Dandin: Kavyadarsa 2 (plain text)

विस्तारः (द्रष्टुं नोद्यम्)

DANDIN: KAVYADARSA, Pariccheda 2 (incomplete!): Verses 2.1-144, 310-368
based on the edition by S.K. Belvalkar, Poona 1924.

Input by Reinhold Gruenendahl

                         परिच्छेद २  

काव्यशोभाकरान् धर्मान् अलङ्कारान् प्रचक्षते ।
ते चाद्यापि विकल्प्यन्ते कस् तान् कार्त्स्न्येन वक्ष्यति ॥ २।१ ॥
किन्तु बीजं विकल्पानां पूर्वाचार्यैः प्रदर्सितम् ।
तद् एव प्रतिसंस्कर्तुम् अयम् अस्मत्परिश्रमः ॥ २।२ ॥
काश्चिन् मार्गविभागार्थम् उक्ताः प्राग् अप्य् अलङ्क्रियाः ।
साधारणम् अलङ्कार- जातम् अन्यत् प्रदर्श्यते ॥ २।३ ॥

स्वभावाख्यानम् उपमा रूपकं दीपकावृत्तिः ।
आक्षेपो ऽर्थान्तरन्यासो व्यतिरेको विभावना ॥ २।४ ॥
समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः ।
प्रेयो रसवद् ऊर्जस्वि पर्यायोक्तं समाहितम् ॥ २।५ ॥
उदात्तापह्नुतिश्लेष- विशेषास् तुल्ययोगिता ।
विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ॥ २।६ ॥
सहोक्तिः परिवृत्त्याशिः- सङ्कीर्णम् अथ भाविकम् ।
इति वाचाम् अलङ्कारा दर्शिताः पूर्वसूरिभिः ॥ २।७ ॥

[स्वभावोक्ति (= स्वभावाख्यान = जाति)]

नानावस्थं पदार्थानां रूपं साक्षाद् विवृण्वती ।
स्वभावोक्तिश् च जातिश् चेत्य् आद्या सालङ्कृतिर् यथा ॥ २।८ ॥

[स्वभावोक्ति: जाति]
तुण्डैर् आताम्रकुटिलैः पक्षैर् हरितकोमलैः ।
त्रिवर्णराजिभिः कण्ठैर् एते मञ्जुगिरः शुकाः ॥ २।९ ॥

[- स्वभावोक्ति: क्रिया]
कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पारावतः परिभ्रम्य रिरंसुश् चुम्बति प्रियाम् ॥ २।१० ॥

[- स्वभावोक्ति: गुण]
बध्नन्न् अङ्गेषु रोमाञ्चम् कुर्वन् मनसि निर्वृतिम् ।
नेत्रे चामीलयन्न् एष प्रियास्पर्शः प्रवर्तते ॥ २।११ ॥

[- स्वभावोक्ति: द्रव्य]
कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः ।
जटाभिः स्निग्धताम्राभिर् आविरासीद् वृषध्वजः ॥ २।१२ ॥

जातिक्रियागुणद्रव्य- स्वभावाख्यानम् ईदृशम् ।
शास्त्रेष्व् अस्यैव साम्राज्यं काव्येष्व् अप्य् एतद् ईप्सितम् ॥ २।१३ ॥

[उपमा]
यथा कथञ्चिद् सादृश्यं यत्रोद्भूतं प्रतीयते ।
उपमा नाम सा तस्याः प्रपञ्चो ऽयं निदर्श्यते ॥ २।१४ ॥

[- धर्मोपमा]
अम्भोरुहम् इवाताम्रं मुग्धे करतलं तव ।
इति धर्मोपमा साक्षात् तुल्यधर्मप्रदर्शनात् ॥ २।१५ ॥

[- वस्तूपमा]
राजीवम् इव ते वक्त्रं नेत्रे नीलोत्पले इव ।
इयं प्रतीयमानैक- धर्मा वस्तूपमैव सा ॥ २।१६ ॥

[- विपर्यासोपमा]
तवाननम् इवोन्निद्रम् अरविन्दम् अभूद् इति ।
सा प्रसिद्धिविपर्यासाद् विपर्यासोपमेष्यते ॥ २।१७ ॥

[- अन्योऽन्योपमा]
तवाननम् इवाम्भोजम् अम्बोजम् इव ते मुखम् ।
इत्य् अन्योऽन्योपमा सायम् अन्योऽन्योत्कर्षशंसिनी ॥ २।१८ ॥

[- नियमोपमा]
त्वन्मुखं कमलेनैव तुल्यं नान्येन केनचित् ।
इत्य् अन्यसाम्यव्यावृत्तेर् इयं सा नियमोपमा ॥ २।१९ ॥

[- अनियमोपमा]
पद्मं तावत् तवान्वेति मुखम् अन्यच् च तादृशम् ।
अस्ति चेद् अस्तु तत्कारीत्य् असाव् अनियमोपमा ॥ २।२० ॥

[- समुच्चयोपमा]
समुच्चयोपमाप्य् अस्ति न कान्त्यैव मुखं तव ।
ह्लादनाख्येन चान्वेति कर्मणेन्दुम् इतीदृशी ॥ २।२१ ॥

[- अतिशयोपमा]
त्वय्य् एव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः ।
इयत्य् एव भिदा नान्येत्य् असाव् अतिशयोपमा ॥ २।२२ ॥

[- उत्प्रेक्षितोपमा]
मय्य् एवास्या मुखश्रीर् इत्य् अलम् इन्दोर् विकत्थनैः ।
पद्मे ऽपि सा यद् अस्त्य् एवेत्य् असाव् उत्प्रेक्षितोपमा ॥ २।२३ ॥

[- अद्भुतोपमा]
यदि किञ्चिद् भवेत् पद्मं सुभ्रु विभ्रान्तलोचनम् ।
तत् ते मुखश्रियं धत्ताम् इत्य् असाव् अद्भुतोपमा ॥ २।२४ ॥

[- मोहोपमा]
शशीत्य् उत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया ।
इन्दुम् अप्य् अनुधावामीत्य् एषा मोहोपमा स्मृता ॥ २।२५ ॥

[- संशयोपमा]
किं पद्मम् अन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम् ।
मम दोलायते चित्तम् इतीयं संशयोपमा ॥ २।२६ ॥

