3

विस्तारः (द्रष्टुं नोद्यम्)

Based on the ed.: Śabdālaṃkāradoṣavibhāga Die Unterscheidung der Lautfiguren und der Fehler.
Kritische Ausgabe des dritten Kapitels von Daṇḍins Poetik Kāvyādarśa und der tibetischen Übertragung Sñan ṅag me loṅ
samt dem Sanskrit-Kommentar des Ratnaśrījñāna, dem tibetischen Kommentar des Dpaṅ Blo gros brtan pa
und einer deutschen Übersetzung des Sanskrit-Grundtextes. Von Dragomir Dimitrov.
Wiesbaden 2011. (Veröffentlichungen der Helmuth von Glasenapp-Stiftung, Monographien 2).

अव्यपेतव्यपेतात्मा व्यावृत्तिर् वर्णसंहतेः ।
यमकं तच् च पादानाम् आदिमध्यान्तगोचरम् ॥ क्द्द्_३।१ ॥

एकद्वित्रिचतुष्पादयमकानां विकल्पनाः ।
आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ क्द्द्_३।२ ॥

अत्यन्तबहवस् तेषां भेदाः सम्भेदयोनयः ।
सुकरा दुष्कराश् चैव दर्श्यन्ते तत्र के चन ॥ क्द्द्_३।३ ॥

मानेन मानेन सखि प्रणयो भूत् प्रिये जने ।
खण्डिता कण्ठम् आश्लिष्य तम् एव कुरु सत्रपम् ॥ क्द्द्_३।४ ॥

मेघनादेन हंसानां मदनो मदनोदिना ।
नुन्नमानं मनः स्त्रीणां सह रत्या विगाहते ॥ क्द्द्_३।५ ॥

राजन्वत्यः प्रजा जाता भवन्तं प्राप्य साम्प्रतम् ।
चतुरं चतुरम्भोधिरशनोर्वीकरग्रहे ॥ क्द्द्_३।६ ॥

अरण्यं कैश् चिद् आक्रान्तम् अन्यैः सद्म दिवौकसाम् ।
पदातिरथनागाश्वरहितैर् अहितैस् तव ॥ क्द्द्_३।७ ॥

मधुरं मधुर् अम्भोजवदने वद नेत्रयोः ।
विभ्रमं भ्रमरभ्रान्त्या विडम्बयति किं न्व् इदम् ॥ क्द्द्_३।८ ॥

वारणो वा रणोद्दामो हयो वा स्मर दुर्धरः ।
न यतो नयतो ऽन्तं नस् तद् अहो विक्रमस् तव ॥ क्द्द्_३।९ ॥

राजितैर् आजितैक्ष्ण्येन जीयते त्वादृशैर् नृपैः ।
नीयते च पुनस् तृप्तिं वसुधा वसुधारया ॥ क्द्द्_३।१० ॥

करोति सहकारस्य कलिकोत्कलिकोत्तरम् ।
मन्मनो मन्मनो ऽप्य् एष मत्तकोकिलनिस्वनः ॥ क्द्द्_३।११ ॥

कथं त्वदुपलम्भाशाविहताव् इह तादृशी ।
अवस्था नालम् आरोढुम् अङ्गनाम् अङ्गनाशिनी ॥ क्द्द्_३।१२ ॥

निगृह्य नेत्रे कर्षन्ति बालपल्लवशोभिना ।
तरुणा तरुणान् क्लिष्टान् अलिनो नलिनोन्मुखाः ॥ क्द्द्_३।१३ ॥

विशदा विशदामत्तसारसे सारसे जले ।
कुरुते कुरुतेनेयं हंसी माम् अन्तकामिषम् ॥ क्द्द्_३।१४ ॥

विषमं विषम् अन्वेति मदनं मदनन्दनः ।
सहेन्दुकलयापोढमलया मलयानिलः ॥ क्द्द्_३।१५ ॥

मानिनी मा निनीषुस् ते निषङ्गत्वम् अनङ्ग मे ।
हारिणी हारिणी शर्म तनुतां तनुतां यतः ॥ क्द्द्_३।१६ ॥

जयता त्वन्मुखेनास्मान् अकथं न कथं जितम् ।
कमलं कम् अलङ्कुर्वद् अलिमद् दलि मत्प्रिये ॥ क्द्द्_३।१७ ॥

रमणी रमणीया मे पाटलापाटलांशुका ।
वारुणीवारुणीभूतसौरभा सौरभास्पदम् ॥ क्द्द्_३।१८ ॥

इति पादादियमकम् अव्यपेतं विकल्पितम् ।
व्यपेतस्यापि वर्ण्यन्ते विकल्पास् तस्य के चन ॥ क्द्द्_३।१९ ॥

मधुर् एणदृशां मानं मधुरेण सुगन्धिना ।
सहकारोद्गमेनैव शब्दशेषं करिष्यति ॥ क्द्द्_३।२० ॥

करो ऽतिताम्रो रामाणां तन्त्रीताडनविभ्रमम् ।
करोति सेर्ष्यं कान्ते वा श्रवणोत्पलताडनम् ॥ क्द्द्_३।२१ ॥

सकलापोल्लसनया कलापिन्यानु नृत्यते ।
मेघाली नर्तिता वातैः सकलापो विमुञ्चति ॥ क्द्द्_३।२२ ॥

स्वयम् एव गलन्मानकलि कामिनि ते मनः ।
कलिकाम् अथ नीपस्य दृष्ट्वा कां नु स्पृशेद् दशाम् ॥ क्द्द्_३।२३ ॥

