सदासिचयः सिचयो वस्त्रं असिचयःखङ्गसमूहश्च। कलकण्ठो हंसः पिकश्च। “कलकण्ठःपिकेपारावते हंसे कलध्वनौ।”

हरिजिष्णुघनाव्धिभ्यो गजाःसिन्धुर्मुरारितः।
अम्भोबाहोऽव्जानि कृष्णा यमुनाकुन्भिलीद्विषः॥

** **शुक्लश्यामाभिधायका भवन्तीति सम्बन्धः। मुरारिसिन्धुः र्गङ्गाकृष्णसमुद्रौ च। अम्बुवाह उच्चैःश्रवा मेघश्च। कृष्णाव्जनाभिपुण्डरीकं नीलाव्जञ्च। यमुनारिर्वलभद्रो यमुनाद्वेषीच।कुम्भीरवैरीसिंहोऽगस्पर्द्धीच। कृष्णार्थात् तटिनौवाचकशब्दात् परो वरो योज्यः।

नीरदघनोपलसित सदाहिमकरसिन्धुवेणिमृथुलाजाभाः।

** **सितश्यामवाचका इति पूर्ववत्। कृष्णार्थात्तटिनीवाचकशब्दाद्वरोयथा। कृष्णनदीवरकान्तिः गङ्गाश्रेष्ठकान्तिः।पक्षे कृष्णनदीवरस्य समुद्रस्येव कान्तिः। नीरदो निश्चितोदन्तो मेघश्च। घनोपलसितः घनोपलस्तद्वत् सितः। घनोमेघस्तद्वदुपलसितः।

सदाधिकेशवच्छायोऽनेकपीयसमच्छविः।
वपुर्महोदधिच्छायं विभ्रत् सिन्दूरकान्तिमान्॥

स्फटिकाचलसल्लक्ष्मीःपट्टांशककटिं वहन्।
धौताम्बरश्रियं धत्ते स्फटिकान्तश्रियान्वितः॥
अर्जुनद्युतिविद्योतीत्येवमादि समुन्नयेत्॥

रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्य्यकान्ताजम्।
नवहंसमहापद्मार्कसोदराःकमलकीलाले॥

** ** हरिः चन्द्रसूर्य्ययोः। शुचिः श्वेत-वैश्वानरोः। पुष्करं जलपद्मयोः। शतपत्रं हंसपद्मयोः। सूर्य्यकान्तः स्फटिके सूर्य्यवत्कान्ते च। अजः शङ्खाम्बुजयोः। नवहंसः नवहंसे प्रत्यग्रसूर्य्ये च। महापद्मः श्वेतनागे पद्मे च। अर्कःस्फटिकसूर्य्ययोः। कीलालं जलरक्तयोः।

सुहृद्रत्नादिभिर्भानीरत्ने नाग्नेरदांशुकैः।
जलेभ्यो जन्म शोभाभः सरोजकुमुदारिभिः॥

** ** भानोः परस्मात् सुहृद्रत्नादिभिःसितरक्तौ यथा। रविमित्रंचन्द्ररवितुल्यश्च। भानुरत्नं सूर्य्यकान्तः रविपद्मरागौ च। अग्निरत्नंसूर्य्यकान्तोऽग्निपद्मरागौ च। रदांशुकं दन्तवस्त्रमधरश्च। जलशोभा जलजा चासौ शोभा चेति पक्षे पद्मकान्तिः। एवं सरोजारिशोभा सरोजस्पर्द्धिशोभा पक्षे सरोजारिश्चन्द्रः। कुमुदारिशोभा कुमुदस्पर्द्धिशोभा पक्षे कुमुदारिरादित्यः।

पीतश्वेतौ गौरद्विजराजकपर्दशम्भुहरितार्क्ष्याः।
हैमस्तोमाष्टापदमहारजतचन्द्रकलधौताः॥

गौरः श्वेतपीतयोः। द्विजराजो गरुड़चन्द्रयोः। कपर्दःशम्भुजटाजूटवराटयोः। शम्भु ब्रह्मत्रिलोचनयोः।

सुशोभितारकूटश्रीः स्वर्णस्तोमसमद्युतिः।
दहनोपलसत्कान्तिर्गाङ्गेयच्छविपेशलः॥

** ** आरकूटोरूप्यसमूहः पक्षे रीतिः सुशोभनवर्णः कनकञ्च।

अथ श्लोकोत्तीर्णानि।

** **गोपतितार्क्ष्यकान्तिः रविगुरुच्छविः। पक्षे गोपतिरिन्द्रस्तस्यतार्क्ष्यस्तुरङ्गः। वामदेवगिरिर्मनोमनोज्ञोमेरुः कैलाशश्च।

लोहितनीलौ पुष्करहरिद्रुमकमलकृष्णरत्नानि।
सिन्दूरभूषणोत्पलधनञ्जयाम्भोजिनीदलानि॥

** **यथा पुष्करं पद्माकाशयोः। हरिः सूर्य्यकृष्णयोः। विद्रुमःप्रवालविशिष्टवृक्षयोः। कमलं पद्मपानीयजलयोः। कृष्णरत्नंकौस्तुभेन्द्रनीलयोः। सिन्दूरभूषणं सिन्दूरालङ्कारगजयोः। उत्पलमुत्कृष्टेन्दीवरयोः। धनञ्जयोऽग्निपार्थयोः। अम्भोजिनीदलं पत्रपुटकिन्वोः।

कमलाधिपपद्मेशौ नागजित्कान्तसूर्य्यभूः।
रत्नाकरवरश्रीको सदाधिकमलद्युतिः॥

** ** कमलाधिपपद्मेशौसूर्यय्कृष्णौ। नागजित् गरुड़ो नागस्पर्द्धी च। कान्तः कमनीयः कं जलं तस्यान्तश्च। सूर्य्यभूःसूर्य्योद्भवो यमश्च।

सदा सिन्दूरसुज्जेता कलयन् कमलश्रियम्।
स्फुटशोभनताम्रश्रीर्वराहस्वामिदीधितिः॥

एवं सुसम्पन्नस्वःप्रभः विदूरमणिदीधितिः।
प्रवालप्रवलच्छायःकलभानुमितच्छविः॥

पीतश्यामो कृष्णाम्बरमधुजिद्ध्वान्तजेतारः।
विद्युत्कान्तध्वान्तद्धेषि हरिः स्वर्णच्छायाः॥

इति श्लेषस्तवके उद्दिष्टवर्णनं प्रथमं कुसुमम्।

अथ श्वेतानि।

सुधांशूच्चैःश्रवः शम्भुकीर्त्ति ज्योत्स्नाशरद्धनाः।
प्रसादसौधतगरमन्दारद्रुहिमाद्रयः॥

सूर्य्येन्दुकान्तकर्पूरकरम्भा रजतं हविः।
हिर्म्मोकभस्महिण्डीरचन्दनं करका हिमम्॥

हारोर्णनाभतन्त्वस्थि स्वर्गङ्गा भवदाभ्रकम्।
कैलासकाशकार्पासहासवासरकुञ्जराः॥

नारदःपारदःकुन्दः खटिका स्फटिकादयः।
कृष्णानि केशवः सीरी चीरचन्द्राङ्कराहवः॥

बिन्ध्याञ्जनादि वृक्षा हि वनभैरवराक्षसाः।
शिवकण्ठघनद्वैपायनरामधनञ्जयाः॥

शनिःद्रुपदजा कालीकलिकोलयभासुराः।
केशकज्जलकस्तूरीराजपट्टविदूरजम्॥

विषकोषकुहुः शस्त्रागुरुपापतमो निशाः।
मसीपङ्कमदाम्भोधि यमुना धूमकोकिलाः॥

गोलाङ्गूलास्य गुञ्जास्य कण्ठः खञ्जनकोकिलाः।
गरलं तालतापिञ्छतिलेन्दीवरवल्लयः॥

रसावद्भूतश्रृङ्गारौ कटाक्षोऽलिः कनीनिका।
नीलीजम्बुफलं मुस्ताकाककृत्या कुकीर्त्तयः॥

भिन्नच्छाया गजाङ्गार खलान्तःकरणादयः।
नीलालि शुकशैवालदूर्वावालतृणं बुधः॥

वंशाङ्कुरो मरकतेन्द्रनीलार्कहयादयः।
शोनानि भौम-तीक्ष्णांशु-ताम्र-कुङ्कुम-तक्षकाः॥

गुञ्जेन्द्रगोप-खद्योत-विद्युत् कुञ्जरविन्दवः।
हिङ्गूल-कुक्कुटशिखा-तेजः-सारसमस्तकम्॥

माणिक्यं हंसचञ्च्वङ्घ्रीशुकमर्कटयोर्मुखम्।

चकोर-कोकिल-पारावतनेत्र-नखाग्नयः।
कुसुम्भकिंशुकाशोकजवाबन्धूकपाटलाः॥

कमलं दाडिमीपुष्पंविम्बं किम्पाकपल्लवौ।
ताम्बूलरागो मञ्जिष्ठालक्तकं रक्तचन्दनम्।
त्रेता नखक्षत क्षत्रधर्म रौद्ररसादयः॥

पीतानि ब्रह्म जीवेन्द्र गरुडे़श्वरदृग्जटाः।
गौरी द्वापर गोमूत्र मधु वीररसो रजः।
हरिद्रा रोचना वीतिगन्धके दीपचम्पके।
किञ्जल्कवल्ककेशालि हरितालो मनःशिला।
कर्णिकारं चक्रवाकवलयोः शारिकासुखम्॥
केशरांशुकमण्डूक सरागकनकादयः॥

धूसराणि रजो लूता करभो गृहगोधिका।
कपोतमूषिकौ रङ्गकाककण्ठ खरादयः॥

उपमेयस्य शोभातिशयख्यापनाय कयापि युक्त्या विशेषणैरलङ्कृतमुपमानं कुर्वीत। यथा—

सुरनिकरकराग्रव्यग्रमन्यानशैल-
क्षुभिततरलदुग्धाम्भोधिकल्लोलकान्तिः।
हिमकिरणमरीचिव्यूहविभ्राजमान-
क्षितिधरपतिचूडाजाहवीफेनकान्तिः॥

तुहिनगिरितनूजानम्रभूतेशचूडा-
गलितगगनगङ्गाधौतशीतांशुगौरः।

गिरिशमुकुटचन्द्रज्योतिरुद्योत्मान-
स्फटिकशिखरिश्रृङ्गस्पर्द्धमानाङ्गकान्तिः॥ इति श्वेतम्।

मुकुटगलितगङ्गानीरकल्लोलमाला-
स्नपितगिरिशकण्ठस्पष्टरुग्देहयष्टिः।
अभिनवजलवाहव्यूहधारासिशुद्धा-

ञ्जनशिखरिगरीयःशृङ्गतुङ्गाङ्गलक्ष्मीः॥

दिनपरिवृढ़पुत्रीगर्भनीलारविन्द-
प्रसृमरमधुपालीपक्षतिप्रख्यलक्ष्मीः।
जलशयनशरीरं माररोचिः प्रपञ्च-
स्फुरितसरिदधीशभ्राजमानाङ्गयष्टिः॥ इति कृष्णम्।

मसृणघुसृणपङ्काभ्यङ्गसञ्चन्मृगाक्षी-
कुचकलसपिधानो कामकौसुम्भकान्तिः।
तरुणतरणिकान्तिव्रातसंसर्गरङ्गत्-
कमलदलनिकायप्रायकासप्रभोर्म्मिः॥

अभिनवरविरश्मिद्योतितप्राच्यभूभृ-
च्छिखरलसदशोकस्प्रेरपुष्पोपमानः।
परिकुपितमृगाक्षीलोचनप्रान्तरोचि-
श्छुरितकमलकर्णोत्तंससङ्काशकान्तिः॥इति रक्तम्।

मधुरिपुपदनिर्यज्जाह्नवीवारिपुर-
स्नपितगरुड़पत्रप्रख्यसंलक्ष्यकान्तिः।
तरुणकिरणमालीस्फुर्जदंशुप्रवांह-
स्मितकनकसरोजव्यूहतुल्याङ्गकान्तिः॥

जलधरणिकुरम्बोद्दामधारानिपात-
स्नपितकनकशैलस्पर्द्धिवर्द्धिष्णुकान्तिः।
तरुणतरमृगाक्षीगण्डरोचिःप्रपञ्च-
च्छुरितकनककर्णोत्तंससङ्काशलक्ष्मीः॥ इति पीतम्।

इत्यादि सदृशं सदृशेनोपमेयं यथा—

अमरनिकरयाच्ञाप्रस्फुरत्कामधेनु-
स्तनगलितपयोवदद्भारती भाति यस्य।
हिमकिरणमयूखव्रातभिन्नेन्दुकान्त-
प्रसरदमृततुल्यायस्य वाचो विभान्ति।

दनुतनुजविपक्षक्षुब्धदुग्धाब्धिगर्भो-
ल्लसदमृतसमाना रेजिरे यस्य वाचः।
मदनदमनचूड़ाचन्द्ररोचिष्णुगङ्गा-
लहरिभरसनाभिः शोभते यस्य वाणिः॥

इति द्वितीये श्लेषस्तवके वर्ण्यनाम द्वितीयं कुसुमम्।

अथ प्रकीर्णम्।

सम्पूर्णगर्भवृत्तानि सुखपद्मेन्दुदर्पणाः।
चक्रारघट्टतिलकमृदङ्गपुटशाणकाः॥

आवर्त्तः कमठो लूतागृहं छत्रमपूपकम्।
आलबाल महीजाल चर्मकं स्थालकादयः॥

वृत्तानि राहुनारङ्गस्कन्धधम्मित्यमोदकाः।
रथाङ्गलावकककुत्कुम्भिकुम्भाण्डकादयः॥

कर्णपाशभुजापाशाकृष्टचापघनाघनम्।
मुद्रिका परिखा योगपट्ट हार स्रगादयः॥

त्रिकोणानि हलेशान्तिकामाक्षि वह्निमण्डलाः।
सन्ध्यक्षराद्यदम्भोलि शृङ्गाटशकटादयः॥

वक्राण्यलकभालभ्रूनखाङ्काङ्कुशकुञ्चिकाः।
भग्नकङ्कणवाणेन्दुदात्रकुद्दालचन्द्रकाः॥

शुकास्यं किंशुकं विद्युत् कटाक्षेन्द्रधनुः फणाः।
पुरोधःकरकोलेभदन्तसिंहनखादयः॥

गुणतो वर्ण्याणि।

तीक्ष्णानि प्रतिभा हीर कटाक्षा दुर्वचोनखाः।
गुरूणि सन्मनः श्रोणिकवाटस्तनवुद्धयः॥

सुखदानि शशीगीतपुष्पलक्ष्यीःसुतोद्भवाः।
नष्टाप्ति सुस्पृहालब्धि वियुक्तप्रियसङ्गमाः॥

दातृ स्वातन्त्र्यसन्मित्र विद्यासन्तोषमूक्तयः।
दुःखानि पारतन्त्र्याधिव्याधिमानच्युतिद्विषः॥

कुभार्य्याश्लेषकुग्रामवासकुस्वामिसेवनम्।
कन्याबहुत्वं वृद्धत्वं निवासःपरवेश्मनि॥
वर्षप्रवासो दुर्भार्य्योकुभृत्योऽर्द्धहलं कृषौ॥
स्थिराण्याजौभटःसाध्वी धर्माधर्मौसतां मनः॥

अस्थिराण्यबला दोलापाङ्गयौवनदुर्जराः।
स्वामि प्रसादेभकर्णस्वप्नमत्स्यकपिश्रियः॥
मन्दगानि शनि ज्ञानि वृष हंस गज स्त्रियः॥
क्रूरस्वराः काकवृकवराहोष्ट्राश्वगर्दभाः॥

वलिष्ठान्यनिलो विष्णुर्गरुडो हनुमान् यमः।
महावराहः शरभः सत्प्रतिज्ञा गजः पृथुः॥

हलीवाली वलिर्भीमःसती शेषः पुरा कृतम्।
सुरूपा नकुलैनाश्विनलकूवरमन्मथाः॥

उष्णानि स्मरतापाधि प्रतापा दुर्वचस्तपः।
मधुराणि विदग्धोक्ति प्रियाधर शशित्विषः॥

आरोप्यगुणाः।

औदार्य्यधैर्य्यगाम्भीर्य्यशौर्य्यसौन्दर्य्यशक्तयः।
माधुर्य्यैश्वर्य्यचातुर्य्यमर्य्यादाक्रौर्य्यकीर्त्तयः॥

तेजस्तारुण्यषाड्गुण्यसौलक्षण्यरणाशताः।
ब्रह्मण्यदानदाक्षिण्यशीलशौचसुवेशता॥

सत्यौन्यत्यकलाबन्धुमान्यभक्तिकृतज्ञताः।
दृढ़प्रतिज्ञता प्रज्ञा श्रद्धा मेधोद्यमः क्षमा॥

दयानयार्जवाचारसन्तोषमितभाषिताः।
विद्याविवेकविनयारोग्यसौभाग्यवक्तृताः॥

उत्साहित्यकुलीनत्वनिर्दोषत्व मटेच्छताः।
स्वावाधित्योपकारित्वाभयास्तिक्याविशङ्कताः॥

प्रसादप्रतिभाधृष्याधिगम्यत्व सहायताः।
श्रीर्माहात्म्यमहारम्भ निर्दम्भत्वाघभीषताः॥

बहुश्रुतत्वसौजन्यपरिच्छेदाप्रमादिताः।
जितेन्द्रियत्वागर्वत्व स्वधर्मकथनादयः॥

अथ सर्वाङ्गकथनम्।

प्रपादाङ्घ्रिगुल्फपार्ष्णिजङ्घाजानूरुवङ्क्षणम्।
कटित्रिकनितम्बस्फिक्वस्त्यु पस्थककुन्दरम्।
जघनं जठरं नाभिबलिवक्षोजचूचुकम्।
क्रोड़ोरो जत्रुपृष्ठांस कक्षा दोः पार्श्वमध्यमम्॥

प्रगण्डः कूर्परो हस्तः प्रकोष्ठो मणिबन्धनम्।
अङ्गुल्यङ्गुष्ठ करभ नखपर्व चपेटकम्॥

कण्ठः शिरोधरा श्मश्रु सुखौष्ठ चिवुकं हनुः।
सृक्क तालू रदा जिह्वा नाशा भ्रू गण्ड लोचनम्॥

