३२ करुणविप्रलम्भप्रकाशः

अथ

श्रृङ्गारप्रकाशे द्वात्रिंशः प्रकाशः

करुणविप्रलम्भप्रकाशः

अथातः क्रमप्राप्‍तं करुणविप्रलम्भमुपदेक्ष्यामः। तस्य च प्रथमानुरागादिभ्यो रागवर्धनत्वादन्तेऽभिधानमित्यभिहितं पुरस्तात्१। भूयश्च विशेषतोऽभिधीयते।

विभावानुभावव्यभिचारिसंयोगाद् प्रकर्षमापद्यमाना२ रतिर्नाम कामश्रृङ्गारख्यां लभते। स तु नित्यनैमित्तिकादिभेदादष्टधोच्यते। तत्र रागवर्धनत्वापेक्षायां नित्याननैमित्तिकः, सामान्याद् विशेषः, प्रकाशात् प्रच्छन्नः, कृत्रिमादकृत्रिमो बलीयान्। भूयोऽपि नैमित्तिकाद् वैशोषिको, वैशेषिकात् प्रच्छन्नः, प्रच्छन्नादकृत्रिम इति सर्वतोऽप्यकृत्रिम एवोत्कृष्यते। स चाहार्यो, यौवनजः, सहजो, विस्त्रम्भजश्चेति चतुर्धा। तत्राहार्याद् यौवनजो, यौवनजात् सहजः, सहजाद् विस्त्रम्भजो बलीयान्।

कामश्रृङ्गारश्च द्वेधा। सम्भोगो विप्रलम्भश्च। तत्राभिलषणीयानामवाप्‍तौ सम्भोगः, विपर्यये विप्रलम्भः। सम्भोगश्‍च विप्रलम्भमन्तरेण न प्रकर्षमधिरोहतीति विप्रलम्भस्य सम्भोगात् प्रथममभिधानम्।

विप्रलम्भो हि कामश्रृङ्गारस्य प्राणितम्। स प्रथमानुरागेऽङ्कुरितो, माने पल्लवितः, प्रवासे कुसुमितः, करुणे फलितः, प्रथमानुरागानन्तरादिषु प्रकर्षमापन्नः सम्यगुपभोग्यो भवति। पदात्पदं च प्रतिपद्यमानो विशेषतः स्वदते।

यथा दुग्धाद् दधि स्वादु यथा दध्नोऽम्लषाडवः।
यथाम्लषाडवात् स्वादुरामिक्षैवं रसोदयः॥ १॥

ते च प्रथमानुरागादयो विप्रलम्भाः, तदनन्तरास्तु सम्भोगाः। अनुरागस्तु न तथा इङ्गिताकारादिभिः प्रथमानुरागेणेर्ष्यायितमन्त्रायितादिभिर्मानेनोत्कण्ठावेशकार्श्यादिभिः प्रवासे, यथा व्यसनाभिघातसम्मीलनादिभिरनुभावैः करुणविप्रलम्भे प्रकर्षमापन्नो निष्प्रकम्पतां प्राप्नोति। अतः प्रथमानुरागादीनां विप्रलम्भभेदानां त्रयाणामप्यनन्तरं रागवर्धनतमः करुणविप्रलम्भोऽभिधीयते इति।

कः पुनरयं करुणो नाम। १. द्र. अत्रैव पृ. १३९६ २. नभावो= ‘नभावो’ जो, ‘नः प्रधानः (स्थायी) भावो’ राघवः। (१. करुणः— १२)

यत्रास्मिन् मिथ्याभिनिवेश इव गुर्वायासकारकेऽपि मूर्खाणां, सर्वाङ्गपरित्याग इवालौकिकेऽपि ब्रह्मविदां, रजःकर्दमक्रीडाविनोद इव वेषदूषकेऽपि पौरपौगण्डानां, महाहवमहीविहार इव बीभत्सभीषणेऽपि शूरसाहसिकानां, प्रियसुहन्नर्मनिर्भर्त्सन इवातिग्राम्येऽपि परिहासिकानां, कुपितकामिनीपार्ष्णिप्रहार इव सुकुमारेऽपि रागिणां, तिमिराभिसारिकावेष इव मलीमसेऽपि चौर्यरतरुचीनां, विलासिनीकिलिकिञ्चितप्रपञ्च इव दीनप्रदर्शनेऽपि नागरिकाणाम्, अतीवानुरज्यते मनः।

(मनः प्रेम)

सामयिकानामुच्यते। प्ररूढस्नेहयोरन्यतरविनाशे अन्यस्य दुःखाभिनिवेशो हृदयदारुणः। स कथं शोकाद् विभिद्यत इति चेत्,

हेतुफलविषयस्वरूपभेदात्। तथाहि— ‘रत्येकहेतुः करुणः, प्रीतिदयाद्यनेकहेतुः शोकः, पुनस्सङ्गमफलः करुणः, अपुनस्सङ्गमफलः शोकः, स्त्रीपुंसविषयः करुणः, अस्त्रीपुंसविषयः शोकः, सप्रत्याशरूप: करुणः, निष्प्रत्याशस्वरूपः शोक इत्यन्य एव शोकोऽन्यश्च करुण’ इति।

स प्रायेण दैवाश्रयः, पौरुषाश्रयः, देशाश्रयः, कालाश्रयः, स्वरूपाश्रयः, परिमाणाश्रयः, प्रमाणाश्रयः, अनुरागाश्रयः, सम्भोगाश्रयः, विप्रलम्भाश्रयः, नायकाश्रयः, नायिकाश्रय इति द्वादशधा। तेषु—

१. दैवाश्रयः— स्त्रीनिमित्तः, पुरुषनिमित्तः, सहायनिमित्तः, गुरुनिमित्त इति।

२. पौरुषाश्रयः— पुरुषकृतः स्त्रीविषये, स्त्रीकृतः पुरुषविषये, पुरुषकृतः पुरुषविषये, स्त्रीकृतः स्त्रीकृतः स्त्रीविषय इति।

३. देशश्रयो— दिव्यो, मानुषो, दिव्यमानुषो, न/ अदिव्यमानुष इति।१

४. कालाश्रयः— इहजन्मसङ्गमः, अन्यजन्मसङ्गमः, इहान्यजन्मसङ्गमः, प्रेत्यसङ्गम२ इति।

५. स्वरूपाश्रयो— विचिन्तितः, आकस्मिकः, पारमार्थिकोऽपारमार्थिक इति। १. ‘मानुषो न दिव्योऽमानुषो’ इति जो. पृ. ११०८, रा. पृ. १६२१ HOS ; द्र. पृ. १४७० २. ‘उभयजन्मसङ्गम’ इति जो. पृ. ११०८, रा. पृ. १६२१ HOS ; द्र. पृ. १४७१ ६. परिमाणाश्रयो— महानणुर्दीर्घो ह्नस्व इति।

७. प्रमाणाश्रयः— दृष्टः, श्रुतोऽनुमितः, शङ्कित इति।

८. अनुरागाश्रयः— श्रेयान्, मध्यमोऽवरः, प्रत्यवर इति।

९. सम्भोगाश्रयः— प्रथमानुरागानन्तर्यो, मानानन्तर्यः, प्रवासानन्तर्यः, करुणानन्तर्य इति।

१०. विप्रलम्भाश्रयः— प्रथमानुरागजो, मानजः, प्रवासजः, करुणज इति।

११. नायकाश्रयो— गुणकृतः, प्रकृतिकृतः, प्रवृत्तिकृतः, परिग्रहकृत इति।

१२. नायिकाश्रयो— गुणकृतः, वयस्कृतश्चेष्टाकृतो धैर्यकृत इति। तेषु—

(१. दैवाश्रयः)

१. दैवाश्रयः स्त्रीनिमित्तः पुरुषे यथा—(कादम्बरीकथासारे ४. १०८)

अयि पापे! महाश्वेते! न तुष्टास्यक्षमालया।
हता मे सुहृदोऽमुष्य प्राणवृत्तिरपि त्वया॥ २॥

२. पुरुषनिमित्तः स्त्रियां यथा—

विचिन्वतीं मामियमद्रिकुक्षौ विकुक्षिनाम्ना भुजगेन दष्टा।
गतासुरास्ते मृगशाबनेत्रा मृगावती हा विधिना हतोऽस्मि॥ ३॥

३. सहायनिमित्तः पुरुषे यथा—(कादम्बकसा. ६. १०६)

इति श्रुत्वा भिन्नः प्रसभमिव शूलाग्रशिखया कदा त्वां पश्‍येयं कमलमुखि कादम्बरि! पुनः।
वदन्नेवं शोकस्फुटितहृदयः तत्क्षणमसूञ् जहच्चन्द्रापीडस्तरुरिव पपात क्षितितले॥ ४॥

४. गुरुनिमित्तः स्त्रियां यथा— (मामा. १०.१३)

एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव।
को नाम पाकाभिमुखस्य जन्तुर्द्वाराणि दैवस्य पिधातुमीष्टे॥ ५॥

१. प्रत्यवर प्रवर जो. ११०८ रा. १६२१ ; द्र. पृ. १४ (२. पौरुषाश्रयः)

१. पौरुषाश्रयः पुरुषकृतः स्त्रीविषये यथा—

सा वक्षःपरिवर्तनैकललिता विश्वासभूमिः प्रिया बाला निष्करुणेन मुग्धतपसा दग्धा वराकी मया।
भर्तुर्भक्तिरपेक्षिता ननु पुनः स्त्रीदाहदोषो महाञ् जातं सच्चरितैषिणो बत मम म्लेच्छस्य यन्नोचितम्॥ ६॥

२. स्त्रीकृतः पुरुषविषये यथा—(कादकसा. ६. १०४)

शापेन तेन महता मदनाग्निना वा जन्मान्तरोपचितदुष्कृतकर्मणा वा।
चित्रेण वा भगवतश्चरितेन धातुः प्राणानसावुदसृजन्निपपात चोर्व्याम्॥ ७॥

३. पुरुषकृतः पुरुषविषये यथा—(नागान. ५. २१)

आत्मीयः पर इत्ययं खलु कुतः सत्यं न नाम क्रमः किं रक्षामि बहून् किमेकमिति वा चिन्ता न जाता कथम्।
तार्क्ष्यात् त्रातुमहीन् स्वजीवितपरित्यागं त्वया कुर्वता यच्चात्मा पितरौ वधूरिति हतं निश्शेषमेतत् कुलम्॥ ८॥

४. स्त्रीकृतः स्त्रीविषये यथा—(कुसं. १. ५३)

यदैवे पूर्वे जनने शरीरं सा दक्षदोषात् सुदती ससर्ज।
तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहऽभूत्॥ ९॥

(३. देशाश्रयः)

१. देशाश्रयभेदेषु दिव्यो यथा—(कुसं. ४. १९)

विबुधैरपि यस्य दारुणैरसमाप्‍ते परिकर्मणि स्मृतः।
तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे॥ १०॥

२. मानुषो यथा—

रिपुर्यातु परां वृद्धिं धिग् राज्यमनयोऽस्तु नः।
दैवमेवंविधं दृष्ट‍्वा दाने प्रत्यर्ययामि ताम्॥ ११॥

३. दिव्यमानुषो यथा (रघु. ८.८२)

क्रथकैशिकवंशम्भवा तव भुता महिषी चिराय सा।
उपलब्धवती दिवश्‍च्युतं विवशा शापनिवृत्तिकारणम्॥ १२॥

४. आदिव्यमानुषो यथा—(सेबं. ११.५३)

आलोइए णिसण्णा उअणिज्जं तेमि वेविउं आढत्ता।
सीआत्ति रअणिअरेहिं रामसीरत्ति भणिए गअ च्‍चिअं मोहं॥ १३॥

(आलोकिते निषण्णा उपनीयमाने वेपितुमारब्धा।
सीता रजनीचरैः रामशिर इति भणिते गता एव मोहम्॥)

(४. कालश्रयः)

