३१ प्रवासवर्णनप्रकाशः

अथ

श्रृङ्गारप्रकाशे एकत्रिंशः प्रकाशः

प्रवासवर्णनप्रकाशः

अथातोऽवसरप्राप्‍तं प्रवासमुपवर्णयिष्यामः। तत्र प्रथमानुरागादीनां पूर्वः पूर्वो विचित्रः, परः परो रागवर्धन इति विमर्शे विचित्रतया प्रथमानुरागादीनां प्रथम— मभिधानं, रागवर्धनत्वेन मानादीनामनन्तरसिति, मानानन्तरं प्रवासोऽभिधीयते।

कथं पुनः रागवर्धनाद् विचित्रस्य प्राथम्यम्?

तदुच्यते— रागवृद्धेः वैचित्र्यस्यावधातुमशक्यत्वात्। रागान्धो हि वैचित्र्यमवैचित्र्यं वा नावधातुं शक्नोति। यथोच्यते—(कामसूत्रे २.२)

शास्राणां विषयस्तावद् यावन्मन्दरसा नराः।
रतिचक्रे प्रवृत्ते तु नास्ति शास्रं न च क्रमः॥ १॥

रागवृद्धिहेतुत्वाद् वैचित्र्यस्य हेतुः प्रथमं फलमनन्तरं स्यादिति। तदुक्तं—

तैस्तैरुपायैरौचित्याद् वैचित्र्यस्य प्रयोजितैः।
युनां स्नेहोऽभिमानश्च रागयोगश्च जायते॥ २॥

भवतु नाम रागवर्धनतया प्रथमं विचित्रता। विचित्राणां तु किंकृतं मिथःप्राथम्यम्? रागवर्धनानां वा कुतस्त्यमानन्तर्यमिति।

अत्रोच्यते— प्रागसङ्गतयोः सङ्गतवियुक्तयोश्च मानप्रवासकरुणविप्रलम्भाः। प्रथमानुरागस्तु प्रागसङ्गतयोरेवेत्यतः स प्रथममेवाभिधीयते। करुणात्तु करुणोऽनन्तर एव जाते मानप्रवासयोरसम्भव एव। नहि तथाविधेभ्यः संविधानकेभ्यः तथाविधायाम— कृत्रिमायां रागवृद्धौ समुपजाते निष्कैतवे प्रकृष्‍टे च विभ्रमजानुरागे मानप्रवासयोरवकाशः स्यात्। तथात्वे वा नै . . . . योरन्य . .॥ उक्तं च—

कइअवरहिअं पेम्मं णत्थि चिअ मामि माणुसे लोए।
अह होइ कस्स विरहो विरहे होत्तम्मि को जिअइ॥ ३॥

(कैतवरहितं प्रेम नास्त्येव मातुलानि मानुषे लोके।
अथ भवति कस्य विरहो भवति विरहे कस्को जीवति॥)गास. २.२४

(रसक्रमः)

अतोऽपश्चिममेव करुणविप्रलम्भस्य करुणानन्तरसम्भोगस्य वा अभिधानं भवितुमर्हति। मानप्रवासयोस्तु प्रवासान्मानो विचित्रस्त … विकासात् मा .. विचित्रः। तत्र चेतस्सङ्कोचात्। प्रथमानुरागे हि रागिणश्चित्तं विक्षिप्यते; माने विकसति; प्रवासे सङ्कुचति; करुणे सङि्क्षप्यत इति पूर्वाचार्यवादः। कथं स उपपद्यत इति चेत् — तथाविधप्रथमानुरागनिमित्तस्य सन्निधानात्। यथा हि चुम्बक—भ्रामक—कर्षक— द्रावकै—रयसस्ते ते विकाराः चुम्बन—भ्रमण—कर्षण—द्रवाह्वया जायन्ते; तथा प्रथमानुरागमानप्रवासकरुणविप्रलम्भसन्निधेर्मनसो विक्षेप—विकास—सङ्कोच—सङ्क्षेपा इति। यथा वा जपासूर्यचन्द्रकर्पूरसन्निधेः स्फटिकाश्मनोऽनेकप्रकृतेरेकरूपस्यानुराग— ज्वलन—स्यन्दन—स्फुटना—(नि जायन्ते) ताथा। विक्षेपविकाससङ्कोचसङ्क्षेपाधिष्‍ठितस्य विप्रयोगिचेतसः प्रथमानुरागमानप्रवासकरुणविप्रलम्भानुभावा इति। एतेन प्रथमानुरागादीनां रागवर्धन्तवे तारतम्यमपि परस्परमानन्तर्यहेतुर्व्याख्यातम्। उत्तरोत्तरमुपचीयमानप्रीयियोगं हि प्रियोपचारं चतुरकामिनो मनोभव ॰ ॰ ॰ ॰ ॰ णितव्यहेतुं मन्य/व। तस्मान्मानादनन्तरः करुणात्प्रथमः प्रवास एवाभिधानव्यो भवति।

(प्रवासः)

कः पुनरयं प्रवासो नाम, यस्यैते दयितजातयो नर्म(नाम?)mdash; श्रवणसङ्कीर्तनादिभ्यो बिभ्यतीति।

उच्यते— सत्यनुरागे परस्परं दैवादिजनितदेशान्तरव्यवधानं प्रवासः। स

दैवापत्र उत्तमः।
धर्मापत्रो मध्यमः।
अर्थापत्रः कनिष्‍ठः। तेषु—

दैवापन्नो यथा—(मामा. ९.८)

न यत्र प्रत्याशामनुपतति नो वा रहयति प्रविक्षिप्‍तं चेतः प्रविशति च मोहान्धतमसम्।
अकिञ्चित्कुर्वाणाः पशव इव तस्यां वयमहो विधातुर्वामत्वाद् विपदि परिवर्तामह इमे॥ ४॥

धर्मापतन्नो यथा—(कादम्बरीकथासारे ५.१०७)

जानाम्यात्मानि ते प्रसादमसमं चेतो ममैतत् पदं दातुं नेच्छति किन्तु शासनमिदं नोल्लङ्घनीयं गुरोः।
मन्युस्सम्प्रति सह्यतां पुनरिहागन्तास्मि कादम्बरीं सन्दिश्येति सबाष्पगद्गदमसौ केयूरकं प्राहिणोत्॥ ५॥

अर्थापन्नो यथा—

या विम्बोष्‍ठरुचिर्न विद्रुममणिः स्वप्नेऽपि तां लब्धवान् हासश्रीः सुदृशस्तपोभिरपि किं मुक्ताफलैः प्राप्यते।
तत्कान्तिः शतशोऽपि वह्रिपतनैर्होम्नः कथं सेत्स्यति त्यक्त्वा रत्‍नमयीं प्रयासि दयितां कस्मै धनायाध्वग!॥ ६॥

अथैष त्रिविधोऽपि सामान्यतो विशेषतश्च प्रपञ्च्यमानः प्रायशो द्विपञ्चाशत्प्रकारः प्रथते। तत्र—

(सामान्यतो —२४)

सामान्यतो भूतपूर्वः, अभूतपूर्वः, साधारणः, असाधारणः, सहजरागः, विस्रब्धरागः, प्राप्‍तसमयः, अप्राप्‍तसमयः, स—प्रतिविधानः, निष्प्रतिविधानः, सन्निकृष्‍टः, विप्रकृष्‍टः, सावधिः, निरवधिः, अल्पकालः, दीर्घकालः, सानुबन्धः (संसृष्‍टः), निरनुबन्धः(असंसृष्‍टः), प्रकाशकार्यः, प्रच्छन्नकार्यः, सोपसंहारः, निरुपसंहारः, नायिकानिमित्तः, नायकनिमित्त इति प्रकाराश्‍चतुर्विंशतिः।

(विशेषतः —२८)

दैवापन्नश्चतुर्धा — शापकृतः, पापकृतः, सम्भ्रमकृतः, विभ्रमकृत इति। एवं

धर्मापन्नोऽपि — साभिप्रायः, निरभिप्रायः, सानुतापः, निरनुताप इति।

अर्थापन्नोऽपि — साभ्यनुज्ञः, निरभ्यनुज्ञः, सोपधानः, निरुपधान इति।

दैवधर्मापन्नः — प्रकृतिस्थः, कोमलः, कठोरः, परिणत इति।

दैवार्थापन्नोऽपि — ग्राम्यः, नागरः, उपनागरः, विप्रकीर्ण इति।

धर्मार्थापन्नोऽपि — हितः, अहितः, सुखः, दुःख इति।

दैवधर्मार्थापन्नोऽपि — वृत्तः, आयतः, त्र्यस्रः, चतुरस्रश्चेति॥

अर्थाश्चान्वर्थतो भूतपूर्वादीनामुदीरिताः।
षट्‍‌त्रिंशतः प्रवासानां षोडशानां तु कथ्यते॥ ७॥

यस्मिन्वियोगिनोः कर्म स्वस्थयोरिव जायते।
अनुरागातिरेकाऽपि प्रकृतिस्थः स उच्यते॥ ८॥

यूनोर्यन्नोपजायन्ते मनोमार्दवसूचकाः।
अश्रुपातादयः शश्वदनुभावाः सुकोमलाः॥ ९॥

यत्र दैवादिजनितं साध्यमेकस्य दृश्यते।
वियोगकारणं सोऽस्मिन् कठोर इति कथ्यते॥ १०॥

पूर्वं कठोरो भूत्वा यः कोमलत्वं प्रपद्यते।
शापादिहेतुविगमात् ज्ञेयः परिणतस्तु सः॥ ११॥

तेऽमी धर्मानुरोधाय दैवयोगाच्‍च तद्‍‌वताम्।
आवर्धन्ते ततो दैवधर्मापन्ना इति स्मृताः॥ १२॥

वियोगकारणं यत्र व्रीडाहेतुः प्रजायते।
अर्थभ्रंशादिना यूनां स ग्राम्य इह गीयते॥ १३॥

यत्रान्यत्रानुरक्तस्य प्रियस्य प्रियकाम्यया।
कयाचित् क्रियते सेवा नागरः सोऽभिधीयते॥ १४॥

निमित्तकुपिताया यो योषितः प्रियकारणात्।
पुरुषेण प्रवर्त्येत ज्ञेयः स उपनागरः॥ १५॥

यत्रान्ययोषिद्‌व्यासङ्गे पत्युरापतिते स्रियाः।
भवेदर्थानवाप्‍त्यार्तिः स प्रकीर्णः प्रकीर्तितः॥ १६॥

एते चार्थानुबन्धाच्‍च दैवाच्‍च समुपस्थिताः।
दैवार्थापन्नसंज्ञत्वं प्रयान्ति बुधसंसदि॥ १७॥

यत्रायत्यां हि तद् भर्तुरभिसन्धाय भामिनी।
प्रवर्तते वियोगाय हितः स परिकीर्त्यते॥ १८॥

यत्रार्थगौरवाद् यातः प्रवासी न निवर्त्यते।
विपद्यतेऽपि वा योषिदहितः स निगद्यते॥ १९॥

यत्रार्थो लभ्यतेऽभीष्‍टः प्रियाभीष्‍टं च सिद्‌ध्यति।
न चानर्थो भवेत् कश्चित् सुखः स उपवर्ण्यते॥ २०॥

प्रवासिनो महद् दुःखं यत्प्रभावेण जायते।
लग्‍नदोषादिजनितं स दुःख इति शस्यते॥ २१॥

धर्मार्थावनुरुध्येते चत्वारोऽपि प्रवर्तिताः।
धर्मार्थापन्नसंज्ञायास्स्थानं भवितुमीशते॥ २२॥

यत्रोभयोर्भवेदिच्छा क्रिया च विरहं प्रति।
सर्वस्‍नेहाश्रि लोपात् स प्रवासो वृत्त उच्यते॥ २३॥

यत्रैकत्र क्रियेच्छा च द्वितीये तद्‌विपर्ययः।
प्रेम्णः कोटिद्वयभ्रेषात् स वृत्तायत इष्यते॥ २४॥

यत्रैकस्य क्रिया नेच्छा द्वितीयस्य द्वयं न तत्।
स प्रेमकाश्रिविभ्रंशात् त्र्यश्र इत्येव कथ्यते॥ २४॥

इच्छा यत्रोभयो र्नास्ति यत्रोभयोः क्रिया।
सोऽनष्‍टसर्वप्रेमाश्रि चतुरस्रोऽभिधीयते॥ २६॥

दैवादर्थाच्‍च धर्माच्‍च चत्वारोऽमी समुत्थिताः।
लभन्ते दैवधर्मार्थापन्नसंज्ञां विवेक्‍तृषु॥ २७॥

(सामान्यत प्रवासः —२४)

तत्र सामान्यभेदेषु,

१. भूतपूर्वो यथा—(गास. ३.७३)

अव्वो दुक्करआरअ पुणो वि तंतिं करेसि गमणस्स।
अज्ज वि ण होंति सरला वेणीए तरंगिणो चिउरा॥ २८॥

(अव्वो दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य।
अद्यापि न भवन्ति सरला वेण्याः तरङ्गिणः चिकुराः॥)

२. अभूतपूर्वो यथा—(गास. ५.५३)

सहि साहसु सब्भावेण पुच्छिमो किं असेसमहिलाणँ।
वड्‍ढंति करट्ठिआ च्‍चिअ वलआ दहए पउत्थम्मि॥ २९॥

(सखि कथय सद्भावेन पृच्छामः किमशेषमहिलानाम्।
वर्धन्ते करस्थिता एव वलया दयिते प्रोषिते॥)

३. साधारणो यथा—

पूरेउ पणअभंगे गआ वि मणोरहा सवत्तीण महँ।
अणहो णाम णिअत्तइ, अकअत्थो वि बहुईण पुलेहि (?पुलएहि) पिओ॥ ३०॥

(पूरयतु प्रणयभङ्गेन गता अपि मनोरथाः सपत्‍नीनां मम।
अनघो नाम निवर्तते, अकृतार्थोऽपि बह‍्वीनां प्रलोक्य मम॥)

कु. ४. असाधारणो यथा—(रघु. १४.८७)

त्यक्त्वा सीतां दशमुखरिपुर्नोपयेमे यदन्यां तस्या एव प्रतिकृतिसखो यत् क्रतूनाजहार।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारव्यथमपि परित्यागदुःखं विषेहे॥ ३१॥

५. सहजरागो यथा—(रामाभ्यु.)

कृतककुपितैः बाष्पाम्भोभिः सदैन्यविलोकितैः वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया।
नवजलधरश्‍यामाः पश्‍यन् दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः॥ ३२॥

६. विस्त्रब्धरागो यथा—(मेघ. ९३)

जाने सख्यास्तव मयि मनः सम्भृतस्‍नेहमस्मा— दित्थंभूतां प्रथमविरहे तामहं तर्कयामि।
वाचालं मां न खलु सुभगम्मन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत्॥ ३३॥

७. प्राप्‍तसमयो यथा—

बन्धूकैरधरं स्मितानि कुमुदैर्नेत्राणि नीलोत्पलै— र्हस्तौ कोकनदैर्मुखं च कमलैः हंसैः सहासा गिरः।
प्रत्यध्वं प्रतिवासरं प्रतिसरः संदर्शयन्ती हठात् पान्थानां प्रियकामिनीव कुरुते यात्रोपरोधं शरत्॥ ३४॥

८. अप्राप्‍तसमयो यथा—

उद्यद‍्बर्हिषि दर्दुरारवपुषि प्रक्षीणपान्थायुषि शच्योतद्विप्रुषि चन्द्ररुङ‍्मुषि सखे हंसद्विषि प्रावृषि।
मा मुञ्चोच्‍चकुचान्तसन्ततगलद‍्बाष्पाकुलां बालिकां काले कालकरालनीलजलदव्यालुप्‍तभास्वत्त्विषि॥ ३५॥

९. सप्रतिविधानो यथा—(मेघ. ४)

प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम्।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार॥ ३६॥

१०. निष्प्रतिविधानो यथा—(उराच. ३.४५)

व्यर्थं यत्र कपीन्द्रसख्यमपि मे वीर्यं हरीणां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्त्त्रिणामविषये तत्र प्रिये क्‍वासि मे॥ ३७॥

११. सन्निकृष्टो यथा—(सेब. १५.२२)

सीआविओअदुक्थं विसहंतस्स चउ—जाम—मेत्तंतरिअं।
दीहो अ गआ कालो ण समा एक्का अ सा णिसा रहुवइणो॥ ३८॥

(सीतावियोगदुःखं विषहमाणस्य चतुर्याममात्रान्तरितम्।
दीर्घश्‍च गतः कालो न समा एका च सा निशा रघुपतेः॥)

१२. विप्रकृष्टो यथा—(अमरु. ९९)

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै— र्यत्‍नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद‍्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं तामाशां पथिकस्तथापि किमपि ध्यायन् मुहुर्वीक्षते॥ ३९॥

१३. सावधिः यथा—(मेघ. १)

कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्त— श्शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः।
यक्षश्चक्रे जनकतनयास्‍नानपुण्योदकेषु स्‍निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥ ४०॥

१४. निरवधिः यथा—(उराच. ३.४४)

उपायानां भावादविरतविनोदव्यतिकरै— र्विमर्दैर्वीराणां जनितजगदत्यद्भ‍ुतरसः।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् कथं तूष्णीं सह्यो निरवधिरयं तु प्रविलयः॥ ४१॥

१५. अल्पकालो यथा—(शाकु. ६.१२)

एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम्।
तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति॥ ४२॥

१६. दीर्घकालो यथा—(उराच. ३.३३)

देव्या शून्यस्य जगतो द्वादशः परिवत्सरः।
प्रणष्टमिव नामापि न च रामो न जीवति॥ ४३॥

१७. संसृष्टो यथा—(गास. ८४८वे.)