अपाङ्गतारकाकर्णभालमस्तकमूर्द्धजाः।
यथासम्भवमेतेषु वर्ण्यं स्त्रीपुंसयोर्वुधैः॥

पादाग्रादि।

** ** यथा—विप्रपदमनोहरो विष्णुवक्षःस्थलवत्। द्विपादरचितस्थितिर्नृपवत्। सदाचरणस्थितिं विभ्रद्भूमिवत्। गूढ़पादग्रन्थिर्मन्दराकर्षणरज्जुवत्। शुद्धपार्ष्णिर्विजिगीषुवत्। जङ्घालसत्कान्तिश्चन्द्रवत्। सज्जानुगतवैभवो धनिकवत्। रम्भोरुकान्तिःकन्दर्पवत्। सुवङ्क्षणेन हर्षयन् गणेशवत्। कटिकान्तिस्थितिंविभ्रन्नृपवत्। सत्रिकामोदितो यज्ञपुरुषवत्। सदामनितोबालङ्कृतो नन्दकुमारवत्। नवस्तिमितकान्तिराषाढ़ान्तरम्यभूभागवत्। सुधीरोपस्थानमोदितोऽर्जुनवत्। नवककुन्दरचितशोभः शिशिरवत्। सर्वदारोहपेशलः सुभगवत्। सज्जघनोवर्षाकालवत्। सदापि चण्डसंरम्भो नृपतिवत्। नाभिभूतस्थितिं वहन् मनस्विवत्। घृतबलिशोभितः कैवर्त्तवत्। द्विपयोधरसाटोपो नृपवत्। कुचेष्टाभोगभासुरोऽधभवत्।मञ्जुलकुचाग्रविभ्रदु-वनवत्। उच्चैरङ्कसमन्वितो दुष्कालवत्।स्पष्टमुत्सङ्गपेशलः प्रातश्चक्रवत्। रम्यरोमान्वितो भल्लूकवत्। सदादीर्घपृष्ठविराजितः पातालवत्। स्वमांसरुचिः सिंहवत्। नवकक्षान्तः श्येनवत्। विभुजातिमनोरमो नृपवत्। सुपार्श्वभूषितो रावणवत्। विलसन्मध्यमः स्वरसमूहवत्। अधिकप्रगण्डभूषितोऽरण्यवत्। उल्लसत्कफोणिमाधारो जरारोगिवत्। प्रहस्तत्यितिपेशलो रावणसैन्यवत्। करभान्वितो बिन्ध्यपरिसरवत्। विप्रकोष्ठस्थितिः प्रणववत्। लसन्मणिबन्धमासुरो मुकुटवत्। निजाङ्गुलिकान्तःकालसर्पवत्। स्फुरत्करभो गजाननवत्। नखरस्थितिभासुरः शिशिरार्कवत्। सुपर्वभूषितो मेरुवत्। उच्चपेटकस्थितिस्ताम्बूलिकपर्णवत्। अधिकण्ठमनोहरो मन्त्रवत्। गलच्छायासुन्दरः कृष्णपक्षेन्दुवत्। उल्लसितशिरोधरान्वितो वनवत्। सुग्रीवोदितवैभवोरामवत्। अधिकधरान्वितो नृपवत्। सदाश्मश्रुतःकान्तः पर्वतवत्। अधिकानलरोचिष्णुर्गिरिवत्। लधुराधरः कृष्णबाहुवत्। स्फरन्महादंष्ट्रिकान्तःपल्वलवत्। मुखरोचितवैभवःकथकवत्। पृथुलास्यमनोहरो नर्त्तकवत्। बहुधावदनत्यितिः सैन्यवत्। हनुमद्विभवान्वितो रामवत्।महासृक्कायशोभितो नृसिंहनखाग्रवत्। सुसम्पन्नसुतालूनोरेणुकाशिरोवत्। रसज्ञानवर्द्धिसमुत्साहोधातुवादिवत्।कलयन्नासिकास्थितिं पान्यवत्। नवभ्रूचितः शिशुपालवत्।सदालोचनभासुरो मन्त्रिवत्। सुदर्शनमनोहरो विष्णुवत्।स्पष्टां वकस्थितिं बिभ्रत् सरोवरवत्। सदीक्षणालङ्कृतश्रुतिमार्गोयजमानवत्। कलापाङ्गमनोहरो मयूरवत्। उल्लासितावासो वसन्तवत्। अधिककर्णस्थिति बिभ्रत् दरिद्रवत्। वहन्वैश्रवणस्थितिं कैलासवत्। उच्चैःश्रवःस्थितिं विभ्रदिन्द्रवत्।प्रतिभाभासितस्थितिं बिभ्रत् कविवत्। अलिकान्तद्युतिं विभ्रत् पद्मवत्। स्फुरत्प्रृथुललाटश्रीर्भृगुकच्छवत्। उत्तमाङ्गस्थितिं विभ्रत् कन्दर्पवत्। सदाबालमनोहरो वृक्षवत्।बहुकुन्तलसद्युतिः सुभटवत्।अधिकेशश्रियं विभ्रन्नन्दिवत्। कचरोचितः समुद्रवत्।

देहवर्णनम् यथा—काले वरस्थितिं बिभ्रत् कुमारीवत्।सुसम्पन्नवपूरम्यो नृपवत्। साक्षादधिकविग्रहो दैत्यवत्। उच्चैरङ्ग-मनोहरोनन्दनवत्। अधिकायस्थितिं विभ्रत् कृपाणवत्।

अथोपमा। विष्णुरिवाहीनभोगसङ्गतशरीरो विपन्नाशनःसुदर्शनान्वितः। शिव इव परमहसितश्रीःसुशोभनगरस्थितिः महासेनानुयातो विष्वक्सेनोल्लासितविग्रहः। समुद्रइव समानघनरसभासितो बहुलवारणो नदीनदेशः सुधामाश्रयश्च। सत्यलोक इव हिरण्यगर्भश्नीः। सोमेश्वर इवप्रभासङ्गतः। रविरिव महोदयान्वितः। अनिरुद्ध इव सदोषारुचिः। उद्धृतसारसागर इव पारिजातः। रोहण इव सुरुचिरमणी रमणीयः। चन्द्र इव वलक्षामोदितश्रीः। प्रावृषेण्यहंससङ्घ इव समानसङ्गतः। श्रोत्रिय इव सदाचारप्रियः। देव इवातिसम्पन्नवसुधाभोगी। प्रावृट्काल इव सुखद्योतः। तूणीरइव सदारोचितः। वैद्य इव स्वस्थामोदितश्रीः। वणिगिव उपा यनवशल्लक्ष्मीः। सुराष्ट्र इवाधिकङ्गौरचितस्थितिः। भृङ्गइव प्रियङ्गौरचिताटोपं विभ्रत्। तरुणीगण इव पुरोगौरसाटोपश्रीः। कामिनीकेशपाश इव सदामरसमधुरः। दीक्षित इव सुराज्यघटनादक्षः। दशरथ इवाभिरामोल्लसितश्रीः।

अथ वनवर्णनम्। नृपसैन्चमिव सदाफलकसल्लक्ष्मीकंसज्जं वीरगणं विभ्राणम्। विष्णुवक्षःस्थलमिव पुन्नागकृतमालालङ्कृतम्। रुद्रभालस्थलमिव स्फुरितामलकीलाक्षानलम्। कामशरीरमिव सर्वदा रूपशोभितम्। चन्द्रविम्बमिवविशाखानुगतम्। समुद्रमिव विद्रुमशोभितम्। रामसैन्यमिव सज्जपावनवैभवम्। रविमिव तापिच्छविराजितम्। नेपालमिव विराजिताम्रश्रियम्। क्षेत्रमिव बहुधान्यपुष्टश्रियान्वितं वनम्।

अथ नगरादि वर्णनम्। हिमवन्तमिव सदा गजातिमनोहरम्। शृङ्गाटोपचितं बहुशोभवनान्वितं नगरम्।अथ वृषभः। नारीव शृङ्गारोपचितस्थितिः। सर्प इव सद्विषाणश्रियं विभ्रत्। लौह इव सदात्रपुच्छविराजी।अथ पक्षी। नृप इव विपक्षोपचितवैभवः। रण इव स्फुरदविपक्षस्थितिः। तड़ाग इव शतपत्रविराजितः। अथ मेघः।पद्म इव सदामोदरसोदयः। शरत्काल इव उच्चकैरवभूषितः।अथ चन्द्रः। गिरिरिवि कन्दरचितशोभः। प्रावृट्काल इवसदावशमुपागतः। रावण इव स्वकलङ्गाभोगः। रविरिव सुधामोदितश्रीः। अथ कामुकः। स्थानुरिवापत्रपः। गज इव परमहेलाविलासी। स्वर्ग इव सुरतरुश्रियं विभ्राणः। अथ दुर्ज्जनः।भृङ्ग इवाधिकमहोल्लासी। कुहचन्द्र इव सूर्य्यसङ्गतः। अथसमुद्रः। तारागण इव तिमिरोचितः। वियोगीव विस्तारितापः। अथ गौः। रसवतीव समांसमीना। अथ गजः। हरिरिव पद्माकरसमुत्थितः। स्वर्ग इव सदानवारिः। अथवराहः। गणेश इव परमोदकरुचिः। अथ वणिक्। जैननयइव बहुलक्षयणः। अथ कामिनीजनः। नागर इव कलहावलोकितस्थितिः। अथ तार्किकः। शुक्र इव सदनुमानः।अथ वाजी। निर्व्यापार इव प्रधुलक्षणः।अथ कवाटम्।कविरिव बहुलोहम्। निशीथ इव प्रवलतमोवाहिनी। अथरावणः। भूमण्डल इव गिरिशतश्रियं विभ्राणः। प्रावृट्कालः। विष्णुरिव सदारमानवप्रीतिकृत्। अथ गिरिः। महाकविश्लोक इव सरसोपचितपादः।अथ परिव्राट्।वर्षोपल इव सत्वरक्षयान्वितः।

खण्डश्लेषाः।

अथ शब्दैरपूर्वाद्यैः पूर्वभागप्रयोजितैः।
श्लेषाय शब्दमध्येषु निक्षिपेदक्षरं यथा॥

अपूर्वसूरचेष्टः। आचितखेटकशोभी। उद्योतितपरागशोभः। अञ्चितगजयुतः। खचितद्योतयुक्तः। धनवर्द्धिस्मरः। छविराजितगलः। आमोदितवनश्रीः। धरोचितबलः। न व्याप्तक्षत्रनाथः। परोचितवनशोभी। प्रमोदितकटस्थितिः। बलोचेतहलश्रीः। वामोदितमनस्थितिः। विक्रान्ततरोपेतः। विभूषेतपदान्वितः। वियुक्तजनप्रियः। व्याप्तपक्षहारी। भावोचितरतश्रीः। रचितमणिभासुरः। सततरसस्थितिः। स्थानोदितवरश्रीः। क्षमोदितपणस्थितिः। संयुक्तगवस्थितिः। सप्राप्तसारभूषणः। सन्दूषिताशययुक्तः। सम्भावितमदोदयः। कलोपयुक्तकपोतवान्। प्रस्खलितप्रबालोपेतः। प्रभ्रष्टप्रमोदोदयः। वियुक्तविरहस्थितिः। मानोपयुक्तमानवधनः। मारहितमाधवोल्लासितः। नरहितनगरालङ्कारः। सुरहितसुधर्माश्रयः।

रचितश्लेषसंश्लेषैर्वर्ण्यवर्णादिनामभिः।
उपमानकृतोल्लासैः साधयेत् सर्ववर्णनम्॥

अहो गौरवसल्लक्ष्मीर्यामिनीकामिनीपतिः।
सुपर्वपर्वतौपम्यभङ्गीमङ्गीकरोत्यसौ॥

गौरीभूतकलाशाली परशुभ्रामितोदयः।
सुपीवरसितोल्लासः स्पष्टां श्वेतश्रियं वहन्॥

सदावलाकासितश्रीर्गिरिशाचलसच्छविः।
स्फुरच्चन्द्रकसल्लक्ष्मीर्घनसारद्युतिं वहन्॥

सदानवसुधाशोभाविभ्राणो राजतश्रियम्।
जातरूपचयच्छायो मधुपीतप्रभान्वितः॥

कर्णिकारसितच्छायः पराश्रीविराजितः।
अधिकारण्यसंशोभी नवेन महसा युतः॥

बहुलो हितसम्पत्तिः प्रवालद्युतिपेशलः।
अधिकद्रुश्रियं बिभ्रत् कलारचितवैभवम्॥

नवधूसरसाटोपः सदा सरलसद्रुचिः।
बिभात्यधिकपोलश्रीरासभासितवैभवः॥

असितत्वमनोहारी बहुश्यामलतान्वितः।
स्वभावलीनसल्लक्ष्मीःसदारामोदितद्युतिः॥

केशवामोदितच्छायो न दीनश्रीमनोहरः।
अन्धकारातिरोचिष्णुर्विभ्रत् कुवलयस्थितिम्॥

स्वर्गः। स्वर्जनस्थितिरोचिष्णुः स्वर्गलाभकरस्थितिः।
मदादिविहितोल्लासः सुरावासनयान्वितः॥

व्योम। सव्योमासङ्गविद्योति सत्रभोगमनस्थिति।
अभ्रान्तस्थिति रोचिष्णु सदाकाशकरस्थिति॥

भूमिः। स्वयम्भुस्थितिविभ्राजी सम्पन्नवसुधास्थितिः।
स्फुरहराङ्गसंशोभी सुक्षमासमलङ्कृतः॥

पातालम्। सदा वलिसमुल्लासी सज्जपातालवैभवः।
अहीनभोगविभ्राजी भूदारस्थितिसुन्दरः।

वनादिः। सश्रीकाननरोचिष्णुः कान्तारचितवैभवः।
अधिकासारसारश्रीर्विधुनीत श्रियं वहन्।

मेघः। स्वर्गस्थितिमनोहारी सदानीरोचितस्थितिः।
सज्जलक्षणविद्योती सदम्भस्थितिपेशलः॥

गृहाधारः। सम्पन्नवेश्मनि स्थायी सदनस्थितिभासुरः।
सद्मनःस्थितिमुद्विभ्रत् सुशोभनिलयस्थितिः॥

जलाधारः। अहो वामनसाटोपः सदा खर्वतमस्थितिः।
अधिकं प्रांशुसंशोभी सर्वदा बालसंस्थितिः॥

स्थिरादिः। अचलस्थितिविभ्राजी सदास्थिरचितस्थितिः।
सत्वरोचितलक्ष्मीको मनोज्ञवशलक्षणः॥

समीपम्। उपकण्ठस्थितिं बिभ्रत् सनीड़स्थितिपेशलम्।
अभ्यर्णस्थितिविभ्राजि गङ्गाम्बुनिकटस्थिति॥

वैपरीत्यम्। परमश्लाघौविशदच्छायः स्वचलच्छायोःहद्यप्रतिभः।
अपिनद्धाङ्गः कान्तोऽङ्गेन प्रखरोऽत्यन्तं क्षितिमापन्नः॥

इति श्लेषस्तवके प्रकीर्णं नाम तृतीयं कुसुमम्।

अथ संख्या।

एक—मात्मेन्दुहस्त्यश्वगजास्यरद-शुक्रदृक्॥
द्वयं—पक्ष-नदीकूलासिधारा रामनन्दनाः॥
त्रयं—कालाग्नि-भुवन-गङ्गामार्गेशदृक् गुणाः॥
ग्रीवालेखा कालिदासकाव्यं शूलशिखावलिः॥
सन्ध्या पुरःपुष्कराणि रामविष्णुज्वराङ्घ्रयः॥
चत्वारि—वेद व्रह्मास्य वर्णाब्धि हरिवाहवः॥
स्वर्दन्तिदन्तसेनाङ्गोपाययामयुगाश्रमाः॥
पञ्च—पाण्डवरुद्रास्येन्द्रियस्वर्गव्रताग्नयः॥
महापाप-महाभूत-महाकाव्य महामखाः॥
पुराणलक्षणान्यङ्गानिलवर्गेन्द्रियार्थकाः॥
षड्—वज्जकोण-त्रिशिरो-नेत्र-तर्काङ्ग-दर्शनम्॥
चक्रवर्त्तिमहासेन वदनर्त्तु गुणा रसाः॥
सप्त—पाताल भुवन मुनि द्वीपार्क वाजिनः॥
वाराव्धिपूरराज्याङ्ग व्रीहि-वह्नि-शिखाद्रयः॥

अथ रूढ़ियौगिकमित्राः।

रूढ़यौगिकमिश्राख्यास्त्रिधा शब्दाः प्रकीर्त्तिताः।
व्युत्पत्तिवर्जिता रूढ़ाःशब्दा आखण्डलादयः॥

योगोगुणेन क्रियया सम्बन्धेन कृतोऽन्वयः।
गुणःस्यान्नीलपीतादिर्नीलकण्ठादयस्ततः॥
संख्या अपि गुणा एव वैशेषिकमते ततः॥

पञ्चेषु षन्मुख दशग्रीवैकदशनादयः।
कविरूढ़िच्युताः शुभ्रवपुः षट्कन्धरादयः।
क्रियाकरो विप्रमुखास्ततः स्रष्टृहरादयः॥

स्वान्ने भूपति भूपाल धनमन्वर्थकादिभिः।
सम्बन्धे स्वामिनो नाम कविरूढ्या निगद्यते॥

भूनेता भूपतिर्भूभुक्भूपालो भूधनोंऽशुमान्।
कविरूढ्यैव नत्वेवं भूमानं शुण्डगित्यपि॥

जन्या विधातृ कर सू कृत् कर्त्तृ स्रष्टृ सृक् जनक मुखाः।
जनकाद्योनि जन सू सम्भव रुह भूति सूत्याद्याः॥

जन्या यथा। विश्वविधाता विश्वकरः विश्वसुर्विश्वकृत्।
विश्वकर्त्ता विश्वस्रष्टा विश्वसृक् विश्वजनकः॥

कारणादयो यथा। आत्मयोनि-रात्मजनिरात्मसूरात्मसम्भव आत्मरुह आत्मभूतिरात्मसूतिः। आदिना वात्स्यायनादयः।

धाय्यात् प्रस्तारोऽन्याङ्कध्वजन्तन्मण्डलसमानाः।
धरभभइमानि सस्वर्थशालिशेखरसदृक्षाः॥

यथा शूली तथा सर्पी न शशीहरिणी तथा।
यथेन्दुमौलिर्न तथा गङ्गामौलिस्तु वाचकः॥

भोज्यादन्धःपायिलिटदुग्धपानाशनादयः।
भोज्यभोजकसम्बन्धाद्यथा स्युरमृतान्धसः॥

पत्युः कान्ता दयिता वधू प्रणयिणी प्रियाङ्गनातुल्याः।
पत्न्याःप्रणयिधवाद्याः पतिपत्नीभावसम्बन्धात्॥

सख्युः सखिप्रभृतयो वाह्यद्योनासनप्रायाः।
ज्ञातेःस्वसृतनयानुजाग्रजावरजसङ्काशाः॥

आश्रयतः सदनासिध्यासिद्धासिशयप्रकाराश्च।
वध्यादद्विट्जिदराति द्वेषिध्रुक्ध्वंसिशासनविपक्षाः॥

अप्यन्तकारिसूदनदर्पच्छिद्दमनदारिमथनाद्याः।
सम्बन्धोहि विवक्षात इति पदादेकतो न संयोज्याः॥

औचित्याद्धिबुधैः प्राक्प्रदर्शिताः सम्बन्धिशब्दास्ते।
वृषस्य सति वाहत्वे शङ्करो वृषवाहनः॥

धार्य्यत्वे तु वृषाङ्कोऽयं सत्वे वृषपतिस्तुसः।
व्यक्तिचिह्नङ्कितो जातिशब्दोऽपि व्यक्तिवाचकः॥

यथागस्त्यनिवासादि दक्षिणाशा प्रकीर्त्तिता।
शब्दौ त्रिपञ्चसप्तादिवाचकौ विषमार्द्धजौ॥

योज्यौ द्वित्रिनेत्रपञ्चशरसप्तच्छदादिषु।
इतरान्तो नङ्पूर्वो गुणशब्दोऽर्थविरोधिनं व्यक्ति॥

** ** यथा सितेतरोऽसित एवं प्रतिपद्यते कृष्णः। जलदादिषुपूर्वपदेषु सरोजमुख्येषु चोत्तरपदेषु सुरपतिसमेषु चोभय-पदेषुपर्य्यायपरिवृत्तिः। इति परिवृत्तिसहायेयोग्यत्वे यौगिकाःशब्दाः परिवृत्तिसहा एते मिश्रा गीर्वार्णैस्तुल्यास्तु।

इति श्लेषस्तवके रूढ़ियौगिकमिश्राख्यंपञ्चमं कुसुमम्।
————

अथ राजदर्शनम्।

विप्रलापस्तड़ागादिवर्णन वादितर्जनम्।
एते यत्र निगद्यन्ते क्रमेण कुसुमानि षट्॥

तं वदामि कथाकल्पं सुधाकल्पं समासतः।
अर्थिप्रत्यर्थिनोर्यत्र विमतिःसा कथा द्विधा॥

वीतरागकथान्या च विजिगीषुकथा यथा।
वादी च प्रतिवादी च प्राश्निकोऽथ सभापतिः॥

चत्वार्य्यङ्गानि तुङ्गानि सभायाः सम्प्रचक्षते।
अनिन्द्यः सर्वविद्यासु सर्वालङ्कारपारगः॥

सविता कवितापद्मकानने तर्ककर्कशः।
भवते भारतेऽभिज्ञः प्राज्ञो मन्त्रादिनाथ वा।
सुवेशोपुरुषो गच्छेत् सभ्यान् सम्भावयन् सभाम्॥

अथ प्रथमतस्तत्र धरणीभरणं प्रति।
विद्वद्वृन्दप्रमोदार्धमाशीगशीनुदीरयेत्॥

स्वस्त्यस्तु विस्तारियशःप्रसस्तिभ्राजिष्णुदोष्णेभवतेऽवते क्ष्मां।
विपक्षलक्षक्षमदक्षतीक्ष्णकौक्षेयकायाक्षतरक्षणाय॥