[- निर्णयोपमा]
न पद्मस्येन्दुनिग्राह्यस्य्- एन्दुलज्जाकरी द्युतिः ।
अतस् त्वन्मुखम् एवेदम् इत्य् असौ निर्णयोपमा ॥ २।२७ ॥

[- श्लेषोपमा]
शिशिरांशुप्रतिस्पर्धि श्रीमत् सुरभिगन्धि च ।
अम्भोजम् इव ते वक्त्रम् इति श्लेषोपमा स्मृता ॥ २।२८ ॥

[- समानोपमा]
सरूपशब्दवाच्यत्वात् सा समानोपमा यथा ।
बालेवोद्यानमालेयं सा(१)ल()का(३)ननशोभिनी ॥ २।२९ ॥

[- निन्दोपमा]
पद्मं बहुरजश् चन्द्रः क्षयी ताभ्यां तवाननम् ।
समानम् अपि सोत्सेकम् इति निन्दोपमा स्मृता ॥ २।३० ॥

[- प्रशंसोपमा]
ब्रह्मणो ऽप्य् उद्भवः पद्मं चन्द्रः शम्भुशिरोधृतः ।
तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते ॥ २।३१ ॥

[- आचिख्यासोपमा]
चन्द्रेण त्वन्मुखं तुल्यम् इत्य् आचिख्यासु मे मनः ।
स गुणो वास्तु दोषो वेत्य् आचिख्यासोपमां विदुः ॥ २।३२ ॥

[- विरोधोपमा]
शतपत्त्रं शरच्चन्द्रस् त्वदाननम् इति त्रयम् ।
परस्परविरोधीति सा विरोधोपमा मता ॥ २।३३ ॥

[- प्रतिषेधोपमा]
न जातु शक्तिर् इन्दोस् ते मुखेन प्रतिगर्जितुम् ।
कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ॥ २।३४ ॥

[- चटूपमा]
मृगेक्षणाङ्कं ते वक्त्रम् मृगेणैवाङ्कितः शशी ।
तथापि सम एवासौ नोत्कर्षीति चटूपमा ॥ २।३५ ॥

[- तत्त्वाख्यानोपमा]
न पद्मं मुखम् एवेदं न भृङ्गौ चक्षुषी इमे ।
इति विस्पष्टसादृश्यात् तत्त्वाख्यानोपमैव सा ॥ २।३६ ॥

[- असाधारणोपमा]
चन्द्रारविन्दयोः कान्तिम् अतिक्रम्य मुखं तव ।
आत्मनैवाभवत् तुल्यम् इत्य् असाधारणोपमा ॥ २।३७ ॥

[- अभूतोपमा]
सर्वपद्मप्रभासारः समाहृत इव क्वचित् ।
त्वदाननं विभातीति ताम् अभूतोपमां विदुः ॥ २।३८ ॥

[- असम्भावितोपमा]
चन्द्रबिम्बाद् इव विषं चन्दनाद् इव पावकः ।
परुषा वाग् इतो वक्त्राद् इत्य् असम्भावितोपमा ॥ २।३९ ॥

[- बहूपमा]
चन्दनोदकचन्द्रांशु- चन्द्रकान्तादिशीतलः ।
स्पर्शस् तवेत्य् अतिशयं बोधयन्ती बहूपमा ॥ २।४० ॥

[- विक्रियोपमा]
चन्द्रबिम्बाद् इवोत्कीर्णं पद्मगर्भाद् इवोद्धृतम् ।
तव तन्वङ्गि वदनम् इत्य् असौ विक्रियोपमा ॥ २।४१ ॥

[- मालोपमा]
पूष्ण्य् आतप इवाह्नीव पूषा व्योम्नीव वासरः ।
विक्रमस् त्वय्य् अधाल् लक्ष्मीम् इति मालोपमा मता ॥ २।४२ ॥

[- वाक्यार्थोपमा; ज़्wएइ अर्तेन्]
वाक्यार्थेणैव वाक्यार्थः को ऽपि यद्य् उपमीयते ।
एकानेकेवशब्दत्वात् सा वाक्यार्थोपमा द्विधा ॥ २।४३ ॥

[- (१।) वाक्यार्थोपमा मित् एइनेम् इव]
त्वदाननम् अधीराक्षम् आविर्दशनदीधिति ।
भ्रमद्भृङ्गम् इवालक्ष्य- केसरं भाति पङ्कजम् ॥ २।४४ ॥

[- (२।) वाक्यार्थोपमा मित् मेह्रेरेन् इव]
नलिन्या इव तन्वङ्ग्यास् तस्याः पद्मम् इवाननम् ।
मया मधुव्रतेनेव पायं पायम् अरम्यत ॥ २।४५ ॥

[- प्रतिवस्तूपमा]
वस्तु किञ्चिद् उपन्यस्य न्यसनात् तत्सधर्मणः ।
साम्यप्रतीतिर् अस्तीति प्रतिवस्तूपमा यथा ॥ २।४६ ॥
नैको ऽपि त्वादृशो ऽद्यापि जायमानेषु राजसु ।
ननु द्वितीयो नास्त्य् एव पारिजातस्य पादपः ॥ २।४७ ॥

[- तुल्ययोगोपमा]
अधिकेन समीकृत्य हीनम् एकक्रियाविधौ ।
यद् ब्रुवन्ति स्मृता सेयं तुल्ययोगोपमा यथा ॥ २।४८ ॥
दिवो जागर्ति रक्षायै पुलोमारिर् भुवो भवान् ।
असुरास् तेन हन्यन्ते सावलेपास् त्वया नृपाः ॥ २।४९ ॥

[- हेतूपमा]
कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवम् ।
राजन्न् अनुकरोषीति सैषा हेतूपमा मता ॥ २।५० ॥

न लिङ्गवचने भिन्ने न हीनाधिकतापि वा ।
उपमादूषनायालं यत्रोद्वेगो न धीमताम् ॥ २।५१ ॥
स्त्रीव गच्छति षण्ढो ऽयं वक्त्य् एषा स्त्री पुमान् इव ।
प्राणा इव प्रियो ऽयम् मे विद्या धनम् इवार्जितम् ॥ २।५२ ॥
भवान् इव महीपाल देवराजो विराजते ।
अलम् अंशुमतः कक्षाम् आरोढुं तेजसा नृपः ॥ २।५३ ॥