आरुह्याक्रीडशैलस्य चन्द्रकान्तस्थलीम् इमाम् ।
नृत्यत्य् एष लसच्चारुचन्द्रकान्तः शिखावलः ॥ क्द्द्_३।२४ ॥

उद्धृता राजकाद् उर्वी ध्रियते ऽद्य भुजेन ते ।
वराहेणोद्धृता यासौ वराहेर् उपरिस्थिता ॥ क्द्द्_३।२५ ॥

करेण ते रणेष्व् अन्तकरेण द्विषतां हताः ।
करेणवः क्षरद्रक्ता भान्ति सन्ध्याघना इव ॥ क्द्द्_३।२६ ॥

परागतरुराजीव वातैर् ध्वस्ता भटैश् चमूः ।
परागतम् इव क्वापि परागततम् अम्बरम् ॥ क्द्द्_३।२७ ॥

पातु वो भगवान् विष्णुः सदा नवघनद्युतिः ।
स दानवकुलध्वंसी सदानवरदन्तिहा ॥ क्द्द्_३।२८ ॥

कम् अलेः समकेशं ते कमलेर्ष्याकरं मुखम् ।
कम् अलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु ॥ क्द्द्_३।२९ ॥

मुदा रमणम् अन्वीतम् उदारमणिभूषणाः ।
मदभ्रमद्दृशः कर्तुम् अदभ्रजघनाः क्षमाः ॥ क्द्द्_३।३० ॥

उदितैर् अन्यपुष्टानाम् आरुतैर् मे हृतं मनः ।
उदितैर् अपि ते दूति मारुतैर् अपि दक्षिणैः ॥ क्द्द्_३।३१ ॥

सुराजितह्रियो यूनां तनुम् अध्यासते स्त्रियः ।
तनुमध्याः क्षरत्स्वेदसुराजितमुखेन्दवः ॥ क्द्द्_३।३२ ॥

इति व्यपेतयमकप्रभेदो ऽप्य् एष दर्शितः ।
अव्यपेतव्यपेतात्मा विकल्पो ऽप्य् अस्ति तद्यथा ॥ क्द्द्_३।३३ ॥

सालं सालम्बकलिकासालं सालं न वीक्षितुम् ।
नालीन् आलीनबकुलान् आली नालीकिनीर् अपि ॥ क्द्द्_३।३४ ॥

कालं कालम् अनालक्ष्यतारतारकम् ईक्षितुम् ।
तारतारम्यरसितं कालं कालमहाघनम् ॥ क्द्द्_३।३५ ॥

याम यामत्रयाधीनायामया मरणं निशा ।
याम् अयाम् अधियास्वार्त्या या मया मथितैव सा ॥ क्द्द्_३।३६ ॥

इत्य् आदिपादयमकविकल्पस्येदृशी गतिः ।
एवम् एव विकल्प्यानि यमकानीतराण्य् अपि ॥ क्द्द्_३।३७ ॥

न प्रपञ्चभयाद् भेदाः कार्त्स्न्येनाख्यातुम् ईप्सिताः ।
दुष्कराभिमता एव दर्श्यन्ते तत्र के चन ॥ क्द्द्_३।३८ ॥

स्थिरायते यतेन्द्रियो न हीयते यतेर् भवान् ।
अमायतेयते ऽप्य् अभूत् सुखाय ते ऽयते क्षयम् ॥ क्द्द्_३।३९ ॥

सभासु राजन्न् असुराहतैर् मुखैर् महीसुराणां वसुराजितैः स्तुताः ।
न भासुरा यान्ति सुरान् न ते गुणाः प्रजासु रागात्मसु राशितां गताः ॥ क्द्द्_३।४० ॥

तव प्रिया सच्चरिताप्रमत्त या विभूषणं धार्यम् इहांशुमत् तया ।
रतोत्सवामोदविशेषमत्तया न मे फलं किं चन कान्तिमत्तया ॥ क्द्द्_३।४१ ॥

भवादृशा नाथ न जानते नते रसं विरुद्धे खलु सन्नतेनते ।
य एव दीनाः शिरसा नतेन ते चरन्त्य् अलं दैन्यरसेन तेन ते ॥ क्द्द्_३।४२ ॥

लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन ।
व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ॥ क्द्द्_३।४३ ॥

श्रीमान् अमान् अमरवर्त्मसमानमानम् आत्मानम् आनतजगत्प्रथमानमानम् ।
भूमानम् आनयत यः स्थितिमान् अमान नामानम् आनम तम् अप्रतिमानमानम् ॥ क्द्द्_३।४४ ॥

सारयन्तम् उरसा रमयन्ती सारभूतमुरुसारधरा तम् ।
सारसानुकृतसारसकाञ्चिः सा रसायनम् असारम् अवैति ॥ क्द्द्_३।४५ ॥

नयानयालोचनयानयानयान् अयानयान्धान् विनयानयायते ।
न यान् अयासीर् जिनयानया नयान् अयानयास् ताञ् जनयानयाश्रितान् ॥ क्द्द्_३।४६ ॥

रवेण भौमो ध्वजवर्तिवीरवेर् अवेजि संयत्य् अतुलास्त्रगौरवे ।
रवेर् इवोग्रस्य पुरो हरेर् अवेर् अवेत तुल्यं रिपुम् अस्य भैरवे ॥ क्द्द्_३।४७ ॥

