३० वैधर्म्यतो-मानप्रकाशः

अथ

श्रृङ्गारप्रकाशे त्रिंशः प्रकाशः

वैधर्म्यतो-मानप्रकाशः

एवं साधर्म्यवैधर्म्याभ्यामनुरागस्वरूपमभिहितम्। इदानीं वैधर्म्यतो मानस्वरूपमुच्यते। साधर्म्यतस्तु प्रथमानुरागेणैव। तदुक्तम् — ‘तस्य चतुर्णामपि विप्रलम्भभेदानां साधारणत्वात् (प्रकर्षहेतुत्वाद्) वा सामान्ये विचित्र’ इति (पृ. ११५१—७३)।

वैचित्र्यापेक्षया प्रवासात् प्रथमं मानोऽभिधीयते।

कथं पुनरस्य वैचित्र्यम्? श्रूयताम् —

अयं हि दोषोऽपि मद इव मतङ्गजेषु, विग्रहोऽपि सहकारभाव इव माकन्देषु, कार्श्यादिहेतुरपि तपःप्रबन्ध इव सात्त्विकेषु, प्रियविनो(दोऽपि) त्याग इव वदान्येषु, कटुरपि मरीचावचूर्ण इव भेषजेषु, कलुषोऽपि कज्जलनिवेश इव वनितालोचनेषु, दुरासदोऽपि भ्रमरभर इव प्रसूनसंस्तरेषु, वक्रोऽप्युक्तिविशेष इव कविकाव्येषु, यूनां मनस्सूपजायमानः प्रकर्ष—(हेतवे) प्रेमसम्पदः सम्पद्यते। तदुक्तम्— (सक. ५.१९४)

रइविग्गहम्मि, कुंठीकआओ धाराओ पेम्मखग्गस्स।
अण्णमअ व्व णिसिज्जंति माणसाणीएँ मिहुणाणं॥ १॥

(रतिविग्रहे कुण्ठीकृता धाराः प्रेमखड्गस्य।
अन्नमया इव निशात्यन्ते मानशाण्यां मिथुनानाम्॥)

णूमंति जे पहुत्तं कुविअं दास व्व जे पसाअंति।
ते च्चिव्विअ महिलाणँ पिआ सेसा सामि च्चि/व्विअ वराआ॥ २॥

(गोपायन्ति ये प्रभुत्वं कुपितं दासा इव ये प्रसादयन्ति।
त एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः॥) (गास. १.९१)

अंधस्स/अत्थक्करूसणं खणपसिज्जणं सुणिअवअणणिब्बंधो।
उंमच्छरसंतावो पुत्तअ पअवी सिणेहस्स॥ ३॥

(गास. ७.७५) (अन्तर्हित/अकाण्ड—रोषणं क्षणप्रसादनमलीकवचननिर्बन्धः।
उन्मत्सरसन्तापः पुत्रक पदवी स्नेहस्य॥)

जत्थ ण उज्जागरिओ जत्थ ण ईसा विसूरणं माणो।
सब्भावचाटुअं जत्थ णत्थि, णेहो तहिं णत्थि॥ ४॥

(वल. ३३३) (यत्र नोज्जागरको यत्र नेर्ष्या विगर्हणं मानः।
सद्भावचाटुकं यत्र नास्ति स्नेहस्तत्र नास्ति॥)

(मानलक्षणम्)

कः पुरनयं मानो नाम? यस्यैष त्रिभुवनेऽपि मानो मान इति महान् महत्त्ववादः।

उच्यते—

द्‍ृष्टश्रुताद्यपराधजन्मा मिथो मिथुनमानसेषु रोषो मानः।

स विषयाश्रयालम्बनभेदादनेकप्रकारः।

यस्मिन्मान उत्पद्यते स विषयोऽप्यलीकाऽप्रियादेरपराधस्य कर्ता, धीरोद्धत— धीरललितधृष्टशठादिनायकप्रकारः।

यस्योत्पद्यते स आश्रयोऽप्यलीकविप्रियादीनां षोढा— धीरधीरोद्धतोदात्ता— दिनायकप्रपञ्चः।

यत उत्पद्यते तदालम्बनम्। व्यलीकं विप्रियाद्यपराधः। तेनानयोर्माने मिथो विपर्ययः, परस्पराश्रयविषयभावश्च व्याख्यातः।

स उत्तमः कनीयान् मध्यमश्च, नायिकानायकोभयाश्रयभेदात्। तेषु — नायिकाश्रय उत्तमः। स यथा—(गास. ७.४७)

परिउच्छिआ ण जंपइ गहिआ विप्फुरइ चुंबिआ रुअ/सइ।
तुण्हिक्का णववहुआ कआवराहेण दइएण॥ ५॥

(परिपृष्टा न जल्पति गृहीता विस्फुरति चुम्बिता रोदिति।
तूष्णीका नववधूः कृतापराधेन दयितेन॥)

नायकाश्रयः कनीयान्। स यथा—(गास. ९.१३५) (वे. २७)

तणुआइआ वराई दिअहे दिअहे मअंकलेह व्व।
बहुलपओसेण तुए णिसंसअ अंधआरिअमुहेण॥ ६॥

(तनुकायिता वराकी दिवसे दिवसे मृगाङ्कलेखेव।
बहुलप्रदोषेण त्वया नृशंसक! अन्धकारितमुखेन॥)

उभयाश्रयो मध्यमः। स यथा—(गास. १.२७)

पणअकुइआण दोण्ण वि अलिअपसुत्ताणॅ माणइल्लाणं।
णिच्‍चल—णिरुद्ध—णीसास—दिण्ण—अण्णाण को मल्लो॥ ७॥

(प्रणयकुपितयोर्द्वयोरप्यलीकप्रसुप्‍तयोर्मानवतोः।
निश्चलनिरुद्धनिःश्वासदत्तकर्णयोः को मल्लः॥)

अथैतेषु

१. मानविषयाश्रयालम्बनभेदाः २. मानजातयः ३. मानविशेषाः

४. विषयप्रकीर्णानि ५. आश्रयप्रकीर्णानि ६. आलम्बनप्रकीर्णानि

७. विषयकर्माणि ८. आश्रयकर्माणि ९. प्रकीर्णकर्माणि

१०. मानविकाराः ११. मानोपलक्षणस्थानानि १२. मानोत्पत्तिकारणानि

१३. मानोपलक्षणानि १४. मानोद्दीपनानि १५. मानविलासाः

१६. मानमोट्टायितानि १७. मानसुखानुभावाः १८. मानोत्पत्तिप्रकीर्णानि

१९. मानोपाधिभङ्गाः २०. मानभङ्गकारणानि २१. मानोपशान्तयः

२२. मानोपशमलक्षणानि २३. मानभङ्गेऽवधयः २४. मानानुभावसौख्यानि

चेति चतुर्विंशतिरर्थाः पृथक्पृथक् . . . प्रभेदभिन्नाः क्रमश उदाह्रियन्ते।

(१. मानविषयाश्रयालम्बनभेदाः — ३६)

तत्र विषयाश्रयालम्बनभेदोपभेदेषु धैर्यगुणप्रकृतिप्रवृत्तिनिमित्ताः

१.१ धीरोदात्त-धीरोद्धत-धीरललित-उत्तम-मध्यम-कनिष्ठ-सात्त्विक-राजस-तामस- दक्षिण-शठ-धृष्टनामानो मानोपयोगिनो द्वादशविषयभेदाः;

१.२ गुणवयोधैर्यप्रकृतिनिमित्ताः उत्तमा, मध्यमा, कनिष्ठा, मुग्धा, मध्या, प्रगल्भा, धीरा, अधीरा, उदात्ता, उद्धता, ललिता, शान्ताभिनयना(मानः?) मानसंबन्धिनो द्वादश आश्रयभेदाः।

१.३ प्रत्यक्षादिप्रमाणजन्मानो मानोत्पत्तिहेतवो दृष्टादृष्टार्थापन्न—श्रुताश्रुतार्थापन्न—शङ्कित— संभावितानुमितोपमितविपरीतोत्प्रेक्षितस्मृतस्वप्‍नोपलब्धाह्वया द्वादशैवालम्बनभेदाः।

सैषा विषयाश्रयालम्बनविशेषभेदोपाधिनिबन्धनाः षट्त्रिंशत्तदुपाधिसंज्ञयो— दाह्रियते।

(१.१ विषय भेदाः —१२)

तत्र विषयविशेषोपाधिनिबन्धनेषु —

१. धीरादात्तविषयो यथा—(माघ. ११.३३)

तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्‍तं यद्‍दुकूलं वसानः। मदधिवसतिमागाः कामिनां मण्डनश्रीः व्रजति हि सफलत्वं वल्लभालोकनेन॥ ८॥

२. धीरोद्धतविषयो यथा—(रत्‍ना. ३.१४)

आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि मूर्घ्‍ना।
कोपोपरागजनितां तु मुखेन्दुबिम्ब हर्तुं क्षमा यदि परं करुणा मयि स्यात्॥ ९॥१

४. उत्तमविषयो यथा—(रघु. १४.६२)

कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः।
ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः॥ १०॥

५. मध्यमविषयो यथा—(गास. ९४३वे.)

पेच्छसि अणिमिसणअणो जंपसि विणअं ण दंससे पट्ठि/पिट्ठम्।
को सुहअ तुज्झ दोसो हअहिअअं निट्ठुरं मज्झ॥ ११॥

(प्रेक्षसे अनिमिषनयनो जल्पसि विनयं न दर्शयसि पृष्ठम्।
कस्सुभग तव दोषो हतहृदयं निष्ठुरं मम॥)

६. कनिष्ठविषयो यथा—(गास. ७३१वे.)

उवहारिआए समअं उअ पिंडारे कहं कुणंतम्मि।
णअवहुआए सरोसं सव्व च्‍चिअ वच्‍चआ मुक्का॥ १२॥

(उपभार्यया समं पश्य प्रकोष्ठे कथां कुर्वति।
नववध्या सरोषं सर्व एव वत्सका मुक्‍ताः॥)

७. सात्त्विकाविषयो यथा—(किराता. १०.५५)

यदि मनसि शमः किमङ्ग चापं शठ! विषयास्तव वल्लभा न मुक्तिः।
भवतु दिशतु नान्यकामिनीभ्यस्तव हृदये हृदयेश्वरावकाशम्॥ १३॥

८. राजसविषयो यथा—

लीलावती चरणचुम्बितमौलिमग्रे कान्तं विधूय विहितागसमुच्‍चचाल।
अत्रान्तरे मुखरनूपुरयुग्ममस्याः सौभाग्यगन्धगजडिण्डिमतां जगाम॥ १४॥

NOTES pg=1322! १. तृतीयः धीरललितविषयो नोपलभ्यते। ९. तामसविषयो यथा—(सेब. १९.१५)

ईसामच्छरगरुए साहिक्खेव—परिवड्‌ढि—ओवालंभे।
कह कह वि गमेइ खणं विलक्खहसिएहि कामिणिसमुल्लावे॥ १५॥

(ईर्ष्यामत्सरगुरुकान् साधिक्षेपपरिवर्धितोपालम्भान्।
कथं कथमपि गमयति क्षणं विलक्षहसितैः कामिनी—समुल्लापान्॥)

१०. दक्षिणविषयो यथा—(गास. १.२४)

पिअविरहो अप्पिअदंसणं गुरुआइँ दो वि कज्जाइ।
जीए तुमं कारिज्जसि तीए णमो आहिजाईए॥ १६॥

(प्रियविरहोऽप्रियपदर्शनं च गुरुके द्वे अपि कार्ये।
यया त्वं कार्यसे तस्यै नम आभिजात्यै॥)

११. शठविषयो यथा—

अविशदवलन्नेत्रोपान्तं विलोकनमस्फुटं चकितचकिता वाचः स्पर्शः क्‍वचिज्जनसङ्कुले।
इति तव मया प्रेमारम्भे य एव विलोकिताः कठिनमनसो दृष्टा भावास्त एव विरज्यतः॥ १७॥

१२. धृष्टविषयो यथा—(गास. ८९२वे.)