इत्य् एवम् आदौ सौभाग्यं न जहात्य् एव जातुचित् ।
अस्त्य् एव क्वचिद् उद्वेगः प्रयोगे वाग्विदां यथा ॥ २।५४ ॥
हंसीव धवलश् चन्द्रः सरांसीवामलं नभः ।
भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥ २।५५ ॥
ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम् ।
गुणदोषविचाराय स्वयम् एव मनीषिभिः ॥ २।५६ ॥

इववद्वायथाशब्दाः समाननिभसन्निभाः ।
तुल्यसङ्काशनिकाश- प्रकाशप्रतिरूपकाः ॥ २।५७ ॥
प्रतिपक्षप्रतिद्वन्द्वि- प्रत्यनीकविरोधिनः ।
सदृक्सदृशसंवादि- सजातीयानुवादिनः ॥ २।५८ ॥
प्रतिबिम्बप्रतिच्छन्द- सरूपसमसम्मिताः ।
सलक्षणसदृक्षाभ- सपक्षोपमितोपमाः ॥ २।५९ ॥
कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि ।
सवर्णतुलतौ शब्दौ ये चान्यूनार्थवादिनः ॥ २।६० ॥
समासश् च बहुव्रीहिः शशाङ्कवदनादिषु ।
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥ २।६१ ॥
आक्रोशत्य् अवजानाति कदर्थयति निन्दति ।
विडम्बयति सन्धत्ते हसतीर्ष्यत्य् असूयति ॥ २।६२ ॥
तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति ।
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ॥ २।६३ ॥
तत्पदव्याम् पदं धत्ते तस्य कक्षां विगाहते ।
तम् अन्वेत्य् अनुबध्नाति तच्छीलं तन्निषेधति ॥ २।६४ ॥
तस्य चानुकरोतीति शब्दाः सादृश्यम् ऊचकाः ।
उपमायाम् इमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥ २।६५ ॥

[रूपक]

[- समस्तरूपक]
उपमैव तिरोभूत- भेदा रूपकम् उच्यते ।
यथा बाहुलता पाणि- पद्मं चरणपल्लवः ॥ २।६६ ॥

[- असमस्तरूपक]
अङ्गुल्यः पल्लवान्य् आसन् कुसुमानि नखार्चिषः ।
बाहू लते वसन्तश्रीस् त्वं नः प्रत्यक्षचारिणी ॥ २।६७ ॥

[- समस्तव्यस्तरूपक]
इत्य् एतद् असमस्ताख्यं समस्तं पूर्वरूपकम् ।
स्मितं मुखेन्दोर् ज्योत्स्नेति समस्तव्यस्तरूपकम् ॥ २।६८ ॥

[- सकलरूपक]
ताम्राङ्गुलिदलश्रेणि नखदीधितिकेसरम् ।
ध्रियते मूर्ध्नि भूपालैर् भवच्चरणपङ्कजम् ॥ २।६९ ॥
अङ्गुल्यादौ दलादित्वं पादे चारोप्य पद्मताम् ।
तद्योग्यस्थानविन्यासाद् एतत् सकलरूपकम् ॥ २।७० ॥

[- अवयवरूपक]
अकस्माद् एव ते चण्डि स्फुरिताधरपल्लवम् ।
मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः ॥ २।७१ ॥
मञ्जरीकृत्य घर्माम्भः पल्लवीकृत्य चाधरम् ।
नान्यथा कृतम् अत्रास्यम् अतो ऽवयवरूपकम् ॥ २।७२ ॥

[- अवयविरूपकम्]
वल्गितभ्रु गलद्घर्म- जलम् आलोहितेक्षणम् ।
विवृणाति (!) मदावस्थाम् इदम् वदनपङ्कजम् ॥ २।७३ ॥
अविकृत्य मुखाङ्गानि मुखम् एवारविन्दताम् ।
आसीद् गमितम् अत्रेदम् अतो ऽवयविरूपकम् ॥ २।७४ ॥

[- एकाङ्गरूपक]
मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते ।
मुखेन मुग्धः सो ऽप्य् एष जनो रागमयः कृतः ॥ २।७५ ॥
एकाङ्गरूपकं चैतद् एवं द्विप्रभृतीन्य् अपि ।
अङ्गानि रूपयन्त्य् अत्र योगायोगौ भिदाकरौ ॥ २।७६ ॥

[- युक्तरूपक]
स्मितपुष्पोज्ज्वलं लोल- नेत्रभृङ्गम् इदं मुखम् ।
इति पुष्पद्विरेफाणां सङ्गत्या युक्तरूपकम् ॥ २।७७ ॥

[- अयुक्तरूपक]
इदम् आर्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम् ।
इति ज्योत्स्नोत्पलायोगाद् अयुक्तं नाम रूपकम् ॥ २।७८ ॥

[- विषमरूपक]
रूपणाद् अङ्गिनो ऽङ्गानां रूपणारूपणाश्रयात् ।
रूपकं विषमं नाम ललितं जायते यथा ॥ २।७९ ॥
मदरक्तकपोलेन मन्मथस् त्वन्मुखेन्दुना ।
नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम् ॥ २।८० ॥

[- सविशेषणरूपक]
हरिपादः शिरोलग्न- जह्नुकन्याजलांशुकः ।
जयत्य् असुरनिःशङ्क- सुरानन्दोत्सवध्वजः ॥ २।८१ ॥
विशेषणसमग्रस्य रूपं केतोर् यदीदृशम् ।
पादे तदर्पणाद् एतत् सविशेषणरूपकम् ॥ २।८२ ॥

[- विरुद्धरूपक]
न मीलयति पद्मानि न नभो ऽप्य् अवगाहते ।
त्वन्मुखेन्दुर् ममासूनां हरणायैव कल्पते ॥ २।८३ ॥
अक्रिया चन्द्रकार्याणाम् अन्यकार्यस्य च क्रिया ।
अत्र सन्दर्श्यते यस्माद् विरुद्धं नाम रूपकम् ॥ २।८४ ॥