१. कालश्रयप्रभेदेषु इहजन्मसङ्गमो यथा—

स्वप्‍नः स्यात् किमयं न जातु जगति स्वप्‍नो भवेज्जाग्रतः किं केनापि हि वञ्चितोऽस्मि दयितालाभः कुतो वञ्चना।
किं नाहं शुकनन्दनः कथमसावन्यं समाभाषते केनायं रचितो विधिः सुकृतिना सिद्धेन ते कर्मणा॥ १४॥

२. अन्यजन्मसङ्गमो यथा—

मा शोचस्व शुचिस्मिते ! कृतजपा तप्यस्व तीव्रं तपो भूत्वा वेदवती भविष्यसि ततस्सीतेति नाम्‍ना भुवि।
कान्तस्ते हरिरेष वामनतनुं कृत्वा सहस्त्रार्जुनं जित्वा दाशरथित्वमेत्य भवतीं भूयः समुद्‌वक्ष्यति॥ १५॥

३. इहान्यजन्मसङ्गमो यथा—(कुसं. ४.४४)

तदिदं परिरक्ष शोभने ! भवितव्यप्रियसङ्गमं वपुः।
रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी॥ १६॥

४. प्रेत्यसङ्गमो यथा—(रघु. ८.९५)

तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोः— र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः।
पूर्वाकारधिकतररुचा सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु॥ १७॥

(५. स्वरूपाश्रयः)

१. स्वरूपाश्रयप्रभेदेषु विचिन्तितो यथा—(मामा. ८.१२)

मम हि कुवलयाक्षीं प्रत्यनिष्टैकबुद्धे— रविरतमनुबद्धोत्कम्प एवान्तरात्मा।
स्फुरति च खलु चक्षुर्वाममेतच्‍च कष्टं वचनमिह भवत्योः सर्वथा हा हतोऽस्मि॥ १८॥

२. आकस्मिको यथा—(रघु. १४.५३)

अथ व्यवस्थापितवाक् कथञ्चित् सौमित्रिरन्तर्गतबाष्पकण्ठः।
औत्पातिकं मेघ इवाश्मवर्षं महीपतेः शासनमुज्जगार॥ १९॥

३. पारमार्थिको यथा—(रघु. ८.३८)

वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत्।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम्॥ २०॥

४. अपारमार्थिको यथा—(रामाभ्यु.)

प्रत्याख्यानरुषा कृतं समुचितं क्रूरेण ते रक्षसा सोढं तच्‍च तथा त्वया कुलवधूर्धत्ते यथोच्‍चैः शिरः।
व्यर्थं सम्प्रति बिभ्रता धनुरिदं त्वद्‍व्यापदः साक्षिणा रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये! नोचितम्॥ २१॥

(६. परिणामाश्रयः)

१. परिणामाश्रयप्रभेदेषु महान् यथा—(मामा. ९.१२, उराच. ३.३१)

दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतना।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्॥ २२॥

२. अणुर्यथा—(ताव. ६.४)

विस्त्रम्भान्न विसर्पितं मयि मनो निर्प्यन्त्रणं मन्त्रितुं व्यावृत्तापि निवर्तिता न शयने बाष्पं त्यजन्ती शनैः।
मामुद्दिश्‍य तथानया व्यवसितं तन्नोपरुद्धं मुधा कष्टं केवलमेव राजतनया दग्धा वराकी शुचा॥ २३॥

३. दीर्घो यथा—(ताव. ३.१०)

सर्वत्र ज्वलितेषु वेश्‍मसु भयादालीजने विद्रुते व्यासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तदा।
हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे॥ २४॥

४. ह्रस्वो यथा—

असमाप्‍तप्रतिज्ञेऽस्तंगते त्वयि महाभुजे।
मुक्तकेश्‍यैव दत्तस्ते प्रियायायं जलाञ्जलिः॥ २५॥

(७. प्रमाणाश्रयः)

१. प्रमाणाश्रयभेदेषु दृष्टो यथा—

हा हा कथं कुमुदनीलनलाङ्गदादियूथाधिपैरतिजवादनुबध्यमानः।
अस्मन्मनोरथभुवं सहसैव देवीं व्यापाद्य राक्षसपतिर्नगरीं प्रविष्टः॥ २६॥

२. श्रुतो यथा—

श्रुत्वैष विधृतबाष्पः तथास्थितो येन वर्धिताक्रन्दैः।
हृदयस्फुटनभयार्तै रोदितुमभ्यर्थ्यते सचिवैः॥ २७॥

३. अनुमितो यथा—(उरा. ३४)

भ्रमति हृदयं चिन्तायत्तं धनुर्गुरुतां गतं न खलु विषयं जाने चेतस्तथापि समाकुलम्।
अयमपि मुहुर्बाष्पोत्पीडो रुणद्धि विलोचने स्फुरति च यथा वामं चक्षुस्तथैष शठो विधिः॥ २८॥

४. शङ्कितो यथा—(मामा. ८.१३)

किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद् विरमति परिहासश्चण्डि! पर्युत्सुकोऽस्मि।
कलयसि कलितोऽहं वल्लभे! देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि॥ २९॥

(८. अनुरागाश्रयः) अनुरागाश्रयप्रभेदेषु

१. श्रेयांस्त्रिधा नित्योऽकृत्रिमो विस्त्रम्भजश्‍च। तेषु —

नित्यो यथा—नित्योऽकृत्रिमो विस्त्रम्भजश्‍च। तेषु —

नित्यो यथा—(गास. ४.७३)

अंतोहुत्तं डज्झइ जाआसुण्णे घरे हलिअउत्तो।
ओ(ऊ)सित्तणिहाणाइं व रमिअट्ठाणा पेच्छतो॥ ३०॥

(अन्तरभिमुखं दह्यते जायाशून्ये गृहे हलिकपुत्रः।
उपसिक्तनिधानानीव रमितस्थानानि पश्‍यन्॥)

अकृत्रिमो यथा—(रघु. ८.६६)

धृतिरस्तमिता रतिशच्युता विरतं गेयमृतुर्निरुत्सवः।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे॥ ३१॥

विस्त्रम्भजो यथा—(उराच. ६.३३)

क्‍व तावानानन्दो निरतिशयविस्त्रम्भबहुलः क्‍व तेऽन्योन्यं यत्र क्‍वचन गहनाः कौतुकरसाः।
सुखे वा दुःखे वा क्‍व नु खलु तदैक्यं हृदययो— स्तथाप्येष प्राणः स्फुरति न तु पापो विरमति॥ ३२॥

२. तथा मध्यमोऽपि सहजः, प्रच्छन्नो, वैशिषिकश्चेति त्रिधैव। तेषु — सहजो यथा—

मुखं ज्योत्स्‍नालोकप्रसरधवलाक्षं क्‍वनु मया पुनर्दुप्यन्ते/र्द्रष्टव्यं तत् स्मितमधुरमन्थाल्पवचनम्।
क्‍व सा श्रव्या वाणी विजितकलहंसीकलरवा विलासाः पश्‍यन्त्या/वीक्ष्यन्तां क्‍व च सहभुवो धीरललिताः॥ ३३॥

प्रच्छन्नो यथा—

दट‍्ठूण चिरं रोत्तूण णिब्भरं धारिऊण हिअअम्मि।
बंधइ कंठे अइणं ठिअं कंठिअं ओ मह पाइणी॥ ३४॥

(दृष्ट‍्वा चिरं रुदित्वा निर्भरं धृत्वा हृदये।
बधाति कण्ठे अजिनं स्थितां कण्ठिकां अइ मम पत्‍नी॥)

वैशेषिको यथा—(रघु. ८.६९)

विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम्।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः॥ ३५॥

३. एवमपरोऽपि त्रिधा नैमित्तिकः, सामान्यो, यौवनजश्च। तेषु —

नैमित्तिको यथा—(उराच. ३.९)

अन्तर्लीनस्य दुःखाग्‍नेरद्योद्दामं ज्वलिष्यतः।
उत्पीड इव धूमस्य मोहः प्रागावृणोति माम्॥ ३६॥

सामान्यो यथा—(गास. २.४२)

समसोक्खदुक्खसंववड्‌ढिआणं कालेण रूढपणआणं।
मिहुणाणं मरइ जं तं खु जिअइ इअरं मअं होइ॥ ३७॥

(समसौख्यदुःखसंवर्धितयोः कालेन रूढप्रणययोः।
मिथुनयोर्म्रियते यत् तत् खलु जीवति इतरन्मृतम् भवति)॥

यौवनजो यथा—

अणुदिअहं वड्‌ढंते खु क्खुरुडे/गरुए व्व दुक्खमुव्वहइ।
कुलवहुआ विहवत्तणणिप्पइगुणगोरवेण थणाए॥ ३८॥

(अनुदिवसं वर्धमानयोः खलु गुरुकयोः इव दुःखमुद्‌वहति।
कुलवधुका विधवात्वनिष्पत्तिगुणगौरवेण स्तनयोः॥)

४. प्रत्यवरोऽपि त्रिधैव प्रकाश, आहार्यः, कृत्रिमश्चेति। तेषु —

प्रकाशो यथा—(कुसं. ४.३)

अयि जिवितनाथ! जीवसीत्यभिधायोत्थितया तया पुनः।
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम्॥ ३९॥

आहार्यो यथा—

किं देव्या अपि चुम्बितोऽस्मि बहुशो मिथ्याप्रसुप्‍तस्तया कोपे सत्यपि किं निरीक्ष्य हसिता नो मन्मूखं भामिनी।
विस्त्रम्भात् कलिता लतेव हृदये किं वा चिरं न स्थिता कान्तिर्वास्य विनापि वाच्यमसवो यन्न प्रयाताः स्वयम्॥ ४०॥

कृत्रिमो यथा—(गास. ८७६वे.)

तह अडअणाए रुण्णं पइमरणे वाहरिध्धकंठीए।
अणुमरणसंकिणो जह जारस्स वि संकिअं हिअअं॥ ४१॥

(तथा असत्या रुदितं पतिमरणे बाष्पकरुद्धकण्ठया।
अनुमरणशङ्किनो यथा जारस्यापि शङ्कितं हृदयम्॥)

सम्भोगविप्रलम्भाश्रयभेदेषु प्रथमानुरागानन्तर्यादयोऽष्टावपि प्रत्येकं त्रिधा— तज्जातास्तदुल्लेखिनस्तदन्तरङ्गाश्च।

(९. सम्भोगाश्रयः)

१. तत्र सम्भोगाश्रयेषु प्रथमानुरागानन्तरजा यथा—(मामा. ६.९)

नैराश्‍यकातरधियो हरिणेक्षणायाः श्रुत्वा निकामकरुणं च मनोहरं च।
मात्सर्यमोहपरिदेवितमुद्‌वहामि चिन्ताविषादविपदं च महोत्सवं चे१॥ ४२॥

२. मानानन्तरीयेषु मानानन्तरजो यथा—

जाने कोपपराङ‍्मुखी प्रियतमा स्वप्‍नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः।
नो यावत् परिरभ्य चाटुकशतैराश्वासयामि क्षणं भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः॥ ४३॥

तदुल्लेखी यथा—(रघु. ८.४८)

कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि।
कथमेकपदे निरागसं जनमाभाष्यममुं न मन्यसे॥ ४४॥

तदन्तरङ्गो यथा—(उराच. ३.१३)

तटस्थं नैराश्‍यादपि च कलुषं विप्रियवशाद् वियोगे दीर्घेऽस्मिन् झटिति स्तम्भितमिव।
प्रसन्नं सौजन्यादपि च करुणैर्गाढकरुणं द्रवीभूतं प्रेम्णा तव हृदयमस्मिन् क्षण इव॥ ४५॥

३. प्रवासानन्तरीयेषु तज्जातो यथा—

धौतोऽमलः श्लाघ्यतरैः सहायैः पराभवः शत्रुकृतो भवद्भिः।
यत् साम्प्रतं सम्प्रति राघवाणां त्यागेन देव्यास्तदहं करोमि॥ ४६॥

