३५ मानानन्तरप्रकाशः

अथ

श्रृङ्गारप्रकाशे पञ्चत्रिंशः प्रकाशः

मानानन्तरप्रकाशः

अथ मानानन्तरः।

तत्र रतिप्रकर्षनिमित्ताभिलषणीयालिङ्गनाद्यनवाप्‍तिहेतवः मानागमप्ररोदनादयः सम्भोगशब्दवाच्याः भवन्ति।

कः पुनरत्र समासः ? षष्ठीतत्पुरुष एव।

का वृत्तिः? प्रथमानुरागादनन्तरवदनुत्सृष्टस्वार्थैवेत्यत्र युक्तम्।

तत्र विस्त्रम्भणादीनां प्रथमानुरागस्य विद्यमानत्वात्। इह तु माननिवृत्तौ मानाव/पगमादयः जायन्ते। अन्वयाद् विशेषणं भविष्यति। तद्यथा— घृतघटः, तैलघटः इति। निषिक्तेऽपि घृते तैले वा (तत्र घटो) विशेषणं भविष्यति।

तद्यथा—(अयं) घृतघटः, अयं तैलघटः इति। भवति हि तत्र या च यावती वा अर्थमात्रा इहापि सर्वं तत्तुल्यमेव, सकषायैरेव वाक्यैर्नायकति (रस्काराँ)स्तृदन्ती(ती) (नायिका) शयनीयं गच्छेत्। किञ्च—

उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुंहु मुञ्च मम मामिति मन्दं जल्पितं जयति मानवतीनाम॥ १॥

इति मानान्वयः दृश्‍यते।

ननु च अन्वयग्रहणेनान्वयव्यतिरेकयोः स्मारितोऽस्ति। ततश्च निश्चितमेभिर्मानापगमादिभिर्मानशब्दार्थैरेव भवितव्यम्। तथा हि— प्रथमानुरागानन्तर इत्युक्ते कश्चित् शब्दश्श्रूयते। प्रथमानुरागेत्यनन्तरेति च प्रतीयमानविभागः। अर्थोऽपि कश्चिद् गम्यते। विस्त्रम्भणादिरवधिमत्त्वं च।

मानानन्तर इत्युक्ते कश्चिच्छब्दभागो हीयते कश्चिदुपजायते। कश्चिदन्वयी प्रथमानुरागो हीयते, मानेत्युपजायते, अनन्तरेत्यन्वयी। तेन मन्यामहे यच्छब्दयोगो१ हीयते तस्यासावर्थो, योऽर्थो हीयते य उपजायते तस्यासावर्थोऽर्थ उपजायते, योऽन्वयी तस्यासावर्थो योऽर्थोऽन्वयी। १. ‘यच्छन्दगो’ इति राघवः, यच्छब्दयोगो जो. नैवं, यतोऽनन्यथासिद्धाभ्यामेवान्वयव्यतिरेकाभ्यां शब्दार्थयोः सम्बन्धा— वधारणम्, अनन्यथासिद्धौ चेमौ। तथा हि यत्र बृंहितं हीयते, हेषितमुपजायते रेणुचक्रमन्वयि तत्र हस्तिनो हीयन्ते पिपीलिकान्वयिन्यः; न चैतावता रेणुचक्रस्य पिपिलिका अन्वयिन्यो भवन्ति, यत्र वा क्षीरं हीयते दध्युपजायते पात्रमन्वयि तत्र माधुर्यं हीयते अम्लतोपजायते तृप्‍तिरन्वयिनी। न चैतावता पात्रस्य तृप्‍तिः कार्या भवति। अवधृतं हि सामर्थ्यमन्वयव्यतिरेकाभ्यां प्रविभज्यते। यथा लोकेऽवधि (बधिरोऽ)पि चक्षुष्मानालोकयति, सत्यपि श्रोत्रे उपहतचक्षुर्नालोकयति रूपमित्यन्वयव्यतिरेकाभ्यां चक्षुः—श्रोत्रसन्निधाने रूपालोकनं चक्षुष एव व्यवस्थाप्यते न श्रोत्रस्य। यस्य च केवलस्य योऽर्थोऽवधृतः पदान्तरसन्निधानेऽपि स एव। न हि रसनमसन्निधौ दर्शनस्य, मधुरादिव्यञ्जकं दर्शनसन्निधौ नीलादिव्यक्तिसामर्थ्यं प्रतिलभते। प्रथमानुरागशब्दस्य च केवलस्योत्कण्ठादिषु मानशब्दस्येर्ष्यायितादिषु अनन्तरशब्दस्य पुनरवधिमत्स्वेव सामर्थ्यमवधृतम्। तेषां तावानेवार्थो भवति, यः पुनः पदयोरितरेतरोपश्लेषात् विस्त्रम्भणादिर्मानशैथिल्यादिर्वा अवधिमद्‌विशेषोऽभ्यधिकः प्रतीयते वाक्यार्थः स भवतीति।

(१)

के पुनर्मानशैथिल्यादयः ?

(१)मानशैथिल्यं, (२)मानापगमलिङ्गानि, (३)मानापह्नवः, (४)मानापगमः,

(५)प्ररोदनं, (६)प्रियाभ्युपपत्तिः, (७)मुधाप्रतिषेधः, (८)परिसान्त्वनानि, (९)चित्रचाटूक्तयः

(/चाटुक्‍तयः), (१०) स्खलितगोपनानि, (११)प्रणिपातः, (१२)प्रियोत्थापनानि,

(१३)अश्रुप्रमार्जनं, (१४)मानशेषः, (१५)अपराधस्मरणं, (१६)प्रेमवैमनस्यं(मानवैमनस्यानि),

(१७)स्तनोत्कम्पः, (१८)निःश्वसितानि, (१९)स्वेदरोमाञ्चौ, (२०)कपोलोष्ठस्पन्दनानि,

(२१)मुखप्रसादः, (२२)व्याजशपथाः, (२३)वक्रवीक्षितानि, (२४)उपालम्भः,

(२५)प्रत्युत्तराणि, (२६)अवज्ञाभ्रंशः, (२७)प्रेमाविर्भावः, (२८)प्रेमालिङ्गनानि, (२९)प्रियोपरोधः,

(३०)श्रृङ्गारवृद्धिः, (३१)हठकचग्रहः, (३२)प्रसह्याश्लेषः, (३३)पाणिताडनं,

(३४)पादाभिघातः, (३५)दयितयातना, (३६)प्रत्यनुनयः(/प्रत्यायनम्), (३७)प्रेमवैकृतानि,

(३८)लज्जागमः, (३९)मानरामणीयकानि, (४०)विस्त्रम्भसम्भाषा, (४१)मानासक्तिः

(/मानशक्‍तिः), (४२)मानप्रतिपादनं, (४३)सखीपरिहासः, (४४)मानानुशयः,

(४५)माननिन्दा, (४५)मानानुचिन्तनं, (४७)मानप्रध्वंसः, (४८)मानपुनर्भाव’ इति। तेषु—

(१) देशकालोत्कण्ठादिभिर्मानापचयो मानशैथिल्यम्, यथा—(गास. १.७४)

पुदृढमण्णुदूमिआएँ वि गहिओ दयिअम्मि पेच्छह इमाए।
ओसरइ वालुआमुट्ठिउ व्व माणो सुरसुरंतो॥ २॥

(प्रौढ/ दृढमन्युदूनयापि गाढं गृहितेऽ नया पश्‍यत दयिते।
अपसरति वालुकामुष्टिरिव मानः सुरुसुरायमाणः॥)

अ/उव्वहइ दइअगइ/हिआहरोज्ज/ट्ठज्झिज्जंतरोसपडिराअं/ यं।
पाणोसरंतमइरं व पलिह/ फलिअचसअं महुं बाला॥ ३॥

(उद्वहति दयितगृहीताधरोष्ठक्षीयमाणरोषप्रतिरागम्।
पानापसरन्मदिरमिव स्फटिकचषकं मुखं बाला॥)
(गौड. ६९०)

(२) गच्छतो मानस्य चिह्नानि मानापगमनलिङ्गानि, यथा—(गास. २.८८)

णेउरकोडिविलग्गं चिहुरं दइअस्स पआपडिअस्स।
हिअअं पउत्थमाणं उम्मोअंति च्चिअ कहेइ॥ ४॥

(नूपुरकोटिविलग्‍‍नं चिकुरं दयितस्य पादपतितस्य।
हृदयं मानप्रवृत्तमुन्मो‌चयन्त्येव कथयति॥)

आलोक्य प्रियतमंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या।
तन्नूनं पदमवलोकयाम्बभूव मानस्य द्रूतमपयानमास्थितस्य॥ ५॥

(माघ. ९.८४)

(३) मानगोपनं मानापह्नवो यथा—

दत्ता वाचः प्रकृतिमधुराः पूर्ववत् प्रीतिरम्या न्यस्ता दृष्टिर्वदनशशिनो दर्शितश्च प्रसादः।
मुग्धे मुग्धस्मितमविकृतं सर्वमेतद् वृथा ते नन्वाख्यातो रहसि विनयेनैव कोपानुबन्धः॥ ६॥

भ्रूकुटिरारचिता गतमग्रतो हृतमथाननमुक्तमसाधु वा।
इयमतिप्रभुता क्रियते बलादकुपितोऽपि हि यत्कुपितो जनः॥ ७॥ (सक. ४.१५६)

(४) मानस्यापसरणं मानापगमः, यथाmdash;

दृष्टे लोचनवर्त्मना मुकुलितं पार्श्वस्थिते चक्रव— न्न्यग्भूतं बहिरासितं पुलकवत् स्पर्शं समातन्वति।

नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे प्रिये मानेनापसृतं ह्नियेव सुदृशः पादस्पृशि प्रेयसि॥ ८॥

विहायैतन्मानव्यसनमनयोरुच्चकुचयो— र्निधेयः प्रेयांस्ते यदि वयमनुल्लङ्गघ्यवचसः।
सखीभ्यः स्निग्धाभ्यो गिरमिति निशम्यैणनयना निवापाम्भो दत्ते नयनसलिलैर्मानसुहृदे॥ ९॥

(सक. ५.२८६) (५) बाष्पमोक्षः प्ररोदनं, यथा—(किराता. ९.४५)

सव्यलीकमवधीरिखिन्नं प्रस्थितं सपदि कोपपदेन।
योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिबाष्पनिपातः॥ १०॥

न स्पृष्टोऽपि त्रिदशसरितो दूरमीर्ष्यानुबन्धां नाप्युत्सृष्टो भुजगपतिना तर्जनाभिर्जयायाः।
मानस्यान्ते नयनसलिलैः क्षालितः शैलपुञ्या पत्युर्मौलौ नतिजुषि जयत्यात्मनः पादपांसुः॥ ११॥

(सक. ५.२८५) (६) प्रियेण मानवैमलस्थादिपृच्छा प्रियाभ्युपपत्तिः, यथा—

कीस मलिआवअंसं वअण्ण—णीसास—पंडुराहरराअं।
वअणं वहसि किसोअरि! कर—संकामिअ—कओल—पत्तालेक्खं॥ १२॥

(कस्माद् मलिनावतंसं प्रपन्ननिःश्वासप्रगुणिताधररागम्।
वदनं वहसि कृशोदरि करसङ्गक्रामितकपोलपत्रालेख्यम्॥)

कीस अ इमेसु बहुसो विसम—प्पत—तलिणंजणच्छवि—कलुसा।
दीहावंगेसु तुज्झ परिघोलंति णअणेसु बाहुप्पीडा॥ १३॥

(कस्माच्च अनयोः बहुशः विषमप्रान्ततलिनाञ्जनच्छविकलुषाः।
दीर्घापाङ्गयोस्तव परिगलन्ति नयनयोः बाष्पोत्पीडाः॥)

(७) मृषानिषेधो मुधाप्रतिषेधः, यथा—

उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुंहु मुञ्च मम चेति च मन्दं जल्पितं जयति मानवतीनाम्॥ १४॥

रुद्धं बाष्पजलेन लोचनयुगं त्वद्दर्शनानिच्छया गात्रं त्वत्परिरम्भमन्तरयितुं रोमोद्रमेनावृतम्।
वक्तुं त्वां परुषा गिरः स्फुरति मे दन्तच्छदः किं मुधा मामाश्र्लिष्यसि निस्त्रपोऽसि शठ! हे नैव प्रसन्नास्मि ते॥ १५॥