[- हेतुरूपक]
गाम्भीर्येण समुद्रो ऽसि गौरवेणासि पर्वतः ।
कामदत्वाच् च लोकानाम् असि त्वं कल्पपादपः ॥ २।८५ ॥
गाम्भीर्यप्रमुखैर् अत्र हेतुभिः सागरो गिरिः ।
कल्पद्रुमश् च क्रियते तद् इदं हेतुरूपकम् ॥ २।८६ ॥

[- शिष्टरूपक]
राजहंसोपभोगार्थं भ्रमरप्रार्थ्यसौरभम् ।
सखि वक्त्राम्बुजम् इदं तवेति श्लिष्टरूपकम् ॥ २।८७ ॥

इष्टं साधर्म्यवैधर्म्य- दर्शनाद् गौणमुख्ययोः ।
उपमाव्यतिरेकाख्यं रूपकद्वितयं यथा ॥ २।८८ ॥

[- उपमारूपक]
अयम् आलोहितच्छायो मदने मुखचन्द्रमाः ।
सन्नद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥ २।८९ ॥

[- व्यतिरेकरूपक]
चन्द्रमाः पीयते देवैर् मया त्वन्मुखचन्द्रमाः ।
असमग्रो ऽप्य् असौ शश्वद् अयम् आपूर्णमण्डलः ॥ २।९० ॥

[- आक्षेपरूपक]
मुखचन्द्रस्य चन्द्रत्वम् इत्थम् अन्योपतापिनः ।
न ते सुन्दरि संवादीत्य् एतद् आक्षेपरूपकम् ॥ २।९१ ॥

[- समाधानरूपक]
मुखेन्दुर् अपि ते चण्डि मां निर्दहति निर्दयम् ।
भाग्यदोषान् ममैवेति तत् समाधानरूपकम् ॥ २।९२ ॥

[- रूपकरूपक]
मुखपङ्कजरङ्गे ऽस्मिन् भ्रूलतानर्तकी तव ।
लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥ २।९३ ॥

[- आपह्नवरूपक]
नैतन् मुखम् इदं पद्मं न नेत्रे भ्रमराव् इमौ ।
एतानि केसराण्य् एव नैता दन्तार्चिषस् तव ॥ २।९४ ॥
मुखादित्वं निवर्त्यैव पद्मादित्वेन रूपणात् ।
उद्भावितगुणोत्कर्षं तत् त्व् आपह्नवरूपकम् ॥ २।९५ ॥

न पर्यन्तो विकल्पानां रूपकोपमयोर् अतः ।
दिङ्मात्रं दर्शितं धीरैर् अनुक्तम् अनुमीयताम् ॥ २।९६ ॥

[दीपक]

जातिक्रियागुणद्रव्य- वाचिनैकत्र वर्तिना ।
सर्ववाक्योपकारश् चेत् तद् आहुर् दीपकं यथा ॥ २।९७ ॥

[- आदिदीपक: जाति]
पवनो दक्षिणः पर्णं जीर्णं हरति वीरुधां ।
स एवावनताङ्गीनां मानभङ्गाय कल्पते ॥ २।९८ ॥

[- आदिदीपक: क्रिया]
चरन्ति चतुरम्भोधि- वेलोद्यानेषु दन्तिनः ।
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश् च ते ॥ २।९९ ॥

[- आदिदीपक: गुण]
श्यामलाः प्रावृषेण्याभिर् दिशो जीमूतपङ्क्तिभिः ।
भुवश् च सुकुमाराभिर् नवशाद्वलराजिभिः ॥ २।१०० ॥

[- आदिदीपक: द्रव्य]
विष्णुना विक्रमस्थेन दानवानां विभूतयः ।
क्वापि नीताः कुतो ऽप्य् आसन्न् आनीता दैवतर्द्धयः ॥ २।१०१ ॥

इत्य् आदिदीपकान्य् उक्तान्य् एवं मध्यान्तयोर् अपि ।
वाक्ययोर् दर्शयिष्यामः कानि चित्तानि तद्यथा ॥ २।१०२ ॥

[- मध्यदीपक: जाति]
नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः ।
बध्नन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः ॥ २।१०३ ॥

[- मध्यदीपक: क्रिया]
मन्दो गन्धवहः क्षारो वह्निर् इन्दुश् च जायते ।
चर्चाचन्दनपातश् च शस्त्रपातः प्रवासिनाम् ॥ २।१०४ ॥

[- अन्तदीपक: द्रव्य (कोम्म्।: जाति)]
जलं जलधरोद्गीर्णं कुलं गृहशिखण्डिनाम् ।
चलं च तडितां दाम बलं कुसुमधन्वनः ॥ २।१०५ ॥

[- अन्तदीपक: क्रिया]
त्वया नीलोत्पलं कर्णे स्मरेणास्त्रं शरासने ।
मयापि मरणे चेतस् त्रयम् एतत् समं कृतम् ॥ २।१०६ ॥

[- (आदिदीपक): मालादीपक]
शुक्लः श्वेतार्चिषो वृद्ध्यै पक्षः पञ्चशरस्य सः ।
स च रागस्य रागो ऽपि यूनां रत्युत्सवश्रियः ॥ २।१०७ ॥
इत्य् आदिदीपकत्वे ऽपि पूर्वपूर्वव्यपेक्षिणी ।
वाक्यमाला प्रयुक्तेति तन् मालादीपकं मतम् ॥ २।१०८ ॥

[- विरुद्धार्थदीपक]
अवलेपम् अनङ्गस्य वर्धयन्ति बलाहकाः ।
कर्शयन्ति तु घर्मस्य मारुतोद्धूतशीकराः ॥ २।१०९ ॥
अवलेपपदेनात्र बलाहकपदेन च ।
क्रिये विरुद्धे संयुक्ते तद् विरुद्धार्थं दीपकम् ॥ २।११० ॥

[- एकार्थदीपक]
हरत्य् आभोगम् आशानां गृह्णाति ज्योतिषां गणम् ।
आदत्ते चाद्य मे प्राणान् असौ जलधरावली ॥ २।१११ ॥
अनेकशब्दोपादानात् क्रियैकैवात्र दीप्यते ।
यतो जलधरावल्या तस्माद् एकार्थदीपकम् ॥ २।११२ ॥

