Dandin: Kavyadarsa 1 (plain text)

विस्तारः (द्रष्टुं नोद्यम्)

Dandin: Kavyadarsa 1 (plain text)

DANDIN: KAVYADARSA, Pariccheda 1
based on the edition by S.K. Belvalkar, Poona 1924.

Input by Reinhold Gruenendahl

अथ काव्यादर्शः

                         परिच्छेद १  

चतुर्मुखमुखाम्भोज- वनहंसवधूर् मम ।
मानसे रमतां दीर्घं सर्वशुक्ला सरस्वती ॥ १।१ ॥
पूर्वशास्त्राणि संहृत्य प्रयोगान् उपलक्ष्य च ।
यथासामर्थ्यम् अस्माभिः क्रियते काव्यलक्षणम् ॥ १।२ ॥
इह शिष्टानुशिष्टानां शिष्टानाम् अपि सर्वथा ।
वाचाम् एव प्रसादेन लोकयात्रा प्रवर्तते ॥ १।३ ॥
इदम् अन्धं तमः कृत्स्नं जायेत भुवनत्रयम् ।
यदि शब्दाह्वयं ज्योतिर् आसंसारं न दीप्यते ॥ १।४ ॥
आदिराजयशोबिम्बम् आदर्शं प्राप्य वाङ्मयम् ।
तेषाम् असन्निधाने ऽपि न स्वयं पश्य नश्यति ॥ १।५ ॥
गौर् गौः कामदुघा सम्यक् प्रयुक्ता स्मर्यते बुधैः ।
दुष्प्रयुक्ता पुनर् गोत्वं प्रयोक्तुः सैव शंसति ॥ १।६ ॥
तद् अल्पम् अपि नोपेक्ष्यं काव्ये दुष्टं कथं चन ।
स्याद् वपुः सुन्दरम् अपि श्वित्रेणैकेन दुर्भगम् ॥ १।७ ॥
गुणदोषान् अशास्त्रज्ञः कथं विभजते नरः ।
किम् अन्धस्याधिकारो ऽस्ति रूपभेदोपलब्धिषु ॥ १।८ ॥
अतः प्रजानां व्युत्पत्तिम् अभिसन्धाय सूरयः ।
वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिम् ॥ १।९ ॥
तैः शरीरं च काव्यानाम् अलङ्काराश् च दर्शिताः ।
शरीरं तावदिष्टार्थ- व्यवच्छिन्ना पदावली ॥ १।१० ॥
पद्यं गद्यं च मिश्रं च तत् त्रिधैव व्यवस्थितम् ।
पद्यं चतुष्पदी तच् च वृत्तं जातिर् इति द्विधा ॥ १।११ ॥
छन्दोविचित्यां सकलस् तत्प्रबन्धो निदर्शितः ।
सा विद्या नौस् विविक्षूणां गम्भीरं काव्यसागरम् ॥ १।१२ ॥
मुक्तकं कुलकं कोशः सङ्घात इति तादृशः ।
सर्गबन्धांशरूपत्वाद् अनुक्तः पद्यविस्तरः ॥ १।१३ ॥
सर्गबन्धो महाकाव्यम् उच्यते तस्य लक्षणम् ।
आशीर् नमस्क्रिया वस्तु- निर्देशो वापि तन्मुखम् ॥ १।१४ ॥
इतिहासकथोद्भूतम् इतरद् वा सदाश्रयम् ।
चतुर्वर्गफलायत्तं चतुरोदात्तनायकम् ॥ १।१५ ॥
नगरार्णवशैलर्तु- चन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडा- मधुपानरतोत्सवैः ॥ १।१६ ॥
विप्रलम्भैर् विवाहैश् च कुमारोदयवर्णनैः ।
मन्त्रदूतप्रयाणाजि- नायकाभ्युदयैर् अपि ॥ १।१७ ॥
अलङ्कृतम् असङ्क्षिप्तं रसभावनिरन्तरम् ।
सर्गैर् अनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥ १।१८ ॥
सर्वत्र भिन्नवृत्तान्तैर् उपेतं लोकरञ्जनम् ।
काव्यं कल्पोत्तरस्थायि जायते सदलङ्कृति ॥ १।१९ ॥
न्यूनम् अप्य् अत्र यैःकैश्चिद् अङ्गैः काव्यं न दुष्यति ।
यद्य् उपात्तेषु सम्पत्तिर् आराधयति तद्विदः ॥ १।२० ॥