(८) सामवाक्यानि परिसान्त्वनानि, यथा—(सक. ५.३६८)

आधातुं विनयं निरागसि जने कुप्यन्तु नामेश्वरा— स्तेन स्वाशयशुद्धिरेव सुकरा प्रायः प्रभूणां पुरः।

मिथ्यामानिनि! मन्यसे यदि तथा नित्यं मनोवर्तिनी वाच्या तामरसाक्ष्यवीक्षि सुभगे!१ का वा त्वदन्या मया॥ १६॥

अवहारेऊण चिरं भणसु तुमं चिअ अमुक्करोसा वि फुडं।
किं अगणेऊण इमं होज्जा तुमंमि मज्झ प्पमाअ-क्खलणं॥ १७॥

(अवधार्य चिरं भण त्वमेवामुक्‍तरोषापि स्फुटम्।
किं चिन्तयित्वेदं भवेत् त्वयि मम प्रमाददस्खलनम्॥)

(९) नानाविधवर्णनावाक्यानि (चित्रचाटूक्तयः/) चाटुक्तयः, यथा—(अमरु. ८१)

कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुर्लग्‍न: कण्ठे तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे! न तु वयम्॥ १८॥

कृतप्राया रात्रिः कृशतनु शनैर्येन विनमन् प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव।
प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो कुचप्रत्यासत्त्या हृदयमपि ते चण्डि! कठिनम्॥ १९॥

१. क्ष्ववीक्षि सुभगे = क्षि साक्षिवदके(ने)—राघवः, क्षि चित्रिपटके—जोशे., मूलमस्मदुपकल्पितं पूर्वार्धगतं वस्तु समाश्रित्य। (१०) विप्रियेषु काऱणान्तरोपन्यासः स्खलितगोपनानि, यथा—

जं पि अलिओपआरं वरस्स दक्खिण्णआए घेप्पइ हिअअं।
जइ सो वि सिणेहो च्चिअ ण णाम संभाव-कइअवाणं विसेसो॥ २०॥

(यदपि अलीकोपचारं वरस्य दक्षणपादे क्षिप्यते हृदयम्।
यदि सोऽपि स्नेह एव, न नाम सम्भावकैतवानां विशेषः॥)

अक्खंडिए वि पणए अकअंमि वि विप्पए अकज्जे वि मज्झ।
जाअं चिअ वअणिज्जं तुह रोसंमि दहइ णिमित्तं पि पिअं॥ २१॥

(अखण्डितेऽपि प्रणये अकृतेऽपि विप्रिये अकार्येऽपि मम।
जातमेव वचनीयं तव रोषे वदने निमित्तमपि प्रियम्॥)
(हरिवि.)

(११) पादपतनं प्रणिपातः, यथा—(हरिवि.)

तो इअ सुरअरु-कारण-मउलिअ-हिअआए सावसेस-लहुओ।
संभाविअ च्चिअ हिओ हरिणा पाअपडणाम्मि तीए अमरिसो॥ २२॥

(तत इति सुरतकारणमुकुलितहृदयायाः सावशेषः अथ लधुकः।
सम्भावित एव हृतो हरिणा पादपतने तस्या अमर्षः॥)

तीए हिअआणुचिंतिअमणोरहब्भहिअ—संगमसुहाए हरी।
पहसि रो वि दोहि करेहि पडिरुब्भंत्तमउडो गओ च्चिअ चलणे॥ २३॥

(तस्याः हृदयानुचिन्तितमनोरथाभ्यधिकं सङ्गमसुखाय हरिः।
प्रहसनशील एव द्वाभ्यां कराभ्यां प्रतिरुध्यामानमकुटो गत एव चरणयोः॥)
(हरिवि.)

(१२) प्रियप्रणामविगमनहेतवः प्रियोत्थापनानि, यथा—(हरिवि.)

तो से रुब्भंत च्चिअ हिअअविअंभंतहरिसवेउच्छलिआ।
पाअपडिअस्स हरिणो पडिआ पुट्ठीएँ वाहसलिलत्थेवा॥ २४॥

(ततस्तया रुध्यमाना एव हृदयविजृम्भमाणहर्षवेगोच्छलिताः।
पादपतितस्य हरेः पतिताः पृष्ठे बाष्पसलिलबिन्दवः॥)

तीए अणुरआ-पसरिअ-सुहपठिवज्झंत-वहल-पुलउब्भेओ।
उव्वासिअ-सहरिसुग्गारो दूरोणमिअ-सवत्तिहिआए॥ २५॥

(१३) बाष्पापनयनम् अश्रुप्रमार्जनं, यथा—(गास. ७०६ वे.)

अवसर रोत्तुं चिअ णिम्मिआइँ मा पुससु मे हअच्छीइं।
दंसणमेत्तुम्मइएहिं जेहिं सीलं तुह ण णाअं॥ २६॥

(अपसर! रोदितुमेव निर्मिते मोत्पुंसय मे हताक्षिणी।
दर्शनमात्रोन्मत्ताभ्यां याभ्यां शीलं तव न ज्ञातम्॥)

जह जह से परिउंबइ मण्णुब्भरिआइं णिहुवणे दइओ।
अच्छीइं उवरि उवरि तह तह भिण्णाइं विगलंति॥ २७॥

(यथा यथास्याः परिचुम्बति मन्युभरितानि निधुवने दयितः।
अक्षीणि उपर्युपरि तथा तथा भिन्नानि विगलन्ति॥ )
(सक. ५. २१५)

(१४) उद्धृतमानलेशो मानशेषः, यथा—(माघ. १०.३६)

आननैर्विचकसे हृषिताभिः वल्लभनाभि तनूभिरभावि।
आर्द्रतां हृदयमाप च रोषो लोलति स्म वदनेषु वधूनाम्॥ २८॥

माने म्लायति रक्ततां विरलयत्यच्छे कपोलस्थले याते बाष्पभरोपरोधसुभगे किञ्चन्मुखे स्मेरताम्।

पत्युः पादनतस्य कोमलकरेणाकर्षतः सस्पृहं मानिन्या करुणस्पृहेऽप्यनुनये नाकुञ्चितो नार्पितः॥ २९॥

(१५) व्यलीकानुचिन्तनम् अपराधस्मरणं, यथा—(द्र. ३०.७५ अपि पृ. १३३३)

तक्खणअणइअपहरिससंभरिअवरोह संगलत्ताणं सअंतीए।
गरुअंणि संमलगओ(णि)अत्तं पिअमरिस च्चिअ हिअअं॥ ३०॥

उग्गाहिअ—पम्मट्ठं खणसंभरिआवराह—लब्भिअलज्जं।
खलंत-महु-मअ-सुहअं अपरिप्फु़ड-जंपिअं विलासवईणं॥ ३१॥

(उदग्राहितहृदयप्रस्मृतं क्षणसंस्मृतापराधलब्धलज्जंम।
स्खलन्मधुमदसुभगमपरिस्फुटजल्पितं विलासवतीनाम्॥)

(१६) मानविमनस्कता (प्रेमवैमनस्यं /) मानवैमनस्यानि यथा—

दूसहकआवराहं अवराहे वि गरुए पसाहाहिमुहं।
अप्पच्छंदपअत्तं पिअं च पेम्मं च दोण्णि वि हु उच्चंति॥ ३२॥

(दुस्सहकृतापराधं अपराधेऽपि गुरुके प्रसादाभिमुखम्।
आत्मच्छन्दःप्रवृत्तं प्रियं च प्रेम च द्वयोरपि जुगुप्सन्ते॥)

दुरगअम्मि णिअत्तइ दुरणिवुत्तं पुणो पअत्तइ पेम्मं।
कह होइ परिणामो माणस्स णमो महंति विमुहिज्जंति॥ ३३॥

{दूरगते निवर्तते दूरनिवृत्तं पुनः प्रवर्तयति माम्।
कथं भवति परिणामो मानस्य णमो ममेति विमुह्यन्ति॥}

(१७) कचुप्रकम्पनं स्तनाकम्पः, यथा—

कृशासि त्वं कस्मात् प्रकृतिरियमङ्गस्य ननु मे किमङ्गे सूत्रत्वं गुरुजनकृतो पाव/ सकतया।
न मे दोषः कश्चिन्नहि नहि नहीत्येवमुदिता स्तनोत्कम्पं बाला प्रियहृदि निपत्य प्ररुदिता॥ ३४॥

परावृत्त्या शेते कलयति च कम्पस्स्तनतटीं न सन्धत्ते वाचः स्फुरति च वरं वक्तुमधरः।
विरुद्धान्यङ्गानि श्लथकरणमास्तेऽथ च वपुः सकोपस्तन्वङ्गग्या मनसिजविलासो विजयते॥ ३५॥

(१८) मानहानौ निःश्वसितानि माननिःश्वसितानि, यथा—

तीए विअलंतधीरं अब्भुट्ठंतीए खण-पहोलिर-वाहं।
दूरोसरंत-सरणं दूरअर-वलग्ग-वेअणं णीससिअं॥ ३६॥

(तया विगलद्धैर्यमभ्युत्तिष्ठन्त्या क्षणप्रघूर्णनशीलबाष्पम्।
दूरापसरत्स्स्मरणं दूरतरावलग्‍नवेदनं निःश्वसितम्॥)

मणंसिणीए अहिणवमइरामोअ—पडिवद्धवम्महपसरं।
दइअ-जण-दिण्ण-णअणं विअलिअ-धीरलहुअं चिरं णीससिअं॥ ३७॥

(मनस्विन्या अभिनवमदिरामोदप्रतिबद्धमन्मथप्रसरम्।
दयितजनदत्तनयनं विगलितधैर्यलघुकं चिरं निःश्वसितम्॥)

(१९) मानापगमादनुरागवृद्धौ (स्वेदरोमाञ्चौ/) सात्त्विकाविर्भावः, यथा—

णवविरअ-करावलंबण-सुह-पठिवज्जंत-स्सेअ-पुलउग्गमो।
सच्चा/ भामा ता च्चिअ अकिअउब्बरिअं पि पिअअमं अल्लीणा॥ ३८॥

(अनन्तरं च करावलम्बनसुख-प्रतिपद्यमानः स्वेदपुलकोद्‌गमः।
सत्या/ भामा तावदेव च अलीकोद्भूतमपि प्रियतममालीना॥)

ग्रन्थिमुद्‌ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः।
भ्रूयुगेन सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः॥ ३९॥

(माघ. १०.६३)

(२०) तद्वदेव कपोलोष्ठस्फुरणानि कपोलोष्ठस्पन्दनानि, यथा—(गास. ६.१८)

बाहोल्लफुरिअ—गंडाहराएँ भणिअं विलक्खहसिरीए।
अज्ज वि किं रूसिज्जइ सवहावत्थं गए पेम्मे॥ ४०॥

(बाष्पार्द्रस्फुरितगण्डाधरया भणितं विलक्षहसनशीलया।
अद्यापि किं रुष्यते शपथावस्थां गते प्रेम्णि॥)

आअंबंतकवोलं खलिअक्खरजंपिरिं फुरोतट्ठिं।
मा छिवसु त्ति सरोसं समोसरंतिं पिअं भरिमो॥ ४१॥

(आताम्रान्तः कपोलां स्खलिताक्षरजल्पनशीलां स्फुरदोष्ठीम्।
मा स्पृशेति सरोषं समपसरन्तीं प्रियां स्मरामः॥)

(गास. २.९२)

(२१) मुखस्य मानकालुष्यापगमो मुखप्रसादः, यथा—

आलोइअ च्चिअ पिए ठविओ तीए मअणेण मोहणसुहओ।
कुसुमधणुम्मि वि बाणो वलइअ-विब्भमगुणे मुहम्मि पहरिसो॥ ४२॥

{आलोकित एव प्रिये स्थापितः तस्या मदनेन मोहनसुभगः।
कुसुमधनुष्यपि बाणो (व)लयितविभ्रमगुणे मुखे प्रहर्षः॥}

थोओसरंतरोसं थोअत्थोअपरिवड्ढमाण-पहरिसं।
होइ अ दूरपसाअं उहअ-रसाअत्तविब्भमं तीएँ मुहं॥ ४३॥

(स्तोकापसरद्रोषं स्तोकमुखस्तोकपरिवर्धमानप्रहर्षम्।
भवति च दूरप्रसादं उभयसायत्तविभ्रमं तस्या मुखम्॥)
(हरिवि.)

