अथ
शृङ्गारप्रकाशे चतुस्त्रिंशः प्रकाशः
आनन्तर्यप्रकाशः
अथानन्तर्यार्थः आनन्तर्यार्थविशेषणं च उच्यते। तत्रानन्तरः प्रथमानुरागादिः। पश्चात्कालभाविनश्चत्वारः प्रथमानुरागानन्तरादयः सम्भोगा अनन्तरा एव।
आनन्तर्यं यथा— षडेव गुणाः षाड्गुण्यं, चत्वार एव वर्णाः चातुर्वर्ण्यम् इति।
तस्य चार्थो हेतुफलभावेनावतिष्ठमानो रतिप्रकर्षणपर्यन्तः कान्ताविस्रम्भण— मानशैथिल्यप्रियागमनवार्ताप्रियसंदर्शनादिर्वक्ष्यमाणलक्षणः क्रियाकलापः।
कथं पुनः क्रियायाः साध्यैकस्वभावायाः साधनत्वम?
नेह तीर्थान्तरदर्शनानुरोधी पारमार्थिकभावः।
साध्यसाधनव्यवहारोऽपि पारमार्थिको लोकव्यवस्थानुविधायी। लोकश्च क्रियामपि पदार्थान्तरोपजनने व्यापारवतीं करोति। क्रिया हि द्रव्यं विनयति नाद्रव्यमिति (कौटिल्यः)। पूर्वा च क्रिया उत्तरस्याः साधनं; तथा चैतन्यं सन्दर्शनस्य, दर्शनं प्रार्थनायाः, प्रार्थना अध्यवसायस्य, अध्यवसायः प्रारम्भस्य, प्रारम्भः समागमस्य, समागमः सम्भोगस्य, सम्भोगः सुखावाप्तेरिति।
किं विशेषणम् अव्युच्छिन्नरत्युत्पत्तिसन्तानावच्छेदे हेतुविस्रम्भवत् विस्रम्भणादिशब्दाभिधेय एव प्रारब्धसाध्यसिद्धयवसानः कालविशेषः, तस्य च क्रियात्मनोऽपि क्रियावच्छेदकत्वं, क्रियावच्छेद्यत्वं च दर्शितम्, पुरस्तात् ‘क्रियावच्छेदहेतुं वा क्रियावच्छेद्यमेव वा कालात्मानमनाश्रित्य व्यवहर्तुं न शक्यत’ इति।
तत्र प्रथमानुरागानन्तरे रतिप्रकर्षनिमित्ताभिलक्षणीयाद्यालिङ्गनान्यवाप्तिहेतवो विस्रम्भशयनोपक्रमादयः समाननायकयोः परिजनादेश्च चेष्टाविशेषाः सम्भोगवाच्या भवन्ति।
कः पुनरत्र समासः?
षष्ठीलक्षणस्तत्पुरुषः ‘प्रथमानुरागस्यानन्तरः प्रथमानुरागानन्तर’ इति; कालवृत्तिरनुत्सृष्टस्वार्था; न ह्यत्र नायकौ मिथः सङ्गतावपि प्रथमानुरागमुत्सृजतः। युक्तं पुनर्यदनुत्सृष्टस्वार्थपरार्थाभिधानरूपा वृत्तिः स्यात्। अवश्यं ह्यनेन परस्यार्थमभिदधता स्वार्थ उत्स्रष्टव्यः।
बाढं युक्तम्। एवं हि दृश्यते लोके भिक्षुको यद्द्वितीयां भिक्षामासाद्य पूर्वां नोत्सृजति। सञ्चयायैव यतते। एवं तर्हि द्वयोर्द्विवचनं प्राप्नोति।
कस्या विभक्तेः? षष्ठ्याः।
न षष्ठीसमर्थो नान्तरः। तर्हि प्रथमायाः।
न प्रथमासमर्थः प्रथमानुरागः, सम्बन्धाधिक्यात्। अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति सामर्थ्यं भविष्यति।
नैवम्— प्रथमानुरागानन्तर इत्येतस्मात् सर्वदा यद्विभक्त्योत्पत्तव्यं, तेन च समुदायेनैकोऽर्थपिण्डो मृत्पिण्ड इवाविभागापन्ना पांसूदकविभागोऽवयवार्थशक्त्यनुगृहीतं (/हीतः) पृथग्व्यपदेश्यावयवशक्तिरभिधीयते। तस्मिंश्च समुदायार्थे एकत्वं समवेततोऽविद्यमानायामप्यवयवसङ्ख्यायां तदाश्रया सुबुत्पत्तिर्न भवति।
के पुनर्विस्रम्भणादयः?
((१). विस्रम्भणम्, (२) उपक्रमः), (३) विस्रम्भः, (४) प्रेक्षोदीक्षणं, (५) परिहारः, (६) परिहारविलासाः, (७) कन्दुकक्रीडा, (८) केलीद्यूतानि, (९) ऋतूपयमः, (१०) ॰ ॰ ॰ चारः, (११) समायातं२, (१२) कालावस्थानुभवः, (१३) पूर्वाह्िणकं, (१४) माध्याह्निकं, (१५) आपराह्िणकम्, (१६) अस्तमयः(अस्तः), (१७) सन्ध्या, (१८) तमः, (१९) चन्द्रोदयः, (२०) ज्योत्स्ना, (२१) प्रादोषिकं, (२२) निशीथः, (२३) रात्रिपरावृत्तिः, (२४) प्रभातिकं, (२५) वनविहारगमनं, (२६) वनविहारः, (२७) पुष्पापचयः, (२८) श्रमानुभवः, (२९) प्रच्छायादिसेवा, (३०) जलक्रीडा, (३१) नेपथ्ययोगाः(नैपथ्यप्रयोगाः), (३२) क्रीडापर्वतविहारः, (३३) एकशाल्मली, (३४) नवलतिका, (३५) पाञ्चालानुयानं(/तं), (३६) नवपत्रिका, (३७) कदम्बयुद्धानि, (३८) विसखादिका(अभ्यूषखादिकेक्षुभक्षिका)३, (३९) इन्द्रोत्सवः, (४०)कौमुदीप्रचारः, (४१) यक्षरात्रिः, (४२) अष्टमीचन्द्रकः, (४३) कुन्दचतुर्थी, (४४) सुवसन्तः (/सुवसन्तकः), (४५) सहकारभञ्जिका, (४६) दोलाविलासः, (४७) उदकक्ष्वेलिका, (४८) मदनोत्सवः, (४९) गृहप्रत्यागमनं, (५०) सहायव्यापारः, (५१) प्रसाधनग्रहणं, (५२) गोष्ठीविहारः, (५३) वासगृहोपगमनम्, (५४) अभिसारिकाप्रतीक्षणं, (५५) दूतीविसर्जनं, (५६) स्वयं वा गमनम्, (५७) आगतोपचारः, (५८) परिचरणं, (५९) विसर्जनं, (६०) कञ्जुकादिमोक्षः, (६१) रतारम्भः, (६२) रतं, (६३) रतावसानं, (६४) निद्रानुभव इति चतुष्षष्टिः। तत्र— १. द्र. पृ. १५५० । २. ‘कन्दुकक्रीडा, केलीद्यूतानि, ऋतूपयमः॰॰॰चारः, समायातम्’ इत्येतेषामुदाहरणानि नोपलभ्यन्ते। ३. द्र. पृ. १५६७ । (१) समागतायाः सम्प्रयोगार्थः प्रश्वासनापूर्वरङ्गो विस्रम्भणं यथा—(सक. ५.९०)
कस्य नो कुरुते बाले पिपासाकुलितं मनः।
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः॥ १॥
अक्षि ते पुष्परजसा वातोद्धूतेन दूषितम्।
मुखानिलस्य मे तन्वि! तदर्पयितुमर्हसि॥ २॥
निश्च्योतन्ते सुतनु! कबरीबिन्दवो यावदेते यावन्मध्यस्स्तनमुकुलयोरार्द्रभावं जहाति।
यावत् सान्द्रस्वतनुपुलकोद्भेदवत्यङ्गयष्टिः तावद् गाढं वितर सकृदप्यङ्कपालिं प्रसीद॥ ३॥
(मामा.८.२)
दग्धं चिराय मलयानिलचन्द्रपाते सन्तर्पितं तु परिरभ्य वपुस्त्वया मे।
आमत्तकोकिलरुतव्यथिता तु हृद्याम् अद्य श्रुतिः पिबतु किन्नरकण्ठि! वाचम्॥ ४॥
(मामा. ८.४) (२) विस्रब्धायाः सम्प्रयोगार्थमभियोगातिशयत उपक्रमो यथा— (उराच. १.३४)१
जीवयन्निव समूढसाध्वसस्वेदबिन्दुरधिकण्ठमर्प्यताम्।
बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः॥ ५॥
अपरिक्षतकोमलस्य यावत् कमलस्येव नवस्य षट्पदेन।
अधरस्य पिपासता मया ते सदयं सुन्दरि! गृह्यते रसोऽस्य॥ ६॥
(शाकु. ३.१२)
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः।
तद्दुकूलमथ चाभवत् स्वयं दूरनिःश्वसितनीविबन्धनम्॥ ७॥
(कुसं. ८.४)
शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया।
शिक्षितं युवतिनैपुणं तया यत् तदेव गुरुदक्षिणीकृतम्॥ ८॥
(कुसं. ८.१७) १. ‘आकरो मृग्य’ इति रा., पृ. १७११ (३) परिचयाभ्यासात् साध्वसाद्यपगमो विस्त्रम्भो यथा— (कुसं. ८.१३,१४)
वासराणि कतिचित् कथंचन स्थाणुना पदमकार्यत प्रिया।
जातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम्॥ ९॥
सस्वजे प्रियमुरोजपीडिता प्रार्थितं मुखमनेन नाहरत्।
मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा॥ १०॥
रात्रिवृत्तमनुयोक्तुमुद्यतं सा विभातसमये सखीजनम्।
नाकरोदपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे॥ ११॥
(कुसं. ८.१०)
भावसूचितरहस्यविक्रियं चाटुमत् क्षणवियोगकातरम्।
कैश्चिदेव दिवसैस्तयोस्तदा प्रेम रूढमितरेतराश्रयम्॥ १२॥
(कुसं. ८.१५) (४) विस्त्रम्भानुरागयोर्दाढर्यार्थं रमणीयपदार्थानां प्रदर्शनमवलोकनं वा प्रेक्षोदीक्षणम्। यथा—
तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम्।
दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम्॥ १३॥
(कुसं. ८.२९)
नीलपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि! भान्त्यमूः।
