अथ
श्रृङ्गारप्रकाशे त्रयस्रिंशः प्रकाशः
सम्भोगप्रकाशः
अथातो विप्रलम्भापादितप्रकर्षसम्पदः सम्भोगस्य स्वरूपमुपदेक्ष्यामः।
(सङ्गमपदार्थः)
कः पुनरयं सङ्गमो नाम?
ननूक्तं नायकयोः प्रगसङ्गतयोः सङ्गतवियुक्तयोर्वा मिथस्समागमे प्रागुत्पन्नः तदानीन्तनो वा रत्याख्यः स्थायी भावः अभिलषणीयालिङ्गनादीनामवाप्तौ सत्यां समुपजायमानैः हर्ष—धृति—स्मृति—मतिभिः व्यभिचारिभावैः संसृज्यमानः, ऋतूद्यानोपगमनजलक्रीडा—क्रीडापर्वतोपवेश—प्रसाधनग्रहणमधुपानेन्दूदयादिभिरुद्दीपन— विभावैरुद्दीप्यमानः सविभ्रमभ्रूकटाक्षविक्षेपालापसम्भ्रमस्मितादिभिरनुभावैरभिव्यज्यमानः ईप्सितमासादयन् जिहासितं जिहानः प्राप्तप्राप्यप्रकर्षावस्थः सम्भोगश्रृङ्गाराख्यां लभते।
स चतुर्धा—‘१. प्रथमानुरागानन्तरः, २. मानानन्तरः, ३. प्रवासानन्तरः, ४. करुणानन्तरः’ इति।१
संज्ञा तु नैषा परिभाषिक्येव प्रकृतिप्रत्ययोपसर्गविभागकल्पनायामन्वर्थत्वस्यापि विद्यमानत्वात्। तथाहि—
संक्षेप—सङ्कर—सम्पूर्णत्व—सम्यक्त्वद्योतकसमुपसर्गपूर्वस्य पालनकौटिल्या— भ्यवहारानुभवकर्मणो भुजेः भावे कर्तर्यकर्तरि च कारके संज्ञायां सर्वकालेषु घञि सम्भोग’ इति रूपं भवति।
कः पुनरिह प्रकृत्यर्थः, क उपसर्गार्थः, कः प्रत्ययार्थः, को वा प्रत्ययोत्पत्तिकालः इति?
उच्यते—संज्ञाशब्दानां यथाकथंचित् व्युत्पत्तिरिति दर्शने संज्ञानुरोधादेव योऽर्थो यत्रोपपद्यते स तत्रैव व्यवह्रियत इति। तत्र—
प्रकृत्यर्थविभागे चत्वारो धात्वर्थाः पालनादयः। यथा—‘पृथिवीं भुनक्ति रजा; मूलानि विभुजति रथः; ओदनं भु़ङ्क्ते माणवकः; सुखमुपभुङ्क्ते नागरिकं इति।’ १. द्र. प्रथमानुरागानन्तरः ३४प्रकाशे; मानानन्तरः, प्रवासानन्तरः करुणानन्तरश्च ३५प्रकाशे। चत्वारश्चोपसर्गार्थाः संक्षेपादयः। यथा— सम्प्रीयते कथा गाथकेन, संसृज्यते सूपो लवणेन, संह्रियते याग उपकरणैः, सम्प्रयुज्यते दयितः कान्तयेति।
प्रत्ययार्थविभागेषु पुनरष्टौ प्रत्ययार्थाः— ‘भावो, हेतुः, षट् च कारकाणि’। यथा विलसनं विलासः, विशतः१ प्रयुङ्क्त इति वेशः, सरति कालान्तर इति सारः, प्रास्यतेऽसाविति प्रासः, दीर्यते एभिरिति दाराः, दासन्त्यस्मा इति दासाः, उपेत्याधीयतेऽस्मादित्युपाध्यायः, प्रसीदन्त्यस्मिन्नयनमनांसीति प्रसादः’ इत्यष्टौ च।
प्रत्ययोत्पत्तिकाला भूतो, वर्तमानो, भविष्यन्। अव्यक्तो भूतविशेषो, वर्तमानविशेषो, भविष्यद्विशेषो, व्यक्तविशेष इति। यथा पाकोऽभूत्, पाको भवति, पको भविष्यति, पाको भवेत्, पाको बभूव, पाको न भवति, पाको भविता, पाकस्तत्र भूयादिति।
अथैतेषां मिथः समवायोपादानापेक्षितप्रथमानुरागाद्यानन्तर्यस्तिर्यगादिसाधारणः सामान्येनैव पालनसंक्षेपाद्यर्थविषयः सम्भोगशब्दर्थो विवक्ष्यते। तथा चतुर्णामपि भुज्यर्थानां चतुर्णामपि समुपसर्गार्थानां चतुर्ष्वपि प्रथमानुरागानन्तरादिषु सम्भोगेषु, चतसृष्वपि सम्भोगावस्थासु, सर्वैरपि प्रत्ययार्थैरविशेषेण सार्वकालिकः सम्बन्धो भवति। यथा पुनरपेक्षितप्रथमानुरागाद्यानन्तर्यं प्रकृष्टनागरकादिनायकविषयो यथावस्थमवस्थापित— संक्षेपादिक्रमः क्रमेण पालनकौटिल्याभ्यवहारानुभवशब्दवाच्यः सम्भोगशब्दार्थो विवक्ष्यते तथा यथाक्रमं चतुर्णामपि भुज्यर्थानां चतुर्णामपि समुपसर्गार्थानां, चतसृष्वपि प्रथमानुरागानन्तरादिषु चतसृष्वपि सम्बन्धाभिव्यक्त्यनुबन्धप्रकर्षसज्ञकसम्भोगावस्थासु चतु्र्ष्वपि तदानन्तर्येषु यथायथमुपसृष्टप्रकृत्यर्थविशिष्टः प्रत्ययार्थोऽभिनिविशत इति।
तत्र प्रथमपक्षे सामान्ये न सम्भोगार्थविवक्षायामनवेक्षितप्रथमानुरागाद्यानन्तर्य— स्तिर्यगादिसाधारणः पालनकौटिल्याभ्यवहारानुभवलक्षणो भुज्यर्थः। सोपसर्ग— प्रत्ययार्थोऽभ्यन्तरीकृतभूतादिप्रत्ययोत्पत्तिकाल उपसर्गार्थानुप्रविष्टसम्बन्धादिचतुरवस्थ उदाह्रियते। तद्यथा—(कुसं. ३.३६—३९)
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां तामनुवर्तमानः।
श्रृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः॥ १॥
१. विशत इति राघवोऽपि
ददौ सरःपङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः।
अथोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा॥ २॥
गीतान्तरेषु श्रमवारिलेशैरीषत्समुच्छ्वासितपत्रशोभम्।
पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्ब॥ ३॥
सम्प्राप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः।
लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ ४॥
अत्र च प्रियानुवर्तनविषाणकण्डूयनपानोपच्छन्दनस्वाद्वाहारदानचुम्बनचाटु— परिष्वङ्गप्रीतिदायी सरीसृपमृगपशुपक्षिपुमाभासतरुवद् विशेषाणामविशेषेण सर्वसाधारणप्रेमपालनार्थो गम्यते। अयमेव च प्रयोज्यरञ्जनाय बुद्धिपूर्वकं प्रयुज्यमानः कौटिल्यार्थोऽपि प्रथते। स्वाभिप्रायनिवृ(र्वृ)त्त्यर्थमुपकल्प्यमानोऽभ्यवहारार्थः सम्पद्यते। प्रेमपारवश्यात्तु स्वयमुपजायमानोऽनुभवशब्दवाच्यो भवति।
उपसर्गोऽपीह पालनार्थमुपकल्प्यमाने संक्षेपार्थमालम्बते। संक्षेपेण ह्येतावानेव प्रेमपालनार्थो भवति। प्रयोज्यरञ्जनाय बुद्धिपूर्वकं प्रयुज्यमाने सङ्करार्थः स्पृशति। अयं चेह बुद्धिसङ्करो यत् प्रयोज्याः कथमनुरज्येरन्निति बुद्धयः सङ्कीर्यन्ते। स्वाभिप्रायनिवृ(र्वृ)त्त्यर्थं प्रवर्तमाने सम्पूर्णत्वमवगाहते। अयं चेह सम्पूर्णतार्थो यदुभयेषामपीन्द्रियाणामानुकूल्येषु (न) स्वेषु स्वेषु विषयेषु गर्धातिशयात् प्रवृत्तिः प्रेमपारवश्यात् स्वयमुपजायमाने सम्यक्त्वार्थमाभिनिविशते। इदं च तत्प्रेमवृत्तेः सम्यक्त्वं नाम येयमालिङ्गनादिष्वनुपदेशपूर्विका स्वाभाविकी स्त्रीपुंसयोरन्योन्य— मनुकूलाभ्युपपत्तिरिति।
१. प्रथमादिश्लोकेषु च पालनादिनियमः ‘मधु द्विरेफ’ इत्यादि। इदं हि सा प्रेमपालनोपनिषत्, यद् अन्योन्यानुपपत्त्या एकत्र पानभोजनमानुकूल्यतश्च परिचर्योति। तच्च प्रथमश्लोके सहचरीचित्तानुवृत्त्या पुष्पैकचषके मधु पिबन्मधुव्रतः प्रत्याययति। श्रृङ्गकोटिकण्डूयनजनितसुखनिमीलितलोचनां च वामलोचनामवगम्य परिचर्यायाम— पर्याप्ततृष्णः कृष्णसारो बोधयति।
२. अथ द्वितीयश्लोके कौटिल्यं, तद्यथा ‘ददौ सरःपङ्कजे’ त्यादि। इदं च तद्रतेः स्वभावकुटिलत्वमभिव्यक्त्यवस्थायामुन्मिषति, यदेवं नाम प्रेमपरीक्षा प्रवर्तते यद्यहं ते प्रिया तन्मदुच्छिष्टं भुङ्क्ष्व, यद्यहं ते दयितः तद् भुक्तशेषमुपभुङ्क्ष्वेति। तयोरेकमारण्यकस्यारण्यानामशेषभागेषु विशेषसद्म पद्मसरोऽवगाह्य विहरतो हृदयवल्लभस्य यूथाधिपतेरनेकपस्य सरोजरेणुसम्पर्कीपिञ्जरं कषायसुरभिशीतलं पुराणमैरेयानुकारि वा गण्डूषमर्पयन्ती वाशिता शिक्षयति। द्वितीयमपि द्रमिडीदन्तदारितार्द्रक्रमुकफलपालिकोमलं कषायस्वादुविशदमिन्दुकलाखण्डपाण्डु— रमृणालकबलावशेषमात्मनः प्रियतमायै प्रयच्छन् प्रेमवक्रश्चक्रवाकोऽध्यापयति।
३. तृतीयश्लोके अभ्यवहारार्थो यथा—‘गीतान्तरेषु’ इत्यादि। सोऽयं रतेरभ्यवहारो नाम येयमिन्द्रियाणां विषयेषु गर्धातिशयात् प्रवृत्तिः, सा चेह गीतध्वनिमनोहरे हर्षगद्गदालापे च श्रमजलतुषारशीतलकोमलपरिपाण्डुगण्डमण्डलाभोगे च मदवश— विघूर्णितनयनेन्दीवरे समुल्लसत्पत्रवल्लीविशेषाहरणे च सुधायमानोष्ठपल्लवास्वादे स्वादितमधुविशेषधुरकटुकषाये च स्वेदप्रत्यार्द्रीकृतविचित्रपत्रवर्णकोद्ग्रन्थौ पुष्पासव— सुरभिवदनगन्धवदे च सहचरीमुखेन्दौ किम्पुरुषेणाभ्यनुज्ञायमाना सर्वेन्द्रियाह्वादमाज्ञापयन्ती यथोक्तमर्थं ज्ञापयति।
४. चतुर्थश्लोकेऽनुभवार्थो यथा — ‘सम्प्राप्तपुष्पे’त्यादि। इयमेव सा रतेरनुभवप्रकर्षसीमा यदासादितप्रकृष्टयौवना यथोक्तगुणवती युवतिरुन्मिषत्सात्त्विक— भावा स्वयङ्ग्रहेण दयितमानन्दयति। तत्र च ‘सम्प्राप्तपुष्पस्तबकस्तनीभ्य’ इति पदेन उपारुढयौवनत्वं लक्षयति। ‘स्फुरत्प्रवालोष्ठमनोहराभ्य’ इत्यनेन च सात्त्विकाविर्भावमभिधत्ते। ‘लतावधूभ्य’ इत्यादिकं तु यथावर्णितार्थानुकूलमेवेति।
अथैतेष्वेवोपसर्गार्थसंक्षेपादयः प्रतिपाद्यन्ते। तेषु —
१. पालनसंक्षेपो यथा— ‘मधु द्विरेफ’ इत्यादि। इदमेव च संक्षेपेण प्रतिपालनम्, यदिच्छानुवृत्त्या सहपानमानुकूल्येन परिचर्येति, तच्चेह पूर्वोत्तरार्धयोरुपलभ्यत इति।
पालनसङ्करो यथा—‘ददौ सरः पङ्कजे’त्यादि। स चायं प्रेमपालने कामवामतासङ्करो, यदन्यथा लोके प्रसिद्धमन्यथा प्रसाध्यते। तदिहोभयार्धयोः प्रियतमाभ्यामुच्छिष्टदानेन प्रतीयत इति।१