(२२) तत्प्रत्यायनानि व्याजशपथाः, यथा—(रत्‍‍ना. ४.१)

सव्याजैर्वचनैः प्रियेण वचसा चित्तानुवृत्त्याधिकं वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां मुहुः।

प्रत्यापत्तिमुपागता मयि तया देवी रुदत्या यदा प्रक्षाल्यैव तयैव बाष्पसलिलै कोपऽपनीतः स्वयम्॥ ४४॥

मुहुरविशदाः प्रेमप्रह्वा मुहुर्मुहुरस्थिराः मुहुरसरला विस्त्रम्भार्द्रा मुहुः स्मृतमन्यवः।
वितथशपथोपालम्भाङ्का मुहुः कृतसन्धयः परिववृधिरे निष्पर्यन्ता मिथो मिथुनोक्तयः॥ ४५॥

(२३) प्रेमार्द्रकोपवज्ञालोका वक्रवीक्षितानि, यथा—(अमरु. ४९)

दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूलतम्।
मानिन्याश्र्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणा— च्चक्षुर्जातमहो प्रपञ्चमधुरं जातागसि प्रेयसि॥ ४६॥

माने मानमुपेयुषि स्वभवनं द्वारावसक्ताङ्गया किञ्चित्कम्पितमन्थरोरुयुगया व्रीडावनम्रभ्रुवा।
बाष्पाम्भः कणपूरपूरितदृशा गच्छत्पुरोरथ्यया मानिन्या कृतविप्रियः प्रियतमस्तिर्यक्छनैरीक्षितः॥ ४७॥

(२४) व्यलीकोद्‌घट्टनमुपालम्भः, यथा—(हरिवि.)

सा कुसुमेहिं गरुइआ मह वि कओ सुहअ दंसणेण पसाओ।
कहअण पसाअसद्दो लगउ पिआहिअअस्स इमस्स तुहं॥ ४८॥

{सा कुसुमैः गुरूकृता ममापि कृतः सुभग दर्शनेन प्रसादः।
कथंचन प्रसादशब्दः लगतु प्रियाहृदयस्य चास्य तव॥}

सहिअं माणक्खलणं णाओ पडिपक्ख—विहाअस्सव्वणरसो।
सहिओ तुह (तुह) विओओ मा लज्जसु सुहअ लज्जिअव्वम्मि मए॥ ४९॥

(सोढं मानस्खलनं ज्ञातः प्रतिपक्षविभातस्सव्रणरसः।
सोढस्तव वियोगो मा लज्जस्व सुभग! लज्जितव्यं हि मया॥)

(२५) वचनस्य प्रतिवचनानि प्रत्युत्तराणि, यथा—

कान्ते! नाथ! विमुञ्च मानिनि! रुषं रोषान्मया किं कृतं, खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि।
तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते॥ ५०॥

किं गौरि मां प्रति रुषा, ननु गौरहं किं, कुप्यामि कां प्रति ममेत्यनुमानतोऽहम्।
जानाम्यतस्त्वमनुमानत एव सत्य इत्थं गिरो गिरिभुवः कुटिला जयन्ति॥ ५१॥

(रुद्रटका. २.१५) (२६) मानशल्योद्धरणमवज्ञाभ्रंशः, यथा—

हरिस—विअसंत—वअणं कवोल—अल—संगलंत—पुलउब्भेअं।
अप्पसाहिअं पि जाअं पसाहिअब्भहिअ—मणहरं तीए मुहं॥ ५२॥

(हर्षविकसद्‌वदनं कपोलतलसङ्कलत्पुलकोद्भेदम्।
अप्रसाधितमपि जातं प्रसाधिताभ्यधिकमनोहरं तस्या मुखम्॥)

(हरिवि.) णिम्मविअसंधिअम्मा ताव अ दूरपदिबद्ध—वम्महप्पसरा।
गरुअं सुरउच्छाअं दाऊण सहि व्व ज्जामिणीं तीएँ गआ॥ ५३॥

(निर्मापितसन्धिकर्मा तावच्‍च दूरप्रतिबद्धमन्मथप्रसरा।
गुरुकं सुरतोत्साहं दत्वा सखीव यामिनी तस्या गता॥) (हरिवि.)

(२७) गाढानुरागप्रकाशः१ प्रेमाविर्भावः, यथा—

सोत्कण्ठं सरसागति प्रियतमे पादानतिं वाञ्छति स्मृत्वा मन्युविनिर्गताश्रुचरणे क्लिष्टे तदभ्युद्‌गमात्।
तं चाधूनति मर्मणा विदधते दृष्ट‍्वा पुनः कान्तया प्रेमच्छेदभिया कृतः प्रणतये पादार्पणानुग्रहः॥ ५४॥

अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुभे मृगाक्ष्या।
कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि॥ ५५॥

(माघ. ९.८३) १. ‘प्रकाशः = प्रणाश’ इति रा. (२८) प्रियानुगमनचिह्नानि प्रेमालिङ्गनानि, यथा—(गास. १.८७)

अवलंबिअ—माण—परंमुहीए एंत्तस्स माणिणि पिअस्स।
पुट्ठिपुउलउग्गमो से/तुह कहेइ संमुहठ्ठिअं हिअअं॥ ५६॥

(अवलम्बितमानपराङ्मुख्या प्राप्‍तस्य मानिनी प्रियस्य।
वर्धितपुलकोद्गमा हे कथयति सम्मुखस्थितं हृदयम्॥)

विविधविलसद्भावाकूता तनुस्मरघूर्णिता निबिडपुलका गाढाश्लेषं बलादभिवाञ्छति।
नयनविषयं याते तस्मिन् विचारविधिक्रियां त्यजति हृदयं कोपस्तस्मिन् जने सखि! कीदृशः॥ ५७॥

(२९. प्रियोपरोधः)

प्राणोशश्चरणानतो दयितया नोपेक्षितो नेक्षितः।
( ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰)॥ ५८॥

तीए विअलंतधीरं अब्भुट्‌ठंतीए खणपहोलिबाहं।
दूरोसरंतसरणं दूरअरवलग्गवेअणं णीससिअं॥ ५९॥

(द्र.पृ. १२०७) (तया विगलद्धैर्यमभ्युत्तिष्ठन्त्या क्षणप्रघूर्णनशीलबाष्पम्।
दूरापसरत्स्मरणं दूरतरवलग्‍नवेदनं निःश्वसितम्॥)

(३०) रतेरतिप्रकर्षः श्रृङ्गारवृद्धिः, यथा—(हरिवि.)

घेप्पंति अप्पण च्‍चिअ कआवराहाहिं कामिणीहिं पिअअमा।
किं इअ सिक्खावेंतो अवरिज्झइ पिअं करोइ महुमओ॥ ६०॥

(गृह्यन्त आत्मनैव कृतापराधाभिः कामिनीभिः प्रियतमाः।
किमिति शिक्षयन् अपराध्यति? प्रियं करोति मधुमदः॥)

आयातः कृतविप्रियः प्रियसखीदत्तापजापश्चिरात् स्मृत्वा चाटु ससाध्वसं निपतितः प्राप्‍तान्तरः पादयोः।
न श्लिष्टः स रुषा न चापि विरहक्लिष्टात्मना भर्त्सितो मानिन्या नयनाम्भसेव पतता किं नाम नोक्तः प्रियः॥ ६१॥

(३१) बलात् केशग्रहणं हठकचग्रहः, यथा—

उग्गाहिअं ण भणिअं हिअए चिरचिंतिअं पि राअपरिणामं।
माणंसिणीए पिअअम—सरहस—कअ—ग्गहिअंमि माणग्गहणे॥ ६२॥

(उद्‍ग्राहितं न भणितं हृदये चिरचिन्तितमपि रागपरिणामम्।
मनस्विन्या प्रियतमरभसकचगृहीते मान—ग्रहणे॥)

सकअग्गहरहसुत्ताणिआणणा पिअइ पिअमुह—विइण्णं।
थोअं थोअं रोसोसहं व माणंसिणी मइरं॥ ६३॥

(सकचग्रहरभसोत्तानितानना पिबति प्रियतमवितीर्णाम्।

स्तोकं स्तोकं मानौषधमिव मनस्विनी मदिराम्॥)

(गास. ६. ५०) (३२) बलादालिङ्गनं प्रसह्याश्लेषः, यथा—

लंभ/रोसपुसिआवराहो रहसालिंगण-विइण्ण-वम्मइ-प्पसरो।
होइ रमिअव्वजोग्गो दइअ-बलामोडि-चुंबिओ जुअइजणो॥ ६४॥

(लम्भप्रोञ्छितापराधो रभसालिङ्गनवितीर्णमन्मथप्रसरः।
भवति रमितव्ययोग्यो दयितबलात्कारचुम्बितो युवतिजनः॥)

अग्घइ वलंतधीरं दइअहठालिंगआण णअणचुंबिअं।
विसमपरिअट्टिअमुहं समुहवलंतहिअअं विलासवईणं॥ ६५॥

(अ/र्घति वलमानधैर्यं दयितहठालिङ्गितानां नयनचुम्बितम्।
विषमपरिवर्धितमुखं संमुखवलद्ध‍ृदयं विलासवतीनाम्॥)

(३३) हस्तेनाभिघातः पाणिताडनम्, यथा—(लीलावती)

मुधे वपवेविरंगुलि-णह-मुह-सिप्पंत-सेय-सलिलेण।
हत्थुल्लएण हत्थअलेणं माणिणि मा हणसु पिअं तुलिज्जिहिसि॥ ६६॥

(मुग्धे! प्रवेपनशीलाङ्गुलिनखमुखसिच्यमानस्वेदसलिलेन।
हस्तार्द्रेण हस्ततलेन मानिनि! मा जहि प्रियं तुलयिष्यसि॥)

एक्कं पहरुगव्विण्णंअं हत्थं मुहमारुएण वीअंतो।
सो वि हसंतीए मए गहिओ वीएण कंठम्मि॥ ६७॥

(गास. १.८६) (एकं प्रहारोद्विग्‍नं हस्तं मुखमारुतेन वीजयन्।
सोऽपि हसन्त्या मया गृहीतः द्वितीयेन कण्ठे॥)

(३४) चरणाहतिः पादाभिघातः, यथा—

चरणाहअस्स पइणो पुलइअ मत्थालअं पुलोअंती।
सवइ सकज्जल-बाह-च्छलेण माणंसिणी माणं॥ ६८॥

(चरणाहतस्य पत्युः पुलकितमस्तालकं प्रलोकयन्ती।
स्रवति सकज्जलवाष्पच्छलेन मनस्विनी मानम्॥)

मनसिजसरसीविकासिपद्मः प्रियतमौलिविलोलनैकदक्षः।
प्रणयज-कलहेषु वामपादो जयति रणन्मणिनूपुरः प्रियायाः॥ ६९॥

(३५) प्रियकदर्थनं दयितयातना, यथा—(रघु. १९.१७)

अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम्।
मेखलाभिरसकृच्‍च बन्धनं वञ्चयन् प्रणयिनीरवाप सः॥ ७०॥

कोपात् कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः।
भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदत्या हसन्॥ ७१॥ (अमरु. ९)

(३६) अनुनयावधीरितकान्तोपच्छन्दनं (प्रत्यनुनयः/)प्रत्यायनम्, यथा—

प्रेयान् सोऽयमपाकृतस्सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद् यावन्न यात्युन्मनाः।
तावत् पाणिसरोजसम्पुटलसन्नीवीनिबद्धं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः॥ ७२॥

कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा।
कोपितं विरहखेदितचेतो कान्तमेव कलयत्यनुनिन्ये॥ ७३॥

(माघ. १०.२९) (३७) स्‍नेहवामता प्रेमवैकृकतानि, यथा—(गास. ७.७५)

अत्थक्‍करूसणं खण-पसिज्जणं अलिअ-वअण-णिब्बंधो।
उम्मच्छरसंतावो पुत्तअ! पअई सिणेहस्स॥ ७४॥

(आकस्मिकरोषणं क्षणप्रसादनमलीकवचननिर्बन्धः।
उन्मत्सरसंतापः पुत्रक! पदवी स्‍नेहस्य॥)