तदुल्लेखी यथा—

विरहरचितां गाढां वेणीं तवोद‍्ग्रथयञ्छनै— र्विरहगुणितास्तास्ताः कुर्वन् कथाः समयोचिताः।
कृशतरतनुं त्वामाश्लिष्य त्यजेयमहं शुचं यदिति गुणितं तन्मे धात्रा शठेन न सह्यते॥ ४७॥

तदन्तरङ्गो यथा—(उराच. १.३०)

तत्कालप्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवाञ्छया विसोढः।
दुःखाग्‍निर्मनसि मुहुर्निवर्तमानो हृन्मर्मग्रहमिव वेदनां करोति॥ ४८॥

१. प्रथमानुरागोल्लेखी प्रथमानुरागान्तरङ्गश्‍च नोपलभ्येते। ४. करुणानन्तर्येषु तज्जातो यथा—(उराच. १४०)

हाहा धिक् परगृहवासदूषणं यद् वैदेह्याः प्रशमितमद्भुतैरुपायैः।
तत् तावत् पुनरपि दैवदुर्विपाकादालर्कं विषमिव सर्वतः प्रसृप्‍तम्॥ ४९॥

तदुल्लेखी यथा—(मामा. ९.११)

मयि विगलितप्रत्याशत्वाद् विवाहविधेः पुरो विकलकरणैर्मर्मच्छेदव्यथाविधुरैरिव।
स्मरसि रुदितैः स्‍नेहाकूतं तथा व्यतनोदसा— वहमपि यथाऽभूवं पीडातरङ्गितसम्मदः॥ ५०॥

तदन्तरङ्गो यथा—

येनात्मम्भरिणा निरस्य करुणामुत्सृज्य लज्जामपि प्रश्वासोपचयाहिताधिकधृतिस्‍नेहोऽपि नावेक्षितः।
सोऽहं सुभ्रु! विलोकयामि वदनं ब्रूयां प्रसीदेति वा चण्डालस्तव चण्डि! दारुणतरं तत् कर्म कृत्वा कथम्॥ ५१॥

(१०. विप्रलम्भाश्रयः)

१. विप्रलम्भाश्रयप्रभेदेषु प्रथमानुरागजो यथा—(मामा. ५.२४)

न्यस्तालक्तकरक्तमाल्यवसना पाषण्डिचण्डालयोः पापरम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम्।
सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक्कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः॥ ५२॥

प्रथमानुरागोल्लेखी यथा—(मामा. ९.१०)

सरसकुसुमक्षामैरङ्गैरनङ्गमहाज्वर— श्चिरमविरतोन्माथी सोढः प्रतिक्षणदारुणः।
तृणमिव ततः प्राणान् मोक्तुं मनो विधृतं त्वया किमपरमतो निर्व्यूढं यत् करार्पणसाहसम्॥ ५३॥

प्रथमानुरागान्तरङ्गो यथा—(मामा. ५.२०)

नादस्तावद् विकलकुररीकूजितस्‍निग्धतार— श्‍चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति।
अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं स्नेहस्तम्भः स्खलयति गतिं कः प्रकारः किमेतत्॥ ५४॥

२. मानजो यथा—

स दृष्टः स्वप्नेऽद्य प्रणयकुपितो मां प्रति जनं ततः क्षीणा रात्रिर्ननु चरणयोरस्मि पतिता।
कृतं कल्याणानामनभिलषिता एव हि वयं प्रसन्नं तद् वक्त्रं न कृतमिति चेतो दहति माम्॥ ५५॥

मानोल्लेखी यथा—(कुसं. ४. ८)

स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम्।
च्युतकेसरधूसरेक्षणान्यवतंसोत्पलताडनानि वा॥ ५६॥

मानान्तरङ्गा यथा—

मूर्च्छान्धकारपटलावृतदिग्विभागा राहुपरागमलिनेव शशाङ्कलेखा।
गर्भालसा चतुरगेहगुणाद् गृणन्ती पाशं निधाय गलके मरणोन्मुखाऽभूत्॥ ५७॥

३. प्रवासजो यथा—

चिरमनुचितस्थाने स्थित्वा मदीक्षणवाञ्छया किमिव दयिते तत् स्याद् दुःख न यद् विदितं तया।
कतिपयदिनव्याप्य़ं सम्प्रत्यपास्य वृथैव मां कठिनहृदये! किं त्वं याता क एष तव क्रमः॥ ५८॥

प्रवासोल्लेखी यथा—

उपायानां भावादविरतविनोदव्यतिकरै— र्विमर्दैर्वीराणां जनितजगदत्यद्भुतरसः।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् कृतः तूष्णीं सह्यो निरवधिरयं तु प्रविलयः॥ ५९॥

प्रवासान्तरङ्गो यथा—

प्रिये! हाहा क्वासि प्रकिर मधुरां वाचमधुना पराभूतैरित्थं विलपनविनोदोऽप्यसुलभः।
अनिन्द्यः पौलस्त्यो व्रजतु परिवादो मयि जरां यतो रूढे वैरे बहुगुणमनेन प्रतिकृतः॥ ६०॥

४. करुणजो यथा—(कादकसा. ७.७८)

द्वितीयेऽप्यहमेवास्य जाता जन्मनि मृत्यवे।
शप्‍तो मदनुरक्तोऽसौ मयेति विललाप सा॥ ६१॥

करुणोल्लेखी यथा—(शाकु. ६.९)

इतः प्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता गृहे तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत् तत् सविषमिव शल्यं दहति माम्॥ ६२॥

करुणान्तरङ्गो यथा—(उराच. ३.३८)

हा हा देवि स्फुटति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ् मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ ६३॥

(११. नायकाश्रयः) नायकाश्रयप्रभेदेषु

१. गुणकृतस्त्रिधा उत्तमाश्रयो, मध्यमाश्रयः, कनिष्ठाश्रयश्च। तत्र—

उत्तमाश्रयो यथा—

अन्तराविर्भवन्मृत्युर्निरोधविधुरात्मना ।
कष्टं प्रसह्य रामेण बाष्पमोक्षो निगृह्यते॥ ६४॥

मध्यमाश्रयो यथा—(रघु. ८.७२)

प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात्।
न चकार शरीरमग्निसात् सह देव्या न तु जीविताशया॥ ६५॥

कनिष्ठाश्रयो यथा—

सततदयितविप्रयोगतापाद् वरमिह कालकलैव वह्निनाभः।
उपशममुपनेतुमात्मपीडां दहनमहं प्रविशामि न प्रियार्थम्॥ ६६॥

२. प्रकृतिकृतोऽपि त्रिधैव सात्त्विको, राजसस्तामस इति। तेषु—

सात्त्विको यथा—(उराच. ७.७)

दह्यमानेन मनसा दैवाद् वत्सां विहाय सः।
लोकोत्तरेण धैर्येण प्रजापुण्यैश्च जीवति॥ ६७॥

राजसो यथा—(रघु. ८.७०)

विलपिन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति।
अकरोत् पृथिवीरुहानपि स्त्रुतशाखारसबाष्पदूषितान्॥ ६८॥

तामसो यथा—

तां लोकोऽयं वाञ्छितार्थप्रसिद्ध्यै नित्यं द्रव्यैः पूतहृद्यैर्धिनोति।
तन्मे प्रीतः पूतहव्येन वह्ने! कुर्यात् कान्तासङ्गमं यत्र तत्र॥ ६९॥

३. प्रवृतिकृतश्चतुर्धा धीरोदात्ताश्रयादिभेदात्। तेषु—

धीरोदत्ताश्रयो यथा—(उराच. ३.१)

अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः।
पुटपाकप्रतीकाशो रामस्य करुणो रसः॥ ७०॥

धीरोद्धताश्रयो यथा—

पिता वा माता वा प्रभवति स तावत् प्रभुरपि व्यपेक्षा यावत् स्युर्दयिषु यदि वा भोगवसुषु।
सहै संत्यक्‍ते/क्‍तोऽयं घनतृषि गतायामुपशमः पुमानेकः कृत्स्नं जगदिदमसमस्तं विरचयेत्॥ ७१॥

धीरललिताश्रयो यथा—(रघु. ८.४३)

विललाप स बाष्पगद्गदः सहजामप्यवधूय धीरताम्।
अभितप्‍तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु॥ ७२॥

धीरप्रशान्ताश्रयो यथा—

उग्रा क्रिया नो सहसैव कार्या दृष्टं फलं तत्परिवेष्टितस्य।
प्रियामटव्यां हि नलः प्रसुप्‍तां विहाय जीवन् पुनराप साध्वीम्॥ ७३॥

४. परिग्रहकृतो द्विधा साधारणाश्रयोऽसाधारणाश्रयश्च। तयोः—

साधारणाश्रयो यथा—(ताव. ४.१४) कामं दुष्करमेतदेव यदहं त्यक्तस्त्वया जीवित— स्तन्नामास्त्वनुरोधतः प्रणयिनां को वा स्वतन्त्रो भवेत्।
यत् तत् प्रस्तुतमन्यदेव किमपि स्नेहस्य यन्नोचितं त्वत्प्राप्‍त्यै कृतमेतदित्यपि कथं प्रत्येष्यसि त्वं प्रिये!॥ ७४॥

असाधारणश्रयो यथा—

वियोगे प्रत्याशा घटयति मुदं सङ्गमकृता प्रसादाः सन्नह्यो रतिकलहकोपोऽपि भवति।
व्यसुन्वन् तन्वङ्ग्या निरवधि नवोपायविषयस् तदाश्वासे हेतुर्भवति मम मृत्युर्यदि परम्॥ ७५॥

(१२. नायिकाश्रयः) नायिकाश्रयेष्वपि

१. गुणकृतस्त्रेधा उत्तमादिभेदात्। तत्र—

उत्तमाश्रयो यथा—(उराच. ३.४)

परिपाण्डुपांसुलकपोलसुन्दरं दधती विलोलकबरीकमाननम्।
करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी॥ ७६॥

मध्यमाश्रयो यथा—(कादकसा. ७.१६)

पत्रलेखापि तद्रूपचन्द्रापीडविलोकिनी।
मुमुचे संज्ञया सद्यः प्रपतन्ती शिलातले॥ ७७॥

कनिष्ठाश्रयो यथा—(कुसं. ४.४)

अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी।
विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम्॥ ७८॥

२. वयस्कृतीऽपि त्रिधैव मुग्धादिभेदात्। तेषु—

मुग्धाश्रयो यथा—(मामा. ६.६)

इयमवयवैः पाण्डुक्षामैरलङ्कृतमण्डना कलितकुसुमा बालेवान्तर्लता परिशोषिणी।
वहति च वरारोहा धन्यां विवाहमहोत्सव— श्रियमुदयिनीमत्यर्थं च व्यनक्ति मनोरुजम्॥ ७९॥

मध्यमाश्रयो यथा—(सेब. ११.६७)

णवरि अ पसारिअंगी रअभरिउप्पहपइण्णवेणीबंधा।
पडिआ उरसंदाणिअ—महिअल—वक्कलइअत्थणी जणअसुआ॥ ८०॥

(अनन्तरं च प्रसारिताङ्गी रजो—भृतोत्पथप्रकीर्णवेणीबन्धा।
पतिता उरःसन्दानितमहीतलवक्रीकृतस्तनी जनकसुता॥)

प्रगल्भाश्रयो यथा—(कादकसा. ७.१८)

तदाकार्ण्य विहायैव वैक्लब्यं स्त्रीजनोचितम्।
लब्धसंज्ञा महाश्वेता मदलेखां च सावदत्॥ ८१॥

३. चेष्टाकृतोऽपि त्रिधैव उद्धतादिभेदात्। तत्र१ —

उद्धताश्रयो यथा—(कुसं. ४.३४)

अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना।
नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ॥ ८२॥

ललिताश्रयो यथा—(सेब. ११.५४)

पडिआ अ हत्थ—सिढिलिअ—णिरोह—पंडुर—समूससंतकओला।
पेल्लिअ—वामपओहर—विसमुण्णअ—दाहिणत्थणी जणअसुआ॥ ८३॥