पालने सम्यक्त्वं यथा—‘सम्प्राप्तपुष्पे’ त्यादि। इदं च तत्प्रेमपालने सम्यक्त्वं योऽयं त्यक्तलज्जाया इव योषितः स्वयंग्राहेण पाणिग्रहोपगूहनप्रकारेष्वभिनिवेशः। स १. अतः परं ‘पालने सम्पूर्णत्वं’ नास्ति। चेह लतावधूनां लतोवेष्टितकवृक्षाधिरूढाद्यालिङ्गनप्रकारविधानेनानुमीयते। तत्र च लतेव सालं वेष्टयन्ती चुम्बनार्थिनी यन्मुखमवनमयेन्मन्दसीत्कृता तमाश्रिता वा किञ्चिद् रामणीयकं पश्येत् तत् लतावेष्टितकम्। चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रामयन्ती वेष्टयन्ती वा पृष्ठसक्तैकबाहुर्द्वितीयेनांसमवनमयन्ती ईषत्प्रताश्वसितकूजिता चुम्बनार्थमेवा— धिरोढुमिच्छेदिति वृक्षाधिरूढम् (कामसू. २.२)। स्तनाभ्यामुरः प्रविश्य तत्रैव हारमावेशयेदिति स्तनोपगूढम्। जघनेन जघनमवपीड्य प्रकीर्यंमाणकुसुमकेशहस्ता चुम्बननखदशन— पदप्रयोजनायोपरि लङ्घयेत्। तज्जघनोपगूहनमिति। चुम्बनार्थित्वं चेह स्फुरत्प्रवालोष्ठतयानुमीयते, स्तनभारारोपणं सुजातपुष्पस्तबकावनम्रत्वेन। प्रकीर्यमाण— कुसुमकेशपाशादिकं तु लतावधूनां स्वरूपमेवेति।
२. कौटिल्ये संक्षेपो यथा—‘मधु द्विरेफ’ इत्यादि। अत्र चायं प्रेमकुटिलतासंक्षेपो लक्ष्यते। यत्र यत्र चञ्चरीकसहचरी मधु पिपासुः कुसुमे परिभ्रमति तत्र तत्रायमपनुदन्निवैनामनुप्रवर्तमानः परिहासेनेव चरति। सारङ्गोऽपि मन्मथार्तिप्रवर्तिता— भिमर्शस्पर्शसुखनिमीलिताक्षीं विषाणाग्रेण नखमुखेनेव वल्लभामुल्लिखन् विकत्थमानः कामवामतां प्रकटयति।
कौटिल्ये सङ्करो यथा—‘ददौ सरःपङ्कजे’त्यादि। अस्यैवार्थः पालनसङ्करेणैव व्याख्यातः। तत्र हि पालनं कौटिल्येन सङ्कीर्णम्, इह तु कौटिल्यं पालनेनेति। एतावांस्तु विशेषः। पालयन् शुचि स्वादु विशदमनिन्दितं चेदभ्यवहरिष्यामीति मन्यमानः प्रियजनाय प्रयच्छति। केवलं कामवामतया तदुच्छेषयति। कुटिलस्तु मा भूदशुच्यस्वादुपिच्छिला वन्यैरप्यनुरागप्रभ्रंश इति तदुपस्कारे विशेषतः प्रयतमानः तथैवोपपादयति।
कौटिल्ये सम्पूर्णत्वं यथा—‘गीतान्तरे’ष्वित्यादि। अत्र चायं कौटिल्यस्य सम्पूर्णभावः। यदा यदासौ गीतेषु प्रयोगविशेषं कर्तुमभिलपति, तदा तदैष तन्मुखं चुम्बन् अमुष्याः प्रेमनिघ्नो विघ्नमिवाचरति। साप्यायासादिव स्विन्नकपोलभित्तिः, पुष्पासवोपयोगघूर्णिते क्रुधेव नेत्रे घूर्णयन्ती विशेषतोऽस्याः अन्तः प्रमोदमुद्दीपयति।
कौटिल्ये सम्यक्त्वं यथा—‘सम्प्राप्तपुष्पे’त्यादि अत्र चेदं तत् कौटिल्यस्य सम्यक्त्वं स्वयमवगतभावस्यापि निष्कारणधैर्यावलम्बिनः सुभगमानिनो जनस्य प्रियतमायां योषित्युपेक्षा नाम। सा त्विह लतावधूषु प्रियतमस्वयङ्ग्राहे पल्लवाधरस्फुरणशाखाभुजविनमनोन्नीतभावास्वपि तरूणां मतिस्तन्व्या तयानुमीयते। तदुपज्ञं चैष लौकिकः प्रवादः, यदुत (गास. ४.४)
(जह जह वाएइ पिओ तह तह णच्चामि चंचले पिम्मे) वल्ली वलेइ अंगं ,हावथद्धे वि रुक्खम्मि।
(यथा यथा वादयति प्रियस्तथा तथा नृत्यामि चञ्चले प्रेम्णि) वल्ली वलयत्यङ्गं स्वभावस्तब्धेऽपि वृक्षे॥ ५॥
३. अभ्यवहारसंक्षेपो यथा—‘मधु द्विरेफ’ इत्यादि। कः पुनरिहेन्द्रियाभ्यवहारस्य संक्षेपार्थः येयं सन्निपत्य विषयग्राहित्वेन फलावाप्तिकारिणो जिह्वात्वगिन्द्रिय— योरभीष्टविषयावाप्तिः। दृष्टो घ्रातः श्रुतोऽपि वा पदार्थस्तावन्न स्वदते, यावन्नास्वादितः स्पृष्टो वा भवति। स्वादनेऽप्ययं विशेषः। यदिदमनङ्गदीपनस्य मधुनः पानं, तस्य चायं सारो यदभीष्टतमया सहैकपात्रे भवति। एवं स्पर्शनेऽपि एतदेव तत्त्वम्। यदुत प्रियाङ्गेन केनचित् संस्पंर्शः, तस्य चायं विशेषो यदुत्तमाङ्गेन भवति। तस्य चैषा चूलिका, यदेष कण्डूयनव्याजान्नमन्निवैतां भूयो भूयः परामृशति।
अभ्यवहारसङ्करो यथा—‘ददौ सरःपङ्कजे’त्यादि। अत्रेदमेवाभ्यवहारस्य सङ्कीर्णत्वम्, यदन्योपभुक्तमन्येनोपभुज्यते, तच्चेह पूर्वार्धे स्त्रीप्रयुक्तं व्यक्तमेव प्रतीयत इति।
अभ्यवहारे सम्पूर्णत्वं यथा—‘गीतान्तरेष्वि’त्यादि। अथो पुनरियं सम्पूर्णतार्थः, मुखे हि चुम्बनमुपकल्प्यमानमोष्ठयोः कपोलयोर्नेत्रयोश्च सम्पूर्णं भवति। तच्च यथायथोक्तगुणयुक्तेन मत्तकिन्नरीमुखेऽन्यावयवेषु निरवकाशत्वात् तत्कामिनः किम्पुरुषस्य सम्पूर्णत्वं विगाहते नैवमन्यत्रान्यस्य़ प्रायेण, यदाह—(माघः ४.३८)
बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश्चुम्बन्तं मुखमिह किन्नरं प्रियायाः।
श्लिष्यन्तं मुहुरितरोऽपि तन्निजस्त्रीमुत्तुङ्गस्तनभरभङ्गभीरुमध्याम्॥ ६॥
इति। अभ्यवहारे सम्यक्त्वं यथा—‘सम्प्राप्तपुष्पे’त्यादि। इदमिहेन्द्रियाभ्यवहारस्य सम्यक्त्वं नाम यदयाचितोपनतमिष्टवस्तु स्वेच्छयोपभुज्यत इति। तच्चेह तरुणतरुलतावधूपरिष्वङ्गाभियोगव्यतिकरेण सकलमविकलमेवोपलक्ष्यत इति।
४. अनुभवे संक्षेपो यथा —‘मधु द्विरेफ’ इत्यादि। अयं च संप्राप्यकारिस्तन— स्पर्शनोपकल्पितोऽनुभवसंक्षेपे विशेषः यदनुनाथ्यात्मनो नाम वल्लभः प्रियतम इव पात्रे कौसुमं मधु पिबति, वल्लभापि प्रार्थनाचाटुकारेण प्रेयसाभ्यर्थ्यमानेव तत्र तत्र स्पृश्यमाना स्पर्शसुखानि वेदयते, तच्चेह पूर्वोत्तरार्धयोः १परार्ध्यरूपतया निरूप्यत इति।
अनुभवे सङ्कीर्णत्वं यथा—‘ददौ सरःपङ्कजे’त्यादि। इहाभ्यवहारस्यैव मनसानुसन्धानमनुभवः तस्य चेत् सङ्कीर्णत्वं येयमन्या प्रियवधूप्रयुक्तोपचारानुभवरूपता प्रियप्रसादीकृतस्योपभुक्तहार्यसम्भावनानुभवरूपता च पूर्वोत्तरार्धयोरभिव्यज्यत इति।
अनुभवे सम्पूर्णत्वं यथा—‘गीतान्तरे’ष्वित्यादि। अत्र चेयमनुभवस्य सम्पूर्णता, यदकालपुष्पाकरावतारे पुष्पितलतागृहोपगतया पुष्पासवोपयोगमत्तया पुष्पशरपारवश्यप्रतीतया स्वलङ्गकृतया च स्वाधीनपतिकया किन्नरकामिन्या एवं नाम प्रियानुरागातिशयो भूयत इति।
अनुभवस्य सम्यक्त्वं यथा—‘संप्राप्तपुष्पे’त्यादि। अत्रेदमनुभवस्य सम्यक्त्वं, यदुत दयिता नायकस्य रताभ्यासात् परिश्रममुपलभ्य रागस्य चानुपशममनुमतानेन साहाय्यं दद्यात्, तत्र च प्रकीर्यमाणकेशकुसुमाश्वासविच्छिन्नहासिनी वक्त्रसंसर्गार्थं स्तनाभ्यामुरः प्रविश्य पीडयन्ती पुनः पुनर्नयन्ती याश्चेष्टाः पूर्वमसौ दर्शितवांस्ता एव प्रतिकुर्वीत, पातिता प्रतिपातयामीति हसन्ती तर्जयन्ती प्रतिघ्नन्ती च ब्रूयात्, पुनश्च व्रीडां दर्शयेत्, श्रमं, विरामाभीप्सां चेति।’ (का. सू. २.८) तच्चेह पूर्वमधो भूत्वानन्तरपरिवर्तिनीभिः केशायमानपरिमलाकृष्टालि—पटलाभिः स्फुरत्प्रवालोष्ठ- दर्शितोच्छ्वसत्कुसुमहासाभिः स्तबकपयोधरभरप्रवेशपीडितनमितकान्तशाखा— भुजान्तराभिः मलयमारुतान्दोलितचालितकोमलविटपाभिस्त्रंसमानकुसुमपालित— चालितपत्रमर्मराभिः वातस्तैमित्यनिश्चलानिश्चलवसन्तवनलतावधूभिः प्रयुज्यमानमकाण्ड एव तरुणप्रकाण्डैरमृतरसवर्षायमाणमनुभूयत इति। सैषा पालनकौटिल्याभ्य— वहारानुभूतिभिः ‘दर्शिता कालिदासेन प्रेमप्रस्थानपद्धतिः।’
अथ द्वितीयपक्षे विशेषेण सम्भोगार्थविवक्षायामपेक्षितप्रथमानुरागाद्यानन्तर्यः प्रकृष्टनागरिकादिनायकविषयः पालनकौटिल्याभ्यवहारानुभवलक्षणोपभुज्यर्थः सोपसर्गप्रत्ययार्थोऽभ्यन्तरीकृतभूतादिप्रत्ययोत्पत्तिकालः कालविशेषोऽनुप्रविष्टचतुरवस्थ उदाह्नियते। १. परार्थ्येति जो. रा. तत्र च चतुर्धोदाहृतिप्रविभागो भवति—
१. प्रकृत्यर्थः, प्रकृत्यर्थविशेषणं च,
२. प्रत्ययार्थः, प्रत्ययार्थविशेषणं च,
३. प्रकृतिप्रत्ययार्थः प्रकृतिप्रत्ययार्थविशेषणं च,
४. आनन्तर्यार्थः, आनन्तर्यार्थविशेषणं चेति। तत्र—
प्रकृत्यर्थविभागे प्रथमानुरागानन्तरे भुजिः पालनार्थः। प्रकृत्यर्थविशेषणं समुपसर्गः संक्षेपार्थः। तत्र हि नायकाभ्यां परस्परालम्बनविभावेभ्यः समुत्पन्ना रतिः संक्षिप्तैरेव शयनोपक्रमादिभिरुपचारैः व्यलीकविप्रियादिपरिहारैश्च पाल्यते, न तत्रालिङ्गनादीन् समुच्चयेन प्रयुञ्जीत। न च प्रसह्य कश्चिदाचरेत्। ‘कुसुमसधर्माणो हि योषितः सुकुमारोपक्रमाः। तास्त्वनधिगतविश्वासैः प्रसभमुपक्रम्यमाणाः सत्यः सम्प्रयोगविद्वेषिण्यो भवन्ति।’ (मामा. ७. पृ.१७४) तदुक्तम्—(कामसू. ३.२)
सहसा चाप्युपक्रान्ता बाला चित्तमजानता।
पुरुषद्वेषिणी वा स्वाद् विरक्ता वा ततोऽन्यगा॥ ७॥
न चैतामुपेक्षेत—(कामसू. ३.२)
अतिलज्जान्वितेत्येवं यस्तुं कन्यामुपेक्षते।
सोऽनभिप्रायवेदीति पशुवत् परिभूयते॥ ८॥
सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानमभियोगं विषहन्ते, किन्तु लज्जया परिलघुमिश्रामपि वाचं न मिश्रयन्ति। किञ्च—(शा. ३.१९ रू)
अप्यौत्सुक्ये महति दयितप्रार्थनाभिः प्रयाताः काङ्क्षन्त्योऽपि व्यतिकरसुखं कातराः स्वाङ्गदाने।
आबध्यन्ते न खलु मदनेनैव लब्धास्पदत्वा— दाबाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्यः॥ ९॥
तत्र च—
हरति रुचिरं गाढाश्लेषे यदङ्गकमाकुला स्थगयति तथा यत् पाणिभ्यां मुखं परिचुम्बितम्।
यदपि बहुशः पृष्टा किञ्चिद् ब्रवीत्यपरिस्फुटं रमयति रतान्तेनैवासौ मनोऽभिनवा वधूः॥ १०॥
मानान्तरे भुजिः कौटिल्यार्थः तद्विशेषकः समुपसर्गः सङ्करार्थः। तत्र हि प्रणिपातोपसान्त्वनादिहृदयाकर्षणप्रकारकौशलोद्ग्रथिते बलवदुत्कण्ठावेशवशविसूत्रिते वा मानग्रन्थावमन्थमुन्मिषन्ती तत्तद्वासनाविशेषशेषानुवृत्त्युपजनितैर्व्यलीकविप्रियादि— स्मरणैः सपत्नीनामग्रहणगोत्रस्खलनादिभिश्च प्रतिहता रतिः पुनःपुनः कुटिलतामापद्यते। यदाह, ‘श्वसितकम्पितपयोधरा सकषायैरेव वाक्यैर्नायिका नायकं निस्तुदन्ती शयनीयं गच्छेत्। तत्र चालिङ्गनादीनामुपालम्भादिभिः सङ्कीर्णः प्रयोगो भवति।’ यथा—
मुहुरविशदा विस्त्रम्भार्द्राः मुहुर्मुहुरस्थिराः मुहुरसरलाः प्रेमप्रह्वा मुहुः स्मृतमन्यवः।
वितथशपथोपालम्भाङ्का मुहुः कृतसन्धयः परिववृधिरे निष्पर्यन्ता मिथो मिथुनोक्तयः॥ ११॥
यदापि कार्यगौरवाद् व्यलीकमप्युपलभ्य नोपालभते तदापि सुप्रकाश— माशयकालुष्योद्भूतनूतनाकृतिभाजा सव्याजाकारगूहनोपगूहनादयः सङ्कीर्यन्ते। रतिश्चान्तरतिशयेन कुटलीभवति।
कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहनसखीश्रोत्रप्राप्तिप्रमोदससम्भ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः॥ १२॥ (अमरु. ७५)
प्रवासानन्तरे भुजिरभ्यवहारार्थ उपसर्गः सम्पूर्णार्थः। तत्र हि चिरकालमनुभोगादत्यन्तमुपचिते प्रेमराशौ च चक्षुरादीनां स्वेषु स्वेषु विषयेषु गर्धातिशयात् सम्पूर्ण एवाभ्यवहारो भवति, समुच्चयेन चालिङ्गनादयः प्रयुज्यन्ते।
वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात्।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम्॥ १३॥ (रघु. २.१९ )
यथा च—(मेघ. १०९ )
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ़ मासानन्यान् गमय चतुरो लोचने मीलयित्वा।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥ १४॥
करुणानन्तरो धातुरनुभवार्थः उपसर्गश्च सम्यक्त्वार्थः। तत्र हि तैस्तैर्व्यतीत— संविधानकविशेषैस्समुत्पन्नपरमविस्त्रम्भत्वान्निष्प्रकम्पा रतिः परं प्रकर्षमारोहन्ती सम्यगनुभूयते, यथा—
मृतेति प्रेत्य सङ्गं तु यथा मे मरणं मतम्।
सैषावन्ती मया लब्धा कथमत्रैव जन्मनि॥ १५॥ (काव्याद. २.२८०)
यथा च—(नागा. २.१२)
कण्ठे हारलतायोग्ये येन पाशस्तवार्पितः।
गृहीतः सापराधोऽयं मुच्यते स कथं करः॥ १६॥
ननु चाऽवस्थावशादेकैकस्यापि प्रथमानुरागानन्तरादेः सम्भोगस्यायमर्थों भवति। प्रथमानन्तरो हि प्रथमं रतिरुत्पद्यते। उत्पन्ना च नायकाभ्यां प्रियाचरणविप्रियाकरणाभ्यां पाल्यते। तत्र च संक्षिप्तानामेवालिङ्गनादीनां विकल्पतः प्रयोगो भवति। ततः प्रेमगतेः स्वभाकुटिलत्वाद् द्वितीयवस्थायां रतिः कुटिलतामालम्बते। सङ्कीर्णाश्चानुभावा भवन्ति। तत्रोद्भूतायां कामवामतायां सुलभामवमन्यते दुर्लभामाकाङ्गक्षतीति प्रायोवादात् परं प्रकर्षमारोहन्ती रतिस्तृतीयावस्थायामभ्यवह्रियते समुच्चयेन चालिङ्गनादयः प्रयुज्यन्ते, एवं च सा सम्पूर्णत्वमासादयति। चतुर्थावस्थायां तु विस्त्रम्भोत्पत्तेः परं प्रकर्षमापन्नानुभूयत एव। न तत्रोपचारः कश्चिदप्याद्रियते। एवमस्याः सम्यक्त्वं भवति।
एवं मानानन्तरादिष्वपि संक्षिप्ता पाल्यते। सङ्कीर्णा कुटिलीभवति। सम्पूर्णाभ्यवह्रियते; सम्यग्भूतानुभूयत इति। ततः कथमुच्यते, संक्षेपपालनानुप— सर्गधातुप्रथमानुरागानन्तरे, सङ्करकौटिल्यार्थौ मानानन्तरे, सम्यक्त्वानुभवार्थौ करुणानन्तरे इति ?
उच्यते। यद्यपि संक्षेपतः पालनमन्यत्रापि भवति, तथापि यया प्रथमानुरागानन्तरे मुग्धावधूविस्त्रम्भणादौ एतदुपयुज्यते नैवमन्येषु। यद्यपि च वारितवामत्वात् कामस्य कैटिल्यमन्यत्रापि जायते, तथापि यथा व्यलीकप्रियादिस्मरणैर्मानानन्तरे नैवमन्येषु, अभ्यवहारोऽपि यथास्वमिन्द्रियाणामुभयेषामपि विषयेषु गर्धातिशयात् प्रवृत्तिः, स यथा परस्परमुत्कण्ठितयोः प्रवासानन्तरे सम्पूर्णो भवति नैवमन्येषु। अभ्यवहारस्यैव तु मनसानुसन्धानमनुभवः, यथा— ‘समुत्पन्नपरमविस्त्रम्भयोः करुणानन्तरे सम्यग्भवति।’ नैवमन्येष्वित्यभिप्रायेणोक्तम् — यथाक्रमं चतुर्णामपि धात्वर्थानां चतुर्णामपि चोपसर्गार्थानां चतुर्ष्वपि प्रथमानुरागानन्तरादिषु सम्भोगेषु सर्वैरपि प्रत्ययार्थैः सार्वकालिकः सम्बन्धो भवतीति। किञ्च,
बहूनां सम्भवेऽर्थानां सर्व एवोपकारिणः।
संसर्गे कश्चिदेषां तु प्राधान्येन प्रतीयते॥ १७॥
तेन प्रथमानुरागानन्तरादिषु धातुपसर्गार्थसम्प्लवस्तद्व्यवस्थाया न विरुध्यत इति।
ननु च भुज पालनाभ्यवहारयोः, भुजि कौटिल्य इति त्रिष्वेवार्थेषु भुजिः स्मर्यते। स कथमनुभवार्थोऽपि भवतीति ज्ञायेत ?
आचार्यप्रवृत्तिर्ज्ञापयति, यदयं ‘भुजोऽनवन’ (अष्टा. १.३.६६) इत्यनवनार्थे वृत्तेरस्यात्मनेपदं निवर्त्यानवनार्थवृत्तेर्यथाप्राप्तमुभयपदमेवाभ्यनुजानाति। तेन मन्यामहे, सर्वेष्वयमवत्यर्थेषु वर्तत इति।
के पुनरवत्यर्थाः?
येष्वतं गण(धातु?)काराः पठन्ति, ‘अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेश— श्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु’ (१.३.६६ असू.) इति, स एवमपि भुजेरनुभवार्थ इति।
कुत एतदुच्यते ?
य एव ते षोडशात्यर्थरक्षणादयः तेषां चत्वारः पालनं, चत्वारः कौटिल्यं, चत्वारोऽभ्यवहारं, चत्वारोनुभवमभिनिविशन्ति। तत्र—
रक्षणं क्रियेच्छास्वाम्यर्थः प्रार्थनमिति पालने,
हिंसादीप्तिनहनं भाववृद्ध इति कौटिल्ये,
श्रवणमालिङ्गनं प्रीतिस्तृप्तिरिति अभ्यवहारे,
अवगमः प्रवेशो गतिरवाप्त इत्यनुभवेऽन्तः षोडशाप्यवत्यर्थाश्चतुर्ष्वपि भुज्यर्थेषु पालनादिषु समाविशन्ति। तथाहि—
लब्धपरिरक्षणं, रक्षितविवर्धनं, विवृद्धोपयोगः, अलब्धप्रतीक्षा चेति पालनानि।
यथा— पृथिवीं पालयति, प्रजाः परिपालयति, राज्यमनुपालयति, फलं प्रतिपालयतीति। तानि च ‘रक्षणं क्रियेच्छा स्वाम्यर्थः प्रार्थनमित्येव भवन्ति। तथा हि—‘लब्धाऽविनाशार्थी रक्षति, रक्षितोपचयार्थी कर्तुमभिलषति, यथावदुपयोगार्थी स्वीकरोति, अलब्धलाभार्थी याचत’ इति।
वैपरीत्यं, वैयात्यं, वैदग्ध्यं, वैचित्र्यं चेति कौटिल्यानि।
यथा— ‘कुटिलं दैवं, कुटिला दासी, कुटिल आलापः, कुटिलं पत्रमिति। एतानि च हिंसा, दीप्तिः, नहनं, भाववृद्धिरित्येव भवन्ति। तथाहि— ‘वैपरीत्येन हिनस्ति, वैयान्येन दीप्यते, वैदग्ध्येन दहति, वैचित्र्येण भावं वर्धयतीति।
श्रद्धान्वितयोर्नितान्तमासक्तिरपर्याप्तता कृतार्थत्वमित्यभ्यवहारार्थाः।
यथा— सतृणमभ्यवहरति, प्रस्थमपहरति, सैन्यान्यपहरति। एते च श्रवणमालिङ्गनं प्रीतिस्तृप्तिरित्येव भवन्ति। तथा हि— ‘श्रद्धालु श्रृणोति, आसक्तिमानालिङ्गति, अपर्याप्तः प्रीयते, कृतार्थस्तृप्यतीति।
सम्यग्ज्ञानं, क्रियाध्यवसायः, कार्यानुष्ठानं; फलाधिगमश्चेत्यनुभावाः।
यथा— प्रियमनुभवति, प्रियार्थमनुभवति, प्रेमानुभवति, प्रेमार्थमनुभवतीति। एते चावगमप्रवेशगत्यव्याप्तय एव भवन्ति। तथा हि— ‘सम्यग्जिज्ञासुरवगच्छति, अध्यवसायार्थी प्रविशति, अनुतिष्ठासुः क्रमते, फलाधिगमार्थी तमवाप्नोतीति।
चतुर्षु वा रक्षणादिषु अवत्यर्थेषु क्रमेण वर्तमानाः पालनादयो वर्तन्ते।
ननु रक्षणं तावत्पालनमेव ‘रक्ष पालन’ इति वचनात्। क्रियेच्छा कौटिल्यं कुटिलं हि कृतमिदं . . . ते यथा— कृती कृतहस्तः कृतास्त्रः कृतान्नमिति। स्वाम्यर्थोऽभ्यवहारः यतो यद्ददाति तदेवास्य स्वमिष्यते। याचितमनुभवः याचितं ह्यनु पश्चाद्भवतीति प्रथमा आवृत्तिः।
एवं हिंसा पालनं, दीप्तिः, कौटिल्यं, दहनमभ्यवहारः, भाववृद्धिरनुभव इति।
कथं हिंसा पालनम् ?
वामत्वात्कामस्य, कलहरूपं सुरतमाचक्षते।
कथं दीप्तिः कौटिल्यम् ? कुटिलो लोके दीप्त इत्युच्यते, ऋतुः प्रशान्त इति। कथं दहनमभ्यवहारः ?