कथमपि सखि! क्रीडायोगाद् व्रजेति मयोदितः कठिनहृदयः शय्यां त्यक्त्वा बलाद् गत एव सः।
इति सरभसग्रस्तप्रेम्णि व्यपेतदये स्पृहां पुनरपि हतव्रीडं चेतः करोति करोमि किम्॥ ७५॥

(अमरु. १५) (३८) मानापगमाद् व्रीडायोगो लज्जागमः, यथा—(सक. ५.३२२)

थोआरूढमहुमआ खणपम्हट्ठावराह—दिण्णुल्लावा।
हसिऊण संठविज्जइ पिएण संभरिअलज्जिआ का वि पिआ॥ ७६॥

(स्तोकारूढमधुमदा क्षणप्रस्मृतापराधदत्तोल्लापा।
हसित्वा संस्थाप्यते प्रियेण संस्मृतलज्जिता कापि प्रिया॥)

करजदशनचिह्नं नैशमङ्गेऽन्यनारीजनितमिति सरोषादीर्ष्यया शङ्कमानाम्।
स्मरसि न खलु दत्तं मत्तयैतत् त्वयैवेत्यनुनयति नवोढां लज्जमानां विलासी॥ ७७॥

(माघ. ११.३७)

(३९) मानवति शोभा मानरामणीयकानि, यथा—

भवतु रुषि कठोरा किन्तु रम्या मृगाक्षी निरुपधिमधुराणां स्वादवोऽमी विकाराः।
श्रयति कठिनभागश्शुक्तिपात्रेष्वपो याः क इव न बहुमानस्तासु मुक्ताः फलान्ताः॥ ७८॥

सोद्योगस्य स्खलितवचसो यत्‍नसंस्तम्भिता श्रीः सावेगस्य श्रमजलभृतो निर्णिमित्तस्मितस्य।
भूयो भूयः कृतकघटितभ्रूलताभङ्गकेतो— र्मानस्यास्या रहसि कथितापह्नुतस्यास्ति नार्घः॥ ७९॥

(४०) सखीरहोवृत्तान्तवर्णनं विस्त्रम्भसम्भाषा, यथा—(अमरु. १५५)

सख्यास्तानि वचांसि यानि बहुशोऽधीतानि युष्मन्मुखाद् वक्ष्येऽहं बहुशिक्षिता क्षणमिति ध्यात्वास्मि मानं गता।
धूर्तेनेत्यथ मण्डलीकृतकुचं गाढं समालिङ्ग्य मां पीतान्येव सहाधरेण हसता चक्षुः/वक्त्र—स्थितान्येव मे॥ ८०॥

कोपानिर्वहणात् तथैव शयने पर्यस्य मौनव्रतै— र्न स्थातुं क्षमया बलाद् विवलनप्रत्युत्सुके चेतसि।
मिथ्यामीलितलोचनं सरभसव्यावृत्तमुक्ता (ऽलकं निर्नि)द्रोऽचलना१ किल प्रियतमो रात्रौ मयालिङ्गितः॥ ८१॥

१. ॰ ॰ द्रावलयेति रा. जो.। मूलमस्मदुकल्पितम्। (४१) मानधारणसामर्थ्यं (मानासक्‍तिः/) मानशक्तिः, यथा—(गास. २.९५)

केलिए वि रूसेउँ ण तीरएँ तस्मि चुक्‍कविणअम्मि।
माए जाइअएहिं व इमेहिं अवसेहिं अंगेहिं॥ ८२॥

(केल्यापि रुषितं न शक्यते तस्मिन् च्युतविनये।
मातः! याचितकैरिवैभिरवशैरङ्गैः॥)

अच्छीइँ ता थइस्सं दोहि वि हत्थेहि तस्मि दिट्ठम्मि।
अंगं कलंब/ कुसुमं व पुलइअं कहं णु ढक्‍किस्सं॥ ८३॥

(अक्षिणी तावत् स्थगयिष्यामि द्वाभ्यामपि हस्ताभ्यां तस्मिन् दृष्टे।
अङ्गं कदम्ब/कुसुममिव पुलकितं कथं नु च्छादयिष्यामि॥)

(गास. ४.१४) (४२) मानापगमेऽपि मानलिङ्गाविष्करणं मानप्रतिपादनम्, यथा—

स्फुटो वाच्यो रोषः स्फुरति परितोषो नयनयो— र्विभुग्‍ने भ्रूलेखे विकसति कपोलस्थलमिदम्।
मुखं तिर्यक्प्रीतिं गमयति च रोमाञ्चनिचयः प्रिये दुस्सम्पादा कृतककुपितस्य स्थितिरियम्॥ ८४॥

सा यावन्ति पदान्यलीकपिशुनैरालीजनैः पाठिता तावन्त्येव कृतागसो द्रुततरं संलप्य पत्युः पुरः।
प्रारब्धा परितो यथा मनसिजस्येच्छा तथा वर्तितुं प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः॥ ८५॥

(४३) मानहानौ वयस्या नर्म सखीपरिहासः, यथा—

॰ ॰ ॰ चेतसि वर्तते स्तनचक्रं ॰ ॰ ॰।
विशालाक्ष ॰ ॰ ॰ ते (स्) सखि पदाङ्कितम्॥ ८६॥

इदमम्लानमालाया लग्‍नं स्तनतटे तव।
छाद्यतामुत्तरीयेण नवं नखपदं सखि॥ ८७॥

(काव्याद. २.२८९) (४४) मानपश्चात्तापो मानानुशयः, यथा—

अगहिअदइआणुणओ पच्छआणुणेइ अणुसअवीसंवलिओ।
कइअवणिरूविअमअणलहुइओ जुअइजणो॥ ८८॥

(अगृहीतदयितानुनयः पश्‍चादनुननयति अनुशयविसंवलितः।
कैतवनिरूपितमदनलघूकृतो युवतिजनः॥)

पाअपडिओ ण गणिओ पिअं भणंतो वि अप्पिअं भणिओ।
गच्छंतो वि ण णिरुद्धो भण कस्स कए कओ माणो॥ ८९॥

(गास. ५.३२) (पादपतितो न गणितः प्रियं भणन्नप्यप्रियं भणितः।
गच्छन्नपि न निरुद्धो भण कस्य कृते कृतो मानः॥)

(४५) मानजुगुप्सा माननिन्दा, यथा—

उत्क्षेपो हृदये, स्खलन्ति वचनान्यावेगलोलं मनो गात्रं सीदति चक्षुरश्रुकलुषं कण्ठोऽवरुद्धस्वरः।
यस्यैषा सखि! पूर्वरङ्गरचना मानः स मुक्तो मया वन्द्यास्ता अपि योषितः क्षितितले यासामसौ सम्मतः॥ ९०॥

णइपूरसच्छहे जोव्वणम्मि दिअहेसु णिच्चपहिएसु।
अणिअत्तासु अ राईसु पुत्ति किं दड्ढमाणेण॥ ९१॥

(नदीपूरसदृक्षे यौवने दिवसेषु नियतिप्रहितेषु।
अनिर्वृतासु च रात्रिषु पुत्रि! किं दग्धमानेन॥ )
(गास. १.४५)

(४६) मानस्यानुस्मरणं मानानुचिन्तनं, यथा—(गास. २.८)

चलणोआस—णिसण्णस्स तस्स भरिमो अणालवंतस्स।
पाअंगुट्ठावेढिअकेसदिढाअड्‍ढणसुहेल्लिं॥ ९२॥

(चरणावकाशनिषण्णस्य तस्य स्मरामोऽनालपतः।
पादाङ्गुष्ठावेष्टितकेशदृढाकर्षणसुखकेलिम्॥)

भरिमो से सअण-परम्मुहीए विअलंत-माण-पसराए।
कइअव-सुत्तुव्वण-थण-कलस-प्पेल्लिण-सुहेल्लिं॥ ९३॥

(गास. ४.६८) (स्मरामस्तस्याः शयनपराङ्गमुख्या विगलन्मानप्रसरायाः।
कैतवसुप्‍तोद्वृत्तस्तनभरोत्प्रेरणसुखकेलिम्॥)

(४७) मानभङ्गो मानप्रध्वंसः, यथा—(अमरु. २३)

एकस्मिञ्छयने पराङमुखतया वीतोत्तरं ताम्यतो— रन्योन्यं हृदयेप्सितेऽप्यनुनये संरक्षतोर्गौरवम्।
पश्चादाकुलयोरपाङ्गवलनान्मिश्रीभवच्चक्षुषो— र्भग्‍ना मानकलिः सहास—रभस—व्यासक्त—कण्ठग्रहैः॥ ९४॥

अण्णोण्ण-च्छल-पेसिअ-तुलग्ग-मेलीण-दिठ्ठि-पसराइं।
दों वि वणे तह कअभंडणाइ समअं पहसिआइं॥ ९५॥

(अन्योन्यच्छलप्रेषित—तुलाग्रमिलितदृष्टिप्रसरौ।
द्वावपि वने तथा कृतकलहौ समकं प्रहसितौ॥) (गास. ७.९९)

(४८) प्रध्वस्तमानस्य पुनरदुद्‍गमो मानपुनर्भावः, यथा—

माननिरोधाधार त्वं गच्छ शिवास्ते भवन्तु पन्थानः।
अमुना बद्धाञ्जलिना हृदयमशेषं निपीतं मे॥ ९६॥

चूए चडेविणु क्काइलइं पउं पि उग्गुटअं।
(तं तहा पतिअं) तरुणीअणे जं जंमे वि पम्मुत्ता॥ ९७॥

(चूते आरुह्य कोकिलया एवमपि उदघुष्टम्।
तत् तथा पतितं तरुणीजने यद् जन्मन्यपि प्रमुक्‍ता॥)

मानानन्तर इत्येष सम्भोगस्य च वर्णितः।
प्रवासानन्तरस्यास्य स्वरूपमुपवर्ण्यते॥ ९८॥

(२)

तत्र रतिप्रकर्षनिमित्ताभिलषणीयालिङ्गनाद्यवाप्‍तिहेतवः प्रियागमनवार्ताप्रिय— सखीवाक्यादयः सम्भोगशब्दवाच्या भवन्ति।

कः पुनरत्र समासः ? षष्ठीतत्पुरुष एव।

का वृत्तिः ? न तावदनुत्सृष्टस्वार्था।

तर्हिं भवतु युक्तं पुनर्यदुत्सृष्टस्वार्था नाम वृत्तिः स्यात् ?

बाढं, युक्तम्। एवं हि दृश्‍यते लोके पुरुषोऽयं परकर्मणि प्रवर्तमानः स्वकर्मोत्सृजति, तद्यथा—‘तक्षा राजकर्मणि प्रवर्तमानस्तत्कर्मोत्सृजति’।

नन्वेवं सति राजपुरुषमानयेत्युक्ते पुरुषमात्रस्य आनयनं प्राप्‍नोति।

नैव दोषः। उत्सुजन्नप्यसौ स्वार्थं नात्यन्तायोत्सृजति। यः परार्थविरोधी स्वार्थस्तमेवोत्सृजति। तदयथा—तक्षा राजकर्मणि प्रवर्तमानस्तक्षकर्मोत्सृजति, न हीक्षितहसितकण्डूयितानि। न चायमर्थः परमार्थविरोधी। विशेषणं नाम (तत्) तस्मान्नोत्सृजति। अस्तु वा स्वार्थस्यात्यन्तमुत्सर्गः समर्थधिकारो वृत्तौ क्रियते तत्र राज्ञ इत्युक्ते सर्वस्वं प्रसक्तं, पुरुष इत्युक्ते सर्वस्वामी प्रसक्तः।

इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुषं निवर्तयत्यन्येभ्यः स्वामिभ्यः पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः।

एवमेतस्मिन्नुभयतो व्यवच्छिन्ने यदि राजार्थो निवर्तते कामं निवर्ततां न जातुचित् पुरुषमात्रस्यानयनं भविष्यति, प्राक्प्रवृतेरकृतार्थस्य निवृत्तौ वृत्तिरेव न स्यात्, वृत्तिनिमित्ता च निवृत्तिस्तस्माद्दोष इति।