अललिअइ दिठ्ठि-णिब्भच्‍चिओ वि विहुओ वि लख/ग्गए सिए/सिअए।
पहओ वि चुंबइ बला अलज्जए कह णु कुप्पिस्सं॥ १८॥

(आश्रयते दृष्टिनिर्भर्त्सितोऽपि विधुतोऽपि लग्‍नया शिखया।
प्रहतोऽपि चुम्बति बलादलज्जया कथं नु कोपिष्यामि॥)

(१.२. आश्रयभेदाः —१२)

आश्रयविषयोपाधिनिबन्धनेषु

१. उत्तमाश्रयो यथा—(गास. ६.१३)

हसिएहिं उवालम्भा अच्चुवआरेहिं रूसिअव्वाइं।
अंसूहिं मंडणाइं एसो मग्गो सुमहिलाणं॥ १९॥

(हसितैरुपालम्भा अत्युपचारैः रोषितव्यानि।
अश्रुभिर्मण्डनानि एष मार्गः सुमहिलानाम्॥)

२. मध्यमाश्रयो यथा—(गास. ६.६४)

णवि तह अणालवंती हिअअं दूमेइ माणिणी अहिअं।
जह दूर—विअम्भिअ—गरुअ—रोस—मज्झत्थ—भणिएहिं॥ २०॥

(नापि तथानालपन्ती हृदयं दुनोति मानिन्यधिकम्।
यथा दूरविजृम्भितगुरुकरोषमध्यस्थभणितैः॥)

३. कनिष्ठाश्रयो यथा—(गास. ९४६)

हुं णिल्लज्ज समोसर तं चिअ अणुणेसु जाएँ दे वअणे।
पाअंगुट्ठालत्तअरसेण तिलअं विणिम्मविअं॥ २१॥

(हुं निर्लज्ज समपसर तामेवानुनय यया ते वदने।
पादाङ्गुष्ठालक्तकरसेन तिलकं विनिर्मितम्॥)

४. मुग्धाश्रयो यथा—(अमरु. २९)

सा पत्युः प्रथमापराधसमये शिक्षोपदेशं विना नो जानाति सविभ्रमाङ्गवलना—वक्रोक्तिकर्तव्यताम्।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः॥ २२॥

५. मध्यमाश्रयो यथा—

उत्तिष्ठामि विमुञ्च नाथ! सुतनु! क्‍व प्रस्थिता न क्‍वचिन् नेच्छामि प्रभुणैकमासनमहं जातः कथं वा प्रभुः।
स्वाच्छन्द्यान्ननु किं कृतं तव मया नो किञ्चिदित्थं गिरा तन्वङ्गी दयितं दुनोति रुदती कृत्वा मुखं वक्षसि॥ २३॥

६. प्रगल्भाश्रयो यथा—(अमरु. १८)

‘एकत्रासनसंस्थितिः परिहृता’॥ २४॥

(पृ.११३२) इत्यादि ७. धीराश्रयो यथा—

धरिओ अमरिसपसरो माणक्खलणे वि ण पडिओ चिअ वाहो।
तीए णवरं पिअअमे गहिए अणिअत्तलोअणं णीससिअं॥ २५॥

(धृतोऽमर्षप्रसरो मानस्खलनेऽपि न पतित एव बाष्पः।
तया केवलं प्रियतमेन गृहीते निवर्त्यमानलोचनं निःश्वसितम्॥)

८. अधीराश्रयो यथा—(सूमु. १९५)

यावन्नो सखि! गोचरं नयनयोरायाति तावद् द्रुतं गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः।
दृष्टे धृष्टविचेष्टिते तु कितवे तस्मिन्नवश्यं मम स्वेदाम्भःप्लुतिरोधनिर्भरतनोः स्मेरं मुखं जायते॥ २६॥

९. उदात्ताश्रयो यथा—

भ्रूभेदो न कृतः कृता मुखशशिच्छायादिना/वा मादृशी कालुष्येण न लम्भिताः कलगिरः कोपः स्वतो लक्ष्यते।
यत्प्रागल्भ्यमपास्य सम्प्रति नवीभूतं पुनर्लज्जया यच्चायं विनयादरः प्रणयिना मुक्तो महान् वर्तते॥ २७॥

१०. उद्धताश्रयो यथा—

गोत्राद्गोत्रमुपैति चञ्चलतया या पादमूलात् प्रभो— र्दृष्टा या च पितुर्ममेति पटके दृष्टा पतन्ती जल/डम्।
सेयं सागरिका त्वया पशुपते। मूर्ध्‍ना न नारोपिते— त्युक्तः कोपकषायपाटलदृशा देव्या हरः पातु वः॥ २८॥

११. ललिताश्रयो यथा—(रत्‍ना. २.२१)

भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः॥ २९॥

१२. शान्ताश्रयो यथा—

सख्यः किं परुषैर्विमुञ्चत रुषं तस्यापराधः सकृत् क्षन्तव्यश्चपलस्य मां प्रति पुनः कर्ता प्रियो नाप्रियम्।
इत्थं मानपरिग्रहव्यतिकरं हित्वा तथा प्रत्युत प्रारब्धानुनया यथा परिजनेनैवाकुला हस्यते॥ ३०॥

(१.३ आलम्बनभेदाः —१२)

आलम्बनोपाधिनिबन्धनेषु—

१. दृष्टापराधालम्बनो यथा—

मज्झ समुहावराहं तुह करंतस्स दलिअदक्खिण्णगुणं।
अगणिअ—परिवाअ—भअं जुअइ—जणम्मि वह/पहुत्तणं णिबडिअं॥ ३१॥

(मम समुखापराधं तव कुर्वतः दलितदाक्षिण्यगुणम्।
अगणितपरिवादभयं युवतिजने प्रभुत्वं निपतितम्॥)

२. अदृष्टार्थालम्बनो यथा—(गास. ९३२वे.)

पच्‍चक्खमंतुआरअ जइ चुंबसि मह इमे हअकओले।
तो मज्झ पिअसहीए विसेसओ किस्स तण्णाओ॥ ३२॥

(प्रत्यक्षमन्युकारक यदि चुम्बसि मे इमौ हतकपोलौ।
तस्मान्मम प्रियसख्या विशेषकः कस्मादार्द्रः॥)

३. श्रुतापराधालम्बनो यथा—(गास. ३.१६)

पत्तिअ ण पत्तिअंती जइ तुज्झ ण होंति मज्झ रुअरीए।
पुट्‍ठीएँ बाहबिंदू पुलउब्भेएण भिज्जंता॥ ३३॥

(प्रतीहि न प्रतियन्ती यदि तव न भवन्ति मम रोदनशीलायाः।
पृष्ठे बाष्पबिन्दवः पुलकोद्भेदेन भिद्यमानाः॥)

४. अश्रुतार्थापन्नालम्बनो यथा—(पृ. १३६७)

निर्मग्‍नेन मयाम्भसि स्मरभरादाली समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे! मुधा ताम्यसि।
इत्युत्स्वप्‍नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः॥ ३४॥

५. शङ्कितापराधालम्बनो यथा—(गास. ८६२वे.)

पइण वण्णिज्जंते अक्खाणअसुंदरीए रूवंमि।
ईसामच्छरगरुई घरिणी हुंकारअं देइ॥ ३५॥

(पत्या वर्ण्यमाने आख्यानकसुन्दर्या रूपे।
ईर्ष्यामत्सरगुर्विणी गृहिणी हुंकारकं ददाति॥)

६. सम्भावितापराधालम्बनो यथा—(गास. १.२६)

ण कुणंति च्‍चिअ माणं णिसासु पासुत्तदरविबुद्धासु।
सुण्णइअ—पास—परिमुसण—वेअणं जइ सि जाणंतो॥ ३६॥

(न कुर्वन्त्येव मानं निशासु प्रसुप्‍तदरविबुद्धासु।
शून्यीकृतशयनपरिमुषितवेदनां यद्यज्ञास्यः॥)

७. अनुमितापराधालम्बनो यथा—(गास. ९३१वे.)

णहपअ—पसाहिअंगो णिद्‍दाघुम्मंत—लोअणो ण तहा।
जह णिव्वणाहरो सामलंग दूमेसि मह हिअअं॥ ३७॥

(नखपदप्रसाधिताङ्गो निद्राघूर्णमानलोचने न तथा।
यथा निर्व्रणाधरो श्यामलाङ्ग दूनयसि मम हृदयम्॥)

८. उपमितापराधालम्बनो यथा

गोत्तक्खलणविलक्खो रेहं अ लिहसि किं महीपट्‌ठे।
अह स च्‍चिअ णिवडिआ अणुराअपरव्वसे हिअए॥ ३८॥

(गोत्रस्खलनविलक्षो रेखां च लिखसि किं महीपृष्ठे।
अथ सत्यं निपतिता अनुरागपरवशे हृदये॥)

९. विपरीतापराधालम्बनो यथा—

भुजगफणसहस्त्रस्वच्छरत्‍नाप्‍तबिम्बे निजवपुषि सपत्‍नीशङ्कयेर्ष्याकुलायाः।
समणिहृदयघातान्नूनमब्धेः सुतायाश्‍चरणमवतु मृद्‍नन् कंसविध्वंसकृद् वः॥ ३९॥

१०. उत्प्रेक्षितापराधालम्बनो यथा—(गास. १.७१)

जेत्तिअमेत्तं तीरइ णिव्वोढुं देसु तेत्तिअं पणअं।
ण अणो विणिअत्त—पसाअ—दुक्खदुस्सहण—क्खमो सव्वो॥ ४०॥

(यावन्मात्रं शक्‍नोति निर्वोढुं देहि तावन्तं प्रणयम्।
न जनो विनिवृत्तप्रसाददुःखदुस्सहनक्षमः सर्वः॥)

११. स्मृतापराधालम्बनो यथा—(सक. ५.३२२)

थोआरूढमहुमआ खणपम्हठ्ठावराहदिण्णुल्लावा।
हसिऊण सण्णविज्जह पिएण संभरिअपुलओच्चआ पिआ कावि॥ ४१॥

(स्तोकारूढमधुका क्षणप्रस्मृतापराधदत्तोल्लापा।
हसित्वा संज्ञाप्यते प्रियेण संभृतपुतलकोच्‍चया प्रिया कापि॥)

१२. स्वप्‍नोपलब्धापराधालम्बनो यथा—(मेघ. ११०)

भूयश्चाह त्वमसि शयने कण्ठलग्‍ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वरं विप्रबुद्धा।
सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे दृष्टः स्वप्‍ने कितव रमयन्कामपि त्वं मयेति॥ ४२॥

(२. मानभेदजातयः —२४)

अथामीषामेव भेदाश्चतुर्विंशतिर्मानभेदजातय उच्यन्ते। ते च भामः, कोपः, क्रोधः, उत्प्राशः/सः, रोषः, ईर्ष्यायितं, मन्त्रायितं, असूयितं, वैमनस्यं, उन्मादः, मन्युः, मात्सर्यम्, अभिनिवेशः, अवज्ञा, विसूरणं, वैलक्ष्यं, अनुशयः, कालुष्यं, क्षोभः, आवेगः, अमर्षः, कोपातिरेकः, उग्रत्वं, प्रणयकलह इति। तेषु —

१. स्त्रीणां ललितकोपो भामः। (यथा कुसं. ६.४५)

भ्रूभेदिभिर्विकम्पोष्ठैर्ललिताङ्गुलितर्जनैः।
यत्र कोपैः कृता स्त्रीणामप्रसादार्थिनः प्रियाः॥ ४३॥

यथा वा—(रत्‍ना. २.१७)

दृष्टिं रुषा क्षिपसि यद्यपि भामिनी मां स्‍निग्धेयमेष्यति तथापि न रूक्षभावम्।
त्यक्त्वा वरां व्रजसि चेत् स्खलितैरयं ते खेदं गमिष्यति गुरुर्नितरां नितम्बः॥ ४४॥

२. वल्लभादौ वैमनस्यहेतुः कोपो यथा—

दूमेइ अ मे हिअअं पुणो पुणो वि रहसंगजुत्ताणुणअं।
दोसपराहुत्तठिअं वलंतमण्णुणिव्वोलिआहरं तीए मुहं॥ ४५॥

(दुनोति च मे हृदयं पुनः पुनरपि रहस्सङ्गयुक्‍तानुनयम्।
दोष—पराङ्मुखस्थितं वलन्मन्यु—मलिनिताधरं तस्या मुखम्॥)

यथा वा—(हरिवि.)