दहन् लोकेऽभ्यवहरतीत्युच्यते, यथा ‘जगज्जिघत्सन्तमिवान्तवह्नि’—मिति (माघ.)।
कथं वा वृद्धिरनुभवः? साक्षादनुभूयमानत्वादिति द्वितीया आवृत्तिः।
एव श्रवणं पालनमालिङ्गनं के . . प्रीतिरभ्यवहारस्तृप्तिरनुभव इति। पालयिता हि शुश्रूषते, कुटिल आसङ्गं करोति। अभ्यवजिहीर्षुः प्रीयते, अनुबुभूषुस्तृप्यतीति तृतीया आवृत्तिः।
एवमवगमः पालनं, प्रवेशः, कौटिल्यं, गतिरभ्यवहार इति। यतोऽवगच्छेत् पालयति, प्रवेशकामो कुब्जीभवति, अन्तराक्रामन्नभ्यवहरतीति, अवाप्नुवन्ननुभवतीति चतुर्थ्यावृत्तिः। यथा— चैतद्रक्षणादयः पालनादीनां विशेषास्तथा रक्षणादीनामपि निरोधादयः सम्भवन्ति। यथाग्नेर्माणवकं रक्षतीति संक्षेपसङ्करादयश्चोपसर्गार्थाः सर्वेष्वपि प्रत्येकमवगन्तव्या इति। एवं च पालनादिवदनुभवार्थोऽपि भुजेः सिद्धो भवति।
बह्वर्था अपि च धातवो भवन्ति। तद्यथा—
धृ अनवस्थाने दृष्टः, अवस्थानेऽपि दृष्ट . . . . . . . . १ ‘ध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखमि’ति (माघे. २.३५)।
‘यु’ मिश्रणे दृष्टः, अमिश्रणेऽपि दृश्यते। अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इह प्रत्ययहेतुः स समवाय इति।
जॄष् वयोहानौ दृष्टः, स्तुतावपि दृश्यते, ‘मूलाजरित्रे रुद्रस्तवान’ इति।
वपिः करणे दृष्टः, छेदनेऽपि दृश्यते। ‘अन्यन्तेऽस्मिन्निवपन्तु सेना’ इति।
ईड स्तुतौ दृष्टः, प्रेरणेऽपि दृश्यते। ‘वायुर्वा इति वर्षमीड’ इति।
करोतिभूतप्रादुर्भावे दृष्टः। ततोऽन्यत्रापि दृश्यते। ‘घटे कुरु कटे कुरु अश्मानमितः
कुरु पादौ कुरु पृष्ठं कुरु मा कुरु उदरं स्नेहो हीयत’ इति। एवं भुजिरनुभवार्थोऽपि भविष्यति।
को वा न धातुरनुभवार्थः, यतो व्रजति पचत्यास्ते शेत इत्यप्युक्त— व्रज्यादयोऽनुभूयन्त इति प्रतीयन्ते।
कथं भुजिरवत्यर्थ इत्येव नोक्तम्, यथोक्तः परस्मैपदात्मनेपदविप्रभागो यथा स्यात्, अवनातिरिक्ताश्चार्था यथा प्रतीयेरन्।
के पुनस्ते ? पालनं यतः पातेर्णिचि लुगागमे च पालनमिति भवति। अवनमित्यवतेः अण्यन्तस्य।
कथं तर्हि ‘त्रैड् पालने’ ‘रक्ष पालने’ इति ?
क्वचिदयं विवक्षितण्यर्थो ‘नियच्छति, नियमयती’तिवत् कर्तृव्यापारमात्रं भूते। तत्र हेतुव्यापारविवक्षायां भुजिः पालनार्थो भवति। रक्षणाद्यवस्थाविशेषेण कर्तृव्यापारविवक्षायामपि पालनार्थ एव। यदा तु रक्षणक्रियेच्छा स्वाम्यर्थः प्रार्थनेषु रक्षणादिविशेषेण वर्तते, तदा कर्तृव्यापारमात्रविवक्षायामवनार्थो भवति।
एवं मूर्तिमतां दिङ्निमित्तकः संस्थानविशेषः कौटिल्यं, तदुपचारादमूर्तेष्वपि व्यवह्रियते। तत्र यथोभयरूपे भुजिर्वर्तते तदा कौटिल्यार्थः। यदापि हिंसादिष्वपि विशेषेण तदापि कौटिल्यार्थ एव। यदा तु हिंसादीप्तिदहनभाववृद्धिषु तद्विशेषेषु पात्यपहरणातिप्ररोचनादिषु विशेषेण वर्तते, तदा अवनार्थो भवति। मुखेन खाद्यादेः कोष्ठान्तःप्रवेशनमभ्यवहारः। स उपचाराच्चक्षुरादीनां रूपादिग्रहणेऽपि वर्तते। तत्र यत्र भुजेरशितखादितेषु वृत्तिस्तदायमंभ्यवहारार्थो भवति। इन्द्रियार्थसन्निकर्षोत्पन्नस्य ज्ञानसुखदुःखादेः संवित्तिरनुभवः। स उपचारादर्थज्ञानादपि व्यपदिश्यते। तत्र यदोभयरूपेऽपि भुजेर्वृत्तिस्तदायमनुभवार्थो भवति। यदाप्यवगमादिष्वविशेषेण वर्तते तदाप्यनुभवार्थ एव। यदा त्ववगमप्रवेशगत्यवाप्तिषु तद्विशेषेषु वापि परामर्शादिषु विशेषेणास्य प्रवृत्तिस्तदावनार्थो भवति।
कथं तर्हि भुजिः पालनकौटिल्याभ्यवहारानुभवेष्विति पठ्यते ?
भुज्यर्थस्य तन्त्रावापः पत्रविभागो न स्यात्। द्विविधं हि सम्भोगशास्त्रं तन्त्रमावापश्च। तन्त्र्यन्ते जन्यन्ते रतिप्रीतिविशेषा येन तत् तन्त्रमभ्यवहारः। आसमन्तादवाप्यन्ते लभ्यन्ते रतिप्रीतिप्रकर्षहेतव आलिङ्गनादयो येन स आवापः। पालनमनुभवकौटिल्ये। (ते) त्वनिष्पादितत्वादेतयोरेवानुप्रविशतः। अभ्यवहरतो ह्यवश्यमनुभवो भवति। पाल्यमानस्य तु कौटिल्यं यदा अनुभवोऽप्यभ्यवहार एव। यदाहाराभ्यवहारस्यैव मनसानुसन्धानमनुभवः।
कथं तर्ह्यसौ फलभूतो रतिप्रीतिविशेषाणामुत्पत्तिहेतुर्भवति ?
लब्धास्वादस्य प्रीतिहेतावनेनैव प्रवर्त्यमानत्वात्। पारम्पर्येणापि च कारणं कारणमेव। उक्तं च—(वायुपुराणे उत्तरखण्डे ३१.९४)
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ १८॥
एवं कौटिल्यमपि पालनमेव।
कथं पुनः कौटिल्यं पालनं भवति ?
यतो वैपरीत्यं, वैपात्यं, वैदग्ध्यं, वैचित्र्यं चेति कौटिल्यानि। तत्र—
वामशीलत्वात् कामस्य वैपरीत्येनैव वर्धते। तथा हि—‘सुलभामवमन्यते दुर्लभामाकाङ्क्षति’ (कामसू. ५.१) इति प्रायोवादः। कलहरूपं च सुरतमाचक्षते।
वैयात्यमपि वर्धयत्येव। यदाह—(माघ. २.४४)
अन्यदा भूषणं पुंसां शमो लज्जेव योषिताम्।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव॥ १९॥
वैदग्ध्यात्तु रागवृद्धेर्हेतुरेव, यदाह—‘वैचक्षण्ययुक्तश्च गणिकास्तत्कामिनश्च परस्परस्य प्रार्थनीया भवन्ति। तेन वैचित्र्यमपि व्याख्यातम्। आह च—भवति हि रागेऽपि वैचित्र्यापेक्षा, वैचित्र्येण च परस्परस्य रागो जनयितव्यः। . . . अन्येष्वपि धनुर्वेदादिषु वैचित्र्यमपेक्षते, किं पुनरिहे’ति (कामसू.)। तदेवं ‘भुज पालनाभ्यवहारयोः ॰ ॰ ॰ अनेनैव सिद्धे भुजेः कौटिल्य इत्यपि विकरणानुबन्धोपग्रहादिप्रयोजनार्थमेवेति प्रतिपत्तव्यम्।
किं पुनरमीषु सर्वेष्वप्यर्थेषु भुजेः प्रयोगो दृश्यते ? बाढम्, तत्र— हेतुव्यापारपालने भुजिर्यथा—
शत्रुषड्वर्गमुत्सृज्य जामदग्न्यो जितेन्द्रियः।
अम्बरीषश्च नाभागो बुभुजाते चिरं महीम्॥ २०॥
रक्षणाद्यविशेषेणे कर्तृव्यापारो यथा—(रघु. १८.४)
पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचित्तः।
एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज॥ २१॥
अवनविशेषेषु रक्षणं यथा—(शाकु. २.१६)
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री— मेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति।
आशंसन्ते सुरयुवतयः सक्तवैरा हि दैत्यै— रस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे॥ २२॥
क्रियेच्छायां यथा—(शाकु. ५.१९)
इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्नवेत्यव्यवस्यन्।
भ्रमर इव विभाते कुन्दमन्तस्तुषारं— न च खलु परिभोक्तुं नैव शक्नोमि हातुम्॥ २३॥
स्वाम्यर्थे यथा—
विपुलमतिभिः कैरप्येतज्जगज्जनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः॥ २४॥
याचने यथा—(रघु. १९.३)
लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी।
भोक्तुमेव भुजनिर्जितश्रिया न प्रसाधयितुमस्य कल्पिता॥ २५॥
कौटिल्ये यथा—(सक. १.७५)
अस्मिन्नीषद्वलितविषमस्तोकविच्छिन्नभुग्नः किञ्चिल्लीनोपचितविनतः पुञ्जितश्चोत्थितश्च।
धूमोद्गारस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान्॥ २६॥
हिंसाद्यविशेषे यथा—
श्लिष्टचन्दनविशेषकभक्तिर्भ्रष्टभूषणकदर्थितमाल्यः।
सापराध इव मुण्डनमासीदात्मनैव सृदृशामुपभोगः॥ २७॥
अवनार्थेषु हिंसायां यथा—(रघु. १९.२१)
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथः।
प्राञ्जलिः प्रणयिनीं प्रसादयन् सोऽधुनोद् ग्रहणमन्थरः पुनः॥ २८॥
दीप्तौ यथा—(रघु. १९.३०)
प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोभिनम्।
विप्रियेण/पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम्॥ २९॥
दहने यथा—
आबद्धव्रणमिन्दुबिम्बविशदे राधाकपोलोदरे दंशः कृष्णमहाभुजङ्गजनितो दीर्घां मुदं वः क्रियात्।
यं दृष्ट्वैव विसूत्रसन्धिभिरभिग्लनैः क्षणादङ्गकै— रामुह्यन् विषवैशसीव ददृशे सर्वोऽपि गोपीजनः॥ ३०॥
भाववृद्धौ यथा—
मुग्धेऽस्मिन् परिणाहिनि स्तनयुगे मुक्ताकलापो वशां/अवशो दिष्ट्या न स्मरति स्म जन्मवसतिं कुम्भस्थली—लालनः।
इत्थं केलिभुजङ्गनर्मवचसा साचिस्मितज्योत्स्नया सव्रीडं मुखमावृणोति सुतनुश्चीनांशुकस्वच्छया॥ ३१॥
अभ्यवहारे यथा—
किं मौर्ख्यमश्रेयसि कार्यबुद्धिर्ज्ञानस्य किं लक्षणमप्रमादः।
कोऽत्यन्तबन्धुः पुरुषस्य बन्धुः किं स्वादु भुङ्क्ते सह यत् सुहृद्भिः॥ ३२॥
श्रवणाद्यविशेषे यथा—(शाकु. २.११)
अनघ्रातं पुष्पं किसलयमलूनं कररुहै— रनाविद्धं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ ३३॥
अवनार्थेषु श्रवणो यथा—
वीणया न निनदेन च वेणोः केकया च कलकण्ठगिरा च।
सीत्कुतैश्च भणितैश्च वधूनां भुञ्जते श्रुतिसुखानि युवानः॥ ३४॥
आलिङ्गने यथा—
तत्तस्य रेजेऽरिगदासहिष्णु वक्षः प्रियारत्युपभोगसाक्षि।
शिलातलं श्रीमदिव द्विपेन्द्रदत्ताभिघातोल्लिखितं महान्द्रेः॥ ३५॥
प्रीतौ यथा—
दिग्दन्तिनः शैलतटायतेषु येषां प्रियालिङ्गनलालितेषु।
युद्धापदेशेन भवन्ति वक्षस्ववाप्तवप्रप्रणयोपभोगाः॥ ३६॥
तृप्तौ यथा—
जयति यदुपतेरनेककान्तास्तनपरिभोगरसज्ञकण्ठमालम्।
मुरनरकगदाभिघातबन्धु प्रविसृतकौस्तुभरश्मिशोभि वक्षः॥ ३७॥
अनुभवे यथा—
गुणेषु रागो व्यसनेष्वनादरो, रतिः सुनीतेषु च यस्य भूपतेः।
चिरं स भुङ्क्ते चलचामरांशुकां सितातपत्राभरणां नृपश्रियम्॥ ३८॥
अवगमाद्यविशेषे यथा—
अन्यां युवतिमगत्वा सुभग! न विज्ञायते विशेषोऽस्याः।
येन न भुक्तं निम्बं द्राक्षागुणवित् कथं स स्यात्॥ ३९॥
अवनार्थेष्ववगमे यथा—(रघु. ६.३४)
असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः।
दिवापि जालान्तरचन्द्रिकाणां नारीसखः स्पर्शसुखानि भुङ्क्ते१॥ ४०॥
प्रवेशे यथा—(रघु. १८.१८)
तमात्मसम्पन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव।
सुखानि सोऽभुङ्क्त सुखोपरोधि वार्तं हि राज्ञामवरुद्धवृत्तम्॥ ४१॥
गतौ यथा—(कुसं. ७.५)
अङ्काद् ययावङ्कमुदीरिताशीस्सा मण्डनान्मण्डनमन्वभुङ्क्त।
सम्बन्धभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम॥ ४२॥
अप्राप्तौ यथा—(कुसं. १.४३)
चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम्।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रया प्रीतिमवाप लक्ष्मीः॥ ४३॥
एवं पालनादिविशेषेष्वपि। तत्र—
हेतुपालनविशेषोपेक्षणं यथा—(रघु. १२.१८)
स विसृष्टस्तथेत्युक्त्वा भ्राता(त्रा) नैवाविशत् पुरम्।
नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक्॥ ४४॥
रक्षणाद्यविशेषविशेषे करग्रहणं यथा—(रघु. ४.७)
मनुप्रभृतिभिर्मान्यैक्तार्भुक्ता यद्यपि राजभिः।