किं पुनरिदं सामर्थ्यं नाम ? भेदः, संसर्ग उभयं वा। तत्र राज्ञः पुरुष इत्यत्र यदा तावदेतदवधृतं परायत्तवृत्तिरयं पुरुषो न स्वतन्त्रस्तदा स्वामिसंसर्गस्यावगतत्वात् स्वामिविशेषज्ञानायोपादीयमानो राजशब्दः स्वाम्यन्तरेभ्यः पुरुषं स्वावर्तयति, सोऽयं स्वाम्यन्तरव्यवच्छेदो भेद इत्युच्यते। यदा पुनरनवगतपरायत्तभावस्य पुरुषस्य स्वामिसम्बन्धद्योतनाय राजशब्दः प्रयुज्यते तदा विशेषसंसर्गस्य शब्दोपादानत्वादन— वकाशो विशेषान्तरे सम्पात इत्यशब्दास्वाम्यन्तरनिवृत्तिरर्थादवसीयते, यदा त्वर्थान्तरानिवृत्तिः स्वार्थासंसर्गं चाक्षिसन्धाय उपसर्जनपदप्रयुज्य . . . . . . शब्दार्थसामर्थ्ययोः प्रतिपत्तिनिबन्धनयोरभेदापेक्षायां भेदसंसर्गसमुदायः सामर्थ्यं भवति।

तत्रेह भेद एव सामर्थ्यं यतोऽनन्तर इत्युक्ते अवधृतमिदं कस्याप्यवधेरनन्तरं, न स्वतन्त्र इति समस्तो विधिप्रसक्तः प्रवासस्येत्युक्ते सर्वः सम्बन्धप्रयुक्त इहेदानीं प्रवासानन्तरं इत्युक्ते प्रवासोऽनन्तरं निवर्तयत्यन्येभ्योऽप्यवधिभ्यः अनन्तरं प्रवासयन्निवर्तत्यन्येभ्यः सम्बन्धिभ्यः, तत्र योऽसौ भेद: तत्सामर्थ्यं, तन्निवृत्ता च वृत्तिः। भेदानिमित्तायां च वृत्तौ सत्यां प्रत्यभिमुखस्य भेदमुपजनयन्नुपसर्जनस्यार्थो निवर्तते, यस्यापि प्रधानस्यान्तरावधिमतो निवर्तते सोऽपि अवधिमवच्छिनन्ति। एवमुभयतोऽप्यवच्छेदेन निर्ज्ञातेऽनन्तरविशेषे समुदायार्थे वान्यस्मिन् प्रादुर्भूते यदि प्रवासार्थो निवर्तते, कामं निवर्ततां, न जातु (तदवच्छिन्न) अवधिमात्रस्य सम्प्रत्ययो भविष्यति।

के पुनः प्रियागमनवार्तादयः?

(१) प्रियागमनवार्ता, (२) प्रियसथीवाक्यानि, (३) दिष्ट्या वृद्धयः, (४) प्रीत्यादयः, (५) सम्भ्रमः, (६) अभ्युत्थानं, (७) प्रियाभ्यागमः, (८) सन्दर्शनं( / शः), (९) प्रियाभ्युपपत्तिः, (१० ) परिजनप्रमोदः, (११) मङ्गलसंविधानं, (१२) मनःप्रहर्षः, (१३) उत्सवः, (१४) भवनप्रतिसंस्कारः, (१५) कार्श्याद्युपलम्भः (/ लब्धिः), ( १६) प्रहर्षोपचयः, (१७) प्रेमपुष्टिः, (१८) प्रसाधनग्रहणं, (१९) वृत्तानुस्मरणम्, (२० ) अवस्थानिवेदनं, (२१) दुःखादिपरिप्रश्र्न , (२२) देशसम्पदुपवर्णनं, (२३. स्वदुःखसङ्कीर्तनम्), (२४) श्रृङ्गारवृद्धिरिति। तेषु—

(१) प्रियागमोद्‌घोषणं प्रियागमनवार्ता, यथा—(हरिवि.)

अह आगओ त्ति णवरिअ अच्चासण्णो वि सच्चभामाएँ हरी।
परिअणमुह च्चिअ सुओ बाहजलंतरिअलोअणाएँ ण दिट्ठो॥ ९९॥

(अथ आगत इति नवरमत्यासन्नोऽपि सत्यभामया हरिः।
परिजनमुखादेव श्रुतो बाष्पजलान्तरितलोचनया न दृष्टिः॥)

कुड्डम्मि ओहि-वासर-रेहा-संगणण-मेत्त-वावारो।
विमणमुहीए णिअच्छसु को अणुवद्धिअस्स जणो मुच्चइ॥ १००॥

(कुड्‌येऽवधिवासररेखासङ्गणनमात्रव्यापारः ।
विमनस्कमुखि! पश्‍य कोऽनुपस्थितस्य मुच्यते॥)

(२) इष्टवयस्यानां मिथोव्यवहारः प्रियसथीवाक्यानि, यथा—

अच्चा/ त्तासमुग्घोसिअ-दइआगमणे णवबहूएँ इमीए।
पहरिस—णिरुद्धकंठत्थणिएणं गाढमुवगूढा॥ १०१॥

सहसा मा साहिज्जउ पिआगमो तीएँ विरहकिसिआए।
अच्चंतपहरिसेण वि जा मआ सा मअ च्चेअ॥ १०२॥

(पृ. ४४७) (सहसा मा कथ्यतां प्रियागमस्तस्याः विरहकृशायाः।
अत्यन्तप्रहर्षेणापि या मृता सा मृतैव॥)
(सक. ५.५४)

(३) प्रियागमपरितोषिकमङ्गलानि दिष्टया वृद्धयः, यथा—

घरकज्जेण वि जो चलइ जत्थ धावइ तहिं तहिं चेअ।
घरणीए ओहिदिअहे पद्धावइ संकिअं हिअअं॥ १०३॥

(पृ. १४५७) (गृहकार्येणापि यः चलति यत्र धावति तत्र तत्रैव।
वध्वा अवधिदिवसे प्रधावति शङ्कितं हृदयम्॥

अज्ज मह इमं सहि दाहिणेअरं पिअअमागमण-दूअं।
अवणिअखेअं बद्धाविआसि पप्फंदर अच्छी॥ १०४॥

(पृ. १४६२) (अद्य ममेदं सखि दक्षिणेतरं प्रियतमागमनदूतम्।
अपनीतखेदं वर्धापितासि प्रस्पन्दते अक्षि॥)

(४) पूर्णपात्रादिहरणं प्रीत्यादयः, यथा—

कइआतम्मिअइते सह सच्‍चिअपुल्लवल्हारिलसं।
घासअमिलिआओअणहोरणि अह्य कहिंति॥ १०५॥

को मं बद्धावेहिइ जस्स तुमं हरिस—विअसिअ—कओला।
तस्स तमं किं दाहिसि भणिऊण पिएण अवऊढा॥ १०६॥

(को मां वर्धापयिष्यति यस्य त्वं हर्ष—विकसितकपोला।
तस्य त्वं किं दास्यसि भणित्वा प्रियेणोपगूढा॥)

(५) समादरातिशयस्सम्भ्रमः, यथा—

आनन्दोद्‌गमबाष्पपूरपिहितं चक्षुः क्षमं नेक्षितुं बाहू सीदत एव कम्पविधुरौ शक्तौ न कण्ठग्रहे।
वाणी साध्वसगद्गदाक्षरपदा संक्षोभलोलं मनो यत्सत्यं प्रियसङ्गमोऽपि सुचिरादादौ वियोगायते॥ १०७॥

सहसा पत्तम्मि पिए समुग्गआणंद-वाह-पिहिअच्छी।
अज्झा सज्झसबहुला पअं पि दाउं ण पारेइ॥ १०८॥

(सहसा प्राप्‍ते प्रिये समुत्‍थितानन्दबाष्पपिहिताक्षी।
आर्या साध्वसबहुला पदमपि दातुं न पारयति॥)

(६) प्रत्युद्गमोऽभ्युत्थानम्, यथा—

प्रत्युद्गम्य तनूरुहोद्गतिवशात् खेदस्खलच्‍चेष्टया दत्वा स्वेदलवैः स्वहस्तपतितैः प्रक्षालनं पादयोः।
किञ्चित्स्मेरमुखप्रकीर्णदशनस्वच्छांशुपुष्पोज्ज्वलै— रानन्दाश्रुभिरर्घितो दयितया पान्थश्चिरादागतः॥ १०९॥

बाहजलोल्लिअलोअण थणय ण उप्पुसिअ।
ण वि दहि-अक्खअलइअ ण वंदणमाल किअ॥ ११०॥

हरिसारंभविअमिअपुलउक्कंपभर ।
पेक्खेवि कंतु पहुत्तउ लग्गी कंठे पर॥ १११॥

(बाष्पजलार्द्रिततलोचने स्तनौ न परिमार्जितौ।
नापि दध्यक्षताः गृहीताः न वन्दनमाला कृता॥

हर्षारम्भविजृम्भितपुलकोत्कम्पभरा
प्रेक्ष्य कान्तं प्राप्‍तं लग्‍ना कण्ठे पुनः॥)

(७) कमितुरागमनं प्रियाभ्यागमः, यथा—(हरिवि.)

उअ जाव सा किलम्मइ अप्प-क्कअ-विरह-वित्थरंतानुणुसआ।
ता पत्तो जह इच्छा तह णिव्वत्तिअमणोरहो महुमहणो॥ ११२॥

(पश्‍य यावत् सा क्लाम्यति आत्मकृतविरहविस्तीर्यमाणानुशया।
तावत् प्राप्‍तो यथेच्छा तथा निर्वर्तितमनोरथो मधुमथनः॥)

न खलु दूरगतोऽप्यतिवर्तते महमसाविति बन्धुतयोदितैः।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ॥ ११३॥

(माघ. ६.१९)

(८) प्रियावलोकनं सन्दर्शः (संदर्शनम्), यथा—

आणिअपुलउब्भेओ सअत्ति—पणअ—पडिधूसरंमि वि गरुए।
पिअदंसणे पवड्‍ढइ मण्णुट्ठाणे वि रुप्पिणीएँ पहरिसो॥ ११४॥

(आनीतपुलकोद्भेदः सपत्‍नीप्रणयप्रतिपूरितेऽपि गुरुके।
प्रियदर्शने प्रवर्धते मन्युस्थानेऽपि रुक्मिण्याः प्रहर्षः॥)

(हरिवि.) अस्सिअ-सोहाइसओ सच्‍चाए वि भोइ-देवदंसण-जणिओ।
जह हिअअस्स पहरिसो तह हरिसविसंठुलाण अच्छीणसुहं॥ ११५॥

(आश्रितशोभातिशयः सत्याया अपि भोगिदेवदर्शनजनितः।
यथा हृदयस्य प्रहर्षः तथा हर्षविसंष्ठुलयोरक्ष्णोः सुखम्॥)

(९) तत्कालचेष्टा प्रियाभ्युपपत्तिः, यथा—(अमरु. ७७)

आयाते दयिते मरुस्थलभुवामालोक्य दुर्लङ्घ्यतां गेहिन्या परितोबाष्पतरलामसज्य दृष्टिं मुखे।
दत्वा पीलुशमीकरीरशबलां स्वेनाञ्चलेनादरा— दुन्मृष्टं कलभस्य केसरसटाभाराग्रलग्‍नं रजः॥ ११६॥

तह सोहइ पिअआगमे पुलउव्वेल्लिअउ सिअवलअउ जु महीअले दलिअविरल्लिअउ।
उणमुहं दे दोहहेएण(?) सनमप्पिअउ च्‍चदु(?) जि विरहिवइरिउ कलकलकंठिअउ॥ ११७॥

(तथा शोभते प्रियागमे पुलकोत्सारितः सितवलयः यो महीतले दलितविप्रकीर्णः।
उन्मुखं तस्य दोहददानेन समर्पितो मम प्रियस्य उपजापैर्निर्वारिण्यः कलकलकण्ठ्योऽपि॥)

(१०) सख्यादिसम्पदः परिजनप्रमादः, यथा—(हरिवि.)