रुअइ रुअन्तीए मए ओहिदिणे गणइ झिज्जइ अहं व।
पिअविरहे मामि सअज्झिआए णेहो च्‍चिअ अपुव्वो॥ ४४॥

(रोदिति रुदत्या मया अवधिदिनानि गणयति क्षीयतेऽहमिव।
प्रियविरहे मातुलानि! प्रतिवेशिन्याः स्‍नेह एवापूर्वः॥)

१८. असंसृष्टो यथा—(गास. ८७१वे., वज्जा ४६७)

कुलपालिआए पेच्छह, जोव्वण—लाअण्ण—विब्भम—विलासा।
पवसंति व्व पवसिए, एति व्व पिए घरं एंते॥ ४५॥

(कुलपालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः।
प्रोषिता इव प्रोषिते, आयाता इव प्रिये गृहमागते॥)

१९. प्रकाशकृतो यथा—

यावन्निरस्यति स तत्र न सिद्धमेनामाकृष्य खङ्गमसितं निजविक्रमेण।
अन्येन तावदपहृत्य मृगाङ्कलेखा नीतान्तरिक्षगतिना रजनीचरेण॥ ४६॥

२०. प्रच्छन्नकृतो यथा—(मामा. ८.८)

त्वद्‍वत्सलः क्‍व च तपस्विजनस्य हन्ता कन्याविटः पतिरसौ परिरक्षतु त्वाम्।
श्‍येनावपातचकिताननवर्तिकेव किं नेक्षसे ननु चिरात् कबलीकृतासि॥ ४७॥

२१. सोपसंहारो यथा—(मेघ. १०९)

शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ मासानन्यान् गमय चतुरो लोचने मीलयित्वा।
पश्चादावां विरहगुणितं तं तमात्मानमावां निर्वेक्ष्यावः परिणतशरच्‍चन्द्रिकासु क्षपासु॥ ४८॥

२२. निरुपसंहारो यथा—(विक्र. ५.१७)

ननु सुलभवियागा कर्तुमात्मप्रियाणि प्रभवति परवत्ता शासने तिष्ठ भर्तुः।
अहमपि तव सूनावायुषि न्यस्तराज्यः परिचितमृगयूथान्याश्रयिष्ये वनानि॥ ४९॥

२३. नायिकानिमित्तो यथा—(विक्र. ४.३)

अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः॥ ५०॥

२४. नायककृतो यथा—

उण्हं जउणाएॅ जलं उण्हा जउणाएॅ वेअस—कुडुंगा।
उण्हा जउणा वि कआ केण वि महुरं गए कण्हे॥ ५१॥

(उष्णं यमुनाया जलं उष्णा यमुनाया वेतसनिकुञ्जाः।
उष्णा यमुनापि कृता केनापि मथुरां गते कृष्णे॥)

(विशेषतः प्रवासः— २८)

अथातो विशेषभेदाः। तत्र—

१. दैवापन्नेषु शापकृतो यथा—(शाकु. ४.१)

विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपस्थितम्।
स्मरिष्यति त्वां न स बोधितोऽपि सन् कथां प्रमत्तः प्रथमोदितामिव॥ ५२॥

२. पापकृतो यथा—

त्वच्छेषेण च्छुरितकरया कुङ्कुमेनादधत्या कोकच्छायां भवनबिसिनीहंसके कौतुकेन।
वक्त्रभ्रान्तिक्षणविरहिणी यत्कृता राजहंसी तस्यैतन्मे फलमुपनतं नाथ यत् त्वद् वियोगः॥ ५३॥

३. सम्भ्रमकृतो यथा—

सम्भ्रान्तस्त्वरितमसौ मलिम्लुचाना— मुर्वीशः शमितमयोधयद‍्धनुष्कान्।
कालेऽस्मिन्विनयवती वनेषु चार्ता वार्तायै कमितुरितस्ततो जगाम॥ ५४॥

४. विभ्रमकृतो यथा—

विभ्रान्तः सपदि स राक्षसीति सीता— मन्यां तु स्वमनसि जानकीत्यजानात्।
जायावान् दशरथनन्दनो नियत्या वैयात्याद् व्यसनमहार्णवे पपात॥ ५५॥

५. धर्मापन्नेषु साभिप्रायो यथा—

न्यक्कारे विहिते द्विषा यदुचितं मन्ये कृतं तन्मया स्वे सुग्रीवविभीषणावपि पदे नीतौ पुनः स्वां स्थितिम्।
आज्ञां पालयतो ममेह फलितास्ताताशिषः किन्त्विदं सर्वं नेह विदेहराजतनयात्यागाद् विना लभ्यते॥ ५६॥

६. निरभिप्रायो यथा—(उराच. १.४९)

विस्रम्भादुरसि निपत्य जातनिद्रा— मुन्मुच्य प्रियगृहिणीं गृहस्य शोभाम्।
आतङ्कस्फुरितकठोरगर्भगुर्वीं क्रव्यादे बलिमिव दारुणः क्षिपामि॥ ५७॥

७. सानुतापो यथा—

कैकेयी मयि नो विलक्षवदना नो मन्थरान्यादृशी श्रूयन्ते न च मैथिलीपरिजनस्याद्यापि दुष्टा गिरः।
मिथ्यावादविमोहितेन सहसा वह्नौ विशुद्धा तथा निर्वाच्या किमसौ मया प्रियतमा धर्मवध्वजेनोज्झिता॥ ५८॥

८. निरनुपातो यथा—

सदसि पिहितद्वारे दारान्निधाय पिधाय तत् तृणजतुशणैः पूर्णं तूर्णं प्रदीप्य कृशानुना।
अविकृतमनाः पार्श्वं भर्तुर्जगाम शिवासुतः सकलमपि तज्ज्ञात्वा चारैर्नृपोऽपि विसिष्मिये॥ ५९॥

९. अर्थापन्नेषु साभ्यनुज्ञो यथा—(किराता. ३.५४)

तदाशु कुर्वन् वचनं महर्षेर्मनोरथान्नः सफलीकुरुष्व।
प्रत्यागतं त्वास्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा॥ ६०॥

१०. निरभ्यनुज्ञो यथा—

प्रत्यागमिष्यति भविष्यति सङ्गमोऽपि सम्पत्स्यते च हृदयाभिमतोऽभिलाषः।
एषा गता न पुनरेष्यति जीवितेश! विद्युद‍्विलासतरला नवयौवनश्रीः॥ ६१॥

११. सोपधानो यथा—(उराच. १.४५)

शैशवात् प्रभृति पोषितां प्रियां सौहृदादपृथगाशयामिमाम्।
छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिकामिव॥ ६२॥

१२. निरुपधानो यथा—

स मातुलस्यानुचराय जायां समर्पयन्नो जगतीं जिगीषुः।
महाभिमानैकधनो वनाय गतैः समेयाय पुरुः सुहृद्भिः॥ ६३॥

१३. दैवधर्मापन्नेषु प्रकृतिस्थो यथा—(रघु. १५.६१)

श्र्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः।
अनन्यजानेर्यस्यासीत् सैव जाया हिरण्मयी॥ ६४॥

१४. कोमलो यथा—(सक. ५.२१२)

सीतावेश्‍म यतो निरीक्ष्य हरते दृष्टिं झटित्याकुला— मन्योन्यार्पितचञ्चुलब्धकवलैः पारावतैर्भूयते।
इन्दोर्दूरत एव नश्‍यति विशत्यन्तर्गृहं दुःखितः प्रच्छाद्याननमञ्चलेन रजनीष्वस्तत्रपं रोदिति॥ ६५॥

१५. कठोरो यथा—

छित्त्वा नलः सपदि तद्‍वसनं निशीथे हस्तं गतेन कलिनेव कुलक्षुरेण।
श्रान्तामरण्यसदसि स्वपतीं विहाय भीमात्मजामभिमतेन पथा जगाम॥ ६६॥

१६. परिणतो यथा—(शाकु. ६.८)

मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः।
मनसिजेन सखे! प्रहरिष्यता धनुषि चूतशरश्च निवेशितः॥ ६७॥

१७. दैवार्थापन्नेषु ग्राम्यो यथा—

अथ स दयितां सुप्‍तामङ्कादपास्य शनैःशनै— श्शिथिलितभुजाश्लेषः शय्यां विहाय विनिर्गतः।
गतवति रजन्यर्धे सार्ध तया स्म मृगीदृशा मृगपतिगतिः पश्‍यत्यग्रे विधिं हयविग्रहम्॥ ६८॥

१८. नागरो यथा—

ततः स्वभगिनीमनु प्रहितचित्तवृत्तिं पतिं विभाव्य भवितव्यतामपि कृतागमो जन्मनः।
उपाश्रमपदं पितुः प्रतिजगाम विद्याधरी चकार न विदामिदं मदनपीडया पार्थिवः॥ ६९॥

१९. उपनागरो यथा—(हरिवि.)

अह दिट्ठ-विक्कमम्मि वि सिणेह-सच्‍चविअ-गरुअ-विणिवाअ-हआ।
चिंतेइ सच्‍चभामा सुरअरुलंभट्ठिए गअम्मि महुमहे॥ ७०॥

(अथ दृष्टविक्रमेऽपि स्‍नेहदर्शितगुरुक—विनिपातभया।
चिन्तयति सत्यभामा सुरतरुलाभार्थिके गते मधुमथे॥)

२०. प्रकीर्णो यथा—

सम्बोध्य सायमिति सानुमतीं प्रभाते श्रीपर्वतं धृतधनुस्तपसे जगाम।
पुत्रीयतोऽस्य वृषभध्वजसेवयास्मिन् मासाः षडेकमनसो दिनवद् व्यतीयुः॥ ७१॥

२१. धर्मार्थापन्नेषु हितो यथा—

आसृष्टेः प्रतिपार्थिवं युवतयो जाता मनोवल्लभाः मग्‍नास्ते व्यसनार्णवे च बहवस्ताभिः सहैवेश्वराः।
देव्या यत्तु कृतं तथा विकलतामुत्सृज्य लोकोत्तरं तस्यैषा कृपणेन तेन विधिना किं ग्लानिरुत्पाद्यते॥ ७२॥

२२. अवहितो यथा—

यावत् प्रिये तव पितुः प्रथमस्य दातुं न्यायार्जितस्य वसुनो वसुधां भ्रमामि।
कोटीश्चतुर्दश गुरोर्गुरुदक्षिणाया— स्तावत् सहस्व विरहं रचितोऽञ्जलिस्ते॥ ७३॥

२३. सुखो यथा—

अभ्यागतस्य सुहृदः सुधियोऽग्रजाते— रातेनुषो विनयमन्यपराङ्‌मुखस्य।
कान्ते! व्रजामि मनसोऽभिमतं च कर्तु— माहर्तुमेव च शिरोमणिभूषणं ते॥ ७४॥

२४. दुःखो यथा—

व्रीडायोगान्नतवदनया सन्निधाने गुरूणां बद्धोत्कम्पं स्तनमुकुलयोर्मन्युमन्तर्नियम्य।
तिष्ठेत्युक्तं किमिव न तया यत् समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागाः ॥ ७५॥

२५. दैवधर्मार्थोपपन्नेषु वृत्तो यथा—

हे धन्याः शृणुत प्रधानधनिनः सेयं मया प्रेयसी मत्पाणिग्रहदूषणादिति दशां याता जगत्पावनी।
दुर्वृत्तेन दुरन्तपातकशतैरस्तोभितः पौरुषैः स्वामित्वैकसमुन्नतेन सुदती विक्रीयते क्रीयताम्॥ ७६॥

२६. आयतो यथा—

वनभुवि सह पत्या प्रस्थितां वीक्ष्य सीतां गृहिणमनुयियासुर्जानकी शोकनिष्ठा।
गुरुगुरुजनलज्जानम्रवक्त्राम्बुजेन भ्रुकुटिपुटनिबन्धाद् वारिता लक्ष्मणेन॥ ७७॥

२७. त्र्यस्त्रो यथा—(शाकु. ६.२४)

संरोपितेऽय्यात्मनि धर्मपत्‍नी त्यक्ता मया नाम कुलप्रतिष्ठा।
कल्पिष्यमाणा महते फलाय वसुन्धरा काल इवोप्‍तबीजा॥ ७८॥

२८. चतुरस्त्रो यथा—

सारङ्गेण हिरण्मयेन सहसा रामः सुदूरं हृतः हा वत्सेति वचो निशम्य तमनुस्नेहाद् गतो लक्ष्मणः।
कालेऽस्मिन् कुलिशाभिघातकठिनक्लेशाकुलां मैथिली— मारोप्याङ्कमशङ्कमेष नभसा लङ्कां गतो रावणः॥ ७९॥

अथैतस्य त्रयः स्कन्धा भवन्ति— प्राप्‍तिस्कन्धः, व्याप्‍तिस्कन्धः, समाप्‍तिस्कन्ध इति। तेषु—

(१) प्रवासशङ्का, प्रवासारम्भः, प्रियप्रस्थानं, प्रियानुगमः, प्रियाप्रश्‍नः, प्रतिनिवृत्तिः, प्रवासचर्या, प्रवासवृत्तान्त इति प्राप्‍तिस्कन्धस्याष्टौ प्रकाण्डानि।

(२) वियुक्तस्वरूपं, वियुक्तावस्था, विरहोद्दीपनं, विरहप्रतीकारः, सहायाश्वासनं, सहायोपालम्भः, उत्कण्ठाविनोदः, सन्देशादानम् इति व्याप्‍तिस्कन्धस्याष्टौ प्रकाण्डानि।

(३) प्रवृत्त्यागमः, प्रवृत्तिपरिप्रश्‍नः, अवधिप्रतीक्षा, मार्गोदीक्षणं, दैवनिमित्त— शकुनोपश्रुतयः. सुस्वप्नदर्शनं, सुनिमित्तानुभवः, प्रियप्रत्यागम इति समाप्‍तिस्कन्धस्याष्टौ प्रकाण्डानि। तत्र

(१. प्राप्‍तिस्कन्धः —८)

(१. प्रवासशङ्का —५)

प्राप्‍तिस्कन्धै नायिकायाः प्रियावियोगसम्भावना प्रवासशङ्का।

सा च पञ्चधा वर्तमाना, अद्यतनी, ह्यस्तनी, श्वस्तनी, भविष्यन्ती च। तासु

१. वर्तमाना यथा—

कल्लाणिज्जइत्त्वा(?)सत्थडा किर जाएसइ ढोल्लु।
जइ—अंतिओ(हो) हिअआ सहहि लोचआद्दणलोओ(?) मोल्लु॥ ८०॥

२. अद्यतनी यथा—(गास. २.११)

तेण मणे भग्गमणोरहेण उल्लाविअं पवासो त्ति।
सविसाइ व अलसाअंति एण वहुआए अंगाइं॥ ८१॥

(तेन मन्ये भग्नमनोरथेन उल्लापितं प्रवास इति।
सविषाणीव अलसायन्ते येन वध्वाः अङ्गानि॥)

३. ह्यस्तनी यथा—

प्रत्यग्रैरपि विप्रियैः समुचितां नालम्बते वामतां प्रेम प्रत्यहमातनोति विविधैः स्वादूत्तरैः चेष्टते।
सोच्छ‍्वासा दिवसेऽवसीदति निशानाथे पुनर्वेपते बाला श्रोत्रपथं गते परिजनात् पत्युः प्रयाणध्वनौ॥ ८२॥

४. श्वस्तनी यथा—(गास. १.४६, वल. ३६५)

कल्लं किर खरहिअओ पवसिहिइ पिओ त्ति सुव्वइ जणम्मि।
तह वड्ढ भअवइ णिसे जह से कल्लं चिअ ण होइ॥ ८३॥

(कल्यं किल खरहृदयः प्रवत्स्यति प्रिय इति श्रूयते जने।
तथा वर्धस्व भगवति निशे यथा तस्य कल्यमेव न भवति॥)

५. भविष्यन्ती यथा—

होंत—पिअ—विरह—दूसह—संतावुप्फसिअ—वअण—सोहाओ।
चंदमुहिओ त्ति सत्था जाआओ पिआओ पच्चूसे॥ ८४॥

(भविष्यत्—प्रिय—विरह—दुस्सह—सन्तापोन्मृष्ट—वदन—शोभाः।
चन्द्रमुख्य इति सार्था जाताः प्रियाः प्रत्यूषे॥)

(२. प्रवासारम्भः —५)

नायकस्य प्रियापरित्यागोद्योगः प्रवासारम्भः। सोऽपि पञ्चधा—‘प्रवृत्तोपरतः, प्रवृत्ताविरतः, नित्यप्रवृत्तः, भूतसामीप्यः, भविष्यत्सामीप्यश्च। तेषु

१. प्रवृत्तोपरतो यथा—

कामे केलिरसानुबन्धविधुरे जाते तदोपक्रमे पक्ष्माग्रग्रथिताश्रुबिन्दुजडया दृष्टया निरीक्ष्य क्षणम्।
श्वो गन्ता नियमेन किं प्रिय इति प्राणेशया व्याहृते यूनः सादरकल्पितोऽपि सहसा भग्नः प्रयाणोद्यमः॥ ८५॥

२. प्रवृत्ताविरतो यथा—(गास. १.४७)

होंतपहिअस्स जाआ आउच्छण—जीअधारणहस्सं।
पुच्छंती भमइ घरं घरेण पिअ—विरह—सहिरीओ॥ ८६॥

(भविष्यत्पथिकस्य जाया आपृच्छन जीवधारणारहस्यम्।
पृच्छन्ती भ्रमती गृहं गृहेण प्रियविरहसहनशीलाः॥)

३. नित्यप्रवृत्तो यथा—(गास. ३.६१)

घरिणि-घण-त्थण-पेल्लण-सुहेल्लि-पडिअस्स होंत-पहिअस्स।
अवसउणंगारअवार-विट्ठि-दिअहा सुहावेंती॥ ८७॥

(गृहिणीघनस्तनपीडनसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशकुनाऽङ्गारकवार—विष्टिदिवसास्सुखयन्ति ॥)

४. भूतसामीप्यो यथा—(अमरु. ३५)

प्रस्थानं वलयैः कृतं प्रियसखैरस्त्रैरजस्त्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः।
यातुं निश्चितचेतसि प्रियतमे सर्वे सह प्रस्थिता गन्तव्ये सति जीवित! प्रियसुहृत्सार्थः किमुत्सृज्यते॥ ८८॥

५. भविष्यत्सामीप्यो यथा—(गास. ८३१ वै.)