पट्ठंति मअण—पसर—प्पसाअ—सम्मुहा विलासिणीसमुल्लावा।
तीएँ उण तस्स दीरइ रोसपराहुत्तजंपिएहि वि हिअअं॥ ४६॥

(पठ्‍यन्ते मदनप्रसरप्रसादसंमुखा विलासिनीसमुल्लापाः।
तया पुनस्तस्य दीर्यते रोषपराङ्मुखजल्पितैरपि हृदयम्॥)

३. स एव स्वात्ययादिहेतुः क्रोधो, यथा—

मंतूण वि हरविजिअं. . . . इअणोसरिअं।
माइ रमणक्खलणं रेज्जतुजअई ण तिलअलहुई ण पिआ॥४७॥

यथा वा—

मज्झं च्‍चिअ वअणिज्जं अमरंतीए गुरुए (वि तुह अवराहे)।
सोहग्गपट्टचूडो मा लज्जविओ तुमं णु पावसि अअसं॥ ४८॥

(ममैव वचनीयमम्रियमाणाया गुरुके(ऽपि तव अपराधे)।
सौभाग्यपट्टचूडो मा लज्जितः त्वं ननु प्राप्‍नोषि अयशः॥)

४. प्रियादिषु व्याजनिन्दोत्प्राशो/सो यथा—(हरिवि.)

सा कुसुमेहि गुरुइआ मह वि कओ सुहअ दंसणेण पसाओ।
कह अ ण पि/पसाअसद्‍दो लग्गइ ण सहिअअस्स इमस्स तुह॥ ४९॥

(सा कुसुमैर्गुरूकृता ममापि कृतस्सुभग दर्शनेन प्रसादः।
कथंचन प्रसादशब्दो लगति न सहृदयस्य अस्य तव॥)

यथा वा—

कीरइ गुणो वि दोसो सेवंतम्मि वि दिणे ण दिज्जइ दिट्‍ठी।
अजस्स ण बिहिज्जइ जह गहिअं तह पहुत्तणं रमणिज्जं॥ ५०॥

(क्रियते गुणोऽपि दोषः, सेवमानेऽपि दीने न दीयते दृष्टिः।
अयशसो न भीयते यथा गृहीतं तथा प्रभुत्वं रमणीयम्॥)

५. प्रियापराधान्मनस्संरम्भो रोषो यथा—

तह बंधणअणुराए तह संमोह—विअलंत—विसमालावे।
ते च्‍चि तीएँ मअगुणा रोस त्ति ठिआ पसाअविमुहंमि मुहे॥ ५१॥

(तथा बद्धानुरागे तथा सम्मोहविगलद्‍‌विषमालापे।
त एव तस्या मदगुणा रोष इति स्थिताः प्रसादविमुखे मुखे॥)

यथा वा—

णअणपहोलिरबाहप्फुरिआहरमेत्तणीसहं अ अणीसं।
दूमेइं घरगआएँ रोसविरमालणपरं हिअअं॥ ५२॥

{नयनप्रघूर्णनशीलबाष्पं स्फुरिताधरमात्रनिस्सहं विततनिःश्वासम्।
दुनोति गृहमागच्छन्त्याः रोष—गोपन—परं मम हृदयम्॥}

६. समानासु दानमानाद्यमर्षणमीर्ष्यायितं यथा—

वाओरद्दपणवंइरिवविरइअकण्णवअंसदुप्पेच्‍चे।
वाहगुरुअणसंमइबाहुए वहुमुहे दिष्ठी॥ ५३॥

(॰॰॰ विरचितकर्णावतंसदुष्प्रेक्षे।
गुरुजनसम्मतिवाहके वधूमुखे दृष्टिः॥)

यथा वा—(गास. २.६)

जो तीए अहर—राओ रत्तिं उव्वासिओ पिअअमेण।
सो च्‍चिअ दीसइ गोसे सवत्तिणअणेसु संकंतो॥ ५४॥

(यस्तस्या अधरारागो रात्रावुद्‍वासितः प्रियतमेन।
स एव दृश्यते प्रभाते सपत्‍नीनयनेषु संक्रान्तः॥)

७. अनुभयापेक्षो मन्युर्मन्त्रायितं यथा—(सक. ५.२६४) (हरिवि.)

कुविआ अ सच्‍चहामा समे वि वहुआण णवर माणक्खलणे।
पअडिअहिअअसारो पेम्मासंगसरिसो पवट्ठइ मण्णू॥ ५५॥

(कुपिता च सत्यभामा अनुसृता पत्या केवलं मानस्खलने।
प्रकटितनिजसारः प्रेमासङ्गसदृशः प्रवर्तते मन्युः॥)

यथा वा—(विसा. १.१९)

‘अत्रान्तरे ललितहारलता’॥ ५६॥

(पृ.६४८) इत्यादि ८. परर्द्ध्यसहनमसूयितं यथा—

तोणी णिअपेम्म—पडिपसाअ—दूणमाणं असहंति चलिआ।
जाव पइणो चलंतणेउर—पलाव—कड्‌ढिअ—हिअआ॥ ५७॥

(तस्मात् निजप्रेमप्रतिप्रसाददूनासहमाना चलिता।
यावत् पत्युः चलन्नूपुरप्रलापकठिनहृदया॥)

यथा वा—

गोत्राद् गोत्रमुपैति चञ्चलतया या पादमूलात् प्रभो— र्भ्रष्टा या च पितुर्ममेव कटके दृष्टा वहन्ती जलम्।
सेयं सागरिका त्वया पशुपते मूर्धानमारोपिते— त्युक्तः कोपकषायपाटलदृशा देव्या हरः पातु वः॥ ५८॥

९. हर्षावसादो वैमनस्यं यथा—

णीसासागमधूसरो त्ति महुरो तंबोलकाओच्छिदो हुं दुक्कं चिगलेसि दंच वअणं बाहुल्लगंडांकिणो।
दा माणं बहुवल्लहस्स हिअअं (दु)व्वारिजं माणिणी एण्हिं मा परितम्मगाढहिअआ गोदूण सव्वंसहा॥ ५९॥

(निःश्वासागमधूसरोऽतिमधुरः ताम्बूल. . . हुं दुःखं . . वदनं बाष्पार्द्रगण्डाङ्कितम्।
तन्मानं बहुवल्लभस्य हृदयं दुर्वारि यन्मानिनी इदानीं मां परिताम्यद्गाढहृदया . . . सर्वंसहा॥)

यथा वा—

वेसेण णत्थि दुक्खकअं च अत्तपेमणं मसंमि पिओ उहुइ।
वेशावणरमणरण्णअमाण(णि)णीए माणक्खलणं॥ ६०॥

१०. विरुद्धवाक्यादिजः कोषानुशय उन्मादो यथा—

साहसु विलासिणि—अणं जे अहिलेंति सरसावराहा पिअआ।
किं हअदक्खिण्णगुणाणं पहवंताण सुहअ एस सुहाओ॥ ६१॥

(कथय विलासिनी—जनमेव अभिलीयन्ते सरसापराधाः विविधाः।
किं हतदाक्षिण्यगुणानां प्रभवतां सुभग एष स्वभावः॥)

यथा वा—(गास. ६.११)

आम सा सुहअ गुणमणोरूवसोहिरी, आम णिग्गुणा अ अहं।
जो वा तीए ण सरिसो सो किं सव्वो जणो मरउ॥ ६२॥

(आम सा सुभग! तव गुणरूपशोभनशीला आम निर्गुणा चाहम्।
यो वा तस्या न सदृशः स किं सर्वो जनो म्रियताम्॥)

११. अपराधजन्मदुःखोत्पादितो मन्युर्यथा—

आसूत्र्यन्ते श्वसितमरुतो यत्कुचोत्सेधकम्पै— रन्तर्ध्यानात् त्रुटति च बहिर्यादृशो लक्षलाभः।
पक्ष्मोत्क्षेपव्यतिकरहितो यश्च बाष्पस्तदेते भावाश्चण्डि! द्रवितहृदयं मन्युमावेदयन्ति॥ ६३॥

यथा वा—(अमरु. ८१)

कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुर्लग्‍न : कण्ठे तरलयति बाष्पस्स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे! न तु वयम्॥ ६४॥

१२. परगुणसम्भावनाऽसहिष्णुता मात्सर्यम् यथा—(गास. ६.१०)

वेसोसि जीअ पंसुल अहिअअरं सा हु वल्लहा तुज्झ।
इअ जाणई वि मए ण ईसिअं दड्ढपेम्मस्स॥ ६५॥

(द्वेष्योऽसि जीव! पांसुल अधिकतरं सा खलु वल्लभा तव।
इति जानन्त्या अपि मया न ईर्ष्यितं दग्धप्रेम्णः॥)

यथा वा—(गास. ७५३वे.)

स च्चिअ रामेउ तुमं पंडिअ इति अलं म्ह रमिएण।
सब्भाववाहिराइँ लज्जा जाणई अग्गमग्गाइं॥ ६६॥

(स एव रमयति त्वां पण्डित इत्यलमस्माकं न रमितेन।
सद्‍भावबाह्यानि लज्जा जानाति अग्रवर्त्मानि॥)

१३. अभिनिवेशः यथा—

ण सहि अणुणअभणिअं ण देसि पसरंतरोसमुक्कामरिसा।
कह आ ए करं चिअ दूरविसव्वइअणिट्ठुरं तुह हिअअं॥ ६७॥

(न सखि! अनुनयभणितं न ददासि, प्रसरद्रोषमुक्तामर्षम्।
कथमा एकरसमेव दूरविसंवदितनिष्ठुरं तव हृदयम्॥)

यथा वा—(गास. २.२९)

तह माणो माणहणाएँ तीअ एमेअ दूरमणुबद्धो।
जह से अणुणीअ पिओ एक्कग्गाम च्चिअ पउत्थः॥ ६८॥

(तथा मानो मानधनाया तथा एवमेव दूरमनुबद्धः।
यथा तस्या अनुनीय प्रिय एकग्राम एव प्रोषितः॥)

१४. अवज्ञा यथा—

छिन्दानं हृदयं मतिं बिधुरया दाक्षिण्यमुन्मीलयन् देवोत्प्रासनया जनेन जनितं यत्प्रेम सापि प्रियम्।
सोढुं हन्तुमपेक्षितुं जरयितुं निह्नोतुमुत्पुंसितुं निध्यातुं गदितुं च न प्रणयिभिः तज्जन्मना पार्यते॥ ६९॥

यथा वा—(गास. १.५३)

पेम्मस्स विरोहिअसंदिट्ठिअस्स पचक्खदिट्ठविलअस्स।
हिअअस्स व ताविअसंअलस्स विरसो रसो होई॥ ७०॥

(प्रेम्णः विरोधितसंदृष्टस्य प्रत्यक्षदृष्टविलयस्य।
हृदयस्येव तापितसंशीतलस्य विरसो रसो भवति॥)

१५. विसूरणं यथा—(गास. ९३०वे.)

हंहो किंव ण दिट्ठं हला मए जीविअं धरंतीए।
सो मं अणुणेइ पिओ अहं वि अणुणज्जिमि हआसा॥ ७१॥

(अहो किं वा न दृष्टं सखि मया जीवितं धरन्त्या।
स मामनुनयति प्रियः, अहमपि अनुनेष्यामि हताशा॥)

यथा वा—

पुरासीदस्माकं तनुरियमभिन्नैव सततं ततो नु त्वं प्रेयान् वयमपि हताशाः प्रियतमाः।
इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं मयाप्‍तं प्राणानां कुलिशकठिनानां फलमिदम्॥ ७२॥

१६. प्रियावमानाद् विलक्षादिभ्यो लज्जा वैवक्ष्यं यथा—

ण पिअइहज्झपइ ॰ ॰ ॰ ॰ ॰ ॰।
समुहपडिवक्ख—विलिआतंमेतुम्महइ वाअडच्चिअ मरिसं॥ ७३॥

यथा वा—(कुसं. ३.७५)

शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समीक्ष्य ललितं वपुरात्‍मनश्च।
सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथञ्चित्॥ ७४॥

१७. विप्रियस्य पुनः पुनः स्मरणमनुशयः, यथा— (द्र. ३५.३० पृ. १५८७)

तक्खण-जणिअ-परिपसं-भरिअ-विरोध-संग-जुत्ताणुसअं तीए।
गरुअंणिसंमलगओ णिअत्तं पिअमरिसे च्चिअ हिअअं॥ ७५॥

{तत्क्षणजनितपरिप्रश्‍नसंस्मृतविरोधसङ्गयुक्तानुशयं तस्याः।
गुरुअं श्यामलाङ्गया निवृत्तं प्रियामर्ष इव हृदयम्॥}

यथा वा—

अमुणिक्खणलद्धसुहे तक्खणसंभरिअमंतुदूमिअविहलो।
हिअए मा णवरं ण चिरं ण चिरेण पणअगरुओ पस्स मइ रोसो॥ ७६॥