** **अतुल्यकल्याणभरलम्भावाक्! प्राज्यसाम्राज्य! सामादयचतुःसमुद्रमुद्रावच्छेदिनीं मेदिनीं पाहि। प्रतापतापितारातिवर्गो भर्गोपमो भूविनायकोऽवनाय कोविदस्य भवतु भवतः। शारदाशारदाभ्रशुभ्रा विभ्राजतामकुण्ठे भवतः कण्ठे सूर्य्यः सूर्य्यार्चितः। प्रचितोपचयमचिरमारचयतु त्वाम्। अमन्दानन्दचन्द्राय मन्दाकिनी सम्पाद्यताम्। भृङ्गीशभृङ्गारशृङ्गारकारिवारिभासुरापगा गात्रमतिमात्रमत्रभवतो भवतः परिश्रयतु। सर्वतः पर्वतसुतापतिःपातु। गङ्गाशृङ्गारितशिराःशिवः शिवं दिशतु देवाय। सर्वमङ्गला सर्वमङ्गलास्पढास्पदंविदधातु भवन्तम्। प्रभविष्णुर्विष्णुः पुष्णातु जिष्णुतां तव। स दामोदरः सदामोदरतस्त्वयि भवतु। त्वयि करोतु करुणामरुणानुजध्वजः। मुकुन्दःकुन्दवत् सुन्दरवशस्तारकिताम्बरंविरचयतु त्वाम्। जायतां निजाङ्घ्रिभवभुवने त्रिभुवनं भूषयन्भगवान् भवदभ्युदयाय। जीव जीवभूरिव भूरिवत्सरशतानि।चिरं विरिञ्चिरिव वञ्चितकाल! कलय युष्कलमायुः। अरविन्दनन्दनो मुदं समुदञ्चयतु। निराविलमिलावलयमाहिमालयमापालय। जय प्रवलरिपुकुलप्रलयकालाग्निरुद्र! अनन्तगुणमणिगणसमुदय ! समुद्रविणगणागणेय ! द्रविणतृणीकृतगीर्वाणवृक्ष! भरत-भगीरथ-सुरथ-दशरथ-रघु-सदृक्ष ! विनयविनमवदनिधवनिवहसुवहचरणचामीकरारविन्द ! सहृदयहृदयक्षीरोदमोदमानगोविन्द ! रुद्राणीरमणचरण सम्पन्न !समस्तसामन्तसीमन्तिनी-सीमन्त-सिन्दूर-पूरण-सारण कारण ! निष्कृप-कृपाण-धारावलुप्तट्टप्तमेदिनीपति-मुण्ड-मण्डलीपति-मण्डित-चण्डीशमूर्त्तिमण्डल! वरवदरीवनाचलदलनलीलाखण्डल ! अतुल तुलापुरुषप्रसुख-प्रतप्यमानमहादानसन्तानसन्तोषित-सर्वभूसुपर्वप्रणीताशीर्वादनादप्रमोदमानमानस ! यशो-राजहंसोल्लास-लीलानिवास ! मानससम्भोत्तम्भितासिदम्भोलिलीलादलितारिदन्तावलाबलीमुक्ताफलोज्ज्वलितराज्यलक्ष्यी-रमण ! दक्षिण ! दोर्दण्डहिण्डीरपिण्डपाण्डराखण्ड-यशःश्रीखण्ड-मण्डितगजद्दण्ड ! विलसदबनीयक ! दारिद्रमुद्राविद्राविद्रविणधाराधर ! तृणतर्जितोर्जितधनुर्धर ! अङ्ग-वङ्ग-कलिङ्ग-तुलिङ्ग-तैलङ्ग-मगमगध-मलय-मालव-कुरु-म रुणाहीर-सौवीर-काश्मीर- हरिकेलकेरल-कोशलान्त-र्वेदिचेदि-महाराष्ट्र-नाट-भोट-चार्वाट-वराट-करहाट-कर्णाट-गौडचोड-द्रविडानर्त्त-नृत्यत्कीर्त्ति- नर्त्तकोनिरूपणनिपुणगीर्वाण-गणस्तूय-मान ! दोस्तम्भ-सफल, सकल-समारम्भ ! चातुर्य-माधुर्य्य-धैर्य्य-स्थैर्य्य-सौर्य-सौन्दर्य्य-सौकुमार्य्य-मर्य्यादा-दयानयाचारदा-क्षिण्यतात्यक्षाम-क्षितिपति-गुणग्रामाभिराम। अनवरतसुकृतशतानुकृतवत्स! अमन्दमान्दोलदोलायमानोद्दाम ! कमलाविलासवासभवन ! भवनगरनाथ ! मधुमथनचरणास्मरणपरिणतपुण्यजन्यानन्य-सामान्यवैभवाधिवास ! सविकाश-हरहासव्यासोपन्या-ससङ्काशवाग्विलास-निवासकालिदास ! धवलधामाधिरूढ़ ! समूहशृङ्गारप्रौढ़प्रमदामोदामदालसा- विल! सन्वयनवाजीराजीवजीवन ! भुवनजनमनोमनोहर ! मधुकरशङ्किकेतकीवन ! जय सभयजनशबल ! जयकमलसमचरण ! जय भरणधरणिभरधरण ! जय मदनमदहरण ! देवं नयनमनोऽभिरामं वाममिव लोचनगोचरीकृत्य कृतकृत्याः प्रशान्तखरदूषणोपप्लवा दण्डकारण्यभुव इव समजनिष्महि। अयं हि सम्प्रति प्रवृत्तो देवस्य साक्षात्कारसंसारमरुसञ्चारसम्भूतप्रभूतखेदानां तापत्रयातपतप्तानामस्माकमकस्मादजनि सुधाकादम्बिनी-कदम्बसम्बन्धः। अनेन वसुधाशीकरिपरिष्यन्दिनामेवाकाशजलदेन निर्वापितानि सर्वतस्तापतप्तं शरीरसन्तराणि च करणानि। किं किमस्मभ्यं नोपकृतं ? कानि कानि सौख्यानि नोपनीतानि ?काःकाःसम्पदो न सम्भाविताः? केषां केषां कन्यानान भाजनीकृताः? किमनल्यजल्पकल्पनया ? निःशेषमहोदयानामतिभूमिमध्यास्महे। देवःप्रार्थकसार्थकंप्रति प्रतिनिधिः। देवं देवेन्द्रचन्द्ररुद्रोपेन्द्रद्रुहिण-मुद्राधरं सत्याश्रय नासत्याः श्रयन्ते। देवेन पवित्रचरित्राणि मित्राणि पुरस्कृतानि। देवाय सेवायतयत्नंद्वाःस्थदुस्थीकृतं सामन्तसहस्रमजस्रं स्पृहयति। देवाद्देवाधिपादिव त्रस्ताः समस्तावनिभृतो विभृतोपक्रममपाक्रामन्। देवस्य निर्दोषः कोषः पोषयतु मनीषिमनोषितम्। देवे च प्रसादसुमुखे संमुखीसम्पन्ना शेमुषी। अपिच। देवस्य महीमहेन्द्रस्यापि सुरसद्मपद्मेव भ्रान्तस्थितेर्बहुलनयनलाभस्य सहजन्यायालोचनमनोहारिणः करसम्भृतशतकोटेरमृतभुजः सन्तानमालभारिणःकनकाचलरुचेरुचामरराजिविराजितस्य स्वयम्भूमहितस्थितेः काञ्चनशोभां दधानाःसुधर्मासभासभासदः सुसमःकाव्यमनोज्ञं चरित्रं सखाप्रवरः प्रणयिनः सुखलीलागन्धर्वागुरुन्वर्त्तिरम्भासम्भावितं सदानन्दनमुद्यानम्। अहो वैचित्र्यमत्र जनपदाःसदानयज्ञानीतयश्च। उपचितव्रीहयो विग्रहामहावर्णा इवान्योदयोल्लासिनः। बहुखलाः सज्जनालङ्कृताः।लब्धसन्निधाना वैदूर्य्यभाजः। नितान्तप्रणता उच्चताभाजः। कुलीनाः सदानभोगाः। मन्त्रिणः सदाचाराः। मातङ्गाःस्पृहनीयदानाः। भुजगबलया दक्षमखयुषः। भूतिभृतो रजोरहिताः। सुकेशानिष्केशाम्। परिजनःकलानिधिर्न दोषाकरः। दानं समानमसमानम्। किञ्च किञ्चनवचनमुच्यमानमधुनामधुसमानमधुनामधुनावतारः क्षणमवत्वावतु च। तथा चामी चामीकराचल-वदचलाःकलाकलापमण्डिताः पण्डिताखिलविपक्षपक्षाः। क्षामन्तनाममामक चापलं विचारयन्तु च मया निरुच्यमानमुचितमनुचितं वा। यदेते सदसद्विचारचातुरीचतुरायश्चतुराननाइव शिवप्रसादासादितमहितमहिमानो मानोन्नतान्तेवासिवासालोचितव्याख्याः। संख्यावद्गण-नायां पाणिनीया इव गणनीयाः। सकलदिक्कलसतुलीस्तनकपोलस्थलमण्डलायमानयशः। प्रसरदुदुर्व्यपोहमोहमहान्धकारप्राग्‌भार-संहारभास्कराः। कलिकलुषकालकूटकवलनकलाकलितनीलकण्ठावताराः।अमन्दमन्दरगिरिपरिक्षुभित-क्षीराब्धि-मध्योच्छलत्कल्लोल विमल शूक्तिमुक्ताकलापालङ्कृतकण्ठनालाः। अनेककलाविलासोपहसिमसितकलकलानिधयो निरवद्यविद्यानद्याश्रयपयोराशयः। ससारसारसारस्वतस्वतःप्रकाशभाष-माणसमानवाग्ब्रह्माणश्चतुरुदधिमेखलाखेलदुच्छृङ्ख- लकीर्त्तिनर्त्तकीकाःसकलकलाविलासभाजनसभाजना इह विभ्राजन्ते।

इति तृतीयस्तवके राजदर्शनं नाम प्रथमं कुसुमम्।
———

अथ गङ्गास्तुतिः।

देवस्योपासनावासनाशासनासमाकृष्टाः सत्वरा गत्वरा अपि वयं प्रलम्बविलम्बभाजो यदभूमभूमहेन्द्रस्तत्र हेतुमाकलयत। अक्षामद्राक्षामण्डपमण्डितस्य पचेलिमफलास्वादमोदमानजनपदस्य विकसदमलकुसुमसमूहसौरभ्यलुभ्यदलिकुलकलितललितक्रीड़स्याक्रीड़स्य मध्ये चलदलशालतमालतलशिलातलकलितनिश्छद्मपद्मासनं निश्वासनिःस्वनश्वाससाग्रजाग्रन्नेत्रत्रिभागनिःस्यन्दमानसन्मदो-दविन्दुपानपीनचकोरचयरचितपरिचयं काषायसिचयं रागारिदारिज्ञानासिचयंनिखिलोपनिषन्निषणमानसं परमहंससंसदासजदवतं-सदुरतिक्रमव्याधिवाध्यमानजगदगदङ्कारं सश्लिष्टमष्टसिद्धिभिरमन्त्रं मन्त्राणां मित्र मैत्र्याः कारणं करुणाया मन्दिरं सुदिततायाः सपक्षमु-पेक्षायाः क्षेत्रं क्षमायाःकोषं सन्तोषस्य शैलं शीलस्यपात्रं पवित्रतायाः सौधं शुद्धबुद्धेराधारं धीरताया गुरुंगुरुतायाः प्रासादं प्रसादस्य निदानं चिदानन्दसम्पदामाश्रय श्रेयसः तपसोऽप्युपासनीय समस्यापि सम्यगवगम्यंयोगस्याप्यनुयोगयोग्यं श्रद्धाया अपि श्रद्धेयं अस्पृष्टं दुष्टतयाअनवगूढ़ं मूढ़तया निरस्तं नास्तिकतया वञ्चितं कुचिन्तया दूरीकृतं प्रतिग्रहेनावज्ञातमवज्ञानेन नाङ्गीकृतमनङ्गेनाक्षिप्तं दृप्ततयातिसारितं मात्सर्य्येणानिषेवितं विषयैरलब्धंलुब्धतया वर्जितं अनार्जवेन शीलितं दुःशीलतया निर्वासितं दुर्वासनाभिरकलितं कलिना कलिनाम महिलानामिवपरिहरन्तं महामन्त्रिणं पवनाभ्याससुघटितसन्धिविग्रहं कामनया वर्जितमपि न कामनया वर्जितं निष्कोपचयमपिअनिष्कोपनिचयं स्फुटमहसं अस्फुटमहसं अनुतापकारिणं अननुतापकारिणं गिरा वनप्रियं पुरुषमपुरुषमद्राक्ष्म लक्ष्मभिरभिमतैरसमानं भासमानम्। अथाभ्युत्यानवेलालीलायितानन्तरं बद्धाञ्जलिर्निरवद्यगद्यपद्यमयीमयमुढाजहार भारतीं। यथा—जह्नुजे ! मम शशिप्रभासिते भासिते समुकुटे सदानवे ! ।

दानवेन्द्ररिपुपादनिर्गते ! निर्गतेर्भव भवाब्धिपारदा॥

पारदावदातवीचिनिचयक्षालितास्तोकलोकमनेकमतेशयकमण्डलायमानपानीयधारावधूतनवसुधेव वसुधेश्वरभगीरथपथप्रवर्त्तमानजलकल्लोल-मिलड्डिण्डीरपिण्डविडम्बितहरमनोहरहासे ! महासेनजननि ! जननरकहारिणि ! निखिलदुरितदूरितत्रिभुवनभुवने ! भवनेत्रानलकीलकवलितवालेन्दुपालनोचितपयःप्रदानकुशले ! कुशलेखाङ्कितसमीपवने ! पावनेन्दिरामन्दिरारविन्द-सुन्दरमेदुरापे ! दुरापेश्वरशिरः-सञ्चार-सञ्जातपरमगौरे ! गौरवेशविशेषप्रभाविनिन्दितशारदजलदे !जलदेवतावगाहनक्षुभितसितच्छदनिवहभासमाने ! समानेकपदप्रदेशसञ्चारिहरिणगणप्रारब्धकेलिसङ्गरे ! सङ्गरोचिततटनिषणमुनिजनाकीर्णमाणमनोरमारवे। मारवेदनानभिज्ञवैखानसारचितसारसवने ! अवलेह्यमानादिपुरुषवक्षःस्थलशायिकौस्तुभप्रभासमूहसिते ! हसितेश्वरशिरोवर्त्तिशीतद्युतिकेतकीकलिके। कलिकेलिभवनभवनगरदाहोद्धुरधर्मानलप्रभवारणे ! वारणेन्द्रावगाह्यमानघनरसे ! नरसेमुषीसमुदयागोचरित-हरमौलिमालतीमालाभ्रमकरे ! मकरे-श्वरपृष्ठाधिशयितचरणकिशलये ! सलयेन्द्रादिवृन्दारकवृन्दविधीयमानयज्ञे ! नयज्ञेश्वरभार्गवाङ्गिरसवाङ्मनसागोचरप्रभावे ! प्रभावेश्मामृतरश्मिमण्डलाप्लवनसुरसे ! सुरसेव्यमानसैकतसन्निधाने ! निधानेश्वरशैलशिरोविहिततरङ्गे।तरङ्गेरितनीरजोदरकुञ्जगुञ्चद्भ्रमरे। भ्रमरेणुहरणप्रवीणसम्भारसम्भाविते ! भावितैश्वरप्रलम्बजटाकलापे ! पेशलस्वर्वासिविलासिनीघनजघनारुद्धमुग्धप्रवाहाकृष्टत्रिपिष्टपविटपिप्रसूनधवलिते ! वलितेजोहारिहरिवामपादप्रहारभि- दुरब्रह्माण्डभाण्डमण्डपमध्य-राजतैकस्तम्भायमानमहाप्रवाहशोभितजगदीक्षिते। दीक्षितेप्सितलोकप्रदानपटुतटनिविष्ट- सन्तुष्टनैष्ठिकगोष्ठीस्तवाविर्भूतवासवे ! वासवेतसनिकुञ्जनिषणकिन्नरमिथुनापगीयमाने ! गीयमानेकपनदविलासनोद्धुर- तरवारिधाराधारे ! राधारेवतीपतिसमाराधितकलिन्दकन्यापरिरम्भणावाप्तहरिहरकायशोभे ! यशोमेशप्र-काशनाशितदुरितान्धकारविसरे ! विसरेखायमानहरशिरश्चन्द्रचुम्बनचटुलचक्रवाकजलव्यतिकरोद्धृतसगरपार्थिवकुले! वकुलेन्द्रद्रुमादिद्रुमच्छायानिशनिषण-कुरङ्ग-कुलकवलीक्रियमाण-तीरकमले ! कलमेखलानिनादानुवादिराजहंससरसि- तोल्लासितविपुलपुलिनजघनके ! घनकेतकीवनपवनान्दोलितनीलोत्पलकुन्तले !कुन्तलेलिहानभीषणसमरार्णवसन्तरण- प्रवीणदेतव्रतनिपीतकुचकलसे ! कलसेबालमञ्जरीग्रामनामसतिमिरनिकरविराजमानप्रवाहभूषितमदनदहनमस्ते ! नमस्ते महीर्मिजिताहीनभोगे ! नभोगोंयकीर्त्तिलसद्विप्रसिद्धे ! प्रसिद्धेस्तु गङ्गे ! मुदे ! तेऽम्बुधारा सुधाराधिते ! दत्तसन्तानभोगे॥ नभोगे खलाशीविषातंकवोशः कवीशस्तवेमं स्तवं व्याततान। तवानन्तकीर्त्तेः कलाभाजनानांजनानांशिरोदामदेवेश्वरोऽपिं॥

इत्यभिधाय विरराम। इति तृतीयस्तवके गङ्गास्तुतिर्नाम द्वितीयं कुसुमम्।

अथ भगवत्पादानुभाषणम्।

अथ विहितस्तवस्यास्य भ्रूसङ्गयापुरुह्नताज्ञयेवाहुताः सविनयमुचितोपचितामेतां वाचमवोचामः। नमः कमलाकामुकाकारावतरणेभ्यः श्रीचरणेभ्यः। सम्प्रति प्रसादप्रसादतः संसारगुरुमरुमरीचिकारीचिकां मृषातृषापगमभाजः सुधासागरमगाधमध्यमवहिर्वाहनकृतात्म-त्संवाहनो ज्ञानदर्पणकृतनिर्यापणः सद्यो याज्ञवल्क्यावाक्यमाशिश्रिये। अधुना धुनाना पापानि सुरधुनीहाध्वनीनतामयासीत्। अतोऽस्माकं न भविता भगवन् ! भवन्मुखमुखावलोकनात् उत्सारितातुच्छकृच्छ्रोच्छ्रायनिकायस्य कायस्य फलमविकलमवापामः। भवानेको भवानेकोपपातकव्रातकरभकुल-निराकुल-कवलन-कठोर-कण्ठीरवो भगदागमनप्रसङ्गो गङ्गाप्रवाह इवात्र प्रायेण प्रवर्त्तते। युष्माद्विजयव्याजेन राजीवजन्मासन्मार्गो-पदेशायास्मै समाजिहीतेस्म। उन्निद्रश्चन्द्रो वागत्य धरणीसरणीरमृतसारणीभिरभिषिषेच। किं बहुना भवादृशानां दर्शनमेव दारुणदुरितदारणम्। सम्भाषणमेव निखिलोपन्निषन्निषेवणं स्पर्श एव स्पर्शाश्मलाभःशुश्रूषैव ब्रह्मशुश्रूषा सन्निधानमेव सन्निधान समाराधनमेव समाराधनं तवद्यनिरवद्यं तिथिरतिथिः श्रेयान्मे मुहूर्त्तः समपद्यत। मातापित्रोः पवित्रोऽन्वयः प्रतिष्ठा निष्ठामवाप। नित्यकृत्यानि कृतकृत्यानि नित्याभ्युदयचयभाजो वयं यद्यपि कृपामृतस्पृशा दृशा भृशङ्कृताः कृतार्थास्तथापि वाचालतावाचालतः काण्डमकाण्डं ताण्डवयति। भगवत्परित्यागादकृशकेशः कतमो देशः कृतः ? स्वच्छन्दमागच्छद्भिरच्छधीभिः के के वाश्रमागतश्रमागतविश्रमादक्रियन्त। कियतीयतीश्वराणामजनि जनितः प्रभृति विमला वर्णमाला। अमन्दवन्द्यपादानां साधुमाधुकरी भिक्षा पीयूषकक्षामनूचानचयगृहेषु ग्रहिष्यति किसु कथाभाग्यभाजो भवने भवनेपथ्यभृताद्यापि भविष्यत्येकभिक्षा। अन्यच्च। श्रीमतां वेदान्ते वेदान्तेवासिप्रभृतिभिरेव जनो भगवन्महिमानं मीमांसानिःसीमां सम्प्रति प्रतिप्रद्यामहे महेच्छानाम्। भगवदुपन्यासाद्विहितकणादानुवादाक्षपादानुवर्त्तिन्यो विद्याः प्रसिद्धबौद्धप्रयुक्तकुतर्ककर्कशशरेभ्यो न विभ्यतीत्यभ्यर्हिताः प्रकाममामनन्ति। सख्ये संख्येयसख्यावत्सख्यायां मुख्यतया लिख्यन्ते लेखैरपि युष्मादृशाः। आपातप्राञ्जलपातञ्जलजलधिरञ्चलि नाकलितः कलितमोहारिभिः। गुणानां साहित्यं साहित्यसादधाति धातृतुल्यानाम्। तत्तद्रसप्रसवित्वं कवित्वं बिभर्त्तिक्रीर्त्तिमतामित्यनुशुश्रुम। अतएव युष्माभिरनूष्माभिषङ्गैः समं सविस्मयाः समगंसहीत्यभिहिते विहितयथोचितानुवादे प्रदक्षिणाचरणप्रणामादिना सप्रसादे प्रसादे तदनु तदनुज्ञया ततस्तीद्रमनुव्राजिष्म।

