३६ सम्भोगावस्थाप्रकाशः

अथ

श्रृङ्गारप्रकाशे षट्‌त्रिंश: प्रकाशः

सम्भोगावस्थाप्रकाशः

अथानन्तर्यार्थतद्‌विशेषणविशेषभूता एव क्रियाकालरूपविशेषान्तःपातिन्यः सत्ताभिव्यक्त्यनुबन्धप्रकर्षसांज्ञिकाः चतुर्णामपि सम्भोगानां अवस्थाः चतस्र उपवर्ण्यन्ते। तत्र

१. नायकयोः प्रागसङ्गतयोः सङ्गतवियुक्तयोर्वा मिथस्समागमे प्रागुत्पन्न‌: तदानीन्तनो रत्याख्यः स्थायी भाव इति रतेः सत्तासंज्ञा प्रथमावस्था,

२. अभिलषणीयालिङ्गनादीनामवाप्‍तौ सत्यां समुपजायमानैः हर्षधृतिस्मृति— भिर्व्यभिचारिभावैः संसृज्यमानः, ऋतूद्यानोपगमनजलक्रीडापर्वतोपवेशप्रसाधन— ग्रहणमधुपानेन्दूदयादिभिरुद्दीपनविभावैरुद्दीप्यमानः, सविभ्रमभ्रूकटाक्षविक्षेपालाप— सम्भ्रमस्मितादिभिरनुभावैरभिव्यज्यमानः इति अभिव्यक्तिसंज्ञाका द्वितीयावस्था।

३. ईप्सितमासादयन् जिहासितं जिहासानः इति अनुबन्धसंज्ञाका रतेः तृतीयावस्था।

४. प्राप्‍तप्राप्यप्रकर्षावस्थः सम्भोगः श्रृङ्गाराख्यां लभत इति प्रकर्षसंज्ञाका रतेः तुरीयावस्था।

तासु च यथाक्रमं संक्षेपादयः समुपसर्गार्थाः भोगशब्दार्थेन संबध्यन्ते।

१. संक्षिप्‍तो भोगः सत्तावस्थायां,

२. सङ्कीर्णो भोगः अभिव्यक्तावस्थायां,

३. सम्पूर्णो भोगः अनुबन्धावस्थायां,

४. सम्यग्भोगः प्रकर्षावस्थायामिति।

स सर्वोऽपि द्विधा— सामान्यरूपो विशेषरूपश्च।

१. सामान्यरूपः पशुमृगादीनाम्।

२. विशेषरूपो नागरकनायकादीनाम्।

(१. सामान्यरूपः पशुमृगादीनाम्)

तयोराद्या यथा—(कुसं. ३.३६—३९)

मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः।
श्रृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः॥ १॥

ददौ सरःपङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः।
अर्धोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा॥ २॥

गीतान्तरेषु श्रमवारिलेशैरीषत्समुच्छ्‌वासितपत्रशोभम्।
पुष्पा‍सवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्‍चुचुम्ब॥ ३॥

सम्प्राप्‍तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्‍ठमनोहराभ्यः।
लतावधूभ्यस्तरवोऽप्यवापुर् विनम्रशाखाभुजबन्धनानि॥ ४॥

अत्र च सरीसृपमृगपशुपक्षिपुरुषाभासतस्थिवद्‌विशेषाणां निसर्गसिद्धयैव रतोत्सवो दीयते, यथोच्यते—

वृथोपदेशस्सिद्धो हि कामोऽनाख्यातशिक्षितः।
स्वकान्तारमणोपाये को गुरुर्मृगपक्षिणाम्॥ ५॥

कमलिनीनलिनी दयितं विना न सहते सह तेन निषेविताम्।
तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम्॥ ६॥

(रुद्रटस्य काव्यालङ्कारे ३.५७)

दन्तच्छदारुणिमरञ्जितकान्तदन्त— मुन्नम्य चुम्बति हसद्‌वदनः प्रियायाः।
काम्पिल्यकप्रसवपाटलगण्डपालि— पाकारुणस्फुरितदाडिमकान्ति वक्त्रम्॥ ७॥

(मामा. ९.३१) पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः।
गर्वायते कुरबकोऽभिहतः कुचाभ्या— मालोकितस्तिलक उत्कलिको विभाति॥ ८॥