(अज्ञातक्षणलब्धसुखे तत्क्षणसंस्मृतमन्युदूनविह्वलः।
हृदये मा केवलं न चिरं न चिरेण प्रणयगुरुकः पश्य मयि रोषः॥)

१८. विप्रियोपरागाच्चित्ताशुद्धिः कालुष्यं यथा—

तं चिअ अ सोहइ माणो समुहं जाव पणअं ण खंडेति पिआ।
खलिओ अ पणअपसरो पच्छा माणवइआ णिअंतअओ॥ ७७॥

(तावदेव च शोभते मानः सम्मुखं यावत् प्रणयं न खण्डयति प्रिया।
स्खलितश्च णयप्रसरः पश्चात् मानवत्या नियन्त्रणकः॥)

यथा वा—

वरं भ्रूभङ्गस्ते प्रकटितगुरुक्रोधविभवाः वरं सोपालम्भाः प्रणयविमुखा गद्गदगिरः।
वरं मानारोपप्रसभजनितोऽनादरविधि— र्निगूढान्तःकोपा कठिनहृदये संवृतिरियम्॥ ७८॥

१९. प्रियापराधजधैर्यध्वंसः क्षोभो यथा—

भङ्गं भ्रुवोः श्वसितमानदमश्रु चक्षुः खेदं मनस्तनुलता च मलीमसत्वम्।
नैवावगाहितुमलं सुतनोस्तदेष मन्येऽनुपायपरवत्‍त्वमुपैति कोपः॥ ७९॥

यथा वा—

धीरं धरिअं पि गअं दूरवलग्गो वि पिअ णिओ मअराओ।
लहइ अ पेम्मंधंमं किलम्मइ पअ/डइ वेल/वविसे हिअअं॥ ८०॥

(धैर्यं धृतमपि गतं दूरावलग्नोऽपि प्रिय! निजो मदरागः।
लभते च प्रेमान्ध्यं क्लाम्यति पतति वञ्चनाविषे हृदयम्॥)

२०. व्यलीकानुसन्धानात् क्रोधोद्भेद आवेगो यथा—

तोधा लज्जापणआ भणइ विअक्खणविअण्णदिट्ठिओ।
हासविसेस-मंतुगरिइकअ-कंठध्द-परिक्खलंत-विसमुल्लावा॥ ८१॥

(ततः सा लज्जाप्रणया भणति विचक्षणविषण्णद्‍ृष्टया।
‌ हासविशेषमन्युगुरूकृतकण्ठार्धपरिस्खलद्‌विषमोल्लापा॥)

यथा वा—(गास. ९१४ वे.)

उम्मूलंती व हिअअं अणुणिज्जंतीओ माणवत्तीओ।
सम्ह/भरिअमण्णुणिब्भरबाहभरोद्‍भूलिअ/भरोरुम्भिअमुहीओ॥ ८२॥

(उन्मूलयन्तीव हृदयं अनुनीयमाना मानवत्यः।
संस्मृत—मन्यु—निर्भर—बाष्प—भरोपरुद्ध—मुख्यः॥)

२१. कृतापराधेषु क्रोधाप्रशान्तिरमर्षो यथा—(गास. ४.७६)

अवरज्झसु एत्ताहे वीसत्थच्चिअ जणम्मि णिफल-मउए।
काउं णिक्किव दुक्खं पत्तिअ सहिअं उच्च एक्कस्स-च्चिअ हिअअं॥ ८३॥

(अपराध्यस्वेदानीं विश्वस्त एव जने निष्फलमृदुके।
कृत्वा निष्कृप दुःखं प्रतीहि सहितमुच्चैरेकस्यैव हृदयम्॥)

यथा वा—(गास. ४.७५)

तेण ण मरामि मण्णूहिँ पूरिआ अज्ज, जेण, रे सुहअ।
तग्गअमणा मरंती मा तुज्झ पुणो वि लग्गिस्सं॥ ८४॥

(तेन न म्रिये मन्युभिः पूरिताद्य येन रे सुभग।
तद्गतमना म्रियमाणा मा तव पुनरपि लगिष्यामि॥)

२२. कोपातिरेकश्च . . . यथा—(शाकु. ५.२३)

मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयिनि (यम) प्रतिपद्यमाने।
भेदाद् भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य॥ ८५॥

यथा वा—

इअ सावराह-पिअअम-दंसण-पसरंत-रोस-पज्जलिओ।
सोहइ विअंभिअ-संरंभ-विब्भमो माणिणीसत्थो॥ ८६॥

(इति सापराधप्रियतमदर्शनप्रसरद्‍रोषप्रज्वलितः।
शोभते विजृम्भितसंरम्भविभ्रमो मानिनीसार्थः॥)

२३. तदेवानुनयासाध्यमुग्रता यथा—

दइअगभिअव्वणवदिअमुहलिअभुआइआ कावि।
रोसविअसंतविसेसपत्तलं एसिअसुभइ॥ ८७॥

यथा वा—(गास. २.६०)

अच्छोडिअवत्थद्धंतपत्थिए मंथरं तुमं वच्च।
चिंतेसि थणहराआसिअस्स मज्झस्स वि ण भंगं॥ ८८॥

(बलादाकुष्टवस्त्रार्धान्तप्रस्थिते मन्थरं त्वं व्रज।
चिन्तयसि स्तनभरायासितस्य मध्यस्यापि न भङ्गम्॥)

२४. अपराधतः प्रियाभिभर्त्सनताडनादिकरणं प्रणयकलहः यथा—(गास. ९४६वे.)

हुं णिल्लज्ज समोसर तं चिअ अणुणेसु जाए दे वअणे।
पाअंगुट्ठालत्तअरसेण तिलअं विणिम्मविअं॥ ८९॥

(हुं निर्जज्ज समपसर तामेवानुनय यया ते वदने।
पादाङ्गुष्ठालक्‍तकरसेन तिलकं विनिर्मितम्॥)

यथा वा—

पादे मूर्धनि ताम्रतामुपगते कर्णोत्पले चूर्णिते छिन्ने हारलतागुणे करतले सम्पातजातव्रणे।
अप्राप्‍तप्रियताडनव्यतिकरा हन्तुं पुनः चेतसा वाञ्छन्ती मुहुरेणशाबनयना पर्याकुलं रोदिति॥ ९०॥

(३. मानविशेषाः —२४)

अथैतेषां विशेषाश्चतुर्विंशतिः — सहजः, आहार्यः, यौवनजः, विस्रम्भजः, स्थिरः, भङ्गुरः, समः, विषमः, प्रकाशः, गूढः, चण्डः, मृदुः, उद्भटः, मसृणः, ऋजुः, वक्रः, साध्यः, कृच्छ्रसाध्यः, याप्यः, असाध्यः, पुराणः, जीर्णः, पुनर्नवः, नव इति। तेषु —

१. सहजानुरागजन्मा सहजो यथा—(गास. ९६७ वे.)

केलिगोत्तक्खलणे वरस्स पफ्पुल्लइं दिहिं देइ।
बहुवासकवासगृहे वहुए बाहोल्लिआ दिट्ठी॥ ९१॥

(केलीगोत्रस्खलने वरस्य प्रफुल्लां धृतिं ददाति।
बहुवासकवासगृहे वध्वाः बाष्पार्द्रिता द्‍ृष्टिः॥)

२. आहार्यानुरागजन्मा आहार्यो यथा—(गास. ९४१वे.)

अलिअकुविअं पि कअमंतुअं व मं जेसु सुहअ अणुणेंतो।
ताण दिअहाण हरणे रुआमि, ण उणो अहं कुविआ॥ ९२॥

(अलीककुपितामपि कृतमन्तुकां व मां येषु सुभग! अनुनयन्।
तेषां दिवसानां स्मरणे रोदिमि न पुनरहं कुपिता॥)

३. यौवनानुजरागजन्मा यौवनजः, स यथा—(गास. ९२४वे.)

अइ पीणत्थण उत्थंभिआणणे सुअणु सुणसु मह वअणं।
अथिरम्मि जुज्जइ ण जोव्वणंमि माणो पिए काउँ॥ ९३॥

(अतिपीनघनस्तनोत्तम्भितानने सुतनु श्रृणु मम वचनम्।
अस्थिरे युज्यते न यौवने मानः प्रिये कर्तुम्॥)

यथा वा—(सक. २.६३)

ज्योतिर्भ्यस्तदिदं तमः समुदितं जातोऽयमद्‍भ्यश्शिखी पीयूषादिदमुच्छ्रितं विषमयं च्छायाप्‍तजन्मातपः।
को नामास्य विधिः प्रशान्तविधये बाढं द्रढीयानयं व्याधिर्यत्प्रियतोऽपि विप्रियमिदं सख्यः कृतं सान्त्वनैः॥ ९४॥*

५. विनाशकारणैरविनाशनीयः स्थिरः, यथा—(अमरु. ३८)

‘कोपो यत्र भ्रुकुटिघटना’॥९५॥

(पृ.६४१) इत्यादि ६. विनापि कारणं विनश्वरो भङ्गुरः स यथा—(अमरु. २८)

भ्रूभेदे रचितेऽपि द्‍ृष्टिरधिकं सोत्कण्ठमुद्‍वीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते।
कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते द्‍ष्टे निर्वहणं स वक्ष्यति/भविष्यति कथं मानस्य तस्मिन् जने॥ ९६॥

७. उत्पत्तेराप्रकर्षमविच्छिन्नैकरूपसन्तानः समः, स यथा—(सक. ३.१२७)

एंतो वि ण सच्चविओ गोसे पसरंतपल्लवारुणच्छाओ।
मज्जणतंबेसु मओ तह मअलोअणेसु अमरिसो॥ ९७॥

(आगच्छन्नपि न दृष्टः यथा मे प्रसरत्पल्लवारुणरागः।
मज्जनताम्रयोर्मदस्तथा मदलोचनयोरमर्षः॥)

८. विच्छिद्यमानसन्तापो विषमः, स यथा—(सक. ५.४९२)

धीरेण माणभंगो माणक्खलणेण गुरुअ—धीरारंभो।
उल्ललइ तुलिज्जंते एकंमि पि से थिरं ण लग्गइ हिअअं॥ ९८॥

{धैर्येण मानभङ्गे मानस्खलनेन गुरुकधैर्यारम्भः।
उल्ललति तोल्यमाने एकस्मिन्नप्यस्याः स्थिरं न लगति हृदयम्॥}

NOTES pg=1337! * अतः परं ‘विस्रम्भजः’ नोपलभ्यते। ९. आविर्भूतोपलक्षणः प्रकाशः, स यथा—

दुक्खंतरिअ-मणसुहं पिएण विमण-विलिओणएण पुलइअं।
रोसागमपडिवेल्लिअ-विसम-विरज्जंत-लोअणं तीएँ मुहं॥ ९९॥

(दुःखान्तरित-मनस्सुखं प्रियेण विमनस्कव्रीडितावनतेन प्रलोकितम्।
रोषागम-प्रतिवेल्लित-विषम-विरज्यमानलोचनं तस्या मुखम्॥)

१०. अनाविर्भूतलक्षणो गूढः, स यथा—(गास. ८६९वे.)