मयामयालम्ब्यकलामयामयाम् अयाम् अयातव्यविरामयामया ।
मयामयार्तिं निशयामयामया मयामयामूं करुणामयामया ॥ क्द्द्_३।४८ ॥

मतां धुनानारमताम् अकामताम् अतापलब्धाग्रिमतानुलोमता ।
मताव् अयत्य् उत्तमताविलोमताम् अताम्यतस् ते समता न वामता ॥ क्द्द्_३।४९ ॥

कालकालगलकालकालमुखकालकाल कालकालपनकालकालघनकाल काल ।
कालकालसि तका लका ललनिकालकालकालकालगतु कालकालकलिकालकाल ॥ क्द्द्_३।५० ॥

सन्दष्टयमकस्थानम् अन्तादी पादयोर् द्वयोः ।
उक्तान्तर्गतम् अप्य् एतत् स्वातन्त्र्येणाद्य कीर्त्यते ॥ क्द्द्_३।५१ ॥

उपोढरागाप्य् अबला मदेन सा मदेनसा मन्युरसेन योजिता ।
न योजितात्मानम् अनङ्गतापितां गतापि तापाय ममास नेयते ॥ क्द्द्_३।५२ ॥

अर्धाभ्यासः समुद्गः स्यात् तस्य भेदास् त्रयो मताः ।
पादाभ्यासो ऽप्य् अनेकात्मा व्यज्यते स निदर्शनैः ॥ क्द्द्_३।५३ ॥

नास्थे यः स त्वया वर्ज्यः परमायतमानया ।
ना स्थेयःसत्त्वयावर्ज्यः परम् आयतमानया ॥ क्द्द्_३।५४ ॥

नरा जिता माननयासम् एत्य न राजिता माननया समेत्य ।
विनाशिता वैभवतापनेन विनाशिता वै भवतापनेन ॥ क्द्द्_३।५५ ॥

कलापिनां चारुतयोपयन्ति वृन्दानि लापोढघनागमानाम् ।
वृन्दानिलापोढघनागमानां कलापिनां चारुतयो ऽपयन्ति ॥ क्द्द्_३।५६ ॥

नमन् दयावर्जितमानसात्मया न मन्दयावर्जितमानसात्मया ।
उरस्य् उपास्तीर्णपयोधरद्वयं मया समालिङ्ग्यत जीवितेश्वरः ॥ क्द्द्_३।५७ ॥

सभा सुराणाम् अबला विभूषिता गुणैस् तवारोहि मृणालनिर्मलैः ।
स भासुराणाम् अबला विभूषिता विहारयन् निर्विश सम्पदः पुराम् ॥ क्द्द्_३।५८ ॥

कलं कम् उक्तं तनुमद्ध्यनामिका स्तनद्वयी च त्वदृते न हन्त्य् अतः ।
न याति भूतं गणने भवन्मुखे कलङ्कमुक्तं तनुमद् ध्य् अनामिका ॥ क्द्द्_३।५९ ॥

यशश् च ते दिक्षु रजश् च सैनिका वितन्वते ऽजोपम दंशिता युधा ।
वितन्व् अतेजो ऽपमदं शितायुधा द्विषां च कुर्वन्ति कुलं तरस्विनः ॥ क्द्द्_३।६० ॥

बिभर्ति भूमेर् वलयं भुजेन ते भुजङ्गमो ऽमा स्मरतो मद् अञ्चितम् ।
शृणूक्तम् एकं स्वम् अवेत्य भूधरं भुजं गमो मा स्म रतो मदं चितम् ॥ क्द्द्_३।६१ ॥

स्मरानलो मानविवर्धितो यः स निर्वृतिं ते किम् अपाकरोति ।
समन्ततस् तामरसेक्षणे न समं ततस् ताम् अरसे क्षणेन ॥ क्द्द्_३।६२ ॥

प्रभावतो नामन वासवस्य प्रभावतो ऽनाम नवासवस्य ।
प्रभाव् अतो नाम न वा सवस्य विच्छित्तिर् आसीत् त्वयि पिष्टपस्य ॥ क्द्द्_३।६३ ॥

परं पराया बलवा रणानां धूलीस्थलीर् व्योम विधाय रुन्धन् ।
परं पराया बलवारणानां परम्पराया बलवारणानाम् ॥ क्द्द्_३।६४ ॥

न श्रद्दधे वाचम् अलज्ज मिथ्या भवद्विधानाम् असमाहितानाम् ।
भवद्विधानाम् असमाहितानां भवद्विधानाम् असमाहितानाम् ॥ क्द्द्_३।६५ ॥

सन्नाहितोमानमराजसेन सन्ना हितोमानमराजसेन ।
सन्न् आहितो मानम् अराजसेन सन्नाहितो मानम राजसे न ॥ क्द्द्_३।६६ ॥

सकृद् द्विस् त्रिश् च यो ऽभ्यासः पादस्यैवं प्रदर्शितः ।
श्लोकद्वयं तु युक्तार्थं श्लोकाभ्यासः स्मृतो यथा ॥ क्द्द्_३।६७ ॥

विनायकेन भवता वृत्तोपचितबाहुना ।
स्वमित्रोद्धारिणाभीता पृथ्वीयम् अतुलाश्रिता ॥ क्द्द्_३।६८ ॥

विनायकेन भवता वृत्तोपचितबाहुना ।
स्वमित्रोद्धारिणाभीता पृथ्वी यमतुलाश्रिता ॥ क्द्द्_३।६९ ॥