सा च रतेः सत्ता अभिलषणीयालिङ्गनादिसत्यां समुपजायमानैर्हर्षधृतिस्मृति व्यभिचारिभावैः संसृज्यते। तदिह ‘सम्प्राप्‍तपुष्पस्तबकस्तनीभ्य’ (कुसं. ३ गतेन) इत्यादिना प्रतिपादयन्ति, तत्र हि वयस्सन्धौ हर्षादयो जायन्ते। यदाह—(मामा. ९.२९वत्)

तदा किञ्चित्किञ्चित् कृतपदमहोभिः कतिपयै— रथाग्रे विस्तारिस्तनमुकुलमासीन्मृगदृशः।
वयस्स्‍नेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापारश्चलति हृदि मुग्धश्च वपुषि॥ ९॥

जाताश्च तेऽधरस्फुरणादिभिर्ज्ञायन्ते, तथा हि—(मामा. २.५)

नीवीबन्धोच्छ्‌वसनमधरस्पन्दनं दोर्विषादः स्वेदश्चक्षुर्मसृणमधुराकेकरस्स्‍निग्धमुग्धम् ।
गात्रस्तम्भः स्तनमुकुलयोरुत्प्रबन्धः प्रकम्पो गण्डाभोगे पुलकपटलं मूर्च्छना चेतना च॥ १०॥

रतिप्रकर्षादीन्यालिङ्गनानि। तदिह ‘स्फुरत्प्रवालोष्‍ठमनोहराभ्य’ (कुसं. ३. गतेन) इत्यनेन दर्शयति। अभिज्ञाता ऋतूद्यानोपगमनजलक्रीडाक्रीडापर्वतप्रवेशमधुपानेन्दू— दयादिभिरुद्दीप्यते।

तत्रेह ऋतुः प्रकरणाद् गम्यते तद्यथा— (कुसं. ३.२४,२६,२९,३२,३३)

तस्मिन् वने संयमिनां मुनीनां तपस्समाधिप्रतिकूलवर्ती।
सङ्कल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे॥ ११॥

असूत सद्यः कुसुमान्यशोकः स्कन्धात् प्रभृत्येव सपल्लवानि।
पादेन नापैक्षत सुन्दरीणां सम्पर्कमाशिञ्जितनूपुरेण॥ १२॥

बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्॥ १३॥

चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज।
मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य॥ १४॥

हिमव्यपायाद् विशदाधराणामापाण्डरीभूतमुखच्छवीनाम्।
स्वेदोद्‍गमः किम्पुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु॥ १५॥

उद्यानोपगमनं मधुपानादयः प्रतिपादयन्ति, जलक्रीडां करि ॰ ॰ क्रौञ्चचक्रवाकमिथुनं चाभिधत्ते। क्रोडापर्वतप्रवेशं प्रसाधनग्रहणं, मधुपानं किन्नरद्विरेफवृत्तान्तः सूत्रयति, इन्दूदयो दिवासम्भोगे न विद्यते, आदिग्रहाणात्तु— (कुसं. १.९, १५, १०, १४; ३.३५)

कपोलकण्डूः करिभिर्विनेतुं विद्यट्टितानां सरलद्रुमाणाम्।
यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥ १६॥

भागीरथीनिर्झरशीकराणां वोढा मुहुः कम्पितदेवदारुः।
यद्‌वायुरन्विष्‍टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः॥ १७॥

वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषिक्तभासः।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः॥ १८॥

यत्रांशुकाक्षेपविलज्जितानां यत्रेच्छया किम्पुरुषाङ्गनानाम्।
दरीगृहद्वारि विलम्बिबिम्बास्तिरस्करिण्यो जलदा भवन्ति॥ १९॥

तस्मिन् समारोपितपुष्पचापे रतिद्वितीये मदने प्रविष्‍टे।
काष्‍ठागतस्‍नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः॥ २०॥

इति। देशविशेषस्योद्दीपनविभावतां प्रतिपादयति। उद्दीपिताश्च ते सविभ्रमभ्रूकटाक्ष— विक्षेपालापसम्भृतस्मितानि विभावानुभावैरभिव्यज्यन्ते। तेऽपि किन्नरीमुखे यथोक्तगुणयुक्ते युक्तितो भवन्त्येवेति। रत्युपचारश्चेह सर्वोऽपि सर्वोपकरणप्रगुणयैव विशिष्‍टदेशकालोपकल्पितः प्रतीयते। तथाहि—