साहिप्पंति ण कस्स वि रोत्तूण णेअ पाअडिज्जंति।
माणविआरा कुलपा/बालिआएँ हिअए विलावेंति॥ १००॥

(साधयिष्यन्ति तस्या अपि रुद्‍ध्वा नैव पातयिष्यन्ति।
मानविकाराः कुलपा/बालिकाया हृदये विलीयन्ते॥)

११. भूतप्रभूतचिह्नश्चण्डः, स यथा—(गास. २.९२)

आअंबंतकओलं खलिअक्खरजंपिरिं फुरंतोट्ठिं।
मा च्छिवसु त्ति सरोसं समोसरंतिं पिअं भरिमो॥ १०१॥

(आताम्रान्तः-कपोलां स्खलिताक्षरजल्पनशीलां स्फुरदोष्ठीम्।
मा स्पृशेति सरोषमपसर्पन्तीं प्रियां स्मरामः॥)

१२. तद्विपरीतो मृदुः, स यथा—

भिउडी ण कआ कडुअं ण आलविअं, अहरं ण पम्मुठ्ठं।
उवऊहिआ ण रुण्णा एएण अ जाणिमो माणं॥ १०२॥

(भ्रुकुटी न कृता, कटुकं नालपितं, अधरो न प्रमृष्टः।
उपगूहिता न रुदिता एतेनापि जानीमो मानम्॥)

१३. आविष्कृतविकृतानेकरूप उद्भटः, स यथा—

क्षणविकसितो दीर्घश्वासैः क्षणं मुकुलीकृतः कृतकहसितैर्व्यक्तो मौनप्रतिक्रियया क्षणम्।
क्षणविकसितो नर्मालापैरिति क्रमसूचित— स्थगितविषमो मुग्धे! मानः कदर्थयतीव माम्॥ १०३॥

१४. धैर्यान्तर्हितगम्भीराभोगो मसृणः, यथा—

यद् गम्यं गुरुगौरवस्य सुहृदो यस्मिन् लभन्तेऽन्तरं यद्दाक्षिण्यवशादुपैति सहते यच्चोपचारानपि।

यल्लज्जा विरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्ययः तत्किं प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम्॥ १०४॥

१५. (अनुद्‍भिन्न)मुद्धिन्नहृद्‍गतार्थोऽनृजुः, स यथा— (अमरु. ९४)

इदं कृष्णं कृष्णं प्रियतम! ननु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनापि भवतु।
पुरा येनैवं मे चिरमनुसृता वाक्यपदवी स एवान्यो जातः सखि! परिचिताः कस्य पुरुषाः॥ १०५॥

१६. ऋजुप्रत्यनीकरूपो वक्रः, स यथा—

अङ्गस्यास्य मम स्वभावतनुता मातः करोम्यत्र किं जाते जागरणारुणे च नयने व्यालोलतारे यदि।
कोपस्यावसरोऽत्र कः कथमपि स्मेरं च नाभून्मुखं तेनोक्तः सखि! किञ्चिदेष चरणावाक्रम्य येन स्थितः॥ १०६॥

१७. प्रशमयितुं शक्यसाधनः साध्यः। स यथा—

तं णत्थि जं सहिअणो ण भणेज्ज पच्छक्खमंतुदूमिअहिअअं।
अणुणेज्जा जंपंतो जइ णवरं वम्महो मिअंको व विओ॥ १०७॥

(तन्नास्ति यत् सखीजनो न भणेत् प्रत्यक्षमन्युदूनहृदयम्।
अनुनयेत् जल्पन् यदि केवलं मन्मथो मृगाङ्क इव प्रियः॥)*

१९. प्रकर्षभङ्गमात्रोपशान्तशालिभिः प्रयत्‍नैरनुन्मीलनीयो याप्यः, स यथा—

स्मृतिस्वप्‍नावाप्‍तत्वदखिलविलासव्यसनिनो न मे दूरस्थायां त्वयि बलवदुत्कण्ठि हृदयम्।
परं विज्ञातैवं तव तरुणि! चण्डत्वमधुना श्रुते वा स्वप्‍ने वा यदि भवति वामैव भवति॥ १०८॥

२०. सर्वप्रयत्‍नानामगोचरोऽसाध्यः, स यथा—(अमरु. ६०)

लाक्षालक्ष्म ललाटपटट्मभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसोः क्रीडातामरसोदरे मृगदृशः श्वासाः समाप्‍तिं गताः॥ १०९॥

NOTES pg=1339! * अतः परं ‘कृच्छसाध्यः’ नोपलभ्यते २१. मनःपर्युषितडम्बरः पुराणः, स यथा-(गास. ७०९वे.)

ण वि तह तक्खण-सुअ-मंतुदुक्खविअणाउराओँ वि रुअंति।
जह दिट्ठम्मि पिअअमे अणुणिज्जंतीओँ तरुणीओ॥ ११०॥

(नापि तथा तत्क्षणश्रुतमन्युदुःखवेदनातुरा विरुदन्ति।
यथा द्ष्टे प्रियतमे अनुनीयमानास्तरुण्यः॥)

२२. मानसो मनसोऽवस्त्रस्तवीर्यो जीर्णः, स यथा—

विलीनो विस्रम्भः सपदि तदपि प्रेम गलितं च्युताश्चित्राकाराः प्रणयसुभगास्ता अपि गिरः।
प्रियस्यैवं तत्तद् विनयबहिरङ्गव्यवसितं किमन्यद् दुःखानां हृदयनगरीचत्वरमसि॥ १११॥

२३. प्रशम्योद्‍भूतः पुनर्नवः, स यथा—

चतुरचटुभिर्गाढाश्लेषैर्हठात् परिचुम्बनै— रलककलनैर्वारं वारं गतोऽप्यतिमन्दताम्।
अपरवनितासङ्गाल्लग्नं विलोक्य विलेपनं कुवलयदृशः कोपः कान्ते पुनर्नवतां गतः॥ ११२॥

२४. सद्यः समुपजायमानो नवः, स यथा—

भवतु विदितं व्यर्थालापैरलं प्रिय! गम्यतां, तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः।
तव यदि तथारूढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नः पीडा गते हतजीविते॥ ११३॥

(४. विषयप्रकीर्णानि —८)

अथैतेष्वेव विशयाश्रयालम्बनप्रकीर्णकानि चतुर्विंशतिः। तत्र

१. विषयप्रकीर्णकेषु स्वपतिविषयो यथा—

प्रवृत्तैव प्रयामीति वाणी वल्लभ! ते मुखात्।
अयातापि त्वयेदानीं मन्दप्रेम्णा करोमि किम्॥ ११४॥

२. उपपतिविषयो यथा—(गास. ५.४५)

अकअण्णुअ तुज्झ कए पाउसराईसु जं मए खुण्णं।
उप्पेक्खामि अलज्जिर अज्ज वि तं गामचिक्खिल्लं॥ ११५॥

(अकृतज्ञ तव कृते प्रावृड्‍रात्रिषु यो मया क्षुण्णः।
उत्पश्याम्यलज्जाशील! अद्यापि तं ग्रामपङ्कम्॥)

३. प्रोषितविषयो यथा—

सहि ताव अच्छउ च्चिअ अलाहि किं बाहुएण लेहेण।
एआरिसं लिहंताण एंति पहिआ विएसाओ॥ ११६॥

(सखि तावदास्तामेव, अलं किं बहुकेन लेखेन।
एताद्‍ृशं लिखतां यन्ति पथिका विदेशात्॥)

४. समागमविषयो यथा—(गास. ८४९वे.)

कंठग्गहणेण सअज्झिआएँ अब्भागओवआरेण।
बहुआए पिअम्मि वि आगअम्मि सामं मुहं जाअं॥ ११७॥

(कण्ठग्रहणेन सैरन्ध्रिकाया अभ्यागतोपचारेण।
वध्वाः प्रियेऽप्यागते श्यामं मुखं जातम्॥)

५. कलहान्तरिताविषयो यथा—(गास. ५.२०)

अह सो विलक्खहिअओ मए अहव्वाए अगहिआणुणओ।
पर-वज्ज-णच्चरीहिं तुह्मेहिं उवेक्खिओ णेंतो॥ ११८॥

(अथ स विलक्षहृदयो मया अभव्यया अगृहीतानुनयः।
पर-वाद्य-नर्तनशीलाभिर्युष्माभिरुपेक्षितो निर्यन्॥)

६. खण्डिताविषयो यथा—(गास. ९३७वे.)

णह-पअ-पसाहिअंगो णिद्‍दाघुम्मंत-लोअणो ण तहा।
जह णिव्वणाहरो सामलंग दूमेसि मह हिअअं॥ ११९॥

(नखपदप्रसाधिताङ्गो निद्राघूर्णमानलोचनो न तथा।
यथा निर्व्रणाधरो श्यामलाङ्ग दूनयसि मम हृदयम्॥)

७. वञ्चकविषयो यथा—(रघु. १९.१७)

अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम्।
मेखलाभिरसकृच्च बन्धनं वञ्चयन् प्रणयिनीरवाप सः॥ १२०॥

८. चिरकारिविषयो यथा—(गास. ४.८५)

एहिइ पिओत्ति णिमेसं व जग्गिअं जामिणीए पडमद्धं।
सेसं संतावपरवसाए वरिसं व बोलीणं॥ १२१॥

(एष्यति प्रिय इति निमेषमिव जागरित यामिन्याः प्रथमार्धम्।
शेषं संतापपरवशाया वर्षमिव व्यवलीनम्॥)

(५. आश्रयप्रकीर्णानि —८)

१. आश्रयप्रकीर्णकेषु खण्डिताश्रयो यथा—(गास. ७.५३)

पच्चूसागअ रंजितदेह पिआलोअ—लोअणाणंद।
अण्णत्त—खविअ—सव्वरि णहहूसण दिणवइ णमो दे॥ १२२॥

(प्रत्यूषागत! रञ्जितदेह! प्रियालोकलोचनानन्द!।
अन्यत्र क्षपितशर्वरीक! नभो/खभूषण! दिनपते! नमस्ते॥)

२. कलहान्तरिताश्रयो यथा—

हत्थसलिलाहआए अवहीरंतीएँ दिण्णसहिसंलावं।
कलहंतरिआए विअअणाहणं तीए दूमिओ पडिवक्खो॥ १२३॥

(हस्तसलिलाहतया अपहरन्त्या दत्तसखीसल्ँलापम्।
कलहान्तरितयैव गतनाथानां तया दूनः प्रतिपक्षः॥)

३. वासकसज्जाश्रयो यथा—

णिम्मविअ—मंडणाणं वि सोहा वासअ—माणिआणं विमलिआ।
मोहं णेव पइणो परिओसो च्चिअ पसाहणं जुवईणं॥ १२४॥

(निर्मितमण्डनानामपि शोभा वासकविमानितानां विमलिता।
मोघं नैव, पत्युः परितोष एव प्रसाधनं युवतीनाम्॥)

४. अभिसारिकाश्रयो यथा—

मा श्रौषीः सखि! यद् वदामि बलवत्प्राणान्तिकोत्कण्ठया निव्रीडास्मि कृता भविष्यति पुनर्मानप्रसूतं यशः।
को दोषः स्वयमानयामि यदि तं तस्यापराधैरहं नो दूये स यथातथास्तु मनसः सा धारणा नान्यतः॥ १२५॥

५. विप्रलब्धाश्रयो यथा—

कृतककृतकैर्मायाशाठ्यैः त्वयास्म्यतिवञ्चिता निभृतनिभृतैः कार्यालापैर्मयाप्युपलक्षितम्।
भवतु विदितं नेष्टाहं ते न मे दयितो भवान् अहमसहना त्वं निःस्नेहः समेन समं गतम्॥ १२६॥

६. प्रोषितपतिकाश्रयो यथा—

सहि ताव अच्छउ च्चिअ अलाहि किं बाउएण लेहेण।
एआरिसं लिहंताण एंति पहिआ विएसाओ॥ १२७॥

(सखि! तावत् आस्तामेव, अलं किं बहुकेन लेखेन।
एताद्‍ृशं लिखतां यन्ति पथिका विदेशात्?॥)

७. विरहोत्कण्ठिताश्रयो यथा—(गास. १.१७)

एहिइ विओ पउत्थो, अहं अ कुप्पेज्ज, सो वि अणुणिज्ज।
इअ कए वि फलइ मणोरहाणं माला पिअअमम्मि॥ १२८॥

(एष्यति प्रियो प्रोषितो अहं च कोपिष्यामि सोऽप्यनुनेष्यति।
इति कस्या अपि फलति मनोरथानां माला प्रियतमे॥)

८. स्वाधीनभर्तृकाश्रयो यथा—

पश्यन्ती निजमेव भर्तुरधरे दन्तव्रणं खिद्यते साशङ्कं स्वयमप्यमार्गपतितान् कृत्वा नखान् कुप्यति।
तन्वी सर्वविवेकहारिणि पदे रागस्य तत्र स्थिता यत्रात्मापि वृथा विकल्पकलितः कोपाय सञ्जायते॥ १२९॥

(६. आलम्बनप्रकीर्णानि —८)

१. आलम्बनप्रकीर्णकेषु परिहासालम्बनो यथा—(गास. ९२३ वे.)