(पतिता च हस्तशिथिलनिरोधपाण्डरसमुच्छ‌्वत्कपोला।
प्रेरितवामपयोधरविषमोन्नतदक्षिणस्तनी जनकसुता॥)

शान्ताश्रयो यथा—(रघु.१४.५७)

न वावदद् भर्तुरवर्ण्यमार्या निराकरिष्णोर्वृजिनाद्‍ृतेऽपि।
आत्मानमेवास्थितदुःखभावं पुनः पुनर्दुष्कृतिनं निनिन्द॥ ८४॥

४. धैर्यकृतो द्वेधा धीराश्रयोऽधीराश्रयश्च। तयोः —

धीराश्रयो यथा—(सेब. ११.८०)

जाए परलोअगए तुमम्मि ववसाअमेत्तसुहदट्ठव्वे।
हरिसट्ठाणे वि मह डज्झइ अदिट्टदहमुहवहं हिअअं॥ ८५॥

(जाते परलोकगते त्वयि व्यवसायमात्रसुखद्रष्टव्ये।
हर्षस्थानेऽपि मम दह्यते अद्‍ृष्टदशमुखवधं हृदयम्॥)

अधीराश्रयो यथा—(सेब. ११.५५)

ण कओ वाहविमोक्खो णिव्वण्णेउंपि न वइ/डिअं रामसिरं।
णवरि पडिवण्णमोहा गअजीविअणीसहा महिए णिसण्णा॥ ८६॥

(न कृतो बाष्पविमोक्षो निर्वर्णयितु मपि न पतितं रामशिरः।
केवलं प्रतिपन्नमोहा गतजीवितनिस्सहा मह्यां निषण्णा॥)

१. ‘चेष्टा…..तत्र’ — इति जो. (पृ. ११२०), रा. (पृ. १६३७) न पठतः। प्रतिनिर्देशमनुसृत्य त्वस्माभिरिदमयोजि। (२. करुणस्य विभावादयः)

अथास्यैव विभावानुभावव्यभिचारिसंयोगः प्रयोगतोऽभिधीयते। तत्रालम्बन— विभावोद्दीपनविभावयोस्तादर्थ्यादर्थाद् व्यभिचारिणामपि अभिन्नार्थत्वादनुभावैरेव सर्वसङ्ग्रह इति, तथैवोदाह्रियते, उदाहरिष्यन्ते च। ते च व्यसनाभिघातादयो मुखप्रतिमुखगर्भविमर्शनिर्वहणेषु प्रत्येकं षोडशेत्येवमशीतिर्यथाक्रमं प्रतिपाद्यन्ते।

तत्र १. व्यसनाभिघातः, २. अभिषङ्गाभिभवः, ३. चेष्टासम्मीलनं, ४. मोहसमावेशः, ५. चेतनाप्रत्यागमः, ६. मूर्च्छाविच्छेदः, ७. शोकप्रत्यग्रता, ८. शोकावेगः, ९. दुःखनिर्यातनं, १०. दुःखावसादः, ११. दुःखसन्दीपनं, १२. दुःखव्याहारः, १३. दुःखातिवाहनं, १४. बाष्पमोक्षः, १५. अवस्थानुभवः, १६. अवस्थान्तरावेशः इत्यनुभावाः षोडश मुखे (१६+)

१. परिदेवनं २.अनुशोचनं, ३. गुणसंस्मरणं, ४. स्वभावस्य गर्हणं१, ५. विलापः, ६. प्रलापः, ७. प्रविलापः, ८. विप्रलापः, ९. आत्मनिन्दा, १०. हृदयोपलम्भः,२ ११. जीवितजुगुप्सा, १२. दैवाधिकारः, १३. शोकोन्मादः, १४. दुःखसम्भेदः, १५. सहायापेक्षणं, १६. सहायानुनीतिरित्यनुभावाः षोडश प्रतिमुखे + (१६+१६=३२)

१. सुहृत्परिवेदनं, २. सुहृत्प्रलापः, ३. परिजनानुशोचनं, ४. परिजनाक्रन्दः, ५. गुरूपरोधनं,३ ६. गुरुजनविलापः, ७. सहायाक्रन्दनं, ८. सहायाभ्युपपत्तिः, ९. सहायाभाषणं, १०. सहायाप्रश्नः, ११. साहसाग्रहः, १२. मरणाभिनिवेशः, १३. सहायाभ्यर्थनं, १४. सहायशिक्षा, १५. मरणोपक्रमः, १६. मरणाध्यवसाय इत्यनुभावाः षोडश गर्भे (३२+१६=४८)

१. समाश्वासनम्, २. उद्धर्षणं, ३. प्रतिबोधनम्, ४. उत्साहनम्, ५. अनुकम्पनं, ६. विस्त्रम्भणं, ७. प्रलोभनम्, ८. उपपत्तिदर्शनं, ९. प्रश्वासनं, १०. सत्यापनं, ११. प्रत्यायनम्४, १२. आप्यायनं, १३. तन्मतव्यापेक्षः, १४. भयोपदर्शनम्, १५. उपालम्भनं, १६. प्रतिकोप इत्यनुभावाः, षोडश विमर्शे, (४८+१६=६४)। १. स्वभाग्यस्य इति पृ. १४९०, २. उदाहरणानि नोपलभ्यन्ते पृ. १४९१, ३. गरूपरोदनम् इति पृ. १४९४, ४. प्रत्यानयनम् पृ. १५०१ १. मरणाध्यवसायविद्रवः१, २. शोकतिरस्कारः, ३. शोकलाघवं, ४. शोकविनोदः२, ५. तपस्योद्वेगः३, ६. दैवसम्पद्योगः, ७. त्रिकालद्‍ृष्टदर्शनं४, ८. तदुपदेशः, ९. सहायस्वीकरणं,५ १०. तदध्यवसायः, ११. प्रत्यूहप्रशमनं, १२. प्रत्याशानुबन्धः, १३. समयप्रतीक्षा, १४. संविधानकप्रकारः, १५. प्रत्युज्जीवनं, १६. पुनस्समागम इत्यनुभावाः षोडश निर्वहणे। (६४+१६=८०) सैषा षोडशकपञ्चकेन अशीतिः।

अथैतेषामुदाहरणानि। तत्र—

(१. मुखसन्धौ करुणस्य विभावादयः —१६)

१. मुखसन्धौ व्यसनाभिघातो यथा—(रघु. १४. ३३)

कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण।
अयोघनेनाय इवाभितप्‍तं वैदेहिबन्धोर्हृदयं विदद्रे॥ ८७॥

यथा वा—(उरा. ३.११)

कुलशैलौ प्रचलितौ सागरौ शोषमागतौ।
चन्द्रसूर्यौ गतावस्तमहो शोकस्य तीव्रता॥ ८८॥

२. अभिषङ्गाभिभवो यथा—(रघु. १४.५४)

ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना।
स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम॥ ८९॥

यथा वा—(कुसं. ३.७३)

तीव्राभिषङ्गप्रभवेण मन्युं मोहेन संस्तम्भयतेन्द्रियाणाम्।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव॥ ९०॥

३. चेष्टासम्मीलनं यथा—(सेब. ११.६४)

तह णिमिअ च्चिंअ दिठ्ठी मुक्ककओलविहुरो उरच्चिअ करे।
गअजीविअणिच्चेठ्ठा णवरि सा महिअलं थणहरेण गआ॥ ९१॥

(तथा निर्मिता एव द्‍ृष्टिः मुक्‍तकपोलविधुरः उरसि एव करौ।
गतजीवितनिश्‍चेष्टा केवलं सा महीतलं स्तनभरेण गता॥)

१. ॰सायविद्रवः=॰सायःविद्रवः’ इति जो. रा., २. उदाहरणानि नोपलभ्यन्ते पृ.१५०३, ३. तपस्योद्योगः पृ. १५०४, ४. ॰द्‍ृश्यदर्शनम् पृ.१५०४, ५. सहायत्वास्वीकरणम् पृ. १५०५ यथा वा—(सेब. ११.१०५)

अलअंधआरिअमुही समुहागण(अ)कंठभमिरवेणिवंधा।
मोहपडिवण्णहिअआ दरजंपिअणीसहं पुणो वि णिसण्णा॥ ९२॥

(अलकान्धकारितमुखी सम्मुखागतकण्ठभ्रमणशीलवेणीबन्धा।
मोहप्रतिपन्नहृदया दरजल्पितनि सहं पुनरपि निःसंज्ञा॥)

४. मोहसमावेशो यथा—(सेब. ११.५६)

खणणिच्चलणीसासं जा(अं) मोहंधआरसामच्छाअं।
विरलमिलिअच्छीपत्तं मुछाहीरंततारअं तीए मुहं॥ ९३॥

(क्षणनिश्‍चलनिःश्वासं जातं मोहान्धकारश्यामच्छायम्।
विरलमिलिताक्षिपत्रं मूर्च्छाह्रियमाणतारकं तस्या मुखम्॥)

यथा वा—(सेब. ११.५७)

विअलिअविओअविअणं तक्खणपब्भट्ठराममरणाआसं।
जणअतणआइ णवरं लद्धं मुच्छाणिमीलअच्छीए मुसुहं॥ ९४॥

(विगलितवियोगवेदनं तत्क्षणप्रभ्रष्टराममरणायासम्।
जनकतनयया केवलं लब्धं मूर्च्छानिमीलिताक्ष्या सुखम्॥)

५. चेतनाप्रत्यागमो यथा—(सेब. ११.५८)

थणपरिणाहत्थइए तीसे हिअअम्मि पअणुअं पि ण दिट्ठं।
दीहं पि समूससिअं दुक्खिज्जइ णवर वेविरे अहरोट्ठे॥ ९५॥

(स्तनपरिणाहस्थगिते तस्याः हृदये प्रतनुकमपि न द्‍ृष्टम्।
दीर्घमपि समुच्छ‌्वसितं दुःख्यते केवलं वेपनशीले अधरोष्टे॥)

यथा वा—(सेब. ११.५९)

अवरिप्फुडणीसासा तो सा मोहविरमे वि णीसहपडिआ।
बढ्ढंत—बाह—गुरुइअ—दुक्‌ख —समुव्वूढ—तारअं उम्मिल्ला॥ ९६॥

(अपरिस्फुटनिःश्वासा ततः सा मोहविरमे अपि निस्सहपतिता।
वर्धमान—बाष्प—गुरूकृत—दुःख—समुद्व्यूढ—तारकं उन्मीलिता॥)

६. मूर्च्छाविच्छेदो यथा—(कुसं. ४.१)

अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता।
विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम्॥ ९७॥

यथा वा—(रघु. १४.५६)

सा लुप्‍तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः।
तस्यास्सुमित्रात्मजयत्‍नलब्धो मोहादभूत् कष्टतरः प्रबोधः॥ ९८॥

७. शोकप्रत्यग्रता यथा—(उराच. २.२६)

चिराद् वेगारम्भी प्रसृत इव तीव्रो विषरसः कुतश्चित् संवेगात् प्रचल इव शल्यस्य शकलः।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः परावृत्तः शोको विकलयति मां नूतन इव॥ ९९॥

यथा वा—(सेब. ११.१३१)

इअ राम—पेम्म—कित्तण—दूसण—वज्जाहिघाअ—दूमिअ—हिअआ।
संभरिअ मुक्ककण्ठं अण्णमअं मरणणिच्छिआ वि परुण्णा॥ १००॥

(इति रामप्रेमकीर्तनदूषणवज्राभिघात—दून—हृदया।
संस्मृत्य मुक्‍तकण्ठमन्यमयं मरणनिश्‍चिता अपि प्ररुदिता॥)

८. शोकावेगो यथा—

हेलोल्लोलक्षुभितकरुणो जृम्भणस्तम्भनार्थं यो यो यत् तत् कथमपि समाधीयते तं तमन्तः।
हित्वा हित्वा प्रसरति बलात् कोऽपि चेतोविकार— स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः॥ १०१॥

यथा वा—(रघु. ८.९३)

तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद।
प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमनत्वरया स मेने॥ १०२॥