एकाकारचतुष्पादं तन् महायमकाह्वयम् ।
तस्यापि दृश्यते ऽभ्यासः सा परा यमकक्रिया ॥ क्द्द्_३।७० ॥

समानयासमानया समानया स मानया ।
समानयासमान या समानयासमानया ॥ क्द्द्_३।७१ ॥

धराधराकारधरा धराभुजां भुजा महीं पातुम् अहीनविक्रमाः ।
क्रमात् सहन्ते सहसा हतारयो रयोद्धुरा मानधुरावलम्बिनः ॥ क्द्द्_३।७२ ॥

आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा ।
यमकं प्रतिलोमत्वात् प्रतिलोमम् इति स्मृतम् ॥ क्द्द्_३।७३ ॥

यामताश कृतायासा सा याता कृशता मया ।
रमणारकता ते ऽस्तु स्तुतेताकरणामर ॥ क्द्द्_३।७४ ॥

नादिनो ऽमदना धीः स्वा न मे का चन कामिता ।
तामिका न च कामेन स्वाधीना दमनोदिना ॥ क्द्द्_३।७५ ॥

या न मानयमाराविकशोनानजनासना ।
याम् उदारशताधीनाम् आयाम् आयम् अनादि सा ॥ क्द्द्_३।७६ ॥

सा दिनामयम् आयामा नाधीता शरदामुया ।
नासनाजनना शोकविरामाय न मानया ॥ क्द्द्_३।७७ ॥

वर्णानाम् एकरूपत्वं यद्य् एकान्तरम् अर्धयोः ।
गोमूत्रिकेति तत् प्राहुर् दुष्करं तद्विदो यथा ॥ क्द्द्_३।७८ ॥

मदनो मदिराक्षीणाम् अपाङ्गास्त्रो जयेद् अयम् ।
मदेनो यदि तत् क्षीणम् अनङ्गायाञ्जलिं दधे ॥ क्द्द्_३।७९ ॥

आहुर् अर्धभ्रमं नाम श्लोकार्धभ्रमणं यदि ।
तद् इष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः ॥ क्द्द्_३।८० ॥

मनोभव तवानीकं नोदयाय न मानिनी ।
भयाद् अमेयामा मा वा वयम् एनोमया नत ॥ क्द्द्_३।८१ ॥

सामायामा मा या मासा मारानायायाना रामा ।
यानावारारावानाया मायारामा मारायामा ॥ क्द्द्_३।८२ ॥

यः स्वरस्थानवर्णानां नियमो दुष्करेष्व् असौ ।
इष्टश् चतुःप्रभृत्य् एष दर्श्यते सुकरः परः ॥ क्द्द्_३।८३ ॥

आम्नायानाम् आहान्त्या वाग् ईतीर् गीतीर् भीतीः प्रीतीः ।
भोगो रोगो मोदो मोहो धेये धेच्छे देशे क्षेमे ॥ क्द्द्_३।८४ ॥

क्षितिविजितिस्थितिविहितिव्रतरतयः परगतयः ।
उरु रुरुधुर् गुरु दुधुवुर् युधि कुरवः स्वम् अरिकुलम् ॥ क्द्द्_३।८५ ॥

श्रीदीप्ती ह्रीकीर्ती धीनीती गीःप्रीती ।
एधेते द्वे द्वे ते ये नेमे देवेशे ॥ क्द्द्_३।८६ ॥

सामायामा मा या मासा मारानायायाना रामा ।
यानावारारावानाया मायारामा मारायामा ॥ क्द्द्_३।८७ ॥

नयनानन्दजनने नक्षत्रगणशालिनि ।
अघने गगने दृष्टिर् अङ्गने दीयतां सकृत् ॥ क्द्द्_३।८८ ॥

अलिनीलालकलतं कं न हन्ति घनस्तनि ।
आननं नलिनच्छायनयनं शशिकान्ति ते ॥ क्द्द्_३।८९ ॥

अनङ्गलङ्घनालग्ननानातङ्का सदङ्गना ।
सदानघ सदानन्द नताङ्गासङ्गसङ्गत ॥ क्द्द्_३।९० ॥

अगा गां गाङ्गकाकाकगाहकाघककाकहा ।
अहाहाङ्ग खगाङ्कागकङ्कागखगकाकक ॥ क्द्द्_३।९१ ॥

रे रे रोरूरुरूरोरुगागोगो ऽगाङ्गगो ऽगगुः ।
किं केकाकाकुकः काको मा मा माम् आम मामम ॥ क्द्द्_३।९२ ॥

देवानां नन्दनो देवो नोदनो वेदनिन्दिनः ।
दिवं दुदाव नादेन दाने दानवनन्दिनः ॥ क्द्द्_३।९३ ॥

सूरिः सुरासुरासारिसारः सारासिसारसाः ।
ससार सरसीः सीरी ससूरुः स सुरारसी ॥ क्द्द्_३।९४ ॥

नूनं नुन्नानि नानेन नाननेनाननानि नः ।
नानेना ननु नानूनेनैनेनानान् इनो निनीः ॥ क्द्द्_३।९५ ॥

इति दुष्करमार्गो ऽपि किञ्चिदादर्शितक्रमः ।
प्रहेलिकाप्रकाराणां पुनर् उद्दिश्यते गतिः ॥ क्द्द्_३।९६ ॥

क्रीडागोष्ठीविनोदेषु तज्ज्ञैर् आकीर्णमन्त्रणे ।
परव्यामोहने चापि सोपयोगाः प्रहेलिकाः ॥ क्द्द्_३।९७ ॥