[- श्लिष्टार्थदीपक]
हृद्यगन्धवहास् तुङ्गास् तमालश्यामलत्विषः ।
दिवि भ्रमन्ति जीमूता भुवि चैते मतङ्गजाः ॥ २।११३ ॥
अत्र धर्मैर् अभिन्नानाम् अभ्राणां दन्तिनां तथा ।
भ्रमणेनैव सम्बन्ध इति श्लिष्टार्थदीपकम् ॥ २।११४ ॥

अनेनैव प्रकारेण शेषाणाम् अपि दीपके ।
विकल्पानाम् अवगतिर् विधातव्या विचक्षणैः ॥ २।११५ ॥

[आवृत्ति]
अर्थावृत्तिः पदावृत्तिर् उभयावृत्तिर् एव च ।
दीपकस्थान एवेष्टम् अलङ्कारत्रयं यथा ॥ २।११६ ॥

[- अर्थावृत्ति]
विकसन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः ।
उन्मीलन्ति च कन्दल्यो दलन्ति ककुभानि च ॥ २।११७ ॥

[- पदावृत्ति]
उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् ।
यूनां चोत्कण्ठयत्य् एव मानसं मकरध्वजः ॥ २।११८ ॥

[- उभयावृत्ति (अर्थ उ। पद)]
जित्वा विश्वं भवान् अत्र विहरत्य् अवरोधनैः ।
विहरत्य् अप्सरोभिस् ते रिपुवर्गो दिवं गतः ॥ २।११९ ॥

[आक्षेप]
प्रतिषेधोक्तिर् आक्षेपस् त्रैकाल्यापेक्षया त्रिधा ।
अथास्य पुनर् आक्षेप्य- भेदानन्त्याद् अनन्तता ॥ २।१२० ॥

[- वृत्ताक्षेप]
अनङ्गः पञ्चभिः पुष्पैर् विश्वं व्यजयतेषुभिः ।
इत्य् असम्भाव्यम् अथ वा विचित्रा वस्तुशक्तयः ॥ २।१२१ ॥
इत्य् अनङ्गजयायोग- बुद्धिर् हेतुबलाद् इह ।
प्रवृत्तैव यद् आक्षिप्ता वृत्ताक्षेपः स ईदृशः ॥ २।१२२ ॥

[- वर्तमानाक्षेप]
कुतः कुवलयं कर्णे करोषि कलभाषिणि ।
किम् अपाङ्गम् अपर्याप्तम् अस्मिन् कर्मणि मन्यसे ॥ २।१२३ ॥
स वर्तमानाक्षेपो ऽयं कुर्वत्य् एवासितोत्पल ।
कर्णे काचित् प्रियेणैवं चाटुकारेण रुध्यते ॥ २।१२४ ॥

[- भविष्यदाक्षेप]
सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ लप्स्यसे ।
अन्यचुम्बनसङ्क्रान्त- लाक्षारक्तेन चक्षुषा ॥ २।१२५ ॥
सो ऽयं भविष्यदाक्षेपः प्राग् एवातिमनस्विनी ।
कदाचिद् अपराधो ऽस्य भावीत्य् एवम् अरुन्द्धयत् ॥ २।१२६ ॥

[- धर्माक्षेप]
तव तन्वङ्गि मिथ्यैव रूढम् अङ्गेषु मार्दवम् ।
यदि सत्यं मृदून्य् एव किम् अकाण्डे रुजन्ति माम् ॥ २।१२७ ॥
धर्माक्षेपो ऽयम् आक्षिप्तम् अङ्गनागात्रमार्दवम् ।
कामुकेन यद् अत्रैवं कर्मणा तद्विरोधिना ॥ २।१२८ ॥

[- धर्म्याक्षेप]
सुन्दरी सा भवत्य् एवं विवेकः केन जायते ।
प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः ॥ २।१२९ ॥
धर्म्याक्षेपो ऽयम् आक्षिप्तो धर्मी धर्मं प्रभाह्वयम् ।
अनुज्ञायैव यद् रूपम् अत्याश्चर्यं विवक्षता ॥ २।१३० ॥

[- कारणाक्षेप]
चक्षुषी तव रज्येते स्फुरत्य् अधरपल्लवः ।
भ्रुवौ च भुग्ने न तथाप्य् अदुष्टस्यास्ति मे भयम् ॥ २।१३१ ॥
स एष कारणाक्षेपः प्रधानं कारणं भियः ।
स्वापराधो निषिद्धो ऽत्र यत् प्रियेण पटीयसा ॥ २।१३२ ॥

[- कार्याक्षेप]
दूरे प्रियतमः सो ऽयम् आगतो जलदागमः ।
दृष्टाश् च फुल्ला निचुला न मृता चास्मि किं न्व् इदम् ॥ २।१३३ ॥
कार्याक्षेपः स कार्यस्य मरणस्य निवर्तनात् ।
तत्कारणम् उपन्यस्य दारुणं जलदागमम् ॥ २।१३४ ॥

[- अनुज्ञाक्षेप]
न चिरं मम तापाय तव यात्रा भविष्यति ।
यदि यास्यसि यातव्यम् अलम् आशङ्कयात्र ते ॥ २।१३५ ॥
इत्य् अनुज्ञामुखेनैव कान्तस्याक्षिप्यते गतिः ।
मरणं सूचयन्त्यैव सो ऽनुज्ञाक्षेप उच्यते ॥ २।१३६ ॥

[- प्रभुत्वाक्षेप]
धनं च बहु लभ्यं ते सुखं क्षेमं च वर्त्मनि ।
न च मे प्राणसन्देहस् तथापि प्रिय मा स्म गाः ॥ २।१३७ ॥
इत्य् आचक्षाणया हेतून् प्रिययात्रानुबन्धिनः ।
प्रभुत्वेनैव रुद्धस् तत् प्रभुत्वाक्षेप उच्यते ॥ २।१३८ ॥

[- अनादराक्षेप]
जीविताशा बलवती धनाशा दुर्बला मम ।
गच्छ वा तिष्ठ वा कान्त स्व१वस्था तु निवेदिता ॥ २।१३९ ॥
असाव् अनादराक्षेपो यद् अनादरवद् वचः ।
प्रियप्रणायं रुन्धत्या प्रयुक्तम् इह रक्तया ॥ २।१४० ॥