दारट्ठविअसुरदुमं दतं चिअ संगम/ सग्गकुसुमोपआरग्घविअं।
अण्णं वि सच्‍चविज्जइ परिओसपरित्तग्घणं तीए घरं॥ ११८॥

(द्वारस्थापितसुरद्रुमं तदेव स्वर्गकुसुमोपहारार्घितम्।
अन्यच्‍च दृश्‍यते परितोषपरीतजनं तस्या गृहम्॥)

वासठ्ठिअम्मि सोहा—परिओस—पसाहिआणणाए मणहरो।
अप्पुट्ठसोअ—विमले सहिसत्थो दीए दप्पणम्मि वि दिट्ठो॥ ११९॥

(वासस्थिते सोभापरितोषप्रसाधिताननया मनोहरः।
अप्सृष्टशोकविमलः सखीसार्थस्तया दर्पणेऽपि दृष्टः॥)

(हरिवि.) (११) दधिदूर्वाङ्कुरादिप्रयोजनं मङ्गलसंविधानम्, यथा— (अपभ्रंश— पृ॰३४ कु.)

(कु.) ….वलउ….सिद्धत्थउ हासुग्गमु दहि उ पुलअउ दुव्वाकंदलु आ…सहिउ।
पासेउ णिसेविअ(?) रोअणु तक्खणेण कलिअ(?) वअणु जि मंगलभाअणु पेक्खेवि एंतु पिउ॥

लोण—छलेण भमाडिवि घल्लिउ रणरणउ पुणुजलमिसिण वअंसिहिं वाहुक्‍करु घणउ।
विरहाणलु णिट्‌ठाविउ आरित्तिअ—णिहेण मुद्धए मंगलु(?) पअडिउ दइआगम—सुहेण॥

(रा॰) पुलइसिद्धथउ हासुग्गमु दहिउ भूलअदुव्वाकंदलु णआ …………………………सहिउ।
वासे णिसेविअ रोअणु तक्खणेण लकिउवअणु जि मंगलभाअण पेक्खेवि एंतु पिह्यउ॥ १२०॥

(पुलकितसिद्धार्थः हासोद्गमः दधि पुलकः दुर्वाकन्दला नवाः सख्यः।
प्रस्वेदः निषेवितरोचनं तत्क्षणेन कलितं वदनमेव मङ्गलभाजनं प्रेक्ष्य आयान्तं प्रियम्॥)

(रा.) लोणछलेण भमाडिवि घल्लिउ रणरणउ पुणु जणमिसिण वअंसिहिं वाहुक्करु घणउ।
विरहाणलु णिट्ठाविउ आरत्तिअ—णिहेण मुद्धए मं गलु(?) पअडित दइआगमसुहेण॥ १२१॥

(लवणच्छलेन भ्रामयित्वा क्षिप्‍ता विरहोकण्ठा पुनर्जलमिषेण वयस्यानां बाष्पोत्करः प्रभूतः।
विरहानलः निष्ठापित आरात्रिकनिभेन मुग्धया मंगलु(?) तदानीं प्रतिगृहीतं दयितागमसुखेन॥)

(१२) चित्तसन्तोषो मनःप्रहर्षः, यथा—

दूरविअंभिअपसरो कअ—कज्ज—णिअत्त—दइअ—दंसणजणिओ।
हिअए ण माइ लक्खिअ—रेइअसोअ—विअडे वि से परिओसो॥ १२२॥

(दूरविजृम्भितप्रसरः कृतकार्यनिजदयितदर्शनजनितः।
हृदये न माति लक्षिताऽशोकविटपेऽपि तस्याः परितोषः॥)

पणअपरिपूरणेण विअअभूसिअ—पिअ—आगमेण अ गरुओ।
पसरइ लद्धत्थामो अण्णुण्णरसंतरेहिं तीए पहरिसो॥ १२३॥

(प्रणयपरिपूरणेन विरहोत्सुकप्रियतमागमेन च गुरुकः।
प्रसरति लब्धस्थामा अन्यूनरसान्तरैस्तस्याः प्रहर्षः॥)

(१३) आभ्युपयिकमुत्सवः, यथा—

पर्युत्सुकं पुरमिदं सकलं निरीक्ष्य दूरोज्झितध्वजसहस्त्रहतार्कतापम्।
अन्योत्सवेन महताकुलितान्तरात्मा रामाभिषेकदिवसस्य पुनः स्मरामि॥ १२४॥

एष प्रासादमालं धवलयति सितैरंशुकै राजलोकः, सम्मर्दं वेत्रहस्तैस्ति/रयति भरतो लक्ष्मणेनानुयातः।
सानन्दा स्‍नानभूमौ तरलितनयना हर्षबाष्पेण चाम्बा सीता स्‍नेहावकृष्टा लिखति विकसितं पद्ममातर्पणेन॥ १२५॥

(१४) पुनर्गृहमण्डनं भवनप्रतिसंस्कारः, यथा—

तुह सुंदरि घरकुड्‌डं दूरोग्गअबाहुअं दुमंतीए।
मज्झ णिरअवलिअं वलेइ पडवक्ख—हिअआइं॥ १२६॥

(तव सुन्दरि! गृहकुड्‌यं दूरोद्गतवाटकं धवलयन्त्याः।
मध्यं प्रकटवलिं वलते प्रतिपक्षहृदयानि॥)

तुह क्खा/च्छामोअरि दूमिअदूरच्छित्तेण होइ हत्थेण।
आलिहिअ—मुद्ध—कंकेल्लि—पल्लवं वि कुड्डमिणं॥ १२७॥

(तव क्षामोदरि धवलितदूरक्षिप्‍तेन भवति हस्तेन।
आलिखितमुग्धकङ्केलिपल्लवमिव कुड्‌यमिदम्॥)

(१५) विरहकृतदौर्बल्यादिदर्शनं कार्श्‍याद्युपलब्धिः(/द्युपलम्भः), यथा—(शाकु. ७.२१)

वसने परिधूसरे वासना नियमक्षामतनुः क्षतैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घां विरहव्यथां बिभर्ति॥ १२८॥

केयूरीकृतकङ्कणावलिरसौ कर्णावतंसीकृत— व्यालोलालकपद्धतिः पतिपुरो बद्धाञ्जलिः पृच्छति।
यावत् किञ्चिदुदन्तमात्मकमितुस्तावत् स एवेत्यथ व्रीडावक्रितकण्ठनालमबला कैस्कैर्न भिन्ना रसैः॥ १२९॥(सूमु.१९३)

(१६) आनन्दात् कार्श्‍यमोक्षः प्रहर्षोपचयः, यथा—

वाअसु—उड्‌डावंतिअए पिउ पत्तउ सहसत्ति।
अद्धा उद्धा वलअ गअ अद्धा फुट्‌ट तडत्ति॥ १३०॥

(वायसमुड्डापयन्त्याः प्रियः प्राप्‍तः सहसा।
अर्धा ऊर्ध्वाः वलयाः गता अर्धाः स्फुटितास्त्रडिति॥)

पिए सहसत्ति पहुत्तए विहडिअ तहे वलअं।
पुलउत्तंभिअगत्तहे सोहहिं महिहिं गअं॥ १३१॥

तक्खणमुक्कहो सोअहो णं बंधणंकडअ।
णाइ पणट्‌ठहो विरहहो तरलतुरंगअपअ॥ १३२॥

(प्रिये सहसा प्राप्‍ते वघटितानि तस्याः वलयानि।
पुलकोत्तम्भितगात्र्‌याः शोभन्ते मह्यां गतानि॥

तत्क्षणमुक्‍तस्य शोकस्य ननु बन्धनकटकानि।

ननु प्रणष्टस्य विरहस्य तरलतुरङ्गपदानि॥)

(१७) स हारेकः प्रेमपुष्टिः, यथा—(हरिवि.)

णिम्महिअ-कुसुम-परिमल-हिअहिअआए वि महुअरावलि-चडुला।
पढमं पिअम्मि ढ्ठ्ठी पच्छा तीए वि सुरपाअवम्मि णिसण्णा॥ १३३॥

(निर्मथितकुसुमपरिमलहृतहृदयाया अपि मधुकरावलिचटुला।
प्रथमं प्रिये दृष्टिः पश्‍चात्तस्या अपि सुरपादपे निषण्णा॥)

ता/ तो से पिअम्मि रसिआ ता / तो दुमरअणम्मि विअसिअउप्पलसुहआ।
परिओस-रसुव्वेल-अणुराअ-अंदोलिआ णिसम्मइ दिट्ठी॥ १३४॥

(तत्तस्याः प्रिये रसिता ततो द्रुमरत्‍ने विकसितोत्पलसुभगा।
परितोषरसोद्‌वेलितानुरागान्दोलिता निषीदति दृष्टिः॥)
(हरिवि.)

(१८) भूषणदियोगः प्रसाधनग्रहणम्, यथा—(माघ. ९.४३)

इति निश्चितप्रियतमागतयः सितदीधितावुदितवत्यबलाः।
प्रतिकर्म कर्तुमुपचक्रमिरे समये हि सर्वमुपकारि कृतम्॥ १३५॥

पुलउब्बेउपसाहइ दरकुम्माण थण।
पहरिसु बाहु विहुसइ णिक्कज्जल णअण॥ १३६॥

अंसुजलोहु वि सोहइ खामकवोलमुहे।
मुद्धहे काइं ण मंडणु दइआगमणसुहे॥ १३७॥

(पुलकोद्भेदः प्रसाधयति ईषन्म्लानौ स्तनौ।
प्रहर्षः बाहू विभूषयति निष्कज्जले नयने॥
अश्रुजलौघोऽपि शोभते क्षामकपोलमुखे।
मुग्धाया किं न मण्डनं दयितागमनसुखे॥ )

(१९) व्यतीतचेष्टानुचिन्तनं वृत्तानुस्मरणं, यथा—(शाकु. ७.२५)

मोहान्मया सुतनु पूर्मुपेक्षितस्ते यो बद्ध (बाष्प) बिन्दुरधरं परिबाधमानः।
तं तावदाकुटिलपक्ष्मविलग्‍नमद्य बाष्पं प्रमृज्य विगतानुशयो भवामि॥ १३८॥

अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः।
अहं त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तिम्॥ १३९॥

(रघु. १३.३५)

(२०) स्वाकल्यकादिप्रतिपादनमवस्थानिवेदनम् यथा—(विक्र. ४.४१)

त्वद्‌‌वियोगभवे चण्डि! मया तमसि मज्जता।
दिष्ट्‌या प्रत्युपलब्घासि चेतनेव गतासुना॥ १४०॥

स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि!।
उपरागान्ते शशिनस्समुपगता रोहिणी योगम्॥ १४१॥

(शाकु. ७.२२)

(२१) विरहवेदनादिपर्यनुयोगो दुःखादिपरिप्रश्र्न:, यथा—(विक्र. ४.४१)

रतिखेदसुप्‍तमपि मां शयने या मन्यसे प्रवासगतम्।
सा त्वमबले! सहेथाः कथं मदीयं विरहयोगम्॥ १४२॥

चिरविरहिणोरुत्कण्ठाभ्यां श्लथीमिव गात्रयो— र्नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः।
कथमपि दिने दीर्घं याते निशामविरूढये: प्रसरति बह्नी यूनोर्यथा न तथा रतिः॥ १४३॥ (अमरु. ४४)

(२२) गिर्यादिरमणीयाख्यानं देशसम्पदुपवर्णनम्, यथा—(रघु. १३. २६, २७)

एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि श्रृङ्गम्।
नवं पयो यत्र घनैर्मया च त्वदविप्रयोगाश्रु समं विसृष्टम्॥ १४४॥

गन्धश्च धाराहतपल्वलानां कदम्बमर्धोद्गतकेसरं च।
स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विना त्वया मे॥ १४५॥

(२३) स्वोत्कण्ठाद्यार्तिनिवेदनं स्वदुःखसङ्कीर्तनम्, यथा—

पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु! तवोपगूढम्।
गुहातिसारीण्यतिवाहितानि मया कथंचिद् घनगर्जितानि॥ १४६॥

(रघु. १३.२८)

इमां नवाशोकलतां च तन्वीं स्तनाभिरामस्तबकावनम्राम्।
त्वत्प्राप्‍तिबुद्धया परिरिप्समाणः सौमित्रिणा सास्त्रमहं निरुद्धः॥ १४७॥

(रघु. १३.३२)

(२४) रतिप्रकर्षोदयः श्रृङ्गारवृद्धिः, यथा—

उअ णिअ—पाअव—रअणे इअ अणुराअपिसुणं पिअम्मि भणंते।
सविसेसलद्धपसरो आढत्तो तीए पसरउं परिओसो॥ १४८॥

(पश्‍य निजपादपरत्‍ने इति अनुरागपिशुनं प्रिये भणति।
सविशेषलब्धाप्रसरः आरब्धस्तस्याः प्रसर्तुं परितोषः॥)