कण्णे पडिअं हिअए पडिअं चिअ ओ मए अह/भव्वाए।
जामि त्ति तुज्झ वअणं किं व ण सहिअं पवासस्स॥ ८९॥

(कर्णे पतितं हृदये/यं पतितमेव ओ मया अभव्यया।
यामीति तव वचनं किं वा न सोढं प्रवासस्य॥)

(३. प्रियप्रस्थानम् — ५)

नायकस्य गेहाद् विनिर्गमः प्रियप्रस्थानम्। तदपि पञ्चधा—‘प्रवृत्तम्, अप्रवृत्तं, प्रवृत्ताप्रवृत्तम्, अप्रवृत्तप्रवृत्तम्, अप्रवृत्ताप्रवृत्तं’ चेति। तेषु—

१. प्रवृत्तं यथा—(अमरु. ८५)

दृष्टः कातरनेत्रयाऽतिसुचिरं बद‍्ध्वाञ्जलिं याचितः पश्चादंशुकपल्लवे च विधृतो निर्व्याजमालिङ्गितः।
इत्याक्षिप्य सदासमस्तमघृणो गन्तुं प्रवृत्तस्तदा पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः॥ ९०॥

२. अप्रवृत्तं यथा—(अमरु. ६३)

लग्‍ना नांशुकपल्लवे भुजलता न द्वारदेशेऽर्पिता नो वा पादयुगे मुहुर्निपतिता तिष्ठेति नोक्तं वचः।
काले केवलमम्बुदालिमलिने गन्तुं समभ्युद्यत— स्तन्व्या बाष्पजलौधकल्पितनदीपूरेण रुद्धः प्रियः॥ ९२॥

३. प्रवृत्ताप्रवृत्तं यथा—

यामीत्युक्तवति व्रजेत्यभिहितं त्रस्तं विमक्तासने द्वित्राण्येव पदानि गच्छति गलद‌्बाष्पान्धमालोकितम्।
निर्याते दयितेऽश्रूपूरितदृशा तन्मुग्धयानुष्ठितं व्यासेऽवस्थितिपत्रकं प्रवसतो यज्जातमाजन्मनः॥ ९२॥

४. अप्रवृत्तप्रवृत्तं यथा—

यात्रामङ्गलसन्निधानरचनाव्यग्रे सखीनां गणे बाष्पाम्भःपिहितेक्षणे गुरुजने तद‌्वत्सुहृन्मण्डले।
प्राणेशस्य मदीक्षणाहितदृशः कृच्छ्रदतिक्रामतः किं व्रीडाहतया मया भुजलतापाशो न कण्ठेऽर्पितः॥ ९३॥

५. अप्रवृत्ताप्रवृत्तं यथा—

कर्तव्यं न निवारितं गुरुजनात् प्रास्थानिकं लज्जया शून्यं मन्युनिरोधमन्थरगिरा संवर्गिका बान्धवाः।
पान्थेन प्रियविप्रवासविधुरां दृष्टवां पुरः प्रेयसी— मुद्‌बाष्पेण दिशो निवृत्तिशकुनप्रत्याशया वीक्षिताः॥ ९४॥

(४. प्रियानुगमः —५)

नायिकायाः प्रेयसा सह प्रस्थानसीमान्तात् प्रियानुगमः, सोऽपि पञ्चधा—सह, अग्रतः, पश्चात्, दूरतः, अन्तिक इति। तेषु— सहानुगमो यथा—(अमरु. १०)

याताः किं न मिलन्ति सुन्दरि! पुनश्चिन्तेति नास्मासु ते कार्या दूरमनुद्रुता हि कथयत्य़ेवं मुहुः प्रेयसि।
तन्व्या मन्थरतारकेण बहुशः पीताश्रुणा चक्षुषा दृष्टा तं हसितं न किन्तु मरणोत्साहस्तया सूचितः॥ ९५॥

अग्रतो यथा—

तिष्ठेत्युक्तः प्रवसन् दयितानयनेन कृष्णशारेण।
दयितः पुरतो यातं वामं वलता मृगेणेव॥ ९६॥

पश्चात् यथा—

परिष्वक्तस्तावद् गुरुजनभयान्नैव स मया न चोक्तं तिष्ठेति प्रियाविरहबाष्पार्द्रगलया।
द्रुतं गच्छामीति प्रियसखि! सुदृष्टोऽपि न कृतो निरुद्धो यावन्मे नयनसलिलैर्दृष्टिविषयः॥ ९७॥

दूरतो यथा—

किं वः कोऽपि जनोऽध्वगास्स्ववसतेरापृच्छय मूढां प्रिया— मुत्सृज्यागतवान्विमूढहृदयो धीरं ध्वनत्यम्बुदे।
बाला मांसलपङ्कभूयसि पथि श्रान्ता पुरो वल्लभे दूरं गच्छति पृच्छतीति पथिकान् क्षीबानिवाकुञ्चति॥ ९८॥

अन्तिकतो यथा—

दूरं सुन्दरि निर्गतासि नगरादेष द्रुमः क्षीरवा— नस्मादेव निवर्त्यतामिति शनैरुक्त्वाध्वगेन प्रियाम्।
गाढिलिङ्गनवामनीकृतकुचाभोगस्फुटत्कञ्चुकं वीक्ष्योरःस्थलमश्रुपूरितदृशा प्रस्थानभङ्गः कृतः॥ ९९॥

(५. प्रियाप्रश्‍नः — ५)

प्रस्थितस्य सम्भाषणाश्लेषादिपूर्वकः प्रियजनपरित्यागः प्रियाप्रश्नः। सोऽपि पञ्चधा — ‘सम्भाषणकृतः, आलिङ्गनकृतः, अवधिप्रदानकृतः, अवधियाचनकृतः, प्रियानुशासनकृतश्चे’ ति। तेषु—

१. सम्भाषणकृतो यथा—

आउच्छंतम्मि पिए पुरत्तो सउण—पिसुणिआपेअं।
रुण्णं ससज्झसोसरिअवाहधारं कुलवहए॥ १००॥

(आपृच्छमाने प्रिये पुरस्तात् शकुनपिशुनितापेतम्।
रुदितं ससाध्वसापसृतबाष्पधारं कुलवध्वा॥)

२. आलिङ्गनकृतो यथा—(गास. ७८६ वे.)

आउच्छणोवऊहण—कंठसमोसरिअ—वाहुलइआए।
वलआइ पहिअचलणे वहुए णिअला विअ पडंति॥ १०१॥

(आपृच्छनोपगूहन—कण्ठ—समपसृत—बाहुलतिकायाः।
वलयानि पथिकचरणे वध्वाः निगडा इव पतन्ति॥)

३. अवधिप्रदानकृतो यथा—

जाव अ ण देइ ओहिं उवऊढं जाव णेअ सडिलेइ।
मरणे ण पुण्णअं पुणो किं माए ताव गरुअविओ अप्पा॥ १०२॥

(यावच्च न ददाति अवधिमुपगूढं यावन्नैव श्लथयति।
मरणे न पुनः किं मातः तावद् गुरूकृत आत्मा॥)

४. अवधियाचनकृतो यथा—(सक. ७२६)

मुग्धे! प्रेषय यामि यान्ति पथिकाः कालोऽवधेः कथ्यता— मुद्विग्‍न किमकाण्ड एव भवती तूष्णीं किमेवं स्थिता।
पूर्वोक्तोपरतां प्रियेण दयितामाश्लिष्य तत् तत् कृतं दत्तो येन समस्तपान्थविरहप्राणान्तको डिण्डिमः॥ १०३॥

५. प्रियानुशासनकृतो यथा—

आपृष्टासि विनिर्गतोऽध्वगजनस्तन्वङ्गि! गच्छाम्यहं स्वल्पैरेव दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः।
इत्याकर्ण्य वचः प्रियस्य सहसा तन्मुग्धयानुष्ठितं येनाकुण्ठसमाप्‍ततीव्रविरहक्लेशः कृतो वल्लभः॥ १०४॥

(६. प्रतिनिवृत्तिः — ५)

प्रेयसि गते नायिकादीनां गृहागमनं प्रतिनिवृत्तिः। सापि पञ्चधा—‘गृहात्, अलिन्दतः, अङ्गणतः, उपवनात्, जलाशयत’ इति।

१. गृहाद् यथा—

मया बद्धा वेणी निवसितमशुक्लं च वसनं श्रुताः शोचन्तीनां परिजनसखीनामपि गिरः।
निवृत्तास्ते दृष्टा गतमनुगता येऽस्य सुहृद— स्तथाप्येते प्राणा दयितमनुयाता न कृपणाः॥ १०५॥

२. अलिन्दतो यथा—

सौख्ये गते प्रवसता दयितेन सार्धं नेत्रद्वये दयितमार्गगमान्निवृत्ते।
व्रीडावती बत कृता हतजीवितेन निर्याय यन्न पदमात्रमपि प्रयातम्॥ १०६॥

३. अङ्गणतो यथा—(अमरु. ७९)

यास्यामीति समुद्यतस्य वदतो विस्त्रब्धमाकर्णितं गच्छन् दूरमुदीक्षितो मुहुरसौ व्यावृत्य पश्‍यन्नपि।
कारुण्य पुनरागतोऽस्मि भवने प्राणास्त एव स्थिताः सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि॥ १०७॥

४. उपवनतो यथा—

अम्मणुअंचेवि जाहि हुआ हेट्ठि बइट्ठ।
विरहे पुच्छइ जाहि कहिं बहुअहिं कालहं दिट्ठ॥ १०८॥

५. जलाशयतो यथा—

प्रियानुगमतो गृहं प्रतिनिवृत्त्य मुग्धेक्षणा निरीक्ष्य सरसीमपि स्फुटितपङ्कजामोदिनीम्।
व्रजन्तमपि दूरतः समनुकूलवाताध्वना निवृत्तमुखसीरिकावलितकण्ठमालोकते॥ १०९॥

(७. प्रवासाचर्या — ३२)

प्रियवियोगे नायिकेतिवृत्तं प्रवासचर्या।

सा स्वेदेशकालकार्यपात्रौचित्यशक्तिसाधनोपायभेदात् द्वात्रिंशत्प्रकारा। तेषु —

देशश्चतुर्धा — स्वकीयः, परकीयः, स्वकीयपरकीयः, न स्वकीयो न परकीय इति। एवं कालदयोऽपि। तत्र—

कालः — साधारणः, असाधारणः, उल्लेखवान्, अनुल्लेखवान् च।

कार्यं — सामान्यवत्, विशेषवत्, नित्यं नैमित्तिकं च।

पात्रम् — उत्तमादिकं, उदात्तादिकं, मुग्धादिकं, अधीरादिकं च।

औचित्यं — जातितः, क्रियातः, गुणतः, द्रव्यश्च।

शक्तिः— औत्साहिकी, वैशिकी, साहाय्यिकी, दैविकी च।

साधनम् — उपादानं, हेतुः, कारणं, अधिकरणं च।

उपायः — स्वाभाविकः, प्रायत्निकः, सार्वलौकिकः, यादृच्छिक इति। तत्र—

देशोपाधिभेदेषु —

१. स्वकीयदेशे यथा—(मेघ. ८२)

तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम्।
गाढोत्कण्ठा—गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वाऽन्यरूपाम्॥ ११०॥

२. परकीयदेशे यथा—(सेब. ११.४८)

हत्थेण वाहगरुइअ—दूरपलंवालओ—त्थएण वहंतिं।
पिअ—पेसिअंगुलीअ—अ—मणि—पअडेक्कपासं व मुहं॥ १११॥

(हस्तेन बाष्पगुरुकं दूरप्रलम्बालकावस्तृतेन वहन्तीम्।
प्रिय—प्रोषिताङ्गुलीयकमणिप्रभाप्रकटैकपार्श्वमिव मुकम्॥)

३. स्वकीयपरकीये यथा—(शाकु. ७.२१)

वसने परिधूसरे वसाना नियमक्षामतनुः कृतैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घां विरहव्यथा बिभर्ति॥ ११२॥

४. न स्वकीये न परकीये यथा—

गतवति निषेधेश्वरे विबुद्धा वनभुवि भीमसुता भ्रमन्मृगीव।
मृगयितुमनुसानु साऽनुगन्तुं दिशि दिशि दत्तविलोलदीर्घदृष्टिः॥ ११३॥

(कालोपाधिभेदेषु) कालः —

५. साधारणो यथा—(गास. ८३९ वे.)

जह दिअहविरामो णव—सिरीस—गंदुद्धराणिलग्घविओ।
पहिअ—घरणीअ ण तहा तवेइ तिव्वो वि मज्झण्हो॥ ११४॥

(यथा दिवसविरोमो नवशिरीषगन्धोद्धुरानिलार्घितः।
पथिकगृहिणीः न तथा तापयति तीव्रोऽपि मध्याह्नः॥)

६. असाधारणो यथा—

मण्णो दड्ढं दड्ढं व हिअअं एवि तुह पसाएण।
दूरुण्णअ—घण—सामलिआदिसा हि सिग्घपरिणामा॥ ११५॥

(मन्ये दग्धं गद्धमिव हृदयं हे अपि तव प्रसादेन।
दूरोन्नत—घन—श्‍यामलिता दिशा हि शीघ्रपरिणामाः॥)

७. उल्लेखवान् यथा—(सूमु. २४)

अस्मिन् वर्षमहे न वर्तत इदं यत्कामदेवोत्सवे स्थेयं पुत्रि! निरन्नया तदधुना किञ्चिन्मुखे दीयताम्।
इत्युक्ते जरतीजनेन कथमप्यध्वन्यवध्वा ततः पर्यस्तेऽहनि कल्पितश्च कवलो धौतश्च धाराश्रुभिः॥ ११६॥

८. अनुल्लेखो यथा—

स्नातायाः स्वजनोत्सवे विधिरिति स्नानीयशून्यैर्जलै— र्बिभ्रत्या गुरुगौरवेण गुरुणी रक्ते वृथा वाससी।
पत्युर्मङ्गलमिच्छता परिजनेनायोजिते मण्डने तन्व्या लोचनवारिता कथमपि स्वच्छन्दमागच्छति॥ ११७॥

कार्योपाधिभेदेषु

९. सामान्यवद् यथा—(गास. ८७०वे.)

अब्भर(तंबर)सूणाइ णिरंजणाइ वइरिक्करुण्णपुसिआइं।
विरहुक्कंठं कुलवालिआण साहेंति अच्छीइं॥ ११८॥

(अभ्र/ताम्रांशूनि निरञ्जनानि प्रतिरिक्तरुदितमृष्टानि।
विरहोत्कण्ठां कुलपालिकानां कथयन्ति अक्षिणि॥)

१०. विशेषवद् यथा—(गास. ८३८वे.)

उक्कंठाणिच्छाआ सव्वं चिअ परिअणं रुणावेइ।
आअंबिरेहि अज्झा पुसिअपरुण्णेहि अच्छीहिं॥ ११९॥

(उत्कण्ठानिश्‍छाया सर्वमेव परिजनं रोदयति।
आताम्राभ्यामार्या प्रमृष्टप्रहरुदिताभ्यामक्षिभ्याम्॥)

११. नित्यं यथा—(गास. ५.९३)

अइकोवणा वि सासू रुआविआ गअवईअ सोण्हाए।
पाअपडणोण्णआए दोसु वि गलिएसु वलएसु॥ १२०॥

(अतिकोपना नु श्वश्रूः रोदिता गतपतिकया स्नुषया।
पादपतनावनतया द्वयोरपि गलितयोः वलययोः॥)

१२. नैमित्तिकं यथा—

छणपडिवआए पहदेवअणा दिज्जंति पहिअघरिणीए।
दोब्बल्लगलिअवलओमि/वलआए परिगआ मंगलपईवा॥ १२१॥

(क्षणप्रतिपदायां पथदैवतानां दीयमाने पथिकगृहिण्या।
दौर्बल्यगलितवलयया परिगता मङ्गलप्रदीपाः॥)

पात्रभेदेषु,

१३. उत्तमा यथा—

घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचना।
जन/ हनुमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी॥ १२२॥

मध्यमा यथा— (मेघ. ८८)

आधिक्षामां विरहशयने सन्निषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः।
नीता रात्रिः क्षणमि(इ)व मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ १२३॥

१४. उदात्ता यथा—

श्वासालिङ्गनधूसरेण सुमुखी बिम्बाधरेणामुना पर्यन्तारुणतां दृशोर्विदधती बाष्पैरविच्छेदिभिः।
क्षामक्षामकपोलमाननमनुव्यालम्बिलोलालका गात्रैरुज्झितभूषणैरियमहो धत्ते नवं मण्डनम्॥ १२४॥

ललिता यथा—(मेघ. ९१)

नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियायाः निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम्।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा— दिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति॥ १२५॥

१५. मुग्धा यथा—(गास. ३.८, वल. ३७७)

अज्जं गओ—त्ति अज्जं गओ—त्ति अज्जं गओ—त्ति गणरीए।
पढमच्चिअ जामद‌्धे कुड्डो रेहाहिं चित्तलिओ॥ १२६॥

(उद्य गत इत्यद्य गत इति गणनशीलया।
प्रथम एव यामार्धे कुड्य़ं रेखाभिश्चित्रितम्॥)

प्रगल्भा यथा—(मेघ. ९०)

निःश्श्वासेनाधरकिसलयक्लेशिना विक्षिपन्ती शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बम्।

मत्सम्भोगः कथमुपनयेत् स्वप्नजोऽपीति निद्रा— माकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशाम्॥ १२७॥

१६. अधीरा यथा—(गास. ८३६वे.)

विज्झावेइ पईवं अब्भुट्ठतीए पहिअजाआए।
पिअअम—विओअ—दीहर—णीसास—रि़ञ्छोली॥ १२८॥

(निर्वापयति प्रदीपमभ्युत्तिष्ठन्त्याः पथिकजायायाः।
प्रियतमवियोगदीर्घनिस्सहनिःश्वासपङ्क्तिः॥)

धीरा यथा—

॰ ॰ ॰ जा ॰ ॰ ॰ ॰ ॰ तं।
सपल्लहन्थिअं सुखाआ पहिअजाआ॥ १२९॥

औचित्यभेदेषु

१७. जात्यौचित्यं यथा—

परिअड्डिआइ दोण्णि वि घरिणीए दइए पवसिए एंते।
णिअमो कुलाणुरूओ सिणेहसरिसं व दोब्बल्लं॥ १३०॥

(परित्यक्‍ते द्वे अपि गृहिण्या दयिते प्रोषिते आगते।
नियमः कुलानुरूपः स्नेहसदृशं दौर्बल्यम्॥)

१८. क्रियौचित्यं यथा—(गास. ८३७वे.)

जं पीअं मंगलवासणाए पत्थाणपढमदिअहंमि।
बाहसलिलं ण णिट्ठइ तं चिअ विरहे रुअंतीए॥ १३१॥

(यत्पीतं मङ्गलवासनया प्रस्थानप्रथमदिवसे।
बाष्पसलिलं न तिष्ठति तदेव विरहे रुदत्याः॥)

१९. गुणौचित्यं यथा—(गास. ८७१वे.)

कुलवालिआए पेच्छह जोव्वणलाअण्णविब्भमविलासा।
पवसंति व्व पवसिए एंति व्व पिए घरं एंते॥ १३२॥

(कुलपालिकायाः प्रेक्षध्वं यौवनवलाण्यविभ्रमविलासाः।
प्रवसन्तीव प्रोषित आयान्तीव प्रिये गृहमायाते॥)

२०. द्रव्यौचित्यं यथा—

ण वि तह घरम्मि दड्ढे अण्णेसु विसच्चएसु बहुएसु।
कुड्डलिएसु जह सास ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰॥ १३३॥

शक्तिभेदेषु,

२१. औत्साहिकी यथा—(गास. ३.८३)

आसासेइ परिअणं परिवत्तंतीएँ पहिअजाआए।
णित्थामुव्वत्तणहत्थमुहलो वलअसद्दो॥ १३४॥

(आश्वासयति परिजनं परिवर्तमानायाः पथिकजायायाः।
निःस्थामोद्वर्तन—हस्तवलनमुखरो वलयशब्दः॥)

२२. वैशिकी यथा—(गारको. ३८३)

रणरणअ—रुज्ज—दब्बलएहि णच्चइ णडो व्व हअलोओ।
विरहे मरणेण विणा सिणेहरेहा ण णिव्वडइ॥ १३५॥

(रणरणकरोदनदौर्वल्यैः नृत्यति नट इव हतलोकः।
विरहे मरणेन विना स्नेहरेखा न स्पष्टीभवति॥)

२३. साहाय्यकी यथा—

ओप्पेज्जउ छणदिअहे सवत्तिवग्गस्स पहिअघरणीए।
पविहज्जिऊण बहुसो विरहसिही दीवमिस्सेण॥ १३६॥

(उच्छिद्यते क्षणदिवसे सपत्नीवर्गस्य पथिकगृहिण्या।
वर्धयित्वा बहुशो विरहशिखिनं दीपकमिषेण॥)

२४. दैविकी यथा—(गास. ७११वे. सक. ५.५८६)

जं मुच्छिअए ण सुओ कलंवगंधेण तं गुणे पडिअं।
हरा गज्जिअसद्दो जीएण विणा ण वोलंतो॥ १३७॥

(यन्मूर्च्छितया न श्रुतं कदम्बगन्धेन तद‍्गुणे पतितम्।
इतरथा गर्जितशब्दो जीवितेन विना न अतिक्रामेत्॥)

साधनभेदेषु,

२५. उपादानं यथा—

पम्हुट्ठपाणिआए वि पहअहिअआए पहिअजाआए।
पहमंडलं उअ रोइरीए वाहेण सिचंवि॥ १३८॥

(विस्मृतपाणिकायाः विपथगतहृदयायाः पथिकजायायाः।
पथमण्डलं पश्‍य रोदनशीलायाः बाष्पेण सेचितम्॥

२६. हेतुः यथा—

णीसहवेविरसिहं पहिअवहू बाहसलिलसिप्पंतं।
देइ पहदेवआणं भामं भामं च णवपईवं॥ १३९॥

(निःसहवेपनशीलशिखं पथिकवधूः बाष्पसलिलसिच्यमानम्।
ददाति पथदैवतानां भ्रामं च नवप्रदीपम्॥)

२७. करणं यथा—

गिम्हं गमेइ कह कह वि विरहसिहि—ताविआ वि पहिअवहू।
अविरअ—पडंत—णिब्भर—वाहजलोल्ला—वरिल्लेण ॥ १४०॥

(ग्रीष्मं गमयति कथं कथमपि विरहशिखितापितापि पथिकवधूः।
अविरत—पत्रन्निर्भर—बाष्प—जलार्द्रेण वस्त्रेण॥)

२८. अधिकरणं यथा—(गास. ४.१५)

झंझावाओत्तिणिए घरम्मि रोत्तूण णीसहणिसण्णं।
दावेइ व्व गअवइअं विज्जुज्जोओ जलहराणं॥ १४१॥

(झञ्झावातोत्तृणिते गृहे रुदित्वा निःसहनिषण्णाम्।
दर्शयतीव गतपतिकां विद्युद‍्द्योतो जलधराणाम्॥)

उपायभेदेषु,

२९. स्वाभाविको यथा—(गास. ८३४वे.)