द्रक्ष्यसि त्वमिति सान्ध्यवेलया वर्तिकाभिरिव साधु वर्तिताः॥ १४॥
(कुसं. ८.४५)
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः।
वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया॥ १५॥
(कुसं. ८.११)
तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिभिन्नरागम्।
अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं वनिताङ्गहारम्॥ १६॥
(कुसं. ७.९१) (५) नवोढायाः कामप्रौढिपिशुनमार्तवदर्शनं परिहारः, यथा—
सोहइ विसुद्धसिद्धत्थको अदंतुरविसुद्धसीमंतो।
गुप्फिअ-सिणिद्ध-दंरप्पसिढिलालअ-केसविण्णासो॥ १७॥
(शोभते विशुद्धसिद्धार्थकोऽदन्तुरविशुद्धसीमन्तः।
गुम्फितस्निग्धदरप्रशिथिलालकः केशविन्यासः॥)
बुधुरिअदुद्धविहअंदमंदसी/अदुदिअहाससुहिआइ।
सहिअणमुहेसु लज्जाकसाइं घोलंत्ति अच्छीइं॥ १८॥
(बन्धुरितदुग्धविघटमानमन्दसीददुदितहासशोभितानि।
सखीजनमुखेषु लज्जाकषायितानि घूर्णन्ति अक्षीणि॥)
मज्झिमरेहागअगाढससुरसीमंतिओ सुहावेइ।
उग्गीणहासथोओ हरेअहरोइअ सोहइ विअसं॥ १९॥
(मध्यमरेखागतगाढश्वशुर सीमन्तितः सुखयति।
उद्गीर्णहासस्तोको हरेहरोइअ(?) शोभते विवशम्॥)
देसविसमणामित्तविरइअविणेओ ॰ ॰ ॰।
आरूढपढमपरिहारमंगलो णववहूसद्धो॥ २०॥
(देशविषममात्रविरचितविनेयो ॰ ॰ ॰।
आरूढप्रथमपरिहारमङ्गलो नववधूसार्थः॥)
(६) ऋतुमतीनामनुरागातिशयशंसिनश्चेष्टाविशेषवेषादयः परिहारविलासाः, यथा—
रेहइ पिअपरिरंभणपसारिअं सुरअमंदिरद्दारे।
हेला-हल्लाविअ-थोर-थण-हरं भुअलआजुअलं॥ २१॥
(राजते प्रियपरिरम्भणप्रसारितं सुरतमन्दिरद्वारे।
हेलात्वरितस्थूलस्तनभरं भुजलतायुगलम्॥) (सक. ५.१६४)
जइ ण च्छिवसि पुप्फवइं पुरओ ता किंस वारिओ ठासि।
छिक्कोसि चुलुचुलुंतेहिं पहाविऊण म्ह हत्थेहिं॥ २२॥
(यदे- न स्पृशसि पुष्पवतीं पुरतस्तावत् किमिति वारितस्तिष्ठसि।
स्पृष्टोऽसि चुलुचुलायमानैः प्रधाव्य अस्माकं हस्तैः॥) (गास. ५.८१)
पसिअ सअणक्कवासे तुह पअंते वासि सुवामि अछिवंती।
पुप्फवइआण पत्तिअ, रअणीसु ण होइ परिहारो॥ २३॥
(प्रसीद शयनैकपार्श्वे तव पदान्ते स्वपिमि अस्पृशन्ती।
पुष्पवतीनां प्रतीहि रजनीषु न भवति परिहारः॥)
मलिण……(ग्रन्थपातः)……लइअंपडिचक्खिएक्किअकअचसएसधअसरं अणगेणधणु गधणिमिअंकचकणो आसावअविदत्तवीअवअणिक्खेओ॥ २४॥१
आरूढो अ अज्ज णंसो वाणोहिं वसुरागुणेहि अणंगो।
मउअच्छिअ उललावा पिआण इहरावित्थरं चिअ गमणं॥ २५॥
णवर मए ण अ ॰ ॰ ॰ ॰।
॰ ॰ ॰ धवलाण लोअणाण वलइओ॥ २६॥
(केवलं मया न च ॰ ॰ ॰ ॰।
॰ ॰ ॰ धवलानां लोचनानां वलयितः॥)
(१२) मध्याह्नादिकृतदुःखोपलब्धिः कालावस्थानुभवः, यथा२ —(विक्र. २.२२)
उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्योपरि कर्णिकारमुकुलान्यालीयते षट्पदः।
तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते॥ २७॥
काश्मर्याः कृतमालमुद्गतदलत्कोयष्टिकष्टीकते, तीराश्मन्तकचिम्बिचुम्बनमुचो धावन्त्यपः पूर्णकाः।
दात्यूहैस्तिमिशस्य कोटरवति स्कन्धे निलीय स्थितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यतः कुक्कुटाः॥ २८॥
(१३) कामिना पूर्वाह्णकरणीयं पौर्वाह्िणकं यथा—
अह सुअइ दिण्णपडिवक्खवेअणं पसिढिलेहिं अंगेहिं।
णिव्वत्तिअसुरअरसाणुबंधसुहणिब्भरं सुण्हा॥ २९॥
(असौ स्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः।
निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं स्नुषा॥) (सक. ५.६४)
सहिआहिं भण्णमाणा, थणए लग्गं कुसुंभपुप्फं ति।
मुद्धवहुआ हसिज्जइ पप्फोडंती णहपआइं॥ ३०॥
(गास. २.४५)
(सखीभिर्भण्यमाना स्तने लग्नं कुसुम्भपुष्पमिति।
मुग्धवधूर्हस्यते प्रस्फोटयन्ती नखपदानि॥)
१. पाण्डुग्रन्थः ३२५२, पृ. ८४० २. सु.र.भा.पु. ३३७ इति राघवः।
प्रेम्णा भावपरिग्रहेण गुरुणा दत्तोपदेशापि सा नाधातुं वदनं प्रियस्य वदने ह्रीसाध्वसेन क्षमा।
सुप्राते विहितस्य मण्डनविधेरालोकनच्छद्मना बाला स्वाननमेव दर्पणतले तं चुम्बितुं चुम्बति॥ ३१॥
दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद् वचः— स्तत्प्रातर्गुरुसन्निधौ निगदतस्तस्यातिमात्रं वधूः।
कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चूपुटे व्रीडार्ता विदधाति दाडिमफलव्याजेन वाग्बन्धनम्॥ ३२॥
(अमरु. १६) (१४) मध्याह्नकरणीयं माध्याह्निकं यथा—
णीसेस—पसुत्त—जणम्मि अद्धरत्ते व गिम्ह—मज्झण्हे।
अहिसारेसि सअण्णं कुमारि कं गामतरुणाण॥ ३३॥
(निःशेषप्रसुप्तजने अर्धरात्रे इव ग्रीष्ममध्याह्ने।
अभिसारयसे सपुण्यं कुमारि! कं ग्रामतरुणानाम्॥)
दइअस्स गिम्हवम्महसंदावं दो वि झत्ति अवणेइ।
मज्जण—जलद्द—चंदण—सिसिरा आलिंगणेण वहू॥ ३४॥
(दयितस्य ग्रीष्ममन्मथसन्तापौ द्वावपि/झटिति अपनयति।
मज्जनजलार्द्रचन्दनशिशिरा आलिङ्गनेन वधूः॥)
थोअं पि ण णीसरइ मज्झण्णे उअ सिरीसतललुक्का।
आअवभएण छाही वि पहिअ ता किं ण वीसमसि॥ ३५॥
(स्तोकमपि न निस्सरति मध्याह्ने पश्य शिरीषतललीना।
आतपभयेन छायापि पथिक तत् किं न विश्राम्यसि॥) (गास.१.४९)
खुज्जंबएण कह आ हत्थाहत्थि व उवणिआ तस्स।
मज्झण्हे मूललग्गत्थोअं—च्छाहिं कुणंतेण॥ ३६॥
(कुब्जाम्रेण कथमाः हस्ताहस्तिमिवोपनीता तस्य।
मध्याह्ने मूल—लग्न—स्तोकच्छायां कुर्वता॥)
(१५) (अपराह्णकरणीयम् आपराह्णिकम्)
आअंबलोअणाणं ओल्लंसुअपाअडोरुजहणाणं।
अवरण्हमज्जरीणं कएण कामो वहइ तावं!॥ ३७॥
(गास. ५.७३)
(आताम्रलोचनानां आर्द्रांशुकप्रकटितोरुयुगलानाम्।
अपराह्णमज्जनशीलानां कृते न कामो धनुर्वहति॥)
अवरण्हागअजामाउअस्स विउणेइ मोहणुक्कंठं।
वहुआएँ घरपरोहुडमज्जणमुहलो वलअसद्दो॥ ३८॥
(गास. ७.८३)
(अपराह्णागतजामातुर्द्विगुणयति मोहनोत्कण्ठाम्।
वध्वा गृहपश्चाद्भागमज्जनमुखरो वलयशब्दः॥)
खिण्णस्स उरे पइणो ठवेइ गिम्हावरण्हरमिअस्स।
ओल्लं गलंतपुप्फं ण्हाणसुअंधं चिहुरहारं॥ ३९॥
(गास. ३.९९)
(खिन्नस्य स्थापयति उरसि पत्युः ग्रीष्मापराह्णरमितस्य।
आर्द्रं गलत्पुष्पं स्नानसुगन्धं चिकुरभारम्॥)
सालोए च्चिअ सूरे घरिणी घरसामिअस्स घेत्तूण।
णेच्छंतस्स वि पाए धुअइ हसंती हसंतस्स॥ ४०॥
(गास. २.३०)
(सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा।
अनिच्छतोऽपि पादौ धावति हसन्ती हसतः॥)
(१६) सवितुरस्ताचलोपगमनम् अस्तः यथा—
गवां गच्छन्तीनां प्रतिवसतिपूतेन रजसा दिशः श्यामायन्ते तनुतिमिरपीतातपतृषः।
निरस्तं तेजोभिर्जरठकमठक्रोडकपिलं गिरेरस्तस्याङ्के पतति सवितुर्बिम्बवलयम्॥ ४१॥
इदं भासां भर्तुर्द्रुतकनकगोलप्रतिकृति क्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम्।
अथैनं प्राचीनः सरति मुरलीगण्डमलिन— स्तरुच्छायाचक्रैस्स्तबकित इव ध्वान्तनिचयः॥ ४२॥
(१७) अहर्विभावर्योः सन्धि, सन्ध्या, यथा—(विक्र. ३.२)
उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणो धूमैर्जालविनिस्सृतैर्वलभयस्सन्दिग्धपारावताः ।
आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः सन्ध्यामङ्गलवर्तिका विभजते शुद्धान्तवृद्धो जनः॥ ४३॥
सन्ध्याकान्तिकषायितेन नभसा प्रत्यक्षसन्दर्शनै— र्लीलावेश्मनि दीपरश्मिजटिलं नीलं तमो जृम्भते।