परिउच्छिआ ण जंपइ चुंबिज्जती बला मुहं हरसि।
परिसूसमाणवि मुहे परिअंचि/परिचिअं मणं मह दूमेसि॥ १३०॥

(परिपृष्टा न जल्पसि चुम्ब्यमाना बलात् मुखं हरसि।
परिशुष्यमाणापि मुखे परिचितं मनो मम दुनोसि॥)

२. आशंसालम्बनो यथा—

होज्ज वणे सो दिअहो जत्थ पिओ मज्झ मंत्तुकअरोसं।
अणुणेज्ज णे सहिअणो चिरं णिहुअत्तणि अच्छिज्ज॥ १३१॥

३. जिज्ञासालम्बनो यथा—(उराच. ३.३७)१

अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद् गोदावरीसैकते।

NOTES pg=1343! १. आकरो मृग्य इति राघवः। आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्मलनिभो मुग्धः१ प्रणामाञ्जलिः॥ १३२॥

४. उपदेशालम्बनो यथा—

(अलिअं वंचअ—) वअणं पिज्जइ हालाहलविसमसज्जं।
जं हिअअं अबलंबधिरं/अवलंबिअ धीरं दिज्जसि माणस्स एत्ताहे॥ १३३॥

{(अलीकं वञ्चक) वचनं पीयते हालाहलं विषमसह्यम्।
यद्‍ हृदय! अवलम्ब्य धैर्यं दीयसे मानायेदानीम्॥}

५. कुतूहलालम्बनो यथा—

भ्रूभेदे रचितस्तदीक्षणपरे निस्तर्जिते लोचने गात्रं प्रावृतमंशुकेन सकलं वृत्तिर्गिरां संयता।
चेतः कौतुकविह्वलं भ्रमति मे तत् केन वा द्‍ृश्यते गत्वा दूति! तमानय प्रियतमं मानः कृतोऽयं मया॥ १३४॥

६. कैतवालम्बनो यथा—

द्रष्टव्यादपसारिते च नयने रुद्धे च बाष्पाम्भसा कान्तं च स्फुरणेन गण्डयुगलं जातं च हर्षोल्लसत्।
औत्सुक्याद् विनिवर्तितं च हृदयं मग्नं च चिन्तार्णवे मानश्चाह्रियते प्रिये दयितया प्रेम्णा न च क्षम्यते॥ १३५॥

७. कारणालम्बनो यथा—

अव्वोकज्जेण विणाअद्धकपअत्तपाहराहिल्लो।
उच्चडतापरिओसो रोसो वि ण होइ वेताला॥ १३६॥

८. प्रतापालम्बनो यथा—

रस&सिअज्झअ&कअधिक्कारणा&जणिअ&णिच्च&कोवाणा/कोवाए।
पुत्तअ! वेआरिज्जसि अलिअपदुहणए सोण्हाए॥ १३७॥

(रसिकाध्याय—कृताधिकारणा—जनितनित्यकोपनया।
पुत्रक! व्यापार्यसे अलीकपृथुस्तनया स्नुषया॥)

NOTES pg=1344! १. मुग्धः = बद्धः रा.जो. (७. विषयकर्माणि —६)

अथ विषयाश्रयप्रकीर्णकर्माणि। तानि प्रत्येकं षोढा। तेषु — १. मानवैकृतानि २. मानवितर्काः ३. मानभङ्गोपायाः ४. मानपरिप्रश्‍नाः ५. चित्रचाटूक्तयः ६. प्रियोपालम्भाश्चेति विषयस्यापराधकर्तुः कर्माणि। तेषु —

(१. मानवैकृतानि)

मनोद्‍ृग्वक्त्रवाग्वपुश्चेष्टासु वैलक्ष्याभ्युत्पत्त्यादयो मानवैकृतानि। तत्र मनसि वैलक्ष्यमनुशयश्च, द्‍ृशि ज्ञानान्यथात्वं (भ्रमणं) च वक्त्रे छायाभ्रंश उत्कण्ठावेशश्च, वाचि वैक्लव्यं प्रविलापश्च, वपुषि सन्तापो विषयव्यावृत्तिश्च, चेष्टायामारम्भस्तदभिशङ्का चेति। तत्र —

१. मनसि वैलक्ष्यं यथा—

पणअक्खलणविलक्खं तस्स ॰ ॰ ॰।
॰ ॰ ॰ किं कए व्व पिअ मुहं किलंइ हिअअं॥ १३८॥

(प्रणयस्खलनविलक्षं तस्य ॰ ॰ ॰।
॰ ॰ ॰ किं कृत इव प्रिय मुखं, क्लाम्यति हृदयम्॥)

२. तत्रैवानुशयो यथा—

रे विअअंधआर—विअडं एक्कं दोहणवि उह विअणावासं।
वड्ढिताए विसमअं मअणाणुसआण से वहुप्पइ हिअअं॥ १३९॥

(रे विततान्धकारविकटं एकं द्वयोरपि पश्य वेदनावासम्।
वर्धिताया विषमयं मदनानुशयानां तस्याः भविष्यति हृदयम्॥)

३. द्‍ृशि ज्ञानान्यथात्वं यथा—(सक. ५.१४५)

परिअट्ठंते णिसिसमए मंडलिअकुसुमाउहं व अणंगं।
विरहम्मि मण्णइ हरी णहे अणत्थपरिउट्ठिअं व मिअंकं॥ १४०॥

(परिवर्धमाने निशासमये मण्डलित—कुसुमायुधमिवाऽनङ्गम्।
विरहे मन्यते हरिर्नभस्यनर्थप्रत्युत्थमिव मृगाङ्कम्॥)

४. (भ्रमणं) यथा—

गहणद्धपणंमि गरुअचिंतालहिअं पेच्छइ पुरओ।
पुरओ वठिअं रोसालं भंत लोअणं तीए मुहं॥ १४१॥

(ग्रहणार्धपणे गुरुकचिन्तालब्धं प्रेक्षते पुरतः।
पुरतो वलितं रोषवद् भ्रान्तलोचनं तस्या मुखम्॥)

५. वक्त्रे च्छायाभ्रंशो यथा—

पुरओ चिंतअवलआ पच्छा अपराहगोरकपिसंवलआ।
विरअंति किं दवेत्तिअ हरिणो अणुणअमणोरामुहसोहं॥ १४२॥

६. तत्तै(त्रै)वोत्कण्ठावेशो यथा—

ससिदिण्णवसद्धक्खो ओरादिअधीरहिअअलद्वा ॰ ॰।
॰ ॰ सक्कं हरिम्मपि विरहुक्कंठो॥ १४३॥

७. वाचि वैक्लव्यं यथा—

उग्गाहिअपंहुट्ठा दरजंपणमुक्कबहलणीसासा।
साहंति विरहदुक्खं असमत्तवअक्खरावि से उल्लावा॥ १४४॥

(उद्ग्राहितप्रस्मृता दरजल्पनमुक्तबहलनिःश्वासाः।
कथयन्ति विरहदुःखं असमाप्‍तवचोऽक्षरा अपि तस्या उल्लापाः॥)

८. तत्रैव विप्रलापो यथा—(सक. ५.३४१)

असमत्तो वि समप्पइ अपरिग्गहिअलहुआ परगुणालाओ।
तस्स पिआपडिबंधा ण समप्पइ रइ—सुहा समत्ता वि कहा॥ १४५॥

(असमाप्‍तोऽपि समाप्यते अपरिगृहीतलघुकः परगुणालापः।
तस्य प्रियाप्रतिबद्धा न समाप्यते रतिसुखा समाप्‍तापि कथा॥)

९. वपुषि सन्तापो यथा—

॰ ॰ वा अ चिंतिअं वि संवइ ओसाहिणो वि अपणीओ।
॰ ॰ ॰ ॰ तीए समागममणोरहो छलपइणो॥ १४६॥

(॰ ॰ वा च चिन्तितमपि सम्प्रति उत्साहिनोऽपि अपनीतः।
॰ ॰ ॰ ॰ तस्याः समागममनोरथो छलपतेः॥)

१०. तत्रैव विषयव्यावृत्तिर्यथा—(हरिवि.)

संवड्ढिअसंतोसा फुरंतकोत्थुहमणिप्पहासंवलिआ।
विउणिअमणसंतावा जाआ सविसेसदूसहा ससिकिरणा॥ १४७॥

(संवर्धित—संतोषाः स्फुरत्कौस्तुभमणिप्रभासंवलिताः।
द्विगुणितमनस्संतापा जाता सविशेषदुस्सहा शशिकिरणाः॥)

११. चेष्टायामारम्भो यथा—(लीलावती. ५६७)

ण सहइ कालक्खेवं वो मुणिओ गंतुं…..हआणुराहेहि।
॰ ॰ ॰ ॰ ॰ ॰ ॰ तस्स गमणारंभो॥ १४८॥

(न शोभते कालक्षेपो वां ज्ञातो गन्तुं हतानुरागैः।
॰ ॰ ॰ ॰ ॰ ॰ ॰ तस्य गमनारम्भः॥)

१२. तत्रैव तदभिशङ्का यथा—

जह जह तीए भवणं पावइ कअदूस्सहावराहविलक्खो।
तह तह से अहिअअरं हिअअं गरुअम्मि संसअंमि णिसण्णं॥ १४९॥

(यथा यथा तस्याः भवनं, प्राप्नोति कृतदुस्सहापराधविलक्षः।
तथा तथा तस्या अधिकतरं हृदयं गुरुके संशये निषण्णम्॥)

(२. मानवितर्काः)

१. मानसत्तानुबन्धप्रकर्षसम्पर्कानुगमपुनःप्रादुर्भावेषु विविधालोचनं वितर्कः यथा—

(कान्तं विद्धं प्रणयगुरुभिः कामबाणैर्निशान्ते)१ द्‍ृष्ट्वा मुग्धस्मितमविकृतं कोपसम्पर्कशंसि।
यामीत्युक्तं भृशमपटुतामात्मनः ख्यापयन्त्या मानस्यान्तर् विरचितपदस्येयमारम्भलीला॥ १५०॥

२. तत्रैव वैविध्यं यथा—

अरुणं भवत्युदश्रु च रजोऽपि करुणैर्विकूणितं चक्षुः।
मन्युं विना तु न स्युः कण्ठोरःकुण्ठिता वाचः॥ १५१॥

३. मानानुबन्धो यथा—

ललाटः सन्धत्ते (श्रमजललवान् सं-)२ स्पृहयति (स्मितिं बिम्बप्रख्यं दशनवसनद्वन्द्वमधुना।)३
मुखेन्दुर्माञ्जिष्ठीमवतरति सद्यःपरिणतिं प्रियायास्तन्मन्युर्जितमदनतन्त्रो विजयते॥ १५२॥

४. तत्रैव वैविध्यं यथा—

तीए दंसणसुहए पणअक्खलणजणिओ मुहम्मि मणहरे।
रोसो वि हरइ हिअअं मअपंको व्व मललंछणंमि णिसण्णो॥ १५३॥

NOTES pg=1347! १—३. एतत्त्रितयमस्मत्कृता लोपपूर्त्तिः। {तस्या दर्शनसुभगे प्रणयस्खलनजनितो मुखे मनोहरे।
रोषोऽपि हरति हृदयं मदपङ्क इव मृगलाञ्छने निषण्णः॥}

५. मानप्रकर्षो यथा—(गास. ६.६४)

‘ण वि तह अणालंवती’॥ १५४॥ (पृ.१३४०)

६. तत्रैव वैविध्यं यथा—(रत्‍ना. ३.१५)

समारूढप्रीतिप्रणयबहुमानात् प्रतिदिनं व्यलीकं वीक्ष्येदं कृतमकृतपूर्वं खलु मया।
प्रिया मुञ्चत्यद्य ध्रुवमसहना जीवितमसौ प्ररूढस्य प्रेम्णः स्खलितमविषह्यं हि भवति॥ १५५॥

७. मानसम्पर्को यथा—(रत्‍ना. २.२१)

भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेद॥ १५६॥

इत्यादि। (पृ. ८८८) ८. तत्रैव वैविध्यं यथा—

तदेवाजिह्माक्षं मुखमविशदास्ता गिर इमाः स एवाङ्गक्षेपो मयि सरसमाश्लिष्यति तनुम्।
यदुक्तप्रत्युक्तं तदपटु शिरःकम्पनपरं प्रिया मानेनाहो पुनरपि१ कृता मे नववधूः॥ १५७॥

९. मानस्यागमो यथा—(गास. १.८८)

जाणइ जाणावेउं अणुणअ—विद्दविअ—माणपरिसेसं।
पइरिक्कम्मि वि विणआवलंहणं स च्चिअ कुणंती॥ १५८॥

(जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम्।
प्रतिरिक्तेऽपि विनयावलम्बनं सैव कुर्वती॥)

१०. तत्रैव वैविध्यं यथा—

कुप्यत्यकस्मात् कुपितापि रम्या स्वयं प्रसादं समुपैति पश्चात्।
स्वयं प्रसन्नेति बिभर्ति लज्जामतूर्यकं प्रेक्षणकं प्रिया मे॥ १५९॥

NOTES pg=1348! १. पुनरवीति राघवजोशेरौ। ११. मानस्य पुनः प्रादुर्भावो यथा—

तुच्छीकृतः किमपि संवृतसम्भ्रमेण मन्युः/मन्ये पुनर्बहुलतां गत एष मन्युः।
(कुर्वन्ति किन्तु कुचकुड्मलमध्य-) लम्बामेकावलीमिव यदश्रुकणाः पतन्तः॥ १६०॥

१२. तत्रैव वैविध्यं यथा—

भवतु रुषि कठोरा किन्तु रम्या मृगाक्षी निरुपधि मधुराणां स्वादवोऽमी विकाराः।
श्रयति कठिनभावः शुक्तिपात्रेष्वपो याः कवलनबहुमानस्तास्सुसुक्ताफलान्तः/लन्ति ॥ १६१॥

(३. मानभङ्गोपायाः)

मानापनयने सामदानभेददण्डयोगा मानभङ्गोपायाः। तेषु —

प्रियवचनमनुवृत्तिः प्रणाम इति त्रिविधं साम।

अतिसन्धानं समर्पणं ॰ ॰ ॰ मिति त्रिविधं दानम्।

शङ्काद्युत्पादनमिन्द्रजालं मायेति त्रिविधो भेदः। उपेक्षा प्रतिकोपः प्रस्थानमिति त्रिविधो दण्डः। तत्र सामप्रकारेषु

१. प्रियवचनं यथा—(गास. ९२५ वे.)