रम्या नवद्युतिरपैति न शाद्‌वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि।
अस्मिन् विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि॥ २१॥

(किराता. ५.३७) त्वक्साररन्ध्रपरिपूरणरक्तगीति— रस्मिन् मुहुर्मृदितपक्ष्मलरल्लकाङ्गः।
कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः॥ २२॥

(माघ. ४.६१) सम्मूर्च्छतां रजतभित्तिमयूखजालै— रालोलपादपलतान्तरनिर्गतानाम्।
घर्मद्युतेरिह मुहुः पटलानि धाम्‍ना— मादर्शमण्डलनिभानि समुल्लसन्ति॥ २३॥

(किराता. ५.४१) श्रीमल्लता भवनमोषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि।
अस्मिन् रतिश्रमजितश्च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः॥ २४॥

(किराता. ५.२८) सेयं रतेरभिव्यक्त्यवस्था ।

अत उत्तरं प्रियाचरणविप्रियाकरणाभ्यां प्रवर्धमाना रतिः प्रागुक्तैरेव विभावानुभाव— व्यभिचारिभिरनुबध्यते। तच्च तदोपपद्यते यदेप्सितमासाद्यते अनीप्सितं च न स्य॰॰॰ पराधीनवृत्तीनां मुनिवननिवासनिर्भयानां भयाहारमैथुनमात्रवेदिनामुपनतमनोऽभिलषितां पुष्पशष्पसल्लकीमृणालतरुतोयवर्षनिर्वृतानामलिमृगमातङ्गरथाङ्गकिन्नरोर्वीरुहमिथुनानाम— मिथ्यैव भवन्ति। सैषा रतेरनुबन्धसंज्ञाका तृतीयावस्था।

चतुर्थ्यपि प्रकर्षसंज्ञिका विद्यते (सा) तु यद्यपि मुख्यवृत्त्येह नोपदिष्टा, तथापि चात्र विशेषोपदर्शनैरुपदिष्टेव भवति। तद्यथा—‘मधु द्विरेफ’ इत्यादि। तत्र विदग्ध कामिनामन्योक्तिषु भ्रमर एव प्रकृष्यते, तत्र शठधृष्टदक्षिणानुकूलनायकधर्माः कविभिरारोप्यमाणा उपलभ्यन्ते। तेषु —

शठधर्मो यथा—

पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे।
अप्यसन्नद्धसौरभ्यं पश्य चुम्बति कुट्मलम्॥ २५॥

(काव्याद. २.२०६) धृष्टधर्मो यथा—(किराता. १०.३४)

श्वसनचलितपल्लवाधरोष्ठी नवनिहितेर्ष्यमिवावधूनयन्ती।
मधुसुरभिणि षट्पदेन पुष्पे मुख इव साललतावधूश्‍चुचुम्बे॥ २६॥

दक्षिणधर्मो यथा—

भ्रमराः कुन्दलतायां चिररूढप्रणयभङ्गभीरुतया।
दयिततमामपि विपिने चूतलतां निभृतमभिलषन्ति॥ २७॥

अनुकूलधर्मो यथा—

मुग्धामजातरजसं कलिकामकाले बालां कदर्थयसि किं नवमालिकायाः।
अन्यासु तावदुपभोगसहासु भृङ्ग! लोलं विनोदय मनः सुमनोलतासु॥ २८॥

तस्य च परवति तत्सङ्गमसुभगंमानिनः स्वयोषिति रतिस्तथा न स्वदते यथा मिथोविप्रयुक्तमृगयूनोरिति तदुत्तरार्धेन प्रतिपादयति, प्रकृष्टश्च मृगस्‍‍नेह इति सार्वलौकिकी गाथा— (गास. ३.८७)

रण्णम्मि तणं रण्णम्मि पाणिअं सव्वदो सअंगाहं।
तह वि मिआण मईणं अ आमरणंताइं पेम्माइं॥ २९॥

(अरण्यं तृणमरण्ये पानीयं सर्वतः स्वयंग्राह्यम्।
तथापि मृगाणां मृगीणां चामरणान्तानि प्रेमाणि॥)