वेल्लद्बाहुलताविलोलवलयं स्वानैरितः सूचित— व्यापाराः प्रतियोजयन्ति विविधान् वाराङ्गना वर्णकान्॥ ४४॥
(१८) निशागमान्धकारस्तमो यथा—(सेब. १०.२५)
ताव अ तमालकसणो कंचणकडअं व बहलसंझाराअं।
पडिपेल्लिऊण अ तमो हिअकद्दमसुरगइंदणिहसो व्व ठिओ॥ ४५॥
(तावच्च तमालकृष्णः काञ्चनकटकमिव बहलसन्ध्यारागम्।
प्रतिप्रेर्य एव तमः हृतकर्दमसुरगजेन्द्रनिकष इव स्थितः॥)
आसण्णम्मि पविरलं बहलं थोअंतरम्मि दूरम्मि घणं।
ओभग्गदिट्ठिपसरं सव्वत्थ समट्ठिअं पि दीसइ तिमिरं॥ ४६॥
(आसन्ने प्रविरलं बहलं स्तोकान्तरे दूरे घनम्।
अवभुग्नदृष्टिप्रसरं सर्वत्र समस्थितमपि दृश्यते तिमिरम्॥)
(सेब. १०.२६)
घउइगाअणंमि महीमहिवग्गम्मि वणिसम्मलणहाहोलो।
घडिअणहमेलइणिआलेअच्छाअग्गहलंबआरंमि जअं॥ ४७॥
कुवलअ—दलउत्तंसिहिं णीसहिसअंसणिहिं मरगअगेज्जाकंतिहिं लसिदसअणीहिं।
तिमिरुग्गमभरे मिगमअ—मंडण—धारिअहिं पंगणे ताव गआगम किअ अभिसारिआहिं॥ ४८॥
(कुवलयदल—अवतंसाभिरसितनिवसनाभिः मरकत—ग्रैवेयक—कान्तिभिर्लसितनिवसनाभिः।
तिमिरोद्गमभरे मृगमदमंण्डनधारिणीभिः प्राङ्गणे तावद् गतागतानि कृतानि अभिसारिकाभिः॥)
(१९) इन्दोरुद्गमः चन्द्रः यथा—
तावअ सुवेल-धराहर-कडअ-तडंतरिअ-ससि-अर-परिगहिआ।
दीसइ थोअत्थिता अंसमारुहंति व्व णहअलं पुव्वदिसा॥ ४९॥
(तावच्च सुवेलधराधरकटकतटान्तरितशशिकरपरिगृहीता।
दृश्यते स्तोकस्थिता अंसमारोहन्तीव नभस्तलं पूर्वदिशा॥)
विद्दुम-वलअद्ध-णिहाराहिरोग्गआ अवरा णु दाढा सुहआ।
सोहइ असोअ-णिम्मिअ-वम्मह-चाव-तणुई मिअंकस्स कला॥ ५०॥
(विद्रुमवलयार्ध-नीहार-हीरोद्गतापरा दंष्ट्रा-सुभगा।
शोभते अशोकनिर्मितमन्मथचापतन्वी मृगाङ्कस्य कला॥)
जोण्हारस-चुण्णइअं कर-विच्छूढ-तिमिराअ-परिक्खेवं।
रइअ-मअ-पत्तलेहं मुहं व रअआणीए दाविअं ससिबिंबं॥ ५१॥
(ज्योत्स्नारसचूर्णायितं करविक्षिप्त—तिमिरायितपरिक्षेपम्।
रचित-मद-पत्रलेखं मुखमिव रजन्या दर्शितं शशिबिम्बम्॥)
पढमं विद्दुमअप्पो पच्छा होहि सविसेसधवलच्छाओ।
मअ-पल्लविअ-विलासिणि-मुह-पडिमा-मुक्कदप्पणो व्व मिअंको॥ ५२॥
(प्रथमं विद्रुमकल्पः पश्चाद् भवति सविशेषधवलच्छायः।
मदपल्लवितविलासिनीमुखप्रतिमामुक्तदर्पण इव मृगाङ्कः॥)
(२०) चन्द्रातपो ज्योत्स्ना यथा—
चंदाअवंमि जाअइ मारुअविहुअविडप्पंतरसामोवइए।
कुमुउप्पलवापीणं प्ररूढ धवलकसणं दुमच्छाआणं॥ ५३॥
(चन्द्रातपे जाते मारुतविधुतविसर्पमाणरसामोदयुते।
कुमुदोत्पलवापीनां प्ररूढं धवलकृष्णं द्रुमच्छायाणाम्॥)
भिण्णतम-दुद्दिणाइं विडवंतर-विरल-पडिअ-चंदकराइं।
थोअ-सुहालोआइं पअडंति व मुद्धपल्लवाइं वणाइं॥ ५४॥
(सेब. १०.४४)
(भिन्नतमोदुर्दिनानि विटपान्तरविरलपतितचन्द्रकराणि।
धौतसुखालोकानि प्रगलन्तीव मुग्धपल्लवानि वनानि॥)
दीपाअवपिंजरिआ कामिणिहसिअव्वआ परिग्गहसुआ।
होंति गवक्खोवगआ कालाअरु-दद्ध-धूसरा ससिकिरणा॥ ५५॥
(दीपातपपिञ्जरिता कामिनीहसितव्याः परिग्रहसुखाः।
भवन्ति गवाक्षोपगताः कालागरुदग्धधूसराः शशिकिरणाः॥)
गोरंगउ तरुणीअणो जोण्हाइं अहिसरइ सिअ-णेवच्छ-पडिच्छेओ वल्लह-बद्ध-रइ।
तच्छाअहिं पुणु चलिअउ सामलगत्तिअहिं णीलउ वेसु वहंतिहिं मअणुम्मतिअहिं॥ ५६॥
(गौराङ्गस्तरुणीजनो ज्योत्स्नायामभिसरति सितनेपथ्यपरिच्छदो वल्लभबद्धरतिः।
तच्छायासु पुनश्चलितं श्यामलगात्राभिः नीलं वेशं वहन्तीभिर्मदनोन्मत्ताभिः॥) (सक. ३.१३१)
(२१) निशाप्रथमयामकर्म प्रादोषिकं यथा—
सज्जिज्जइ उवआरो अहो रइअंपि पुणो रइज्जइ सअणं।
संभरिअ वाणि-अत्था अप्पाहिअ-पत्थिआ वि रुब्भइ दूई॥ ५७॥
(सज्जीक्रियते उपचारः अहो रचितमपि पुना रच्यते शयनम्।
संस्मृत्य वाण्यर्थान्, सन्दिष्टप्रस्थितापि रुध्यते दूती॥)
पिज्जइ पीअं पि महु दीसइ दिट्ठो वि दप्पणे अप्पाणो।
अणुआण रागपसरा पुच्छिज्जइ पुच्छिआ पुणो वि पिअकहा॥ ५८॥
(पीयते पीतमपि मुधु दृश्यंते दृष्टोऽपि दर्पणे आत्मा।
अनुजानां रागप्रसरा पृच्छ्यते पृष्टा पुनरपि प्रियकथा॥)
अज्जेइ लोअणाइं बंधइ रसणं रएइ तिलआलेक्खं।
जाओ होंत-समागम-सुहेक्क-रसिओ वि वाउलो जुअइजणो॥ ५९॥
(अनक्ति लोचने वध्नाति रशनां रचयति तिलकालेख्यम्।
जातो भविष्यत्समागम—सुखैक—रसिकोऽपि व्याकुलो युवतिजनः॥)
एत्तहे उत्तहे जंतहि तोरणवंतिअहिं दूइत्तणु वेसंतिहि पंथुणिअंति अहिं।
वेसविसेसु लयंत मुअंतिहिं वालिअहिं परिअणु किउ विहडप्फडमुत्तालिअहिं॥ ६०॥
(अत्र तत्र यान्तीभिस्तोरणवतीभि— र्दौत्यं प्रेषयन्तीभिः पन्थानमीक्षमाणाभिः।
वेषविशेषं गृह्न्मुञ्चन्तीभिर्बालाभिः परिजनः कृतो व्याकुलः स्फुटमुत्तालाभिः॥)
(२२) अर्धरात्रं निशीथः यथा—
क्व प्रस्थितासि करभोरु! घने निशीथे प्राणेश्वरो वसति यत्र जनः प्रियो मे।
एकाकिनी वद कथं न बिभेषि बाले! नन्वस्ति पुङ्खितशरो मदनः सहायः॥ ६१॥
(अमरु. ७१)
सखि! स विजितो वीणाद्युते कयापि परस्त्रिया पणितमभवत् ताभ्यां तस्मिन्निशाललितं ध्रुवम्।
कथमितरथा शोफालीषु स्खलत्कुसुमास्वपि स्थितवति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यते॥ ६२॥
(दशरू. २.२५) (२३) अपररात्रं रात्रिपरावृत्तिर्यथा—(किराता. ९.७४, ७६)
अन्योन्यरक्तमनसामथ बिभ्रतीनां चेतोभुवः सुरसखाप्सरसां निदेशम्।
वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिमियाय रात्रिः॥ ६३॥
कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मदमन्दम्।
हर्म्येषु माल्यमदिरापरिभोगगन्धानाविश्चकार रजनीपरिवृत्तिवायुः॥ ६४॥
प्रातः प्रियेषु सुरतश्रमगाढनिद्रासीदुद्भुजोच्छ्वसितपीनपयोधराणि। आलिङ्गनानि घटयन्ति विलासिनीनां प्रत्यग्रबोधबहुलाः कृकवाकुवाचः॥६४॥
नाधन्यैः क्षणदाविराममधुराः किञ्चिद्विनिद्रालस— श्रोत्रैः सव्रणमुग्धचारणवधूदन्तच्छदायासिनः।
श्रूयन्ते मृदुपीतभुक्तमरुतः पौराणरीतिक्रम— व्यालोलाङ्गुलिरुद्धमुक्तसुषिरश्रेणीरवा वेणवः॥ ६६॥
(२४) प्रत्युषकालकर्म प्राभातिकं, यथा—
ताव अ रअणिवहूए परिअत्तंतीए मलिअ-ताराकुसुमो।
जाओ परिमलपिसुणो उअ णच्चंतो व्व पाअडो पच्चूसो॥ ६७॥
(तावच्च रजनीवध्वां परिवर्तमानायां मृदितताराकुसुमः।
जातः परिमलपिशुनः पश्य नृत्यन्निव प्रकटः प्रत्यूषः॥)
भूमि—णिमिएक्कचलणं पिअअमहुत्त—परिअत्तिआणण—कमलं।
सोहइ पेम्मणिअलिअं णअणद्धंत दरपेच्छिअं॥ ६८॥
(भूमिनिभृताङ्कचरणं प्रियाऽप्राप्तपरिवर्तिताननकमलम्।
शोभते प्रेम निगलितं शयनार्धान्तदरप्रेक्षितं युवतीनाम्॥)
गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्रबिम्बाधरोष्ठयाः।
विरहविधुरमिष्टा सत्सखीवाङ्गनाया हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः॥ ६९॥
(किराता. ९.७८)
एताश्चूर्णितचूर्णकुन्तलभृतः क्षुण्णस्त्रगामोदिनी— र्बिभ्राणाः कबरीः कुरङ्गकदृशो विस्त्रंसिबन्धाकुलाः।
केलिप्रौढिविलुप्तवर्णकतया बिम्बैकशेषैः पुरो पत्रालीतिलकैर्दिशन्ति विजयं सौभाग्यवैदग्ध्ययोः॥ ७०॥
(२५) क्रीडार्थं काननविहारागमनं यथा— (माघ. ७.१,३,४,१५,४४,४५,५०,४६)
अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम्।