तरलच्छि चंदवअणे थोरत्थणि करिअरोरु तणुमज्झे।
दीहावि समप्पइ सिसिरजामिणी कह णु दे माणो॥ १६२॥

(तरलाक्षि! चन्द्रवदने! स्थूलस्तनि! करिकरोरु! तनुमध्ये!।
दीर्धापि समाप्यते शिशिरयामिनी कथं ननु ते मानः॥)

२. अनुवृत्तिर्यथा— (गास. १.८६)

एक्कं पहरु व्विण्णं हत्थं मुहमारुएण वीअंतो।
सो वि हसंतीए मए गहिओ वीएण कंठम्मि॥ १६३॥

(एकप्रहरोद्विग्नं हस्तं मुखमारुतेन वीजयन्।
सोऽपि हसन्त्या मया गृहीतो द्वितीयेन कण्ठे॥)

३. प्रणामो यथा— (हरिविजयः)

तो इअ सुरअरुकारण-मउलिअ—हिअआए सावसेस-लहुओ।
संभाविअ च्चिअ हिओ हरिणा पाअपडणंमि तीएँ अमरिसो॥ १६४॥

(तत इति प्रियानुवर्तनमुकुलितहृदयायाः सावशेषलघुकः।
संभावित एव हृतो हरिणा पादपतने तस्या अमर्षः॥)

४. दानप्रकारेष्वतिसन्धानं यथा—

दोहं चिअ हिअअरं विआए णिव्वडइ पिअअमेसु पसाओ।
णीसामण्णापकओ अकरेमाणो वलअर ॰ ॰॥ १६५॥

(द्वाभ्यामेव हितकरः प्रियाः निष्पतति प्रियतमेषु प्रसादः।
निस्सामान्यापकृतोऽक्रियमाणो वलयर ॰ ॰ ॰ ॰॥)

अइरा आणेमि तुहं अमआसअलोलब्भमरलंघिअकुसुमं।
तिअस-गअ-दाण-सीहर-तुसार-तण्णाअ-पल्लवं सग्गदुमं॥ १६६॥

(अचिरादानयामि तवामृतासवलोलभ्रमरलङ्घितकुसुमम्।
त्रिदशगतदानशीभरतुषारार्द्रितपल्लवं स्वर्गद्रुमम्॥) (हरिवि.)

५. समर्पणं यथा—(गास. ६. ५०)

स-कअग्गह-रहसु-त्ताणिआणणा पिअइ, पिअमुहविइण्णं।
थोअं थोअं रोसोसहं व उअ माणंसिणी मइरं॥ १६७॥

{सकचग्रहरभसोत्तानितानना पिबति प्रियतममुखवितीर्णाम्।
स्तोकं स्तोकं रोषौषधमिव पश्य मनस्विनी मदिराम्॥}

६. भेदप्रकारेषु शङ्काद्युत्पादनं यथा—(सूमु. २०२)

प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषं प्रिये! शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः॥ १६८॥

७. इन्द्रजालं यथा—(रत्‍ना. ४.१४)

हर्म्याणां हेमश्रृङ्गश्रियमिव निवहैरर्चिषामादधानः सान्द्रोद्यानद्रुमालीप्लवनपिशुनितात्यन्ततीव्राभितापः।
कुर्वन् क्रीडामहीध्रं सजलधरमिव श्यामलैर्धूमपातै— रेष प्लोषार्तयोषिज्जन इह सहसैवोत्थितोऽन्तःपुरेऽग्निः॥ १६९॥

८. माया यथा—

जं वि अलिओवआरं परस्य दक्खिण्णआएँ घेप्पइ हिअअं।
जइ सो वि सिणेहोल्लिहणं णाम सव्भाव-कैअव-विसेसो॥ १७०॥

(यदपि अलीकोपचारं परस्य दाक्षिण्यैः गृह्यते हृदयम्।
यदि तस्या अपि स्‍नेहोल्लेखनं नाम सद्भावकैतवविशेषः॥)

९. दण्डप्रकारेषूपेक्षा यथा—

कइअव-परंमुहाणं थोओसरिआणं एक्‍कसअणंमि।
पूरिज्जइ रोमंचुग्गमेण दोणंवि ओआसो॥ १७१॥

(कैतव—पराङ्‍मुखानां स्तोकापसृतानामेकशयने।
पूर्यते रोमाञ्चोद्गमेन द्वयोरपि अवकाशः॥)

१०. प्रतिकोपो यथा—

रूससि रुट्‌ठिअ ॰ ॰ ॰ ॰ ॰ अज्ज।
॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ओ॥ १७२॥

११. प्रस्थानं यथा—(किराता. ९.४५)

सव्यलीकमवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन।
योषितः सुहृदिव स्म रुणद्धि प्राणनाथमधि बाष्पनिपातः॥ १७३॥

(४. मानपरिप्रश्‍नाः)

मनोदृग्वक्त्रवाग्वपुश्चेष्‍टासु मानवैकृतानुयोगा मानपरिप्रश्नः। स

१. मनसि यथा—

किमिति कबरी यादृक्तादृग्दृशौ किमकज्जले न खलु लिखिताः पत्रावल्यः किमद्य कपोलयोः।
अयमयमयं किंच क्लाम्यत्यसंस्मरणेन ते शशिमुखि! सखीहस्तन्यस्तो विलासपरिच्छदः॥ १७४॥

२. दृशि यथा—(हरिवि.)

कीस इमेसु बहुसो विसमप्पत्ततलिणंजणछविकलुसा।
दीहावंगेसु तुज्झ परिवड्‍ढंति/घोलंति णअणेसु बाहुप्पीडा॥ १७५॥

(कस्मात् अनयोः बहुशो विषमोद्वर्तनाञ्जनच्छविकलुषाः।
दीर्घापाङ्गयोस्तव परिवर्धन्ते नयनयोः बाष्पोत्पीडाः॥)

३. वक्त्रे यथा—(हरिवि.)

कीस मलिआवअंसं वअण्णणीसासपंडुराहरराअं।
वअणं वहसि किसोअरि कर—संकामिअ—कओल—पत्तालेक्खं॥ १७६॥

(कस्माद् मलिनावतंस बहलनिःश्वासपाण्डुराधररागम्।
वदनं वहसि कृशोदरि! करसङ्क्रामितकपोलपत्रालेख्यम्॥)

४. वाचि यथा—

तणुअं पि अणिव्वडिअं पुणो पुणो वेविराहरोट्‌ठिपिसुणिअं।
वअणब्भंतरभरिअं हिअअट्ठिअं किं तुहं पसम्मइ वअणं॥ १७७॥

(तनुकमपि अनिर्वर्तितं पुनः पुनर्वेपनशीलाधरोष्‍ठपिशुनितम्।
वदनाभ्यन्तरभृतं हृदयस्थितं किं तव प्रशाम्यति वचनम्॥)

५. वपुषि यथा—

कान्त्या पाटलया किमद्य सकलाक्रान्ता मुखेन्दोः प्रभा किञ्चोष्णैरधरः सरोरुहमुखि! श्वासानिलैः शोष्यते।
इत्युक्तोऽपि पुनः प्रकोपपरया मौनेन निर्भर्त्सितो मानिन्याः सुहृदेव बाष्पपयसा गच्छन् धृतो वल्लभः॥ १७८॥

६. चेष्‍टायां यथा—

श्वासोत्कम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः कीर्यन्ते कणशः कृशाङ्गि! किममी बाष्पाम्भसो बिन्दवः।
किञ्चाकुञ्चितकण्ठरोधकुटिलाः कर्णामृतस्यन्दिनो हुङ्काराः कलपञ्चमप्रणयिनस्त्रुट्‍यन्ति निर्यान्ति च॥ १७९॥

(५. चित्रचाटूक्‍तयः)

प्रियाप्रत्यानयनाय प्रियस्य १भुजङ्गभङ्गिभाषितानि चित्रचाटूक्तयः। ताश्च आत्मनो दोषाभ्युपगमे दोषानभ्युपगमे उभयाभावे च, परस्परदोषारोपणे दोषानारोपणे उभयाभावे च। तत्र—

१. दोषाभ्युपगमे यथा—(रत्‍ना.३.१४)

आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि! मूर्ध्‍ना।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमा यदिपरं करुणा मयि स्यात्॥ १८०॥

NOTES pg=1352! १. वक्रता हि भुजङ्गस्य भङ्गी। वक्रभाषितमतो वक्रोक्तिः। २. दोषानभ्युपगमो यथा—(रत्‍ना. २.२०)

प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः।
न मे दोषोऽस्तीति त्वमिदमपि च ज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे!॥ १८१॥

३. उभयाभावो यथा—

त्यज रुषमिमां त्वं मामेवं न वक्तुमहं क्षमे कथमिति यतो नायं न्यायः प्रभावनुजीविनाम्।
चरणपतने चण्डि! प्रायः स्फुरन्ति मनोरथाः किमुत न वयं नन्वेतस्यां धुरि प्रणयस्य ते॥ १८२॥

यथा वा—(सक. ५.३६८)

आधातुं विनयं निरागसि जने कुप्यन्तु नामेश्वराः तेन स्वाशयशुद्धिरेव सुवचा प्रायः प्रभूणां पुरः।
मिथ्यामानिनि! मन्यसे यदि तदा नित्यं मनोवर्तिनी ध्याता तामरसाक्षि! चित्रपटके का वा त्वदन्या मया॥ १८३॥

४. दोषानारोपणे यथा—(विक्र. ३.१४)

दातुं वा प्रभवसि मामन्यस्मै ह/कर्तुमेव वा दासम्।
नाहं पुनस्तथा त्वयि यथाहि मां शङ्कसे भीरु॥ १८४॥१

५. उभयाभावे यथा—

कअ—विप्पिओ ण माणिणि! भणामि कह तुज्झ वअणपडिऊलं।
कअ—विप्पिओसि एअं, वि दारुणं ताउ/व मं/मा भणसु॥ १८५॥

(कृतविप्रियो न मानिनि भणामि कथं तव वचनप्रतिकूलम्।
कृतविप्रियोऽसीति एतदपि दारुणं तावन्मां/मा भण॥)

(६. प्रियोपालम्भाः)

प्रियायाः प्रवृत्तिदूषणमुपालम्भः। स द्विधा— प्ररूढविस्रम्भायाम्, अप्ररूढविस्रम्भायां च। तयोः प्ररूढविस्रम्भायां षोढा — प्रकृतिस्थः, कोमलः, कठोरः, नागरः, उपनागरः ग्राम्य इति। तेषु — NOTES pg=1353! १. आकरो मृग्य इति तु राघवः HOS. पृ. १४८८। १. प्रकृतिस्थो यथा—(हरिवि.)