९. दुःखनिर्यातनं यथा—(सेब. ११.७३)

परिदेविउं पउत्ता तो णिअअ—सरीर—मुक्‍क—राहव—दुक्खा।
करमग्गुट्ठिअ—सोणिअ—विवण्ण—उण्णअ—पओहरा जणअसुआ॥ १०३॥

(परिदेविउ प्रवृत्ता ततः निजकशरीरमुक्‍तराघवदुःखा।
करमार्गोत्थित—शोणित—विवर्णोन्नतपयोधरा जनकसुता॥)

यथा वा—(सेब. ११.१००)

तो जंपिउं पउत्ता पुणो वि अत्थक्क उट्ठिअ—समूससिआ।
उरघोलिरवेणीमुहथणलग्गंगुट्ठमहिरआ जणअसुआ॥ १०४॥

(ततः जल्पितुं प्रवृत्ता पुनरपि अकस्माद् उत्थितसमुच्छ्‌वसिता।
उरोघूर्णनशील—वेणीमुखस्तनलग्‍नाङ्गुष्ठमहीरजाः जनकसुता॥)

१०. दुःखावसादो यथा—(सेब. ११.७१)

आवेअसमुक्खित्तं तो से खेआगमोसिअंतोवत्तं।
पडिअं णिअउच्छंगे अप्पत्तं चिअ पओहरे करजुअलम्॥ १०५॥

(आवेगसमुक्षिप्‍तं ततः तस्याः खेदागमावसीददपवृत्तम्।
पतितं निजोत्सङ्गे अप्राप्‍तम् एव पयोधरौ करयुगलम्॥)

यथा वा—(सेब. ११.१०७)

तीए णव—पल्लवेण व पहराअंब—विहलेण हत्थेण मुहं।
परिमज्जिउं ण चइअं एक्ककओल—मिलिआलअं कह वि कअं॥ १०६॥

(तया नवपल्लवेन इव प्रहाराताम्रविह्वलेन हस्तेन मुखम्।
परिमार्ष्टुं न शक्‍तं एककपोलमिलितालकं कथमपि कृतम्॥)

११. दुःखसन्दीपनं यथा—(कुसं. ४.२६)

तमवेक्ष्य रुरोद सा भृशं स्तनसम्बाधमुरो जघान च।
स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते॥ १०७॥

यथा वा—(कुसं. ४.५)

उपमानमभूद् विलासिनां१ करणं यत्तव कान्तिमत्तया।
तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः॥ १०८॥

१२. दुःखव्याहारो यथा—(कुसं. ४.२७)

इति चैनमुवाच दुःखिता सुहृदः! पश्य वसन्त! किं स्थितम्।
यदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम्॥ १०९॥

१. सिनाम् = सिनीनाम् जो.रा.। अत्र तृतीयपादविसंवादः। यथा वा—(रघु. ८.५७)

नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम्।
तदिदं विषहिष्यते कथं वद वामोरु! चिताधिरोहणम्॥ ११०॥

१३. दुःखातिवाहनं यथा—(रघु. ८.४१)

प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात्।
स निनाय नितान्तवत्सलः प्रतिगृह्योचितमङ्कमङगनाम्॥ १११॥

यथा वा—(सेब. ११.९८)

तो अगणिओवएसा गओ/आवणिअत्तितजीअवि/विअमुहिज्जंती।
तिअडाए जणअतणआ सहिसब्भावसरिसं उरम्मि णिसण्णा॥ ११२॥

(ततः अगणितोपदेशा गतापनिवर्तितजीवितमुद्वहन्ती।
त्रिजटायाः जनकतनया सखीसद्भावसदृशमुरसि निषण्णा॥)

१४. बाष्पमोक्षो यथा—(रघु. १४.६८)

तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते।
सा मुक्तकण्ठं व्यसनातिभाराच्‍चक्रन्द विग्‍ना कुररीव भूयः॥ ११३॥

यथा वा—(उराच. ३.३२)

न किल भवता देव्याः स्थानं गृहेऽभिमतं कृतं तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता।
चिरपरचिताश्चैते भावाः परिद्रवयन्ति मा— मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते॥ ११४॥

१५. अवस्थानुभवो यथा—(सेब. ११.९९)

लोअणवइअर—लग्गं तंसणिसण्णाइ तीए तिअटावच्छे।
गलिअं कवोलपेल्लणवीलपीडज्जंतालउग्गअं बाहजलं॥ ११५॥

(लोचनव्यतिकर—लग्‍नं तिर्यङ्‌निषण्णायाः तस्याः त्रिजटावक्षसि।
गलितं कपोलप्रेरणपीड्यमानालकोद्गतं बाष्पजलम्॥)

यथा वा—(सेब. ११.६८)

सव्वग्ग—णिसण्णाए णीसेस—क्खविअ—तिवलिअं/भंग—णिराओ।
तीसे मज्झपएसो थणजहणकरालिओ ण पावइ वसुहं॥ ११६॥

(सर्वाङ्गनिषण्णाया निश्शेषक्षपितत्रिवलिभङ्गनिरायतः।
तस्याः मध्यप्रदेशः स्तनजघनकरालितः न प्राप्‍नोति वसुधाम्॥)

१६. अवस्थान्तरावेशो यथा—(सेब. ११.१०६)

तो अड्डिअपेलिबंधणभंगुग्गमविसमकेसवच्छत्तरणे।
पडिआ रामोरत्तल—सअण—णिरासहिअआ महिअलुच्छिंगे॥ ११७॥

(ततः अस्थितवेणीबन्धनभङ्गोद्‍गमविषमकेशप्रत्यास्तरणे।
पतिता रामोरःस्थलशयननिराशहृदया महीतलोत्सङ्गे॥)

यथा वा—(सेब. ११.६५)

तो मुच्छिउठिआए किं एअंति गअणे दिसासु अ समअं।
सुण्णपरिघोलिरत्थं जाअं मूढपरिदेविअं तीए मुहं॥ ११८॥

(ततः मूर्छितोत्थितायाः किमेतदिति गगने दिशासु च समकम्।
शून्यपरिघूर्णनशीलाक्षं जातं मूढपरिदेवितं तस्या मुखम्॥)

(२. प्रतिमुखसन्धौ करुणस्य विभावादयः -१६)

१. प्रतिमुखसन्धौ परिदेवनं यथा—(रघु. ८.६२)

कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति।
अलकाभरणं कथं नु तत् तव नेष्यामि निवापमाल्यताम्॥ ११९॥

यथा वा—(कुसं. ४.२२)

क्रियतां कथमन्त्यमण्डनं परलोकोपगतस्य ते मया।
सममेव गतोऽस्यतर्किता गतिमङ्गेन च जीवितेन च॥ १२०॥

२. अनुशोचनं यथा—(कुसं. ४.१२)

नयनान्यरुणानि घूर्णयन् वचनानि स्खलयन् पदे पदे।
असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बनम्॥ १२१॥

यथा वा—(कुसं. ४.१४)

हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः।
वद सम्प्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति॥ १२२॥

३. गुणसंस्मरणं यथा—(कुसं. ४.२३)

ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः।
मधुना सह संस्थितां कथां नयनोपान्तविलोकितं मयि॥ १२३॥

यथा वा—(कुसं. ४.१७)

शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च।
सुरतानि च तानि ते रहः स्मर! सञ्चिन्त्य न शान्तिरस्ति मे॥ १२४॥

४. स्वभाग्यगर्हणं यथा—(सेब. ११.७६)

विरहम्मि तुज्झ धरिअं दच्छामि तुमं त्ति हअजीविअं कह वि मए।
तीए ससि(एअं) में दिट्ठो फलिआ वि मणोरहा ण पूरेन्ति महं॥ १२५॥

(विरहे तव धृतं द्रक्ष्यामि त्वांमिति हतजीवितं कथमपि मया।
तस्या एवमसि मे दृष्टः फलिता अपि मनोरथाः न पूर्यन्ते मम॥)

यथा वा—(सेब. ११.७७)

पुहईए होहिइ पई बहुपुरिसविवेसचंचला राअसिरी।
मणे महं चिअ इमं णीसामण्णं उअट्ठिअं वेहव्वं॥ १२६॥

(पृथिव्याः भविष्यति पतिः बहुपुरुषविशेषचञ्चला राज्यश्रीः।
मन्ये मम एव इदं निस्सामान्यमुपस्थितं वैधव्यम्॥)

५. विलापो यथा—(कुसं. ४.७)

कृतवानसि विप्रियं न मे प्रतिकूलं च मया न ते कृतम्।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते॥ १२७॥

यथा वा—(रघु. ८.५२)

मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम्।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः॥ १२८॥

६. प्रलापो यथा—(कुसं. ४.९)

हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम्।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः॥ १२९॥

यथा वा—(रघु. ८.४९)

ध्रुवमस्मि शठः शुचिस्मिते! विदितः कैतववत्सलस्तव।
परलोकमसन्निवृत्तये यदनापृच्छ्‌य गतासि मामितः॥ १३०॥

७. प्रविलापो यथा—(रघु. ८.६१)

मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ।
अविधाय विवाहसंस्क्रियामनयोर्गम्यत इत्यसाम्प्रतम्॥ १३१॥

यथा वा—(रघु. ८.६४)

तव निःश्वसितानुवादिभिः वकुलैरर्धचितां समं मया।
असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि! सुप्यते॥ १३२॥

८. विप्रलापो यथा—(कुसं. ४.६)

क्‍व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः।
नलिनीं क्षतसेतुबन्धनो जलसङ्घात इवासि विद्रुतः॥ १३३॥

यथा वा—(रघु. ८.६५)

समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः।
अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः॥ १३४॥

९. आत्मनिन्दा यथा—(सेब. ११.७४)

आवाअभअअरं चिअ ण होइ दुक्खस्स दारुणं णिव्वहणं।
जं महिलावीहच्छं दिठ्ठं सहिअं च तुह मए अवसाणं॥ १३५॥

{आपातभयकरमेव न भवति दुःखस्य दारुणं निर्वहणम्।
यत् महिलाबीभत्सं द्‍ृष्टं सोढं च (तव मया अवसानम्)॥}

यथा वा—(सेब. ११.१०२)

सहिअं रक्खसवसई दिठ्ठं तुह तह एरिसं अवसाणं।
अज्ज वि वअणिज्जहअं धूमाइ विअ ण पज्जलइ मे हिअअं॥ १३६॥

{सोढं राक्षसवसतौ द्‍ृष्टं तव ततः ईद्‍ृशमवसानम्।
अद्यापि वचनीयहतं धूमायते एव न प्रज्वलति मे हृदयम्॥}*

११. जीवितजुगुप्सा यथा—(रघु. ८.५०)

दयितां यदि तावदन्वगाद् विनिवृत्तं किमिदं तया विना।
सहतां हतजीवितं मया प्रबलामात्मकृतां च वेदनाम्॥ १३७॥

यथा वा—(सेब. ११.७९)

सहिओ तुज्झ विओओ रअणिअरीहि समअं सहीहि व वुत्थं।
दट्ठुं तुमं ति होन्तं जइ एत्ताहे वि जीविअं विअलंतं॥ १३८॥

(सोढस्तव वियोगः रजनीचरीभिः समकं सखीभिरिव व्युषितम्।
द्रष्टुं त्वाम् इति अभविष्यत् यदि इदानीम् अपि जीवितं व्यगलिष्यत्॥)

  • अतः परं हृदयोपलम्भस्य उदाहरणं नास्ति। १२. दैवाधिकारो यथा—(रघु. ८.४४)

कुसुमान्यपि गात्रसङ्गमात् प्रभवन्त्यायुरपोहितुं यदि।
न भविष्यति हन्त साधनं किमिवान्यत् प्रहरिष्यतो विधेः॥ १३९॥

यथा वा—(कुसं. ४.३१)

विधिना कृतमर्धवैशसं ननु मां कामवधे विमुञ्चता।
अनघापि वनेन(गजेन) निर्मिते द्रुमभङ्गे१ पतनाय वल्लरी॥ १४०॥