निरगमदभिरोद्धुमादृतानां भवति महत्सु न निष्फलः प्रयासः॥ ७१॥
अवसरमधिगम्य तं हरन्त्यो हृदयमयत्नकृतोज्ज्वलस्वरूपाः।
अवनिषु पदमङ्गनास्तदानीं व्यदधत विभ्रमसम्पदोऽङ्गनासु॥ ७२॥
नखरुचिरचितेषु चापलीनं ललितगतेषु गतागतं दधाना।
मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः॥ ७३॥
अविरलपुलस्सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः।
घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार॥ ७४॥
(२६) वने विविक्तालोकजनः कामिनां चेष्टाविशेषो वनविहारः (यथा)—
व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः।
यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद् विवव्रे ॥ ७५॥
मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि।
तदपि न किल बालपल्लवाग्रग्रहपरया विविदे विदग्धसख्या॥ ७६॥
इदमिदमिति भूरुहां प्रसूनैर्मुहुरभिलोभयता पुरः प्रकोष्ठ्या।
अनुरहसमनायि वल्लभेन त्वरयति रन्तुमहो जनं मनोभूः॥ ७७॥
विलसितमनुकुर्वती पुरस्ताद् धरणिरुहाधिरुहो वधूर्लतायाः।
रमणमृजुतया पुरस्सखीनामकलितचापलदोषमालिलिङ्ग॥ ७८॥
(२७) कामिनामन्योन्यानुरागहेतुः कुसुमपल्लवादिग्रहणविभ्रमः पुष्पापचयः, यथा— (किराता—८.१५, १८, १९, १६)
प्रियेऽपरा यच्छति वाचमुन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया।
समादधे नांशुकमाहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम्॥ ७९॥
विलम्बमानाकुलकेशशपाशया कयाचिदाविष्कृतबाहुमूलया।
तरुप्रसूनान्यपदिश्य सादरं मनोऽधिनाथस्य मनः समाददे॥ ८०॥
व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीबरस्तनी॥ ८१॥
सलीलमामुक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम्।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया॥ ८२॥
(२८) वनविहारायाससूचकोऽवस्थाविशेषः श्रमानुभवः, यथा— (माघ. ७.३९७१—७३)
प्रथममलघुमौक्तिकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेखम्।
कठिनकुचतटाग्रपाति पश्चादथ शतशर्करतां जगाम तासाम्॥ ८३॥
अविरतकुसुमापचायखेदान्निहितभुजालतयैकयोपकण्ठम्।
विपुलतरनिरन्तरावलग्नस्तननिहितप्रियवक्षसाललम्बे॥ ८४॥
अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य।
तनुरभिलषितुं क्लच्छलेन व्यवृणुत वेल्लितवाहुवल्लरीकाः॥ ८५॥
हिमलवसदृशश्रमोदबिन्दूनपनयता किल नूतनोढवध्वाः।
कुचकलशकिशोरके कथंचित्तरलतया तरुणेन पस्पृशाते॥ ८६॥
(२९) श्रमातपादिविगमहेतुर्लतागृहातपत्राद्याश्रयः प्रच्छायादिकसेवा, यथा—(माघ.८.३—५)
नीरन्ध्रद्रुमशिशिरां भुवं वहन्ती साशङ्कं मुहुरिव कौतुकात् करैस्ताः।
पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः॥ ८७॥
एकस्यास्तपनकरैः करालिताया बिभ्राणाः सपदि सितोष्णवारणत्वम्।
सेवायै वदनसरोजनिर्जितश्रीरागस्य प्रियमिव चन्द्रमाश्चकार॥ ८८॥
स्वं रागाविपरिवितन्वतोत्तरीयं कान्तेन प्रतिपथवारितातपायाः।
सच्छत्रादपरविलासिनीसमूहाच्छायासीदधिकतरा तदापरस्याः॥ ८९॥
संक्षोभक्षमगहनामथापगङ्गं बिभ्राणं ज्वलितमणीनि सैकतानि।
अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम्॥ ९०॥
(३०) नद्यादौ मज्जनविलासो जलक्रीडा यथा—(किराता. ८.४२,४९,४३,४४)
शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्क्तिषु।
नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु॥ ९१॥
प्रियैस्सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः।
सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः॥ ९२॥
ह्रदाम्भसि न्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरमुज्झति।
मुहुः स्तनैस्तालसमं समाददे मनोरमं नृत्तमिव प्रवेपितम्॥ ९३॥
श्रिया हसद्भिः कमलानि सस्मितैरलङ्कृताम्बुप्रतिमागतैर्मुखैः।
कृतानुकूला सुरराजयोषितां प्रसादसाफल्यमवाप जाह्नवी॥ ९४॥
(३१) स्नानाद्यनन्तरं वस्त्राभरणमाल्यानुलेपनादिग्रहणं नैपथ्यप्रयोगो यथा—
किं भूषणैस्तव विभूषितमात्मनैव दिग्धं रुचैव मलिनैरलमङ्गरागैः।
स्वच्छाम्बरं वपुरुपाहितरूपगर्वं स्त्रानार्द्रमेव सुभगे! मुदमादधाति॥ ९५॥
आलिख्य पत्रमसिताऽगुरुणाभिरामं रामामुखे क्षणविभासितचन्द्रबिम्बे।
जातश्चिराद् विकसनाऽ१ वसरोऽयमस्येत्युक्त्वा सखी कुवलयं श्रवणे चकार॥ ९६॥
दोलायमानपटुकान्तिलतं ललाटपट्टं ललामललितश्रियमुद्वहन्त्या।
एकीभवत्सुरशरासनशीतरश्मिखण्डाहतामनुचकार दिवं नभःश्रीः॥ ९७॥
श्लाघ्यात्मना दशनकोटिकृतच्छदेन सम्प्राप्य चुम्बनसुखानुभवं तदानीम्।
रागात् कुशेशयदृशामधरेषु नागवल्लीदलेन यदकारि किमद्भुतं तत्॥ ९८॥
(३२) सम्भोगविशेषार्थमाक्रीडशैलसेवा क्रीडापर्वतविहारः, यथा—(कुसं. ८.२२–२५)
मेरुमेत्य मरुदाशुवाहनः पार्वतीस्तनपुरस्कृतः कृती।
हेमपल्लवविभङ्गसंस्तरानन्वभूत् सुरतमर्दनक्षमान्॥ ९९॥
पद्मनाभवलयाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषों नवाः।
मन्दरस्य कटकेषु चावसत् स प्रियावदनपद्मषट्पदः॥ १००॥
वारणध्वनितभीतया तया कण्ठसक्तमृदुबाहुबन्धनः।
एकपिङ्गलगिरौ जगद्गुरुर्निर्विवेश विशदाः शशिप्रभाः॥ १०१॥
तस्य जातमलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम्।
आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः॥ १०२॥
१. ‘कसनाऽवसरोऽयम’=‘कसनाद्वसरो(?)यम’ राघवः। (३३) समारूढप्रौढविस्त्रम्भानुरागोद्दीपनाय देश्या महिम्निदेश्याश्च माहिमान्यश्च विविधक्रीडाः प्रवर्तयेत्। तास्वेकमेव कुसुमनिर्भरं शाल्मलीवृक्षमाश्रित्य सुनिमीलितकादिभिः खेलनं क्रीडा एकशाल्मली (कामसू. जयमं. १.४) यथा—
को एसोत्ति पलोत्तुं सामलीजाणिअं पियं परिक्खसइ।
हलिअसुअं मुद्धवहू सेअजलोल्लेण हत्थेण॥ १०३॥
(क एष इति प्रत्यावर्तितुं शाल्मलिज्ञातं प्रियं परिपातयति।
हालिकसुतं मुग्धवधूः स्वेदजलार्द्रेण हस्तेन॥) (सक. ५.३०३)
जो वि ण पुच्छइ तस्स वि कहेइ भंगाइं तेण वलआइ।
अइउज्जुआ हआसा अहव पिओ से वराईए॥ १०४॥
(योऽपि न पृच्छति तस्यापि कथयति भग्नानि तेन वलयानि।
अतिऋजुका हता अथ वा प्रियः तस्याः वराक्याः॥)
(गास. ५.३८)
(३४) यत्र कस्ते प्रिय इति पृच्छद्भिः पलाशादिनवलताभिः प्रियजनो हन्यते सा नवलतिका, यथा—
वाडेइ विदिअं गम्मिज्जं मिविदिण ॰ ॰ ए वलइअं।
सअलावअबाइ समुच्चलंतिसेतम्मि आवसिओ॥ १०५॥
णवलअप्पहरमङ्गे जहिं जहिं महइ देअरो दाउं।
रोमंचदंडराई तहिं तहिं दीसइ बहुए॥ १०६॥
(नवलताप्रहारमङ्गे यत्र यत्रेच्छति देवरो दातुम्।
रोमाञ्चदण्डराजिस्तत्र तत्र दृश्यते वध्वाः॥) (गास. १.२८)
तेण इर णवलआए दिण्णो पहरो इमीअ थणवट्ठे।
गामतरुणीहिं अज्ज वि दिअहं परिआलिआ भमइ॥ १०७॥
(तेन किल नवलतया दत्तः प्रहार एतस्याः स्तनपृष्ठे।
ग्रामतरुणीभिरद्यापि दिवसे प्रतिपालिता भ्रमति॥) (सक. ५.२२९)
णवलअपहरुत्तत्थाए तं कअं किं वि सुण्हाए।
जं अज्जवि जुअइजणो घरे घरे सिक्खिउं महइ॥ १०८॥
(नवलताप्रहारोत्त्रस्तया तत्कृतं किमपि स्नुषया।
यदद्यापि युवतिजनो गृहे गृहे शिक्षितुं भ्रमति॥) (गास. ८६२वे.)