गुणतः प्राग् उपन्यस्य नायकं तेन विद्विषाम् ।
निराकरणम् इत्य् एष मार्गः प्रकृतिसुन्दरः ॥ १।२१ ॥
वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोर् अपि ।
तज्जयान् नायकोत्कर्ष- वर्णनं च धिनोति नः ॥ १।२२ ॥
अपादः पदसन्तानो गद्यम् आख्यायिका कथा ।
इति तस्य प्रभेदौ द्वौ तयोर् आख्यायिका किल ॥ १।२३ ॥
नायकेनैव वाच्यान्या नायकेनेतरेण वा ।
स्वगुणाविष्क्रिया दोषो नात्र भूतार्थशंसिनः ॥ १।२४ ॥
अपि त्व् अनियमो दृष्टस् तत्राप्य् अन्यैर् उदीरणात् ।
अन्यो वक्ता स्वयं वेति कीदृग् वा भेदलक्षणम् ॥ १।२५ ॥
वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम् ।
चिह्नम् आख्यायिकायाश् चेत् प्रसङ्गेन कथास्व् अपि ॥ १।२६ ॥
आर्यादिवत्प्रवेशः किं न वक्त्रापरवक्त्रयोः ।
भेदश् च दृष्टो लम्बादिर् उच्छ्वासो वास्तु किं ततः ॥ १।२७ ॥
तत् कथाख्यायिकेत्य् एका जातिः सञ्ज्ञाद्वयाङ्किता ।
अत्रैवान्तर्भविष्यन्ति शेषाश् चाख्यानजातयः ॥ १।२८ ॥
कन्याहरणसङ्ग्राम- विप्रलम्भोदयादयः ।
सर्गबन्धसमा एव नैते वैशेषिका गुणाः ॥ १।२९ ॥
कविभावकृतं चिह्नम् अन्यत्रापि न दुष्यति ।
मुखम् इष्टार्थसंसिद्ध्यै किं हि न स्यात् कृतात्मनाम् ॥ १।३० ॥
मिश्राणि नाटकादीनि तेषाम् अन्यत्र विस्तरः ।
गद्यपद्यमयी काचित् चम्पूर् इत्य् अभिधीयते ॥ १।३१ ॥
तद् एतद् वाङ्मयं भूयः संस्कृतं प्राकृतं तथा ।
अपभ्रंशश् च मिश्रं चेत्य् आहुर् आर्याश् चतुर्विधम् ॥ १।३२ ॥
संस्कृतं नाम दैवी वाग् अन्वाख्याता महर्षिभिः ।
तद्भवस् तत्समो देशीत्य् अनेकः प्राकृतक्रमः ॥ १।३३ ॥
महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः ।
सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥ १।३४ ॥
शौरसेनी च गौडी च लाटी चान्या च तादृशी ।
याति प्राकृतम् इत्य् एवं व्यवहारेषु सन्निधिम् ॥ १।३५ ॥
आभीरादिगिरः काव्येष्व् अपभ्रम्श इति स्मृताः ।
शास्त्रेषु संस्कृताद् अन्यद् अपभ्रंशतयोदितम् ॥ १।३६ ॥
संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादिकम् ।
ओसरादीन्य् अपभ्रंशो नाटकादि तु मिश्रकम् ॥ १।३७ ॥
कथापि सर्वभाषाभिः संस्कृतेन च बध्यते ।
भूतभाषामयीं प्राहुर् अद्भुतार्थां बृहत्कथाम् ॥ १।३८ ॥
लास्यच्छलितशम्यादि प्रेक्षार्थम् इतरत् पुनः ।
श्रव्यम् एवेति सैषापि द्वयी गतिर् उदाहृता ॥ १।३९ ॥
अस्त्य् अनेको गिरां मार्गः सूक्ष्मभेदः परस्परम् ।
तत्र वैदर्भगौडीयौ वर्ण्येते प्रस्फुटान्तरौ ॥ १।४० ॥
श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिर् उदारत्वं ओजःकान्तिसमाधयः ॥ १।४१ ॥
इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ।
एषां विपर्ययः प्रायो लक्ष्यते गौडवर्त्मनि ॥ १।४२ ॥