[- आशीर्वचनाक्षेप]
गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥ २।१४१ ॥
इत्य् आशीर्वचनाक्षेपो यद् आशीर्वादवर्त्मना ।
स्वावस्थां सूचयन्त्यैव कान्तयात्रा निषिध्यते ॥ २।१४२ ॥

[- परुषाक्षेप]
यदि सत्यैव यात्रा ते काप्य् अन्या मृग्यतां त्वया ।
अहम् अद्यैव रुद्धास्मि रन्ध्रापेक्षेण मृत्युना ॥ २।१४३ ॥
इत्य् एष परुषाक्षेपः परुषाक्षरपूर्वकम् ।
कान्तस्याक्षिप्यते यस्मात् प्रस्थानं प्रेमनिघ्नया ॥ २।१४४ ॥

[- साचिव्याक्षेप]
॥ २।१४५ ॥
॥ २।१४६ ॥
॥ २।१४७ ॥
॥ २।१४८ ॥
॥ २।१४९ ॥
॥ २।१५० ॥
॥ २।१५१ ॥
॥ २।१५२ ॥
॥ २।१५३ ॥
॥ २।१५४ ॥
॥ २।१५५ ॥
॥ २।१५६ ॥
॥ २।१५७ ॥
॥ २।१५८ ॥
॥ २।१५९ ॥
॥ २।१६० ॥
॥ २।१६१ ॥
॥ २।१६२ ॥
॥ २।१६३ ॥
॥ २।१६४ ॥
॥ २।१६५ ॥
॥ २।१६६ ॥
॥ २।१६७ ॥
॥ २।१६८ ॥
॥ २।१६९ ॥
॥ २।१७० ॥
॥ २।१७१ ॥
॥ २।१७२ ॥
॥ २।१७३ ॥
॥ २।१७४ ॥
॥ २।१७५ ॥
॥ २।१७६ ॥
॥ २।१७७ ॥
॥ २।१७८ ॥
॥ २।१७९ ॥
॥ २।१८० ॥
॥ २।१८१ ॥
॥ २।१८२ ॥
॥ २।१८३ ॥
॥ २।१८४ ॥
॥ २।१८५ ॥
॥ २।१८६ ॥
॥ २।१८७ ॥
॥ २।१८८ ॥
॥ २।१८९ ॥
॥ २।१९० ॥
॥ २।१९१ ॥
॥ २।१९२ ॥
॥ २।१९३ ॥
॥ २।१९४ ॥
॥ २।१९५ ॥
॥ २।१९६ ॥
॥ २।१९७ ॥
॥ २।१९८ ॥
॥ २।१९९ ॥
॥ २।२०० ॥
॥ २।२०१ ॥
॥ २।२०२ ॥
॥ २।२०३ ॥
॥ २।२०४ ॥
॥ २।२०५ ॥
॥ २।२०६ ॥
॥ २।२०७ ॥
॥ २।२०८ ॥
॥ २।२०९ ॥
॥ २।२१० ॥
॥ २।२११ ॥
॥ २।२१२ ॥
॥ २।२१३ ॥
॥ २।२१४ ॥
॥ २।२१५ ॥
॥ २।२१६ ॥
॥ २।२१७ ॥
॥ २।२१८ ॥
॥ २।२१९ ॥
॥ २।२२० ॥
॥ २।२२१ ॥
॥ २।२२२ ॥
॥ २।२२३ ॥
॥ २।२२४ ॥
॥ २।२२५ ॥
॥ २।२२६ ॥
॥ २।२२७ ॥
॥ २।२२८ ॥
॥ २।२२९ ॥
॥ २।२३० ॥
॥ २।२३१ ॥
॥ २।२३२ ॥
॥ २।२३३ ॥
॥ २।२३४ ॥
॥ २।२३५ ॥
॥ २।२३६ ॥
॥ २।२३७ ॥
॥ २।२३८ ॥
॥ २।२३९ ॥
॥ २।२४० ॥
॥ २।२४१ ॥
॥ २।२४२ ॥
॥ २।२४३ ॥
॥ २।२४४ ॥
॥ २।२४५ ॥
॥ २।२४६ ॥
॥ २।२४७ ॥
॥ २।२४८ ॥
॥ २।२४९ ॥
॥ २।२५० ॥
॥ २।२५१ ॥
॥ २।२५२ ॥
॥ २।२५३ ॥
॥ २।२५४ ॥
॥ २।२५५ ॥
॥ २।२५६ ॥
॥ २।२५७ ॥
॥ २।२५८ ॥
॥ २।२५९ ॥
॥ २।२६० ॥
॥ २।२६१ ॥
॥ २।२६२ ॥
॥ २।२६३ ॥
॥ २।२६४ ॥
॥ २।२६५ ॥
॥ २।२६६ ॥
॥ २।२६७ ॥
॥ २।२६८ ॥
॥ २।२६९ ॥
॥ २।२७० ॥
॥ २।२७१ ॥
॥ २।२७२ ॥
॥ २।२७३ ॥
॥ २।२७४ ॥
॥ २।२७५ ॥
॥ २।२७६ ॥
॥ २।२७७ ॥
॥ २।२७८ ॥
॥ २।२७९ ॥
॥ २।२८० ॥
॥ २।२८१ ॥
॥ २।२८२ ॥
॥ २।२८३ ॥
॥ २।२८४ ॥
॥ २।२८५ ॥
॥ २।२८६ ॥
॥ २।२८७ ॥
॥ २।२८८ ॥
॥ २।२८९ ॥
॥ २।२९० ॥
॥ २।२९१ ॥
॥ २।२९२ ॥
॥ २।२९३ ॥
॥ २।२९४ ॥
॥ २।२९५ ॥
॥ २।२९६ ॥
॥ २।२९७ ॥
॥ २।२९८ ॥
॥ २।२९९ ॥
॥ २।३०० ॥
॥ २।३०१ ॥
॥ २।३०२ ॥
॥ २।३०३ ॥
॥ २।३०४ ॥
॥ २।३०५ ॥
॥ २।३०६ ॥
॥ २।३०७ ॥
॥ २।३०८ ॥
॥ २।३०९ ॥