(३५) पाञ्चालमुनिप्रवर्तिता भिन्नभाषावेषचेष्टितैः प्रहासक्रीडा पाञ्चालानुयातम्, यस्या भूतमात्रे प्रसिद्धिः, यथा—(कर्पूरमञ्जरी ४.१३,१४,१५,१७)
हत्थे महामंसवलीधराओ हुंक्कार—फेक्काररवा रउद्दा।
णिसाअरीणं पडिसीसएहिं अण्णा मसाणाभिणअं कुणन्ति॥ १०९॥
(हस्ते महामांसबलिधारिण्यो हुङ्कारफेत्काररवा रौद्राः।
निशाचरीणां प्रतिशीर्षकैरन्या महाश्मशानाभिनयं कुर्वन्ति॥)
इमा मसी कज्जलकालकाआ तिक्कण्डचावाओ विलासिणीओ।
पुलिंदरूवेण जणस्स हासं स—मोरपिंछाभरणा कुणंति॥ ११०॥
(इमा मषीकज्जलकालकायाः त्रिकाण्डचापाः विलासिन्यः।
पुलिन्दरूपेण जनस्य हासं समयूरपिञ्छाभरणाः कुर्वन्ति॥)
कोउहल्लवस—जंगमवेसा वेणुवादणपरा अवराओ।
कालवेसवसहासिअलोआ ओसरंति पणवंति हसंति॥ १११॥
(कौतूहलजननाङ्गनिवेशाः वेणुवादनपराः अपराः।
कालवेशवशहासितलोका अपसरन्ति प्रणमन्ति हसन्ति॥)
कावि वाइअकरालहुहुक्का मढ्ढमद्दललएण मअच्छी।
भूलदाहिं परिवाडिचलाहिं चल्लिकम्मकरणंमि पअठ्ठा॥ ११२॥
(कापि वादितकरालहुहुक्का मत्तमर्दललयेन मृगाक्षी।
भ्रूलताभ्या परिपाटीचलाभ्यां चेदिकर्मकरणे प्रवृत्ता॥)
(३६) प्रथमवर्षणप्ररूढनवतृणाङ्कुरासु स्थलीषु शाद्वलमभ्यर्च्य भुक्तपीतानां कृत्रिमविवाहा— दिक्रीडा नवपत्रिका। तत्र च वरणविधानादौ तेषामेवंविधाः परिहासा भवन्ति, यथा—
आसण्णकुडुंगे जुण्णदेउले बहु—जुआण—संकिण्णे।
थेरो त्ति पइ मा रुअसु पुत्ति! दिण्णासि सुग्गामे॥ ११३॥
(आसन्ननिकुञ्जे जीर्णदेवकुले बहुयुवसङ्कीर्णे।
स्थविर इति पतिः मा रुदिहि पुत्रि दत्तासि सुग्रामे॥)
ता कुणह कालहरणं तुवरंतम्मि वि वरे विवाहस्स।
जा पंडु—णहपआइं होंति कुमारीए अंगाइं॥ ११४॥
(तावत् कुरुत कालहरणं त्वरमाणेऽपि वरे विवाहस्य।
यावत् पुनः (अ)नखपदानि भवन्ति कुमार्या अङ्गानि॥) (सक. ५.३१२)
कइआ जाआ कइआ णु सिक्खिआ माउआ हइकुमारी।
तं तं जाणइ सव्वं जं जं महिलाजो जाणंति॥ ११५॥
(कदा जाता कदा नु शिक्षिता मातर्हतकुमारी।
तत्तज्जानाति सर्वं यद्यन्महिला जानन्ति॥)
(गास.८२५वे.)
तत्थ वि होंति सहीओ पुत्तिइ मा रुअसु जत्थ दिण्णासि।
वंजुलणिउंजलीला तत्थ वि गिरिवाहिणी गोला॥ ११६॥
(तत्रापि भवन्ति सख्यः पुत्रिके! मा रोदीः यत्र दत्तासि।
वञ्जुलनिकुञ्जलीला तत्रापि गिरिवाहिनी गोदा॥)
(गास.८८५वे.) (३७) वर्षासु कदम्बनीपहरिद्रुमादिकुसुमैः प्रहरणभूतैर्द्विधा बलं विभज्य कामिनां क्रीडाः कदम्बयुद्धानि यथा—
सहिआहिं पिअ-विसज्जिअ-कलंब-रअ-भरिअ-णिब्भरू-स्सिओ/रुच्छसिओ।
दीसइ कदंबधवओ व्व थणहरो हलिअसुह्णाए॥ ११७॥
(सखीभिः प्रियविसर्जितकदम्बरजोभरितनिर्भरोच्छ्वसितः।
दृश्यते कदम्बस्तबक इव स्तनभरो हालिकस्नुषायाः॥)
(सक. ५.३११)
थणवट्ठु च्चिअ कलंवरेणुणिब्भरणिमीलिअच्छीए।
भहम्मइ सेसो वि जणो कलंबकुसुमोमेहिं सुह्णाए॥ ११८॥
(स्तनपृष्ठमेव कदम्बरेणुनिर्भरनिमीलिताक्ष्याः।
हन्यते शेषोऽपि जनः कदम्बकुसुमैः स्नुषायाः॥)
हम्मइ पिआए दइओकलंबगुच्छेण मुच्छइ दिअरो।
हम्मइ दइएण पिआ पीडा उण से सवत्तीणं॥ ११९॥
(हन्यते प्रियया दयितः कदम्बगुच्छेन मूर्च्छति देवरः।
हन्यते दयितेन प्रिया पीडा पुनस्तस्याः सपत्नीनाम्॥)
धण्णो सि रे हविदुअं/हलिद्दअ हलिअसुआपपीणत्थणहरुच्छंगे।
पेच्छंतस्स वि पइणो जं तुह कुसुमाइ णिपडंति॥ १२०॥
(धन्योऽसि रे हरिद्रक हलिकसुतापीनस्तनभरोत्सङ्गे।
प्रेक्षमाणस्यापि पत्युः यत् तव कुसुमानि निपतन्ति॥)
(गास. ८६३वे.) (३८) अभिनवविसाङ्कुरोद्भेदसमये सरस्समाश्रित्य कामिमिथुनानां क्रीडा विसखादिका, यथा—
गेण्हंति पिअअमा पिअअमाण वअणाहि विसलअद्धाइं।
हिअआइं व कुसुमाउह—बाण—कआणेअ—रंधाइं॥ १२१॥
(गृह्णन्ति प्रियतमाः प्रियतमानां वदनाद् विसलतार्धानि।
हृदयानीव कुमुमायुधवाणकृतानेकरन्ध्राणि॥)
(सक. ५.३१३)
दिअरो वहुण्णिआए पुणो पुणो मुह—मुणाल—संकाए।
दंतप्पहं विअत्थइ विहसिज्जंतो पिअअमाए॥ १२२॥
(देवरो भ्रातृजायायाः पुनः पुनः मुखमृणालशङ्कया।
दन्तप्रभां सविकर्षति विहस्यमानः प्रियतमया॥)
एतेनाभ्यूषखादिकेक्षुभक्षिका च व्याख्याता। यथा—(सक. ५.३१७)
मअणग्गिणा करो मे दड्ढो त्ति पुणो पुणो च्चिअ कहेइ।
हलिअसुआ मलिअब्भूसदोहली पामरजुआणे॥ १२३॥
(मथ/मदनाग्निना करो मे दग्ध इति पुनः पुनरेव कथयति।
हलिकसुता मृदिताभ्यूषदोहदिनी पामरयूनि॥)
दिअरस्स सरस—मउअं अंसूमइलेण देइ हत्थेण।
पढमं हिअअं वहुआ पच्छा गंडं सदंतवणं॥ १२४॥
(देवरस्य सरसमृदुकमश्रुमलिनेन ददाति हस्तेन।
प्रथमं हृदयं वधुका पश्चाद् गंडं सदन्तव्रणम्॥)
(सक. ५.३१८) (३९) शक्रमह इन्द्रोत्सवः, यथा—(सक. ५.३१४)
सच्चं चिअ कट्ठमओ सुरणाहो जेण हलिअधूआए।
हत्थेहिं कमलदलकोमलेहिं चिक्को ण पल्लविओ॥ १२५॥
(सत्यमेव काष्ठमयस्स सुरनाथो येन हालिकदुहित्रा।
हस्तैः कमलदलकोमलैः स्पृष्टो न पल्लवितः॥)
इंदमहं दट्ठुमणो संकोइअ—दड्ढ—णाम—रच्छाए।
मोत्तूण तं णिसंको अज्ज जणो कहं णु बोलीणो॥ १२६॥
(इन्द्रमहं द्रष्टुमनाः सङ्कोचितदग्धनामरथ्यया।
मुक्त्वा तं निश्शङ्कः अद्य जनः कथं न्वतिक्रान्तः॥)
(४०) आश्विनपौर्णमासीविलासः कौमुदीप्रचारः, यथा—(सक. ५.३१५)
अह तुएँ सहत्थदिण्णो कह कह वि खलंत-मत्त-जणमज्झे।
तिस्सा थणेसु जाओ विलेवणं कोमुई-वासो॥ १२७॥
(अथ त्वया स्वहस्तदत्तं कथंकथमिव स्खलन्मत्तजनमध्ये।
तस्याः स्तनेषु जातं विलेपनं कौमुदीवासः॥)
घेत्तूण चुण्णमुट्ठ्ठिं हरिसूससिआइँ वेपमाणीए।
भिसुणेमि त्ति पिअअमहत्थे गंदोअअं जाअं॥ १२८॥
(गृहीत्वा चूर्णमुष्टिं अश्रुमलिनेन वेपमानायाः।
अवकिरामीति प्रियतमहस्ते गन्धोदकं जातम्॥)
(गास. ४.१२)
दिअरेण पिआथणए कोमुइवासेण कद्दमिज्जंते।
हसइ परिओससुण्णं उव्वत्तमुहं हलिअवुत्तो॥ १२९॥
(देवरेण प्रियास्तने कौमुदीवासेन कर्दमीकृते।
हसति परितोषशून्यमुद्वृत्तमुखं हलिकपुत्रः॥)
(४१) दीपोत्सवो यक्षरात्रिर्यथा—(सक. ५.३१६)
अण्णे वि हु होंति छणा ण उणो दीवालिआसरिच्छा ते।