तथाप्यनन्यपूर्वेव तस्मिन्नासीद् वसुन्धरा॥ ४५॥
रक्षणविशेषे निरोधो यथा—
अकालसन्ध्यापरिभोगपाण्डुरः क्षपाक्षयक्षामकपोलचन्द्रमाः।
रतोत्सवायासविशेषशोभिनो वधूमुखस्यानुचकार विभ्रमम्॥ ४६॥
क्रियेच्छाविशेषेऽध्यासनं यथा—(कुसं. १.२०)
असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसरख्यम्।
क्रुद्धेऽपि पक्षच्छिदि गोत्रशत्राववेदनाज्ञं कुलिशक्षतानाम्॥ ४७॥
१. प्रसिद्धस्तु पाठः ‘तमिस्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान्’ इति। उपर्युक्तस्तु पाठः कालिदासग्रन्थावली (१९८६) पादटिप्पणे। ‘सखः—खानि’ = ‘सुखस्पर्शनखानि’ —जो.रा. स्वाम्यर्थविशेषे दास्यं यथा—(रघु. ६.५३)
अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम्।
आसेदुषीं सा जितशत्रुपक्षं बालामबालेन्दुमुखी बभाषे॥ ४८॥
याचनविशेषेऽभिलक्षणं यथा—(रघु. १८.१९)
तं रागबन्धेष्ववितृष्णमेव भोगेषु सौभाग्यविशेषभोग्यम्।
विलासिनीनामरतिक्षमापि जरा वृथामत्सरिणी जहार॥ ४९॥
प्रकटकौटिल्यविशेषे वलनं यथा—(विक्र. ४.३१)
अस्यान्तिकमुपयान्ती शिशुना स्तनपायिना मृगी रुद्धा।
तामयमनन्यदृष्टिर्भुग्नग्रीवो विलोकयति॥ ५०॥१
गौणकौटिल्यविशेषे विश्वसनं यथा—(सक. ५.४९९)
पद्भ्यामूरुयुगं विभज्य भुजयोर्मध्यं निपीड्योरसा पार्श्ववभ्यधिकं विदार्य नखरैर्दन्तैर्विलूयाधरम्।
सुप्तानप्यवबोध्य युष्मदहिता भूयोऽपि भुङ्क्ते वने किं कान्ता सुरतैषिणी, न हि न हि व्याघ्री करालानना॥ ५१॥
हिंसाविशेषे वैपरीत्यं यथा—
दशनपदमतिस्फुटं विभाति स्फुरति तनुः श्रमवारिसिक्तमास्यम्।
अवितथमभिधत्स्व कामिनि! त्वां कुटिलगतिर्ननु दष्टवान् भुजङ्गः॥ ५२॥
दीप्तिविशेषे वैयात्यं यथा—
महाभुजङ्गश्चैवैष शेषादिभ्यो विशिष्यते।
पश्यत्यन्यान् दशत्यन्यानन्यान् जीवाद् विमुञ्चति॥ ५३॥
दहनविशेषे वैदग्ध्यं यथा—(कुसं. ८.१२)
नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसीत्।
भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः॥ ५४॥
भाववृत्तिविशेषे वैचित्र्यं यथा—(माघ. ११.५)
विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छन् जीवितेशोऽवकाशम्।
रतिपरिचयनश्यन्नैद्रतन्त्र/न्द्रः कथचिद् गमयति शयनीये शर्वरी किं करोतु॥ ५५॥
१. अत्र राघवः ‘आकरो मृग्यः’ इति। अभ्यवहारविशेषे फलवैयधिकरण्यं यथा—(माघ. २.५९)
विजयस्त्वयि सेनायाः साक्षीभूते च दिश्यताम्।
फलभाजि समक्षोक्ते/समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि॥ ५६॥
गौणोऽभ्यवहारविशेषे निधुवनं यथा—(रघु. १९.१६)
तस्य सावरणदृष्टसन्धयः काम्यवस्तुषु नवेषु सङ्गिनः।
वल्लभाभिरुपसृत्य चक्रिरे सामिमुक्तविषयाः समागमाः॥ ५७॥
श्रवणविषये घ्राणदर्शनं यथा—(माघ. ११.२७)
मुदितयुवमनस्कास्तुल्यमेव प्रदोषे मुदमदधुरहर्यः/ धुरुभय्यः कल्पिता भूषिताश्च।
परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते युवतिभिरुपभोगान्नीरुचः पुष्पमालाः॥ ५८॥
आलिङ्गनविशेषे चुम्बनं यथा—
ताम्बूलबहलरक्तः प्रियभुक्तो धूसरः सपर्यन्तः।
बालाधरोऽधिरोहति कुसुमरुचं काञ्चनारस्य॥ ५९॥
प्रीतिविशेषे प्रकाराभिलषणं यथा—
जननयनमधुव्रतोपभोग्या भवतु विलासिनि! ते मुखाम्बुलक्ष्मीः (जश्रीः)।
इदमिह दयितद्विजद्वयाहं दशनरुचाधरपल्लवं पिधेहि॥ ६०॥
प्रीतिविशेषे सर्वेन्द्रियाप्यायनं यथा—
कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम्।
हर्म्येषु माल्यमदिरापरिभोगगन्धानाविश्चकार रजनीपरिवृत्तिवायुः॥ ६१॥
अनुभवविशेषे दृष्टिविषयज्ञानं यथा—(रघु. ६.२७)
जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः।
विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतो नियुङ्क्ते॥ ६२॥
गौणानुभवविशेषे प्रमाणान्तरग्रहणं यथा—(कुसं. ८.११)
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निपेदुषः।
वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया॥ ६३॥
अवगमविशेषेऽपि परामर्शो यथा—(जाह. १६.४२)
मधुकुसुमविलेपनादिभागग्रहणनिदर्शितसौहृदस्य वृत्त्या।
अयमपि सखि किं स्वयं वृतस्ते प्रियपरिभोगसुखस्य संविभागः॥ ६४॥
प्रवेशविशेषे धर्षणं यथा—(किराता. ८.५७)
सङ्क्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम्।
बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम्॥ ६५॥
गतिविशेषे निषेवणं यथा—(मेघ. १९)
स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहुर्तं तोयोत्सर्गाद् द्रुततरगतिस्तत्परं वर्त्म तीर्णः।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य॥ ६६॥
अवाप्तिविशेषे फलाधिगमो यथा—(किराता. ७.२७)
सामोदाः कुसुमतरुश्रियो विविक्ता सम्पत्तिः किसलयशालिनी—लतानाम्।
साफल्यं ययुरमराङ्ग्नोपभुक्ताः सा लक्ष्मीरुपकुरुते यया परेषाम्॥ ६७॥
(उपसर्गार्थविशिष्टः प्रकृत्यर्थः)
अथेहोपसर्गार्थाः संक्षेपादय उदाह्रियन्ते। तेषु—
१. पालनसंक्षेपो यथा—
अनिर्दयोपभोग्यस्य रूपस्य मृदुनः कथम्।
दारुणं सखि! ते चेतः शिरीषस्येव बन्धनम्॥ ६८॥
पालनसङ्करो यथा—(रघु. १५.१)
कृतसीतापरित्यागः स रत्नाकरमेखलाम्।
बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्॥ ६९॥
पालने सम्पूर्णत्वं यथा—(उराच. २.१)
यथेच्छाभोग्यं वो वनमिदमयं मे सुदिवसः सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति।
तरुच्छाया तोयं यदपि तपसां योग्यमशनं फलं वा मूलं वा तदपि न पराधीनमिह वः॥ ७०॥
पालने सम्यक्त्वं यथा—(रघु. १४.२४)
स पौरकार्याणि विचिन्त्य काले रेमे विदेहाधिपतेर्दुहित्रा।
उपस्थितः चारु वपुस्तदीयं कृतोपभोगोत्सुकयेव लक्ष्म्या॥ ७१॥
२. कौटिल्यसंक्षेपो यथा—(सूमु. २४०)
लोलां दृष्टिमितस्ततोऽपि भजते सभ्रूलताविभ्रमा— माभुग्नेन विचेष्टते वलिमता मध्येन कम्पस्तनी।
हस्ताग्रं विधुनोति पल्लवनिभं किङ्कारभिन्नाधरा जातेयं भ्रमराभिलङ्घनभयाद् वाद्यं विना नर्तकी॥ ७२॥
कौटिल्यसङ्कीर्णत्वं यथा—
आतङ्कश्रमसाध्वसव्यतिकरोत्कम्पः कथं सह्यता— मङ्गैर्मुग्धमधूकपुष्परुचिभिर्लावण्यसारैरयम् ।
उन्नद्धस्तनकुम्भकुड्मलगुरुग्रासावभुग्नस्य ते मध्यस्य त्रिवलीतरङ्गकजुषो भङ्गः प्रिये मा च भूत्॥ ७३॥
कौटिल्ये सम्पूर्णत्वं यथा—(माघ. १०.५७)
कामिनामसकलानि विभुग्नैः स्वेदवारिमृदुभिः करजाग्रैः।
अक्रियन्त कठिनेषु कथञ्चित् कामिनीकुचतटेषु पदानि॥ ७४॥
कौटिल्ये सम्यकत्वं यथा—(कुसं. ८.४९)
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरतापरा।
शैलराजतनया समीपगामाललाप विजयामहेतुकम्॥ ७५॥
३. अभ्यवहारे संक्षेपो यथा—(किराता. १०.२२)
व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुरसोपभोगहृष्टा।
परभृतयुवतिः स्वनं विचक्रे नवनवयोजितकण्ठरागरम्यम्॥ ७६॥
अभ्यवहारे सङ्करो यथा—(माघ. ५.२८)
सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिविसप्रसूनाः।
सैन्या श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन् वननिम्नगानाम्॥ ७७॥
अभ्यवहारे सम्पूर्णत्वं यथा—(कुसं. ८.६४)
पश्य पार्वति! नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्स्थलम्।
लक्ष्यते द्विरदभोगदूषितं सम्प्रसन्नमिव मानसं सरः॥ ७८॥
अभ्यवहारे सम्यक्त्वं यथा—
शिरसि द्विषतां निवेश्य पादं यदनायासितकार्मुकं नरेन्द्रः।
इदमेकपदेन भुज्यते श्रीरतिदारिद्रयमिदं तदाश्रितानाम्॥ ७९॥
४. अनुभवे संक्षेपो यथा—(माघ. २.८५)
मृदु व्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते।
प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया॥ ८०॥
अनुभवे सङ्कीर्णत्वं यथा—(माघ. ५.३९)
संसर्पिभिः पयसि गैरिकरेणुजालैरम्भोजरेणु रजसाङ्गनिषङ्गिणा च।
कामोपभोगमनुभूय सरिन्महेभावन्योन्यवस्तुपरिवर्तमिव व्यधत्त॥ ८१॥
अनुभवे सम्पूर्णत्वं यथा—(रघु. १९.२८)
दर्पणेषु परिभोगदर्शिनीं नर्मपूर्वमनुपृष्ठसंश्रयः।
छायया स्मितमनोज्ञया वधूं ह्रिनिमीलितमुखीं चकार सः॥ ८२॥
अनुभवे सम्यक्त्वं यथा—(रघु. १९.३९)
कार्तिके/कीषु सवितानहर्म्यभाग् यामिनीषु ललिताङ्गनासखः।
अन्वभुङ्क्त सुरतश्रमापहा मेघमुक्तविशदाश्च चन्द्रिकाः॥ ८३॥
साक्षादुपसर्गयोगे संक्षेपार्थो यथा—
शिरस्यहो जाम्बवतीकरग्रहः प्रकारसम्भोगसुखामृतद्रवे।
मया विसृष्टानुभवत्ववारिता विधूननादुर्ललितोत्सवङ्गमाः॥ ८४॥
सङ्करार्थो यथा—(किराता. ७.२६)
संक्षोभक्षमगहनामथोपगङ्गं विभ्राणां ज्वलितमणीनि सैकतानि।
अध्यूषुश्च्युतकुसुमाचितां सहायाः वृत्रारेरविरलशाद्वलां धरित्रीम्॥ ८५॥
सम्पूर्णतार्थो यथा—(मेघ. ९५)
वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः क्रीडायोगश्चिरपरिचितं त्याजितो दैवगत्या।
सम्भोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम्॥ ८६॥
सम्यक्त्वार्थो यथा—(किराता. ९.७८)
गतवति नखरेखालक्ष्यमातङ्गरागे समददयितपीताताम्रबिम्बाधरोष्ठ्याः।
विरहविधुरमिष्टा सत्सखीवाङ्गनाया हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः॥ ८७॥
अधिकारार्थयोगो सम्बन्धार्थो यथा—
अकार्योच्चारणे मूकाः पैशुन्यपरिपन्थिनि।
विनिवृत्तानृतप्रेमां सत्यसम्भोगलालिताम्॥ ८८॥
सङ्गतार्थो यथा—
किमव्याप्तं लक्ष्म्या किमशुचि किमाश्चर्यरहितं किमस्वच्छं वाब्धेः किमथ न हितं वास्य जगतः।
अहो नष्टौपम्या गुणकुसुमसम्भोगसुभगा भ्रमत्यन्या सिद्धा दिवि भुवि च कीर्तिर्जलनिधेः॥ ८९॥
मर्योदार्थो यथा—
रेवतीस्तनसम्भोगलालिते यस्य वक्षसि।
मुक्तामालापदेशेन देव्या स्थानमथाश्रिता॥ ९०॥
अभिविध्यर्थो यथा—
भुजमुद्यम्य दृप्तारिवधविद्यासु पण्डितम्।
कान्ताकचग्रहामन्दप्रीतिसम्भोगलालितम्॥ ९१॥
इति। एवं रक्षणनिरोधादिषु पालनानि चोपसर्गार्थो यथालक्षणमुदाहर्तव्य इति। सोऽयमुपसर्गार्थविशिष्टः प्रकृत्यर्थ उक्तः।
(उपसर्गार्थविशिष्टः प्रत्ययार्थः)
अथोपसर्गार्थविशिष्ट एव प्रत्ययार्थ उच्यते।
(नायकभेदाः —१६)
तत्र संक्षेपाद्यर्थभेदतः कनिष्ठादयो नायकभेदा भवन्ति। तत्र—
संक्षेपतः कनिष्ठस्तामसः शठो धीरप्रशान्त इति। तेषु—
१. अर्थगुणसम्पद्योगात् कनिष्ठः, स यथा—(गास. ३.३८)
विक्किणइ माहमासम्मि पामरो पारङि वइल्लेण।
णिद्धूममुम्मुरे सामलीआ थणए णिअच्छंतो॥ ९२॥
(विक्रीणीते माघमासे पामरः प्रावरकं बलीवर्देन।
निर्धूममुमुर्मुरे श्यामल्याः स्तनके पश्यन्॥)
२. मोहादिप्रधानस्तामसः, स यथा—(गास. ९५०वे.)