मृगस्‍नेहाद् गजस्‍नेह इति प्रकृष्टमन्यदपि विलोकितम्। यथोच्यते—

रेवापयः किसलयानि च सल्लकीनां विन्ध्योपकण्ठविपिनं विपुलं विहाय।
किं शोचसे गज! गतोऽसि वशं करिण्याः स्‍नेहो हि कारणमनर्थपरम्परायाः॥ ३०॥

गजस्‍नेहाच्चक्रस्‍नेहो विशिष्यत इत्यपि विलोकितम्। स हि प्रियतमया वियुज्यमानः किलैवमाह, यथा—(सूमु. २५०)

आपृष्टाऽसि व्यथयसि मनो दुर्बला वासरश्री— रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि!। नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनस्तदिह भवतीमस्वतन्त्रस्त्यजामि॥ ३१॥

तदुभयमपि द्वितीयश्लोकेनाचष्टे, चक्रवाकस्‍नेहादपि किन्नरमिथुनस्‍नेहः प्रकृष्यते, तद्धि मिथो वियुक्तं क्षणमपि न जीवति, तत् तृतीयश्लोकेनाभिधत्ते। ततोऽपि वृक्षवल्लीप्रेम प्रकृष्टम्, ते तथा मिथो व्यतिषज्येते यथा यावज्जीवं तथैवार्धनारीश्वरवदवतिष्ठेते, तच्चतुर्थश्लोकेनाह। सोऽयं चतुरवस्थोऽपि सम्भोगश्रृङ्गारः सामान्यरूप उक्तः।

(२. विशेषरूपो नागरकनायकादीनाम्)

अथैव विशिष्टनायकविषयो विशेषरूप उच्यते। स च सात्त्विकादिनायकभेदात् स्थिरास्थिरत्वादितारतम्यात् प्रबन्धेनोपपद्यमानो द्वादशप्रकार उत्पद्यते।

१. प्रथमसन्दर्शनक्षण एव संक्षेपेणोत्पन्न संक्षिप्‍त इत्युच्यते।

२. अथैष द्वितीयावस्थायां विभावानुभावव्यभिचारिसंयोगैरभिव्यज्यमानः स्वभाव— कुटिलत्वाद् व्यञ्जनसम्बन्ध ॰ ॰ ॰ स्सोऽपि द्वादशप्रकार एव विप्रथते। सङ्कीर्यमाणत्वाच्च सङ्कीर्ण इत्युच्यते।

३. अथायमेव ईप्सितमासादयञ् जिहासितं जिहानः परप्रकर्षोन्मुखस्तृतीयावस्थायां धर्मार्थकामाननुबध्‍नाति। तद्‍वशाच्च द्वादशप्रकारो जायते। सम्पूर्णरूपत्वात् सम्पूर्ण इत्युच्यते।

४. अथ चतुर्थावस्थायामयमेव प्राप्‍तप्राप्यप्रकर्षितभूतकरणसामग्र्यतो द्वादशप्रकारः। यथा पाकाच्च सम्यमास्वाद्यत्वमुपगतः सम्यगित्युच्यते। तत्र —

(१. संक्षेपपक्षे —१२)

संक्षेपपक्षे रागोपाधिः प्रेमापि द्वादशप्रकारं भवति। तत्र

१—४ हरिद्रारागं, रोचनरागं, काम्पिल्यरागं, रीतिरागमिति सात्त्विकस्य, ५—८ कुसुम्भरागं, लाक्षारागम्, अक्षीबरागं, मञ्जिष्ठारागमिति राजसस्य, ९—१२ कर्दमरागं, कषायरागं, सकलरागं, नीलीरागमिति तामसस्य।

तत्प्रायेण पुरुषाणां विशेष उपजायते। तत्र—

(सात्त्विकस्य)

१. अल्पकारणापनेयः हरिद्रारागः, तदतिसत्त्वोद्रेकस्य, स हि तथा न कामेन बाध्यते। यथा सत्त्वोद्रेकात् करुणादिभिस्तेनासौ नातितरामतिचिरं वा रज्यते। अतो हरिद्राराग इति, नागानन्दे जीमूतवाहनः — (४.२२)

न तथा सुखयति मन्ये मलयवती मलयचन्दनरसार्द्रा।
अभिवाञ्छितार्थसिद्‍ध्यै वध्यशिलेयं यथाऽऽश्लिष्टा॥ ३२॥