आहुः समागतां नाम गूढार्थां पदसन्धिना ।
वञ्चितान्यत्र रूढेन यत्र शब्देन वञ्चना ॥ क्द्द्_३।९८ ॥

व्युत्क्रान्तातिव्यवहितप्रयोगान् मोहकारिणी ।
सा स्यात् प्रमुषिता यस्या दुर्बोधार्था पदावली ॥ क्द्द्_३।९९ ॥

समानरूपा गौणार्थारोपितैर् ग्रथिता पदैः ।
परुषा लक्षणास्तित्वमात्रव्युत्पादितश्रुतिः ॥ क्द्द्_३।१०० ॥

सङ्ख्याता नाम सङ्ख्यानं यत्र व्यामोहकारणम् ।
अन्यथा भासते यत्र वाक्यार्थः सा प्रकल्पिता ॥ क्द्द्_३।१०१ ॥

सा नामान्तरिता यस्या नाम्नि नानार्थकल्पना ।
निभृता निभृतान्यार्था तुल्यधर्मस्पृशा गिरा ॥ क्द्द्_३।१०२ ॥

समानशब्दोपन्यस्तशब्दपर्यायसाधिता ।
सम्मूढा नाम या साक्षान् निर्दिष्टार्थापि मूढये ॥ क्द्द्_३।१०३ ॥

योगमालात्मकं नाम यस्याः सा पारिहारिकी ।
एकच्छन्नाश्रितं व्यज्य यस्याम् आश्रयगोपनम् ॥ क्द्द्_३।१०४ ॥

सा भवेद् उभयच्छन्ना यस्याम् उभयगोपनम् ।
सङ्कीर्णा नाम सा यस्या नानालक्षणसङ्करः ॥ क्द्द्_३।१०५ ॥

एताः षोडश निर्दिष्टाः पूर्वाचार्यैः प्रहेलिकाः ।
दुष्टप्रहेलिकाश् चान्यास् तैर् अधीताश् चतुर्दश ॥ क्द्द्_३।१०६ ॥

दोषान् अपरिसङ्ख्येयान् मन्यमाना वयं पुनः ।
साध्वीर् एवाभिधास्यामस् ता दुष्टा यास् त्व् अलक्षणाः ॥ क्द्द्_३।१०७ ॥

न मय् आगोरसाभिज्ञं चेतः कस्मात् प्रकुप्यसि ।
अस्थानरुदितैर् एभिर् अलम् आलोहितेक्षणे ॥ क्द्द्_३।१०८ ॥

कुब्जाम् आसेवमानस्य यथा ते वर्धते रतिः ।
नैवं निर्विशतो नारीर् अमरस्त्रीविडम्बिनीः ॥ क्द्द्_३।१०९ ॥

दण्डे चुम्बति पद्मिन्या हंसः कर्कशकण्टके ।
मुखं वल्गु रवं कुर्वंस् तुण्डेनाङ्गानि घटयन् ॥ क्द्द्_३।११० ॥

खातयः कनि काले ते स्फातयः स्फीतवल्गवः ।
चन्द्रे साक्षाद्भवन्त्य् अत्र तायवो मम धारिणः ॥ क्द्द्_३।१११ ॥

अत्रोद्याने मया दृष्टा वल्लरी पञ्चपल्लवा ।
पल्लवे पल्लवे चार्द्रा यस्याः कुसुममञ्जरी ॥ क्द्द्_३।११२ ॥

सुराः सुरालये स्वैरं भ्रमन्ति दशनार्चिषा ।
मज्जन्त इव मत्तास् ते सौरे सरसि सम्प्रति ॥ क्द्द्_३।११३ ॥

नासिक्यमध्या परितश् चतुर्वर्णविभूषिता ।
अस्ति का चित् पुरी यस्याम् अष्टवर्णाह्वया नृपाः ॥ क्द्द्_३।११४ ॥

गिरा स्खलन्त्या नम्रेण शिरसा दीनया दृशा ।
तिष्ठन्तम् अपि सोत्कम्पं वृद्धे मां नानुकम्पसे ॥ क्द्द्_३।११५ ॥

आदौ राजेत्य् अधीराक्षि पार्थिवः को ऽपि गीयते ।
स नातनश् च नैवासौ राजा नापि सनातनः ॥ क्द्द्_३।११६ ॥

हृतद्रव्यं नरं त्यक्त्वा धनवन्तं व्रजन्ति काः ।
नानाभङ्गिशताकृष्टलोका वेश्या न दुर्धराः ॥ क्द्द्_३।११७ ॥

जितप्रकृष्टकेशाख्यो यस् तवाभूमिसाह्वयः ।
स माम् अद्य प्रभूतोत्कं करोति कलभाषिणि ॥ क्द्द्_३।११८ ॥

शयनीये परावृत्य शयितौ कामिनौ रुषा ।
तथैव शयितौ रागात् स्वैरं मुखम् अचुम्बताम् ॥ क्द्द्_३।११९ ॥

विजितान्नभवद्वेषिगुरुपादहतो जनः ।
हिमापहामित्रधरैर् व्याप्तं व्योमाभिनन्दति ॥ क्द्द्_३।१२० ॥

न स्पृशत्य् आयुधं जातु न स्त्रीणां स्तनमण्डलम् ।
अमनुष्यस्य कस्यापि हस्तो ऽयं न किलाफलः ॥ क्द्द्_३।१२१ ॥