उप्पेक्खागअ—दलिअंग—संगमुच्‍चिलिअ—विउणसेआए।
बोलीणो वि ण णाओ पउत्थपइआए हेमंतो॥ १४२॥

(उत्प्रेक्षागतदलिताङ्गसङ्गमोच्‍चलितद्विगुणस्वेदया।
अतिक्रान्तोऽपि न ज्ञातः प्रोषितपतिकया हेमन्तः॥)

३०. प्रायत्‍निको यथा—(गास. २.३३)

सअणे चिंतामलिअं काऊण पिअं णिमीलिअछ्‌छीए।
अप्पाणो उवऊढो पसिढिलवलआहि बाहाहिं॥ १४३॥

(शयने चिन्तामलितं कृत्वा प्रियं निमिलिताक्ष्या।
आत्मा उपगूढः प्रशिथिलवलयाभ्यां बाहुभ्याम्॥)

३१. सार्वलौकिको यथा—(गास. ३.२२)

पिअ—संभरण—पलोट्ठंत—बाहधारा—णिवाअ—भीआए।
दिज्जइ वंकग्गीवाए दीवओ पहिअजाआए॥ १४४॥

(प्रियसंस्मरणप्रलुठद‍्बाष्पधारानिपातभीतया ।
दीप्यते वक्रग्रीवया दीपकः पथिकजायया॥ )

३२. यादृच्छिको यथा—

मञ्जर्यो न विलोकिता विकसिताश्‍चूतस्य बाष्पान्धया नाघ्राता अपि सन्ततश्वसितया वातास्तदामोदिनः।
भृङ्गाणां कलिकावृतश्रवणया नो गीतमाकर्णितं क्षेमेण व्यतिलङ्घिता पथिक! हे वध्वा मधुश्रीस्तव॥ १४५॥

(८. प्रवासवृत्तान्तः — १५)

प्रियावियोगे विप्रयोगे विदेशादौ नायिकावस्थानं प्रवासवृत्तान्तः। सः प्रवासचर्यया व्याख्यातः; भूयश्च विशेषतो वक्ष्यामः। तत्र—

देशस्त्रिधा — ग्राम्यः, आरण्यः, साधारणश्च। तेषु —

१. ग्राम्यो यथा—(अमरु. १३१)

ग्रामेऽस्मिन् पथिकाय पान्थ वसतिर्नैवाधुना दीयते पश्‍यात्रैव विवाहमण्डपतले पान्थः प्रसुप्‍तो युवा।
तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति॥ १४६॥

२. आरण्यो यथा—(राच. १.१)

अथ माल्यवतः प्रस्थे काकुत्स्थस्य वियोगिनः।
दुर्निवारास्त्रसंवेगो जगाम जलदागमः॥ १४७॥

३. साधारणो यथा—(लीलावती ८०)

पज्जत्त—विआसु—व्वेल्लगुंदि—पब्भार—णमिअ—दलाइं।
पहिआण दुरालोआइ होन्ति माअंदगहणाइं॥ १४८॥

(पर्याप्‍तविकासप्रसरणशीलमञ्जरीप्राग्भारनमितदलानि।
पथिकानां दुरालोकानि भवन्ति माकन्दगहनानि॥)

कालः उपक्रान्तः, प्रक्रान्तः, व्यतिक्रान्तश्च। तत्र —

४. उपक्रान्तो यथा—(सेब. ५.१)

अह जलणिहिम्मि अहिअं मअणे अ मिअंकदंसणविअंभंते।
विरहविहुरस्स णज्जइ णिसा वि रामस्स वड्‌ढिउं आढढत्ता॥ १४९॥

(अथ जलनिधौ अधिकं मदने च मृगाङ्कदर्शनविजृम्भमाणे।
विरहविधुरस्य ज्ञायते निशा अपि रामस्य वर्धितुमारब्धा॥)

५. प्रक्रान्तो यथा—

हिअइ खुडुक्‍कइ गोरडी गअणि घुडुक्कइ मेहु।
वासारत्ति पवासुअहं विसमा संकडु ऐहु॥ १५०॥

(हृदये (खटकती) शल्यायते गौरी गगने (घुडक्‍कति) गर्जति मेघः।
वर्षारात्रे प्रवासिनां विषमं सङ्कटमेतत्॥)

६. व्यतिक्रान्तो यथा—(सेब. १.१५)

गमिआ कलंबवाआ दिट्ठं मेहंधआरिअं गअणअलं।
साहिओ गज्जिअसद्दो तहवि हु से णत्थि जीविए आसंघो॥ १५१॥

(गमिताः कदम्बवाताः दृष्टं मेघान्धकारितं गगनतलम्।
सोढः गर्जितशब्दस्तथापि तस्य नास्ति जीविते आसङ्गः॥)

कार्यं निर्वर्त्यवृत्ति, विकार्यवृत्ति, प्राप्यवृत्ति चेति। तत्र —

७. निर्वर्त्यवृत्ति यथा—

जाआसहत्थ वक्कीवा हो अअमलिए विहत्थेहिं।
पहिएण पढमदिअहे विसव्वच्छिण्णंण वत्थअणं॥ १५२॥

८. विकार्यवृत्ति यथा—

कज्जलमलल्लि अंङ्गंठिं उम्मोल कंविजाम वसंतो।
धवलवलआणपुंजंता पेच्छइ सव्वले पहिओ॥ १५३॥

९. प्राप्यवृत्ति यथा—(गास. ४.९६)

रायविरुद्धं व कहं पहिओ पहिअस्स साहइ ससंकं।
जत्तो अंबाण वणं तत्तो दरणिग्गअं किपिं॥ १५४॥

(राजविरुद्धमिव कथां पथिकः पथिकस्य शंसति सशङ्कम्।
यत आम्राणां वनं ततः ईषन्निर्गतं किमपि॥)

पात्रम् — उत्तमं, मध्यमं, कनिष्ठं च। तत्र —

१०. उत्तमं यथा—

कोटि—परिट्ठविआ—णण—भर—णिमिअं रघुवइस्स सीआविरहे।
चाववलिअं च णवरं सज्जिअजीअं व वाहधाराहि कअं॥ १५५॥

(कोटिपरिस्थापिताननभरनमितं रघुपतेः सीताविरहे।
चापवलितं च केवलं सज्जित—जीवमिव बाष्पधाराभिः कृतम्॥

११. मध्यमं यथा—(गास. ४.९९)

मज्झण्हपत्थिअस्स वि गिम्हे पहिअस्स हरइ संदावं।
हिअअ—ट्ठिअ—जाआ—मुह—मिअंक—जोण्हा—जलप्पवाहो॥ १५६॥

(मध्याह्नप्रस्थितस्यापि ग्रीष्मे पथिकस्य हरति सन्तापम्।
हृदयस्थितजायामुखमृगाङ्कज्योत्स्‍नाजलप्रवाहः ॥)

१२. कनिष्ठं यथा—(गास. ७.३९)

अग्घाइ छिवइ चुम्बइ हिअअमिं ठेवइ जणिअरोमंचो।
जाआ—कओल—सारि—च्छआए पहिओ महुअपुप्फं॥ १५७॥

(आघ्राति स्पृशति चुम्बति हृदये स्थापयति जनितरोमाञ्चः।
जायाकपोलसादृक्ष्यात् पथिको मधूकपुष्पम्॥)

औचित्यं स्‍नेहौचित्यं, उद्योगौचित्यम्, औत्सुक्यौचित्यं च। तेषु —

१३. स्‍नेहौचित्यं यथा—(गास. ६.६६)

गज्ज महं चिअ उवरि सव्वत्थामेण लोह-हिअअस्स।
जलहर! लंबालइअं मा रे मारेहिसि वराइं॥ १५८॥

(गर्ज ममैवोपरि सर्वस्थाम्‍ना लोहहृदयस्य।
जलधर! लम्बालकिकां मा रे मारयिष्यसि वराकीम्॥)

१४. उद्यमौचित्यं यथा—(मेघ. १०६)

भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः।
आलिङ्ग्यन्ते गुणवति! मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति॥ १५९॥

१५. औत्सुक्यौचित्यं यथा—(सेब. १२.२२)

सीआविओअदुःखं विसहंतस्स चउजामेंत्ततरिअं।
दीहो अ गओ कालो ण समा एक्क अ सा णिसा रहुवइणो॥ १६०॥

(सीतावियोगदुःखं विषहमाणस्य चतुर्याममात्रान्तरितम्।
दीर्घश्च गतः कालः न समा एका च निशा रघुपतेः॥)

शक्तिसाधनोपायानां प्रवासिषु प्रायो विपर्ययादयः स्वदन्ते, न स्वरूपाणि। ततः तथैव तान्युदाह्रियन्ते। तेषु —

१. शक्तिविपर्ययस्त्रेधा बलविपर्ययः, बुद्धिविपर्ययः, उत्साहविपर्ययश्च। तत्र —

बलविपर्ययो यथा—(गास. ८३२ वे.)

समपंथपत्थिअस्स वि पहिअस्स खलंति पुढमदिअहंमि।
हिअअ—ट्ठिअ—जाआ—गुरु—णिअंबभारेण व पआइ॥ १६१॥

(समपथप्रस्थितस्यापि/पथिकस्य स्खलन्ति प्रथमदिवसे।
हृदयस्थितजायागुरुनितम्बभारेणेव पदानि॥)

बुद्धिविपर्ययो यथा—

वट्टं म टं पुच्छामि पइं जाणंता मेह।
विरहं जो मरइ तस्स ओसहं केहा॥ १६२॥

(वृत्तं म(उ)त्वां पृच्छामि पतिं जानन्तं मेघ।
विरहेण यो म्रियते तस्य औषधं कीदृशम्/कुशलं कुत्रेह॥)

उत्साहविपर्ययो यथा—(सेब. ५.७)

धीरेण समं आमा, हिअएण समं अणिंट्ठिआ उवएसा।
उच्छाहेण समं भुआ, बाहेण समं गलंति से उल्लावा॥ १६३॥

(धैर्येण समं यामाः, हृदयेन समं अनिष्ठिता उपदेशाः।
उत्साहेन समं भुजौ, बाष्पेण समं गलन्ति तस्या उल्लापाः॥)

२. साधनविपर्ययः — हेयः, उपादेयः, हेयोपादेयश्च। तत्र —

हेयो यथा—

सो उद्देसो विहिणा ण णिम्मिओ बहुविरहमुल्लिहंतेण।
जत्थ वि अ विवोआ सद्दावद्दे हि णिज्जंति॥ १६४॥

(स उद्देशो विधिना न निर्मित- बहुविरहमुल्लिखता।
यत्रापि च विप्रयोगाः श्रद्धावत्त्वे हि नीयन्ते॥)

उपादेयो यथा—(गास. ८४३वे.)

दीहुण्णा णीसासा रणरणओ रुज्जगग्गिरं गेअं।
पिअविरहे जीविअवल्लाहाण एसो च्‍चिअ विणोओ॥ १६५॥

(दीर्घोष्णा निःश्वासा रणरणको रोदनगद्गदं गेयम्।
प्रियविरहे जीवितवल्लभानां एष एव विनोदः॥)

हेयोपादेयो यथा—(गास. ८४७वे.)

चिरजीवित्तण—कंखिरि मा तम्म रसाअणेहि अथिरेहिं।
विरहं पवज्ज जाअंति जेण जुअदीहरा दिअहा॥ १६६॥

(चिरजीवित्वकाङ्क्षणशीले मा ताम्य रसायनैरस्थिरैः।
विरहं प्रतिपद्य जायन्ते येन युगदीर्घा दिवसाः॥)

३. उपायविपर्ययः — कादाचित्कः, ऐकदेशिकः, विहितश्च। तेषु —

कादाचित्को यथा—(मेघ. १०५)

मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो— र्लब्धायास्ते कथमपि मया स्वप्‍नसन्दर्शनेषु।
पश्‍यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति॥ १६७॥

ऐकदेशिको यथा—(मेघ. १०३)

श्‍यामास्वङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान्।
उत्पश्‍यामि प्रतनुषु नदीविचिषु भ्रूविलासान् हन्तैकस्मिन् क्‍वचिदपि न ते चण्डि! सादृश्‍यमस्ति॥ १६८॥

विहितो यथा—(मेघ. १०४)

त्वामालिख्य प्रणयकुपितां धातुरागैश्शिलाया— मत्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।
आस्रेस्तावन्मुहुरुपचितैर्दृष्टिरालि/लुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः॥ १६९॥

सोऽयमष्टप्रकाण्डोऽपि प्राप्‍तिस्कन्ध उदाहृतः।
व्याप्‍तिस्कन्धप्रकाण्डानाम् अथैषोद्दिश्‍यते गतिः॥ १७०॥

(२. व्याप्‍तिस्कन्धः —८)

(१. वियुक्तस्वरूपम् —१२)

तेषु विरहिणामसाधारणधर्मः, वियुक्तस्वरूपम्। तद् देशकालपात्रादिभेदाद—

नेकधा। तत्र—

देशे नायिकास्थं, नायकस्थम्, उभयस्थम्, उभयसाधारणं च।

काले दृष्टविपरीतम्, श्रुतविपरीतम्, भूतविपरीतम्, अनुभूतविपरीतम् च।

पात्रे उदात्तास्थम्, उद्धतास्थं, (ललितास्थं), शान्तास्थं च।

प्रपञ्चतो दृष्ट्वा शेषमवगन्तव्यम्। तत्र—

(देशे)

१. स्वदेशे नायिकास्थं यथा—

उच्‍च उरडेविधाहकरुअंमडे।
उपसिहु उदुंगुववसंइज्जं मडे॥ १७१॥

२. परदेशे नायकस्थं यथा—

उत्कम्पोऽपि सकम्प एव हृदये चिन्तापि चिन्तान्विता निःश्वासा अपि निःश्वसन्त्यनिभृता बाष्पोऽपि बाष्पायते।
कान्तां संस्मरतो विदेशवसतेर्नक्तान्दिवं कामिनः प्रारोहा इव निष्पतन्ति मनसो दुःखानि दुःखान्वितात्॥ १७२॥

३. स्वपरदेशे उभयस्थं यथा—(सक. ९०६)

सुप्‍ते ग्रामे नदति जलदे शान्तसंवादरम्यं पान्थेनात्मव्यसनकरणोदश्रु गीतं निशीथे।
स्फीतोत्कण्ठापरिगतधिया प्रोषितस्त्रीजनेन ध्यानावेशास्तिमितनयनं श्रूयते रुद्यते च॥ १७३॥

४. उभयसाधारणे उभयसाधारणं यथा—(उराच. ६.३८)

चिरं ध्यात्वा ध्यात्वा लिखितमिव निर्माय पुरतः प्रवासे प्रश्वासं न खलु न करोति प्रियजनः।
जगज्जीर्णारण्यं भवति तु विकल्पव्युपरमे कुकूलानां राशौ तदनु हृदयं पच्यत इव॥ १७४॥

काले —

५. साधारणे दृष्टविपरीतं यथा—(कु.पृ.अपभ्रंश २६, item 50)

वाअहिं वडितो दुःखहिं अंमडे।
चंदुकि सूरिहोइ पवसं इजंमडे॥ १७५॥

६. असाधारणे श्रुतविपरीतं यथा—(गास. ८४५वे.)

राईओ भणइ लोओ जा किल गिम्हम्मि होंति मडहाओ।
मह उण दइएण विणा ण आणिमो कीस वड्ढंति॥ १७६॥

(रात्र्यो भणति लोको याः किल ग्रीष्मे भवन्ति लघवः।
मम पुनर्दयितेन विना न जानीमः कीदृशं वर्धन्ते॥)

७. अनुल्लेखवति भूतविपरीतं यथा—

निशा द्राघीयस्यः क्‍वचिदपि दिनानामलघिमा न तन्वी न व्यूढा क्‍वचिदपि समा वृत्तिरनयोः।
ऋतुः को नामायं विरहदहनम्लानमनसा— मसीमा नो यत्र प्रियसखि! निशा एव दिवसाः॥ १७७॥

८. उल्लेखवति अनुभूतविपरीतं यथा—

यस्मिन् पुष्पमयं धनुस्स्मृतिभुवो यत्रामृतांशुश्शशी प्रेयोऽन्यस्य सुखस्य धाम गतवान् मातस्स कामोद्भव।
को वायं विपरीतकारणगुणप्रक्रान्तिमान् पर्वणः सर्गो यत्र भवन्ति लम्भितरुजः प्राणा महामृत्यवः॥ १७८॥

पात्रे —

९. उदात्तायां दृश्‍यमानं यथा—(सक. १.८८)

प्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम्।
परिम्लानच्छायामनुवदति दृष्टिः कमलिनीं वियोगे माधुर्यं त्यजति च मृगाक्षीं स्पृशति च॥ १७९॥

१०. उद्धतायां श्रूयमाणं यथा—

वामबाहुशिखराग्रशायिना सा मुखेन लवलीफलत्विषा।
दिङ्‍मुखप्रहितलोललोचना मृत्युमुत्सवमिव प्रतीक्षते॥ १८०॥

११. ललितायामुपनीयमानं यथा—

रुद्धं रुद्धं वहति सलिलं नेत्रयोरुष्णमुष्णं न्यस्तं न्यस्तं सपदि हृदये चन्दनं शोषमेति।
यातं यातं दयितविरहे जीवितं धारयन्त्या दुःखं दुःखं व्रजति रजनी कल्पतुल्या वराक्याः॥ १८१॥

१२. शान्तायामनुमीयमानं यथा—

ओहीचदेण उविहुरा पुंणमहुआ पओसि अंपंथं।
ठिअपहिअ पिगहवइ आसाणडिआपुलोएइ॥ १८२॥

(२. वियुक्तावस्था —१२)

मनोदृग्वक्त्रावाग्वपुश्चेष्टासु विरहिणः स्वरूपावस्थानं वियुक्तावस्था।

तन्मनसि चिन्तामयमनुस्मरणात्मकं च।

दृशि प्रजागरीयं, विषयव्यावृत्त्यात्मकं, च।

वक्त्रे निर्लज्जतामयमुन्मादात्मकं च।

वाचि गुणकीर्तनमयं विलापात्मकं च।

वपुषि कार्श्‍यमयं, व्याध्यात्मकं च।

चेष्टायां जाड्यमयं, मूर्च्छात्मकं च।

तच्‍च स्थानात् स्थानान्तरेऽवतिष्ठमानम् अवस्थेत्याचक्षते। तत्र—

मनसि

१. चिन्ता यथा—

सा सुन्दरीति तरुणीति तनूदरीति मुग्धेति मुग्धवचनेति मुहुर्मुहुर्मे।
कान्तामयं विरहिणीमभिगन्तुकामः कान्तामयं जपति मन्त्रमिवान्तरात्मा॥ १८३॥