इति भगवत्पादानुभाषणं नाम तृतीयं कुसुसम्।
————

अथ विप्रसम्भाषणम्।

अथ दक्षिणेन क्षौणीपतिमार्गं भार्गवमिव परशुभोल्लासितममृतसद्भारमिव कुण्डलसल्लक्ष्मीकं वशिष्ठमिव शिष्टश्रेष्ठं पराशरमिव पराशयज्ञं वेदव्यासमिव वेदव्यासोक्तं शुकमिवाः शुकलितपरमार्गं दुर्वाससमिव दुर्वासनाशून्यं जमदग्निमिव ज्ज्वमदग्नितेजस गर्गमिव भर्गभाजं कश्यपमिव वश्यपरमेन्द्रियम्, गौतममिव श्रौतमतप्रवर्त्तकम्, विश्वामित्रमिव विश्वामित्रम्, अत्रिमिव सत्रिप्रवरम्, गुरुमिव क्रतुक्रियाकोविदम्, कुत्समिवाकुत्सचरितम्, वत्समिव वत्सलम्, वालिमिव जीवालिदयालुम्, तरुणायमानकरुणारसनिर्य्यासपीयूषवर्षिभि दृर्गञ्चलैरुदंचयन्तमिव चन्द्रचक्रवालम्। ईषदुन्मिषद्दशनच्छलेन स्वच्छमाशयं प्रकाशयन्तम्, उपमठपठदकुण्ठकण्ठवैकुण्ठभक्तविरक्तप्रव्यक्तोक्तसूक्त संसक्तचेतसम्, ऊर्द्धरेतसम्, अजिह्मम्, ब्रह्मिष्ठं ब्राह्मणं सम्यगुपगम्यैतदवादिष्म। श्रीमन्नसस्कुर्महे महेशमहसामत्रभवतां विहिततीर्थसार्थक सञ्चरणौ चरणौ, भवांश्च चतुराननोऽप्यनष्टश्रुतिः, पुरुषोत्तमोऽपि न मायावल्लभः, गिरिशोऽपि नास्थिरचितशोभस्ततो न कस्य नमस्यः? भवतः कलानिधेरनुपाधिरियं चातुरी यच्चतुरचन्द्रकान्ताननं सुरोचितं वचनपीयूषं वर्षतीति निरवद्यालायपद्यामनुसरामः। एकः सातिरेकविवेकः केषां विदुषां परिषदि न गण्यसे? पुण्याशेमुषी आसीद् यास्मदीया दिदृक्षा प्रेक्षावन्तं भवन्तं प्रति सा पूर्णा न किमप्यवेक्ष्यमपेक्ष्यते यद्यप्यनवद्यविद्याविद्युदुद्योतोद्योतितमेदिनीमण्डलानामविकलां कलयामः कुशलतां कुशलतां दधतां श्रीमतां, तथापि मुदा सदाचारस्वच्छा पृच्छासौ विधीयते। भव्यमव्याहतचित्तानाम्, कच्चिदाचारचातुरीतुलितचिरपुरुषरत्नानामिव नगरी गरीयसी सदावदातभवदवस्यानात्? उत कुतोऽप्यागतं वतंसभूतैर्भूतलस्य ?कियन्तःश्रीमतामिहाग्रहारा धराग्रहाराःशालिशालिनः ?कश्चिद् विपश्चिद् यजमानो भवन्मानोचितो वर्त्तते ? कीर्त्तिमतां प्रतिग्रहं जहति महति यत्रेमहितमहिमानो गृह एव निगृहीतेन्द्रियग्रामैरव्ययभवस्थीयते ? किंवा क्वापि कदापिगम्यतेऽनवगम्यतेजोभिः? कस्मिन्नप्यवसरे नरेश्वरावासं प्रतिसम्प्रति यात्रा क्रियतेऽन्यत् क्रियते वा? तत्सम्बन्धाः कति?प्रतिदिनं स्नानानि भवन्ति शुभवन्ति? साध्यन्दिनं कर्म निर्ममेनिर्ममेहितैर्भोजनमजनि रजनीकरनिकरनिभं शुभयशसाम्,उत विचक्षणानां क्षणादुपरि परिचितिर्भवित्री? भोजनस्य कस्मिन् कस्मिन् वादिगिरिविदारणदारुणकुलिशास्त्रेशास्त्रे मेदुरास्फुरत्यादरोदरोन्निद्रतामरसोदरपत्रसोदरनेत्राणाम्? कापि व्याक्रियते व्याख्या, उत व्याक्रियते किमपि? प्रत्यहमहं यथा भवदवलोकनादासादयामो दयामोदितमनोभिः सुमनोभिस्तथा विधेयम्। इत्यस्माकमाकर्ण्यकर्णरसायनं वचनं तैरपि कपिलमुनिकल्पैरनल्पजल्पजलधरध्वनिमधुरगम्भीरतारभारती प्रतिशब्दमुखरितमन्दिरोदरमिदमुदीरयामासे। सुचिरमपरिचयवशादसाम्प्रतं साम्प्रतं पौर्वायर्य्यविपर्य्ययाद् यत्किञ्चिदकस्मादस्माभिरभिधीयते, तत्र पवित्रगुणगणै र्दूषणगणग्रहणग्रहिलैर्न भाव्य भावव्यञ्जितमहितमहिमभिर्महाशयैः। नयनयोरभितममृतद्रवं स्रवन्तःके भवन्तः? अभिवादये। दयेन्दिरामन्दिरायमाना हृदयारविन्दान् युष्माननूष्मायितान् सम्यगागम्यताम्। नितान्तंपवित्रचरित्रैरिहोपविश्यताम्। दृश्यतां दधानैर्गुणनिधानैःसर्वतः शर्मस्वधर्मकर्मनिर्मलमनसां सुमनसाम्। कुतः कुतर्ककर्कशसम्पर्करहितैरिहायातम्? गृहादागम्यते रम्यतेजोभिरुत कुतश्चिद् विपश्चिद् वरेण्यैरन्यतः?अत्रागमनेनायं ग्रामो गुणग्रामोपचितः। कदा विरचितः परिचितकलकल्पैः? किं नाम नामनिकामनिर्मलमतीनाम्? विहितविद्वज्जनवृजिननिर्वासः क्व वासः कृतः? कृतज्ञेरयं संवसथः कियन्ति वासराणि करणीयः? किं किमधीतं सुधीभिः? किं किंच पुस्तकमस्ति स्वस्तिमताम्? निर्मितामितखेदच्छेदः को वेदः कोविदैः पठ्यते? का वा शाखा निशाखानुकम्पिनी? को देशः पेशलप्रकृतीनाम्? अदूप्याः पोष्याः कति सन्तिभवतां शुभवताम्? कति मार्य्याआर्य्याणाम्? वहवः पुत्राः,किं द्वित्रा एव देवकल्पाः? कियन्त्यः कन्या विश्वाधिकन्यायभाजाम्? जनयित्रीजनकौजनकौतुकदायिचरितौ, किमासाते वा कीर्त्तिशेषपटे निःकपटम्? कियन्ति यावदावयोः किमिति दर्शनजनिर्नाजनि अयाचितम्? भृशं बलं शम्बलं किं चास्ति नास्ति वा? कथं निर्वाहोहव्यवाहोपमतीव्रतेजसां बोभवतीति भवभीतिजुषां विदुषां नित्यं कर्म हर्म्य एव निर्मीयते निर्मलमनोभिरथवा पुष्कलपुष्करे पुष्करिणीतटे? एकवारमाहारः सारभूतः प्रभूताज्यः प्राज्यव्यंजनो भवति, हिर्वा? प्रथमं सन्तर्पितनभोजनं भोजनं कियत्यां वेलायां सम्पाद्यते? अत्र मैत्री धात्रीदिविषदां केन केन समं? समन्ततो विशदपदकदम्बबन्धोपसंस्कृतं संस्कृतं श्रीमता श्रुतमेवास्वच्छन्दममन्दच्छन्दःसन्दानितनितान्तकान्तकविताकान्तारे गौश्चरति। आत्मकृतिः क्वतिचरैःकापि पठ्यताम्? अव्यग्रसमग्रगुणग्राभैर्ग्रामान्तरगतमासीत् क्षमासीमन्तमणिभिः? अथवात्रैवास्थायिस्थायिकीर्त्तिभिःकियन्ति तीर्थानि प्रज्ञाऽवज्ञातगीर्वाणगुरुभिरवीक्षितानि?कियन्ति चातिमात्रपवित्रया यात्रया निर्दमैः सम्भावनीयानि? भवतां भक्तिः शीतकिरणाभरणे भृङ्गिणमवगणयति किमुत कौस्तुभविभूषणे विभीषणं विशेषयति? सम्प्रति प्रतिभाजुषां जिगमिषैव लक्ष्यतेऽबलक्षयशसाम्। अस्मन्मनीषितमखिलमेव पूर्णमासीत् पौर्णमासीहिमांशुमांसलकीर्त्तिमतां भवतामवलोकनेन। इति निष्प्रतिममतिभिरभिहिते यथाप्रश्नंलोकोत्तरैरुत्तरैरनुमोद्याभिवाद्य च वाद्यवेक्षणाकाङ्क्षया निरगामि समगामि च, स्वामिसमीक्षणप्रतिक्षणविजृम्भमाण- कल्याणभरैरस्माभिः।

इति तृतीयस्तवके ब्राह्मणसम्भाषणं नाम
चतुर्थं कुसुमम्।

—————

अथ तड़ागादि वर्णनम्।

अथ क्वचित् कुवलयावलीमिलितपुण्डरीकखेलव्याजविजृम्भमाणप्रयागपरभागं तड़ागं साकाङ्क्षमीक्षमाणाःकुत्रापि करकमलकलितजलधैतकलधौतकलशविलासधरपयोघरभरावनम्रनागरीगरीयःस्वेदच्छेदमेदखिनीं समीरसमीहित- समीपां वापीं नेत्रपात्रीं कृतवन्तः। क्वापि कूपान् भूपानिव गुणिभ्यःपात्रेभ्यःपावनजीवनदायिनो निरन्तरं निरूपयन्तः, कुतश्चित् पार्वतीपतिपदपयोजपूजनप्रयोजनविशुद्वाभिजननिवासनिर्वासिताशेषकल्मषोपसर्गंदुर्गं नयनमार्गं नयन्तः, अपरत्र च भवद्वक्षस्तटप्रतिभटहाटककपाटरचनासनाथ गोपुरं च परिचिन्वन्तः, अन्यत्र सुपर्वपर्व्वतगर्व्वसर्वंकषानिभानिभालयन्तः, इतरत्र जवविजितकुरङ्गांस्तुरङ्गान् रङ्गागतान्नटानिव नृत्यतो निरीक्ष्य वीक्ष-णयुगलं सफलयन्तः, क्वचिद्धजवल्लिवेल्लनोल्लासितभास्वत्तुङ्गतुरङ्गगमनानि नयनमीनयोरानायतां नयन्तः, क्वचन काञ्चन काञ्चनवर्णां कर्णान्तविश्रान्तचारुलोचनां चलां चरणसञ्चरणसिञ्जानमञ्जुमञ्जीरनादेन नेदीयसां हृदयमदयमपहरन्तीमक्षिलक्षीकुर्वाणा निर्वर्ण्य निर्वाणागारलाघवं द्राघयन्तः, वसुमतीसारं देवद्वारं समासाद्य माद्यदन्तःकरणाः समवर्त्तिष्महि। अनन्तरं निरन्तरमपक्रम्निष्क्रामदनेकसेवकनिकायकायसम्बन्धं सनिबन्धं परितः परिहरन्तः, सन्तमसराशिनाशिप्रचण्डमार्त्तण्डमण्डलसप्रकाशमाकाशसङ्काशं देवसकाशमनायासमयासिष्म। सम्प्रति च न कंप्रति प्रतिभाविभासितवदना वादिन आवर्जिता जर्जरकर्णकलशीकाःप्रेक्षवन्तः प्रतीक्षन्ते चास्मदप्रह्वजिह्वाशक्तिमुक्तां वाचो युक्तिमुक्तावलीम्, तदचिरस्य निरस्य सर्वगर्वमेतस्य भगवतीं भारतीं कण्ठपीठाधिष्ठायिनीं निर्माय निर्मायमुपास्य च द्विपास्यमध्यवस्यामि पुराणपुरुषोत्तमस्य देवस्य विचित्रां स्तोत्रावलीम्।

इति तृतीयस्तवके तड़ागादिवर्णनं नाम
पञ्चम कुसुमम्।

————

अथ वादितर्ज्जनम्।

इत्यादि वादिमान्द्याय वचास्युच्चार्य्य धैर्य्यवान्।
प्रतीक्षेत विपक्षस्यभारतीं प्रातिकूलिनीम्॥

ततःसरम्भसम्भारगम्भीरारम्भनिर्भराम्।
विपक्षं क्षिप्रमाक्षिप्य वाचमुच्चारयेदिमाम्॥

यन्मया सह दुर्बुद्धे ! वाग्युद्धंकर्त्तुमिच्छसि।
तत्पङ्गुर्भृङ्गमुत्तुङ्गं मेरोरारोढुमिच्छसि॥

सुप्तसिंहसटाकृष्टिमष्टापदपदच्छिदाम्।
व्याघ्राय शीघ्रमाघ्रातुं शशकःसत्यमीहसे॥

शुकशावः शशादस्य चञ्चुंचुम्बितुमिच्छसि।
सर्पं सदर्पमङ्घ्रिभ्यानिष्पेष्टु दुष्ट। वाञ्छसि॥

मण्डूकश्चण्डतां धत्से कुत्सितो नागसंसदि।
श्रीखण्डखण्ड एरण्डः स्वसौरभ्यं स्नुषे उषे॥

सम्प्रहर्त्तुं विषाणाभ्यां शक्रेमं वृषभेच्छसि।
गिरिं पातयितुं दन्तीदन्ताभ्यामिव वाञ्छसि॥

दुर्बुद्धे ! स्पर्द्धसे कीटः प्रकटं कैटभारिणा।
आखुर्विड़ालदशनानुत्याटयितुमिच्छसि॥

इदं पाषाणदलनमन्धस्यालेख्यदर्शनम्।
मृगतृष्णाम्भसि स्नानं कृष्णाहि-मुखचुम्बनम्॥

तुलया लोलनं मेरोःकरेण स्थगनं रवेः।
खङ्गधाराग्रसञ्चारः शिरसा गिरिभेदनम्॥

नभसोऽङ्गु लिभिर्माणमयश्चणकचर्वणम्।
अङ्गारशयनस्वापो मज्जयोऽयं त्वयेष्यते॥

राजिलो गरुडं द्वेष्टि खद्योतोऽर्कं जिगीषसि।
कूपः संस्पर्द्धसेऽम्भोधिं मृगः सिंहं जिघांससि॥

स्वशाखिमञ्जरींभूस्थःकरेणाक्रष्टुमिच्छसि।
त्वं शेषशेखरमणिं हठेनादातुमिच्छति॥

स्वर्दन्ति-दन्तैस्ताटङ्कंवतंसं गरुड़च्छदैः।
कृतान्तमहिषेणाम्भोहरणं च चिकीर्षसि॥

त्वया दुर्वचनैरद्य दुर्वासाः परिकोपितः।
कलिकाद्रंष्ट्र्याकण्डू रपनेतुमिहेष्यते॥

सुखसुप्तस्त्वया सिंहःपादाघातेन बोधितः।
यदहं वादवचनाटोपेन परिकोपितः॥

लक्षणे मम दक्षत्वं साहित्ये संहता मतिः।
तर्के कर्कशतात्पर्य्यं कृशास्त्रे नास्ति मेश्रमः?॥

इत्थंसुव्यथकैर्वाक्यै रस्य दर्पार्द्धमुद्धरेत्।
अर्द्धं च शमयेदुवादी युक्तियुक्तैर्वचःक्रमैः॥

इति तृतीयस्तवके वादितर्जनं नाम षष्ठं कुसुमम्।

________________

अथार्घोत्पादनम्।

अर्थोत्पादोऽद्भुतं चित्रं सादृश्य रूपकादिकम्।
समस्या-पूरणोपायः समस्या च यथाक्रमम्॥

मृण्मयकार्पासमयद्रुमसम्भवधातुचर्मदृषदां च।
वाच्या क्लेशसहत्वात् भद्रस्थानादिसम्प्राप्तिः॥
मृण्मयं यथा—

कुद्दालघात-पादप्रहार-करपीड़न-बन्धनच्छेद-चक्रभ्रमणपाषाणपिण्डिका-काष्ठहस्तघात-रवितापशोष-वह्निप्रवेश-परीक्षार्थशिरः प्रहारादिभिः कष्टमनुभूतम्, जनबुभुक्षातृष्णापरिहारार्थं जलधारापातेन लोकोपकारः कृतः, तैः सुकृतैःमृण्मयवस्तुनो भव्याधारादि-कमारोग्यम्। कार्पाससूत्रमये वस्तुन्येते भावा वाच्याः, यत्पूर्वं शीतवातापयायाचिताम्बुदानकर्मकरनखच्छेदनविक्रिया एवमातपक्षेपलोहोपलघर्षणतुलारोहणान्तःसाराकर्षणपिण्डा- घातविदारणयन्त्रारोहणतर्कुभ्रमि आकर्षणतन्तुवायाकर्षणकाष्ठप्रहारविपणिविक्रियादिकष्टमनुभूतम्। तूलिकादिरूप- तया परगुह्याच्छादनेन च शीतातपादिवाणतया परोपकारः कृतः, तैः सुकृतैः कार्पासादिमयवस्तुनो भद्रस्थानानि सम्भाव्यम्। एवमन्यत्राऽप्यूह्यम्।

लज्जा कोपोऽयशोनाश रोषाक्रन्दास्वकृणता।
रागपाण्डुरता शस्त्रौविषझम्यातपो जपाः॥

राजप्रनादहसैक्यदण्डभक्तिनिषेवणम्।
दुःखस्नेहाभिचारेर्ष्या सहनोज्जीविकादयः॥

वर्ण्यते विजितस्यैते पराजयसमुद्भवाः।
भावा वाच्यायथोचित्यंसर्वे लज्जादयो यथा॥

मुखेन जितं च कमलंलज्जयेऽवनतं गतम्।
कोपतप्तमिव कामारः क्षुद्रशत्रुश्च शमं भेजे॥

मूर्त्तमिवायशोनृड्रावलिव्याजेन धत्ते।
अथवा जलदुर्गे नष्टंरोषादि वारुणतां धत्ते॥

भ्रमरारवैराक्रन्दतीव नीलालिभिः श्याममुखमासीत्।
मुखेन प्रीत्या सम्भावितं कोकनदमनुरुक्तत्वं धत्ते।
वेत्रजितं पुण्डरीकं चिन्तयेव पाण्डुरतां धत्ते॥
मृङ्गश्रेणीमिषादुरसि शस्त्रीं क्षिपति॥

भृङ्गमिषाद्विषं भक्षयति जलान्तस्तपतां दधौ।
जले श्राकण्ठमग्नं तपस्तनुते। [खैर्मन्त्रंजपति।
परागपाण्डुरां रुद्राक्षमालाभिर्वलिमालां दधत्तदा
राजप्रसादरहितं बहुकण्टकतां धत्ते॥

हंसैःसह सङ्गतिं कुरुते अरुणदलच्छलेन।
काषायं वासो विभ्रदवलम्बितैकदण्डमस्ति॥
पल्वलगतमत्स्यकूर्मवराहादीन् भजते।
शम्भोरम्भोमूर्त्तेः सेवां करोति।

दुःखादिव मकरन्दाश्रूणि मुञ्चति।
तन्मित्र इन्दुकान्तिहारिणि सूर्य्ये स्निह्यति।
जलमध्यस्थमभिचारमन्त्राक्षराणीव भृङ्गान् धत्ते।
तन्मित्रे चन्द्रमसीर्षां विभर्त्ति।

भ्रमरपदप्रहरणानि सहते।
त्रासादिवोज्जीविकया सृङ्गनेत्रेणेक्षते।
भयादिव वीचिक्षोमात् कम्पते। [विभर्त्ति।
हृद्वर्त्तिस्वपराभवामर्षानलधूमलेखामिवालिमालां
योद्धु काममिव प्रकाशितकोशं सहस्रं पत्राणि धत्ते।

एवं चन्द्रोऽपि। यथा—

मुखजितश्चन्द्रो लाञ्छनच्छलेन पराभवाकीर्त्तिं धत्ते।
उदरन्यस्तशस्त इव लक्ष्यते।
महेश्वरजटाटवीं प्रविश्य कशोगङ्गातटे तपस्यति।