पुप्फवइअम्हि बालअ मा धिवसु अदीहराउसो होसि।
अज्जं चेअ मरिज्जउ मिअच्छि किं कालहरणेण॥ ९३॥
(पुष्पवत्यरिम बालक मा स्पृशादीर्घतरायुष्यो भवसि।
अद्यैव म्रियतां मृगाक्षि किं कालहरणेन॥)
३. प्रतिकूलवृत्तिः शठः, स यथा—
घरसामिअस्म वंच्चिअ—पिआणणा पडइ सहिमुहे दिट्ठी।
लीलं बहुप्पआरं सा हु विआरेइ कामस्स॥ १४॥
(गृहस्वामिनो वञ्चितप्रियानना पतति सखीमुखे दृष्टिः।
लीलां बहुप्रकारां को विचारयति कामस्य॥)
४. सत्त्वोद्रेकादुपशमादिप्रधानो धीरप्रशन्तः, यथा—
अतिथिभिर्गतमेव दिवागतैरपथिकागमना च निशीथिनी।
तदधुना प्रतिजागृहि पुत्रकान्प्रविश वेश्म कुटुम्बिनि शेमहे॥ ९५॥
एतेषां च प्रयोजनानि वैदग्ध्यासहिष्णुत्वादनार्जवानतिरागाच्च संक्षिप्त एव रत्युपचारो भवति।
सङ्करान मध्यमः साधारणो धृष्टो धीरोदात्त इति। तेषु—
५. पादोनगुणसम्पद्योगान्मध्यमः, यथा—
व्रीहिः स्तम्बकरः प्रभूतपयसः प्रत्यागता धेनवः प्रत्युज्जीवितमिक्षुणा भृशमिति ध्यायन्नयेत् तानधीः/अपेतान्यधीः।
सान्द्रो शीरकुटुम्बिनीस्तनभरव्यालुप्तघर्मक्लमो देवे नीरमुदारमुज्झति सुखं शेते निशि ग्रामणीः॥ ९६॥
६. अनेकजातिसाधारणं यथा—(माघ. ३.१६)
यां यां प्रियः प्रैक्षत कातराक्षीं सा सा ह्रिया नम्रमुखी बभूव।
निश्शङ्कमन्यास्सममाहितेर्ष्यास्तत्रान्तरे जघ्नुरमुं कटाक्षैः॥ ९७॥
७. प्रकाशविप्रियोऽप्यविलक्षो धृष्टः, यथा—(सक. ४.१८०, ५.३७२)
शतं वारानुक्तः प्रियसखि! वचोभिस्सुपरुषैः सहसस्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः।
कियत्कृत्वो बद्धाः पुनरिह न वेद्मि भ्रुकुटयः तथापि क्लिश्नन्मां क्षणमपि न धृष्टो विरमति॥ ९८॥
८. अहङ्कारप्रधानो धीरोद्धतो यथा—(रघु. ७.६७)
इतिः परानर्भकहार्यशस्त्रान् वैदेहि पश्यानुमता मयासि।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः॥ ९९॥
तेषां च प्रायः प्रयोजनान्तरव्यासङ्गादन्यत्रापि चासक्तेर्व्यलीकापह्रवसदहङ्कारित्वाच्च सङ्कीर्ण एव रत्युपचारो भवति।
सम्पूर्णत्वाद् असाधारणः धीरललित इति। तेषु—
९. अनन्यजानिरसाधारणः, यथा—(उराच. १.३७)
आविवाहसमयाद् गृहे वने शैशवे तदनु यौवने पुनः।
स्वापहेतुरनुपासितोऽन्यथा रामबाहुरुपधानमेष ते॥ १००॥
१०. रजःप्रधानो राजसः यथा—(विक्र. ३.१९)
सामन्तमौलिमणिरञ्जितशासनाङ्कमेकातपत्रमवनेर्न तथा प्रभुत्वम्।
अस्यास्सखे! चरणयोरधिगम्य सम्यगाज्ञाकरत्वमहमद्य यथा कृतार्थः॥ १०१॥
११. अन्यमना अपि गौरवादेरनपहारी दक्षिणो यथा—(सक. ५.४४९)
प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मा मा गोत्रस्खलनादुपैतु यदि वा राधेति भीरोरिति।
रात्रावस्वपतो दिने च विजने लक्ष्मीति चाभ्यस्यतो राधां संस्मरतः कथं रमयतः खेदो हरेः पातु वः॥ १०२॥
१२. विलासप्रधानो धीरललितो यथा—
मधु च विकसितोत्पलावतंसं शशिकरपल्लवितं च हर्म्यपृष्ठम्।
मदनजनितविभ्रमा च कान्ता सुखमिदमर्थवतां विभूतयोऽन्याः॥ १०३॥
एतेषां च प्रायोऽनन्यचितत्वेन रागभूयिष्ठतया स्थित्यनतिक्रमेण विलासितया च सम्पूर्ण एव रत्युपचारो भवति।
सम्यक्त्वाद् उत्तमः—‘स सात्त्विकोऽनुकूलो धीरोदात्त’ इति। तेषु
१३. सर्वगुणसम्पद्योगादुत्तमो यथा—(कुसं. ५.८४)
इतो गमिष्याम्यथवेति वादिनी चचाल सा च स्तनभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः॥ १०४॥
१४. सत्वप्रधानः सात्त्विको यथा—(रघु. १३. २८)
पूर्वानुभूतं स्मरता च रात्रौ कम्पोत्तरं भीरु! तवोपगूढम्।
गुहाविसारीण्यतिवाहितानि मया कथञ्चिद् घनगर्जितानि॥ १०४॥
१५. वशंवदोऽनुकूलो यथा—(कुसं. ८.५१)
मुञ्च कोपमनिमित्तकोपने! सन्ध्यया प्रणमितोऽहमन्यथा।
किं न वेत्सि सहधर्मचारिणश्चक्रवाकसमवृत्तिमात्मनः॥ १०६॥
१६. उदारचरितो धीरोदात्तो यथा—(हनूमन्नाटके १.१९)
कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरुपुलकं वक्त्रकमलम्।
मुहः पश्यञ्छृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः॥ १०७॥
एतेषां च प्रायः समस्तगुणसम्पद्योगेन महासत्त्वतया वशंवदत्वेन अत्युदारतया च सम्यगेव रत्युपचारो भवति। तेऽमी सङ्क्षेपसङ्करसम्पूर्णत्वसम्यक्त्वैः प्रत्ययार्थविशेषणे षोडशनायकविशेषा भवन्ति।
(उपसर्गार्थभेदेषु नायिकाभेदाः —३२)
तथैवमेव सङ्क्षेपादिषूपसर्गार्थभेदेषु नायिकाभेदाः कनिष्ठादयो गीयन्ते। तत्र— सङ्क्षेपे कनिष्ठा, मुग्धा(अप्रलग्भा), अधीरा, शान्ता, अनूढा, परकीया, अभिसारिका, कलहान्तरितेति। तासु —
१. अर्थगुणसम्पद्योगिनी कनिष्ठा यथा—(सक. ५.३७७)
तं किर खणा विरज्जसि तं किर उवहसासि सअलमहिलाओ।
एहेहि वारवालिइ अंसू—मइलं तो समुप्पुसिमो॥ १०५॥
(त्वं किल क्षणाद् विरज्यसे त्वं किलोपहसासि सकलमहिलाः।
एह्येहि वारपालिके! अश्रु मलिनं तत् समुत्प्रोञ्च्छामः॥)
२. अप्रगल्भा(मुग्धा) यथा—(रघु. १९.२७)
चुम्बनेऽपि परिवर्तिताधरं हस्तरोधि रशनाविघट्टने।
विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद् वधूरतम्॥ १०९॥
३. कालहरणासहिष्णुरधीरा यथा—(गास. ५.६५)
पाअपडणाणं मुद्धे! रहसबलामोडिचुंबिअव्वाणं।
दंसणमेत्तपसिज्जिरि चुक्कासि बहुआणं सोक्खाणं॥ ११०॥
(पादपतनानां मुग्धे! रभसबलात्कारचुम्बितव्यानाम्।
दर्शनमात्रप्रसादशीले! च्युतासि बहुकानां सुखानाम्॥)
४. निरङ्कारा शान्ता यथा—(विक्र. ३.१२)
सितांशुका मङ्गलमात्रभूषणा विविक्तदूर्वाङ्कुरलाञ्छितालका।
व्रतोपवासोज्झितगर्ववृत्तिना मम प्रसन्ना वपुषैव लक्ष्यते॥ १११॥
५. कुमार्यनूढा यथा—(रघु. ६.८०)
ततः सुनन्दावचनावसाने लज्जां मृदूकृत्य नरेन्द्रकन्या।
दृष्ट्या प्रसादामलया कुमारं पर्यंग्रहीत् संवरणस्रजेव॥ ११२॥
६. अन्यपरिग्रहः परकीया यथा—(गास. ४.३३)
मुहविज्झविअपईवं णिरुद्धसासं ससङ्किओल्लावं।
सवह—सअ—रक्खिओठ्ठं चोरिअरमिअं सुहावेइ॥ ११३॥
(मुखाविघ्मापितप्रदीपं निरुद्धश्वासं सशङ्कितोल्लापम्।
शपथशतरक्षितोष्ठं चोरितरमितं सुखयति॥)
७. स्वयमुपगताभिसारिका यथा—(गास. १.२०)
अलिअ—पसुत्तअ विणिमीलिअच्छ दे सुहअ मज्झ ओआसं।
गंडपरिउंबणपुलइअंग ण पुणो चिराइस्सं॥ ११४॥
(अलीकप्रसुप्तविनिमीलिताक्ष ददस्व सुभग ममावकाशम्।
गण्डपरिचुम्बनपुलकिताङ्ग! न पुनः चिरयिष्यामि॥)
८. पश्वात्तापवती कलहान्तरिता यथा—(किराता. ९.४५)
सव्यलीकमवधीरीतखिन्नप्रस्थितं सपदि कोपप|?|न।
योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभि बाष्पनिपातः॥ ११५॥
एतासु हि प्रायेणाप्रतिष्ठितत्वादप्रागल्भ्यादधैर्यादुपशमाल्लज्जातो भयादौत्सु— क्यादतिशयरागवृद्धेश्व सक्षिप्तासंक्षिप्तां विकल्पेन चालिङ्गनादय उपचारा भवन्ति।
सङ्करे मध्यमा, मध्या, उद्धता, पुनर्भूः, वेश्या, सामान्या, खण्डिता, विप्रलब्धेति। तासु —
९. या दानगुणसम्पद्युक्ता सा मध्यमा यथा—(सक. ५.२३८)
हुंहुं दे भणसु पुणो ण सुअं ति करेइ कालविक्खेवं।
घरिणी हिअअसुहाइं पइणो कण्णे भणंतस्स॥ ११६॥
(हुंहुं तावद् भण पुनर्न श्रुतमिति करोति कालविक्षेपम्।
गृहिणी हृदयसुखानि पत्युः कर्णे भणतः॥)
१०. किञ्चिदुपारूढयौवना मध्या यथा—(माघ. १०.४१)
सङ्गमेच्छुरभिधातुमरीशा सम्मुखी न च बभूव दिदृक्षुः।
स्पर्शने च दयितस्य नतभ्रूरङ्गसङ्गचपलापि चकम्पे॥ ११७॥
११. अहङ्कारवत्युद्धता यथा—(गास. १.७१)
हल्लप्फल—ण्हाण—पसाहिआणं छणवासरे सवत्तीणं।
अज्जाएँ मज्जणाणाअरेण कहिअं व सोहग्गं॥ ११८॥
(शीघ्रस्नानप्रसाधितानां क्षणवासरे सपत्नीनाम्।
आर्यया मज्जनानादरेण कथितमिव सौभाग्यम्॥)
१२. पुरुषात् पुरुषान्तरं प्राप्ता पुनर्भूर्यथा—(माघ. १६.८१)
यामूढवानूढवराहमूर्तिः मुहुर्त्तमादौ पुरुषः पुराणः।
तेनोह्यते साम्प्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः॥ ११९॥
१३. पण्याङ्गना वेश्या यथा—(गास. ८९१वे.)