२. अनल्पकारणापनेयो रोचनारागः, तन्महासत्त्वस्य, स हि कामेनाबाध्यमानः धर्मादिप्रवृत्तिरेव स्वकारणसामग्र्यतो जायते। तेनास्य नातिदुरपनेया नातिरक्ता वा रोचनाया इव रागलेखा भवति। यथा शाकुन्तले दुर्वाससः शापेनापनीत स्मृतेर्दुष्यन्तस्य— (७.२४)

सुतनु! हृदयात् प्रत्यादेशव्यलीकमपैतु ते किमपि मनसः सम्मोहो मे तदा बलवानभूत्।
प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः स्‍त्रजमपि शिरस्यन्धः क्षिप्‍तां धुनोत्यहिशङ्कया॥ ३३॥

३. अनल्पकारणोपनिपातेऽपि प्रयत्‍नापनेयं काम्पिल्यरागं तदतिसात्त्विकस्य, यथा हरिश्चन्द्रचरिते विश्वामित्रमोचनाय दारविक्रयिणो हरिश्चन्द्रस्य—

हे धन्याः श्रृणुतावधत्त धनिनः! सेयं मया प्रेयसी मत्पाणिग्रहदूषणादिति दशां याता जगत्पावनी।
दुर्वृत्तेन दुरन्तपातकशतध्वस्ते हितः पौरुषे स्वामित्वैकसभाजितापि सुदती विक्रीयते क्रीयताम्॥ ३४॥

४. कारणोपनिपाते यन्महतापि स्वयत्‍नेनापनेतुं शक्यते, तद् रीतिरागम्। तदतिमहासत्त्वस्य, यथा जनापवादभीरुतया निर्वासितायामपि सीतायां रामायणे रामस्य—

ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः पुराणैरातङ्कग्लपितहृदयेन क्षितिभृता।
विना वाचं नैतत् क्षममिति निधायाननमधः- पतद्‍बाष्पाम्भोभिर्लिखितमिव दत्तं प्रतिवचः॥ ३५॥

एतेषु च सत्त्वच्छायाधिक्यान्न तथाविधा रागच्छायानुवृत्तिरित्यापीत एव रागवर्णो भवति। स हि तथा न धर्मार्थयोरनुषज्यते यथा कामे तेनातितरां रज्यते, गुणेषु च यथोत्तरेच्छत्वात् कामिनामनुरागेऽपि शीघ्रमेव विरज्यते। यथा हरिवंशे (उच्यतां) वासुदेवः—

पान्थ! द्वारवतीं प्रयासि यदि हे तद्देवकीनन्दनो वक्तव्यः, स्मरमन्त्रमोहविवशा गोप्यो न नामोज्झिताः।
एताः केतकपुष्पधूलिपटलैरालोक्य रम्या दिशः कालिन्दीतटभूमयोऽपि तव रे नायान्ति चिन्तास्पदम्॥ ३६॥

(राजसस्य)

६. १अनल्पकारणेनापनेयं लाक्षारागम्, तदपि रजोबहुलस्यैव जायते, यथा विक्रमोर्वश्याम् ऊर्वशीविलोकनापहृतमहादेवीप्रेमसम्पदः पुरूरवसः—(विक्र. ३.१७)

देव्या दत्त इति यदि व्यापारं व्रजसि मे शरीरेऽस्मिन्।
प्रथमं कस्यानुमते चोरि ! हृतं मे त्वया हृदयम्॥ ३७॥

७. कारणोपनिपाते महाप्रयत्‍नापनेयमक्षीबरागम्, यथा यौगन्धरायणदिप्रयत्‍नतो राज्यलाभाय तापसवत्सराजे वासवदत्तायां वत्सराजस्य—

चक्षुर्यस्य तवाननादुपगतं नाभूत् क्‍वचिन्निर्वृतं येनैषा सततं त्वदेकशयनं वक्षस्स्थली कल्पिता।
येनोक्तासि विना त्वया मम जगच्छून्यं क्षणाज्जायते सोऽयं दम्भधृतव्रतः प्रियतमे ! कर्तुं किमप्युद्यतः॥ ३८॥

(ताप.४१३) ८. महाप्रयत्‍नेनापनेतुमशक्यं मञ्जिष्ठारागम्, यथा मदालसोपाख्याने मदालसायामेव कुवलयाश्वस्य—