यथा वा—

कृतस्सङ्कल्पोऽपि व्यथयति परिच्छेदविषयः परिच्छिन्धीत्युक्तं वचनमपि पीडां जनयति।
मनस्स्मृत्वा स्मृत्वा ग्लपितामिदमत्रैव रमते प्रबन्धान्तश्चिन्ता सुखयति च मां दुःखयति च॥ १८४॥

२. तत्रैव अनुस्मरणं यथा—

अद्यापि तत्कनकचम्पकदामगौरं गोरोचनातिलकबिन्दुकृतैकबिन्दु।
ईषत्कटाक्षहसितोल्बणगण्डदेशं तन्व्या मुखं पथि मया सह गच्छतीव॥ १८५॥

यथा वा—

निरस्तालङ्कारां नयनजलसिक्ताधरपुटां रवावस्तं याते द्विगुणतरखेदालसमुखीम्।
अहो दूरस्थां तां करकमलविन्यस्तवदनां प्रियां पश्‍यामीति स्मृतिशरणकुड्ये हि लिखिता॥ १८६॥

दृशि —

३. प्रजागरो यथा—(शाकु. ६.२२)

प्रजागरात् खिलीभूतस्तस्यास्स्वप्‍ने समागमः।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि॥ १८७॥

यथा वा—

णिंदणीकसु एइ वढणिंसि चिंत्तं तह जाइ।
दइआमुहपडिबिंवे भिजउ चिंपिंज्जइ ताइ॥ १८८॥

४. तत्रैव विषयव्यावृत्तिर्यथा—

विधर्माणो भावास्तदुपहितवृत्तेर्न धृतये सरूपत्वादन्ये विहितविफलौत्सुक्यविरसाः।
अतश्चेत्थं पूर्वेष्वसृजदितरेभ्यः प्रतहतं क्‍व हीनं प्रेयस्या हृदयमिदमन्यत्र रमताम्॥ १८९॥

यथा वा—

अनारब्धाक्षेपं परमकृतबाष्पव्यतिकरं निगूढान्तस्तापं हृदयविनिपातव्यवसितम्।
कृशाङ्ग्या यत् पापे व्रजति मयि नैराश्‍यपिशुनं श्लथैरङ्गैरुक्तं हृदयमिदमुन्मीलयति तत्॥ १९०॥

वक्रे —

५. लज्जाप्रणाशो यथा—

गिरां सैका वाच्यं हृदयमपि तत्रैव निरतं, पुरः सर्वं दृष्टं भवति हरिणाक्ष्या मुखमिति।
वियोगस्तन्वङ्ग्याः कथमनुपकारी यदि भवेत् कृतं तद्रूपेण त्रिभुवनमिदं येन कृतिना॥ १९१॥

यथा वा—

क्वचित् स्वप्ने पश्‍याम्यविरचितलम्बालकमुखीं क्वचित् सङ्कल्पस्तां सुहृदिव पुरः स्थापयति मे।
क्वचिद् द्रष्टव्या सा सुखयति मुहूर्तँ ह्यनुसृता नमस्तस्यै यस्या रमयति वियोगोऽपि हृदयम्॥ १९२॥

६. तत्रैवोन्मादो यथा—

रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै— स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्सखे! मामपि।
तस्याः पादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वँ तुल्यमशोक! केवलमहं धात्रा सशोकः कृतः॥ १९३॥

यथा वा—(मामा. ९. २९)

भवद्धिस्सर्वाङ्गप्रकृतिरमणीया कुलवधू— रिहस्थैर्दृष्टा वा विदितमिह वास्या यदभवत्।
वयोऽवस्थां तस्याः श्रृणुत सुहृदो यत्र मदनः प्रगल्भव्यापारश्चलत हृदि मुग्धश्च वपुषि॥ १९४॥

वाचि—

७. गुणकीर्तनं यथा—

इदं किं ते न्यस्तं वलयिनि करे वक्त्रकमलं प्रिये! कः कोपोऽयं प्रणयिनि निरागस्यपि जने।
ब्रुवाणे मय्येवं श्वसितविषयोत्कम्पितकुचं मृगाक्ष्यास्तत्कालं नयनजलमोवोत्तरमभूत्॥ १९५॥

यथा वा—

क्षणमविशदं व्यक्तं भूयस्ततः परिमन्थरं तदनु चकितं ह्नीतं पश्चात् ततश्च निरङ्कुशम्।
कुवलयदृशा प्रेम प्रादुष्कृतं नवसङ्गमे तदिह विरहे ध्यातं ध्यातं विधूनयतीव माम्॥ १९६॥

८. तत्रैव विलापो यथा—

हे विप्रयोगदहन! ज्वलितो (यदि त्व) मां निर्दह प्रियमिदं न हि जीवितं मे।

एकं मनः परिहराञ्जलिरेष मूर्ध्नि न्यस्तो मया वसति यत्र सरोरुहाक्षी॥ १९७॥

यथा वा—

प्रियविरहमहोष्मा मर्मुरानङ्गलेखा मयि हतक! हिमांशो! मा स्पृश क्रीडयापि।
इह हि तव लुठन्तः प्लोषपीडां भजन्ते दरजरठमृणालीकाण्डमुग्धा मयूखाः॥ १९८॥

वपुषि—

९. कार्श्यँ यथा—

पर्यस्य स्वकरेण बाष्पपयसां पूरस्य पक्ष्मालकान् निःश्वासांश्चं नखम्पचान् न सहते पाणिः कपोलाश्रयः।
दग्धोन्तर्मदनाग्निना स्तनभरो भग्नेव पाण्डुच्छवि— र्भास्वद्‌बिम्बगता कलेव शशिनः क्षीणा तनुस्ताम्यति॥ १९९॥

यथा वा—(उराच. ३. ५)

किसलयमिव मुग्धं बन्धनाद् विप्रलूनं हृदयकुसुमशोषो दारुणो दीर्घशोकः।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्॥ २००॥

१०. तत्रैव व्याधिर्यथा—

आपाण्डुर्वदने गतावविशदं चिन्ताऽऽमयेष्वायतः क्षामो वाचि विचारणास्वकुशलो रम्येष्वरम्यक्रियः।
उत्कम्पी हृदये द्रवो नयनयोरूर्वोर्जडोऽङ्गे गुरुः शोकोऽयं मयि याति तद्‌विरहभूरेकोऽप्यनेकां गतिम्॥ २०१॥

यथा वा—(उराच. ३. ३१)

दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो देहं न मुञ्चति चेतना।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्॥ २०२॥

चेष्टायां

११. जाड‍यं यथा—

एकमुत्कण्ठया शून्यमन्यद् दयितया हृतम्।
वेदनामपरं धत्ते कियन्ति हृदयानि मे॥ २०३॥

यथा वा—(सक. ५. ६१)

शिथिलशिथिलं न्यस्य स्वैरं धनुश्शिखरे भुजं नयनसलिलैः कुर्वन् मौर्वीं लतामपरामिव।
अहह विकलः श्रुत्वा श्रुत्वा घनस्तनितध्वनिं किमपि किमपि ध्यायन्नार्यो न याति न तिष्ठति॥ २०४॥

१२. तत्रैव मूर्च्छा यथा—(मामा. ९. २०)

मातर्मातर्दलति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्गमोहः स्थगयति कथं मन्दभाग्यः करोमि॥ २०५॥

यथा वा—(मामा. ९. २१)

बन्धुताहृदयकौमुदीमहो मालतीनयनमुग्धचन्द्रमाः।
सोऽयमद्य मकरन्दन्दनो जीवलोकतिलकः प्रलीयते॥ २०६॥

(३. विरहोद्दीपनम्)

जातानुभावस्य विरहिणः स्मरणादिबीजोद्‌बोधहेतुश्चित्तारम्भादिकारणं अर्थातिशयः विरहोद्दीपनम्। स प्रायेणाष्टधा— देशः, देशचिह्नं, कालः, कालचिह्नं, वस्तु, वस्तुचिह्नं, कार्यं, कार्यचिह्नम् इति।

स्मरणादयस्तु चत्वारः— स्मरणम्, इच्छा, द्वेषः, प्रयत्‍न इति।

चित्तारम्भादयोऽपि तावन्त एव—चित्तारम्भः, वागारम्भः, बुदध्यारम्भः, शरीरारम्भ इति। उभये प्रत्येकतश्चतुर्धा। तत्र—

(स्मरणादयः— १६)

स्मरणभेदेषु— स्मृतिः, अनुस्मृतिः, स्मृतिविशेषः, अनुस्मृतिविशेषश्च इति।

इच्छाभेदेषु— इच्छा, अन्विच्छा, इच्छाविशेषः, अन्विच्छाविशेषश्च इति।

द्वेषभेदेषु— द्वेष:, अनुद्वेषः, द्वेषविशेषः, अनुद्वेषविशेषश्च इति।

प्रयत्‍नभेदेषु—प्रयत्‍न:, अनुप्रयत्‍न:, प्रयत्‍नविशेषः, अनुप्रयत्‍नविशेषश्च इति।

(चित्तारम्भादयः— १६)

चित्तारम्भप्रभेदेषु— शुद्धः, सङ्कीर्णः, प्रकीर्णः, विप्रकीर्ण इति।

वागारम्भप्रभेदेषु— प्रकृतः, अप्रकृतः, प्रसक्तः, अनुप्रसक्त इति।

बुद्ध्यारम्भप्रभेदेषु— यता, तथा, अन्यथा, उभयथा इति।

शरीरारम्भप्रभेदेषु— वक्त्रे, वपुषि, दृष्टौ, चेष्टायामिति।

चत्वारश्चतुष्काः कारणभूताः, चत्वारस्तु कार्यभूता इति। तेषु—

चित्तारम्भबुद्धयाम्भावाभ्यन्तरौ, वागारम्भशरीरारम्भयोः कारणमपि भवतः।

शरीरारम्भवागारम्भौ तु बाह्यौ कार्यमेव।

चित्तारम्भस्तु बुद्धयारम्भस्यापि कारणमिति। तत्र—

(विरोहोद्दीपनप्रभेदाः— ८)

१. विरहोद्दीपनप्रभेदेषु ग्राम्यारण्यादयो देशाः। तेषु—

ग्राम्यो यथा—

अभ्याशस्थितचूतषण्डागहनाद् ग्रामादितो गेहिनी स्थानं किञ्चिदवृक्षकं विरहिणी तूर्णं वधूर्नीयताम्।
अत्रायान्त्यचिरेण कोकिलकुलव्याहारझङ्कारिणः पान्थस्त्रीजनजीवितापहरणप्रौढाः पुरो वासराः॥ २०७॥

आरण्यो यथा—(उराच. २. २२)

एतत् पुनर्वनमहो कथमद्य दृष्टं यस्मिन्नभूम चिरमेव पुरा वसन्तः।
आरण्यकाश्च गृहिणश्च रताश्च धर्मे सांसारिकेषु च सुखेषु वयं रसज्ञाः॥ २०८॥

२. अनुभूयमानस्मर्यमाणानि देशाचिह्नानि। तेषु—

अनुभूयमानं यथा—(उराच. २. २३)

एते त एव गिरयो विरवन्मयूरास्तान्येव मत्तहरिणानि वनस्थलानि।
आमञ्जुवञ्जुलरुतानि च तान्यमूनि नीरन्ध्रनीरनिचुलानि सरित्तटानि॥ २०९॥

स्मर्यमाणं यथा—(उराच. २. २७)

पुरा यत्र स्त्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति॥ २१०॥

३. वर्षावसन्तसमयादिः कालः। तत्र—

वर्षासमयो यथा—

वातप्रोत्क्षिप्‍तधूलीपरिमिलनसमुद्‌ध‌ूलिताम्भः(ङ्गं) समन्ता— द्दण्डोद्वेल्लद‍्वलाकावलिकुणपशिरोनद्धनीलाभ्रकेशः ।
पेङ्खद‍्विद्युत्पताकारुचिरसुरधनुः खण्डखट‍्वाङ्गधारी सम्प्राप्‍तः प्रोषितस्त्रीप्रतिभयजननः कालकापालिकोऽयम्॥ २११॥

वसन्तसमयो यथा—

चैत्रः सैष सखे स्ववृन्तनियतश्‍यामाश्रिभिः किंशुकै— रङ्गारैरिव भासुरान्धरुचिक्षिश्चक्षुंषि दन्हह्यते।
यत्रैता मदमञ्जुभिः परभृतैरुच्चोच्चरत्पञ्चमा— श्‍चूतारामभुवः प्रियाविरहिणां कुर्वन्ति कर्णज्वरम्॥ २१२॥

४. घनोन्नतिप्रसूनविकासादीनि कालचिह्नानि। यथा—(अमरु. ११७)

किञ्चिन्मुद्रितपांसवः शिखिकुलैस्सानन्दमालोकिताः भग्नवास—रुदद्धरिद्रगृहिणी—श्वासानिलैर्जर्जराः।
एते ते निपतन्ति नूतनघनात् प्रावृइभरारम्भिणो विच्छायीकृतविप्रयुक्तवनितावक्त्रेन्दवो बिन्दवः॥ २१३॥

यथा वा—

माणगइंदहो अंकुसु महुसिहहो णहकुमाहवसि रिइकेलि सुअवआणा संककरु।
वड्ढइ विरहिणीजीवइं किं घूइं कुडउलोहिं अलिअत्तउ मअणहोणं हत्थकुडउ॥ २१४॥

५. ईप्सितमनीप्सितं वा द्रव्यजातं वस्तु। तत्र ईप्सितं यथा—(कुन्दमाला. ४. २०)

द्यूते पणः प्रणयकेलिषु कण्ठपाशः क्रीडापरिश्रमहरं व्यजनं रतान्ते।
शय्या निशीथकलहे हरिणेक्षणाया लब्धं मया विधिवशादिदमुत्तरीयम्॥ २१५॥

अनीप्सितं यथा—

अयि पिबत चकोराः किञ्चिदुन्नाम्य१ कण्ठं २क्रमकबलनचञ्चच्चञ्चवश्चन्द्रिकाम्भः३ ।
विरहविधुरितानां जीवितत्राणहेतो— र्भवति हरिणलक्ष्मा येन तेजोदरिद्रः॥ २१६॥

६. असाधारणधर्मचिह्नानि यथा—(सूमु. २२५)

कान्ता का मम४ गर्जितैरुपरता५ धाराम्बुभिः का हता का मोहं गमिता वियोगविधुरा धाराकदम्बानिलैः।
नीता का च विलोलतां मदकलैः६ केकारवैर्बर्हिणा— मित्थं पान्थ! गृहाणि पश्‍यति घनो विद्युत्प्रदीपैरिव॥ २१७॥

यथा वा—(गास. १. ४४)

अक्खडइ पिआ हिअए अण्णं महिलाअणं रमंतस्स।
दिट्ठे सरिसम्मि गुणे सरिसम्मि अई/दीसंते॥ २१८॥

(आस्खलति प्रिया हृदये अन्यं महिलाजनं ममाणस्य।
दृष्टे सदृशे गुणे सदृशे अदृश्‍यमाने॥)

७. निर्वर्त्य—विकार्य—प्राप्य—कर्मव्यापी क्रियाविशेषः कार्यः यथा—

मा गाः पान्थ! पथामुना यदि तव भ्रातः! प्रियं जीवितं यच्चूताकृतिरत्र तिष्ठति महान् रौद्रः पुरो राक्षसः।
तेनोद्यन्मकरन्द—लुब्ध—मधुप—व्याहार—&झङ्करिणा पान्थानामधुनैव निर्घृणाधिया सार्थो हतः श्रूयते॥ २१९॥

यथा वाmdash;

उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद् भवद‍्भिरवेक्ष्यताम्।
इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिन—न्यासोदञ्चन्नवाऽङ्कुरक़ञ्चुकः॥ २२०॥

१. नाम्यकं जो, न्नमिक राघवः २. क्रमस्य क्रमुकस्य कवलनादिति यावत्। ३. नाम्भः जो, नाभ्यः राघवः ४. कान्ता का मम = कान्तारैर्मम. जो. रा. ५. रुपरता = कपरता जो. ६. विलोलतां मदकलैः = विलोलनादकबलः रा. ८. क्रियाविशेषानुमापकमर्थान्तरं कार्यचिह्नं यथा—

सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्त्रुतिः सर्वं नैतदिहास्ति तत्कथमयं पान्थस्तपस्वी मृतः।
आ ज्ञातं मधुलम्पटैर्मधुकरैरारब्धकोलाहलै— र्ननं दुःखितकेन चूतमुकुले दृष्टिः क्वचित् पातिता॥ २२१॥

यथा वा—(विक्र. ४. ३४)

रक्ताशोक कृशोदरी क्व नु गता मुक्त्वानुरक्तं जन नो दृष्टेति मुधैव धूनयसि किं वातावधूतं शिरः।
उत्कण्ठाघटमानषट्पदघटासङ्घट्टदष्टच्छद— स्तत्पादाहतिमन्तरेण सरसः पुष्पोद‍्गमोऽयं कुतः॥ २२२॥

अथैतेषु स्मृतीच्छाद्वेषप्रयत्‍नजन्मानो वाग्बुद्धिशरीरारम्भाः। तेषु—

१. मनआरम्भः स्मृतिजन्मा यथा—(राच. १. १८)

तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि।
स्मितार्द्रमुकुलोद्‌भेदाः कदम्बवनराजयः॥ २२३॥

स एवेच्छाजन्मा यथा—(उराच. ३. २५)

करकमलवितीर्णैरम्बुनीवारशष्पै— स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत्।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्नवोद्धेदयोग्यः॥ २२४॥

एष द्वेषजन्मा यथा—

सञ्छन्नैर्जलवामनैर्जलधरैर्व्योम्नि प्रसुप्‍ते जने देवे वर्षति दिङ्गमुखेषु चरति स्वैरं कदम्बानिले।
उत्के गायति च प्रवासिनि कथं पान्थप्रियायाणामिमा नोन्मथ्नन्ति मनांसि मांसलमिलद्दीर्घान्धकाराः क्षपाः॥ २२५॥

अयमेव प्रयत्‍नजन्मा यथा—

उत्केकाः शिखिनः पयोदपटलैश्छन्नं नभोमण्डलं वाता वान्ति कदम्बरेणुशबला जाता मही शाद्‌वला।

उद्भिन्नं नवयोवनं, प्रियतमो देशान्तरस्थोऽवधिः कालो याति, न याति जीवितमिति व्यग्रं मनश्चिन्तया॥ २२६॥

२. वागारम्भस्मृतिजन्मा यथा—(रामाभ्यु.)

यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता— स्त्वत्सादृश्‍यविनोदमात्रमपि मे दैवेन न क्षम्यते॥ २२७॥

स एवेच्छाजन्मा यथा—(उराच. ६. २६)

अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो— रभिनवशतपत्रशीमदीस्यं प्रियायाः॥ २२८॥

एष द्वेषजन्मा यथा—

तरुणतमालनीलबहुलोन्नमदम्बुधराः शिशिरसमीरणा वधूत—नूतन—वारिकणाः।
कथमवलोकयेयमधुना हरिहेतिमती— र्मदकलनीलकण्ठकलहैर्मुखरा हरितः॥ २२९॥

अयमेव प्रयत्‍नजन्मा यथा—(उराच.)