जत्थ जहिच्छं गम्मइ पिअवसई दीवअ—मिसेण॥ १३०॥
(अन्येऽपि खलु भवन्ति क्षणा न पुनर्दीपालिकायाः सदृक्षाः।
यत्र यथेच्छं गम्यते प्रियवसतिर्दीपकमिषेण॥)
सुण्हाए हिअअगुणिअं सीसइ दिअरस्स छण—पईवेण।
सज्झस—पअंपिअ—त्थण—णीसासंदोलिअ—सिहेण॥ १३१॥
(स्नुषायाः हृदयगुणितं शिष्यते देवरस्य क्षणप्रदीपेन।
साध्वस—प्रकम्पित—स्तन—निःश्वासान्दोलित—शिखेन॥)
(४२) स्पृहयन्तीव्रतमष्टमीचन्द्रकः, स हि चैत्रचतुर्थीतोऽष्टमचतुर्थ्यामुदीयमानः कामिनीभिराप्यते, यथा—
अवस-हअ-पव्व-चरणेण पुत्ति मा खेअअसु सुअणुं।
उग्गमिहमाणससी तुह वअणसिरीएँ हि जुअसोहो॥ १३२॥
(अवश—हत—पर्वचरणेन पुत्रि! मा खेदयस्व स्वतनुम्।
उद्गमिष्यमाणशशी तव वदनश्रिया युतशोभः॥)
अवसहिअजणो पइणा सलाहमाणेण एच्चिरं हसिओ।
चंद त्ति तुज्झ मुह-संमुह-दिण्ण-कुसुमंजलि-विलक्खो॥ १३३॥
{अवशह(हृ)तजनः पत्या श्लाघ्यमानेनेयच्चिरं हसितः।
चन्द्र इति तव मुख-सम्मुख-दत्त-कुसुमाञ्जलि-विलक्षः॥}
(सक. ५.२११) (४३) यस्यां यवस्त्रस्तरेष्वबला लोलंति सा कुन्दचतुर्थी, यथा—
जहिं तुमं सच्चिविआ विणिअंसण—लोलिरी जुआणेहिं।
ते तत्थ च्छिअ छेत्ते मअउलउब्भेसआ जाआ॥ १३४॥
(यत्र त्वं दृष्टा विनिवसनलोलनशीला युवभिः।
ते तत्रैव क्षेत्रे मृगकुलोद्भेषका जाताः॥)
लुलिआ गहवइधूआ दिण्णं व फलं जवेहिं सविसेसं।
एण्हिं अणिवारिअं व गोहणं चरउ छेत्तंमि॥ १३५॥
(लुलिता गृहपतिदुहिता दत्तमिव फलं यवैः सविशेषम्।
इदानीमनिवारितमेव गोधनं चरतु क्षेत्रे॥)
(सक. ५.३००) (४४) वसन्तावतारदिवसः सुवसन्तकः, यथा—(गास. ४.६९)
फंगुच्छवणिद्दोसं केण वि कद्दमपसाहणं दिण्णं।
थणअलसमुहपलोड्ढंतसेअधोअं किणो धुअसि॥ १३६॥
(फाल्गुनोत्सवनिर्दोषं केनापि कर्दमप्रसाधनं दत्तम्।
स्तनकलशमुखप्रलुठत्स्वेदधौतं किमिति धावयसि॥)
छणपिट्ठधूसरत्थणि महुमअतंबच्छि कुवलआहरणे।
कण्णगअचूअमंजरि पुत्ति! तए मंडिओ गामो॥ १३७॥
(क्षणपिष्टधूसरस्तनि मधुमदताम्राक्षि कुवलयाभरणे।
कर्णगतचूतमञ्जरि! पुत्रि! त्वया मण्डितो ग्रामः॥)
(गास. ८२६वे.) (४५) सहकारकुसुमपल्लवादिभञ्जनं सहकारभञ्जिका, यथा— (शाकु. ६.३)
तुं सि मए चूअंकुर! दिण्णो कामस्स गहिअधणुहस्स।
कामिअण—हिअअ—दलणे पंचब्भहिओ सरो होहि॥ १३८॥
(त्वमसि मया चूताङ्कुर दत्तः कामस्य गृहीतधनुषः।
कामिजनहृदयदलने पञ्चाभ्यधिकश्शरो भव॥)
रइअं पि ता ण सोहइ रइजोग्गं कामिणीण छणणेवच्छं।
कण्णे जाइ ण रइज्जइ कओलघोलंतपल्लवं सहआरं॥ १३९॥
(रचितमपि तावन्न शोभते रतियोग्यं कामिनीनां क्षणनेपथ्यम्।
कर्णे यावन्न रच्यते कपोलघूर्णमानपल्लवं सहकारम्॥)
(सक. ५.३०७) (४६) आन्दोलनक्रीडा दोलाविलासः, यथा—(सक. ५.३०२)
अंदोलणलंघिअतट्टिआएँ दिट्ठे तुमम्मि मुद्धाए।
आसंघिज्जइ काउं कर—पेल्लण—णिच्चला दोला॥ १४०॥
(आन्दोलनलङ्घिततट्टिकपा दृष्टे त्वयि मुग्धया।
आशास्यते कर्तुं करप्रेरणनिश्चला दोला॥)
उच्चवसहित्तणं ते अवरज्झइ चंद मंदसुहस्स।
पाएहिं जं ण छिव्वसि बहूए अंदोलमाणीए॥ १४१॥
(उच्चवसतित्वं तवापराध्यति चन्द्र! मन्दसुखस्य।
पादाभ्यां यन्न स्पृश्यसे वध्वा दोलमानया॥)
(४७) उदकपूर्णा क्ष्वेला वंशनाडी यस्यां क्रीडायां सा उदकक्ष्वेलिका, यथा(रत्ना. १.१२)
अस्मिन् प्रकीर्णपटवासकृतेऽन्धकारे दृष्टो मनाङ्मणिविभूषणरश्मिजालैः।
पातालमुद्यतफणाकृतिश्रृङ्गकोऽयं मामद्य संस्मरयतीव भुजङ्गलोकः॥ १४२॥
श्रृङ्गाणि द्रुतकनकोज्ज्वलानि गन्धाः कौसुम्भं पृथुकुचकुम्भसङ्गि वासः।
माध्वीकप्रियतमसन्निधानमासां नारीणामिति जलकेलिसाधनानि॥ १४३॥
(माघ. ८.३०)
(४८) मदनत्रयोदश्यां कामदेवादिपूजा मदनोत्सवः, यथा—(रत्ना. १.१९)
कुसुमसुकुमारमूर्तिर्दधती नियमेन तनुतरं मध्यम्।
आभाति मकरकेतोः पार्श्वस्था चापयष्टिरिव॥ १४४॥
प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता।
विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव॥ १४५॥
(रत्ना. १.२०) (४९) क्रीडान्ते गृहागमनं गृहप्रत्यागमः, यथा—
कंठावलंबिअपिओ पिअअमकंठाबलंबिओ गेहं।
अणुसरइ खेअ—पसिढिल—गुरुआवअवो पिआसत्थो॥ १४६॥
(कण्ठावलम्बिताप्रियः प्रियतमकण्ठाबलम्बितो गेहम्।
अनुसरति खेदप्रशिथिलगुरुकावयवः प्रियासार्थः॥)
हंहो कण्णुल्लीणा भणामि रे सुहअ किं पि मा तूर।
णिज्जण—पाणद्धीसु कहि पि पुण्णेहिं लद्धोसि॥ १४७॥
(हंहो कर्णोल्लीना भणामि रे सुभग! किमपि मा त्वरस्व।
निर्जनरथ्यासु कथमपि पुण्यैः लब्धोऽसि॥)
बालअ! दूरे गामो पत्तलबहुला इमा अ वणराई।
मा वच्च तुमं मं उज्झिऊण सहि—सत्थ—विच्छुडिअं॥ १४८॥
(बालक दूरे ग्रामः पत्रबहुला इयं च वनराजी।
मा व्रज त्वं मामुज्झित्वा सखीसार्थवियुक्ताम्॥) (सक. ५. २२५)
सा तुइ सहत्थदिण्णं कण्णे काऊण बोरसंघाढं।
लज्जालुइणी वहुआ घरं गआ गामरच्छाए॥ १४९॥
(गास. ५.१९)
(मा त्वया स्वहस्तदत्तं कर्णे कृत्वा बदश्रृङ्गाणम्।
लज्जावती वधूः गृहं गता ग्रामरथ्यया॥)
(५०) सख्यादीनां कर्माणि सहायव्यापारः, यथा—(गास. ७. २)
ए एहि किं पिं तिस्सा कएण णिक्किव भणामि, अलमहवा।
अविआरिअकज्जारंभआरिणी मरउ ण भणिस्सं॥ १५०॥
(ए एहि किमपि तस्याः कृतेन निष्कृप! भणाम्यलमथवा।
अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि॥)
सच्चं जाणइ दट्ठुं सरिसम्मि जणम्मि जुज्जए राओ।
मरउ, ण तुमं भणिस्सं, मरणं पि सहाहणिज्जं से॥ १५१॥
(सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयं तस्याः॥) (गास. १. १२)
ता किं करेउ जइ तं सि तीए वइ-वेढ-पेल्लिअ-थणीए।
पाअंगुट्ठद्धक्खित्त—णीसहंगीएँ वि ण दिट्ठो॥ १५२॥
(तत्किं करोतु यदि त्वमसि तया वृतिवेष्टनपीडित—स्तनया।
पादाङ्गुष्ठार्धोत्क्षिप्तनिस्सहाङ्गयापि न दृष्टः॥) (गास. ३. २१)
अप्पाहिआइ तुह तेण जाइताए मए ण मुणिआइं।
अच्चुण्ह—सास—परिक्खलंत—विसमक्खर—पआइं ॥ १५३॥
(व्याहृतानि तव तया यानि मया न ज्ञातानि।
अत्युच्छ्वासपरिस्खलद्विषमाक्षरपदानि ॥) (गास. ८५९ वे.)