सामण्णसुंदरीणं विब्भममावहइ अविणओ च्चेअ।
धूमो च्चिअ पज्जलिआहिं बहुमओ सुरहिदारूणं॥ १२०॥
(सामान्यसुन्दरीणां विभ्रममावहत्यविनय एव।
धूम एव प्रज्वलितानां बहुमतः सुरभिदारूणाम्॥)
१४. अनेकपतिका सामान्या यथा—(गास. ८७२वे.)
पइपुरओ च्चिअ रहसेण चुंबिओ देअरो अडअणाए।
मह वअणं मदिरागंधिअं ति भाआ तुहँ भणइ॥ १२१॥
(पतिपुरत एव रभसेन चुम्बितो देवरोऽसत्या।
मे वदनं मदिरागन्धितमिति भ्राता तव भणति॥)
१५. खण्डितप्रथमप्रेमा खण्डिता यथा—(गास. ७.५३)
पच्चूसागअ! नवराअरत्त! कअ—लोअणाणंद।
अण्णत्तखविअसव्वरिअ णहहूसण दिणवइ णमो दे॥ १२२॥
(प्रत्यूषागत नवरागरक्त! कृतलोचनानन्द।
अन्यत्रक्षपितशर्वरीक! नभो/खोभूषण! दिनपते! नमस्ते॥)
१६. सङ्केतभ्रष्टा विप्रलब्धा यथा—(रघु. १९.१७)
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम्।
मेखलाभिरसकृच्च बन्धनं वञ्चयन् प्रणयिनीरवाप सः॥ १२३॥
एतासु हि प्रायेण नात्युत्कर्षान्नातिप्रगल्भान्नात्यादरान्नातिविस्रम्भादतिकौटिल्या— दनत्यासङ्गादत्यवज्ञातोऽतिरोषाच्च सङ्कीर्णा एव विकल्पसमुच्चयाभ्यामालिङ्गनादय उपचारा भवन्ति।
सम्पूर्णत्वे ज्येष्ठा, प्रगल्भा, अधीरा, धीरललिता, स्वैरिणी, गणिका, वासकसज्जा, विरहोत्कण्ठितेति। तासु—
१७. प्रथमोढा ज्येष्ठा यथा—(रत्ना. ३.१४)
आताम्रतामपनयामि विलक्ष एव लाक्षाकृतां चरणयोस्तव देवि! मूर्ध्ना।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमा यदिपरं करुणा मयि स्यात्॥ १२४॥
१८. रत्युपचारचतुरा प्रगल्भा यथा—(गास. ३.९९)
खिण्णस्स इरे/उरे पइणो विइल/ठवेइ गिंहावरण्हे रमिअस्स।
ओल्लं गलंतकुसुमं ण्हाणसुअन्धं चिउरभारं॥ १२५॥
(खिन्नस्य उरसि पत्युः स्थापयति ग्रीष्मापराह्णरतस्य।
आर्द्रं गलत्कुसुमं स्नानसुगन्धं चिकुरभारम्॥)
१९. कालासहिष्णुरधीरा यथा—
चुंबसु सहस्सहुत्तं मुह हारिअं मए जूए।
माणो उण मुच्चइ सामलंग कह माणइत्तीए॥ १२६॥
(चुम्ब सहस्रकृत्वः मुखमिदं हारितं मया द्यूते।
मानः पुनर्मुच्यते श्यामलाङ्ग! कथं मानवत्याः॥)
२०. नातिचिरमन्युर्ललिता यथा—(गास. ४.६८)
म्हरिमो से सअण—परंमुहीए विअलंत—माणपसराए।
कइअव—सुत्तु—वत्तण—थण—कलसप्पेल्लण—सुहेल्लिं॥ १२७॥
(स्मरामोऽस्याः शयनपराङ्रमुख्या विगलन्मानप्रसरायाः।
कैतवसुप्तोद्वर्तनस्तनकलशप्रेरणसुखकेलिम् ॥)
२१. आत्मच्छन्दा स्वैरिणी यथा—(सक. ५.३९५)
तह सा जाणइ पावा लीए पच्छण्णमविणअं काउं।
जह पढमं चिअ स च्चिअ लिक्खइ मज्झे चारित्तइत्तीणं॥ १२८॥
{तथा सा जानाति जारालोए प्रच्छन्नमविनयं कर्तुम्।
यथा प्रथममेव सैव लेख्यते मध्ये चारित्रवतीनाम्॥}
२२. कलाचतुष्षष्टिर्गणिका यथा—(गास. ८९०वे.)
सच्छंद—रमण—दंसण—संवड्ढिअ—गरुअ—वम्मह—विलासं।
सुविअड्ढ—वेस—वनिआरमिअं को वण्णिउ तरइ॥ १२९॥
(स्वच्छन्द—रमणदर्शनसंवर्धितगुरुकमन्मथविलासम् ।
सुविदग्धवेशवनितारतं को वर्णयितुं शक्नोति॥)
२३. गृह एव प्रगुणितोपकरणा वासकसज्जा यथा—(किराता. ९.३४)
सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दौत्यम्।
सन्निकृष्टरतिभिः सुरदरैर्भूषितैरपि विभूषणमीषे॥ १३०॥
२४. वियोगादौत्सुक्यवती विरहोत्कण्ठिता यथा—(सूमु. १०)
केयूरीकृतकङ्कणावलिरसौ कर्णावतंसीकृत— व्यालोलालकपद्धतिः पतिपुरो बद्धा़ञ्जलिः पृच्छति।
यावत् किश्चिदुदन्तमात्मकमितुस्तावत् स एवेत्यथ व्रीडावक्रितकण्ठनालमबला कैः कैर्न भित्रा रसैः॥ १३१॥
एतासु हि प्रायः प्रणयवृद्धेः सुरतचातुर्यात् कालयापनाद् रागबाहुल्यादभि— प्रायसिद्धेः कलाकौशलाद् उपकरणसत्रिधेरभीष्टसङ्गमावाप्तेश्च सम्पूर्णाः समुच्चयेन चालिङ्गनादय उपचारा भवन्ति।
सम्यक्त्वे उत्तमा, उदात्ता, ऊढा, स्वकीया, कनिष्ठा, रूपाजीवा, स्वाधीनपतिका, प्रोषितभर्तृकेति। तासु—
२५. सर्वगुणसम्पद्योगिनी उत्तमा यथा—(सक. ५.३७५)
हसिआइं समालसकोमलाइ वीसंभकोमलं भणिअं।
सब्भावकोमलं पुलइअं व/च णमिमो सुमहिलाणं॥ १३२॥
(हसितानि समालसकोमलानि विस्रम्भकोमलं भमितम्।
सद्भावकोमलं पुसकितं च नमामः सुमहिलानाम्॥)
२६. उदारचेष्टा उदात्ता यथा—(कुसं. ६.१)
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम्।
पिता मे भूभृतां नाथः प्रमाणीक्रियतामिति॥ १३३॥
२७. पाणिगृहीती ऊढा—(कुसं. ७.८५)
ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन।
सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठं कथमप्युवाच॥ १३४॥
२८. अनन्यपरिग्रहा स्वकीया यथा—(गास. ७७२वे.)
किं तस्स पारएणं किमग्गिणा किं व गब्भहरएण।
जस्स उरम्मि णिसज्जइ उम्हाअंतत्थणी जाआ॥ १३५॥
(किं तस्य प्रावरणेन किमग्निना किं वा गर्भगृहेण।
यस्योरसि निषीदति ऊष्मायमाणस्तनी जाया॥)
२९. पश्चादूढा कनिष्ठा यथा—(सक. ५.३८७)
पणअं पढमपिआए रक्खिउकामो वि महुरमहुरेहिं।
छेअवरो णिणदिज्जइ अहिणववहुआविलासेहिं॥ १३६॥
(प्रणयं प्रथमप्रियायाः रक्षितुकामोऽपि मधुरमधुरैः।
उपधवः सुखायते अभिनववधूविलासैः॥)
३०. रूपातिशायिनी रूपाजीवा यथा—(कुट्टनीम. ४४)
अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः।
चिकुरभरस्तव सुन्दरि! कामिजनं किङ्करीकुरुते॥ १३७॥
३१. आयत्तभर्तृका स्वाधीनपतिका यथा—(गास. २.३०)
सालोए च्चिअ सूरे घरिणी घरसामिअस्स घेत्तूण।
णेच्छन्तस्स वि वाए धुअइ हसंती हसंतस्स॥ १३८॥
(सालोकेऽपि सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा।
अनिच्छतोऽपि पादौ धावति हसतीं हसतः॥)
३२. प्रियवियोगवती प्रोषितभर्तृका यथा—
विलुलितमतिदूरैर्बाष्पमानन्दशोकप्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा।
स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते मधुरधवलमुग्धा दुग्धकुल्येव दृष्टिः॥ १३९॥
एतासु हि प्रायो गुणोत्कर्षादौदार्यादुपयमादात्मीयबुद्धेर्वयोविशेषाद् रूपातिशयाद् वश्यत्वादुत्कण्ठितत्वाच्च सम्यगेव विकल्पसमुच्चयाभ्यामालिङ्गनादय उपचारा भवन्ति। तेऽमी संक्षेपसङ्करसम्पूर्णत्वसम्यक्त्वैः प्रत्ययार्थविशेषणे द्वात्रिंशत्रायिकाविशेषा भवन्ति।
यदा तूपसर्गः प्रकृतिप्रत्ययार्थौ विशेषयति तदा प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति न्यायादेतेषामपि नायकः, प्रतिनायकः, उपनायक इति, नायिका, प्रतिनायिका, उपनायिका, अनुनायिकेति च प्रत्येकं विशेषाः सम्भवन्ति।
उपसर्गस्य चान्येऽपि सम्बन्धादयोऽधिकार्था विद्यन्ते। तद्योगादमीषां सम्बन्धः, संसिद्धः, सन्निभः, संक्षिप्त(/संक्लृप्ताः) इति प्रत्येकं विशेषा जायन्ते। तत्र—
(सम्बन्धार्थे—८)
इतिहासपुराणादिसम्बन्धिनः सम्बन्धाः। तेषु—
कथाशरीरव्यापी नायको यथा—(रघु. ६.६८)
तस्यां रघोः सूनुरुपस्थितायां वृणीत वा नेति समाकुलोऽभूत्।
वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नुनोद॥ १४०॥
तत्प्रतियोगी प्रतिनायको यथा—(रघु. ६.६७)
सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ १४१॥
नायकात् किञ्चिदूनः समो वा गौरवायतनमुपनायको यथा—(किराता. २.१)
विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम्।
उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः॥ १४२॥
एवंविध एव तन्निदेशवर्ती उपनायको यथा—(मामा. ८.११)
कथयति त्वयि सस्मितमालतीवलितलोलकटाक्षपराहतम्।
नयनपङ्कजमुल्लसितत्रपाविधुरदृष्टि सखी नमयिष्यति॥ १४३॥
एवं कथाशरीरव्यापिका नायिका यथा—
तासां माधवपत्नीनां सर्वासां बद्धवर्चसाम्।
शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी॥ १४४॥
तत्प्रतियोगिनी प्रतिनायिका यथा—(हरिवि. अत्रैव ७.१२, ९५)
कुविआ अ सच्चभामा . . . मंतू॥ १४५॥ (पृ. १३३०)
नायिकायाः किञ्चिदूना समा वा गौरवायतनमुपनायिका यथा—(सक. ५.३५३)
देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात् कथं न व्यथाम्।
इत्थं यन्त्रणया कथं कथमपि क्षीणां निशां जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा स्वप्नेऽपि नासादिता॥१४६॥
नायिकायाः कनीयस्यनुनायिका यथा—(सुमु. ४३)
हेलोदस्तमहीधरस्य तनुतामालोक्य दोष्णो हरेः स्नेहादंसतटेऽवलम्ब्य चरणावारोप्य तत्पादयोः।
शैलोद्धारसहायतां जिगमिषोरप्राप्तगोवर्धना राधायाः सुचिरं जयन्ति गगने वन्ध्याः करभ्रान्तयः॥ १४७॥
(संसिद्धार्थे —८)
लोके प्रतीतवृद्धयः संसिद्धाः। तत्र —
सार्ववर्णिकः कनिष्ठादिर्नायकः, स यथा—(गास. ५.९८)
जं वहइ पीअ/वीअं खं/कंडं मज्झ सुओ एकपहरविणिवाई।
तं कुलदूसणिसुण्हाथणाण तुह मट्ठए पडउ॥ १४८॥
(यद् वहति द्वितीयं का/खण्डं मम सुत एकप्रहारविनिपाती।
तत् कुलदूषणीस्नुषास्तनयोः तव मस्तके पततु॥)
नायकोपगामिफलविशेषोऽर्थिप्रतिनायको यथा—(गास. ३.४९)
जह जह वड्ढंति थणा तह तह झिज्जंति पंच वाहिए।
मज्झं पिओ कुदंडो पल्लिजुआणो सवत्तीओ॥ १४९॥
(यथा यथा वर्धेते स्तनौ तथा तथा क्षीयन्ते पञ्च व्याधयः।
मध्यः प्रियः कोदण्डः पल्लियुवानः सपत्न्यश्च॥)
उपपतिरुपनायको यथा—(गास. ३.४९)
अज्जा मए गंतव्वं घणंधआरे वि तस्स सुहअस्स।
अज्जा णिमीलिअच्छी पअपरिवाडिं घरे आइ॥ १५०॥
(अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।
आर्या निमीलताक्षी पदपरिपाटीं गृहे करोति॥)
पत्युः कनीयाननुनायको यथा—(गास. ८७६वे.)