श्रेणीभूतामिवाशासु निखातामिव चेतसि।
प्रोतामिव विकल्पेषु राजसूनुरमंस्त ताम्॥ ३९॥

इदं चाह—

यदि सा मम तन्वङ्गी न स्याद् भार्या मदालसा।
अस्मिञ्जन्मनि सत्यस्य सावित्री सहचारिणी॥ ४०॥

एतेषु च रजोभूयिष्ठत्वाद् रागभूयिष्ठेषु रागान्तरोपनिपातात् स्क्ततायमेष वर्णोत्कर्षो भवति।

(तामसस्य)

९. अथाल्पकारणापनेयमेव तामसस्य कर्दमरागं यथा मालविकाग्‍निमित्रे। मालविकाविलोकनापहृतचेतसो महादेव्यां धारिण्यामिरावत्यां च प्रणयवत्यामग्‍निमित्रस्य— (मालविका.३.२३)

मन्ये प्रियाहितमनास्तस्याः प्रणिपातलङ्घनं सेवाम्।
एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता॥ ४१॥

१. राजसस्य कुसुम्भरागमिति नोपलभ्यते भेदः। १०. कारणापनेयं तामसस्यैव कषायरागं, यथा विक्रान्तशूद्रके शिवगणस्य—

सा वक्षःपरिवर्तनैकललिता विश्वासभूमिः प्रिया बाला निष्करुणेन मुग्धतपसा दग्धा वराकी मया।
भर्त्तुर्भक्तिरपेक्षिता ननु पुनः स्त्रीदाहदोषो महाञ् जातं सच्‍चरितैषिणो मम पुनर्म्लेच्छस्य यन्नोचितम्॥ ४२॥

११. कारणोपनिपाते महाप्रयत्‍नतोऽपि सर्वथा दुरपनेयं सकलरागम्, तदपि तामसस्यैव यथा रघुवंशे अजस्य इन्दुमत्यां प्रमादमृतायामपि वर्षकतिपयजीविनोऽजस्य। (रघु. ८.९२)

तेनाष्टौ परिगमिताः समाः कथंचिद् बालत्वादवितथसूनृतेन सूनोः।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्‍नेषु क्षणिकसमागमोत्सवैश्च॥ ४३॥

१२. सर्वथैवापनेतुमशक्यं नीलीरागम्, तदतितामसस्य, यथा कादम्बरीकथायां महाश्वेताविषये वैशम्पायनस्य— (कादम्बरीकथामुखे)

दूरं मुक्तालतया विससितया विप्रलोभ्यमानो मे।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः॥ ४॥

एषां च तामसानां तमोऽतिरेकाद् रागयोस्स्वकीयवर्णतिरस्कारे वर्णान्तरमुत्पद्यते सोऽयमुपसर्गार्थः।

(२. सङ्करार्थपक्षे —१२)

अथ सङ्करार्थपक्षे प्रेम द्वादशप्रकारं भवति —

आवृत्तव्याजम्, अनुवृत्तव्याजं, परिणतव्याजम्, अध्याहृतव्याजं, कृत्रिमव्याजम्, अपेक्षितव्याजम्, अन्तर्व्याजम्, बहिर्व्याजं, एकव्याजम्, बहुव्याजं, सर्वव्याजं, निर्व्याजमिति। सर्वव्याजमिह स्त्रीणां विशेषत इव जायते। तत्र—

१. आवृत्तव्याजं यथा—

चतुरचटुभिर्गाढाश्लेषैर्हठात् परिचुम्बनै— रलकललिते वारं वारं गतोऽप्यतिमन्दताम्।
अपरवनितासङ्गाल्लग्‍न . . . . . . . . . . . . . र्नवतां गतः॥ ४५॥

२. अनुवृत्तव्याजं यथा—(किराता. ९.६८)

येषिदुद्धतमनोभवभावा मानवत्यपि ययौ दयिताङ्कम्।
कारयत्यनिभृता हुणदोषे वारुणी खलु रहस्यविभेदम्॥ ४६॥

३. परिणतव्याजं यथा—(गास. ४.६)