विष्णुपदं याचते। तन्मित्रं पद्मं द्वेष्टि।
अस्ताद्रिशिखरमारुह्य समुद्रे क्षपां करोति।
दिवा न प्रकटो भवति। मित्रमनुप्रविशति।
कपोलप्रतिविम्बच्छलेन तदनुप्रवेशं कुरुते।
विटेशं भजते। उदरताडनादिवक्ष्यामोदरतां विभर्त्ति।
पाण्डुरः क्षीयते। पीयूषविन्दुव्याजेनाश्रूणि मुञ्चति।
सदार्द्रतया स्विद्यति। अस्ताचले सानुचरो विलीयते।
चरणनखानुविभ्वव्याजेन शरणं प्रविशति॥

इति चतुर्थे स्तवके अर्थोत्पादनं नाम
प्रथमं कुसुमम्।

————

अथ अद्भुतम्।

यत्र लिङ्गविभक्तीनां सति भेदे महत्यपि।
दृश्यते शब्दसादृश्यं तदद्भुतमितीर्य्यते॥

इन्नन्तैःस्वीकृतैः शब्दै रौरी क्लीवस्त्रियोः पुनः।
तैरेव रेफपृष्ठस्थेः स्त्रीकर्मबहुता भवेत्॥

प्रभावराजिनी रागोल्लासप्रध्वंसिनीस्यात्।
गौरीशम्भोः पदाव्जे च कुरुतां सुखसम्पदः॥

अत्र गौरी विशेषणे स्त्रियामीन्। पदाव्जविशेषणे नपुं सके औरी, सुखसम्पद्विशेषणे स्त्रियांशम्।

विशेषणपरिक्षिप्तैरिङ्गितै रेफपृष्ठगैः।
द्विष्ठिद्विपञ्चमौकर्मस्त्रीवहुत्वेऽपि वाद्भुतम्॥

द्विष्ठस्योभयपदिधातोःद्विपञ्चमो-परस्मैपदद्विवचने आत्मनेपदैकवचनञ्च तस्याः क्रियायाःकर्मस्त्रीबहुत्वेऽप्यद्भुतम्।

यथा। भवभेदपटूरागध्वान्तभानुस्थितीरयात्।
श्रीमान् विश्वेश्वरोगङ्गाकाश्यौच कुरुतां श्रियः॥

अत्र विश्वेश्वरगङ्गा काशी श्री विशेषणत्वात्, सु-औ-शषः क्रमेण कृताः।

स्मेर पुष्कररोचिष्णूराजन्यशतशेखरः।
हरेः स्वद्धो गणाधीशसूर्य्यौच कुरुतां श्रियः॥

स्मेर पुष्कररोचिष्णू राजन्यशतशेखरः।
कृपाणस्तव हस्तौ च सदा वितनुतां श्रियः॥

न्युपसर्गशब्दपृष्ठैराजीतुल्यै र्विशेषणक्षिप्तैः।
अन्ते क्रियाविशेषणसारैरत्यद्भुतं भवति॥८॥

न्युपसर्गाः, निहत, निमग्न, निरुद्ध, इत्यादिकाः शब्दाः। राजितुल्याः राजि, राजी।धूलि,धूली। इत्यादयः। निकामम्, नितान्तम्, इत्यादि क्रियाविशेषणसारैः। यथा।

छिन्नाघवल्ली निचितात्मसौख्य,
राजीनिरुद्धानिरूची निकामम्।
हरस्य मूर्त्तिश्वरणौ महांसि,
मा जातु गातां मम चित्तवृत्तेः॥

तथाच। अटुरितराजी निदलितकर्मश्रेणी निरुद्धरागभरा मूर्तिः क्रमौ वचांसि च शिवस्य लोके सुखं गाताम्।

स्फुरितसुभाषितपालीनिहतप्रत्यूहसंशयं ब्राह्म्याः।
मूर्तेः क्रमौ महांसि प्रभवत मुदितं वरं दातुम्॥

प्रचुरप्रभावनहितावञ्चितपरमोदया विलासेन।
दातुं प्रभवत सुदितंवरमग्ने ! रविविधू ! विधिहरीशाः !॥

सुप्रभावा निबहोद्यत्पुण्यभावा नियोगतः।
मूर्त्तिः क्रमौ महांसि श्नीर्हरेर्युगचतुष्टये॥

—————————————————————————————————————————————

पुटे स्पष्टता नास्ति।

पटन पाटोवाचन्तय गिय ! मुरभोरणाय दुरितानाम्।
दिमन्ततनुरमिकोऽपि न्मरति स्मर नाग-पञ्चाम्य !॥

गुगामीज कृषौक्रीडाः सुप्रभायवितत्रियः।
राधाया यमुना तीरं विषयोः सुख-ममृज्ये॥

इम्दायनि यिनासेन मध्ययोरिष योषितः।
कपोनिय नागस्य थियो गति भवनुजाः॥

यिभ्यलाविय शोभिता विभौधेन चन्द्रलेवा।
पम्यपार्कायिय मयितायवरुणेन प्रतीची।
यनप्रदंशायिय शोभितायिणो यिन्तामेन स्वी॥

यिन्यमनामम्यामान्तनक्षयष्टनष्टप्रन्तयान्त्नलीलाभिः।
धानुनतर्प्येकाचयनमयगलमनऽमहान्तु तं भवति॥

** ** उकागन्दी यथा— शोभिनो यनप्रदेशा इव गायनः। प्रारंम्भ यिभय। इकारान्तो यथा—उपसितप्यत त्रपषभषटेन इय यनम्। तेजोऽनुगतक्यित्ववयो इव गाामम्।

—————————————————————————————————————————————

बह्वाश्रितसरसः सुकविप्रवन्ध इव ग्रीष्मपथाः॥

** तृप्रत्ययान्ता यथा—**

सुसम्पन्नयोद्धारः सैन्यनिवेशा इव देशाधिपतिः॥

एवम्—सर्वदातारः पृथिवीपतय इव मेरीरवः बहुधातारःपृथिवीपतय इव गिरिकूटः,मृगयातारोव्याधा इव अश्वः।

** धातुश्चतुर्थ्येकवचनमिति—**

धातोरग्रे ह्युन्यस्तान्याबहुवचनैकवचनं नादि मादिलादि शब्दैः। यथा। अभवन्नितान्तम्,अस्मरन्मातवम्, व्यचरन् लीलया।

इति चतुर्थस्तवके अद्भुतं नाम द्वितीयं कुसुमम्।

———

अथ चित्रम्।

एकार्थत्वेऽनुलोमप्रतिलोमशब्दाः। यथा—नयन, नर्त्तन,कनक, कटक, महिम, मरिम, करंक, कलङ्क, कालिका,कारिका, सारसा, सहास, मध्यम, करक, स्यदस्य, नवेन, नव्येन, तावता, तारता, ताव्यता, विभवि, केनके, कचक, करक, कञ्चुकं, कामुका, काशिका, नंदनं, दम्लदम्, दंतदं, दम्भदम्, दरद, लगुल, योग्ययोः, रुततरु, हाववहा, पतदातप, वरभैरव, कलपुलक, वरकैरव, वरपौरव, तरुणीरुत, रदसोदर, नदभेदन, दम्पतीपदम्, लङ्काकंकालं, माधव, वधमा, वल्लव, वन्टेदेवं लेखखले, रवीवीर, भानोनोभा,हंसासाहं, जीवावाजी, यमोमोय, विभुभुवि, वददव, नववन, वललव। अन्यार्थत्वे—यामा,माया, माया,यामा. विभु. वत, वद, कंपं, राधा, भावा, सुत्रामा, तन्दक, मालिका,

—————————————————————————————————————————————
पुटे स्पष्टता नास्ति।

मानिनी, गजते, भारती, हाम्रिका, गगन, करत मागेय, रुटक, टोनरत्ता, महीरमा, वातापिना, पिनाशिना, मदालिका, यमगज, दृरिटेव, मव्या, भोविकपीन, नन्दनवन, ननकूवर, सहलावत, रसविसवेन, साहममा नयसरामद। एवमन्येऽपि।

मगयपाद्यपावेन यत् क्रियादिनिनूहनम्।
मयग्नियागुप्तकाद्यसाप्तर्धिधमिदं यथा॥

श्रावधानवा प्रिया पुरोमेघतिरोहितयोः।
मदीदनामासयोमप्रेम तथा तथा हम॥

( घय मेघति, दधे क्रिये)
यप्तृकर्मगुप्तकम् यथा—

मन पमि याध्वती रिरतिमान्यवेत्।
मस्यौनामा कोपि देश प्राप्नोति के गुणेः॥

मणमा उतार्मकम्। मा लक्षोः। दिन्तियेभ्यः। ऋ नवम्। गरौंः )

मन्यन्धगृहम् यथा—

या पिशपाल मोशय दयाननम्।
व्यास अभिव्ये,
साताम्॥
अगममिति गन्धो वृदः।
“काम मा देणं

यथा—

पुटियस मूटि पीतामा।
गुरुवम् दिन्दुवादरम्

—————————————————————————————————————————————

(अत्र अनङ्गेति ङकारच्युतिः)

विन्दुच्युतकम्, यथा—

साहसेनाश्रिता पद्मा लयेन जलदात्यये।
अर्णवस्याभिसरणै रहो मुञ्चति वाहिनौ॥

(अत्र हंसेन रंहः)

मात्राच्युतकम्, यथा—

दशान्तरस्थितान् भावान् कलातीतानपि स्फुटम्।
कवलज्ञानतो योगी प्रत्यक्षानिव वीक्ष्यते॥

(अत्र देशकालकेवलः)

प्रश्न एवोत्तरम्, यथा—

पथि कस्य हृतं वस्त्रं ? मृद्वीका सरसीसती?।
शालेःका सारवत्युर्वी ? का मलान्ध्यकरी दृशोः ?॥

क्रियागुप्तकम्, यथा—

प्रातः प्रातः समुत्थायय द्वौ द्वावृषिकुमारकौ।
निर्मलां सरसीं गत्वा प्रक्षाल्य च कमण्डलुम्॥

(अत्र प्रातः पूरितवन्तौ। प्रापूरणे आकारान्तो धातुः)

कर्त्तृ क्रियागुप्तकम्, यथा—

नागरङ्ग फलं स्वादु छित्वा छित्वा वने वने।
वीप्सातः कथितो ह्यर्थः पठ्यते नतु बुध्यते॥

(अत्र वी पक्षिणौ; प्सातः भक्षयतः)

कर्त्तृगुप्तकम्, यथा—

हारकेयूरवस्त्राणि रत्नानि विविधानि च।
ब्राह्मणेभ्यो नदीतीरे द्रदाति व्रज सत्वरम्॥

(अत्र द्वभ्यो धनी)

गौरी-वदन-संकाशं श्रद्धयाशशिनं दधौ।
इहैव गोपितः कर्त्ता वर्षेणापि न लभ्यते॥

(इहा कामहन्ता)

आधारसम्बन्धकर्त्तुगुप्तकम्, यथा—

कावेरी रम्यराजीव विलसद्गन्धबन्धुना।
मधुमाससमीरेण वर्द्धते कुत्र ? कस्य ? का ?॥

(अत्र—कौपृथिव्याम्, एःकामस्य, ईःश्रीः)

अक्षरच्युतकम्, यथा—

नतनाकिमौलिमणिमण्डलीविभा-
भर भासुराङ्घ्रिसरसीरुहासना।
तव शर्मणे भवतु भारती भृशम्
दृढ़जाड्यखण्डनदिनेशं-भाततिः॥

अत्र मञ्जुभाषिणी-क्वन्दसि प्रतिपादमाद्याक्षरद्वयपाते रथोद्धतावृत्तम्, अन्त्याक्षरद्वयपाते नन्दिनीवृत्तम्, आद्याक्षरद्वयपातेअन्त्याक्षरद्वयपाते च भद्रिकावृत्तम्।

एवं छन्दोऽन्तरेष्वप्यूह्यम्। तथाच—

आद्यन्तस्थायिनी नित्यं कमला त्वयि वर्द्धताम्।
अमध्यमञ्च सुकृतं लभस्व वसुधापते !॥

अक्षर-व्यत्यय-प्रमुखानि चित्राणि यथा—

अहङ्कारमलङ्कारं वालिशाःकलयन्ति ये।
हलविन्यासमात्रेऽपि कौशल कलयन्ति ते॥

पङ्कजस्यस्थितो मध्ये सत्यलोकान्तमास्थितः।
कल्पानामादिभूतश्च क एष न पितामहः॥

तरणिं पश्य सुश्रोणि ! नाथ ! कुत्रास्ति नौरिह।
सवितारं प्रिये ! वच्मि, प्रिय ! दूरेऽधुना पिता॥

कण्ठे त्वन्नाम-रत्नानि हारयामि यदा यदा।
हारयामि तदानेदं जन्म मन्मथ-मर्द्दनम्॥

भव-सम्भव-सन्तापं हर ! संहर सन्ततम्।

—————————————————————————————————————————————

पुटे स्पष्टता नास्ति।

मम नाम मनागन्यो नयतो नयतागतिः॥

पट्टिशवन्धः—

महेश ! ममता-राममवमाममरोत्तम !।
महत्तम ! महोधाम ! मतिस्तोम ! मनोरम॥

षोडशदलपद्मबन्धः—

भीमकासंदमश्रीमत् सोमक्षामन्तमभ्रम।
नमस्ते महिमस्तोम धामसोम समक्षम॥

अष्टदलपद्मवन्धः—

न तयार्थोगिरा या न नयाराध्य ! जना वन !
नवनाय यवादीन ! नदो-वारित-यातन !॥

प्रातिलोम्येन म ण्यार्थः—

वणिनः शिव! के ? लोके नेशाने करुणोरुक !
मदनामोह ! तिष्ठन्ति नम्रा न तव ये यत॥

गतप्रत्यागत श्लोकः—

नन्दि-नन्दित तापक्षिद मोक्षामन पावन !।
रक्ष नाथ ! मतिज्ञेय ! ज्ञ ! विभां! वणिता मम॥

ममतां शिव ! भो ! विज्ञ ! यज्ञेतिमयनाडर !।
मव-पार-महामोट ! क्षिए तात ! दिनं दिनम्॥

गत प्रत्यागतपादः—

वन्दे मन्ददभं देवं दम्भिताममताभिदम्।
मदाभोम भभीदामनसूनम् वियिनङ्गमम्॥

गतप्रत्नागताष्ठिः—

रचमारपरित्राम ! रमानम्यनमाथ !हो।
पोटमानवममार मत्रारिपरन्माचर॥

मिलन डीएन

देव भीमसोम / नामम

————————————————————————————————————————————

मारमार ! धाम धाम ! मां समांस ! रक्ष रक्ष॥

विषमं विषमं भुजगं भुजगम्,
वपुषा वपुषा ललितां ललिताम्।
वहता वहता भवता भवता,
जगताऽजगता म मता मम ता॥

(तथा)मदनदाहिनि ! वीतविप्लवे,

प्रमथितान्धककालवले ! स्थिरम्।
नगस्तुतारतिरक्तहृदिस्वकम्,
न न मनोरमयामि समुन्मदम्॥

वेदवेदान्तनिर्णीतरूपस्तुवे,
त्वामपेताधिकल्लोलजालेश्वरम्।
योगचिन्तामभिव्यक्तनेदिष्ठकम्,
ध्यानलीनोऽहमर्द्धमितं सुक्तिदम्॥

यमकः— सदा सदानन्दविकासितं सितम्,

दयोदयोल्लासितमाधवं धवम्।
धराधरावास मसम्भवम्भवम्,
स्तुमोऽस्तु मोदाय वृषासनः स नः॥

समुद्रकः— निर्माति पाति विनिहन्ति च यः प्रमुक्त-

दोषं स्मरामि तमहोहरमं त कान्तम्।
भोगीन्द्रभूषितजटाश्रवणाङ्घ्रिकण्ठ-
दोषं स्मरामि तमहो हरमं त कान्तम्॥

(तथा) पुण्यामृता वदुदरानघतोयपाता,

कोटीरगा शयभवानऽज ! निर्धुनीते।
पुण्यामृता वटुदरानघतोयपाता,
कोटीरगाशय ! भवानजनिर्धुनीते॥

द्व्यक्षरः— नानानुमानमननानमनान्मुनीना-

मेनोनिनुन्नममुनाऽनमनामनेन।
मेनेन-मानिनमुमेनमनूनमान-
मेनं नमामि न नमाम मनामिनाम्ना॥

** निरोष्ठः—**

लीला-कङ्काल-खेला-कलित-कलकलःकालरात्री-कलत्रः, कालीन्दी-काल-कण्ठः शिशिर-कर-कला कन्दली-कान्त-कायः। कैलासाक्रीड़केलिःसकलकलयिता नेत्रकीलाल रालः, कल्याणं काल-कालः स किल कलयतान्निकलः काल-क्वन्नः॥

** गतप्रत्यागतपादः—**

भासा निश्याम-गल्लं गल वि(ष)विगलल्लं गमश्यानि-साऽभा(द्,यं) द्यं वै दक्षोरुलत्राजनमऽन (भ) नमनजत्रासरुक्षोदवैद्यम्। सं तं वह्वाजिदम्भे सहमऽस (म) हसं भेदजिह्वावतसम, वन्देऽवं देयमत्या समन (य) नसमत्यामयय देवदेवम्॥

** गोमुत्रिकाबन्धः—**

पातु नाकापगा माता सुतानिव बुधातलम्।
अतुल्याकाशगायाता हिताय वसुधातलम्॥

** असंयुक्तापुनरुक्ताक्षरम्—**

अगूढै़नःकुठाराभजले ! शेषफणाच्छवे !।
बौ धौ घं देहि झटिति पीडयाथानुख च मे॥

द्व्यक्षरः—गौरं, गौरीगुरोरमं, गरागार, गुरुरगम्।

गोगं, गंगेगरं, रंगारोगरागारिरगगोः॥

(तथा) ससुरासुरसंसारसारा, सरससारसा।

ससार सारसा, सारा, सासुरं सुरसा, सरित्॥

** सर्वतोभद्रः—**

रसासार ! रसासारसाधिताऽहिहिताधिसा।
रताक्षताता क्षतारमाऽहिताऽस्तु स्तुताहिमा॥

गतप्रत्यागतः—भाति रागवती या मा हरेरीशतयांज सा।

साऽजरान्तशरीरेह मायाऽतीवगराऽतिभा॥

गोमुत्रिका—नारायण ! गदापाणे ! पुरुषामरनाथ !माम्।

स्मराद्रेण हृदा क्षीणे कुरुष्व मयि नाक्षमाम्॥

द्व्यक्षरः—पापापापतिपततां पोतः पातूपतापतः।

पाता पिता पूतपपत्पतिपीतततातपः॥
नितान्तनूतन तातततानन्ततनून्नतिम्।
नानाननानन्तनुतं तन्नूनं नीतितो नुत॥
नागविशेषे शेषे शेषेऽशेषेऽपि संहृते जगति।
हस्यसि कालं कालं का लङ्कालङ्कने स्तुतिर्भवतः॥

देवादे ! वासुदेवाक्षयगृह ! सकलाना कलानां कलानाम्, पद्मा पद्माभ ! पद्मास्ति तव परमहेला महेला महेला। शेषे शेषे च शेषेत्वमग-गुरुमनन्तामनन्तामनन्तापाता पातालपातात् प्रहतकितवराहोवराहो वराऽहो !॥

स्वजनककविनामाङ्कित षडरचक्रबन्धः—

(य) स्यां देशभ (वा) स्थित स्त्रि (दि)
वराट् नूनं दिवं रक्ष (ति),

(प्र) स्वावे प्रवि (भ) ज्य यश्च (दि)
तिजा नादत्तलोकत्र (यम्)।

(ति) ग्मांश्चक्षिम (ट)ज्जले हृ (दि)
सता मेनः क्षयाविष्कृ (तम्),

(तम्) मोक्षा (य) मज (प्र) जाप (ति)
कृता (ति) थ्यक्रि (यम्) संत (तम्)।

इति कविकल्पलतायामर्थाह्वचतुर्थस्तवके चित्रं
नाम तृतीय कुसुमम्।

———

अथ सादृश्यम्।

वेण्वाःसर्पासिभृङ्गाल्यः, केशपाशस्य चामरः।
नीलं कण्ठकलापोऽपि, धम्मिल्लस्य विधुन्तुदः॥१॥

सीमन्तस्याध्वदण्डौ च, ललाटस्याष्टमी-बिधुः।
फलकञ्च कपोलस्य, चन्द्रमा मुकुरः स्थली॥२॥

भ्रुवोः खङ्ग-धनु-र्यष्टि-रेखा-पल्लव-वल्लयः।
दृशोश्चकोर-हरिण-मदिरा खञ्जनोऽम्बुजम्॥३॥