केन कः सह सम्भूय सर्वकार्येषु सन्निधिम् ।
लब्ध्वा भोजनकाले तु यदि दृष्टो निरस्यते ॥ क्द्द्_३।१२२ ॥

सहया सगजा सेना सभटेयं न चेज् जिता ।
अमातृको ऽयं मूढः स्याद् अक्षरज्ञस् तु नः सुतः ॥ क्द्द्_३।१२३ ॥

सा नामान्तरितामिश्रवञ्चितारूपयोगिनी ।
एवम् एवेतरासाम् अप्य् उन्नेयः सङ्करक्रमः ॥ क्द्द्_३।१२४ ॥

इति प्रहेलिकामार्गो दुष्करात्मापि दर्शितः ।
विद्वत्प्रयोगतो ज्ञेया मार्गाः प्रश्नोत्तरादयः ॥ क्द्द्_३।१२४*१ ॥

विशदबुद्धिर् अनेन सुवर्त्मना सुकरदुष्करमार्गम् एवैति हि ।
न हि तदन्यनये ऽपि कृतश्रमः प्रभुर् इमं नयम् एतुम् इदं विना ॥ क्द्द्_३।१२४*२ ॥

काव्ये दोषा गुणाश् चैव विज्ञातव्या विचक्षणैः ।
दोषा विपत्तये तत्र गुणाः सम्पत्तये यथा ॥ क्द्द्_३।१२४*३ ॥

अपार्थं व्यर्थम् एकार्थं ससंशयम् अपक्रमम् ।
शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धिकम् ॥ क्द्द्_३।१२५ ॥

देशकालकलालोकन्यायागमविरोधि च ।
इति दोषा दशैवैते वर्ज्याः काव्येषु सूरिभिः ॥ क्द्द्_३।१२६ ॥

प्रतिज्ञाहेतुदृष्टान्तहानिर् दोषो न वेत्य् असौ ।
विचारः कर्कशप्रायस् तेनालीढेन किं फलम् ॥ क्द्द्_३।१२७ ॥

समुदायार्थशून्यं यत् तद् अपार्थम् इहेष्यते ।
तन् मत्तोन्मत्तबालानाम् उक्तेर् अन्यत्र दुष्यति ॥ क्द्द्_३।१२८ ॥

समुद्रः पीयते सो ऽयम् अहम् अद्य जरातुरः ।
अमी गर्जन्ति जीमूता हरेर् ऐरावतः प्रियः ॥ क्द्द्_३।१२९ ॥

इदम् अस्वस्थचित्तानाम् अभिधानम् अनिन्दितम् ।
इतरत्र कविः को वा प्रयुञ्जीतैवमादिकम् ॥ क्द्द्_३।१३० ॥

एकवाक्ये प्रबन्धे वा पूर्वापरपराहतम् ।
विरुद्धार्थतया व्यर्थम् इति दोषेषु पठ्यते ॥ क्द्द्_३।१३१ ॥

जहि शत्रुकुलं कृत्स्नं जय विश्वम्भराम् इमाम् ।
न च ते को ऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥ क्द्द्_३।१३२ ॥

अस्ति का चिद् अवस्था सा साभिषङ्गस्य चेतसः ।
यस्यां भवेद् अभिमता विरुद्धार्थापि भारती ॥ क्द्द्_३।१३३ ॥

परदाराभिलाषो मे कथम् आर्यस्य युज्यते ।
पिबामि तरलं तस्याः कदा नु दशनच्छदम् ॥ क्द्द्_३।१३४ ॥

अविशेषेण पूर्वोक्तं यदि भूयो ऽपि कीर्त्यते ।
अर्थतः शब्दतो वापि तद् एकार्थं मतं यथा ॥ क्द्द्_३।१३५ ॥

उत्काम् उन्मनयन्त्य् एते बालां तदलकत्विषः ।
अम्भोधरास् तडित्वन्तो गम्भीराः स्तनयित्नवः ॥ क्द्द्_३।१३६ ॥

अनुकम्पाद्यतिशयो यदि कश् चिद् विवक्ष्यते ।
न दोषः पुनरुक्ते ऽपि प्रत्युतेयम् अलङ्कृतिः ॥ क्द्द्_३।१३७ ॥

हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा ।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी ॥ क्द्द्_३।१३८ ॥

निर्णयार्थं प्रयुक्तानि संशयं जनयन्ति चेत् ।
वचांसि दोष एवासौ ससंशय इति स्मृतः ॥ क्द्द्_३।१३९ ॥

मनोरथप्रियालोकरसलोलेक्षणे सखि ।
आराद्वृत्तिर् असौ माता न क्षमा द्रष्टुम् ईदृशम् ॥ क्द्द्_३।१४० ॥

ईदृशं संशयायैव यदि जातु प्रयुज्यते ।
स्याद् अलङ्कार एवासौ न दोषस् तत्र तद्यथा ॥ क्द्द्_३।१४१ ॥

पश्याम्य् अनङ्गजातङ्कलङ्घितां ताम् अनिन्दिताम् ।
कालेनैव कठोरेण ग्रस्तां किं नस् त्वदाशया ॥ क्द्द्_३।१४२ ॥

कामार्ता घर्मतप्ता वेत्य् अनिश्चयकरं वचः ।
युवानम् आकुलीकर्तुम् इति दूत्य् आह नर्मणा ॥ क्द्द्_३।१४३ ॥

उद्देशानुगुणो ऽर्थानाम् अनुदेशो न चेत् कृतः ।
अपक्रमाभिधानं तं दोषम् आचक्षते यथा ॥ क्द्द्_३।१४४ ॥