अव्वो अणुणअसुहकंखिरीअ अकअं कअं कुणंतीए।
सरलसहावे वि पिओ अविणअमग्गं बला णीणो॥ ४७॥

(कष्टमनुननयसुखकाङ्क्षणशीलयाऽकृतकृतं कुर्वत्या।
सरलस्वभावोऽपि प्रियोऽविनयमार्गं बलान्नीतः॥)

४. अध्याहृतव्याजं यथा—(गास. १.४८)

अण्णमहिलापसंगं दे देव्व करेसु अम्ह दइअस्स।
पुरिसा एक्‍कंतरसा ण हु दोसगुणे विआणंति॥ ४८॥

(अन्यदयिताप्रसङ्गं हे देव कुरु मे दयितस्य।
पुरुषा एकान्तरसा न खलु दोषगुणो विजानन्ति॥)

५. कृत्रिमव्याजं यथा—(काव्याद. २.२४३)

मानयोग्यां करोमीति प्रियस्थाने स्थितां सखीम्।
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा॥ ४९॥

६. अपेक्षितव्याजं यथा—(कुसं. ६.४५)

भ्रूभङ्गिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः।
यत्र कोपैः कृताः स्त्रीणामप्रसादार्थिनः प्रियाः॥ ५०॥

७. अन्तर्व्याजं यथा—(माघ. १०.२८)

अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या।
पीतभूरिसुरयापि न भेदे निर्वृतिर्हि मनसो मदहेतुः॥ ५१॥

८. बहिर्व्याजं यथा—(माघ. १०.३६)

आननैर्विचकसे हृषिताभिर्वल्लभानभितनूभिरभावि।
आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम्॥ ५२॥

९. एकव्याजं यथा—(माघ. १०.३५)

शङ्कयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव।
न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृति चेतः॥ ५३॥

१०. बहुव्याजं यथा—(अमरु. ७५)

कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहनसखीश्रोत्रप्राप्‍तिप्रमादस/मसम्भ्रमं विचलितदृशा शून्ये गेहे समुच्छ्‌वसितं पुरः॥ ५४॥

११. सर्वव्याजं यथा—(किराता. ९.६०)

मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुमिति शङ्कितनाथाः।
योषितो न मदिरां भृशमीषुः प्रेम पश्यति भयान्यपदेऽपि॥ ५५॥

१२. निर्व्याजं यथा—(किराता. ९.४३)

द्वारि चक्षुरधिपाणि कपोल(लौ) जीवितं त्वयि कुतः कलहोऽस्याः।
योषितामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय॥ ५६॥

सोऽयमुपसर्गस्य सङ्करार्थम्।

(३. सम्पूर्णतापक्षे)

अथ सम्पूर्णतापक्षे अनुबन्धोपाये प्रेम द्वादशप्रकारंभवति— धर्मानुबन्धम् , अर्थानुबन्धं, धर्मार्थानुबन्धम्, अधर्माऽर्थानुबन्धम् इत्यादि।

. . अस्सपत . . सं अंलस्स विरसो रसो होइ।
आद . . . . . . . . . . . . . . . . . .॥ ५७॥

१(यद् वाच्यं यद्‍वाच्यमप्युभयमप्येतेन सर्वंसहा त्वं सख्याः प्रमुखे प्रगल्भवचसा) प्रोक्ता वटुच्छद्मना।
तत्सर्वं प्रणतस्य मेऽद्य दयिते दाक्षायणि क्षम्यता— मित्युक्त्वा २(स्वकपर्ददिव्यसरितो धौते पदे नारिणा)॥ ५८॥

शापादसि प्रतिहता स्मृतिरोधरूक्षे भर्तर्यपेततमसि प्रभुता तवैव।
छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा॥ ५९॥

(शाकु. ७.३२) आद्यन्तयोरस्वादु पिचुमन्दपाकं यथा— (गास. ८४४वे.)

जइ देव्व तुं पसण्णो मा कारिहि मज्झ माणुसं जम्मं।
ता पेम्मं अह पेम्मं तामा जणे दुल्लहे॥ ६०॥

१–२. इदं द्वयमस्माभिरपूरि। (यदि देव त्वं प्रसन्नो मा कार्षीः मम मानुषं जन्म।
तत् प्रेम, अथ प्रेम तज्जने दुर्लभे॥)

अनवरतपाकं कपित्थपाकं, यथा—(गास. ९१०वे.)