शैलः सोऽयं ककुभसुरभिर्माल्यवान्नाम यस्मि— न्नीलास्निग्धश्श्रयति शिखरं नूतनस्तोयवाहः।
आर्येणास्मिन्विरम विरमातः परं न क्षमोऽस्मि प्रत्यावृत्तः पुनरिव स मे जानकीविप्रयोगः॥ २३०॥

३. बुद‍्ध्यारम्भस्मृतिजन्मा यथा—

रक्ताशोकतरोः कराकृतिधरा राजन्त्यमी पल्लवा वृत्तत्वात् सदृशी तदूरुयुगलेनैषापि रम्भावलिः।
प्रौढिम्ना कुसुमे स्थिता तदधरच्छाया विकारं विना तन्मन्येऽत्र वने विभज्य विधिना क्षिप्‍ता मम प्रेयसी॥ २३१॥

स एवेच्छाजन्मा यथा—(उराच. २. २८)

यस्तान्ते दिवसास्तया सह तथा नीताः पुनः स्वे गृहे यत्सम्बद‍्धकथाभिरेव सुचिरं दीर्घाभिरस्थीयत।
एकः सम्प्रति नाशितप्रियतमस्तामेव पापः कथं रामः पञ्चवटीं विलोकयतु वा गच्छत्वसम्भाव्य वा॥ २३२॥

एष द्वेषजन्मा यथा—

वातैः केसरगन्धिभिर्विषधरश्वासैरिवान्धं मनो दग्धे तप्‍तशलाकयेव तडिता पर्यश्रुणी लोचने।
एताः सम्प्रति रूपगर्भगुरवः सान्द्रीभवत्सौरभाः केतक्यः करपत्रपत्रजरठाः कृन्तन्ति मर्माणि मे॥ २३३॥

अयमेव प्रयत्‍नजन्मा यथा—(रामाभ्यु.)

स्निग्धश्‍यामलकान्तिलिप्‍तवियतो वेल्लद‍्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहाहा देवि! धीरा भव॥ २३४॥

४. शरीरारम्भः स्मृतिजन्मा यथा—(सक. ७५९)

निपतति शयने तव स्मरन्ती पथिकवधूरवधूतजीविताशा।
जलधरसमयस्य हे/के—तुभूतां वकुललतामवलोक्य पुष्पिताग्राम्॥ २३५॥

स एवेच्छाजन्मा यथा—(राच. १. १९)

अदृश्‍यन्त पुरस्तेन खेला- खञ्जनपङक्तिगाः।
अस्मर्यन्त च निःश्वस्य प्रियानयनविभ्रमाः॥ २३६॥

एष द्वेषजन्मा यथा—(गास. ४. ३६)

संजीविणोसहिं पिब सुअस्स रक्खइ अणण्णवावारा।
सासू णवब्भदंसणकंठागअजीविअं सोण्हं॥ २३७॥

(संजीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा।
श्वश्रूर्नवादर्शनकण्ठागतजीवितां स्नुषाम्॥)

अयमेव प्रयत्‍नजन्मा यथा—(गास. ६. ३८)

दट्ठूण उण्णमंते मेहे आमुक्कजीविआसाए।
पहिअ—वहुए परिअणो ओरुण्णमुहीए सच्चविओ॥ २६८॥

(दृष्टवा उन्नमतो मेघान् आमुक्तजीविताशया।
पथिकवध्वा परिजनः अवरुदितमुख्या परिज्ञातः॥)

(स्मरणादयः— १६)

(स्मरणभेदेषु—४) अथैतेषु स्मरणादीनां पृथक्पृथक् चतुष्कम्। तत्र७ स्मरणस्य स्मृतिरनुस्मृतिः स्मृतिविशेषोऽनुस्मृतिविशेषश्च। तेषु—

१. स्मृतिर्यथा—

शशिमणिशिला सेयं यस्यां विपाण्डुरमाननं करकिसलये कृत्वा वामे घनश्वसितोद्रमा।
चिरयति मयि व्यक्ताकूता मनाक्स्फूरिताधरा नियमितमनोमन्युर्दृष्टा मया रुदती प्रिया॥ २३९॥

२. अनुस्मृतिर्यथा—(मेघ. ७६)

तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः।
मद‍्गेहिन्याः प्रिय इति सखे! चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि॥ २४०॥

३. स्मृतिविशेषो यथा—(मेघ. ७७)

रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः प्रत्यासन्नौ कुरवकवृतेर्माधवीमण्डपस्य।
एकस्सख्यास्तव सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्यनास्याः॥ २४१॥

४. अनुस्मृतिविशेषो यथा—(मेघ. ७८)

तन्मध्ये च स्फुटितफलका काञ्चनी वासयष्टि— र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः।
तालैश्शिञ्जावलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठस्सुहृद् वः॥ २४२॥

(इच्छाभेदेषु —४) इच्छाया इच्छा, अन्विच्छा, इच्छाविशेषः, अन्विच्छाविशेषश्च। तेषु — ५. इच्छा (यथा)—

विकसत्कदम्बनिकुरुम्बपांसुना सह जीवितं वह मम प्रिया यतः।
अपि वा तदङ्गपरिवादशीतलं मयि किञ्चिदीरय भवान् हि मे गतिः॥ २४३॥

६. अन्विच्छा यथा—(सेब. १.४२)

तं दइआहिण्णाणं जम्मि वि अंगम्मि राहवेण ण णिमिअं।
सीआपरिमट्ठेण व वूढो तेण वि णिरंतरं रोमंचो॥ २४४॥

(तद्‍ दयिताभिज्ञानं यस्मिन् अपि अङ्गे राघवेण न स्थापितम्।
सीतापरिमृष्टेनेव व्यूढः तेनापि निरन्तरं रोमाञ्चः॥)

७. इच्छाविशेषो यथा—(मेघ. ६२)

तस्योत्सङ्गे प्रणयिन इव स्त्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन्। या वः काले वहति सलिलोद्गारमुच्चैर्विमानै— र्मुक्ताजालग्रथितमलकं कामिनीवाभ्रबृन्दम्॥ २४५॥

८. अन्विच्छाविशेषो यथा—(मेघ. ७४)

तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन।
यस्योद्याने कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः॥ २४६॥

(द्वेषभेदेषु —४) द्वेषस्य द्वेषोऽनुद्वेषो द्वेषविशेषोऽनुद्वेषविशेषश्च। तेषु —

९. द्वेषो यथा—(सूमु. २१२)

अस्थिक्षोदवतीव कुन्दमुकुलैः फुल्लैः पलाशद्रुमैः साङ्गारप्रकरेव धूमकलुषेवोत्पातिभिः षट्पदैः।
रक्ताक्षिद्युतिभिः सशोषगहनालातेव पुंस्कोकिलै— र्दृष्टा प्राणसमा चितेव पथिकेनाराद् वनान्तस्थली॥ २४७॥

१०. अनुद्वेषो यथा—

चंदो विसअसहोअरउ(होइ)को वोल्लअमिअस्स सहि।
लग्गंतीअंगे मह जुण्हा वि जालइ (?ज्जालई) जस्स॥ २४८॥

११. द्वेषविशेषो यथा—(गास. १.२९)

अज्ज मए तेण विणा अणुहूयसुहाइं संभरंतीए।
अहिणवमेहाण रवो णीसामिओ वच्ज्झपडहो व्व॥ २४९॥

(अद्य मया तेन विना, अनुभूतसुखानि संस्मरन्त्या।
अभिनवमेघानां रवो निशामितो(=श्रुतो) वध्यपटह इव॥)

१२. अनुद्वेषविशेषो यथा—(मामा. ९.४२)

भ्रमय जलदानम्भोगर्भान् प्रमोदय कोकिलान् कलय शिखिनः केकोत्कण्ठान् कठोरय केतकान्।
विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा— मकरुण! पुनः संज्ञाव्याधिं विधाय किमीहसे॥ २५०॥

(प्रयत्‍नभेदेषु —४)

प्रयत्‍नस्य प्रयत्‍नोऽनुप्रयत्‍नः, प्रयत्‍नविशेषः, अनुप्रयत्‍नविशेषश्च। तेषु —

१३. प्रयत्‍नो यथा—(अमरु. ९९)

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैः- र्यत्‍नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद्ग्रीवश्चरणाग्ररुद्धवसुधः कृत्वाश्रुपूर्णां दृशं तामाशां पथिकस्तथापि किमपि ध्यायन् मुहुर्वीक्षते॥ २५१॥

१४. अनुप्रयत्‍नो यथा—

अलसगतयः श्यामागन्धं वहन्ति वनानिलाः क्वणति मधुरं कादम्बानां कृलं कमलाकरे।
अवधिगणनाभग्नाङ्गुल्या तया विरहश्च मे भगवति निशे शंस प्रातः कदा नु भविष्यति॥ २५२॥

(चन्द्रो विषस्य सहोदरको भवति कः कथयति अमृतस्य सखि।
लगन्ती अङ्गे मम ज्योत्स्नापि ज्वालयति यस्य॥) इति कु.

१५. प्रयत्‍नविशेषो यथा—(शाकु. ६. २०)

अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु।
बिम्बाधरं स्पृशसि चेद् भ्रमर प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थम्॥ २५३॥

१६. अनुप्रयत्‍नविशेषो यथा—

व्योमश्रीहृदयैकमौक्तिकलते! मातर्बलाकावलि! ब्रूयास्तं जंनमादरः खलु महान् प्राणेषु कार्यस्त्वया।
एतां म्लानिमुपागतां स्त्रजमिव त्यक्त्वा तनुं दुर्वहा— मेषाहं सुखिनी भवामि न सहे तीव्रां वियोगव्यथाम्॥ २५४॥

(चित्तारम्भेषु —१६)

अथ चित्तारम्भादीनां१ पृथक्पृथक् चतुष्कम्। तत्र—

(चित्तारम्भेषु —४) चित्तारम्भेषु स्मृत्यादीनामेकस्यैव सद्भावे शुद्धः, द्वयोस्सङ्कीर्णः, त्रयाणां प्रकीर्णः, चतुर्णां विप्रकीर्ण इति। तेषु —

१. शुद्धो यथा—(उराच. २.२६)

चिराद् वेगारम्भी प्रसृत इव तीव्रो विषरसः कुतश्चित् संवेगात् प्रचल इव शल्यस्य शकलः।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः परावृत्तः शोको विकलयति मां नूतन इव॥ २५५॥

२. सङ्कीर्णो यथा—

एताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः।
एतास्ता मधुनो धाराश्‍च्योतन्ति सविषास्त्वयि॥ २५६॥

३. प्रकीर्णो यथा—(विसा. ३.१९)

शीतांशुर्विषशेखरः फणभृतां लीलास्पदं चन्दनं हाराः क्षारपयोभुवः प्रियसुहृत् पङ्केरुहं भास्वतः।
इत्येषां किमिवास्तु वस्तु मदनज्योतिर्विघाताय यद् बाह्याकारपरिग्रहेण तु वयं तत्त्वत्यजो वञ्चिताः॥ २५७॥

४. विप्रकीर्णो यथा—(मेघ. ३)

तस्य स्थित्वा कथमपि पुरः कैतुकाधानहेतो— रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे॥ २५८॥

१. चिन्तारम्भेति रा. — पृ. १५९१ HOS, जो. — पृ. IV — १०८७, द्र. पृ. १४३३ (वागारम्भेषु —४) वागारम्भेषु कार्यशरीरानुगामी प्रकृतः, तद्‌विपरीतोऽप्रकृतः, प्रकृताप्रकृतयोरनुयायी प्रसक्तः, प्रसक्तानुयाय्‌यनुप्रसक्त इति। तत्र—

५. प्रकृतो यथा—(मेघ. ७)

सन्तप्‍तानां त्वमसि शरणं तत्पयोद! प्रिया‌याः सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यान—स्थित—हर—शिरश्चन्द्रिका—धौतहर्म्या॥ २५९॥

६. अप्रकृतो यथा—(मेघ. १३)

मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं सन्देशं मे तदनु जलद! श्रोष्यसि श्रोत्रपेयम्।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्त्रोतसां चोपभुज्य॥ २६०॥

७. प्रसक्तो यथा—(मेघ. २७)

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः।
विद्युद्दामस्फुरितचकितैर्यत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि॥ २६१॥

८. अनुप्रसक्तो यथा—(मेघ. ३३)

भर्तुः कण्ठच्छविरिति गणैः सादरं दृश्यमानः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य।
धृतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या— स्तोय—क्रीडा—निरत—युवति—स्नान—तिक्तैर्मरुद्भिः॥ २६२॥

(बुद्‍ध्यारम्भेषु —४) बुद्ध्यारम्भेषु सादृश्यावलम्बी प्रत्ययः यथा, (तथा), अन्यथा इति। संशयावलम्बी तु उभयथेति। तेषु—

९. यथारूपो यथा —(विक्र. ४.३९)

तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद् विश्रान्तपुष्पोद्‍गमा।
चिन्ता मौनमिवास्थिता मधुकृतां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा॥ २६३॥

नवजलधरः सन्नद्धोऽयं न दृप्‍तनिशाचरः सुरधनुरिदं दूरान्नष्टं न नाम शरासनम्।
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी॥ २६४॥

(विक्र. ४.१) १०. अन्यथारूपो यथा—(विक्र. ४.७)

हृतोष्ठरागैर्नयनोदबिन्दुभिर्निमग्ननाभौ निपतद्भिरङ्कितम्।
च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिद स्तनांशुकम्॥ २६५॥

११. उभयथारुपो यथा—

पथिक! कथितं त्वत्प्रस्थानं गतोऽधिकवासरः श्वसितमधुना वामेनाक्ष्णा तरङ्गितपक्ष्मणा।
प्रतिदिनममी दोषा दोषं हता हतवायसा— स्तदपि दयितो नैवायातः किमालि विपश्यसि॥ २६६॥

(शरीरारम्भेषु —४) शरीरारम्भेषु वक्त्राभिव्यक्तरूपो वक्त्रे, वपुरभिव्यक्तरूपो वपुषि, दृष्ट्यभिव्यक्तरूपो दृष्टौ, चेष्टाभिव्यक्तरूप श्चेष्टायामिति। तेषु —

१२. प्रथमो यथा—

भ्रातः पान्थ! व्रजसि यदि हे तां दिशं पुण्यभाजं वक्तासीत्थं कठिनहृदयं तं जनं किं यथेति।
पृष्टा यावत् कथयति वचो वाञ्छितं नैव बाला तावत् सान्द्रैर्वदनकमलं रुद्धमश्रुप्रवाहैः॥ २६७॥

१३. द्वितीयो यथा—(उराच. ३.४)

परिपाण्डुपांसुलकपोलसुन्दरं दधती विलोलकबरीकमाननम्।
करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी॥ २६८॥

१४. तृतीयो यथा—(मेघ. ८)

त्वामारूढं पवनपदवीमुद्‍गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः।
कस्सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥ २६९॥

१५. चतुर्थो यथा—(मेघ. १०८)

मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो— र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति॥ २७०॥

अथैते देशकालादिभेदैस्सम्भिन्नमूर्तयः।
परस्परं च संपृक्ताः सङ्ख्यामत्येतुमीशते॥ २७१॥

न पर्यन्तो विकल्पानां विरहोद्दीप्‍तिजन्मनाम्।
शब्दब्रह्म—विवर्तानां व्यक्तव्यक्तात्मनामिव॥ २७२॥

(४. विरहप्रतीकारः —११)

विरहप्रतीकारः — स्वाभाविकः, कादाचित्कश्च; याद्‍ृच्छिकः, नायिकाकृतः, नायककृतः, सखीकृतः, परिजनकृतश्च; हेतुविपरीतः, व्याधिविपरीतः, तदर्थकारी, काल्पनिकश्चेति। तत्र —

१. स्वाभाविको यथा—

उन्नाल-बालकमलाकर-माकरन्द-निष्यन्द-संवलनमांसल-गन्धबन्धुः।
त्वां प्रीणयिष्यति पुरः परिवर्तमानकल्लोलशीकरतुषारजडस्समीरः॥ २७३॥

२. कादाचित्को यथा—(उराच. ३.२)

वीचीवातैः शीकरक्षोदशीतैराकर्षद्भिः पद्मकिञ्जल्कगन्धान्।
मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेषितस्तर्पयेति॥ २७४॥

३. याद्‍ृच्छिको यथा—(गास. ७११वे.)

जं मुंच्छिआएँ ण सुओ कलंबगंधेण तं गुणे पडिअं।
इहरा गज्जिअसद्दो जीएण विणा ण वोलंतो॥ २७५॥

(यन्मूर्धितया न श्रुतः कदम्बगन्धेन तद्‍गुणे पतितम्।
इतरथा गर्जितशब्दो जीवितेन विना नापक्रामति न गच्छेत्॥)

४. नायिकाकृतो यथा—(गास. ८३५वे.)

सिविणअ—लद्ध—पिअअम—पुलइउग्गम—णिब्भरेहिं अंगेहिं।
परिरंभणे सुहाइं, पावउ मा णं पबोहेह॥ २७६॥

(स्वप्नलब्धप्रियतमपुलकितोद्गमनिर्भरैः अङ्गैः।
परिरंभणे सुखानि प्राप्नोतु मा एनां प्रबोधयत॥)

५. नायककृतो यथा—(मेघ. ९६)

तस्मिन् काले जलद! यदि सा लब्धनिद्रासुखा स्यात् तत्रासीनः स्तनितविमुखो याममात्रं सहस्व।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित् सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम्॥ २७७॥

आश्‍च्योतनं नु हरिचन्दनपल्लवानां निष्पीडितेन्दुकरकन्दलजोऽनुसेकः ।
आतप्‍तजीवितपुनःपरितर्पणो मे सञ्जीवनौषधिरसो सुहृदि प्रसक्तः॥ २७८॥

(उराच. ३.११) ६. सखीकृतो यथा—

सपदि सखीभिर्निभृतं विरहवतीस्त्रातुमत्र भज्यन्ते।
सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे॥ २७९॥

७. परिजनकृतो यथा—(सक. ५.५४)

सहसा मा साहिज्जउ, पिआगमो तीएँ विरह—किसिआए।
अच्चंत—पहरिसेण वि, जा मआ सा मअ च्चेअ॥ २८०॥

(सहसा मा कथ्यतां प्रियागमस्तस्याः विरहकृशायाः।
अत्यन्तप्रहर्षेणापि या मृता सा मृतैव॥)

८. हेतुविपरीतो यथा—(गास. १.३९)

साहीणे वि पिअअमे पत्ते वि छणे ण मंडिओ अप्पा।
दुग्गअपउत्थवइअं सअंझिअं संठवंतीए॥ २८१॥

(स्वाधीनेऽपि प्रियतमे प्राप्‍तेऽपि क्षणे न मण्डितः आत्मा।
दुर्गतप्रोषितपतिकां प्रातिवेशिनीं संस्थापयन्त्या॥)

९. व्याधिविपरीतो यथा—

मगाअपलद्ववलअं सअंसअं ॰ ॰ ॰ ॰।
दोत्तिण्णं सहच्चिअ चोरि आवेरे हपुसि सिज्झत्ति॥ २८२॥

१०. तदर्थकरी यथा—(गास. ८४०वे.)