(५१) सम्भोगार्थं शरीरप्रतिकर्म प्रसाधनम् यथा—
दिण्ण—तणु—अंजणाइं जुअइ—अणस्स दर—रत्त—तंबोठ्ठाइं।
आसण्ण—रह—सुहाइं अहिवासिज्जंति वम्महेण मुहाइं॥ १५४॥
(दत्ततनुकाञ्जनानि युवतिजनस्य दर रक्तताम्रोष्ठानि।
आसन्नरतिसुखानि अधिवास्यन्ते मन्मथेन मुखानि॥)
परिउंबणेण अहरो अग्घइ हिअअहरिसेण णअणच्छाआ।
सोहं कुणइ पिओ च्चिअ विरएइ मुहा पसाहणं जुअइअणो॥ १५५॥
(परिचुम्बनेनाधरोऽर्धति हृदयहर्षेण नयनच्छाया।
शोभां करोति प्रिय एव विरचयति मुधा प्रसाधनं युवतिजनः॥)
दरमत्तपत्तलेहो महग्घविअ—पिअअमो—वऊअण—सुहिओ।
पट्ठिमुहट्ठिअहिअओ जाअइ पज्जंतमंडणो जुअइजणो॥ १५६॥
(दररचितपत्रलेखः महार्घप्रियतमोपगूहनसुखितः।
पृष्ठमुखस्थितहृदयो जायते पर्याप्तमण्डनो युवतिजनः॥)
णिम्मविअमंडणाण वि सोहा वासअविमाणिआण विमलिआ।
मोहं णेवच्छमिणं पिअओसो च्चिअ पसाहणं जुअईणं॥ १५७॥
(निर्मितमण्डनानामपि शोभा वासकविमानितानां विगलिता।
मोघं नेपथ्यमेतत् प्रियतोष एव प्रसाधनं युवतीनाम्॥)
(५२) समानलीलाविद्यावित्तवयसानुरूपालापैरासनबन्धो गोष्ठी। तस्यां विहरणं गोष्ठीविहारः। तत्र च—
पुष्पोपहाराज—विजृम्भित—पिण्ड—धूपे दीपांशुभिः कपिशिते धृतदाम्नि हर्म्ये।
कान्तासखः सहचरानुगतश्च कामी श्यामामुखे स्मितमुखो विदधीत गोष्ठीम्॥ १५८॥
सङ्गीतमत्र कलयेन्मृदुकाकलीभिः गाथाः पठेच्च मसृणमदनाग्रदूतीः।
द्वयर्थैः पदैः पिशुनयेच्च रहस्यवस्तु हृद्यं हसेच्च दशनांशुभिरुल्लसद्भिः॥ १५९॥
तत्र गाथा यथा—(सक. ५. २२४, ३.५७)
पोढमहिलाणं जं जं सुठ्ठु सिक्खिअं तं रए सुहावेइ।
जं जं असिक्खिअं णववहूण तं रइं देइ॥ १६०॥
(प्रौढमहिलानां यद्यत् सुष्ठु शिक्षितं तत्तद् रते सुखयति।
यद्यदशिक्षितं नववधूनां तत्तद् धृतिं ददाति॥)
द्वयर्थपदप्रयोगो यथा—(वल. ५३८)
चंदणवलिअं दिढकंचिबंधणं दीहरं सुपरिणाहं।
होइ घरे साहीणं मुसलं धण्णाण महिलाण॥ १६१॥
(चन्दनवलितं दृढकाञ्चीबन्धनं दीर्घं सुपरिणाहम्।
भवति गृहे स्वाधीनं मुसलं धन्यानां महिलानाम्॥)
(५३) रत्यावासप्रवेशो वासगृहोपगमनम्, यथा—(सेब. १०.५९)
वेवइ ससिइ किलम्मइ सअणे आमुअइ णीसहो अंगाइं।
ण विणज्जइ किं भीओ ओ मअपरव्वसो विलासिणीसत्थो॥ १६२॥
(वेपते श्वसिति क्लाम्यति शयने आमुञ्चति निस्सहोऽङ्गानि।
न विज्ञायते किं भीत उत मदपरवशो विलासिनीसार्थः॥)
णेवच्छ—दिण्ण—हिअओ ओसारिअ—सहीअणो—अंतट्ठिओं णिहुअं।
पेच्छइ आइत्तपहं पिअ—पडिवत्ति—रसिओ विलासिणीसत्थो॥ १६३॥
(नेपथ्यदत्तहृदयोऽपसारितसखीजनोऽन्तःस्थितो निभृतम्।
प्रेक्षते आदीप्तपथं प्रियप्रतिपत्तिरसिको विलासिनीसार्थः॥)
आलिहदि पिअअमा आसण्णविओअं वम्महआउर—हिअअं।
पुलउग्गमेण पिसुणिअकेअवमाणविमुहं विलासिणिसत्थं॥ १६४॥
(आलिखति प्रियतमा आसन्नवियोगं मन्मथातुरहृदयम्।
पुलकोद्गमेन पिशुनितकैतवमानविमुख विलासिनीसार्थम्॥)
अप्पेइ अ जुवइजणो ताविअदइआए सम्मुहादंस—दिण्णं।
हिअअप्पहुत्तमहिअं मअण—वहुप्पंत—लोअणो परिओसं॥ १६५॥
(अर्पयति च युवतिजनः तापितदयितायाः सम्मुखादर्शदत्तम्।
हृदयप्रभूतमहितं मदनप्रभवल्लोचनः परितोषम्॥)
(५४) मदनार्तागामिकामीनीप्रतिपालनमभिसारिकाप्रतीक्षणं, यथा—(सेब. १०.६५)
अहिसारणं ण गेण्हइ ण संठवेइ अलअं ण पुच्छइ आईं दूइं।
चंदालोअपडिहओ वेवइ मूढहिअओ विलासिणिसत्थो॥ १६६॥
(अभिसारणं न गृह्णाति न संस्थापयति अलकं न पृच्छति आलीम्।
चन्द्रालोकप्रतिहतो वेपते मूढहृदयो विलासिनीसार्थः॥)
अहिसारणट्ठपत्थे चिर—गमणुव्वाअ—णीसहाणं समअणं।
वीसमंउं पढमगअं ण देइ जुबरीण सुरअतुरिअं हिअअं॥ १६७॥
(अभिसारणार्थप्रस्थिते चिरगमनखिन्ननिस्सहानां समदनम्।
विश्रमितुं प्रथमगतं न ददाति युवतीनां सुरतत्वरितं हृदयम्॥)
असमत्तमंडण च्चिअ वच्च घरं से सकोउहल्लस्स।
वोलाविअ—हलहलअस्स पुत्ति चित्ते ण लग्गिहिसि॥ १६८॥
(असमाप्तमण्डनैव व्रज गृहं तय सकौतूहलस्य।
व्यतिक्रान्तौत्सुक्यस्य पुत्रि चित्ते न लगिष्यसि॥) (गास. १. २१)
अलिअपसुत्तअ विणिमीलिअच्छ दे सुहअ मज्झ ओआसं।
गंड—परिउंबणा—पुलइअंग ण उणो चिराइहस्सं॥ १६९॥
(अलीकप्रसुप्तक विनिमिलीताक्ष ददस्व सुभग ममावकाशम्।
गण्ड—परिचुम्बना—पुलिकिताङ्ग! न पुनश्चिरयिष्यामि॥ ) (गास. १.२०)
(५५) प्रियजनाह्वानाय सख्यादिसम्प्रेषणं दूतीविसर्जनं, यथा—(गास. २.८१)
दूइ तुमं विअ णिउणा कक्खड—मउआइ जाणसे बोल्लुं।
कंडूइअपुंडुरं जह ण होइ तह तं कुणिज्जासु॥ १७०॥
(दूति त्वमेव निपुणा कर्कशमृदुकानि जानीषे वक्तुम्।
कण्डूयितपाण्डुरं यथा न भवति तथा तत् करिष्यसि॥)
णिवससि दुक्खसहाआ मह हिअए सो पिओ तहिं चेअ।
सहि सुणह दो वि तुम्हे परमत्थं व संदिसिमो॥ १७१॥
(निवससि दुःखसहाया मम हृदये स प्रियस्तत्रैव।
सखि! श्रृणुत द्वावपि युवां परमार्थमेव सन्दिशामः॥)
सुरअ—सुह—लालसाहिं पिअअम—रत्थंतरेसु पुणरुत्तं।
पेसिज्जंति सरहसं समअं दूर्हहि दिट्ठीओ॥ १७२॥
(सुरतसुखलालसाभिः प्रियतमपथान्तरेषु पुनरुक्तम्।
प्रेष्यन्ते सरभसं समकं दूतीभिर्दुष्टयः॥)
अहिअं समागमाहिं वि पिअअमसंदेसिआहिं दूईहिं।
सोक्खं धूणंदअरा सीसंता देत्ति संदेसा॥ १७३॥
(अधिकं समागमैरपि प्रियतमसन्दिष्टाभिः आलीभिः।
सौख्यं धूयमानकराः शिष्यमाणाः ददति सन्देशाः॥)
(५६) निमित्तविशेषात् प्रियाणां गमने स्वयं ता तत्र गच्छेदिति स्वयं वा गमनं यथा—
विच्छिंदिज्जइ धीरं दारगआ पडिवहं ण णिज्जइ दिट्ठी।
गम्मइ हिअअम्मि गए पिआणं गअदूइमग्गउ च्चिअ वसहिं॥ १७४॥
(विच्छिद्यते धैर्यं द्वारगता प्रतिपथं न नीयते दृष्टिः।
गम्यते हृदये गते प्रियाणां गतदूतीमार्गत एव वसतिम॥)
पढमपहाए पुहिक्किओ पओस—काल—पडिसिद्धवीराभे।
पेच्छइ गमणेद्धवहे चंदकराअप्पिए पिए जुअइजणो॥ १७५॥
(प्रथमप्रभया पृथक्कृतः प्रदोषकालप्रतिषिद्धवीराभे।
प्रेक्षते गमनार्धपथे चन्द्रकरार्पितान् प्रियान् युवतिजनः॥)
सेउल्लिअसव्वंगी गोत्तग्गहणेण तस्स सुहअस्स।
दूइं अप्पाएंती तस्सेअ घरंगणं पत्ता॥ १७६॥
(स्वेदार्द्रितसर्वाङ्गी नामग्रहणेन तस्य सुभगस्य।
दूतीं प्रत्याययन्ती तस्यैव गृहाङ्गणं प्राप्ता॥)
(गास. ५.४०)
सुहउच्छअं जणं दुल्लहं पि दूराहि अम्ह आणेंत।
उअवआरअ जर जीअं पि णेंत ण कआवराहो सि॥ १७७॥
(सुखपृच्छकं जनं दुर्लभमपि विदूरादस्माकमानयन्।
उपकारक ज्वरक जीवमपि नयन्न कृतापराधोऽसि॥)
(गास. १.५०) (५७) प्राप्तस्याभ्युत्थानादिप्रतिपत्तिरागतोपचारः, यथा—
जणिअहरिसाण तक्खणहिअआपडिअं पि पिअअमब्भुट्ठाणं।
अंगेहि कामिणीणं संभावेउं मआलसेहिं ण चअइ॥ १७८॥
(जनितहर्षाणां तत्क्षणहृदयापतितमपि प्रियतमाभ्युत्थानम्।
अङ्गेः कामिनीनां सम्भावयितुं मदालसैः न शक्यते॥)
कामिणीजणस्स सहसा पिअदंसणवित्थरंतहरिसविमुहिआ।
दिवसगुणिआ वि हिअएण होंति पडिवत्तिभरसहा उल्लावा॥ १७९॥