ठाणे ठाणे वलिआ वलणे वलणे वलणे सु/सवेअसकुडुङ्गा।
ण गओसि अंह गामं दिअर ण दिट्ठा तुए मुरला॥ १५१॥
(स्थाने स्थाने वलिताः वलने वलने स/सवेतसनिकुञ्जाः।
न गतोऽसि अस्माकं ग्रामं देवर! न दृष्टा त्वया मुरला॥)
एवं सार्वलौकिक्युत्तमादिनायिका यथा—(गास. १.१३)
घरिणीए महाणस-कम्म-लग्ग-मसि-मइलिएण हत्थेण।
छित्तं मुहं हसिज्जइ चंदावत्थं गअं पइणा॥ १५२॥
(गृहिण्या महानस—कर्मलग्न—मसी—मलिनितेन हस्तेन।
स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या॥)
नायिकाप्रतिपक्षः प्रतिनायिका यथा—(गास. २.७३)
सिहिपिंछकण्णऊरा वहुआ वाहस्स वाहस्स गव्विरी भमइ।
गअ—मोत्तिअ—रइअ—पसाहणाणं मज्झे सवत्तीणं॥ १५३॥
(शिखिपिञ्छकर्णपूरा वधूर्व्याधस्य गर्विता भ्रमति।
गजमौक्तिकरचितप्रसाधनानां मध्ये सपत्नीनाम्॥)
नायिकायास्समीपमुपनायिका यथा—(गास. ९५७वे.)
णिअ—दइअ—दंसणु—क्खित्त पहिअ अण्णेण वच्चसु पहेण।
गह—वइ—धुआ दुल्लंघवाउरा इअ हअगामे॥ १५४॥
(निजदयितादर्शनक्षिप्त पथिक! अन्येन व्रज यथा।
गृहपतिदुहिता दुर्लङ्घवागुरा इह हतग्रामे॥)
नायिकायाः कनीयस्यनुनायिका यथा—(पृ. १६९१)
घरसामिअस्स वंच्चि—पिआणणा पडइ सहिमुहे दिट्ठी।
लीलं बहुप्पआरं सा हु को विआरेइ कामस्स॥ १५५॥
(गृहस्वामिनः वञ्चितप्रियानना पतति सखीमुखे दृष्टिः।
लीलां बहुप्रकारां सा खलु विचारयति कामस्य॥)
(सन्निभार्थे —८)
एत एवोपचरितवृत्तयः सन्निभाः। तेषु —
नायको यथा—(कुसं. ८.६३)
अङ्गुलीभिरिव केशसञ्चयं सन्निगृह्य तिमिरं मरीचिभिः।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥ १५६॥
प्रतिनायको यथा—(सेब. ११.२६)
कह विरहप्पडिऊला होहिइ समुहठ्ठिआ पइम्मि उपगए।
णेच्छइ इअरावि ससिं किं उण दिट्ठम्मि दिणअरम्मि कमलिणी॥ १५७॥
(कथं विरहप्रतिकूला भविष्यति सम्मुखस्थिता पत्यौ उपगते।
नेच्छति इतरथापि शशिनं किं पुनः दृष्टे दिनकरे कमलिनी॥)
उपनायको यथा—(सेब. १०.४१)
वहलम्मि वि तमणिवहे णिव्वालेउण सच्चविअरूवाओ।
अणुबंधंति ससि—अरा घेत्तुं ण चअंति पाअवच्छाआओ॥ १५८॥
(बहुलेऽपि तमोनिवहे पृथक्कृत्वा सत्यापितरूपाः।
अनुबध्नन्ति शशिकराः ग्रहीतुं न शक्नुवन्ति पादपच्छायाः॥)
अनुनायको यथा—
विअसंतेण मुणिज्जइ सिसिरोअग्ग-णवउत्थ-णिअअच्छाआओ।
कमलमुहेण सुरभिणा आसादिअ-महमास-संगमंति कमलिणीण॥ १५९॥
(विकसता ज्ञायते शिशिरोदग्र—नवोत्थनिजकच्छायम्।
कमलमुखेन सुरभिणा आसादितमधुमाससंगमितं कमलिनीनाम्॥)
नायिका यथा—(सक. ५.३५७)
अवऊहिअपुव्वदिसे समअं जोण्हाए सेविअपओसमुखे।
माइ ण झिज्झइ रअणी अवर-दिसा-हुत्त-पत्थिअम्मि मिअंके॥ १६०॥
अवगूहितपूर्वदिशे सम्कं ज्योत्स्नया सेवितप्रदोषमुखे।
मातः न क्षीयते रजनी अपरदिशाभुक्तप्रस्थिते मृगाङ्के॥)
प्रतिनायिका यथा—(सक. ४.८६)
दूरपडिबद्धराए आलिंगंतम्मि दिणअरे अवरदिसं।
असहंति व्व किलम्मइ पिअअमपच्चक्खदूसणं दिणलच्छी॥ १६१॥
(दूरप्रतिबद्धरागे आलिङ्गति दिनकरे अपरदिशाम्।
असहमानेव क्लाम्यति प्रियतमंप्रत्यक्षदूषणं दिनलक्ष्मीः॥)
उपनायिका यथा—(सक. ५.३५८)
ओरत्तपंकअमुहिं वम्मह—णडिअं व सलिलसअणणिसण्णं।
अल्लिअइ तीर-णलिणीं वाआए गमेइ सहअरिं चक्काओ॥ १६२॥
(उपरक्तपङ्कजमुखीं मन्मथ-नटितामिव सलिलशयननिषण्णाम्।
आलीयते तीरनलिनीं वाचा गमयति सहचरीं चक्रवाकः॥)
अनुनायिका यथा—(माघ. ११.२२)
नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषामप्युषां जागरित्वा।
अयमपरदिशोऽङे्क मुञ्चति स्रस्तहस्तः शिशयिषुरिव पाण्डुग्लानमात्मानमिन्दुः॥ १६३॥
(सङ्क्लृप्तार्थे—८)
शब्दस्य सामर्थ्योपजातता गुणसङ्क्रान्तयः सङ्क्लृप्ताः। तेषु—
नायको यथा—(गास. ३.११)
इअरो जणो ण पावइ तुह जहणारुहणसंगमसुहेल्लिम्।
अणुहवउ कणअडोरो हुअवहवरुणाण माहप्पं॥ १६४॥
(इतरो जनो न प्राप्नोतु तव जघनारोहणसंगमसुखकेलिम्।
अनुभवतु कनकदोरः हुतवहवरुणयोर्माहात्म्यम्॥)
अतिनायको यथा—(माघ. ९.६३)
मम रूपकीर्तिमहरद् भुवि यस्तदनुप्रसक्तहृदयेयमिति।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः॥ १६५॥
उपनायको यथा—(गास. २.४४)
जो कह वि सहीहिं मह छिद्दं लहिऊण पेसिओ हिअए।
सो माणो चोरिअकामुअ व्व दिठ्ठे पिए णट्ठो॥ १६६॥
(यः कथमपि सखीभिः मम च्छिद्रं लब्ध्वा प्रेषितो हृदये।
स मानः चोरकामुक इव दृष्टे प्रिये नष्टः॥)
अनुनायको यथा—(सक. ४.१५५)
कह मा झिज्झउ मज्झो इमीए कंदोठ्ठदलसरिच्छेहिं।
अछीहि जो ण दीसइ घणथणहररुद्धपसरेहिं॥ १६७॥
(कथं मा क्षीयतां मध्योऽस्या उत्पलदलसदृक्षाभ्याम्।
अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम्॥)
नायिकाया यथा—(किराता. ३.४०)
यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा।
अनुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति लक्ष्मीः॥ १६८॥
प्रतिनायिकाया यथा—
दिने दिने गाढमुपोढरागा यथा यथा श्रीरुपगाहते त्वाम्।
महीपते! नूनमुपाहितेर्ष्या तथा तथा दूरमुपैति कीर्तिः॥ १६९॥
उपनायिकाया यथा—
(दिनान्तकालावधि भुक्तभुक्ता निशामुखे पाश्य)१व बद्धभावा।
चलस्वभावा दयितेव युनः सन्तापमिन्द्रस्य करोति लक्ष्मीः॥ १७०॥
अनुनायिका यथा—(रघु. १५.१)
कृतसीतापरित्यागः स रत्नाकरमेखलाम्।
बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्॥ १७१॥
॰ ॰ ॰ विशेषो विवक्षावशाद् भावहेतुकर्त्रादिरूपप्रत्ययार्थतां प्रतिपद्यते। तत्र—
नायिकाया भावरूपता यथा—(शाकु. ३.१७)
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे।
समुद्ररशना चोर्वी सखी च युवयोरियम्॥ १७२॥
तासामेव हेतुत्वं यथा—
शिञ्जानमञ्जुमञ्जीरकाञ्चीसञ्चारचारवः ।
रमयन्ति मनः कान्ता नितान्तं योगिनामपि॥ १७३॥
अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः।
तामवारोहयत् पत्नीं रथादवततार च॥ १७४॥
(रघु. १.५४) १. कोष्ठकगतोंऽशोऽस्मत्परिकल्पिता खण्डितांशपूर्त्तिः। पाशिनि वरुणे। कर्तृत्वं यथा—(विक्र. ३.११)
अयं तस्या रथक्षोभादंसादंसो निपीडितः।
एकः कृती शरीरेऽस्मिञ् शेषमङ्गं भुवो भरः॥ १७५॥
कलत्रवन्तमात्मानमवरोधे महत्यपि।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः॥ १७६॥
(रघु. १.३२) सम्प्रदातृत्वं यथा—(रघु. १.४७)
तत्तद् भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः॥ १७७॥
अपादानत्वं यथा—(कुसं. ३.९)
प्रसीद विश्राम्यतु वीर! वज्रं शरैर्मदीयैः कतमः सुरारिः।
बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः॥ १७८॥
तस्मिन् विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये।
निपेतुरन्तःकरणैर्नरेन्द्राः देहैः स्थिताः केवलमासनेषु॥ १७९॥
(रघु.६११) एते च नायकस्यापि ज्ञातव्याः। तत्रास्य . . . (कुसं. ७.९५)
नवपरिणयलज्जाभूषणां तत्र गौरीं वदनमपहरन्तीं तत्कृताक्षेपमीशः।
अपि शयनसखीभ्यो दत्तवाचं कथञ्चित् प्रमथमुखविकारैर्हासयामास गूढम्॥ १८०॥
कर्तृत्वं यथा—(माघ. ९.८२)
इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम्।
स्वकरावलम्बनविमुक्तगलत्कलकाञ्चि काञ्चिदरुणत् तरुणः॥ १८१॥
उभयोः कर्तृत्वं यथा—कुसं. ७.७९, रघु. ७.२४)
प्रदक्षिणप्रक्रमणात् कृशानोरुदर्चिषस्तन्मिथुनं चकाशे।
मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्रियामम्॥ १८२॥
उभयोः कर्मत्वं यथा—(कुसं. ८.८६), (रघु ७.२२)
तौ क्षणं शिथिलितोपगूहनौ दम्पती रचितमानसोर्मयः।
पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः१॥ १८३॥
१. त्रुटिशंसिनो राघवस्य तु ‘वनान्तमद्भुतमि’—त्यद्भुता पूर्त्तिः।
अभूद् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिस्संववृते कुमारी।
तस्मिन् द्वये तत्क्षणमात्मवृत्तिस्समं विभक्तेव मनोभवस्य॥ १८४॥
द्वयोः प्रकृतिसम्बन्धित्वं यथा—(कुसं. ७.६६, रघु. ७.१४)
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत्।
अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां विफलोऽभविष्यत्॥ १८५॥
द्वयोर्भावसम्बन्धित्वं यथा—(रघु. १.४६)
काप्यभिख्या तयोरासीद् व्रजतोश्शुद्धवेषयोः।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव॥ १८६॥
द्वयोर्द्रव्यसम्बन्धित्वं यथा—(कुसं. ७.७५)
तयोस्समापत्तिषु कातराणि किञ्चिद्व्यवस्थापितसंहृतानि।
ह्रीयन्त्रणां तत्क्षणमन्वभूवन्नन्योन्यलोलानि विलोचनानि॥ १८७॥
कुतः पुनरेतद् यदेकदा द्वित्वकर्तृत्वादयः पुरुषे समवयन्ति; अन्यदा तु योषिति; कदाचित्पुनरुभयोरपीति—
उक्तमत्रोपसर्गार्थप्रत्ययार्थोपकल्पितः।
उक्तस्सम्भोगशब्दार्थो व्यक्तकालश्च तद्गतः॥ १८८॥
सामान्यविषयो यश्च विशेषविषयश्च यः।
सोऽयं सम्भोगशृङ्गारः प्राणितं पुष्पधन्वनः॥ १८९॥
अथोच्यते साम्प्रतमानुपूर्व्या पूर्वानुरागादिविशेषितानाम्।
अनन्तराणामखिलस्वरूपं विस्रम्भणादिप्रतिपादनेन॥ १९०॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे सम्भोगशब्दार्थप्रकाशो नाम ॥ त्रयस्रिंशः प्रकाशः॥ ३३॥
ग्रन्थमेतमधिकृत्य वतीर्णः काशिकापुरि तु सम्प्रति भोजः।
उत्तरेषु यदि वाऽत्र विकासं प्राप भोजसुरपापद एषः॥