कुमुदं नीलमम्भोजं श्रुतेर्दोला प्रपाशकः।
नासावंशस्य वंशाधो मुख-तुणीरचञ्चवः॥४॥

तिलप्रसूनदण्डीचाऽधरस्य नवपल्लवः !
विंवफलं प्रवालं च, दन्तानां मौक्तिकावलिः॥५॥

कुन्ददाड़िम्बवीजानि, हीरकाश्च स्मितस्य तु।
ज्योत्स्रापुष्पाणि पीयूषं, श्वामस्याम्भोजसौरभम्॥६॥

जिह्वायास्त्वञ्चलोदोला वेण्या भृङ्गी-पिकीरवौ।
सुधामधु च, वक्त्रस्य शशीपङ्कज दर्पणौ॥७॥

कण्ठस्य कंबुरंसस्य कुम्भौ, बाहोश्च वल्लरी।
मृणाललहरीशाखापाशाः पाणिपदस्य तु॥८॥

पल्लवोऽम्बुजमङ्गुल्याःपल्लवोनखपद्धतेः।
रत्न-तारा-प्रसूनानि स्तनयोः कुड्मलौघटौ॥९॥

कुम्भि-कुम्भौगिरीचक्रौ विल्वे मध्यस्थवेदिका।
सिहमध्यञ्च रोमाल्यारेखा शैवाल-वल्लयः॥१०॥

नाभेरम्भोजमावर्त्त ह्नदौविवरकूपकौ।
त्रिवल्या वीचि सोपान-निःश्रेण्यो जघनस्य तु॥११॥

पुलिनं पीठफलके नितम्बस्य स्थलं पुनः।
उर्वोःकदलिका-स्तम्भे मकरौ करभस्तथा॥१२॥

जङ्घायुगस्य तु स्तम्भौ गतेर्हंसमतङ्गजौ।

इमान्यन्यान्यपि स्त्रियोरुपमानं यथोचितम्॥१३॥

पुंसोऽङ्गैरुपमानानां विशेषः कोऽपि कथ्यते।
स्कन्दस्य वृषरक्ताक्षस्कन्धोवाहोरहीश्वरः॥१४॥

हस्तिहस्तपविस्तम्भार्गलादण्डाश्च वक्षसः।
शिलाकपाटौयानस्य प्रमत्तोऽक्षगतिः पुनः॥१५॥

एकैकेनापि धर्मेणोपमानं बहुधा भवेत्।
धर्मा वर्णक्रियाकाराधाराधेयादयो मताः॥१६॥

अभ्यासःस्याद्विभक्तीनामुपमानोपमेययोः।
उपमावाचकानाञ्च धर्माणाञ्च विपर्ययात्॥१७॥

विपर्य्यादिति सर्वत्र सम्बध्यते।

विभक्तिविपर्य्ययादभ्यासो यथा—

स विपक्षान् प्रचिक्षेप तमस्तोममिवार्य्यमा।
द्विषन्तं नाभियुध्यन्ते ध्वान्तोद्भेदा रवि यथा॥१॥

रविणेबान्धकाराणि तेन विक्षिपिरे द्विषः।
द्रुह्यन्ति दुर्जनास्तस्मै धूका इव विवस्वते॥२॥

तत्रसुः शत्रवस्तस्माद्यूका इव दिवाकरात्।
तमोवद्रिपवस्त्रस्तास्तस्यार्कस्येव तेजसा॥३॥

रवाविवोदिते तत्र शवबोऽब्धान्तवङ्गणाः।
एवमदिप्रकारेण ज्ञेयमर्थान्तरेष्वपि॥४॥

उपमानोपमेययोर्विपर्ययाद् यथा—

विजयीविद्विषोऽजैषीदभास्वानिव तमोभरम्।
अध्वंसयदविध्वान्तंविजयी विद्विषो यथा॥१॥

लुलितालकवद्धीभिर्भासते भामिनीसुखम्।
ललल्लीलालिमालाभिर्नलिनी नलिन यथा॥२॥

आभाति पद्मिनी पद्मं भ्रमरा षट्पदषड्क्तिभिः।
कान्तामुखमिवानीलविलोलालकवल्लिभिः॥३॥

इत्यादि।

स्पर्द्धते जयति द्वेष्ट्यनुकरोतीत्यादिकाः क्रियाः।
तथा लाक्षणिकाःशब्दाः व्यासेधाद्या इवार्थकाः॥४॥

व्यासेधोधरणीधरेशितु रनध्यायःसुधायाविधी,
रन्तर्द्धिर्द्धनदाचलस्य निधनं दुग्धोधसिन्धोः पिधा।
प्रत्याख्यान ममा नवद्विपमहादेहद्युतेर्निह्णवो,
जाह्णव्यास्तवमभुभुजङ्ग यशसां भारो दिशां हारति॥१॥

यथाच—

इन्दुर्वक्तस्य वीप्सा सदनमुपकथा पादयोः पङ्कजाली,
पर्य्यायोलिःकवर्य्यास्तनुतनुमहसां वर्णिका कर्णिकारम्।
आभासः कुम्भिकुम्भद्वयमुरसिजयोःकामकोदण्डदण्डः,
पाषण्डो भ्रूलतायारतिरभिनयनं यत्सरूपस्य यस्याः॥१॥
उपमा इव सन्देहे किं योगः किं मुखं किं शशी यथा॥२॥

इति कविकल्पलतायाम् अर्थाख्यचतुर्थस्तवके सादृश्यं
नाम चतुर्थं कुसुमम्।

———

अथ रूपकादिकम्।

उपमैवेवादिविना द्विधा रूपकमिष्यते।
रत्नाकरे भवेद्भेद्यं रूपकं तोष्यमम्बुदे॥
भुव्याधारस्तथाधेयं सिद्धे वर्णनभेदतः॥

ध्वान्ताहि विषनामाब्धिशैलवृक्षघनाग्नयः।
रक्षःशङ्कादयो भैद्या रूपकोत्त्या विरूपकैः॥

वनचक्राव्धिचक्राङ्ग चक्र-चातक-षट्पदाः।
पिककेकिमुस्वास्तोष्यं रूपकैर्मित्ररूपकैः॥

स्वगुणैर्भूनभोऽम्भोधिनदीवननगादयः।
रूपकस्थैःस्युराधारै राधाराख्यं हि रूपकम्॥

रत्नसिंहसरोऽम्भोज चन्द्रादित्यद्रुमादयः।
स्वधारैरूपकप्रोक्तैराधेयं केवलं क्वचित्॥

कुलाम्भोनिधिमाणिक्य वंशकाननकेशरी।
भवारण्यामृतसरोनीतिगङ्गासरोरुहम्॥

कुलाकाशेन्दुतीक्ष्णांशुसंसारमरुभूरुहः।
जनमानसचक्राङ्ग शौर्य्यबिन्ध्याद्रिकुञ्जरः॥

अथ रूपकोपयोगिशब्दाः—

नागाङ्गवृक्षनिधिमेघमृगाङ्कसूर्य्या-
ऽऽकाशाग्निसिन्धुहरिदीपकसौधकुम्भाः।
चत्राङ्गचातकमयूरचक्रोरचक्र-
पुंस्कोकिलावनसरोम्बुजरत्नभानि॥

ज्योत्स्ना नदी शशि-कला सरसी पताका
वल्ली वनी कमलिनी दयिता सुधा श्रीः।
कादम्बिनी-सुरभि-वृष्टि-सुरा-विमुक्ता-
तारा-करेणु-कलिका-लहरी कदल्यः॥

अथारोप्यगुणाः—

विवेकरजनीनाथसम्बर्द्धितशमाम्बु धिः।
गुणहंसमनोहारिप्रतिज्ञावाहिनीरयः॥

कीर्त्तिध्वजांचलभ्राजिमानमत्तमतङ्कजः।
धैर्य्यबिन्ध्याचलोत्सङ्गरङ्गत्सत्कीर्त्तिनर्मदः॥

गुरुशौर्य्यांवरक्रीड़क्रीड़त्तेजोदिवाकरः।
दानरत्नाकरक्रीड़प्रक्रीड़त्कीर्त्तिचन्द्रमाः॥

प्रतिज्ञावाहिनीपूरपरिप्लुतरिपुद्रुमः।
शौर्य्यदावानलप्लुष्टहेषिकीर्त्तिलतावनः॥

वैरिकैरवकान्तारम्लानिकृद्धैर्यभास्करःI
गुणसागरविस्तारविवेकरजनीकरः॥

धैर्य्यहर्य्यक्षवर्य्यश्रीविलसद्गुणकाननः।
गुणमुक्तागणश्रेष्ठविवेकतटिनीपतिः॥

अथ भिन्नरूपकम्—

सग्रामपाथोनिधिसम्भवेन भवद्वशःकैरविणीधवेन।
लीलापरिस्मेरितदिङ्मुखेन म्लानिस्म विद्वेषिमुखाम्बुजानि।

यथाच—

यम-महिष-विषाणं भ्रूलता-काल-रात्रेः
कुपित-नियति-भालारात-लेखा-ललाम।
अधिसमिति विपक्षैर्लक्ष्यते वीरलक्ष्मी-
स्तन-तट-नख-लक्ष्म त्वद्धनुःक्षौणिपाल॥

यदि निन्दम्निव स्तौति व्याजस्तुतिरसौ यथा—

किं ब्रूम हे धरणिमण्डलमण्डनानाम्
देव ! त्वदीय-यशसा महतामनीतिम्।
यद्धिद्विषन्ति जगदीश शरीरशोभाम्
यच्चास्य हासमुपहासपथं नयन्ति॥

अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा यथा—

त्वत्कीर्त्तिकान्तिधनमपहृत्य राजन्
दिव्यं सृजन्निव जगत्यपवादभीतः।
इन्दुः सुधावपुरपि प्रभुरोषधीना-
मप्येष लक्ष्मभिषसर्पधृतौ न शुद्धः॥

यथाच—

समिति त्वत्करबालः पीत्वा भातङ्गकुम्भकीलालम्।
अनुतापीव व्रतयति रिपुनृपतीनां यशःक्षीरम्॥

यथा—

द्विषन्मृगाक्षी नयनाञ्जनानि यदेष नित्यं कवलीकरोति।
क्षितीश तेनाञ्जनसन्निमैव विभाविभातिस्म भवत्क्वपाणे॥

अन्योन्यभ्रान्तिकोऽभेदो यदाऽन्योन्यं द्वयोर्भ्रमः।
तत्रोपमेयानुक्तौ तु समासोक्तिर्मता यथा॥

कीराःपचेलिमफल भ्रमतः पतन्ति
जम्बू-तरु-प्रसव-लग्न-मधुव्रतेषु।
एते च चञ्चुपुटकेषु विशन्ति तेषां
सान्द्राः पलाश कुसुमावलिमाकलय्य॥
कार्य्यप्रवृत्तौ भ्रमतः साफल्य जायते क्वचित्।

यथा—तव विधुमणिसौधप्राङ्गणे चन्द्रविम्ब-

प्रतिकृतिमनुफुल्लत्कैरवभ्रान्तिभाजः।
असकृदमृतविन्दुष्यन्दपानेन भृङ्गाः
प्रसृमरमकरन्दस्वादुसौख्यंलभन्ते॥

इति कविकल्पलतायाम् अर्थाख्ये चतुर्थे स्तवके
रूपकादिकं नाम पञ्चमं कुसुमम्।

———

अथ समस्यापूरणोपायः।

अथ संक्षेपतो वक्षे समस्यापूरणे विधिम्।
तत्रादौ विशदाः पञ्च प्रोच्यन्ते कारिका यथा॥

कल्पादि सिन्धुलघुभिर्गुरुता युगान्तः
दूरावलोकगुरुभिर्लघुता विधेया।
विष्णोरधोमुखतया प्रतिविम्बतश्च
स्याद्वैपरित्यमुदकादिषु युग्मता च॥

अयमर्थः—कल्पास्यादिःकल्पादिः, लघुः क्षुद्रपदार्थः; एतैर्हेतुभूतैर्वस्तुनो गुरुता विधेया। सृष्टौ हि स्रष्टा महावयवानेवनिर्मिमीते स्म पदार्थान्, कालक्रमेण च सर्वे दुर्लभा अभूवन्, सामुद्रियद्रव्येषु शाश्वतिक एवातिरेकः, लघ्वपेक्षयाततोऽधिकस्यापि महिमा योज्यः, युगादिभिर्हेतुभिर्लघुता कल्पनीया च, युगान्तसमये हि सर्वं लघु भवति, दूरे दृश्य मानाः पदार्थाः अतिक्षोदीयांस एव भासन्ते; गुर्वपेक्षयाप्येवमाकलनीयम्।

उदाहरणानि यथा—

कल्पादिकाले गुरुदेहदेश्या पिपीलिका राजति शैलतुल्या।
तदा लघीयानपि गण्डशैलः श्रीखण्डशैलस्य तुलां तनोति॥

सिन्धुना यथा—

अहो पयोराशिनिवासि यादः पिपीलिका राजति शैलतुत्या।
सदा जनानां महतां हि सङ्गो धत्ते लघूनामपि गौरवाणि॥

माहात्मा तस्य पाथोधेर्व्याख्यातुं शक्यते कथम्।
सापि यत्र विभात्यम्भः कौटिका कुम्भिसन्निभा॥

स्थले स्थिता यावन्तस्तावन्तो जीवा जलेऽपि निवसन्तीति बोद्धव्यम्; ते सर्वे निर्वासितखर्वभावाः स्वभावादेव।

लघुभिर्यथा—

क्वमिप्रमाणेन महत्तमाङ्गी पिपीलिका राजति शैलतुल्या।
यस्मादधोधः परिदर्शनेन सदा लघूनामपि गौरवाणि॥

लिक्षा लक्षाग्रतः कीटकोटिः करिघटायते।
बिन्ध्याद्रिसुद्रामाधत्ते मत्तेभः कलभाग्रतः॥

अथ गुरुपदार्थस्य युगान्तेन दूरावलोकनेन गुरुभिश्च लघुता विधेया। यथा—

कल्पान्तकालकवलीकृत सर्वगात्रो
गोत्रो विभर्त्ति सुतरां परमाणुरूपम्।
सवर्त्तपूर्वसमये बिभरांबभूव
यो जातरूपधरणीधर सन्निमत्वम्॥

विश्वम्भरास्थितपदार्थसमीक्षणोत्कः
स्वर्लोकमार्गचरखेचरकामिनीनाम्।
अभ्यागतो नयनवर्त्म महाचलोऽयम्
सत्य विभर्त्ति परमाणुसमानरूपम्॥

कल्पान्तकालधरणीधरणप्रवृद्धो
कोलाधिराजतनुमानविलोकनेन।
शैलो विभर्त्ति परमाणुसमत्वमेव
सर्वस्य लाघवमहो गुरुसन्निधौ स्यात्॥

परमाणुतनोरग्रे कीटिका वारणायते।
वारणोऽपि सुवर्णाद्रिमानतः कीटिकायते॥

महाद्रिशिखरस्थानं वारणः कीटिकायते।
साधुचित्तानुमानेन महाद्रिः कीटिकायते॥

इत्यादिगुरुतरपदार्थेन गुरुतरपदार्थस्य लघुता विधेया।

धिष्णोरधोमुखतया वैपरीत्यं यथा—

कालीयाहिग्रहव्यग्रे यमुनायां जगन्निधौ।
शङ्कयाधोमुखं जातं विपरीतं जगत्त्रयम्॥

अपरेणापि प्रकारेण विपरीतीकृते कृष्णे तदुदरवर्त्तिजगत्त्रयमध्यस्थितः सर्वोऽपि पदार्थो विपरीतो भणनीयः।

प्रतिविम्बतो वैपरीत्यं यथा—

तडागे दर्पणप्राये प्रतिविम्बादजायत।
जलशय्याकृतः कृष्णप्रसादः कलशोपरि॥
त्वन्मुखस्याव्धिसंक्रान्ता धूमवर्त्तिरधोमुखी।
भाति यान्तौव पातालं पवित्रयितुमुज्वला॥

उदकादौ युग्मत्वं यथा—

रात्रौ चन्द्रोदये तोयप्रतिविम्बितविग्रहः।
लोकैरेकोऽपि कोकोऽयं सद्वितीयः समीक्ष्यते॥

पूर्वाद्रौ रत्नभित्यन्तर्जातार्कप्रतिविभ्बतः।
शङ्क्यते शत्रुकान्ताभिः किमुदेति रविद्वयम्॥

चन्द्रान्धकाररविकीर्त्तिकुकीर्त्तिसन्ध्या-
रागात् पिषङ्गकृतवर्णविपर्य्ययेण।
दृष्टान्तवद्धयदिशब्दतया पुराणै-
र्वात्सल्यशोकमधुघातवियोगसादैः॥

स्वप्नेन्द्रजालिकमतिभ्रमचित्रमाया-
मन्त्रौषधीमणितपः पदभङ्गभावात्।
शौर्य्योष्मवाञ्छितमनोगतिपुण्यदेव
प्रश्नोत्तरक्षयसमासविभिन्नसाध्यात्॥

श्रीहाटकेश्वरजगत्प्रलयग्रहास्त-
पाथोधिमन्थसमय प्रतिविम्बभावैः।
संग्रामचक्रपुरचन्दनशस्त्रपातै-
श्चण्डीशपद्मगुरुताभिरथोपमानैः॥

तद्दुर्घटं भवति तत् प्रकटं पटीया-
नौचित्यचिन्तितपदं परिपूरयेद् यः।
पूर्वोक्तपद्मगदितैरुपदेशभारै-
रेतैरितिस्म कविकल्पलताकृदाह॥

अधोदाहरणानि—

कृष्णरक्तादयो वर्णाश्चन्द्रेण श्वेताः क्रियन्ते। यथा—
उल्लसत्तुहिनज्योतिर्द्युतिविद्योतितोऽभितः।
कैलासशैलसङ्काशः काशते विन्ध्यभूधरः॥

जवापुष्पं जातिसमं सुवर्णं रजतप्रभम्।
सुधाकरकरस्पर्शाद्भाति चन्दनवन्मषी॥

अन्धकारेण यथा—

कैलासो विन्ध्यसंकासः कर्परः कज्वलप्रभः।
जपातापिञ्छगुच्छश्रीस्तमसा भाति लिम्पिता॥

कृष्णश्वेतादयो वर्णा वालार्केण प्रथमं रक्तास्तदनु पीताः क्रियन्ते। यथा—

कज्जलं कुङ्कुमच्छायं जातीपुष्पं जपासमम्।
सुवर्णं पद्मरागश्रि प्रभातार्कप्रभावृतम्॥

इत्थमन्यत्रापि वर्णविपर्य्ययः कार्य्यः। यदा पुनश्चन्द्रादीनामेव वर्णविपर्य्ययश्चिकीर्षितस्तदाकीर्त्त्यादिभिरेतेषामेव वर्णविपर्य्यः।

स्वर्धुनीसलिलसन्निधिस्फुरत्तावकीनघनकीर्त्तिमण्डलैः।
विस्तृतैस्त्रिजगति क्षमापते ! शीतरश्मिरिव वीक्ष्यते रविः॥

अन्धवस्तूनां यथा—

मेदिनीदयित तावकैर्यशः स्वल्पसञ्चयैरुपचितैः समन्ततः।
क्षीरनीरनिधिसोमकोमलैर्जायते रजतकान्तिकज्जलम्॥

हिमाद्रिसदृशो मेरुर्भात्ति कुङ्कुमविन्दुवत्।
भूमिपाल ! भवत्कीर्त्त्या शुभ्रिते भुवनत्रये॥

कुकीर्त्त्या यथा—

भूमिपाल! भवदीय-विद्विषन्मेदिनीपतिकुकीर्त्तिपंक्तिभिः।
प्रावृषेण्यजलवाहकान्तिभिः श्यामलो जयति यामिनीपतिः॥

अन्यवस्तूनामपि यथा—

मेदिनीदयित ! तावकद्विषत्प्रोन्मिषद्गुरुतरायशःशतैः।
अन्धकारनिकरैरिवोद्धतैः कुङ्कुमं मृगमदायतेतराम्॥

हिमाद्रिर्विन्ध्यबन्धुश्रीः स्वर्णं मरकतप्रभम्।
धराधर ! भवद्वेषि कुकीर्त्ति प्रसरैर्वभौ॥

सन्ध्ययोर्यथा—

पूर्वभूधरशिरस्तटीचरः सान्ध्यरागपटलैः परीवृतः।
दृश्यतामिह विभावरीमुखे विद्रुमः प्रतिनिधिः सुधानिधिः॥