१३. शोकोन्मादो यथा—(कुसं. ४.१८)

रचितं यदि/रति—पण्डित त्वया मम गात्रेषु यदेतदार्तवम्।
ध्रियते कुसुमप्रसाधनं तव तच्चारुवपुर्न द्‍ृश्यते॥ १४१॥

यथा वा—(कुसं. ४.१६)

प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः।
रतिदूतपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम्॥ १४२॥

१४. दुःखसम्भेदो यथा—(कुसं. ४.११)

मदनेन विनाकृता रतिः क्षणमात्रं किल जीवतीति मे।
वचनीयमुपस्थितं जने रमण! त्वामनुयामि यद्यपि॥ १४३॥

यथा वा—(मवीच. ५.२२)

न्यक्कारो हृदि व्रज्रकील इव मे तीव्रः परिस्पन्दते घोरान्धे तमसीव मज्जति मनः सम्मीलितं लज्जया।
शोकस्तातविपत्तिजो दहति मां नास्त्येव यस्मिन् क्रिया मर्माण्येव पुनश्छिनत्ति करुणा सीतां वराकीं प्रति॥ १४४॥

१५. सहायापेक्षणं यथा—(कुसं. ४.२४)

क्‍व नु ते हृदयङ्गमः सखा कुसुमायोजितकार्मुको मधुः।
न खलूग्ररुषा पिनाकिना२ गमितः सोऽपि सुहृद्गतां गतिम्॥ १४५॥

यथा वा—(कुसं. ४.२८)

अयि सम्प्रति देहि दर्शनं स्मर! पर्युत्सुक एष माधवः।
प्रमदास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने॥ १४६॥

१. वनेन—भङ्गे=हि संश्रयद्रुमे गजभग्ने’—काग्र. आदि। २. किना = किनो रा. १६. सहायानुनीतिर्यथा—(रघु. १४.४२)

तदेष सर्गः करुणार्द्रचित्तैः न मे भवद्भिः प्रतिषेधनीयम्।
यद्यर्थिता निर्हृतवाच्यशल्यान् प्राणान् मया धारयता चिरं वः॥ १४७॥

यथा वा—

बाष्पान्धा न निरीक्षितुं विषहते द्‍ृष्टिः पुरो विद्विषः सीदन्नेष च कार्मुकप्रणयितां धत्ते न पाणिर्मम।
रुन्धे तीव्रशुचा मनस्यवसरः क्रोधस्य यातः सखे! क्षन्तव्यं कृपणोऽनुयामि दयितामध्यस्तवैरोऽप्यहम्॥ १४८॥

(३. गर्भसन्धौ करुणस्य विभवादयः — १६)

१. गर्भसन्धौ सुहृत्परिदेवनं यथा—(मामा. ९.८)

न यत्र प्रत्याशामनुपतति नो वा रहयति प्रतिक्षिप्‍तं चेतः प्रविशति च मोहान्धतमसम्।
अकिञ्चित्कुर्वाणाः पशव इव तस्यां वयमहो विधातुर्वामत्वाद् विपदि परिवर्तामह इमे॥ १४९॥

यथा वा—(मामा. ९.८)

सुहृदि गुणनिवासे प्रेयसि प्राणनाथे कथमिह सहचर्या क्रीडनप्रौढसख्ये।
प्रियजनविरहाधिव्याधिवेगं दधाने हतहृदय! विशीर्य त्वं द्विधा न प्रयासि॥ १५०॥

२. सुहृत्प्रलापो यथा—(मामा. ९. २३)

अकरुण! वितर स्मितोज्ज्वलां द्‍ृशमतिदारुण! देहि मे गिरम्।
सहचरमनुरक्तचेतसं प्रियमकरन्द १! कथं न मन्यसे॥ १५१॥

यथा वा—(मामा. ९.३९)

आपूर्णश्च कलाभिरिन्दुरमलो यातश्च राहोर्मुखं सञ्जातश्च घनाघनो जलधरः शीर्णश्च वायोर्जवात्।
संवृत्तश्च फलेग्रही द्रुमवरो दग्धश्च दावाग्निना त्वं चूडामणितां गतश्च जगतः प्राप्‍तश्च मृत्योर्वशम्॥ १५२॥

१. प्रियमक = प्रिय मक॰जो.रा. ३. परिजनानुशोचनं यथा—(ताव. २.११)

धारावेश्म विलोक्य दीनवदनो भ्रान्त्वा च लीलागृहा— न्निःश्वस्यायतमाशु केसरलतावीथीषु कृत्वा द्‍ृशः।
किं मे पार्श्वमुपैषि पुत्रक! कृतैः किं चाटुभिः क्रूरया मात्रा त्वं परिवर्जितः सह मया यान्त्यातिदीर्घां भुवम्॥ १५३॥

यथा वा—(ताव. २.२३)

कुरवकतरुर्गाढाश्लेषं, मुखासवलालनं वकुलविटपी, रक्ताशोकस्तथा चरणाहतिम्।
तव सुकृतिनः सम्भाव्यैते प्रसादमहोत्सवा ननु गतदशाः सर्वे सर्वः शठो न वयं यथा॥ १५४॥

४. परिजनाक्रन्दो यथा—(रघु. ८. ३९)

उभयोरपि पार्श्ववर्तिनां तुमुलेनार्तरवेण वेजिताः।
विहगाः कमलाकराश्रयाः समदुःखा इव तत्र चुक्रुशुः॥ १५५॥

यथा वा—(उराच. १.२८)

अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये विकलकरणैरार्यचरितै— रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥ १५६॥

५. गुरूपरोदनं यथा—(नागा. ५.१२)

चूडामणिं चरणयोर्मम पातयता त्वया।
लोकान्तरगतेनापि नोज्झितो विनयक्रमः॥ १५७॥

यथा वा—

विवाहे द्‍ृष्टेयं सितकुसुमाल्याम्बरधरा सनाथा रामेण प्रथमवयसा कान्तवपुषा।
पुनश्शून्येऽरण्ये प्रतिभयकरे बन्धुरहिता विमुञ्चन्ती प्राणानितरतनयैवाद्य च मया॥ १५८॥

६. गुरुजनविलापो यथा—(मामा. १०.२)

अनियतरुदितस्मितं विराजत्कतिपयकोमलदन्तकुड्‍मलाग्रम्।
वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जितमञ्जुजल्पितं ते॥ १५९॥

यथा वा—(मामा. १०.६)

अकारणस्मेरमनोहराननः शिखालमलाटार्पितगौरसर्षपः।
तवाङ्कशायी परिवृत्तभाग्यया मया न दृष्टः खलु स स्तनन्धयः॥ १६०॥

७. सहायाक्रन्दनं यथा—(कादकसा. ६.१०७)

ततो भग्‍नग्रीवं मुकुलितसितापाङ्गनयनं प्रभां तन्वीं दीनामिव निदधतं दिक्षु दशनैः।
क्षितौ विश्रान्ताङ्गं पतितमिममालोक्य विवशा महाश्वेता सद्यः कथमपि न याति स्म दलशः॥ १६१॥

यथा वा—(सक. ४.१८९)

अकृतकबलारम्भैर्वक्त्रैर्भयस्थगितेक्षणाः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्क्तयः।
गगनमसकृत् पश्यन्त्येतास्तथाश्रुघनैर्मुखै— र्निपतति यथा श्रृङ्गाग्रेभ्यो भ्रमन्नयनोदकम्॥ १६२॥

८. सहायाभ्युपपत्तिर्यथा—(कुसं. ४.२५)

अथ तैः परिदेविताक्षरैः हृदये दिग्धशरैरिवार्दितम्।
रतिमभ्युपपत्तुमादरान् मधुरात्मानमदर्शयत् पुरः॥ १६३॥

यथा वा—(रघु. १४.७०)

तामभ्यगच्छद् रुदितानुसारी कविः कुशेध्माहरणाय यातः।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः॥ १६४॥

९. सहायाभाषणं यथा—(उराच. ३.३०)

इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुममिव घर्मः कलयति।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ— स्तदद्याप्युच्छ्‌वासो भवतु ननु लाभो हि रुदितम्॥ १६५॥

यथा वा—

जागर्षि काश्मरि! निषीदसि कोविदार! कुत्रासि वत्सकृतमाल! तमाल! पश्य।
किं साम्प्रतं रघुपतेरिति विक्लवाभि— रुक्तं द्रुमौघमवलोक्य वनस्थलीभिः॥ १६६॥

१०. सहायाप्रश्‍नो यथा—(सेब. ११.१११)

तो ती/तं दट्ठूण पुणो मरणेक्करसाए वाहिह—णीसारत्थं।
आउच्छसु मं ति कअं तिअडा-गअ-लोअणाए दीणपललोइअं॥ १६७॥

(ततः तद् दृष्ट्वा पुनः मरणैकरसया बाष्पनिस्सारार्थम्।
आपृच्छस्व मामिति कृतं त्रिजटागतलोचनया दीनप्रलोकितम्॥)

यथा वा—(सेब. ११.११२)

सहिअम्मि रामविरहे दूसहणिज्जे पडिच्छिए वेहव्वे।
सअसु गअणेहलहुअं मह णिल्लज्जमरणं इमं ति परुण्णा॥ १६८॥

(सोढे रामविरहे दुस्सहनीये प्रतीष्टे वैधव्ये।
सहस्व गतस्नेहलघुकं मम निर्लज्जमरणमिदमिति प्ररुदिता॥)

११. साहसाग्रहो यथा—

शून्या दिशस्सपदि वीक्ष्य शुचा वराकी मृत्योर्मुखं विशति पाशमयं निराशा।
एतावथ स्व—वध—पातक—दीर्घरोषा मा गच्छ शीघ्रमबलां परिरक्ष यावत्?॥ १६९॥

यथा वा—(उराच. ७.२)

विश्वम्भरात्मजा देवी राज्ञा त्यक्ता महावने।
प्राप्‍तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति॥ १७०॥

१२. मरणाभिनिवेशो यथा—(कुसं. ४.१०)

परलोकनवप्रवासिनः प्रतिपद्ये पदवीमहं तव।
विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम्॥ १७१॥

यथा वा—(कुसं. ४.३३)

शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते।
प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि॥ १७२॥

१३. समयाभ्यर्थनं यथा—(कुसं. ४.३२)

तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम्।
अविषह्यवियोगवेदनां ननु मां प्रापय पत्युरन्तिकम्॥ १७३॥

यथा वा—(कुसं. ४.३५)

कुसुमास्तरणे सहायतां बहुशः सौम्य! गतस्त्वमावयोः।
कृरु सम्प्रति सत्वरं मया विनिपाताञ्जलियाचितां१ चिताम्॥ १७४॥

१४. सहायशिक्षा यथा—(कुसं. ४.३६)

तदनु ज्वलनं मदर्पितं त्वरयेर् दक्षिणवातवीजनैः।
विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना॥ १७५॥

यथा वा—(कुसं. ४.३८)

परलोकविधौ च माधव स्मरमुद्दिश्य विलोलपल्लवाः।
निवपेस्सहकारमञ्जरीं प्रियचूतप्रसवो हि ते सखा॥ १७६॥

१५. मरणोपक्रमो यथा—

रतिपतिरभूद् यस्मिन् वेधाः सुधापरमाणुभि— र्यदिह घटितं यस्याकारं विलोक्य कृतः शशी।
वदनकमलं तत्पश्येयं सरोजदृशः पुन— र्दहनभवनं निर्माणं मे तदेव करिष्यसि॥ १७७॥

यथा वा—

हंसो वा चक्रवाको वा विशालाक्ष्यानया सह।
भवेयं मानुषीगर्भे मा भूज्जन्म पुनर्मम॥ १७८॥

१६. मरणाध्यवसायो यथा—(सेब. ११.११५)

अणुसोइउं ण इच्छइ ण देइ अंगग्मि सा परम्मि वि पहरं।
बाहं मुअइ ण रुधइ मरिअव्वे लद्धपच्चअं से हिअअं॥ १७९॥