[श्लेष (= श्लिष्ट)]
श्लिष्टम् इष्टम् अनेकार्थम् एकरूपान्वितं वचः ।
तद् अभिन्नपदं भिन्न- पदप्रायम् इति द्विधा ॥ २।३१० ॥

[- अभिन्नपदश्लेष]
असाव् उदयम् आरूढः कान्तिमान् रक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥ २।३११ ॥

[- भिन्नपदश्लेष]
दोषा(३)करेण सम्बध्नन्[न् । न्]अ[]क्षत्रपथवर्तिना ।
रज्ञा प्रदोषो माम् इत्थम् अप्रियं किं न बाधते ॥ २।३१२ ॥

उपमारूपकाक्षेप- व्यतिरेकादिगोचराः ।
प्राग् एव दर्शिताः श्लेषा दर्श्यन्ते केचनापरे ॥ २।३१३ ॥

अस्त्य् अभिन्नक्रियः कश्चिद् अविरुद्धक्रियो ऽपरः ।
विरुद्धकर्मा चास्त्य् अन्यः श्लेषो नियमवान् अपि ॥ २।३१४ ॥
नियमाक्षेपरूपोक्तिर् अविरोधी विरोध्य् अपि ।
तेषां निदर्शनेष्व् एव रूपम् आविर् भविष्यति ॥ २।३१५ ॥

[- अभिन्नक्रियश्लेष]
वक्राः स्वभावमधुराः शंसन्त्यो रागम् उल्बणम् ।
दृशो दूत्यश् च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् ॥ २।३१६ ॥

[- अविरुद्धक्रियश्लेष]
मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः ।
आकर्ण्यन्ते मदकलाः श्लिष्यन्ते चासितेक्षणाः ॥ २।३१७ ॥

[- विरुद्धकर्मश्लेष]
रागम् आदर्शयन्न् एष वारुणीयोगवर्धितम् ।
तिरोभवति घर्मांशुर् अङ्गजस् तु विजृम्भते ॥ २।३१८ ॥

[- नियमवच्छ्लेष]
निस्त्रिंशत्वम् असाव् एव धनुष्य् एवास्य वक्रता ।
शरेष्व् एव नरेन्द्रस्य मार्गणत्वं च वर्तते ॥ २।३१९ ॥

[- नियमाक्षेपरूपोक्तिश्लेष]
पद्मानाम् एव दण्डेषु कण्टकस् त्वयि रक्षति ।
अथवा दृश्यते रागि- मिथुनालिङ्गनेष्व् अपि ॥ २।३२० ॥

[- अविरोधिश्लेष]
महीभृद् भूरिकटकस् तेजस्वी नियतोदयः ।
दक्षः प्रजापतिश् चासीत् स्वामी शक्तिधरश् च सः ॥ २।३२१ ॥

[- विरोधिश्लेष]
अच्युतो ऽप्य् अवृषच्छेदी राजाप्य् अविदितक्षयः ।
देवो ऽप्य् अविबुधो जज्ञे शङ्करो ऽप्य् अभुजङ्गवान् ॥ २।३२२ ॥

[विशेषोक्ति]
गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम् ।
विशेषदर्शनायैव सा विशेषोक्तिर् इष्यते ॥ २।३२३ ॥

[- विशेषोक्ति: गुण]
न कठोरं न वा तीक्ष्णम् आयुधं पुष्पधन्वनः ।
तथापि जितम् एवासीद् अमुना भुवनत्रयम् ॥ २।३२४ ॥

[- विशेषोक्ति: जाति]
न देवकन्यका नापि गन्धर्वकुलसम्भवा ।
तथाप्य् एषा तपोभङ्गं विधातुं वेधसो ऽप्य् अलम् ॥ २।३२५ ॥

[- विशेषोक्ति: क्रिया]
न बद्धा भ्रुकुटिर् नापि स्फुरितो दशनच्छदः ।
न च रक्ताभवद् दृष्टिर् जितं च द्विषतां बलम् ॥ २।३२६ ॥

[- विशेषोक्ति: द्रव्य]
न रथा न च मातङ्गा न हया न च पत्तयः ।
स्त्रीणाम् अपाङ्गदृष्ट्यैव जीयते जगतां त्रयम् ॥ २।३२७ ॥

[- विशेषोक्ति: हेतु]
एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्य् एव तेजस्वी तथाप्य् अर्को नभस्तलम् ॥ २।३२८ ॥
सैषा हेतुविशेषोक्तिस् तेजस्वीति विशेषणात् ।
अयं एव क्रमो ऽन्येषां भेदानाम् अपि कल्पते ॥ २।३२९ ॥

[तुल्ययोगिता]
विवक्षितगुणोत्कृष्टैर् यत् समीकृत्य कस्यचित् ।
कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ॥ २।३३० ॥

यमः कुबेरो वरुणः सहस्राक्षो भवान् अपि ।
बिभृत्य् अनन्यविषयां लोकपाल इति श्रुतिम् ॥ २।३३१ ॥
सङ्गतानि मृगाक्षीणां तडिद्विलसितानि च ।
क्षणद्वयं न तिष्ठन्ति घनारब्धान्य् अपि स्वयम् ॥ २।३३२ ॥

[विरोधचक्र]
विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् ।
विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥ २।३३३ ॥
कूजितं राजहंसानां वर्धते मदमञ्जुलम् ।
क्षीयते च मयूराणां रुतम् उत्क्रान्तसौष्ठवम् ॥ २।३३४ ॥
प्रावृषेण्यैर् जलधरैर् अम्बरं दुर्दिनायते ।
रागेण पुनर् आक्रान्तं जायते जगताम् मनः ॥ २।३३५ ॥
तनुमध्यं पृथुश्रोणि रक्तौष्ठम् असितेक्षणम् ।
नतनाभि वपुः स्त्रीणां कं न हन्त्य् उन्नतस्तनम् ॥ २।३३६ ॥
मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम् ।
अपि ते रूपम् अस्माकम् तन्वि तापाय कल्पते ॥ २।३३७ ॥
उद्यानमारुतोद्धूताश् चूतचम्पकरेणवः ।
उदश्रयन्ति पान्थानाम् अस्पृशन्तो ऽपि लोचने ॥ २।३३८ ॥
कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी ।
याति विश्वसनीयत्वं कस्य ते कलभाषिणी ॥ २।३३९ ॥