(कामिनीजनस्य सहसा प्रियदर्शनविस्तृण्वद्धर्षविमुग्धाः।
दिवसगुणिता अपि हृदये न भवन्ति प्रतिपत्तिभरसहा उल्लापाः॥)
तामरसकोमलाओ पिअकंठालिंगणे समुक्खित्ताओ।
परिअंमावेलमओ जुअईणं धरेइ वम्महो बाहाओ॥ १८०॥
(तामरसकोमलान् प्रियकण्ठालिङ्गने समुत्क्षिप्तान्।
परिम्भापीडमयान् युवतीनां धारयति मन्मथो बाहान्॥)
परिमन्थराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ।
स्कलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन् गतिभिः॥ १८१॥
(माघ. ९.७८)
(५८)आगतानामनुरागवृद्धये प्रसाधनसंवाहनादिविधिः परिचरणम्, यथा—(कुसं. ८.२७)
तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन्।
नन्दने चिरमयुग्मलोचनस्सस्पृहं सुरवधूभिरीडितः॥ १८२॥
आविवाहसमयाद् गृहे वने शैशवे तदनु यौवने पुनः।
स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते॥ १८३॥ (उराच. १.३७)
लोलांशुकस्य पवनाकुलितांशुकान्तं त्वद्दृष्टिबहारि मम लोचनबान्धवस्य।
अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्तमेव करभोरु! ममोरुयुग्मम्॥ १८४॥(वेसं. २.२३)
किं शीतलैः क्लमविनोदिभिरार्द्रवातान् सञ्चारयामि नलिनीदलतालवृन्तैः।
अङ्के निधाय करभोरु! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ॥ १८५॥
(शाकु. ३.१८) (५९) रिरंसातिशयान् सख्यादीनामनवेक्षणादिभिरुत्थापनं विसर्जनम्, यथा—(किराता. ९.६६)
भर्तृषूपसखि निक्षिपतीनामात्मनः स्फुटमदोद्यमितानाम्।
व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेभ्यः॥ १८६॥
मिथ्यामीलदरालपक्ष्मणि वलत्यन्तः कुरङ्गीदृशो दीर्घापाङ्गसरित्तरङ्गसरले तल्पोन्मुखे चक्षुषि।
पत्युः केलिमतः कथा विरमयन्नन्योन्यकण्डूयनैः को मां व्याहरतीत्युदीर्य निरगात् सव्याजमालीजनः॥ १८७॥
मधुमदपरिपाटलप्रकोपद्विगुणतरारुणितेक्षणं मृगाक्ष्या।
रतिरसमनया घनापराधं प्रियामिव सेर्ष्यदृशा व्यलोकि दीपः॥ १८८॥
अथ रतिरभसादलीकनिद्रामधुरविघूर्णितलोचनोत्पलाभिः।
शयनतलमशिश्रयन् वधूभिः सहमदमन्मथमन्थरा युवानः॥ १८९॥
(६०) कूर्पासकविभूषणादित्यागः कञ्चुकादिमोक्षः, यथा—
सव्वंगत्ता (सव्वंगाओ) हिअकंचुअम्मि मणिवलअणिबिडपरिच्चते।
दे रइ—लालस—लीला—विसूरिअं सहउ मिहुणस्स॥ १९०॥
(सर्वाङ्गाद् हृतकञ्चुके मणिमलयनिबिडपरित्यक्ते।
तावत् रतिलालसलीलाखिन्नं राजतु मिथुनस्य॥)
खिप्पइ हारो थणमंडलाहि तरुणीहिं रमणपरिरंभे।
अग्घिअगुणा वि गुणिनो लहन्ति लहुअत्तणं काले॥ १९१॥
(क्षिप्यते हारः स्तनमण्डलात् तरुणीभी रमणपरिरम्भे।
अर्चितगुणा अपि गुणिनो लभन्ते लघुत्वं काले॥)
(गास. ५.२९)
वीसंतस्स विलासिणिहिए कुसुमाउहस्स रसणाए।
पुण्णाहमंगलं विअ गिज्जउ मुच्चंतबंधाए॥ १९२॥
(विश्राम्यतो विलासिनीहृदये कुसुमायुधस्य रशनया।
पुण्याहमङ्गलमिव गीयते मुच्यमानबन्धया॥)
उत्तारिअ—णेउर—हार—तिलअ—ताडंक—वलअ—रसणंमि।
अविहअपसरो मअणो धावइ अंगम्मि तरुणीणं॥ १९३॥
(उत्तारित—नूपुर—हार—तिलक—ताटङ्क—वलय—रशने।
अविहतप्रसरो मदनो धावत्यङ्गे तरुणीनाम्॥)
(६१) (सुरतो) पक्रमो रतारम्भः यथा—(कुसं. ८.७९, ८०.४)
तत्क्षणं विपरिवर्तिताह्रियोर्निष्य/ च्छतोः शयनमिद्धरागयोः।
सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च१॥ १९४॥
घूर्णमाननयनं स्खलत्कथं/चं स्वेदबिन्दुमद—कारणस्मितम्।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ॥ १९५॥
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः।
तद्दुकूलमथ चाभवत् स्वयं दूरमुच्छ्वसितनीविबन्धनम्॥ १९६॥
घोलइ तहिं तहिं चिअ ण तरइ तरुणीए लंघउं मज्झ।
णाभिमहावत्तभमाडिओ व्व हत्थो पिअअमस्स॥ १९७॥
(घूर्णति तत्र तत्रैव न शक्नोति तरुण्या लङ्घितुं मध्यम्।
नाभिमहावर्तभ्रान्त इव हस्तः प्रियतमस्य॥)
१. मदस्य च = मदनस्येति राघवः, मदनस्य चेति जोशेरः। (६२) आलिङ्गनादिप्रयोगो रतम्, यथा—(माघ. १०.४२)
उत्तरीयविनयात् त्रपमाणा रुन्धती किल तदीक्षणमार्गम्।
आवरिष्ट विकटेन विवोढुर्वक्षसैव कुचमण्डलमन्या॥ १९८॥
लोलदृष्टिवदनं दयितायाश्चुम्बति प्रियतमे रभसेन।
व्रीडया सह विनीवि नितम्बादंशुकं शिथिलतामुपपेदे॥ १९९॥
(किराता. ९. ४७)
सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि।
हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः॥ २००॥
(माघ. १०.७५)
नान्दीपदानि रतिनाटकविघ्नशान्तावाज्ञाक्षराणि परमाण्यथवा स्मरस्य।
दष्टेऽधरे प्रणयिना विधुताग्रपाणेस्सीत्कारशुष्करुदितानि जयन्ति नार्याः॥ २०१॥
(६३) सम्प्रयोगविरामो रतावसानं यथा— (माघ. १०.८०,८८,८२,८४)
प्राप्य मन्मथमदादतिभूमिं दुर्वहस्तनभराः सुरतस्य।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः॥ २०२॥
विश्रमार्थमुपगूढमजस्रं यत् प्रियैः प्रथमरत्यवसाने।
योषितामुदितमन्मथमादौ तद् द्वितीयसुरतस्य बभूव॥ २०३॥
प्रेक्षणीयकमिवेक्षणमासां ह्रीविभङ्गुरविलोचनपाताः।
सम्भ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः॥ २०४॥
श्लिष्टचन्दनविशेषकभक्तिभ्रष्टभूषणकदर्थितमाल्यः।
सापराध इव मण्डनमासीदात्मनैव सृदृशामुपभोगः॥ २०५॥
(६४) रतावसाने सुखस्वापो निद्रानुभवः, यथा—(सक. ५.४७०)
आश्लेषिणः पृथुतरक्लमशीतपीतमायामिनीर्घनमुदो रजनीर्युवानः।
ऊर्वोर्मुहुर्वलयबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ २०६॥
लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलम-१ पलालस्रस्तरे सोपधाने।
परिहरति सुषुप्तं हालिकद्वन्द्वमारात् कुचकलशमहोष्माबद्धरेखस्तुषाऱः॥ २०७॥
१. कलम = कमल राघवः।
व्रीहिः स्तम्बकरिः, प्रभूतपयसः प्रत्यागता धेनवः, प्रत्युज्जीवितभिक्षुणा भृशमिति ध्यायन्नपेतान्यधीः।
सान्द्रोशीरकुटुम्बिनीस्तनभरव्यालुप्तघर्मक्लमो देवे नीरमुदारमुज्झति सुखं शेते निशि ग्रामणीः॥ २०८॥
चिरतररतिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः।
अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्रश्लेषभेदं तरुण्यः॥ २०९॥
(माघ. ११. १३)
क्रियात्मनोऽमी कालस्य भेदाद् विस्रम्भणादयः।
विस्रम्भणादिसम्भोगभेदावच्छेदहेतवः ॥ २१०॥
चतुष्षष्टिरतोऽत्रैव केचिद् विस्रम्भणादयः।
मानाद्यनन्तरेऽपि स्युः केचिच्चन्द्रोदयादयः॥ २११॥
सम्भोग उक्तः प्रथमानुरागादनन्तरस्सोऽयमनेकभेदः।
मानात् प्रवासात् करुणाच्च सम्प्रत्यनन्तराः किञ्चिदुदाह्रियन्ते॥ २१२॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे प्रथमानुरागप्रकाशो नाम ॥ चतुस्त्रिंशः प्रकाशः॥ ३४॥
अयतिष्ट सनातनः प्रकाशे यदयं निर्व्यवधानमेव काश्याम्।
फलमेतदुदीतिमाप नूनं प्रथमः कल्पतरुस्तपो हि भूमौ॥