(अनुशोचितुं न इच्छति न ददाति अङ्गे सा परास्मिन्नपि प्रहारम्।
बाष्पं मुञ्चति न रुणद्धि मर्तव्ये लब्धप्रत्ययं तस्याः हृदयम्॥)

१. विनि—चितः = ‘प्रणिपाताञ्जलियाचितश्’ काग्र. यथा वा—(सेब. ११.११०)

लक्खिज्जंतविसाआ अब्भहिउम्मिल्लणिच्चलट्ठिअणअणा।
रामसिरबद्धलक्खा धुव्वइ वाहेण से ण रुद्धइ दिठ्ठी॥ १८०॥

(लक्ष्यमाणविषादा अभ्यधिकोन्मीलितनिश्‍चलस्थितनयना।
रामशिरोबद्धलक्ष्या धाव्यते बाष्पेण तस्या न रुध्यते द्‍ृष्टिः॥)

(४. विमर्शसन्धौ करुणस्य विभावादयः —१६)

१. विमर्शसन्धौ समाश्वासनं यथा—(सेब. ११.८६)

तो विलविअणिच्छामं गलंतहिअअपरिसुण्णलोअणजुअलं।
महुरं आसासंती हत्थुत्ताणिअमुही हणइ तं तिअडा॥ १८१॥

(ततः विलपितनिश्श्यामं गलद्‍धृदयपरिशून्यलोचनयुगलम्।
मधुरमाश्‍वासयन्ती हस्तोत्तानितमुखी भणति तां त्रिजटा॥)

यथा वा—(सेब. ११.९१)

मा रुअसु पुससु बाहं अवआसे कुणसु सपरिअत्तमुहं।
संभरिअ विरहदुक्खं रोत्तव्वं ते पुणो पिअस वि अंके॥ १८२॥

(मा रोदीः प्रोञ्छ बाष्पं पश्य कुरु संपरिवृत्तमुखम्।
संस्मृत्य विरहदुःखं रोदितव्यं ते पुनः प्रियस्याप्यङ्के॥)

२. उद्धर्षणं यथा—(सेब. ११.९२)

अइरा दंसिहिसि तुमं चिरविरहोलुग्गपंडुरमुहच्छाअं।
गअरोससुहालोअं ओवारिअ—चावणिव्वुअं दासरहं॥ १८३॥

(अचिराद् द्रक्ष्यसि त्वं चिरविरहावरुग्णपाण्डुरमुखच्छायम्।
गतरोषसुखालोकमवतारितचापनिर्वृतं दाशरथिम्॥)

यथा वा—(सेब. ११.१२४)

अइरा ए रहुतणओ तण्णाअंतग्गहत्थमउविअपमहं।
मोप्पिअ वेवंतंगुलिगुप्फंतक्खित्तविसमभाअं वेणी॥ १८४॥

(अचिरात् ते रघुतनयः आर्द्रीयमाणाऽग्रहस्त—मृदूकृत—पक्ष्म।
मोक्ष्यति वेपमानाङ्गुलिगुप्यमानोत्क्षिप्‍तविषमभागां वेणीम्॥)

३. प्रतिबोधनं यथा—(रघु. ८.८३)

तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता।
वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः॥ १८५॥

यथा वा—(रघु. ८.८५)

रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम्॥ १८६॥

४. उत्साहनं यथा—(रघु. ८.८४)

उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मनस्त्वया।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम्॥ १८७॥

यथा वा—(रघु. ८.९०)

न पृथग्जनवच्छुचो वशं वशिनामुत्तम! गन्तुमर्हसि।
द्रुमसानुमतां किमन्तरं यदि वायोर्द्वितयेऽपि ते चलाः॥ १८८॥

५. अनुकम्पनं यथा—(रघु. १४.७१)

तमश्रुनेत्रावरणं प्रमृज्य सीता विलापाद् विरता ववन्दे।
तस्यै मुनिर्दौहृदलिङ्गदर्शी दाश्वानपत्याशिष इत्युवाच॥ १८९॥

यथा वा—(रघु. १४.७२)

जाने विसृष्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा।
तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्‍ताऽसि वैदेहि! पितुर्निकेतम्॥ १९०॥

६. विस्त्रम्भणं यथा—(रघु. १४.७७)

पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि।
विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम्॥ १९१॥

यथा वा—(रघु. १४.७८)

पयोघटैराश्रमबालवृक्षान् संवर्धयन्ती स्वबलानुरूपैः।
असंशयं प्राक् तनयोपपत्तेस्स्तनन्धयप्रीतिमवाप्स्यसि त्वम्॥ १९२॥

७. प्रलोभनं यथा—(रघु. १४.७५)

तपस्विसंसर्गविनीतसत्त्वे तपोवने वीतभया वसास्मिन्।
इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते॥ १९३॥

यथा वा—(रघु. १४.७६)

अशून्यतीरां मुनिसन्निवेशैः तमोऽपहन्त्री तमसां विगाह्य।
तत्सैकतोत्सङ्गबलिक्रियाभिः सम्पत्स्यते ते मनसः प्रसादः॥ १९४॥

८. उपपत्तिदर्शनं यथा—(सेब. ११.९०)

मारुअमोडिअविडवं मिअंक—किरण—परिमास—मउलिअ—कमलं। कह होइ राममरणे इ विच्छाइअं दसाणणघरुज्जाणम्॥ १९५॥

(मारुतमोटितविटपं मृगाङ्ककिरणपरिमर्षमुकुलितकमलम्।
कथं भवति राममरणे इति विच्छायितं दशाननगृहोद्यानम्॥)

यथा वा—(सेब. ११.१२०)

सअला णिसाअर—उरीघर—परिवाडि—समणी—हरिअ—रुण्णरवा।
एक्केण कआ कइणा कह होहि अणहरक्खसो रहुवहो॥ १९६॥

(सकला निशाचर—पुरीगृह—परिपाटि—समनिर्ह्रादित—रुदितरवा।
एकेन कृता कपिना कथं भवति अनघराक्षसः रघुवधः॥)

९. प्रश्वासनं यथा—(सेब. ११.९४)

किं व समाससिअव्वे मुज्झसि दहवअणदप्पभंगुप्फालं।
पेच्छंती पमअवणं रामाणत्तिअर—पवअपव्वद्धदुमं॥ १९७॥

(किमिव समाश्वसितव्ये मुह्यसि दशवदनदर्पभङ्गोत्फालम्।
प्रेक्षमाणा प्रमदावनं रामाज्ञप्‍तिकरप्लवगप्रविद्धद्रुमम्॥)

यथा वा—(सेब. ११.१२६)

वालिवहदिठ्ठसारं णगलच्छिअसमुद्ददिण्णथलवहं।
रोहिअलंकावलअं मा लहुअं पेच्छ राहवस्स भुअबलं॥ १९८॥

(वालिवधदृष्टसारं नगलक्षितसमुद्रदत्तस्थलपथम्।
रोधितलङ्कावलयं मा लघुकं प्रेक्षस्व राघवस्य भुजबलम्॥)

१०. सत्यापनं यथा—(रघु. १४.७३)

उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि।
त्वां प्रत्यकस्मात् कलुषप्रवृत्तेरस्त्येव मन्युर्भरताग्रजे मे॥ १९९॥

यथा वा—(रघु. १४.७४)

तवेन्द्रकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते।
धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या॥ २००॥

११. प्रत्यानयनं/यनम् यथा—(सेब. ११.९६)

तह तं सि मोहं मुर्च्छागमपडिअणीसहविसण्णमुही।
रक्खसमाए त्ति फुडं जाणंती जु इमं अहंपि विमूडा॥ २०१॥

(तथा त्वमसि गता मोहं मूर्च्छागमपतितनिस्सहविषण्णमुखी।
राक्षसमाया इति स्फुटं जानती यथा इदमहमपि विमूढा॥)

यथा वा—(सेब. ११.१२९)

तं अवलंबसु धीरं संपइ णासउ अमंगला जाआ इमां।
मुणिअपरमत्थलहुई अवईहिअ—णिप्फला णिसाअरमाआ॥ २०२॥

(तदवलम्बस्व धैर्यं सम्प्रति नश्यतु अमङ्गला जाता इयम्।
ज्ञातपरमार्थलघ्वी अवधीरितनिष्फला निशाचरमाया॥)

१२.आप्यायनं यथा—(रघु. १४.७९)

अनुग्रह—प्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः।
सायं मृगाध्यासितवेदिपार्श्वं स्वमाश्रमं शान्तिसुखं निनाय॥ २०३॥

यथा वा—(रघु. १४.८०)

तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु।
निर्विष्‍टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु॥ २०४॥

१३. तन्मतव्याक्षेपो यथा—(सेब. ११.८८)

तिहुअणमूलाहारं विसठ्ठमहिंदपरिमुक्कऊढरणधुरं।
जाणंती कीस कुसं तुलेसि सेसपुरिसाणुमाणेण पइं॥ २०५॥

(त्रिभुवनमूलाधारं विसर्पन्महेन्द्रपरिमुक्‍तव्यूढरणधुरम्।
जानती कस्मात् कृशं तुलयसि शेषपुरुषानुमानेन पतिम्॥)

यथा वा—(सेब. ११.८९)

अमिलिअसाअरसलिला अणहठ्ठिअपव्वआ अणुव्वत्तअला।
रामस्स छिण्णपडिअं कह पत्तिअसि धरणी धरेइ त्ति सिरं॥ २०६॥

(अमिलितसागरसलिला अनघस्थितपर्वता अनुद्‌वृत्ततला।
रामस्य च्छिन्नपतितं कथं प्रत्येषि धरणी धारयतीति शिरः॥)

१४. भयोपदर्शनं यथा—(रघु. ८.८६)

अपशोकमनाः कुटुम्बिनीमनुगृह्‍णीष्व निवापदत्तिभिः।
स्वजनाश्रु किलातिसम्भृतं दहति प्रेतमिति प्रचक्षते॥ २०७॥

यथा वा—(सेब. ११.१२२)

उट्ठेसु अंअसु सोअं पुस एअं वाहमइलिअं थणवट्ठं।
सुणसु सुअणे ण वट्ठइ समराहिमुहे पइम्मि असुणिबाओ॥ २०८॥

{उत्तिष्‍ठ अन्तय सोकं प्रोत्र्छ एतद् बाष्पमलिनितं स्तनपृष्‍ठम्।
श्रृणु शकुने न वर्तते समराभिमुखे पत्यौ अश्रुनिपातः॥}

१५. उपालम्भनं यथा—(सेब. ११.९७)

मिलिअणिसाअरपुरओ सुवेलमलअंतरालणिम्मविअपहे।
पेल्लिअतिउडसिहरे अज्ज वि किं तुज्झ राहवे अग्गहणं॥ २०९॥

(मिलितनिशाचरपुरतः सुवेलमलयान्तरालनिर्मापितपथे।
प्रेरितत्रिकूटशिखरे अद्यापि किं तव राघवे अग्रहणम्॥)

यथा वा—(सेब. ११.१२३)

मोत्तूण अ रहुणाहं लज्जागमसेअविंदुइअज्जंतमुहो।
केण व अण्णेण कओ पाआरंतरिअणिव्वहो त(द)हवअणो॥ २१०॥

(मुक्त्वा च रघुनाथं लज्जागमस्वेदबिन्दुकीर्यमाणमुखः।
केन वा अन्येन कृतः प्राकारान्तरित—निष्प्रभः दशवदनः॥)

१६. प्रतिकोपो यथा—(सेब. ११.११९)

जाणइ सेह/सिणेह भणिअं मा रअणिअरि त्ति मे जुउव्व्छसु वअणं।
उच्छाणवणम्मि वि जं सुरहिं ती लआण घेप्पइ कुसुमं॥ २११॥

(जानकि! स्नेहभणितं मा रजनीचरीति मे जुगुप्सस्व वचनम्।
उद्यानवनेऽपि यत् सुरभि इति लतानां गृह्यते कुसुमम्॥)