इत्य् अनेकप्रकारो ऽयम् अलङ्कारः प्रतीयते ।

[अप्रस्तुतप्रशंसा]
अप्रस्तुतप्रशंसा स्याद् अप्रकान्तेषु या स्तुतिः ॥ २।३४० ॥
सुखं जीवन्ति हरिणा वनेष्व् अपरसेविनः ।
अर्थैर् अयत्नसुलभैर् जलदर्भाङ्कुरादिभिः ॥ २।३४१ ॥
सेयम् अप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ।
राजानुवर्तनक्लेश- निर्विण्णेन मनस्विना ॥ २।३४२ ॥

[व्याजस्तुति]
यदि निन्दन्न् इव स्तौति व्याजस्तुतिर् असौ स्तुता ।
दोषाभासा गुणा एव लभन्ते यत्र सन्निधिम् ॥ २।३४३ ॥
तापसेनापि रामेण जितेयं भूतधारिणी ।
त्वया राज्ञापि सेवेयं जिता मा भून् मदस् तव ॥ २।३४४ ॥
पुंसः पुराणाद् आच्छिद्य श्रीस् त्वया परिभुज्यते ।
राजन्न् इक्ष्वाकुवंशस्य किम् इदं तव युज्यते ॥ २।३४५ ॥
भुजङ्गभोगसंसक्ता कलत्रं तव मेदिनी ।
अहङ्कारः परां कोटिम् आरोहति कुतस् तव ॥ २।३४६ ॥
इति श्लेषानुविद्धानाम् अन्येषां चोपलक्ष्यतां ।
व्याजस्तुतिप्रकाराणाम् अपर्यन्तः प्रविस्तरः ॥ २।३४७ ॥

[निदर्शन]
अर्थान्तरप्रवृत्तेन किञ्चित् तत्सदृशं फलम् ।
सद् असद् वा निदर्श्येत यदि तत् स्यान् निदर्शनम् ॥ इ꣡फ़्ह् ॥
उदयन्न् एव सविता पद्मेष्व् अर्पयति श्रियम् ।
विभावयितुम् ऋद्धीनां फलं सुहृदनुग्रहम् ॥ २।३४९ ॥
याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम् ।
सद्यो राजविरुद्धानां सूचयन्ति दुरन्तताम् ॥ २।३५० ॥

[सहोक्ति]
सहोक्तिः सहभावस्य कथनं गुणकर्मणाम् ।
अर्थानां यो विनिमयः परिवृत्तिस् तु सा यथा ॥ २।३५१ ॥
सह दीर्घा मम श्वासैर् इमाः सम्प्रति रात्रयः ।
पाण्डुराश् च ममैवाङ्गैः सह ताश् चन्द्रभूषणाः ॥ २।३५२ ॥
वर्धते सग पान्थानां मूर्छया चूतमञ्जरी ।
पतन्ति च समं तेषाम् असुभिर् मलयानिलाः ॥ २।३५३ ॥
कोकिलालापसुभगाः सुगन्धिवनवायवः ।
यान्ति सार्धं जनानन्दैर् वृद्धिं सुरभिवासराः ॥ २।३५४ ॥
इत्य् उदाहृतयो दत्ताः सहोक्तेर् अत्र काश्चन ।

[परिवृत्ति]
क्रियते परिवृत्तेश् च किञ्चिद् रूपनिरूपणम् ॥ २।३५५ ॥
शस्त्रप्रहारं ददता भुजेन तव भूभुजाम् ।
चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥ २।३५६ ॥

[आशीस्]
आशीर् नामाभिलषिते वस्तुन्य् आशंसनं यथा ।
पातु वः परमं ज्योतिर् अवाङ्मनसगोचरम् ॥ २।३५७ ॥

[संसृष्टि]
अनन्वयससन्देहाव् उपमास्व् एव दर्शितौ ।
उपमारूपकं चापि रूपकेष्व् एव दर्शितम् ॥ २।३५८ ॥
उत्प्रेक्षाभेद एवासाव् उत्प्रेक्षावयवो ऽपि च ।
नानालङ्कारसंसृष्टिः संसृष्टिस् तु निगद्यते ॥ २।३५९ ॥
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता ।
इत्य् अलङ्कारसंसृष्टेर् लक्षणीया द्वयी गतिः ॥ २।३६० ॥
आक्षिपन्त्य् अरविन्दानि तव मुग्धे मुखश्रियम् ।
कोशदण्डसमग्राणां किम् एषाम् अस्ति दुष्करम् ॥ २।३६१ ॥
(लिम्पतीव तमो ऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर् निष्फलतां गता ॥ व् व् ॥)
श्लेषः सर्वासु पुष्णाति प्रियो वक्रोक्तिषु श्रियम् ।
भिन्नं द्विधा स्वभावोक्तिर् वक्रोक्तिश् चेति वाङ्मयम् ॥ २।३६३ ॥

[भाविक]
भाविकत्वम् इति प्राहुः प्रबन्धविषयं गुणम् ।
भावः कवेर् अभिप्रायः काव्येष्व् आसिद्धि यः स्थितः ॥ २।३६४ ॥
परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम् ।
विशेषणानां व्यर्थानाम् अक्रिया स्थानवर्णना ॥ २।३६५ ॥
व्यक्तिर् उक्तिक्रमबलाद् गम्भीरस्यापि वस्तुनः ।
भावायत्तम् इदं सर्वम् इति तद् भाविकं विदुः ॥ २।३६६ ॥

यच् च सन्ध्यङ्गवृत्त्यङ्ग- लक्षणाद्यागमान्तरे ।
व्यावर्णितम् इदं चेष्टम् अलङ्कारतयैव नः ॥ २।३६७ ॥
पन्था स एष विवृतः परिमाणवृत्त्या सङ्क्षिप्य विस्तरम् अनन्तम् अलङ्क्रियाणां ।
वाचाम् अतीत्य विषयं परिवर्तमानान् अभ्यास एव विवरीतुम् अलं विशेषान् ॥ २।३६८ ॥

॥ इत्य् आचार्यदण्डिनः कृतौ काव्यादर्शे ऽर्थालङ्कारविभागो नाम द्वितीयः परिच्छेदः ॥