विद्रुमारुणविम्बोष्ठप्रभापाटलितद्युतिः।
वदने तव तन्वङ्गि ! कर्पूरः कुङ्कुमायते॥

कान्तकोपपरवामलोचनां लोचनान्तविततारुणद्युतौ।
सान्ध्यरागपटले सति क्षणं कज्जलं जयति कुङ्कुमोपमम्॥

स्वर्णं सिन्दूरपूरश्रि कर्पूरं पद्मरागरुक्।
जपाकुसुमसंकाशैः सन्ध्यारागभरैरभूत्॥

वर्णान्तरसङ्गाद् यथा—

शशिमुकुटललाटे शैलजागण्डपाली-
विगलितमृगनाभिव्यक्तधर्माम्बुसिक्तः।
समजनि नरकारिश्यामलो यामिनीशो
जगति मलिनसङ्गात् को न मालिन्यमेति॥

मसृणघुसृणपङ्कप्रक्रियाभङ्गिजाग्रत्
कुचकलशविकासैःकुन्दचन्द्रोज्वलोऽपि।
अगमदुदरभावं कामिनीकण्ठहारो
जगति भवति रागो रागिसङ्गान्न कस्य॥

क्षितिधरपतिपुत्रीमौक्तिकव्यक्तिभङ्गी-
निलयवलयमालाकान्तिजालावलीढः।
हिमरुचिरुचिरासीन्नीलकण्ठस्य कण्ठो
भवति विमलयोगान्निर्मलत्व न कस्य॥

अत्रोच्चैःस्फुर्जदभ्रंलिहमृहवलभीवर्य्यवैदुर्य्यनिर्यत्-
ज्योतिर्यातप्रपातव्यतिकरविधुरीभूतशोभाभिभूतः।

कालिन्दीकालकान्तिः समजनि रजनीजीवितस्याधिनाथो
धत्ते को वा कलावानपि हिममलिनासङ्गतः कश्मलत्वम्॥

अहो राहुग्रहग्रस्तसमस्तोज्वलमण्डलः।
इन्दुः कज्जलविन्दुश्रीर्ल्लातिः कस्य न विप्लवे॥

—————————————————————————————————————————————

पुटे स्पष्टता नास्ति।

दृष्टान्तवद्धयदिशब्दतया यथा—

प्रतीच्यां यदि मार्त्तण्डःसमुदेति स्फुरत्करः।
तदा संजायते नूनमग्निस्तुहिनशीतलः॥

पुराणैः पुराणचरितैर्यथा—

अगस्वमुनिनिःपीत निःशेष जलमण्डलात्।
अहः पतिमहः शुष्कात्ममुद्राद्धूलिरुच्छिता॥

अतुच्छू वत्स वात्सल्य पिच्छिलीकृतचेतसा।
जनन्या मन्यतेऽत्यर्थं व्याघ्रः सौम्यवपुः क्षमौ॥

शोकेन मधुनाघातेन वियोगेन मादेन च समस्या पूर्व्यते, यत एभिर्व्याप्तः पुमान् विपरीतमाचरति। स्वप्नेऽघटमानमपि घटते। भो ! ज्योतिषकलाकुशल ! स्वप्ने दृष्टमिदं त्वं विचारयेदित्यादि कल्पनीयम्। इन्द्रजालेन मतिभ्रमेण चित्रेण च। भो ! चित्रकर ! ईदृक् चित्रं लिखेति वाक्यं रचनीयम्। भाययाऽपि विसदृशं सम्भाव्यम्। मणिमन्त्रौषधीना प्रभावेन सर्वं साध्यते। यस्मादचिन्त्यो मणिमन्त्रौषधीना प्रभावः। तपसापि सर्वं साध्यते। यतः सर्वंहि तपसा साध्यं तपश्च दुरतिक्रमम्।

पदभङ्गेन यथा—

मृगात् सिहःपलायते। मृगमत्तीति मृगात् सिंहविशेषणम्, पलाय मांसाय, ते तव इत्यर्थः।

अय मृगः समायाति मृगात् सिंहः पलायते।
इतो वेगात् पलायस्व त्वरितैस्त्वरितैः पदैः॥

शौर्य्येणोष्मणा वाञ्छितेन मनोसत्या पुण्येन दुर्घटमपि घटते। देवप्रसादेनासाध्यमपि माध्यते। यथा—

निःश्रीकोऽपि विभो ! विभातद्वभये पश्यत्यवश्यं पुमान्, यस्ते पद्मसमानमाननम । इन्दिरामन्दिरम्।

—————————————————————————————————————————————

देहोल्लासि किमु स्तुमस्त्वदपरं यस्य प्रसादाद्भुतैः
मूको जल्पति संशृणोति बधिरःपङ्गुर्नरीनृत्यति॥

प्रश्नोत्तरेण यथा—

कस्तूरी जायते कस्मात् ? को हन्ति करिणां कुलम् ?
किं कुर्यात् कातरोयुद्धे ? मृगात् सिंहःपलायते॥

समस्यायां यत् साध्यंपदं तत् क्वचित् समासेन भिन्नं क्रियते। यथा—

कर्पूरपूरच्छविवादविद्यासंवावदूकद्युतिशुभ्रिताभ्रे।
इन्दोर्नृपद्वेषितमोवितानसूर्योदये रोदिति चक्रवाकी॥

हाटकेश्वरनमस्कारेण पाताले स्वर्गलोकावतारः। जगत्प्रलयेन मर्त्त्यलोकावतारः। ग्रहास्तेन नभोलोकावतारश्च।

यथा—हाठकेश्वरयात्रायां शिवरात्रिमहोत्सवे।

सुरेन्द्रादिभिरायातैः स्वर्गः पातालमाययौ॥

जगत्प्रलयकालेऽसौ पृथ्वीपातालमाययौ।
संहारघोरचण्डीशकोपाटीपादुदित्वरात्॥

कदाचिच्चारभेदेन क्रमादस्तमुपागतैः।
ग्रहैःसम्भाव्यते सम्यग् ययौ व्योम रसातलम्॥

पाथोधिमन्यनारम्भे सम्भेदाद्देवनागयोः।
पृथिव्यां स्वर्गपाताले दृश्येते स्म समागते॥

दर्पणप्रतिमोल्लासि पयःपूरे सरोवरे।
प्रतिविम्बच्छलादेतद् भुवि व्योम समागतम्॥

सङ्ग्रामधीरवीराणां विलोकनकुतूहलात्।
समायातैःसुरेन्द्राद्यैः स्वर्गो नभसि दृश्यते॥

आकाशान्तरसञ्चारिहरिश्चन्द्रपुरच्छलात्।
भूतस्य मिलनायैव जगाम धरणीं नमः॥

श्रीरामरावणरणे कपिमण्डलेन,
शस्त्रीकृतैर्मलयजद्रुमचक्रवालैः।
रिङ्गद्भुजङ्गमुकुलैः परितः स्फुरद्भिः,
सम्भाव्यते नभसि सर्पपुरं प्रसर्यत्॥

श्रीकण्ठकण्ठदोर्दण्ड जटाजूटाहिमण्डलैः।
अहो पाताललोकोऽयं स्वर्लोककलिताश्रयः॥

अभ्रंलिहगृहव्यूह चन्द्रशालाविलासिभिः।
नरनारीगणैरेव मर्त्त्यलोको द्युलोकगः॥

सुमेरुशिखरप्रान्त स्फुरद्दिव्यवधूमुखैः।
परितः स्फुरितः शङ्केशतचन्द्रं नभस्तलम्॥

युद्धक्रुद्धभटच्छिन्नकुम्भिकुम्भस्थलोद्गतैः।
मुक्ताफलगणैः शङ्के दिवा तारकिनं नभः॥

यदेतन्मयकाऽकारि कारिकारत्रपञ्चकम्।
कुरुतानवगीतेन तेन श्रवणपूरणम्॥

अथ चित्तसमस्यायाः पूरणोपाय उच्यते।
पदैः साधारणैरेव च्छन्दः सपूरयेद् यथा॥

अशेषजनताचित्तचमत्कारनिकेतनम्।
हरिसिन्धुस्फुरद्रोचिः केषां न कुरुते सुखम्॥

स्फुरत्सौदामिनीकान्तबहुलश्लाघनीयमाः।
कलधौतरुगत्यन्तं कुरुते सुखसम्पदम्॥

जनताविस्मयाधानं वसुधासुखकारणम्।
महतां चक्रवालेन व्यतिभाते समन्ततः॥

विशदच्छांययातीव विलसत् प्राणिसौख्यकृत्।
आश्चर्य्यशाला तनुरुक् तनुतेऽपचिति सताम्॥

सदा विलाससदनं निदान परमश्रियम्।
महासुखलतावीजं नेत्रयोः कुरुते रतिम्॥

विभाति विभुतास्थानं घनोपलसितोरूभाः।
मनोरमप्रभावासः कलया लोकसौख्यकृत्॥

हरिमातङ्ग-मच्छाय-रोचिः परमभूषणम्।
कस्यामोदैकहेतुर्नगोमण्डलविभूषणम्॥

उद्दामविस्फुरत्कान्ति रुचिरं गवि भासते।
सदामोदपदं चित्रनिदानं हरिचारुभ॥

मनोहराकारतयातिरम्यता समुल्लसच्चारुकलानिकेतनम्।
अशेषभूमीतलवर्त्तिसौख्यकृद् विलोचनानां कुरुते सुखावलिम्॥

सामान्यशब्दकुसुमे ये सामान्यशब्दाः कथिताः तेऽत्रापि सञ्चारणीयाः।

यत्किञ्चिदत्र न मया गदितं ग्रन्थस्य गौरवत्रासात्।
मत्कृतकविकल्पलतापरिमलतस्तद्बुधैर्ज्ञेयम्॥

इति कविकल्पलतायामर्थाख्ये चतुर्थे स्तवके
समस्यापूरणोपायो नाम षष्ठं कुसुमम्।

———

अथ समस्याः।

अथ क्षितिख्यातकियत्समस्या पदाङ्कुरं पल्लवितं करोमि।
यच्छायमाश्रित्य कविर्न विन्द्यात् परिश्रमं वाङ्मयमार्गजातम्॥

त्रियामा शतयामा स्याच्छतचन्द्रं नभस्तलम्।
शतेषुरेषु पञ्चेषुर्भवेद् यूनां वियोगिनाम्॥

त्वद्गाम्भीर्य्यगुणस्याग्रे समुद्रोगोष्पदायते।
त्वन्मानससरोजान्तर्गगनं भ्रमरायते॥

अमत्रीभवतस्तत्र पीयूषपरिंवेषणे।
अभून्नारदवीणाया अलावोरन्तरे सुधा॥

अधःकृतं क्षणादेव तेजोऽनर्थाय जायते।

दहत्येव हि धातारं दीपवर्त्तिरधोमुखी॥

भालनेत्रानलोद्वान्तकज्जलौघमलीमसः।
महेश्वर-शिरस्थायी सोमः श्यामतमोऽभवत्॥

निशीथे सैंहिकेयेन ग्रस्तसम्पूर्णमण्डलः।
गगनेन्दीवरोत्सङ्गे इन्दुरिन्दीवरायते॥

हीनहत्या दधात्येव लाघवं महतामपि।
इति मत्वा द्विपद्वेषी मृगात् सिंहः, पलायते॥

पूर्वो ह्रस्वः परो दीर्घः स्नेहःसजायते सताम्।
असतां विपरीतस्तु स एव परिदृश्यते॥

इहार्थसूत्रंयस्यादौ तेन शास्त्रेण निर्भरम्।
जिज्ञासा ब्रह्मणो यस्य क्रियते तदुपास्महे॥

धन्योऽसौपोत्रिणीपुत्रो यस्यासौ प्रलयापदि।
सगोत्रोऽपि स्थितो दंष्ट्रा कण्ठकाग्रे महोदधिः॥

भुव विभर्त्ति यस्यैकं शिरोहीनःसुलोचनः।
स त्वां प्रणमितुं स्तोतुं द्रष्टुंश्रोतुं क्षमःप्रभो !॥

अयशःस्वं सुतनुते तन्वाते तन्वते जिताः।
कज्जलालिकलञ्जानां व्याजाद्दीपाम्बुजेन्दवः॥

रत्नाभरणविद्योतपरया वातनश्वरः।
अन्धकारमयाद्दीपस्तन्वङ्ग्यानीयते शमम्॥

भ्रामर्य्यङ्घ्रिहतिभ्रान्तेजगतीत्यरयो ब्रुवन्।
मक्षिकापादघातेन कम्पित भुवनत्रयम्॥

उषाप्रीत्यै पट़े सूक्ष्मे चित्रितं चित्रलेखया।
मक्षिकापादघातेन कम्पित भुवनत्रयम्॥

सभाभित्तिमणिश्रेणि प्रतिविम्बितविग्रहे।
धार्त्तराष्ट्रशतेऽतर्किकन्दर्पाणा शतद्वयम्॥

अहल्याकेलिकालेऽभूत् कन्दर्पाणां शतद्वयम्।
तत्पञ्चवाणीभिन्नाक्षः सहस्राक्षोऽन्धतां गतः॥

बलिसद्मोच्चशालाग्र प्रतिष्ठितगभीरिमा।
उपपन्नतमा जाता प्राकारोपरि कूपिका॥

लङ्कादाहे सुरैरुक्तं हनुमत्युच्छवह्नितः।
सौवर्णो द्रवतां गच्छंस्तम्भ एष घृतायते॥

उन्मीलत्तिलकं क्वापि क्वचित् प्रस्फुरिताञ्जनम्।
क्वचित् पत्रावलीकीर्णंश्रीमुखं पर्वतोपमम्॥

गोलब्धजन्मा मधुरः शिखि-प्रीति-विवर्द्धनः।
उन्मीलदर्जुनच्छायो नवनीतायते गिरिः॥

सद्म पद्मवदाभाति लसद्वारविराजितम्।
पत्रकेशरसंपूर्णं यदानन्दायते मनः॥

घनबालमनोहारि सुमनोभिर्निषेवितम्।
बहुधातुलसत्कान्ति पुस्तकंमस्तकायते॥

एषा न जातबालेन्दुघनोत्तुङ्गपयोधरा।
अभिरामवयोधामसन्ध्या वन्ध्यावधूरिव॥

स्निग्धालिबद्धसौहार्द्दासरसामोदमन्दिरम्।
इयं गुणवती भाति पुष्यमालेव कामिनी॥

कलानिधिकरस्पर्शप्रसन्नोल्लासितारका।
विभ्राणाम्बरमानीलं यामिनी कामिनीयते॥

उल्लसत्पार्थिवद्रव्योपासिता जीवनार्थिभिः।
उपकण्ठाभिरामेयं गर्गरी नगरीयते॥

कृतरामानिशप्रीतिरक्षविक्षेपकारणम्।
समुद्रतरणोल्लासी दीपोऽयं हनुमानिव॥

वितन्वानोद्युतिं स्निग्धश्यामाञ्जनमनोहरः।
दीपो नीपोपसो भाति घनालोकविकस्वरः॥

विस्फुरन्मीनमकरा हंससञ्चारमञ्जुला।
राजते सरसीवद्द्यौ रटत्कर्कटसङ्कटा॥

आपः कादम्बिनीस्तन्वन् नलिनीलतयाश्रितः।
उल्लासितजगत्प्राणस्तड़ागो गगनायते॥

आपीततारकः पादैराक्रान्तगिरिकाननः।
विभ्रदुग्रललामत्व विड़ाल इव चन्द्रमाः॥

रुचा त्रिनेत्रदायादः प्रमदालयतां दधत्।
हरिणाङ्कः सुधाधारः सौधोऽयं चन्द्रमायते॥

चूतश्चन्द्र इवाभाति कुहभिर्जनितक्षयः।
धत्ते चकोरकामोदकरः खगमनोरुचिम्॥

सोमः प्रीतिकरः कुर्वन् दनं सुबहुविद्रुमम्।
समुद्रोऽग्निरिवाभाति दीप्तीश्रीसुः सदानवः॥

स्फुरद्धिमकराक्रान्तः प्रकाशयन् क्रमेण धृतिजनकः।
अन्तर्वर्त्तिशिखावान् समुद्र इव भवति दीपोऽयम्॥

अमुद्राभारतस्तत्न पीयूषपरिवेशिना।
अभून्नावदवीणाया अलावोरन्तरे ध्वनिः॥

गोवब्धजन्यो मधुरः शिखिप्रीतिविवर्द्धनः।
उन्मीलदर्ज्जुनच्छायो नवनीतायते गिरिः॥

इहापि सूत्रं यस्यादौ तेन शास्त्रेण निर्भरम्।
जिज्ञासा ब्रह्मणो यस्य क्रियते तदुपास्महे॥

पूर्व्वोह्रस्वः परो दीर्घः स्नेहःसंजायते सताम्।
असतां विपरीतस्तु स एव भुवि दृश्यते॥

भुवं विभर्त्ति यस्यैकशिरोहीनः सुलोचनः।
स त्वां प्रणमितुं स्तोतुं द्रष्टुं श्रोतुं क्षमः प्रभो !॥

कलानिधिकरस्पर्शप्रसन्नोल्लासितारका।
विभ्राणाम्बरमानीलं यामिनी कामिनीयते॥

वयसः शेषे सेवा पररूपं करोति तव देव ! ।
अधुना सुरतटिनीतटनिकटे वासोविनाशो वा॥

चमूभरन् पञ्चदुदञ्चदुर्ब्बीतले प्रयाणे तव भूमिपाल !।
अभून्नृपाणां विगलत्रपाणां कण्ठे कुठारः कमठे ठकारः॥

पितामहादेशवशाद्रसायास्तलं यदा ते प्रविवेश वाणः।
तदा वभूवार्जुनवीरवैरिकण्टे कुठारः कमठे ठकारः॥

आद्यंनिशायाः क्षणमन्त्यमन्तर्बुध्वा विधुं तापिनमुष्णभानुम्।
बिम्बं स्वकं भ्रान्ततया च कान्तं चन्द्रोदये नृत्यति चक्रवाकी॥

सर्वस्य जन्तोर्भवति प्रमोदो विरोधिवर्गे परिभूयमाणे।
तिरोहिते त्वद्यशसा नरेन्द्र ! चन्द्रोदये नृत्यति चक्रवाकी॥

निशाकरोत्सङ्गनिषणतुङ्गकुरङ्गश्रृङ्गे जलधेर्निवासः।
आसीत् पुरासीमपयःपयोधिर्निर्मन्थनादित्यवदन्मुनीन्द्रः॥

सरोनिभे व्योम्निसितांशुकाभं शशाङ्कमङ्कःकलयत्यमुं यत्।
अवैम्यतः स्वच्छकलाच्छतारमाखः खनत्यम्बरमम्बुमध्ये॥

पूर्वाचलग्रावणि शृङ्गसङ्गि स्फुरन्महानीलविभाविलासैः।
प्रलिप्तमूर्त्तिःप्रतिभाति किन्नु श्यामामुखे कज्जलविन्दुरिन्दुः॥

मयूरमालोक्य महान्तमब्धिमण्डूकमल्लस्य मुखे महाहिः।
विवेश वल्मीकविलम्बिशङ्क्यं वधंहि वामो विदधाति वेधाः॥

राधामुखं चुम्बति कार्त्तिकेयः कर्णावतंसीकृतफुल्लपद्मम्।
शृणोति तस्मादुदितञ्च गीतं कृष्णः स मुग्धे ! प्रणयीकथं ते॥

कृष्णेन सृष्टा किल कौतुकेन स्त्याना हिमैर्गोपिकया कयापि।
हसन्तिकायां निहितास्य शक्त्या ननर्त्त बह्नौनवनीतनारी॥

समस्तनीहारधवादधाना घनाःप्रसूनेषुशिलीमुखालिः।
उपास्यतां नील-तमाल-कान्ता क्षामोदरी वा क्षितिभक्षणस्य॥

मद्गोः शृङ्गं सप्ततालप्रमाणं कल्याणाद्रिः सर्षपस्यैकदेशः।
विन्दुः सिन्धुः सिन्धुरप्येकविन्दुः अब्धौ मुग्धे ! साधुनीचोपकारे॥

जहास बन्ध्या स्वसुतास्यदर्शनात् चचाल पङ्गुःस्वपदेन लीलया।
नितान्तमूकश्च वदावदोऽजनि प्रसादतस्ते तरुणेन्दुशेखर !॥

जहि तमो गरुड़ध्वजः ! धूर्जटे ! कुरु करे गरलं पिव चामृतम्।
सुविदितैष जगद्दुरितारिता निगदिताऽवत विखमजद्वयी॥

संज्ञावियोगपरितापिनि गाहमाने
भानौसरोविकसिताम्बुरुहं रजन्याम्।
तद्वीक्षयेव मकरन्दगतात्मविम्वः
चन्द्रोऽरविन्दकुहरे विहरत्यरीगः॥