यथा वा—(सेब. ११.११७)

किं व जिअंती सामे जइ अलिअं सहि ण ओ(हो)ज्ज राहवमरणं।
अणहे उण रहुणाहे तुह मे मरणविहुरं किलमइ हिअअं॥ २१२॥

(किं वा जितं श्यामे! यदि अलीकं सखि न भवेद् राघवमरणम्।
अनघे पुना रघुनाथे तव मे मरणविधुरं क्लाम्यति हृदयम्॥)

(५. निर्वहणसन्धौ करुणस्य विभावादयः —१६)

१. निर्वहणसन्धौ मरणाध्यवसायविद्रवो यथा—(कादकसा. ४.१२१)

मरणव्यवसायनिश्चला कृतवत्यस्मि च संविधानकम्।
निरियाय च चन्द्रमण्डलात् पुरुषः कोऽपि हिमोपमद्युतिः॥ २१३॥

यथा वा—(कुसं. ४.४५)

इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम्।
तत्प्रत्ययाच्‍च कुसुमायुधबन्धुरेनामाश्वासयत् सुरचितार्थपदैर्वचोभिः॥ २१४॥

२. शोकतिरस्कारो यथा—(कादकसा. ४.१२३)

विरम मरणोद्योगादस्मत्प्रियेण तवामुना पुनरपि महाश्वेते वत्से भविष्यति सङ्गमः।
इति गिरमिमां श्रुत्वा तस्मात् सविस्मयकौतुकात् किमिदमिति तं तत्रापृच्छम् प्रसृत्य कपिञ्जलम्॥ २१५॥

यथा वा—(मामा. ९.५५)

अस्तोकविस्मयमपस्मृतपूर्ववृत्तमुद्भ‍ूतनूतनभयज्वरजर्झरं नः।
एकक्षणत्रुटितसङ्घटितप्रमोदमानन्दशोकशबवत्वमुपैति चेतः॥ २१६॥

३. शोकलाघवं यथा—(उराच. १.३१)

एतस्मिन् मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः।
बाष्पाम्भःपरिपतनोद्गमान्तराले संदृष्‍टाः कुवलयिनो मया विभागाः॥ २१७॥

यथा वा—(उराच. २.३०)

एते ते कुहरेषु गद्‌गदनदद्‌गोदावरीवारयो मेघालम्बितमेघनीलशिखराः क्षोणीभृतो दक्षिणाः।
अन्योन्यप्रतिघातसङ्कुलदलत्कल्लोलकोलाहलै— रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्सङ्गमाः॥ २१८॥१‌

१. अतः परं शोकविनोदस्य उदाहरणं नोपलभ्यते ५. तपस्योद्योगो यथा—(रघु. १४.६६)

साहं तपस्सूर्यनिविष्‍टदृष्‍टिरूर्ध्वं प्रतीतेश्चरितुं यतिष्ये।
तथा यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः॥ २१९॥

यथा वा—(कादकसा. ४.१२५)

पश्यन्त्यां मयि ते त्रयोऽपि विविशुः शीतत्विषो मण्डलं तत्सम्प्रत्ययसंहृतोचितविधिः सास्मि श्रितेदं व्रतम्।
तातेनैत्य ततः प्रभृत्यहमिहासीना न नेतुं गृहान् यत्‍नेनापि हि वरितेति सुचिरं स्थित्वा गतः स्वं पुरम्॥ २२०॥

६. दैवसम्पद्‌योगो यथा—

दग्धैकेन हनूमता सखि! यथा लङ्का यथाम्भोनिधौ शैलैः सेतुरकारि भस्मनि हुतं नागास्रबन्धो यथा।
द्वीपादन्यपथान्यतोऽपि निशया नीतापि शल्यौषधिः दिष्‍ट्‌या जानकि! वर्धसे तव तथा जातोऽनुकूलो विधिः॥ २२१॥

यथा वा—(कादकसा. ८.६८.)

मुनेरवभृथावधिः पितुरमुष्य सिद्धः क्रतुः कृतस्त्वमपि संस्मृतः स्वतनुरद्य तच्छासनात्।
तदुज्झितमलीमसेदृशशरीयोगौ युवां निजेन वपुषाधुनानुभवतां प्रियासङ्गमम्॥ २२२॥

७. त्रिकालदृश्यदर्शनं यथा—(मामा. १०.८)

व्यतिकर इव भीमस्तामसो वैद्युतश्च क्षणमुपहृतचक्षुर्वृत्तिरुद्ध‍ूय शान्तः।
कथमिह न वयस्यस्तत्किमेतत्‍किमन्यद् विभवति हि महिम्‍ना स्वेन योगीश्वरीयम्॥ २२३॥

यथा वा—(उरा. ३.१८)

अस्याः पश्य तदेव लम्बितवलीविन्यासमग्‍नाधरं जातं सङ्गलितद्युतेः शशभृतः शोभोपमानं मुखम्।
स्पष्‍टस्थूलसिरास्तनुर्मधुरया कान्ता समुन्मीलिता चित्रं व्योमविलासिनी कथमियं जाता जरत्तापसी॥ २२४॥

८. तदुपदेशो यथा—(उरा. ३.२०)

भ्रात्रा वित्तकलत्रराज्यहरणैर्नीतोऽतिकष्‍टां दशा— मध्यास्ते गिरिमृश्यमूकमधुना सुग्रीवनामा कपिः।
तं कृत्वा तदरिक्षयप्रणयिना मूल्येन तस्मात् प्रिया— वार्तां प्राप्य करिष्यसि त्रिभुवनं विक्षिप्‍तरक्षोज्वरम्॥ २२५॥

यथा वा—

यस्याः पाणिपरिग्रहे सति पुनर्देवी किल प्राप्यते दैवादेव तदीरितं यदि सखे! सत्यं मुनेः स्याद् वचः।
तद्रक्षे किमपत्रपः कृतमिदं तत्प्राप्‍तिहेतोर्मया नैतत् सा हृदये करिष्यति यतो देवी दृढं कोपना॥ २२६॥

९. सहायत्वास्वीकरणं यथा—(रघु. १२.५८)

स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्‌क्षिते।
धातोः स्थान इवादेशं सुग्रीवं संन्‍न्यवेशयत्॥ २२७॥

यथा वा—(रघु. १२.६९)

तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः।
काले खलु सामारब्धाः फलं बध्‍नन्ति नीतयः॥ २२८॥

१०. तदध्यवसायो यथा—(उरा. ४.५)

स्वामी शोकमयीं दशामुपगतः सीताप्रवृत्तिं विना दुष्प्रेक्षा जलभारवामनघनच्छन्नाश्च सर्वा दिशः।
क्रूरास्ते पिशिताशिनः प्रकृतितो नैवागतो मारुति— र्हा जातं किमिदं विसंस्थुलमहो पापस्य मे सर्वतः॥ २२९॥

यथा वा—(उरा. ४.७)

बाष्पाम्भस्स्थगितेक्षणं क्षणमसौ मूर्च्छाविलुप्‍तव्यथो विन्यस्योरसि सम्भ्रमात् करतलं भ्रात्रा यदाश्वास्यते।
तत्राशा मायि कारणं न च मया क्लीबेन किञ्चित् कृतं प्राणास्तद् व्रजताथवा नहि भवेदेवं प्रभुर्वञ्चितः॥ २३०॥

११. प्रत्यूहप्रशमनं यथा—(शाकु.७.३२)

शापादसि प्रतिहता स्मृतिलोपरूक्षे भर्तर्यपेततमसि प्रभुता तवैव।
छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा॥ २३१॥

यथा वा—(कादकसा. ८.८४)

सा रक्षिता तनुरियं तु तव प्रियेति शापः कृशोदरि! विराममवाप पापः।
अद्य प्रभृत्यखिलमेव हि चन्द्रलोकं शाधि स्वपादकृतमुद्रमिदं जगच्च॥ २३२॥

१२. प्रत्याशानुबन्धो यथा—(कादकसा. ४.११९)

किन्तु क्लेशाय येनाशालेशेन हतजीवितम्।
राजपुत्र! बिभर्मीदं तदाश्चर्यं वदामि ते॥ २३३॥

यथा वा—(कादकसा. ७.९२)

दिवसेष्वथ गच्छत्सु निर्विकारशरीरताम्।
चन्द्रपीडस्य पश्यन्ती स्थिरामाशां बबन्ध सा॥ २३४॥

१३. समयप्रतीक्षा यथा—(कु.सं. ४.४६)

अथ मदनवधूरुपप्लवान्तं व्यसनकृशा प्रतिपालयाम्बभूव।
शाशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम्॥ २३४॥

यथा वा—(रघु. ८.९२)

तेनाष्‍टौ परिगमिताः समाः कथंचिद् बालत्वादवितथसूनृतेन सूनोः।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च॥ २३६॥

१४. संविधानकप्रकारो यथा—

न ज्वाला न च दहनो न धूमजालं क्‍वाक‍स्मात्सिकतिलवेदिकानिपातः।
स्वप्नोऽयं किमुत महेन्द्रजालमाहो माया स्वित् किमिदमहो महाविचित्रम्॥२३७॥

यथा वा—(कादकसा. ८.८०)

चन्द्रपीडं सा च जग्राह कण्ठे कण्ठस्थानं जीवितं च प्रपेदे।
तेनापूर्वां सा समुल्लास लक्ष्मीमिन्दुस्पृष्‍टा सिन्धुवेलेव भेजे॥ २३८॥

१५. प्रत्युज्जीवनं यथा—

अथ सा पितृनाथवर्त्मनः प्रतियाता वनर्मव भामिनी।
दयितं शयितं महीतले दधतं प्राणकलामलोकयत्॥ २३९॥

यथा वा—(कादकसा. ८.८१)

शिलाशय्यां त्यक्‍त्वा तदनु चिरसुप्‍तोत्थित इव क्षणं स्थित्वा जृम्भालसवदनमुन्मील्य नयने।
ततश्चन्द्रापीडः प्रहतमुरजध्वानपटुना स्वरेण स्वेनैव स्मितमधुरमाह प्रियतमाम्॥ २४०॥

१६. पुनस्समागमो यथा—(कादकसा. ८.८७)

श्रुत्वेति तस्य गतमुत्सुकतां गताऽसौ रोमाञ्चकञ्चुकमकृत्रिममुद्‍वहन्ती ।
कादम्बरी चरणयोर्निपपात पत्यु— रानन्दबाष्पकणशीकरितेक्षणश्रीः ॥ २४१॥

यथा वा—(कादकसा. ८.८५)

सख्याः पतिं पितृतपोभिरवाप्‍तदिव्य— जीवं कपिञ्जलकरार्पितपाणिपद्मम्।
मन्मण्डलादवतरन्तमखण्डकान्ति— मापाण्डुगण्डमवलोकय पुण्डरीकम्॥ २४२॥

इति प्रतिष्‍ठाः करुणामलार्चिषामशीतिरष्‍टौ च विकल्पजातयः।
सहानुभावैर्द्विरशीतिसम्मितैरुपाधयो द्वादश पञ्च सन्धयः॥ २४३॥

तदेतदाबन्धनमात्मजन्मनो निरीति श्रृङ्गाररसस्य जीवितम्।
परा च काष्‍ठा प्रणयस्य जीवता प्रियेण यत् प्रेत्य पुनस्समागमः॥ २४४॥

भेदाः पृथक्पृथगमी प्रथमानुरागमानप्रवासकरुणात्मनि विप्रलम्भे।
उक्ता यथामति मयान्यदतोऽभियुक्तैर्युक्त्यानयैव हि बहिस्स्थितमूहनीयम्॥ २४५॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे करुणरसकरुणविप्रलम्भनिर्णयो नाम

॥ द्वात्रिंशः प्रकाशः॥ ३२॥

उहा पतिव्रतपरायणवल्लभेव याता त्वयैव विलयं सह भोज! राजन्।
यः काव्यमाद्रियत यश्‍च तदन्तरङ्ग— स्वारस्यमाश्रयत, सोऽत्र न कश्‍चिदन्यः॥