चिरपवसिअदइअकआ णिहुणाहि सहीहि विरहसहणत्थं।
अलिआ अवि अवराहा वहूएँ कमसो कहिज्जंति॥ २८३॥

(चिरप्रोषितदयितकृता निपुणाभिः सखीभिर्विरहसहनार्थम्।
अलीका अप्यपराधा वध्वै क्रमशः कथ्यन्ते॥)

११. काल्पनिको यथा—(विसा. २.२)

विलीयेन्दुस्साक्षादमृतरसवापी यदि भवेत् कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम्।
ततस्स्नानक्रीडाजनितजडभावैरवयवैः कदाचिन्मुञ्चेयं प्रियविरहपीडापरिणतिम्॥ २८४॥

(५. सहायाश्वासनम् —७)

वियोगवेदनावेगशान्तये सखीजनादिवाक्यं सहायाश्वासनम्। तत्— आपातारम्भप्रवृत्तिप्रक्रमोद्दीपनाभिनिवेशकालेषु उपपद्यते। तत्र—

१. आपातो यथा—(गास. २.४३)

हरिहिइ पिअस्स णव—चूअ—पल्लवो पढम—मंजरि-सणाहो।
मा रुवसु पुत्ति पत्थाण—कलस—मुह—संठिओ गमणम्॥ २८५॥

(हरिष्यति प्रियस्य नवचूतपल्लवः प्रथममञ्जरीसनाथः।
मा रोदीः पुत्रि! प्रस्थानकलशमुखसंस्थितो गमनम्॥)

२. आरम्भो यथा—

एअ च्चिअ पुत्ति पिअं धरंति आउच्छणे महपअत्ता।
उत्ताणअमुहघोलंतवाहविरिमालणो वाआ॥ २८६॥

३. प्रवृत्तो यथा—

एत्तहिंपुल्लिअ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰।
॰ ॰ ॰ णविजंत विउलइ परमइसु समीरणवारइ॥ २८७॥

५. प्रक्रमो यथा—

पक्ष्माग्रग्रथिताश्रुधौतवलया निष्पन्दतारेक्षणा विभ्राणा करपल्लवेन कलितं क्लाम्यत्कपोलस्थलम्।
सेदानीं लिखितेव कामपि गतावस्थां सखीभिश्चिरा— दासन्नावधि वासरप्रकटितप्रत्याशयाश्वास्यते॥ २८८॥

६. उद्दीपनं यथा—(गास. १.७०)

गिम्हे दवग्गिमसिमइलिआइं दीसंति विज्झसिहराइं।
आससु पउत्थपइए ण होंति णवपाऊसब्भाइं॥ २८९॥

(ग्रीष्मे दवाग्निमषीमलिनितानि द्‍ृश्यन्ते विन्ध्यशिखराणि।
आश्वसिहि प्रोषितपतिके! न भवन्ति नवप्रावृडभ्राणि॥)

७. अभिनिवेशो यथा—

पत्तिअ ण मेहवंदं एअं सहि सूरदीवसिहाए उ कज्जलं।
(सइर—)पडणेण णहखपरम्मि दीअसेहि संगलिअं॥ २९०॥

(प्रतीहि न मेघवृन्दमेतं सखि! सूर्यदीपशिकज्जलं।
(स्वैर—) पतनेन नभःकर्परे दिवसैः संघटितम्॥)

(६. सहायोपालम्भः —१२)

सखीसहायनायकानां मिथः स्वपरादिदोषोद्‍घा(टनं ॰ ॰ ॰ ॰ ॰) ययोरिति द्वादशधा। तत्र—

१. नायकस्य सखीं प्रति यथा—(उराच. ३.२८)

त्रस्तैकहायनकुरङ्गविलोलद्‍ृष्टेस्तस्याः परिस्फुरित—गर्भभरालसायाः।
ज्योत्स्नामयीव मृदुबालमृणालकल्पा क्रव्याद्भिरङ्गलतिका नियतं विलुप्‍ता॥ २९१॥

२. तस्यैव सहायं प्रति यथा—

॰ ॰ ॰ ॰ ॰ कृता कान्ता॥ २९२॥

३. नायिकायाः सखीं प्रति यथा—(गास. २.७७)

सहि दूमेंति कलंबाइं जह मं तह ण सेसकुसुमाइं।
णूणं इमेसु दिअहेसु वहइ गुडिआ—धणुं कामो॥ २९३॥

(सखि दुन्वन्ति कदम्बानि यथा मां तथा न शेषकुसुमानि।
नूनं एषु दिवसेषु वहति गुटिकाधनुः कामः॥)

४. तस्याः सहायं प्रति यथा—(सूमु. १४२)

श्वासा बाष्पजलं गिरस्सकरुणा मार्गेण नेत्रापणे केनेदं न कृतं प्रियस्य विरहे कस्यासवो निर्गताः।
सख्येवं दयितेन नास्मि कथिता कान्तः कथं प्रोषितः प्राणाः सम्प्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा॥ २९४॥

५. सख्या नायिकां प्रति यथा—

अंचलणु धरिओ सुहुं ण गणअमुअणणग्गिइमभग्गे।
तुहं अप्पण/णु दुण्णउ किरेवि एवहिं जूरि म अग्गे॥ २९५॥

६. तस्या एव नायकं प्रति यथा—(सूमु. १६९)

सम्प्राप्‍तेऽवधिवासरे क्षणमसौ त्वद्‍वर्त्मवातायनं वारं वारमुपेत्य निर्घृणतया निश्चित्य किञ्चित् ततः।
सम्प्रत्येव निवेद्य केलिकुररीं सास्त्रं सखीभ्यः शिशो— र्माधव्या सहकारकेण करुणः पाणिग्रहः कल्पितः॥ २९६॥

७. तस्याः सहायं प्रति यथा—(गास. ४.२२)

लुंबीओ अंगणमाहवीणं दारग्गलाओ जाआओ।
आसासो पंथ—पलोअणे वि पिट्टो गअवईणं॥ २९७॥

(स्तबका अङ्गणमाधवीनां द्वारार्गला जाताः।
आश्वासः पान्थप्रलोकनेऽपि नष्टो गतपतिकानाम्॥)

८. सहायस्य नायिकां प्रति यथा—

॰ ॰ णंति विप्पिअं विरहिणीओं ण मणअंमि।
माअन्दमंजरीओ माए एमेअ मारेंति॥ २९८॥

(॰ ॰ नन्ति विप्रियं विरहिण्यो न मनसि।
माकन्दमञ्जर्यो मातः एवमेव मारयन्ति॥)

९. सहायस्य नायकं प्रति यथा—

म अरत्थअसामणुबणहि मुहंपिबाहरसिन्दूरि।
अउक्कग्घेवि तइ हअहूअं हिअए वहंचित उज्जिविसो॥ २९९॥

१०. ॰ ॰ ॰ ॰ (मामा. ९.१९)

अपहस्तितबान्धवे त्वया विहितं साहसमस्य तृष्णया।
तदिहानपराधिनि प्रिये सखि! कोऽयं करुणोज्झितः क्रमः॥ ३००॥

११. सहायस्य सखीं प्रति यथा—(उराच. २.७)

वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति॥ ३०१॥

१२. सहायं प्रति यथा—

ते पुच्छिज्जहि पत्तडं जे तहिं दिसिहि ण एंति।
जेहि स दिट्ठा गोरडी ते दुक्खरं जीअंति॥ ३०२॥

(ते पृच्छ्‌येयुः वार्ता ये तस्याः दिशः न आयान्ति।
यैः सा दृष्टा गौरी ते दुष्करं जीवन्ति॥)

(७. उत्कण्ठाविनोदः —६)

जातौत्सुक्यस्य चेतसः क्रियान्तरेषु व्यासङ्ग उत्कण्ठाविनोदः। स आन्तरो, बाह्यो, बाह्याभ्यन्तरः, प्रसक्तोऽनुप्रसक्तः, प्रसक्तानुप्रसक्तेश्चेति नायकस्य षोढा। नायिकाया अपि बाह्यः, आन्तरः बाह्यान्तरः, प्रसक्तोऽनुप्रसक्तः, प्रसक्तानुप्रसक्तश्चेति क्रमेण षोढैवोदह्रियन्ते। तत्र—

१. नायकस्यान्तरो यथा—(शाकु. ६.१४)

यद् यत् साधु न चित्रेऽस्याः क्रियते तत् तदन्यथा।
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम्॥ ३०३॥

२. तस्यैव बाह्यो बाह्याभ्यन्तरश्च यथा—(शाकु. ६.१८)

कृतं न कर्णार्पितबन्धनं सखे ! शिरीषमाभुग्‍नविलम्बिकेसरम्।
न वा शरच्‍चन्द्रमरीचिनिर्मलं मृणालसूत्रं रचितं स्तनान्तरे॥ ३०४॥

३. तस्य प्रसक्तोऽनुप्रसक्तः प्रसक्तानुप्रसक्तश्च यथा—(शाकु. ६.१७)

कार्या सैकतलीनहंसमिथुना स्त्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः।
शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः श्रृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम्॥ ३०५॥

४. नायिकाना बाह्य आन्तरो बाह्यान्तरश्च यथा—(मेघ. ८४)

आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती।
पृच्छन्ती वा मधुरवचनां शारिकां पञ्चरस्थां कच्‍चिद् भर्तुः स्मरसि रसिके ! त्वं हि तस्य प्रियेति॥ ३०६॥

५. तस्या एव प्रसक्तो यथा—(मेघ. ८५)

उत्सङ्गे वा मलिनवसने सौम्य! निक्षिप्य वीणां मद‍्गोत्राङ्कं विरचितपदं गेयमुद‍्गातुकामा।
तन्त्रीरार्द्रा नयनसलिलैस्सारयित्वा कथञ्चिद् भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती॥ ३०७॥

६. तस्या अनुप्रसक्तः प्रसक्तानुप्रसक्तश्च यथा—(मेघ. ८६)

शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः।
सम्भोगं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः॥ ३०८॥

(८. सन्देशादानम् —१२)

दूरस्थयोर्दूतद्वारकयोः पत्रप्रयोगः सन्देशादानम्। परः, परोवरः, अवरः, प्रत्ययपरोवरश्च, मुख्योऽवान्तरस्तूष्णीं भाक्तश्च, वार्त आर्तवः सौवार्तवः सौखवार्तश्चेति द्वादशधा। तेषु

१. परो यथा—(मेघ. १००)

तामायुष्मन्! मम! च वचनादात्मनश्चोपकर्तु ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः।
अव्यापन्नः कुशलमबले ! पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव॥ ३०९॥

२. परोवरो यथा—

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्‍तेन तप्तं सास्त्रेणास्त्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन।
उष्णोच्छ्‌वासं समधिकतरोच्छ्‍्‍वासिनां दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥ ३१०॥

३. अवरो यथा—(मेघ. १०२)

शब्दाख्येयं यदपि किल ते यस्सखीनां पुरस्तात् कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात्।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृश्य— स्त्वामुत्कण्ठाविरचितपदं सम्मु/मन्मुखेनेदमाह॥ ३११॥

४. प्रत्यवरो यथा—(मेघ. ९७)

भर्तुर्मित्रं प्रियमविधवे! विद्धि मामम्बुवाहं तत्सन्देशैर्मनसि निहितैरागतस्त्वत्समीपम्।
यो बृन्दानि त्वरयति पथि भ्रा/श्राम्यतां प्रोषितानां मन्द्रस्‍निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि॥ ३१२॥

५. मुख्यो यथा—

कुटजकटवो वाता वाताः, श्रुतं घनगर्जितं, निशि निशि मुहुः शून्ये तल्पे कृतः शयनश्रमः।
अवधिगणनारेखापूर्णाः कृता गृहभित्तयो न तव सविधं प्राप्‍ताः प्राणाः न च त्वमिहागतः॥ ३१३॥

६. अवान्तरो यथा—

पान्थ! द्वारवतीं प्रयासि यदि हे तद् देवकीनन्दनो वक्‍तव्यः स्मरमन्त्रमोहविवशा गोप्यो न नामोज्झिताः।
एताः केतकपुष्पधूलिपटलैरालोक्य रम्या दिशः कालिन्दीतटभूमयः कितव ! रे नो यान्ति चिन्तास्पदम्॥ ३१४॥

७. तूष्णीं यथा—

नवाः किं नाम्भोदा न वहति किमासारपवनो निशाः किं वा सर्वा न घनतिमिरच्छन्नककुभः।
प्रियो यस्मिन् देशो व्रजतु पथिको नास्ति लिखितं न जाने सन्देष्टुं सखि! कथय वाच्यं परमतः॥ ३१५॥

८. भाक्तो यथा—

एयं पिअ पे सिज्जउअलाहिओरमह किं थणेहेण।
लेहणिअबोलणोअत्थ हत्थगलिअं पलअंमिस्सा॥ ३१६॥

९. वार्तो यथा—(मेघ. १०८)

इत्यात्मानं बहु विगणयन्नात्मनैवावलम्बे तत् कल्याणि! त्वमपि सुतरां मा गमः कातरत्वम्।
कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥ ३१७॥

१०. आर्तवो यथा—(मेघ. प्रक्षिप्‍त १०२)

धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले! दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति।
घर्मान्तेऽस्मिन् विगणय कथं वासराणि व्रजेयु— र्दिक्संसक्त—प्रबल—जलद—व्यस्त—सूर्यातपानि॥ ३१८॥

११. सौवार्तवो यथा—(मेघ. १०७)

संक्षिप्येत क्षणमपि कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात्।
इत्थं चेतश्चटुलनयने! दुर्लभप्रार्थनं मे गाढोष्णाभिः कृतमशरणं त्वद्‌वियोगव्यथाभिः॥ ३१९॥

१२. सौखवार्तो यथा—(मेघ. १०९)

‘शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ’॥ ३२०॥

(पृ. ९६७)इत्यादि। व्याप्‍तिस्कन्धोऽयमुद्देशनिर्देशाभ्यामुदाहृतः।
अथोदाह्रियते ह्यद्य समाप्‍तिस्कन्धपद्धतिः॥ ३२१॥

(३. समाप्‍तिस्कन्धः — ८)

(१. प्रवृत्त्यागमः —५)

तत्र दूतादिभ्यः प्रियोदन्तलाभः प्रवृत्त्यागमः।

स स्वदूतकृतः, परदूतकृतः, स्वपत्रहारकृतः, सखीकृतः, सहायकृत इति। तेषु—

१. स्वदूतकृतो यथा—(उरा. ४.२५)

देव्यास्सन्ततबाष्पवारिपटलच्छन्नेक्षणायाः करं चूडारत्‍नसमर्पणाय बहुशो यान्तं वृथैवान्यतः।
भ्राम्यन्तं पददश्रुपूरितदृशो हस्तं ममाप्येकतो दृष्ट्वा तत्र निशाचरैरपि निजस्वामी चिरं निन्दितः॥ ३२२॥

२. परदूतकृतो यथा—

पलिअंति पहिअ तुह भवण—दार—सहआर—साहिणो एण्हिं।
घरिणीए कुद्धलोअण—गलंत—जल—पूरिआ हाराः॥ ३२३॥

(प्रदीपयन्ति पथिक! तव भवनद्वार—सहकार—शाखिन इदानीम्।
गृहिण्याः क्रुद्ध—लोचन—गलज्जल—पूरिता धाराः॥)

३. स्वपत्रहरकृतो यथा—(गास. ८४१वे.)

जं जं पउत्थपइआ पिअअम—णामक्खंर लिहइ लेहे।
तं तं से लेहणिआणुसारगलिओ पुसइ सेओ॥ ३२४॥

(यद् यत् प्रोषितपतिका प्रियतमनामाक्षरं लिखति लेखे।
तत् तत् तस्याः लेखनिकानुसारगलितो मार्ष्टि स्वेदः॥)

४. सखीकृतो यथा—

स्वप्‍नान्तरे समुपलभ्य च सा भवन्तं मिथ्योपगूहनविषक्तभुजा प्रबुध्य।
दृष्टोऽसि यन्न शयनेऽथ तदध्यशेत मुग्धा पुनः पुनरलीकनिमीलिताक्षी॥ ३२५॥

५. सहायकृतो यथा—(विसा. ३.२५)

मुक्त्वानङ्गः कुसुमविशिखान् पञ्च तूणीकृताग्रान् मन्ये मुग्धां प्रहरति सखे! पत्रिणा वारुणेन।
बाष्पोत्पीडः कथमपरथा स्थूलनेत्रप्रणाली— वक्त्रोद‍्वान्तस्त्रिवलिविपिने सारणीसाम्यमेति॥ ३२६॥

(२. प्रवृत्ति(परि)प्रश्‍नः —६)

विरहिणोः प्रियोदन्तपृच्छा प्रवृत्तिप्रश्नः।

स ऊर्जितः, दीनः, स्वस्थः, उन्मत्तः, शङ्कावान्, विचित्रश्चेति। तेषु—

१. ऊर्जितो यथा—

केयूरीकृतकङ्कणावलिरसौ कर्णावतंसीकृत— व्यालोलालक (पद्धतिः पथि) पुरो बद्धाञ्जलिः पृच्छति।
यावत् किञ्चिदुदन्तमात्मकमितुस्तावत् स एवेत्यथ व्रीडावक्रितकण्ठनालमबला कैः कैर्न भिन्ना रसैः॥ ३२७॥

२. दीनो यथा—

मध्येसद्म समुत्थिता तदनु च द्वारन्तरालं गता यावत्प्राङ्गणमागतः कथमपि प्रेयांस्तु नालोकितः।
हंहो वायस राजहंस शुक हे हे शारिके कथ्यतां का वार्तेति मृगीदृशो विजयते बाष्पान्तरालं वचः॥ ३२८॥

३. स्वस्थो यथा—

भ्रातः पान्थ! पथि त्वया न पथिकः कश्चित् समासादितो मुग्धे! नैकशतानि कीदृश इति प्रख्याप्यतां वल्लभः।
यं दृष्ट्वा न भवन्ति कीदृश इति प्रेक्षावतामुक्तयः संज्ञेयः दयितो ममेति पथिकायावेद्य मोहं गता॥ ३२९॥

४. उन्मत्तो यथा—(विक्र. ४.२७)

सर्वक्षितिभृतां नाथ! दृष्टां सर्वाङ्गसुन्दरी।
रामा रम्ये वनोद्देशे मया विरहिता त्वया॥ ३३०॥

५. शङ्कितो यथा—

भद्रात्र ग्रामके त्वं वससि परिचयस्तेऽस्ति जानासि वार्ता— मस्मिन्नध्वन्ययोषिद्गुरुतरविरहोत्का न काचिद् विपन्ना।
इत्थं पान्थः प्रवासावधिदिनविगमापायशङ्की प्रियायाः पृच्छन् वार्तां समीपस्थितनिजभवनोऽप्याकुलो नोपयाति॥ ३३१॥

६. विचित्रो यथा—(विक्रमो. ४.२२)

मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्तिं वरतनुरथवासौ नैव दृष्टिं गता ते।
यदि सुरभिमवाप्स्यस्तन्मुखोच्छ‍्वासगन्धं तव रतिरभविष्यत् पुण्डरीके किमस्मिन्॥ ३३२॥

(३. अवधिप्रतीक्षा —६)

प्रियागमनदिनोदीक्षण् अवधिप्रतीक्षा, सा दवीयस्यविदूरा नेदीयस्यपि प्राप्‍तातीता च।

१. तासु दवीयसी यथा—

स्मर्तुं वियोगदिवसान् दयितस्य यां यां रेखां चकार भुवि ताम्ररुचा नखेन।
तां तामरालचलपक्ष्मशिखाग्रभिन्नै— र्मुक्ताफल—द्युतिभिरश्रुभि—रुन्ममार्ज ॥ ३३३॥