स्थितिनिर्माणसंहारहेतवो जगताम् अजाः ।
शम्भुनारायणाम्भोजयोनयः पालयन्तु वः ॥ क्द्द्_३।१४५ ॥

यत्नसम्बन्धनिर्ज्ञानहेतुः को ऽपि कृतो यदि ।
क्रमलङ्घनम् अप्य् आहुर् न दोषं सूरयो यथा ॥ क्द्द्_३।१४६ ॥

बन्धुत्यागस् तनुत्यागो देशत्याग इति त्रिषु ।
आद्यन्ताव् आयतक्लेशौ मध्यमः क्षणिकज्वरः ॥ क्द्द्_३।१४७ ॥

शब्दहीनम् अनालक्ष्यलक्ष्यलक्षणपद्धतिः ।
पदप्रयोगो ऽशिष्टेष्टो न शिष्टेष्टो हि दुष्यति ॥ क्द्द्_३।१४८ ॥

अवते भवते बाहुर् महीम् अर्णवशक्वरीम् ।
महाराजन्न् अजिज्ञासौ नास्तीत्य् आसां गिरां रसः ॥ क्द्द्_३।१४९ ॥

दक्षिणाद्रेर् उपसरन् मारुतश् चूतपादपान् ।
कुरुते ललिताधूतप्रवालाङ्कुरशोभिनः ॥ क्द्द्_३।१५० ॥

इत्यादि शास्त्रमाहात्म्यदर्शनालसचेतसाम् ।
अपभाषणवद् भाति न च सौभाग्यम् उज्झति ॥ क्द्द्_३।१५१ ॥

श्लोकेषु नियतस्थानं पदच्छेदं यतिं विदुः ।
तदपेतं यतिभ्रष्टं श्रवणोद्वेजनं यथा ॥ क्द्द्_३।१५२ ॥

स्त्रीणां सङ्गीतिविधिम् अयम् आदित्यवंश्यो नरेन्द्रः पश्यत्य् अक्लिष्टरसम् इह शिष्टैर् अमेत्यादि दुष्टम् ।
कार्याकार्याण्य् अयम् अविकलान्य् आगमेनैव पश्यन् वश्याम् उर्वीं वहति नृप इत्य् अस्ति चैवं प्रयोगः ॥ क्द्द्_३।१५३ ॥

लुप्ते पदान्ते शिष्टस्य पदत्वं निश्चितं यथा ।
तथा सन्धिविकारान्तं पदम् एवेति वर्ण्यते ॥ क्द्द्_३।१५४ ॥

तथापि कटु कर्णानां कवयो न प्रयुञ्जते ।
ध्वजिनी तस्य राज्ञः केतूदस्तजलदेत्य् अदः ॥ क्द्द्_३।१५५ ॥

वर्णानां न्यूनताधिक्ये गुरुलघ्वयथास्थितिः ।
यत्र तद् भिन्नवृत्तं स्याद् एष दोषः सुनिन्दितः ॥ क्द्द्_३।१५६ ॥

इन्दुपादाः शिशिराः स्पृशन्तीत्य् ऊनवर्णता ।
सहकारस्य किसलयान्य् आर्द्राणीत्य् अधिकाक्षरम् ॥ क्द्द्_३।१५७ ॥

कामेन बाणा निशिता विमुक्ता मृगेक्षणास्व् इत्य् अयथागुरुत्वम् ।
मदनबाणा निशिताः पतन्ति मृगेक्षणास्व् इत्य् अयथालघुत्वम् ॥ क्द्द्_३।१५८ ॥

न संहितां विवक्षामीत्य् असन्धानं पदेषु यत् ।
तद् विसन्धीति निर्दिष्टं न प्रगृह्यादिहेतुकम् ॥ क्द्द्_३।१५९ ॥

मन्दानिलेन चरता अङ्गनागण्डमण्डले ।
लुप्तम् उद्भेदि घर्माम्भो नभस्य् अस्मन्मनस्य् अपि ॥ क्द्द्_३।१६० ॥

आधिव्याधिपरीताय अद्य श्वो वा विनाशिने ।
को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ द्क्द्_३।१६०* ॥

लुप्तम् उद्भेदि घर्माम्भो नभस्य् अस्मन्मनस्य् अपि ।
आसु रात्रिष्व् इति प्राज्ञैर् अज्ञातं न्यङ्गम् ईदृशम् ॥ क्द्द्_३।१६१ ॥

[फ़ोर् थे रेपेतितिओन् ओफ़् १६०च्द् इन् १६१अब्, मोस्त् एदितिओन्स् रेअद्:
मानेर्ष्ये इह शीर्येते स्त्रीणां हिमऋतौ प्रिये]

देशो ऽद्रिवनराष्ट्रादिः कालो रात्रिन्दिवर्तवः ।
नृत्तगीतप्रभृतयः कलाः कामार्थसंश्रयाः ॥ क्द्द्_३।१६२ ॥

चराचराणां भूतानां प्रवृत्तिर् लोकसञ्ज्ञिता ।
हेतुविद्यात्मको न्यायः सस्मृतिः श्रुतिर् आगमः ॥ क्द्द्_३।१६३ ॥

तेषु तेष्व् अयथारूढं यदि किं चित् प्रवर्तते ।
कवेः प्रमादाद् देशादिविरोधीत्य् एतद् उच्यते ॥ क्द्द्_३।१६४ ॥