(हरिवि.) तीए सविसेसदूमिअसवत्तिहिअआए णिव्वलंतसिणेहं।
पिअगरुइआए णिमिअं सोहग्गगुणाण अगंभूमीए पअं॥ १४९॥

(तया सविशेषदूनसपत्‍नीहृदयया निर्वध्यमानस्‍नेहम्।
प्रियगुरूकृतया न्यस्तं सौभाग्यगुणानामग्रभूम्यां पदम्॥)

(सक.५.३५१,हरिवि.) प्रवासानन्तरोऽप्येष सम्भोगः समुदाहृतः।
करुणानन्तरस्याथ प्रपञ्चः परिकीर्त्यते॥ १५०॥

(३)

तत्र रतिप्रकर्षनिमित्ताभिलषणीयालिङ्गनाद्यवाप्‍तिहेतवः, प्रियसन्दर्शनप्रमोद— वृद्ध्यादयः सम्भोगशब्दवाच्या भवन्ति।

कः पुनरत्र समासः? षष्ठीतत्पुरुष एव।

का वृत्तिः ? प्रवासानन्तरवदनत्यन्तमुत्सृष्टस्वार्थैव।

विषम उपन्यासः। तत्र हि प्रवासकार्याणि कार्श्यादीन्युत्कण्ठदयो वा मात्रयानुवर्तन्ते। इह तु सर्वथा करुणस्य वार्तापि नास्ति।

तथा तर्हि मल्लिकापुटश्चम्पकपुट इति निष्कीर्णास्वपि सुमनस्सु मल्लिकादिवासनावशाद् विशेषणं भवति, अयं मल्लिकापुटोऽयं चम्पकपुट इति। एवं निवृत्तेऽपि स्वार्थे वासनावशात् करुणोऽनन्तरस्य विशेषणं भविष्यति।

यदि वा यथानपेक्षितावयवार्था वृक्षश्रोत्रियशक्रगोपादयः स्वसामर्थ्यनियत— मर्थमाचक्षते, तथा सङ्घात एवैते प्रथमानुरागानन्तरादयो राजपुरुषादयश्चानपेक्षितावयवार्था एव यथासामर्थ्यमर्थेषु निविशन्ते।

ननु चाव्यपदेश्‍यपूर्वापरविभागा अभिन्नार्थाभिधायिनो वृक्षादयः, प्रतीयमान— भागभेदानुयाताः सम्बन्धिपदार्थो पहितभेदवृत्त्यर्थाभिधायिनः पुनरिमे। तत्कथं प्रथमानुरागानन्तरादयो वृक्षादिवद् रूढिशब्दा भवितुमर्हन्ति ?

तदसत् रूढिशब्दा यौगिका इति हि विभागो भेददर्शनाभ्यासादभिनिविष्टबुद्धेः प्रतिपादनोपाय एव, अपथाभिनिविष्टो ह्ययं क्रमेण, तस्मादपथाद् व्यावर्तयितव्यः। ततोऽस्याः प्रत्यभिज्ञायमानप्रकृतयः श्रोत्रियक्षत्रियादयोऽन्ते१, न ह्यत्र प्रकृतिरूपमवसीयते, यतः प्रकृत्यर्थावच्छिनः प्रत्ययार्थोऽभिधीयते। ततोऽवसीयमानावयविभागा रूढयः काश्चिदुपन्यस्यन्ते, यत्रात्यन्तस्सम्भवोऽवयवार्थस्य, यथा शक्रगोपस्तैलपायिकेति। पुनः कदाचित् सन्निहिता अवयवार्था जातिविशेषाभिधायिनः सप्‍तपर्णकृतमालादय उदाह्नियन्ते, यतः प्रपलाशोऽप्यनुद्भिन्नपलाशोऽपि च वनस्पतिः सप्‍तपर्णः, न यस्य पर्वणि पर्वणि सप्‍तपर्णानीति सप्‍तपर्ण इत्याख्यायते। तथा निष्कीर्णकुसुमस्तरुरनालब्ध— कलिकाजालकोऽपि कृता माला अनेनेति कृतमाल इत्यभिधीयते।

अत पञ्चाङ्गुलमिवाश्वकर्ण इव पर्णमस्येत्युपचरितार्थावयवा जातिवाचिन एव पञ्चाङ्गुलाश्वकर्णादयो वर्ण्यन्ते, तेषु हि पञ्चाङ्गुलादिव्यपदेशः प्रोद्भिद्यमानप्रवालमपि यावदनुवर्तते। तत्सन्निधानेऽप्या ॰ ॰ ॰ श्रीयमाणवर्तिपदार्था लौहितशालिगोखर इत्यादयो निगद्यन्ते।

अत्र सन्नपि वर्णविशेषः समुदायस्य जातिवचनत्वाच्छब्दार्थत्वेन नाश्रीयते, तदेवमयं शकलीकृतवर्तिपदार्थाभिनिवेशः प्रथमानुरागानन्तरादाविव राजपुरुषादावप्य— वयवार्थाभिनिवेशः शक्यते त्याजयितुमत एव प्रथमानुरागादीनां विप्रलम्भसम्भोगादीनां च पारिभाषिक्योऽपि संज्ञाः संविधीयन्त इति।

के पुनः प्रियसन्दर्शनादयः ?

(१)प्रियसन्दर्शनं, (२)सम्भ्रमाकुलता, (३)प्रमोदवृद्धिः, (४)चित्तविस्मयः (५)प्रियाभिभाषणं, (६)जीवितेति लज्जा, (७)प्रियोपच्छन्दनं, (८)सुहृदपेक्षा, (९)वृत्तान्तकथनं, (१०)विस्त्रम्भोत्पत्तिः, (११)इतिकर्तव्ययोगः, (१२)बान्धवागमः, (१३)गुरुजनाभ्युपपत्तिः, (१४)गुरुजने स्‍नेहः(गुरुजनस्‍नेहा), (१५)ज्ञात्यभिनन्दनं, (१६)भाग्यप्रशंसा, (१७)नैपथ्यादिग्रहणं, (१८)पुरप्रवेशः, (१९)नागरिकाक्षोभः, (२०)गृहोपगमनं, (२१)उत्सवानुभवः, (२२)दयितसाहाय्यं(/साहचर्यम्), (२३)श्रृङ्गारपुष्टिः, (२४)सौख्यपरम्परा’ इति। १. दयोऽन्ते = दयोदन्ते (?) रा.पृ. १७७१ HOS. (१) (प्रियस्य) आलोकः प्रियसन्दर्शनम्, यथा—(कादकसा.)

स दृष्ट‍्वा तां तदा तन्वीं जगाद नृपनन्दनः।
मम प्रियेयं सैवेति तत्क्षणं विगतव्यथः॥ १५१॥

अथ सा पितृनाथसद्मतः प्रतियाता वनमेव भामिनी।
दयितं शयितं महीतले दधतं प्राणकलामलोकयत्॥ १५२॥

(२) किमेतदित्याद्याकस्मिकाकूतं सम्भ्रमाकुलता, यथा—

न ज्वाला न च दहनो न धूमजालं क्‍वाकस्मात् सिकतिलवेदिकानिपातः।
स्वप्‍नोऽयं किमुत महेन्द्रजालमाहो माया१ तत्किमिदमहो महाविचित्रम्॥ १५३॥

प्रिया तावन्नेयं कथमपि मनो मे स्फुटमिदं तदाकारौत्सुक्यादपथनयने नाद्य विषये।
प्रकारेणानेन प्रियजनमृषाभ्रान्तमथवा विधिर्मां क्रीडावान् सुखयति शठो दुःखयति च॥ १५४॥

(ताव. ३.१५) (३) हर्षोंदयः प्रमोदवृद्धिः, यथा—(कादकसा. ८.८०)

चन्द्रापीडं सा च जग्राह कण्ठे कण्ठस्थानं जीवितं च प्रपेदे।
तेनापूर्वां सा समुल्लास लक्ष्मीमिन्दुस्पृष्टा सिन्धुवेलेव भेजे॥ १५५॥

दिष्ट्‍यार्धश्रुतविप्रलम्भदहनं क्रोधादहं नो गतो दिष्ट्‌या नो परुषं रुषार्धकथिते कञ्चिन्मया व्याहृतम्।
मां प्रत्याययितुं विमूढहृदयं दिष्ट्‌या कथान्तं गता मिथ्यादूषितयाऽनया विरहितं दिष्ट्‌या न जातं जगत्॥ १५६॥२(वेसं. २.१३)

(४) मन आश्चर्यं चित्तविस्मयः, यथा—(काव्याद. २.२८०)

मृतेति प्रेत्य सङ्गन्तुं यया मे मरणं मतम्।
सैषावन्ती मया लब्धा कथमत्रैव जन्मनि॥ १५७॥

१. मायापदं राघवस्त्यजति। २. निर्णयसागर प्रेस, १९४०। अत्र ३२५२, पाण्डुग्रन्थस्य ८९३पृष्ठे अन्य एव पाठः स एव HOS पाठः पृ. १७७३॥ किमिन्द्रजालं किं स्वप्‍नः किं माया किं मनोभ्रमः।
यत् पश्यामि विशालाक्षीं साक्षादेतां मदालसाम्॥ १५८॥

(५) कान्ताव्याहारः प्रियाभिभाषणम्, यथा—(कादकसा. ८.८१,८२)

शिलाशय्यां त्यक्त्वा तदनु चिरसुप्‍तोत्थित इव क्षणं स्थित्वा जृम्भालसवदनमुन्मील्य नयने।
ततश्चन्द्रापीडः प्रहतमुरजध्वानपटुना स्वरेण स्वेनैव स्मितमधुरमाह प्रियतमाम्॥ १५९॥

तदमृतप्रभवेऽप्सरसां कुले सुतनु! जन्म समुत्थितवत्यसि।
यदमुना परिरम्भलवेन ते सपदि जीवितमापदयं जनः॥ १६०॥

(६) प्रियोपरमेऽपि प्राणाविगमक्रीडा जीवितेति लज्जा, यथा—(रघु. १२.७५)

कामं जीवति मे नाथ इति सा विजहौ शुचम्।
प्राङ्‍मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता॥ १६१॥

दग्धैष दयिते पूर्वं न मृषास्मीति लज्जया।
अद्यापि कामिनां चित्ते रतिर्वहति जिह्मताम्॥ १६२॥

(७) कान्तानुवृत्तिः प्रियोपच्छन्दनं, यथा—(ताव. ५.२७)

किं प्राणा न मया तवानुगमनं कर्तुं समुत्साहिता, बद्धाः किं नु जटा न वा प्रतितरू भ्रान्तं१ वने निर्जने।
त्वत्सम्प्राप्‍तिविलोभनेन पुनरप्यूढं न पापेन किं किं कृत्वा कुपिता यदद्य न वचस्त्वं मे ददासि प्रिये!॥ १६३॥

विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं सम्भ्रमेण।
स्मितमधुरमुदारं देवि! मामालपोच्चैः प्रभवति मम पाण्योरञ्जलिस्त्वं स्पृशास्मान्॥ १६४॥

(वेसं. २.१७) १. तरु भ्रा = तरुर्भ्रा राघवः, तनुर्भ्रा — जोशेरः (८) मित्रावलोकनादिकं सुहृदपेक्षा, यथा—(कादकसा. ८.८५,८६)

सख्याः प्रियं पितृतपोभिरिवाप्‍तजीवं भूयः कपिञ्जलकरार्पितपाणिपद्मम्।
मन्मण्डलादवतरन्तमखण्डकान्तिमा पाण्डुगण्डमवलोकय पुण्डरीकम्॥ १६५॥

कौतूहलात् सह मयैव गतेन्दुलोकमालोकयिष्यति कदाचन पत्रलेखाम्।
काचित् प्रिये सहचरी मम सातिभव्या मातेत्यभूत्तदनवाप्‍तिकृतो विषादः॥ १६६॥

(९) अनुभूतार्थनिवेदनं वृत्तान्तकथनम्, यथा—(कादकसा. ८.८३, ८४)

मामन्वबीभवदिमामियतीमवस्थां शापः कलङ्क इव कान्तिहरो द्वितीयः।
तद्‌विप्रयोगकृत एव बभूव तापस्तन्वङ्गि! शूद्रकतनोरपि मृत्यवे मे॥ १६७॥