२. अविदूरा यथा—

अवधिदिवसाः प्रायेणैते प्रयान्ति कृतागस— स्तनुरपि तनुः स्थातुं शक्ता न कालकलमपि।
ग्लपयति मनो मूर्च्छावेशैर्वियोगविषद्रुम— स्तदलमधुना सख्यश्चिन्ताशतैरसुरक्षणे॥ ३३४॥

३. नेदीयसी यथा—

घरकज्जेण वि जो चलइ जत्थ धावइ तहिं तहिं चेअ।
घरणीए ओहिदिअहे पद्धावइ संकिअं हिअअं॥ ३३५॥

(गृहकार्येणापि यश्‍चलति यत्र धावति तत्र तत्रैव।
गृहिण्या अवधिदिवसे प्रधावति शङ्कितं हृदयम्॥)

४. प्राप्‍ता यथा—

देइ पुलोइअ—परिअणमोहीदिअहम्मि मज्जणुत्तिण्णा।
सूरं जलंजलिं पिअअमवहसोक्‍ककअजीअं सा॥ ३३६॥

(ददाति प्रलोकितपरिजनमवधिदिवसे मज्जनोत्तीर्णा।
सूर्यं जलाञ्जलिं प्रियतम—वहनैककृत जीवितं सा॥)

५. अतीता यथा—

वत्से माधवि! मुग्धिकासि बलवद् वह्नयौकसौ देवताः पान्तु त्वामयमस्तमञ्चति रविर्वीतोऽवधिस्ते पितुः।
शान्तं पापममङ्गलं परमतः श्रव्या न कल्याणिनी कव्यं नव्यमधुव्रताय१ तु मधून्युद्दिश्‍य नो दास्यसि॥ ३३७॥

(४. मार्गोदीक्षणम्— ५)

दयितपथावलोको मार्गोदीक्षणम्। यथा सः गृहात्, गवाक्षतः, अङ्गणतः, उपशल्यकात्, मार्गवृक्षत इति। तेषु—

१. गृहाद् यथा—

दारे हत्थक्खित्ताइ आलणीलंति गलिअवाहाइ।
पिअदंसणूसूआओ मुहाण पहिआणजाआओ॥ ३३८॥

२. गवाक्षतो यथा—

अण्णपहिअम्मि एंते सो त्ति गवक्खओ तं पुलोअंती।
मुणिअवअणा गअवई सहीओ रुइरी रुआवेइ॥ ३३९॥

(अन्यपथिके आयाति स इति गवाक्षतः तं प्रलोकयन्ती।
ज्ञातवदना गतपतिका सख्यः रोदनशीला रोदयत॥)

३. अङ्गणतो यथा—

आलम्ब्याङ्गवापिकापरिसरे स्वेच्छानतां शाखिकां केयूरीभवदल्पशेषवलया बाला समस्तं दिनम्।
सा दैवोपहतस्य मूढमनसो भग्नावधेरद्य मे पन्थानं विधृताश्रुणा वदनकेनालोक्य किं वक्ष्यति॥ ३४०॥

४. उपशल्यकाद् यथा—(अमरु. ७६)

आदृष्टिप्रसरात् प्रियस्य पदवीमालोक्य निर्विण्णया विश्रान्तेषु पथिष्वहः परिणतौ ध्वान्ते समुत्सर्पति।
दत्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियाऽस्मिन् क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम्॥ ३४१॥

१. काव्यं = काव्यं जोरा. ; व्रताय = व्रताद्य जोरा. ५. मार्गवृक्षतो यथा—

पिअवंथू णिअत्तिहिं गोरिअहे दिट्ठि पहिल्ली धाइ।
तणु—गिरिणइ—सोत्ति चड—पुडइणिण कुडुं—इणावइ॥ ३४२॥

तरु—साहउ धुवंतिअहे वग्ग होति थणुल्ला।
तणुअ पिआसहं पत्थुअहंपहेण . . . . ल॥ ३४३॥

(५. दैवनिमित्तशकुनोपश्रुतयः— ४)

प्रियागमज्ञानहेतवो दैवनिमित्थशकुनोपश्रुतयः। तेषु—

१. दैवो यथा—

येष/(षुः स्मरस्य ननु) पञ्चमकण्टकस्था सौम्यास्तृतीयरिपुलाभगताश्च पापाः।
आयान्ति तेषु भवनानि पुनः कृतार्थाः दत्तं द्विजातिषु पुरा विधिवद् यथार्थाः॥ ३४४॥

यथा वा—

जातिमित्रेऽथवा षष्ठे राहौ केन्द्रे च वार्द्युतौ।
प्रोषितागमनं विद्यात् तृतीये ज्ञेऽसितेऽपि वा॥ ३४५॥

२. निमित्तं यथा—

दत्तं पिण्डं नयनसलिलक्षालनाऽऽधौतगण्डं द्वारोपान्ते गतदयितया सङ्गमान्वेषणाय।
वक्रग्रीवश्चलतशिराः पार्श्वसञ्चारिनेत्रः पाशाशङ्कीं गलितवलयं क्रान्तमश्नाति काकः॥ ३४६॥

यथा वा—

तैलाक्तानलकान् कपोलपतितान् सन्धाय कर्णान्तरे वस्त्रान्तेन विलम्बिना सरभसं प्रच्छाद्य पीनौ स्तनौ।
बाला वायसमेवमाह बहुशो दास्यामि ते यत् प्रियं चूतात् केसरपादपं व्रज शनैर्यद्येति मे वल्लभः॥ ३४७॥

—— — ३. शकुनो यथा—(सूमु. १४३)

गतोऽस्तं तिग्मांशुर्व्रज सहचरीनीडमधुना सुखं भ्रातः सुप्यास्सुजनसदृशं वायसकृतम्।
मयि स्नेहाद् बाष्पस्थगितजडदृष्टौ सकरुणं रुदत्या यो यातस्त्वपि स विलपत्येष्यति कथम्॥ ३४८॥

यथा वा—

जाताभीमरयास्तटद्रुमरजःकूलंकषा निम्नगा वान्त्युत्फुल्लकदम्बसौरभधरा मेघङ्करा वायवः।
एतच्चाभिनवो नवाम्बुगुरुभिर्नीतं घनैश्श्यामता— मद्याप्येष विरौति किं सखि!— वृथा वीतत्रपो वायसः॥ ३४९॥

४. उपश्रुतिर्यथा —

तरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते।
अवतर कलहंसि! वापिकां पुनरपि यास्यसि पङ्कजालयम्॥ ३५०॥

यथा वा—

करभकभी पश्चान्मुक्तेत्यनादृतसौष्ठवः किमपि वलितग्रीवं पश्यन्मुहुर्मुहुराकुलः।
व्रजति यदपि स्तोकं गत्वा निवृत्य ततो ध्रुवं पुनरपि भवान्नूनं लब्धानया सह सङ्गमम्॥ ३५१॥

(६. सुस्वप्नदर्शनम्— ६)

मानसप्रत्यक्षेणा प्रियजनावलोकः सुस्वप्नदर्शनम्। सः सम्यगवभासो, मिथ्यावभासः, संक्षिप्‍ताकारः, विक्षिप्‍ताकारः, पर्याप्‍तरूपोऽपर्याप्‍तरूपश्च। तेषु—

१. सम्यगवभासो यथा—

सुधाधाराकारा निशि निशि कुतश्चन्द्रकिरणा- कुतः कान्तानेत्रद्युति कुवलयं वा प्रतिसरः।
कुतः श्राव्या वाचः प्रतिवचनमक्लिष्टरचना प्रतिस्वप्नं चेतो विरम कुत एव प्रियतमा॥ ३५२॥

२. मिथ्यावभासो यथा—(विसा. १. २०)

क्व पेयं ज्योत्स्नाम्भो वदनबिसवल्लीसरणिभि— र्मृणालीतन्तुभ्यः सिचयरचना कुत्र भवतु।
क्व वा पारीमेयो बत वकुलदाम्नां परिमलः कथं स्वप्नः साक्षात्कुवलयदृशं ताम्॥ ३५३॥

३. संक्षिप्‍ताकारो यथा—

स दृष्टः स्वप्नेऽद्य प्रणयकुपितो मां प्रतिजन— स्ततः क्षीणा रात्रिर्न च चरणयोरस्मि पतिता।
कृतं कल्याणानामनभिलषिता सावधि वयः प्रसन्नं तदवक्त्रं न कृतमिति चेतो दहति माम्॥ ३५४॥

४. विक्षिप्‍तरूपो यथा—

जाने कोपपराङ्‍्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः।
नो यावत् परिरभ्य चाटुकशतैराश्वासयामि क्षणं भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः॥ ३५५॥

५. पर्याप्‍तरूपो यथा—(चौरप. २१०)

अद्यापि तां स्मरनिकेतमहापताकां लम्बालकां चिरवियोगकृशाङ्गयष्टिम्।
स्वप्ने विलोलनयनां क्षणदृष्टनष्टां विद्यां प्रमादगलितामिव संस्मरामि॥ ३५६॥

६. अपर्याप्‍तरूपो यथा—

सिविणअ—खण—सुत्तूट्ठिआए पुनरुत्त—दंसण—मणाए—। बालाए णिमीलिअ—लोअणआए दिवसो वि वोलीणो॥ ३५७॥

(स्वप्न—क्षण—सुप्‍तोत्थितायाः पुनरुक्तदर्शनमनसः।
बालायाः निमीलितलोचनाया दिवसोऽपि न अतिक्रान्तः॥)

(७. सुनिमित्तानुभवः— ३)

प्रवासिनः शुभसूचकचक्षुरादिस्फुरणं सुनिमित्तानुभवः।

तन्मनोरथोपगमे, (दूतोपगमे), दयितोपगमे च तत्र—

१. मनोरथोपगमो यथा—(गास. २. ३७)

फुरिए वामच्छि तुए जइ एहिइसो पिओज्ज ता सुइरं।
विणिमिलिअ दाहिण्णअणं तुए अ एअं पुलोइस्सं॥ ३५८॥

(स्फुरिते वामाक्षि त्वयि यद्येष्यति मम प्रिय इति तत् चिरम्।
मीलित्वा दक्षिणानयनं त्वया अवितृष्णं प्रलोकयिष्यामि॥)

जेण जाणु ट्ठिअ-विअलिअ—धवल—वलअ—पडिरोहणेक्करसिआहिं।
वाहाहि कह णु तुएत्ति/तुरिज्जइ मामि पहिअपुरंधीहिं॥ ३५९॥

(येन स्थित—विगलित—धवल—वलय—प्रतिरोधनैकरसिकाभ्याम्।
बाहुभ्यां कथं नु त्वयेति/त्वर्यते सखि! पथिकपुरन्ध्रीभिः॥)

२. दूतोपगमो यथा—(मेघ. ९४)

रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभकुलकुवलयश्रीतुलामेष्यतीति ॥ ३६०॥

यथा वा—(मेघ. ९५)

वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः क्रीडायोगं चिरपरिचितं त्याजितो दैवगत्या।
सम्भोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम्॥ ३६१॥

३. दयितोपगमो यथा—

अज्ज मह इमं सहि दाहिणेअरं पिअअमागमणदूअं।
अवणिअ—खेअं वद्धाविआसि पप्फंदए अच्छी॥ ३६२॥

(अद्य ममेदं सखि! दक्षिणापरं प्रियतमागमनदूतम्।
अपनीतखेदं र्धापितासि प्रस्पन्दते अक्षि॥)

यथा वा—

वामेनैव विलोचनेन भवती दिष्ट‍्या चिरं वर्धिता प्रायः प्राप्स्यसि पारितोषिकमिमं धृष्टो जनो मादृशः।
अस्मिन् प्राङ्गणपीलुकुञ्जविटपे कृत्वा पदं दृश्‍यतां चञ्चत्केसरकन्धरेण करभेणायं वने वल्लभः॥ ३६३॥

(८. प्रियप्रत्यागमः— १२)

प्रवासतो गृहागमनं प्रियप्रत्यागमः। स उदात्तादिनायिकानिमित्तभेदाद् द्वादशधा। तेषु—

१. उदात्तादिनिमित्तो यथा—

आयाते दयिते मरुस्थलभुवां संचिन्त्य दुर्लङ्घयतां गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे।
दत्वा पीलुशमीकरीरकबलं चेलाञ्चलेनादरा— दुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः॥ ३६४॥

२. उद्धतानिमित्तो यथा—

यद्दत्वा लवणाञ्जलिं स्वयमसावुच्छूनताम्रेक्षणा त्वामप्युदगतबाष्पमर्पितवती भूयोऽपि मत्सङ्गमः।
तत्किं निर्घृण विस्मृतं करभ हे येनाद्य पूर्णेनवधौ तस्याः क्रीडसि जीवितेन विजहद‍्गङ्गोपकण्ठे जलम्॥ ३६५॥

३. ललितानिमित्तो यथा—

दृष्टिर्वन्दनमालिका स्तनयुगं लावण्यपूर्णौ घटौ शुभ्राणां प्रकरः स्मितं सुमनसां दन्तप्रभा दर्पणः।
रोमाञ्चोदृम एव सर्षपकणाः पाणी तथा पल्लवौ स्वाङ्गैरेव गृहं प्रियस्य विशतस्तन्व्या कृतं मङ्गलम्॥ ३६६॥

४. शान्तानिमित्तो यथा—

गर्जत्युन्नत एष नीलजलदः क्रूरं कदम्बनिलो मार्गाः (पल्ल) विनो वनानि हरितस्निग्धानि पूर्णोऽवधिः।

आयत्तं तव जीवितं करभ! हे खिन्नोऽपि गच्छ द्रुतं कान्ता यद्यापि तेन कुप्यति तथाप्यस्त्येव मे सङ्गमः॥ ३६७॥

५. धीरानिमित्तो यथा—

मंगल—वलअं जीअं व रक्खिअं जं पउत्थपइआए।
सहस त्ति दंसणूससिअ—बाहुलइआए तं भिण्णं॥ ३६८॥

(मङ्गलवलयं जीवितमिव रक्षितं यत् प्रोषितपतिकया।
सहसेति दर्शनोच्छ्रवसित—बाहुलतिकया तद् भिन्नम्॥)

६. अधीरानिमित्तो यथा—

आसीद् यस्य मुहर्मुहर्विगलितो(तैर्) बाष्पैः समं दुर्धरै— र्दौर्बल्याद् वलयस्य हाटकभुवः पर्याकुला धारणा।
दिष्ट्या वृद्धिकरा यदा तु मधुना तस्यैव चाकर्षणे नान्यानाह्वयते पुनः पुनरसौ नागच्छति प्रेयसि॥ ३६९॥

७. मुग्धानिमित्ता यथा—

पुलिइअमणुज्जुअच्छं सेओ अंगेसु पहरिसो हिअए।
मुद्धाएँ वि जाअं णववहूएँ जामाउए आए॥ ३७०॥

(प्रलोकितमनृज्वक्षं स्वेदोऽङ्गेषु प्रहर्षो हृदये।
मुग्धाया अपि जातं नववध्वा जामातृक आगते॥)

८. मध्यानिमित्तो यथा—(गास. ८२२ वे.)

अत्थक्कागअदिट्ठे वहुआ जामाउअम्मि गुरुपुरओ।
जूरइ णिवडंताणं हरिसविसंट्टाण वलआण॥ ३७१॥

(अकस्माद् आगतदृष्टे वधुका जामातृके गुरुपुरतः।
क्रुध्यति निपतद्भ्यो हर्ष—विषमितेभ्यो वलयेभ्यः॥)

९. प्रगल्भानिमित्तो यथा—(गास. ७. ८३)

अवरण्हागअ—जामाउअस्स विउणेइ मोहणुक्कंठं।
वहूआए घरपरोहडमज्जणमुहलो वलअसद्दो॥ ३७२॥

(अपराह्‍णागतजामातुः द्विगुणयति मोहनोत्कण्ठाम्।
वधुकाया गृहपश्‍चादभागमज्जनमुखरो वलयशब्दः॥)

१०. उत्तमानिमित्तो यथा—

पुलइब्भेब्वेउ पसाहइ दर—कुम्माण—थण।
पहरिस बाहु विहूसइ णिक्कज्जल णअण॥ ३७३॥

अस्सुजलोह वि सोहइ खामकवोले मुहे।
मुद्धहे काइ ण मंडण दइआगमणसुहे॥ ३७४॥

(पुलकोद्भेदः प्रसाधयति ईषन्म्लानौ स्तनौ।
प्रहर्ष: बाहू विभूषयति निष्कज्जले नयने॥
अश्रुजलौधः अपि शोभते क्षामकपोले मुखे।
मुग्धायाः किं न मण्डनं दयितागमनसुखे॥)

११. मध्यमानिमित्तो यथा—

पिए सहसत्ति पहत्तितहे विहवि/ डिअ वलअ।
पुलउत्तंभिअगत्तहे सोहहिं महिहिं गअ॥ ३७५॥

तक्खणमुक्कहो सोअहो णं बंधणकडअ।
णाइ पणट्ठहो विरहहो तरलतुरंगअए॥ ३७६॥

(प्रिये सहसा प्राप्‍ते विघटितानि वलयानि।
पुलकोत्तम्भितगाञ्याः शोभन्ते मह्यां गतानि॥
तत्क्षणमुक्‍तस्य शोकस्य ननु बन्धनकटकानि।
ननु प्रणष्टस्य विरहस्य तरलतुरङ्गपदानि॥)

१२. कनिष्ठानिमित्तो—

बाहजलोल्लिअलोअण थणय ण उप्पुसिअ।
णवि दहिकअक्खअ लइअ ण वंदणमाल किअ॥ ३७७॥

हरिसारंभ—विअंमिअपुलउक्कंप—भर।
पेक्खेवि कंतु पहुत्तउ लग्गी कंठे पर॥ ३७८॥

(बाष्पजवालार्द्रितलोचने स्तनौ न परिमार्जितौ।
नापि दधि—अक्षताः गृहीताः न वन्दनमाला कृता॥
हर्षारम्भ—विजृम्भित—पुलकोत्कम्पभरा।
प्रेक्ष्य कान्तं प्राप्‍तं लग्ना कण्ठे पुनः॥)

उक्ता समाप्‍तिस्कन्धेऽसावुदाहरणपद्धतिः।
दिशानयोऽनुसर्तव्यमनुक्तमपि सूरिभिः॥ ३७९॥

सैव प्रवासशङ्कादिचतुर्विंशतिकन्दलः।
स्मृतोऽनङ्गविहङ्गस्य प्रवासो वसतिद्रुमः॥ ३८०॥

समासव्यासाभ्यां कुसुमधनुषो जीवितमिति प्रवासो निर्णीतः प्रियजनमनोहेमनिकषः।
अथ प्रेमोद्यानप्रणयतरुविस्त्रम्भसुमनो— निवासैकास्थानी सुरभिरभिधीयेत करुणः॥ ३८१॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे प्रवासोपवर्णनो नाम ॥ एकत्रिंशः प्रकाशः॥ ३१॥

सनातनललाटके लिखितमस्ति साहित्यगां मलीमसितलेखिनीमपगतांहसं प्रेक्षितुम्।
प्रवासकलनामयीमितरथा तु गाथामिमा— मसावसदृशीं पुनः सुसदृशीं विधातुं कृती।

अत्रापि सन्ति बहवोऽस्फुटितार्थका हि श्‍लोका विचक्षणधियः खलु तान् धयेयुः।
न प्राकृतं न खलु संस्कृतमप्यशुद्ध— लेखं निजार्थपरिभावनिकासु शक्तम्॥