[श्लेष व्स्। शिथिल]
श्लिष्टम् अस्पृष्टशैथिल्यम् अल्पप्राणाक्षरोत्तरम् ।
शिथिलं मालतीमाला लोलालिकलिला यथा ॥ १।४३ ॥
अनुप्रासधिया गौडैस् तद् इष्टं बन्धगौरवात् ।
वैदर्भैर् मालतीदाम लङ्घितं भ्रमरैर् इति ॥ १।४४ ॥

[प्रसाद व्स्। व्युत्पन्न]
प्रसादवत् प्रसिद्धार्थम् इन्दोर् इन्दीवरद्युति ।
लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः ॥ १।४५ ॥
व्युत्पन्नम् इति गौडीयैर् नातिरूढम् अपीष्यते ।
यथानत्यर्जुनाब्जन्म- सदृक्षाङ्को बलक्षगुः ॥ १।४६ ॥

[समता व्स्। वैषम्य]
समं बन्धेष्व् अविषमं ते मृदुस्फुटमध्यमाः ।
बन्धा मृदुस्फुटोन्मिश्र- वर्णविन्यासयोनयः ॥ १।४७ ॥
कोकिलालापवाचालो माम् एति मलयानिलः ।
उच्छलच्छीकराच्छाच्छ- निर्झराम्भःकणोक्षितः ॥ १।४८ ॥
चन्दनप्रणयोद्गन्धिर् मन्दो मलयमारुतः ।
स्पर्धते रुद्धमद्धैर्यो वररामामुखानिलैः ॥ १।४९ ॥
इत्य् अनालोच्य वैषम्यम् अर्थालङ्कारडम्बरौ ।
अपेक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः ॥ १।५० ॥

[माधुर्य]
मधुरं रसवद् वाचि वस्तुन्य् अपि रसस्थितिः ।
येन माध्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ १।५१ ॥

[(१।) अनुप्रास (शब्दालङ्कार) व्स्। वर्णावृत्ति]
यया कयाचिच् छ्रुत्या यत् समानम् अनुभूयते ।
तद्रूपा हि पदासत्तिः सानुप्रासा रसावहा ॥ १।५२ ॥
एष राजा यदा लक्ष्मीं प्राप्तवान् ब्रह्मणप्रियः ।
ततः प्रभृति धर्मस्य लोके ऽस्मिन्न् उत्सवो ऽभवत् ॥ १।५३ ॥
इतीदं नादृतं गौडैर् अनुप्रासस् तु तत्प्रियः ।
अनुप्रासाद् अपि प्रायो वैदर्भैर् इदम् इष्यते ॥ १।५४ ॥
वर्णावृत्तिर् अनुप्रासः पादेषु च पदेषु च ।
पूर्वानुभवसंस्कार- बोधिनी यद्य् अदूरता ॥ १।५५ ॥
चन्द्रे शरन्निशोत्तंसे कुन्दस्तवकविभ्रमे ।
इन्द्रनीलनिभं लक्ष्म सन्दधात्य् अनिलः श्रियम् ॥ १।५६ ॥
चारु चन्द्रमसं भीरु बिम्बं पश्यैतद् अम्बरे ।
मन्मनो मन्मथाक्रान्तं निर्दयं हन्तुम् उद्यतम् ॥ १।५७ ॥
इत्य् अनुप्रासम् इच्छन्ति नातिदूरान्तरश्रुतिम् ।
न तु रामामुखाम्भोज- सदृशश् चन्द्रमा इति ॥ १।५८ ॥
स्मरः खरः खलः कान्तः कायः कोपश् च नः कृशः ।
च्युतो मानो ऽधिको रागो मोहो जातो ऽसवो गताः ॥ १।५९ ॥
इत्य् आदि बन्धपारुष्यं शैथिल्यं च निगच्छति ।
अतो नैवम् अनुप्रासं दाक्षिनात्याः प्रयुञ्जते ॥ १।६० ॥

[(२।) यमक (शब्दालङ्कार; व्w।)]
आवृत्तिं वर्णसङ्घात- गोचरां यमकं विदुः ।
तत् तु नैकान्तमधुरम् अतः पश्चाद् विधास्यते ॥ १।६१ ॥