सोत्तुं सुहं ण लंभइ अंबो पेम्मेण पेम्मस्य वंकविसमस्स।
दुग्घडिअ—मंचअस्स व खणे खणे पाअपडणेण॥ ६१॥

(स्वप्‍तुं सुखं न लभ्यते अहो प्रेम्णा वक्रविषमस्य।
दुर्घटितमञ्चकस्येव क्षणे क्षणे पादपतनेन॥)

यथोत्तरस्वादु क्रमुकपाकं, यथा—

वोदलंति हिअअं चिरआल—परूढ—गरुअ—वीसंभा।
तमसोसरंत सब्भावदारुणा पेम्मपरिणामा॥ ६२॥

(विदलन्ति हृदयं चिरकालप्ररूढगुरुकविस्रम्भाः।
॰ ॰ ॰ ॰ स्वभावदारुणाः प्रेमपरिणामाः॥)

यथोत्तरस्वादु खर्जूरपाकं यथा—(उराच. १.३९)

अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् विस्रम्भो हृदयस्य यन्न रजसा यस्मिन्नहार्यो रसः।
कालेनावरणात्ययात् परिणते यत् स्‍नेहसारोत्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत् प्राप्यते॥ ६३॥

तदेतत् कामसर्वस्वं तदेतत् काव्यजीवितम्।
य एष द्विप्रकारोऽपि रसः श्रृङ्गारसंज्ञकः॥ ६४॥

(यथा विपद्मा सरसी यथा रात्रिर)१-तारका ।
अविदग्धा यथा गोष्ठी निश्श्रृङ्गारा तथाङ्गना॥ ६५॥

यथांशुमाली पी/वीतांशुर्यथानर्चिर्हुताशनः।
यथाऽप्रतापो नृपतिरश्रृङ्गारस्तथा पुमान्॥ ६६॥

यथेन्दुना निशा भाति निशाभिश्च यथा शशी।
अङ्गनाभिश्च श्रृङ्गारः श्रृङ्गारेण तथाङ्गना॥ ६७॥

यथा तडिदनम्भोदा पयोदस्तडितं विना।
अहंकृतिरश्रृङ्गारा श्रृङ्गाराच्चा/रश्चानहङ्कृतिः॥ ६८॥

१. इदमस्माभिरपूरि। रसः श्रङ्गार एवैको भावा रत्यादयो मताः।
प्रकर्षगामिनोऽपीह प्रेमग्लानिश्रमादिवत्॥ ६९॥

इति निगदित—भङ्ग्याऽनङ्ग—सर्वस्वमेतद् द्विविधमपि मनोभिर्भावयन्तोऽस्य भेदम्।
तदनुभव—समुत्थानन्द—संमीलिताक्षाः परिषदि परितोषं हन्त सन्तः प्रयान्तु॥ ७०॥

यावन्मूर्ध्‍नि हिमांशुकन्दलभृति स्वर्वहिनी धूर्जटे— र्यावद् वक्षसि कौस्तुभस्तबकिते पद्मा मुरद्वेषिणः।
यावच्‍चित्तभुवस्त्रिलोकविजयप्रौढं धनुः कौसुमं भूयात् तावदियं कृतिः कृतधियां कर्णावतंसोत्पलम्॥ ७१॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकशे सम्भोगावस्थाप्रकाशोनाम

॥ षट्‌त्रिंशः प्रकाशः॥ ३६॥

इति सनातनकविश्रीरेवाप्रसादद्विवेदिसम्पादितः श्रृङ्गारप्रकाशो नाम साहित्यप्रकाशः पूर्णः।

॥ ॐ तत् सत्॥

कर्णावतंसोत्पलतां जगाहे साहित्यशास्त्रेऽत्र धिगन्य एव।
प्रकाश एषोऽद्य वगाहतां तच्‍चित्कोष—श्रृङ्गारसमाधि—योगम्॥

सनातनो वस्तुनि केवलेऽस्ति श्राद्धोऽसकौ, भावकपिब्दतासु।
धत्ते धियं श्रीजुषि विश्‍वनाथे वाराङ्गनाचामर—वीजनस्य॥

श्रीराघवो गिलतु काममिमाँस्तिमीन्द्रान् येष्वासते चपलतापरितापनानि।
भोजः समुद्रति, न पारममुष्य लब्धुं काचित् क्षमाऽस्य नभसो नु गरुत्मतोऽपि॥