संरक्षिता तनुरियं नु तव प्रियेति शापः कृशोदरि! विराममवाप पापः।
अद्यप्रभृत्यखिलमेव हि चन्द्रलोकं शाधि स्वपादकृतमुद्रमिदं महच्‍च॥ १६८॥

(१०) विश्वासोपजनः विस्रम्भोत्पत्तिः, यथा—(कादकसा. ८.८७)

श्रुत्वेति तस्य गिरमुत्सुकतां गतासौ रोमाञ्चकञ्चुकमकृत्रिममुद्‌वहन्ती।
कादम्बरी चरणयोर्निपपात पत्युरानन्दबाष्पकणशीकरितेक्षणश्रीः॥ १६९॥

माआ१ मोहम्मि गए सुए अ पवआणं समरसण्णाहरवे।
जणअतणआए णाअं/दिद्‌ठं तिअडा-णेहाणुराअभणिअस्स फलं॥ १७०॥

(मायामोहे गते श्रुते च प्लवगानां समरसन्नाहरवे।
जनकतनयया ज्ञातं त्रिजटास्‍नेहानुरागभणितस्य फलम्॥)

(सेब. ११.१३५)

(११) यथोचितं विधायानुष्‍ठानम् इतिकर्तव्ययोगः, यथा—(कादकसा. ८.८८)

उत्थाय त्वरितोपसृत्य च महश्वेतां परिष्वज्य सा प्रत्यक्षीकृतपुण्डरीकपदवीं कृत्वा च लब्धोत्सवाम्।
दिष्‍ट्‍या वर्धयितुं न्ययुङ्क्त रभसेनाहूय केयूरकं तारापीडतपोवने परिजनं पित्रोर्गृहे चापरम्॥ १७१॥

मुनेरवभृथावधिः पितुरमुष्य सिद्धेः कृता कृतस्त्वमपि सस्मृतस्वतनुरद्य तच्छासनात्।
१. ‘पलधणुर(खण्डितम्) माआ’ —राघवः तदुज्झितमलीमसेदृशशरीरयोगौ युवां निजेन वपुषाधुनानुभवतं प्रियासङ्गमम्॥ १७२॥

(कादकसा. ८.६८) (१२) स्वजनोपगमो बान्धवागमः, यथा—(कादकसा. ८.८९, ९६)

तारापीडः परिणतिकृशोऽप्याययौ तत्र तूर्णं सानन्दान्तःपुरपरिजनामात्यवर्गानुयातः ।
अस्मिन्काले सखिसहचरः पुण्डरीकोऽपि नाकात् किञ्चिल्लज्जाविनमितमुखो वल्लभाभ्याशमभ्यैत्॥ १७३॥

आजग्मुस्तत्र वल्गत्तुरगखुरपुटोद्ध‍ूतधूलीकडारै— श्‍चूडारत्‍नप्रतानोज्ज्वलरुचिरैश्शोभमानाः शिरोभिः।
चन्द्रापीडेन्दुसन्दर्शनरभससमुत्फुल्ललोलेक्षणाब्जा निर्व्याजौत्सुक्यसज्जीकृतनिरतिशयोपायनाः पार्थिवेन्द्राः॥ १७४॥

(१३) पूज्यपूजनं गुरुजनाभ्युपपत्तिः, यथा—(कादकसा. ८.९०, ९२)

चन्द्रापीडः स्वामथ जानन्नापि मूर्तिं तारपीडं पुत्रवदेव प्रणनाम।
तद्वत्पूर्वं प्रश्रयशीलः शुकनासं दत्तानन्दोऽवन्दत सर्वाः स्वजनित्रीः॥ १७५॥

सपुण्डरीको मुनिरप्यपश्यदात्मानमन्तश्शुकनासपुत्रम्।
प्रणम्य भूपं पितरं क्रमेण मनोरमाद्या जननीर्ववन्दे॥ १७६॥

(१४) पित्रादिवात्सल्यं गुरुजनस्‍नेहा, यथा—(कादकसा. ८.९३, ९४)

अथ विलासवती समनोरमा स्रुतपयोधरदुग्धकणावली।
सुतवपुःपरिरम्भमहोत्सवं फलितसर्वमनोरथमन्वभूत्॥ १७७॥

तारापीडोऽथ पादानतमनवरतप्रस्रुतानन्दबाष्प— श्चन्द्रापीडं भुजाभ्यां कथमपि सहसोत्थाप्य कण्ठे गृहीत्वा।
शापेनात्रावतीर्णो यदि तदपि भवानुत्तमो लोकपालः प्रख्याप्येति प्रतीपं प्रणततनुरसावस्य पादौ ववन्दे॥ १७८॥

(१५) गुर्वादिप्रशंसा ज्ञात्यभिनन्दनम्, यथा—(रघु. १४.६)

उत्तिष्‍ठ वत्से! ननु सानुजोऽसौ वृत्तेन भर्त्रा शुचिना तवैव।
कृच्छ्रं महत् तीर्ण इति प्रियार्हां तामूचतुस्ते प्रियमप्यमिथ्या॥ १७९॥

शापादसि प्रतिहता स्मृतिलोपरूक्षे भर्तर्यपेततमसि प्रभुता तवैव।
छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा॥ १८०॥

(शाकु. ७.३२) (१६) दैवसम्पदुपवर्णनं भाग्यप्रशंसा, यथा—

दग्धैकेन हनूमता सखि! यथा लङ्का यथाम्भोनिधौ शैलैः सेतुरकारि भस्मनि हुतं नागास्रबन्धो यथा।
द्वीपादद्य यथाऽन्यतोऽपि निशया नीता विशल्यौषधि— र्दिष्‍ट्‌या जानकि! वर्धसे तव तथा जातोऽनुकूलो विधिः॥ १८१॥

उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक् तदनन्तरं पयः।
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः॥ १८२॥

(शाकु. ७.३०)

(१७) वेषभूषाद्यवाप्‍तिर्नैपथ्यादिग्रहणम्, यथा—(कादकसा. ८.९८)

ताभ्यामेव निरस्य तापसतनुच्छायां दुहित्रोः कृते भास्वत्कौतुकमङ्गले नववधूवेषे मनोहारिणि।
निर्वृत्ते च समन्त्रहोमसुभगारम्भे विवाहोत्सवे तत्रान्योन्यसमागमे प्रमुदिताः सर्वेऽपि ते रेमिरे॥ १८३॥

अग्रेसरीभवति/तु काञ्चनचक्रमेतदेष द्विपश्च धवलो दशनैश्चतुर्भिः।
श्यामो हयो मलयवत्यपि वल्लभा ते रत्‍नान्यमूनि परिभावय चक्रवर्त्ती॥ १८४॥

(नागा. ५.३८)

(१८) स्थानीयासादनं पुरप्रवेशः, यथा—

ततः प्रहृष्‍टः प्रतिलभ्य कान्तां प्रणम्य नागान्निजमाजगाम।
स शोभमानः स्वपुरं तमश्वमारुह्य सञ्चि ॰ ॰ ॰ तमभ्युपेतम्॥ १८५॥

समू/मौलरक्षोहरिमिश्रसैन्यस्तूर्यस्वनानन्दितपौरवर्गाम्।
विवेश सौधोद्गतलाजवर्षामुत्तोरणामन्वयराजधानीम्॥ १८६॥

(रघु. १४.१०) (१९) पुरस्रीसम्भ्रमो नागरिकाक्षोभः, यथा—

संभरिअं पि ण गण्हइ गहिअं पि ण संठवेइ अंगम्मि।
ठविअं पि अंसुअं ण अ धरेइ रहसेण जुअइजणो॥ १८७॥

(संस्मृतमपि न गृह्‍णाति गृहीतमपि न संस्थापयत्यङ्गे।
स्थापितमपि अंशुकं न च धारयति रभसेन युवतिजनः॥)

सोवाणक्कमणसगूससत्तमज्जक्कवासमारुहइ।
कमिवसविहउंतबलिइअं कामिणीसत्थो॥ १८८॥

(२०) भवनप्रवेशो गृहोपगमनं, यथा—

अथाजगाम सावित्री सत्त्वसम्पत्समन्विता।
वरेण धर्मराजस्य सह पत्या स्वमन्दिरम्॥ १८९॥

हेमासिंहासनासीनो मुनिः स्रीभिः प्रकल्पितम्।
अन्वतीतां महाभाग्यौ दम्पती तत्र मङ्गलम्॥ १९०॥

(२१) अभ्युदयसेवा उत्सवानुभवः, यथा—

ततो महोत्सवो जज्ञे राज्ञः सान्तःपुरे पुरे।
सभाजनागतामात्यपौरलोकसमाकुले ॥ १९१॥

सङ्कल्पाधिकहर्षलाभरभसोज्जृम्भाविलोलीभवद्— गान्धर्वप्रमदाकदम्बककृतक्रीडाशतास्फालनाम्।
साकं चित्ररथस्ततो मदिरया हंसश्च गौर्या सह द्रष्‍टुं नुत्तमयीमिव व्यवसितावाजग्मतुर्मेदिनीम्॥ १९२॥

(कादकसा. ८.९७)

(२२) पत्युरवियोगो दयितसाहचर्यम्, यथा—

ऋतध्वजश्च सुचिरं तया रेमे सुमध्यया।
नितम्बेषु च शैलानां निम्‍नगापुलिनेषु च॥ १९३॥

कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु।
ऋद्धिमन्तमधिकर्द्धिरुत्तमः पूर्वमुत्सवमपोहदुत्सवः॥ १९४॥

(रघु. १९.५)

(२३) प्रेमाभिमानवृद्धिः श्रृङ्गारपुष्‍टिः, यथा—(कादकसा. ८.१९)

इति विततविलासः पुण्डरीकेण सार्धं दिवि भुवि च विचित्रोद्यानलीलाविहारः।
अभिनवफलसम्पद्‌वर्धमानाऽभिनन्द— श्रियमभजत चन्द्रापीडमूर्तिर्मृगाङ्कः॥ १९५॥

तीर्थे तोयव्यतिकरभवे जह्रुकन्यासरय्वोः देहत्यागादमरगणनालोख्यमासाद्य सद्यः। पूर्वाकाराधिकतररुचा सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु॥१९६॥ (रघु. ८.९५)

(२४) कल्याणान्तरावतंसा कल्याणसम्पत् सौख्यपरम्परा, यथा— (नागा. ५.३७, ३९)

हंसैराहतहेमपङ्कजरजस्सम्पर्कपङ्कोज्झितै— रुत्पत्रैर्मम मानसादविरतैस्तोयैर्महापावनैः। स्वेच्छानिर्मितरत्‍नकुम्भनिहितैरैषाभिषिच्य स्वयं त्वां विद्याधरचक्रवर्तिनमहं प्रीता करोमि क्षणात्॥१९७॥

निष्क्रान्तश्शङ्खचूडः पतगपतिमुखाद् वैनतेयो विनीत— स्तेन प्राग्भक्षिता ये विषधरपतयो जीवितास्तेऽपि सर्वे। मत्प्राणाप्‍त्या विमुक्ता न गुरुभिरसवश्चक्रवर्तित्वमाप्‍तं साक्षात्त्वं देवि दृष्‍टा प्रियमपरमतः किं मया प्रार्थनीयम्॥१९८॥ (नागा. ५.३९)

करुणानन्तरस्येयमुदाहरणपद्धतिः। प्रतर्शितानयैवासां समानन्यायमूह्यताम्॥१९९॥

अनन्तराणां सर्वेषामयमेकः प्रकृष्यते। रतिर्विस्रम्भचास्मिन् हि निष्कम्पत्वं प्रपद्यते॥२००॥

इति गदितमशेष विप्रलम्भस्वरूपोपहितनिजसमुत्थे श्लाघ्यश्रृङ्गारनाम्नः। रतिसमुदयरूपं जीवितं पुष्पकेतोर्निवसतु सुकवीनां सर्वदा मानसेषु॥२०१॥

इति श्रीमहाराजाधिरजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे मानानन्तरादिप्रकाशो नाम ॥पञ्चत्रिंशः प्रकाशः॥३५॥

अभिनवमिदमुक्तं भोजराजेन शास्त्रं भजति हृदयकोषो विस्मयं येन गाढम्। अभिनव इति शब्दः सार्थकत्वेन युक्तोऽनुभवपथमुपेतः केवले भोजराजे॥