[(३।) अग्राम्यता (अर्थालङ्कार) व्स्। ग्राम्यता]
कामं सर्वो ऽप्य् अलङ्कारो रसम् अर्थे निषञ्चति ।
तथाप्य् अग्राम्यतैवैतं भारं वहति भूयसा ॥ १।६२ ॥
कन्ये कामयमानं मां न त्वं कामयसे कथम् ।
इति ग्राम्यो ऽयम् अर्थात्मा वैरस्याय प्रकल्पते ॥ १।६३ ॥
कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः ।
त्वयि निर्मत्सरो दिष्ट्येत्य् अग्राम्यो ऽर्थो रसावहः ॥ १।६४ ॥
शब्दे ऽपि ग्राम्यतास्त्य् एव सा सभ्येतरकीर्तनात् ।
यथा यकारादिपदं रत्युत्सवनिरूपणे ॥ १।६५ ॥
पदसन्धानवृत्त्या वा वाक्यार्थत्वेन वा पुनः ।
दुष्प्रतीतिकरं ग्राम्यं यथा या भवतः प्रिया ॥ १।६६ ॥
खरं प्रहृत्य विश्रान्तः पुरुषो वीर्यवान् इति ।
एवम् आदि न शंसन्ति मार्गयोर् उभयोर् अपि ॥ १।६७ ॥
भगिनीभगवत्यादि सर्वत्रैवानुमन्यते ।
विभक्तम् इति माधुर्यम् उच्यते सुकुमारता ॥ १।६८ ॥

[सुकुमारता व्स्। दीप्त]
अनिष्ठुराक्षरप्रायं सुकुमारम् इहेष्यते ।
बन्धशैथिल्यदोषस् तु दर्शितः सर्वकोमले ॥ १।६९ ॥
मण्डलीकृत्य बर्हाणि कण्ठैर् मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥ १।७० ॥
इत्य् अनूर्जित एवार्थो नालङ्कारो ऽपि तादृशः ।
सुकुमारतयैवैतद् आरोहति सतां मनः ॥ १।७१ ॥
दीप्तम् इत्य् अपरैर् भूम्ना कृच्छ्रोद्यम् अपि बध्यते ।
न्यक्षेण क्षयितः पक्षः क्षत्रियाणां क्षणाद् इति ॥ १।७२ ॥

[अर्थव्यक्ति व्स्। नेयत्व]
अर्थव्यक्तिर् अनेयत्वम् अर्थस्य हरिणोद्धृता ।
भूः खुरक्षुण्णनागासृग्- लोहिताद् उदधेर् इति ॥ १।७३ ॥
मही महावराहेण लोहिताद् उद्धृतोदधेः ।
इतीयत्य् एव निर्दिष्टे नेयत्वम् उरगासृजः ॥ १।७४ ॥
नेदृशं बहु मन्यते मार्गयोर् उभयोर् अपि ।
न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी ॥ १।७५ ॥

[उदारत्वम्]
उत्कर्षवान् गुणः कश्चिद् यस्मिन्न् उक्ते प्रतीयते ।
तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः ॥ १।७६ ॥
अर्थिनां कृपणा दृष्टिस् त्वन्मुखे पतिता सकृत् ।
तदवस्था पुनर् देव नान्यस्य मुखम् ईक्षते ॥ १।७७ ॥
इति त्यागस्य वाक्ये ऽस्मिन्न् उत्कर्षः साधु लक्ष्यते ।
अनेनैव पथान्यत्र समानन्यायम् ऊह्यताम् ॥ १।७८ ॥
श्लाघ्यैर् विशेषणैर् युक्तम् उदारं कैश्चिद् इष्यते ।
यथा लीलाम्बुजक्रीडा- सरोहेमाङ्गदादयः ॥ १।७९ ॥

[ओजस्]
ओजः समासभूयस्त्वम् एतद् गद्यस्य जीवितम् ।
पद्ये ऽप्य् अदाक्षिणात्यानाम् इदम् एकं परायणम् ॥ १।८० ॥
तद् गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः ।
उच्चावचप्रकारं तद् दृश्यम् आख्यायिकादिषु ॥ १।८१ ॥
अस्तमस्तकपर्यस्त- समस्तार्कांशुसंस्तरा ।
पीनस्तनस्थिताताम्र- कम्रवस्त्रेव वारुणी ॥ १।८२ ॥
इति पद्ये ऽपि पौरस्त्या बध्नन्त्य् ओजस्विनीर् गिरः ।
अन्ये त्व् अनाकुलं हृद्यम् इच्छन्त्य् ओजो गिरां यथा ॥ १।८३ ॥
पयोधरतटोत्सङ्ग- लग्नसन्ध्यातपांशुका ।
कस्य कामातुरं चेतो वारुणी न करिष्यति ॥ १।८४ ॥