कर्पूरपादपामर्शसुरभिर् मलयानिलः ।
कलिङ्गवनसम्भूता मृगप्राया मतङ्गजाः ॥ क्द्द्_३।१६५ ॥

चोलाः कालागरुश्यामाः कावेरीतीरभूमयः ।
इति देशविरोधिन्या वाचः प्रस्थानम् ईदृशम् ॥ क्द्द्_३।१६६ ॥

पद्मिनी नक्तम् उन्निद्रा स्फुटत्य् अह्नि कुमुद्वती ।
मधुर् उत्फुल्लनिचुलो निदाघो मेघदुर्दिनः ॥ क्द्द्_३।१६७ ॥
श्रव्यहंसगिरो वर्षाः शरद् आमत्तबर्हिणी ।
हेमन्तो निर्मलादित्यः शिशिरः श्लाघ्यचन्दनः ॥ क्द्द्_३।१६८ ॥

इति कालविरोधस्य दर्शिता गतिर् ईदृशी ।
मार्गः कलाविरोधस्य मनाग् उद्दिश्यते यथा ॥ क्द्द्_३।१६९ ॥

वीरशृङ्गारयोर् भावौ स्थायिनौ क्रोधविस्मयौ ।
पूर्णसप्तस्वरः सो ऽयं भिन्नमार्गः प्रवर्तते ॥ क्द्द्_३।१७० ॥

इत्थं कलाचतुःषष्टौ विरोधः साधु नीयताम् ।
तस्याः कलापरिच्छेदे रूपम् आविर्भविष्यति ॥ क्द्द्_३।१७१ ॥

आधूतकेसरो हस्ती तीक्ष्णशृङ्गस् तुरङ्गमः ।
गुरुसारो ऽयम् एरण्डो निःसारः खदिरद्रुमः ॥ क्द्द्_३।१७२ ॥

इति लौकिक एवायं विरोधः सर्वगर्हितः ।
विरोधो हेतुविद्यासु न्यायाख्यासु निदर्श्यते ॥ क्द्द्_३।१७३ ॥

सत्यम् एवाह सुगतः संस्कारान् अविनश्वरान् ।
तथा हि सा चकोराक्षी स्थितैवाद्यापि मे हृदि ॥ क्द्द्_३।१७४ ॥

कापिलैर् असदुद्भूतिः स्थान एवोपवर्ण्यते ।
असताम् एव दृश्यन्ते यस्माद् अस्माभिर् उद्भवाः ॥ क्द्द्_३।१७५ ॥

नीतिर् न्यायविरोधस्य सैषा सर्वत्र दृश्यताम् ।
अथागमविरोधस्य प्रस्थानं दर्शयिष्यते ॥ क्द्द्_३।१७६ ॥

अनाहिताग्नयो ऽप्य् एते जातपुत्रा वितन्वते ।
विप्रा वैश्वानरीम् इष्टिम् अक्लिष्टाचारभूषणाः ॥ क्द्द्_३।१७७ ॥

असाव् अनुपनीतो ऽपि वेदान् अधिजगे गुरोः ।
स्वभावशुद्धः स्फटिको न संस्कारम् अपेक्षते ॥ क्द्द्_३।१७८ ॥

विरोधः सकलो ऽप्य् एष कदा चित् कविकौशलात् ।
उत्क्रम्य दोषगणनां गुणवीथीं विगाहते ॥ क्द्द्_३।१७९ ॥

तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे ।
आर्द्रांशुकप्रवालानाम् आस्पदं सुरशाखिनाम् ॥ क्द्द्_३।१८० ॥

राज्ञां विनाशपिशुनश् चचार खरमारुतः ।
धुन्वन् कदम्बरजसा सह सप्तच्छदोद्गमान् ॥ क्द्द्_३।१८१ ॥

दोलातिप्रेरणात्रस्तवधूजनमुखोद्गतम् ।
कामिनां लयवैषम्याद् गेयं रागम् अवर्धयत् ॥ क्द्द्_३।१८२ ॥

ऐन्दवाद् अर्चिषः कामी शिशिरं हव्यवाहनम् ।
अबलाविरहक्लेशविह्वलो गणयत्य् अयम् ॥ क्द्द्_३।१८३ ॥

प्रमेयो ऽप्य् अप्रमेयो ऽसि सकलो ऽप्य् असि निष्कलः ।
एकस् त्वम् अप्य् अनेको ऽसि नमस् ते विश्वमूर्तये ॥ क्द्द्_३।१८४ ॥

पञ्चानां पाण्डुपुत्राणां पत्नी पञ्चालकन्यका ।
सतीनाम् अग्रणीश् चासीद् दैवो हि विधिर् ईदृशः ॥ क्द्द्_३।१८५ ॥

शब्दार्थालङ्क्रियाश् चित्रा मार्गाः सुकरदुष्कराः ।
गुणा दोषाश् च काव्यानाम् इति सङ्क्षिप्य दर्शिताः ॥ क्द्द्_३।१८६ ॥

व्युत्पन्नबुद्धिर् अमुना विधिदर्शितेन मार्गेण दोषगुणयोर् वशवर्तिनीभिः ।
वाग्भिः कृताभिसरणो मदिरेक्षणाभिर् धन्यो युवेव रमते लभते च कीर्तिम् ॥ क्द्द्_३।१८७ ॥

॥ इत्य् आचार्यश्रीदण्डिनः कृतौ काव्यादर्शे दुष्करनामा तृतीयः परिच्छेदः समाप्तः ॥