भ्रूचक्रशक्रविलसन्मणिवन्धतास्ति
तद्वञ्च पञ्चशरशासनशालितभूते।
सल्लाञ्छनत्वमपि गाङ्गलीपितत्वम्
हरिहरंहिमकरे मकरेक्रौद च॥

प्रत्यक् पयोनिधितटीचरमौक्षितंर्यदु
बन्धूकपुष्पसदृशं तमसोऽतिरेकात्।
जानामि कुण्डलिततक्षकशङ्कया तन्-
मार्त्तण्डमण्डलभखण्डिशिखण्डितुण्डैः॥

पीताम्बरोऽद्य जलदस्तडिदद्य लोला
भीमोऽद्य वारिनिवहः सरिदद्य दुर्गा।
दोषाकरोऽद्य समयः क्षितिरद्य चार्द्रा
लोभा भविष्णु शिवमाविधुनोति तन्वि ! ॥

हयनिकरस्वुरोत्थैः कर्णवातावधूतै-
र्नवजलदनिभस्ते हस्तिसङ्घोरजोभिः।
धवलयति धरित्रीमन्धकारप्रचारः
स्फुटमिति निगदन्ति क्ष्माप ! साश्चर्य्यमार्य्याः॥

अजनि रजनिमध्ये मण्डलं चण्डरश्मे-
र्धनुरुदयमनभ्रा विभ्रती द्यौश्चकास्ति।
इह हि विधिरिदानीं दृश्यते देव ! वामः

प्रहिणु जनकपुत्रीं मित्रतामेतु रामः॥

प्रविशतु हरिनाभोपङ्कजान्तर्निषण-
द्रुहिणचरणसेवां कर्त्तुमिन्द्रे ससैन्ये।
अगणितपरिमाणे भृङ्गभृङ्गी दधानो
भ्रमति कमलकोषे मत्तमातङ्गसङ्घः॥

जलमुचि जलपूरं मुञ्चति स्पष्टशब्दम्
प्रतिगज इव कोपादूर्ङ्घविन्यस्तहस्ताःष
सपदि समुपयातोदन्वता व्याप्तवक्ताः
सरलितकरदण्डाः कुम्भिनोऽम्भःपिवन्ति॥

प्रसृमरमधुपालीपातसम्पातपुष्यत्-
कमलबहलगन्धं विन्ध्यमध्यास्य वाप्याम्।
जलगतनिजमूर्त्तिवीक्ष्यमानाः सशङ्कम्
सरलितकरदण्डाः कुम्भिनोऽम्भः पिवन्ति॥

तिलकमलिकसंस्थं वीक्ष्यते पक्ष्मलाक्ष्या
मृगमदगजराजीराजितं यावदाशु।
अमलजललवान्तस्तावदेवास्य पानान्-
मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम्॥

कृशतरजठरान्तर्देवकस्यात्मजायाः
सकलभुवनलीलावास ! यस्ते निवासः।
मनुज दनुजदेवाश्चर्य्यभूतं तदेतन्-
मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम्॥

भ्रमति कमलकोषे मत्तमातङ्गसङ्घः
सरलितकरदण्डाः कुम्मिनोऽम्भः पिवन्ति।
मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम्
समुदितमिति मत्वा यः प्रगे सम्प्रयातः॥

उदारालङ्कारा सुललितपदाऽऽविष्कृतरसा
समापन्ना शय्या मदनुगुणमाणिक्यनुभगा।
स्फुरदुवर्णाभ्यर्णस्थितजनघनानन्दवसतिः
समस्यावेश्येव प्रतिपुरुषमेषा विलसति॥

गते देशाद्देश प्रणयिनि कृगात्याः स्फुरदुरू-
व्यथायाः संतापप्रशमनविधौनीरजयुगम्।
सखीभिर्निक्षिप्त मुकुलितसुख तत्र शुशुभे
कुचद्वन्द्वस्योपर्यपरमिव जात कुचयुगम्॥

प्रसर्पत्तापार्त्तिप्रशमनविधानाय मलय-
द्रुमक्षोदाभ्यङ्काधिकतरभवत्पाण्डुरतनोः।
अभिज्ञोऽप्यज्ञासीत् कथमपि सस्वीनां परिकारो
न सेटोऽमन्तस्याचमिकमिवमां प्रत्ययलुकाम्॥

अलिव्रातघ्रातप्रसवमयक्षापे विजयिनि
प्रविष्टे पातालं जलनिधिपटव्या रतिपतौ।
अधो मैनाकस्य स्थितवति समस्त समभवटु
धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः॥

प्रयात्यब्धिद्वारा फणिपतिभुवं हन्तुमसुरान्
पृथापुत्रे चापग्रथितसुमनोनीलमधुपे।
अधो मैनाकस्य स्थितवति समस्त सममवटु
धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः॥

गेहे गेहे कति कति सदैः कान्तदेशेषु शय्याः
तत्सङ्गार्थं सुभग ! न तथाकारि या योज्झितास्ताः।
स्थाने स्थाने कति कति न च ग्रत्थयः यक्ष्मलाक्ष्याः
कर्पूरस्योज्वलिकलिलतापत्रमुक्ता न मुक्ताः॥

र्लोकप्राणामृतवितरिता भासुराम्भोजघोषः।
उष्णं मुष्णन्नशुभभवनेस्तूर्णपूर्णाखिलाशः

स्वप्ने दृष्टस्तरुणतुलसीभूषणोनीलमेघः॥

शालग्रामोपरिविनिहितंश्यामलाङ्ग्याःकरामम्
वोक्ष्यैकस्याः समुचितवरं पूजया लब्धुमिच्छोः।
एवं जाने मृदुभुजशिरश्चुम्बिताटङ्कलक्ष्मणाः
भृङ्गे पद्मं कमलमुकुले नालमस्मिन् मृणालम्॥

रोहिण्याः सरुषः पदं नभसि तं नाप्नोति यत्पङ्कजं
भ्रान्त्यातत्र चिरं स्थितिं विदधतो भृङ्गातिभाग्यं तव।
तत्पारम्परिकोऽपि मेऽस्तु विनयः प्रोच्येति रोमाञ्चितः
चन्द्रश्चुम्बति चञ्चरीकचरणं चञ्चच्चपेटाहतः॥

कूजत्येष रसालशाखिशिखरे प्रोल्लासयन् कामिनी-
कान्तः कामिनिमानसं परभृतः को वा मुख चुम्बति।
नास्मिन् मासि मृगीदृशः कृशतनोस्तन्मानभङ्गीकृतम्,
दूरीकृत्य कुरु प्रसादमधुना प्राणेशरेऽनागसि॥

तर्त्तुं पर्वतसन्निभेन कपिनाऽलाबूं कृतां वक्षसि,
क्षिप्रंवीक्ष्य निमज्जतीमथ नलस्पृष्टास्तरन्तीः शिलाः।
लोको नृत्यपरं विभीषण-जनं प्रेक्ष्याह सेतूद्यमे,
तुम्बी मज्जति सन्तरन्ति दृषदःप्रेतो दिवा नृत्यति॥

इन्द्रो मानुष-भावमेत्य पतगो भूत्वा भवत्यण्डजो
राजा रङ्गदशामुपेत्य कृमितां गत्वा द्रुमो जायते।
खर्जूरः खदिरत्वमेत्य कदलीकाण्डे पुनर्लीयते,
संसारे बहु-जीव-योनि-गहने धिक् कर्मिणां चेष्टितम्॥

उन्मीलद्ध्रदकौमुदीकभबलावक्त्रं निदानं मुदाम्,
श्रालोलालकवल्लिभास्वदलिकम् प्राप्तं मुहुः पश्यताम्।
केषां चेतसि जायते न तदिदं काकोल-कान्ति-च्छविम्,
राहुं क्षुम्बति चन्द्रमाः प्रतिदिनं मध्यन्दिनेऽधःस्थितः॥

आराहुं किल तालकेश्वरमिता विद्येति या कीर्त्तिता,
आकाशे वनिताखतुर्दशदशग्रीवास्तयोविंशतिः।
तव्रासन् गिरिशे प्रसेदुषि नस्वस्वस्मिन्धु-चन्द्रामल-

क्रोड़ेषु प्रतिबिम्बिताः सहजया मूर्त्त्या च लङ्कापतेः॥

विष्णोर्भक्तिवशाद्वद्दन्ति तरलस्थानेषु कण्ठ-म्रजाम्,
मत्स्यदींस्त्वदरातयो हृदि सदा हेम्नाविनिर्मायितान्।
गाढ़ालिङ्गनतोबंभुः प्रतिमया तुव्यक्तारूपास्ततो,
देव ! त्वद्रिपु-काशिनी-कुच तटे कृष्णावतारा दश॥

पृथ्वौ चन्द्र-शुचि-प्रभामल-जलाऽऽवासः सुख स्पर्शना-
भीष्ट-प्रापक रत्न भास्वदुभय-प्रान्ताच्छ गुच्छावन्दिः।
एषा यैरबलोकिता सुकृतिभिर्जानामि पुण्येन तै-
रष्टौ धूर्जटिमूर्त्तयः स्तनतटे तन्वङ्गि ! दृष्टास्तव॥

गण्डप्रान्तगलन्मदाम्बुतटिनी-प्रौढ़प्रवाहाविलै-
र्दिग्-दन्तावलदन्त-कालिम-गुणैःश्यामीकृता वायवः।
मूर्तीभूय गजाधिरोहपदवीमभ्येत्य देवद्विषत्,
सेनायां वलि दानवारिसमरे कालाग्निलीलां दधुः॥

दुग्धस्पर्द्धभिरैन्दवैः समुदितध्वान्तेभपञ्चाननैः,
कृत्म्रेऽप्यं शुभिरन्तरिधवलिते द्यावापृथिव्योर्निशि।
धूम्राभं नयनाञ्जनालिक-लपत्सिन्दूर-पूरोद्भवम्,
काली-कज्जल शोणिमा धवलयत्यर्द्धं नभोमण्डलम्॥

सेवाव्यग्रनवग्रहागततमोभीत्या शिरस्थापगा-
लोकप्रोल्लसदीर्प्यया गिरिसुतापञ्चाननत्रासतः।
शीर्षार्द्धाङ्गकराश्रयात् पुररिपोरानन्दभाजोऽनिशम्,
चन्द्रश्चन्द्रमुखी मृगश्च युगपत् खेदप्रमोदौ दधुः॥

शम्भोस्ताण्डवडम्बरे तटभुवि प्रभ्रश्यतो मस्तकात्,
अम्भोधिः परमाणुमध्यमविशद् भीतो निशानायकात्।
सङ्गादस्य हि वृद्धितो मम समस्ता भूर्भवेदाप्त ता,

तद्विघ्नोऽस्य भविष्यतीत्यवहितः सिद्धीर्दधानोऽष्ठधा॥

इन्दोर्विम्बमिदं न कुम्भजमुनेस्तत्काशपुष्पोपमम्,
वर्ष्मैतन्न कलङ्क एष तदिदं तस्यैव कृष्णाजिनम्।
अम्भोधिः परमाणुमध्यमविशद् भीतो निशानायकात्,
इत्याशङ्क्य पुनस्तथैव ववृधे विज्ञाय तत्त्वं मुदा॥

नित्यं सत्करपुष्कराश्रयपरोनिर्नाशयन् कण्टकान्,
सङ्ग्रमे रिपुराजकुञ्जरघटादन्ताबलीं पाटयन्।
श्रीहम्मीरमहीमहेन्द्र भवतस्तीक्षणोऽसिदण्डः स्फुटम्,
हेरम्बस्तरुणक्रमेलकगलस्पर्द्धीमृगाङ्कायते॥

विघ्नव्रातसुतीक्ष्णकण्टकघटामास्वादयन् देहिनाम्,
हेरम्बस्तरुणक्रमेलकगलस्पर्द्धीमृगाङ्कायते।
दीप्यद्दन्तमरीचिवीचिनिचयज्योत्स्नाभिरुल्लासयन्,
कल्याणाम्बुनिधिं विपक्षकमलोल्लासञ्च वित्नासयन्॥

मग्नान्यर्कपिपासुसप्ततुरगास्यान्तर्गतानि ध्रुवम्,
गङ्गायां गगनानि सप्त गगने गङ्गास्त्रयोविशतिः।
किञ्चैकादशरुद्रमस्तकघृतास्तन्मीलिचन्द्रान्तरे,
तावत्यः प्रतिभागताः सुविशदा नैसर्गिकीचापरा॥

यत्सप्तर्षिकमण्डलूदरगतान्यासन्निमग्ननि तदु,
गङ्गायां गगनानि सप्त गगने गङ्गास्त्रयोविंशतिः।
रुद्रैर्भक्तिवशंवदैरुपदशैःसूरैरुपैकादशैः,
पूज्यन्ते च पृथक् पृथक् बलिशतैरावाहनेऽपि स्थिताः॥

कस्तूरीतिलकं विसारि विलसत् सीमन्तमुक्तामणिः
वक्त्रं निन्दितचन्द्रविम्वविभवं नीलञ्च कौशेयकम्।
चोलं जालकवाससा यदभवत्तद्गोपयूनामभूत्,
जम्वू वज्जलविन्दुवज्जलजवज्जम्बालवज्जालवत्॥

ख्यातस्त्वं फलपुष्पदृष्टिसुमनः खाधीनजाम्बूनदः,

—————————————————————————————————————————————

पुटे स्पष्टता नास्ति।

क्षीणास्ते रिपुसम्पदः प्रतिदिनं मित्रोदये मोदसें।
पान्यानां कुरुषे विलम्बनमहो ! दत्तान्तरस्तेजसाम्,
जम्बू वज्जलविन्दुवज्जलजवज्जम्बालंवज्जालवत्॥

नित्यं भात्यलकानुवन्धमधुरा भालस्थली सुभ्रुवः,
तारुण्यं विलसन्मदाविलमुरो नक्षत्रमालाश्रितम्।
अङ्गं चम्पकगौरमक्षि सकलग्रामोल्लसन्मूर्च्छनम्,
गङ्गावद् गजगण्डवद् गगनवद् गाङ्गेयवद् गेयवत्॥

कीर्त्तिस्ते विमला सदैव कमला भृङ्गैरियं सेव्यते,
शून्यं शत्रुकुलं तव क्षितिभृतो भेत्ताभवांञ्छक्तितः।
धारित्त्र्यां भरतानुयायि भवतो हम्मीर ! पृथ्वीपते !
गङ्गावद् गजगण्डवद् गगनवद् गाङ्गेयवद् गेयवद्॥

वन्धं क्वापि कदापि चानुभवतो मोक्षञ्च तन्मानसे,
तोपं वर्द्धयतः सदा सुमनसां नीचैः स्थितिं कुर्वतः।
श्रीमत्पुष्पकवासलब्धयशसस्तस्मादनन्तर्हितः,
पानीयम्य दशाननस्य कवरीभारस्य तुल्यक्रमः॥

पङ्गव्योमविहारदक्षमसमश्रीनीलकण्ठाश्रयम्,
रुप्यामित्रसमं दया खलु महाकालं घनं कुर्वतः।
सोत्कम्पानिमिपेक्ष्यमाणविलसत्सत्पुष्पकश्रीजुषः,
पानीयम्य दशाननम्य कवरीभारस्य तुल्य क्रमः॥

निःपीतो मुनिनार्णवश्चिरमभृत्पङ्खावशेषोऽभितः
सुष्कोरःस्थलतामयाप पवनप्रोङ्गूतधूलीमयः।
गद्भे! देवि ! भवन्प्रवाहकृपया भूयः प्रगीतो जनैः,
अम्भोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः॥

इन्दुर्यापरत्रमगतिनफः श्रीः पारिजातः सुधा
वर्गंम्वर्गपरिणदोऽयमव्गनि त्वत्तः सुरैःप्रार्थितात्।
दिग् लोकं तथ यप्तयापि तनुते तोयाद्वनामायनीम्,

—————————————————————————————————————————————

अम्भोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः॥

शय्या-सद्म हरेः श्रियो जनयिता रत्नाकरो नायकः,
तीर्थानामिति सागरस्य कथया नासौ तथा तुष्यति।
अम्भोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः,
श्रुत्वेतानि पदानि तुष्यति यथा तर्षार्त्त-कण्ठो ज्वरी॥

पाथोधेर्मन्थकाले सुरघृतममृतं लव्धमर्काव्धिजाभ्याम्
स्वर्भानुस्त्रायमानं कपट-पटु-शिवश्छिन्नमूर्द्धाऽच्युतेन।

चक्रे सोमस्य वाक्यादिति भुवि लुठितं भर्त्तृशोकार्त्तचित्ताः,
श्लिष्यन्ति स्कन्दपत्र्योविधुभयविधुरं राहुवक्षोऽधुनापि॥

अस्मिन् पाथोधि-मन्थेऽमृत-हरण-रुषा शौरिणा भिन्नमौलि-
श्लिष्यन्ति स्कन्दपत्रोविधुभयविधुरं राहुवक्षोऽधुनापि।
श्यामं शोकार्त्तनादास्तडिदमलरुचो मेघमाशङ्क्य तत् ते,
धत्ते नृत्यं मयूरः प्रमुदितहृदयः पातु वागित्युमायाः॥

वस्त्राभावोऽनुविम्बे नयनकमलयो राजयः कण्टकानाम्,
अस्ति स्तः सन्ति कान्ताकुचकलशतटे नास्ति नस्तो न सन्ति।
चित्रं श्रीखण्डहारौ प्रियतमकरजोज्जागरूक-ब्रणानि,
त्वद्वैरि-क्ष्मापतीनामखिल वसुमतीकान्त कान्तारमार्गे॥

प्रत्येकं दिक्पतीशाऽनिलतपनवसून् सन्नतस्त्वं यथा भूः,
अश्रौषीस्त्वंयथा च स्वरसहितलसन् मूर्च्छना-ग्रामतालान्।
कृष्णान्यस्तान्यमौलीक्षणवदवसरे सा च सा च प्रमादात्
शीर्षाणां सैव बन्ध्या तव नवतिरभूल्लोक्षनानामशीतिः॥

इति श्रीमहाकविदेवेश्वरविरचितायां
कविकल्पलतायामर्थाख्ये चतुर्थे स्तवके
समस्यानाम सप्तमं कुसुमम्।

———

अथ ग्रन्थकृद्विज्ञापनम्।

न कवित्वाभिमानेन न कीर्त्तिप्रसरेच्छया।
विहिताऽसौ मया किन्तु कौतुकात् कवितार्थिनाम्॥

निष्फला लसतां त्यक्ता कविकल्पलता मम।
एषा फलाय महते पोषणीया मनीषिभिः॥

अन्यकन्यापि पुण्यार्थमपविद्धाऽपि शर्मदा।
पोषणादेवमेषापि श्रेयसे च भविष्यति॥

अथ ग्रन्थस्तुतिः।

हन्त ! सन्ततमिमामुपास्यतः कस्य नश्यति न वाचि वाच्यता ?
उल्लसन्ति कलकण्ठकामिनो कूजितादपि च पूजिता गिरः॥

कलकण्ठकलत्रकोमलस्वन-लक्ष्मीसद्वया सुकेलयः।
कविकल्पलतानुकम्पया कविनः कस्य भवन्तु नोक्तयः ?॥

निसर्ग-सारस्वतसम्भृतानि सूक्तानि मुक्तामणिकोमलानि।
भवन्त्यमुख्या भजतां तदेषा द्वेषादुपेक्ष्यान विचक्षणेन॥

स्वर्धेनुदुग्धसवयांसि वचांसि वाणी-
मञ्जीरमञ्जुलनिनादसहोदराणि।
एतान्निषेव्य कवयः कवितामृतानि।
विद्वत्सभासु स विलासमुदीरयध्वम्॥

मदकलकलकण्ठीकेलिनादानुवादाः
परिणतसहकारास्वादभवादभाजः।
अभिनवमधुधाराबन्धवः काव्यबन्धा-
विधुतविधुरुचोऽस्याः सेवयाविर्भवन्ति॥

सर्वं विनश्यति विहाय कवित्वमेकं
कायेन साकमिति कस्य नहि प्रसिद्धम्।
एतद्विमृष्य कविकल्पलता सुकाव्य-
सम्पत्तये सुकविभिः सततं निषेव्या॥

आविष्कृता वसुमती वलयेश्वरेण,
देवेश्वरेण कविना कविनायकेन।
काव्यज्ञमानसमुदे सकलार्थ सूतिः
सत्सुनगुच्छ ‛कविकल्पलता’विभूयात्॥

इति श्रीमहाकविदेवेश्वरविरचिता कविकल्पलता
समाप्ता।

श्रीशप्रमाणेऽलिगते दिनेशे
शाकेऽनिलेन्द्रप्रमिते युधाहे।
वीशप्रमादात् सुधिया मुदे मे।
संमुद्रितेयं प्रकटीकृता च॥

—:•:—

]