[कान्ति व्स्। अत्युक्ति]
कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात् ।
तच् च वार्त्ताभिधानेषु वर्णनास्व् अपि दृश्यते ॥ १।८५ ॥
गृहाणि नाम तान्य् एव तपोराशिर् भवादृशः ।
सम्भावयति यान्य् एव पावनैः पादपांसुभिः ॥ १।८६ ॥
अनयोर् अनवद्याङ्गि स्तनयोर् जृम्भमाणयोः ।
अवकाशो न पर्याप्तस् तव बाहुलतान्तरे ॥ १।८७ ॥
इति सम्भाव्यम् एवैतद् विशेषाख्यानसंस्कृतम् ।
कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ॥ १।८८ ॥
लोकातीत इवात्यर्थम् अध्यारोप्य विवक्षितः ।
यो ऽर्थस् तेनाति तुष्यन्ति विदग्धा नेतरे जनाः ॥ १।८९ ॥
देवधिष्ण्यम् इवाराध्यम् अद्यप्रभृति नो गृहम् ।
युष्मत्पादरजःपात- धौतनिःशेषकिल्बिषम् ॥ १।९० ॥
अल्पं निर्मितम् आकाशम् अनालोच्यैव वेधसा ।
इदम् एवंविधं भावि भवत्याः स्तनझृम्भणम् ॥ १।९१ ॥
इदम् अत्युक्तिर् इत्य् उक्तम् एतद् गौडोपलालितम् ।
प्रस्थानं प्राक्प्रणीतं तु सारम् अन्यस्य वर्त्मनः ॥ १।९२ ॥

[समाधि]
अन्यधर्मस् ततो ऽन्यत्र लोकसीमानुरोधिना ।
सम्यग् आधीयते यत्र स समाधिः स्मृतो यथा ॥ १।९३ ॥
कुमुदानि निमीलानि कमलान्य् उन्मिषन्ति च ।
इति नेत्रक्रियाध्यासाल् लब्धा तद्वाचिनी श्रुतिः ॥ १।९४ ॥
निःष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरम् अन्यत्र ग्राम्यकक्षां विगाहते ॥ १।९५ ॥
पद्मान्य् अर्कांशुनिःष्ठ्यूताः पीत्वा पावकविप्रुषः ।
भूयो वमन्तीव मुखैर् उद्गीर्णारुणरेणुभिः ॥ १।९६ ॥
इति हृद्यम् अहृद्यं तु निःष्ठीवति वधूर् इति ।
युगपन् नैकधर्माणाम् अध्यासश् च स्मृतो यथा ॥ १।९७ ॥
गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः ।
अचलाधित्यकोत्सङ्गम् इमाः समधिशेरते ॥ १।९८ ॥
उत्सङ्गशयनं सख्याः स्तननं गौरवं क्लमः ।
इतीमे गर्भिणीधर्मा बहवो ऽप्य् अत्र दर्शिताः ॥ १।९९ ॥
तद् एतत् काव्यसर्वस्वं समाधिर् नाम यो गुणः ।
कविसार्थः समग्रो ऽपि तम् एकम् अनुगच्छति ॥ १।१०० ॥

इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणात् ।
तद्भेदास् तु न शक्यन्ते वक्तुं प्रतिकवि स्थिताः ॥ १।१०१ ॥
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तद् आख्यातुं सरस्वत्यापि शक्यते ॥ १।१०२ ॥
नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम् ।
अमन्दश् चाभियोगो ऽस्याः कारणं काव्यसम्पदः ॥ १।१०३ ॥
न विद्यते यद्य् अपि पूर्ववासना- गुणानुबन्धि प्रतिभानम् अद्भुतम् ।
श्रुतेन यत्नेन च वाग् उपासिता ध्रुवं करोत्य् एव कमप्य् अनुग्रहम् ॥ १।१०४ ॥
तद् अस्ततन्द्रैर् अनिशं सरस्वती श्रमाद् उपास्या खलु कीर्तिम् ईप्सुभिः ।
कृशे कवित्वे ऽपि जनाः कृतश्रमाः विदग्धगोष्ठीषु विहर्तुम् ईशते ॥ १।१०५ ॥

॥ इति काव्यादर्शे मार्गविभागो नाम प्रथमः परिच्छेदः ॥