अक्खंडिए वि पणए अकअंमि वि विप्पिए अकज्जे वि मज्झ।
जाअं चिअ वअणिज्जं तुह रोसम्मि दइए णिमित्तं पि पअं॥ १८६॥

(अखण्डितेऽपि प्रणयेऽकृतेऽपि विप्रिये अकार्येऽपि मम।
जातमेव वचनीयं तव रोषे दयिते निमित्तमपि प्रियम्॥)

२. कोमलो यथा—

अपरिक्खिअदोसगुणं अवमण्णिअ चिरप्परूढवीसंह—रसं।
अवहीरिआणुराअं तुमे वि मह रुसिउं जणेण वि खिण्णं॥ १८७॥

(अपरीक्षितदोषगुणं अवमत्य चिरप्ररूढविस्रम्भरसम्।
अवधीर्यानुरागं त्वयापि मह्यं रुष्‍ट्वा जनेनेव खिन्नम्॥)

३. कठोरो यथा—

ण अ सहि अणुणअभणिअं ण देसि पसरं ण होसि मुक्‍कामरिसा।
कह आ एक्‍करसं चिअ दूरविंसंवइअ णिट्ठुरं तुह हिअअं॥ १८८॥

(न च सखि! अनुनयभणितं न ददासि प्रसरं न भवसि मुक्‍तामर्षा।
कथं वा एकरसमेव दूरविसंवदितनिष्‍ठुरं तव हृदयम्॥)

४. नागरो यथा—

वीसंभणिव्विसंके विच्छद्‌धिअकव्‍अवपं आरंमिजणे।
आसंकिअं पहिअअंलाउज्जंतो अकहणलग्गउअअसो॥ १८९॥

५. उपनागरो यथा—

जाव ण लक्खेइ परो जाव ण लब्भइ पिअम्मि परसंघो।
ताव अकओपआरा किरंति कआ हिअअबहुमआ॥ १९०॥

(यावन्न लक्षयति परः, यावन्न लभ्यते प्रिये प प(रा)सङ्गः।
तावत् कृतोपकारा कीर्त्तयति कृता हृदयबहुमता॥)

६. ग्राम्यो यथा—

अवहारेऊण चिरं भणसु तुमं चिअ अमुक्करोसा वि फुडं।
किं अगणेऊण इमं होज्जा तुमम्मि मज्झपमाअक्खलिअं॥ १९१॥

(अवधार्य चिरं भण त्वमेव अमुक्‍तरोषापि स्फुटम्।
किमगणयित्वा इदं भविष्यति त्वयि प्रसादस्खलितम्॥)

अप्ररूढविस्रम्भायामपि प्रकृतिस्थः षोढैव प्रकृतिस्थादिभेदात्। तेषु—

७. प्रकृतिस्थो यथा—

क्षणविकसितो दीर्घश्वासैः क्षणं मुकुलीकृतः कृतकहसितैर्व्यक्तो मौनप्रतिक्रियया क्षणम्। क्षणविघटितो नर्मालापैरिति क्रमसूचितः स्थगितविषयो मुग्धे मानः कदर्थयतीव माम्॥१९२॥

८. कोमलो यथा—(अमरु. ८१)

‘कपोले पत्राली करतलनिरोधेन’॥१९३॥ (पृ.८७०) इत्यादि।

९. कठोरो यथा—

कृशप्रया रात्रिः कृशतनु शनैर्येन विनमन् प्रदीपोऽयं निद्रावशमुपघतो घूर्णत इव। प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो कुचप्रत्यासत्त्या हृदयमपि ते चण्डि! कठिनम्॥१९४॥१

१०. नागरो यथा—(अमरु.१४)

कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमप्यानतिमति। न दृष्‍टे शौथिल्यान्मिलनमिति चेतो दहति मां निगूढान्तःकोपा कठिनहृदये संवृतिरियम्॥१९५॥

११. उपनागरो यथा—

वरं भ्रूभङ्गस्ते प्रकटितगुरुक्रोधविभवा वरं सोपालम्भाः प्रणयविमुखा गद्‌गदगिरः। वरं मानाटोपप्रसभजनितोऽनादरविधि— र्न गूढान्तःकोपा कठिनहृदये संवृतिरियम्॥१९६॥

१२. ग्राम्यो यथा— NOTES pg=1355! १. आवुत्तो बाणः श्यालश्‍च मयुरः। आद्यं चरणत्रयं बाणस्य प्रियां प्रसादयतः चतुर्थश्‍च मयूरस्य रहसिच्छत्रस्येति प्रसिद्धिः। त्वया क्षान्तं क्षा/कान्तं कुरु मुखमितो मां प्रति कृतं निधेहीमं पृष्‍ठे मम करमयं कान्त! निहितः।
सखीनां निर्बन्धान्मम च धृतपाणेः प्रणमतः प्रिये कारुप्रीतेस्तव परमगूढा मयि रुषः॥ १९७॥

(८. आश्रयकर्माणि —१६)

अथ मानावस्थाः, मानमर्यादाः, मानोपक्रमः, मानप्रतिभेदाः, मानविमर्शाः, मानोपालम्भाश्चेत्याश्रयस्य व्यलीकप्रियादिसोढुः कर्माणि। तत्र मनोदृग्वक्त्रवाग्वपुश्चेष्‍टासु मानवैकृतानि मानावस्थाः। तत्र मनसि चिन्ता व्यामोहश्च, दृशि दैन्यं प्रज्ञागरश्च, वक्त्रे वैवर्ण्यमुन्मादश्च, १वाच्यरतिर्विलापश्च, वपुषि कार्श्यं विषादश्च, चेष्‍टायां शून्यता निर्वेदश्चेति। तेषु

१. मनसि चिन्ता यथा—

अणुणअणिरासगरुअं पडिवक्खस्स गरुअत्तणेण णि/विसण्णं।
पेम्मासंघेण पुणो समाससंत्ती (विलोअई वराई)॥ १९८॥

(अनुनयनिरासगुरुकं प्रतिपक्षस्य गुरुत्वेन नि/विषण्णम्।
प्रेमासङे्गन पुनः समाश्वसती (विलोक्यते वराकी)॥)

२. तत्रैव व्यामोहो यथा—

दूरगअं पि णिअत्तइ दूरणिअत्तं पुणो पअत्तइ पेम्मं।
कह होइ परिणामो माणस्स इ मोहंति विमुहिज्जंति॥ १९९॥

(दूरगतमपि निवर्तयति, दूरनिवृत्तं पुनः प्रवर्तयति प्रेम।
कथं भवति परिणामो मानस्येति मोहयन्ति विमुह्यन्ति॥)

३. दृशि दैन्यं यथा—

पडिवक्खे दूमिज्जइ जीएँ ण वीसवइ गुरुअ—मंतुपडिहआ।
तीसे कह वि सहिअणे खंडिअपेम्मलहिआ णिसम्मइ दिट्ठी॥ २००॥

{प्रतिपक्षे दूयमाने यया न वश्राम्यते गुरुक—मन्युप्रतिहतया।
तस्याः कथमपि सखीजने खण्डितप्रेमलघ्वी निशाम्यति दृष्‍टिः॥}

NOTES pg=1356! १. वाचि अ॰ इति त्वत्र विवक्षा। ४. तत्रैव प्रजागरो यथा—

सइज्झए हअमाणो ओग्गहगहिओ मए अहव्वाए।
रअणीसु वि सअणिज्जे णिच्चं जग्गाविआ जेण॥ २०१॥

(सह्यतां हतमानः अवग्रहगृहीतो मया अभव्यया।
रजनीष्वपि शयनीये नित्यं जागरिता येन॥)

५. वक्त्रे वैवर्ण्यं यथा—

पेच्छइ अ सो विअअं मंदिअसविओअपरिघूसरो।
लग्गमुहिं ससिदंसणपा ॰ ॰ ॰ ॰ ॰॥
॰ ॰ ॰ ॰ ॰ ॰ ॰ अणिअत्ता॥ २०२॥

६. उपादानविमर्शो यथा—

अल्ला अणुणअणीओ ॰ ॰ ॰ ॰॥ २०३॥ (?)

७. संशयविमर्शो यथा—

प्रारब्धेऽनुनये पुनर्द्विगुणिते मन्यौ सखीनर्मणा प्रत्यापत्तिसमुत्सुके प्रियतमे पादानते तिष्‍ठति।
मन्यूत्पीडकृतागसाश्रुकलुषामुत्तानयन्त्या दृशं मानिन्या क्षतमानलाघवभयादन्तर्द्विधैवास्यते॥ २०४॥

८. उपेक्षाविमर्शो यथा—

विलीनो विस्रम्भस्सपदि तदपि प्रेम गलितं च्युताश्चित्राकाराः प्रणयसुभगास्ता अपि गिरः।
प्रियस्यैवं तत्तद् विनयबहिरङ्गव्यवसितं किमन्यद् दुःखानां हृदय! नगरीचत्वरमसि॥ २०५॥

९. सिद्धिविमर्शो यथा—(अमरु. ९७)

भ्रूभेदो रचितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्‍धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः।
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता॥ २०६॥

१०. असिद्धिविमर्शो यथा—(गास. ४.७४)

णिद्‌दाभंगो आवंडुरत्तणं दीहरा अ णीसासा।
जाअंति जस्स विरहे तेण समं कीरिसो माणो॥ २०७॥

(निद्राभ्ङ्ग आपाण्डुरत्वं दीर्घाश्च निःश्वासाः।
जायन्ते यस्य विरहे तेन समं कीदृशो मानः॥)

मानवत्याः प्रियमुद्दिश्य स्वपरप्रवृत्तिगर्हणमुपालम्भः।

स षोढा आत्मविषयः, प्रियविषयः, आत्माश्रितविषयः, (प्रियाश्रितविषयः), उभयाश्रितविषयः, अनुभयाश्रितविषयश्चेति। तेषु—

११. आत्मविषयो यथा—

अण्णत्तिहि ॰ ॰ ॰ तुह वामो ॰ ॰ ॰ (?)॥ २०८॥

यथा वा—(गास. २.५८)

अवहत्थिऊण सहिअम्पिआइं जाणं कएण रमिओ सि।
एआइँ ताइँ सोक्खाइँ संसओ जेहि जीअस्स॥ २०९॥

(अपहस्तयित्वा सखीजल्पितानि येषां कृते न रमितोऽसि।
एतानि तानि सौख्यानि संशयो यैर्जीवस्य॥)

१२. प्रियविषयो यथा—

सहिअं माणक्खलणं णाओ पडिवक्खविप्पिअत्थाणरसो।
सहिओ अ तुह विओओ मा लज्जसु सुहअ लज्जिअव्वम्मि मए॥ २१०॥

(सोढं मानस्खलनं ज्ञातः प्रतिपक्षविप्रियस्थानरसः।
सोढश्च तव वियोगो मा लज्जस्व सुभग लज्जितव्यमपि मया॥)

यथा वा—

पंथिअ जह उप्पण्णा तह अवरज्जंति कामिणीण पिआमा (पिअअमा)।
ण उण गलिओपआरं पुरओ दीसंति विप्पिआइं करित्ता॥ २११॥

(पथिक यथा उत्पन्ना तथा अपरज्यन्ति कामिनीनां प्रियतमाः।
न पुनर्गलितोपचारं पुरतो दृश्यन्ते विप्रियाणि कृत्वा॥)

१३. आत्माश्रितविषयो यथा—(अमरु. ६९)

चरणपतनं सान्त्वालापा मनोहरचाटवः प्रसभजनितो गाढाश्लेषो हठाच्‍च कचग्रहः।
सखि बहुरसो यस्यास्वादः स एव न शङ्क्यते हृदयदयिते कर्तुं मानः किमत्र करोम्यहम्॥ २१२॥

यथा वा—(अमरु. ११)

तद्‌वक्त्राभिमुखं मुखं विनमितं दृष्‍टिः कृता पादयोः तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया।
पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतशो यत्कञ्चुके सन्धयः॥ २१३॥

१४. प्रियाश्रितप्रभुत्वविषयो यथा—

साहसु विलासिणिअणं जेअ अहिलेंति सरसावराहा पिअविविआ।
किं हअदक्खिण्णगुणाणं पहवंताण सुहअ एस सुहाओ॥ २१४॥

{कथय विलासिनीजनमेव अभिलीयन्ते सरसापराधाः प्रिया—विविधाः।
किं हतदाक्षिण्यगुणानां प्रभवतां सुभग एष स्वभावः॥}

यथा वा—(पृ. १३२९)

कीरइ गुणो वि दोसो॥ २१५॥

१५. उभयाश्रितप्रेमविषयो यथा—(अमरु.)

‘पुराभूदस्माकं तनुरियमभिन्नैव सततम्’॥ २१६॥

(पृ. ८९४) इत्यादि। यथा वा—(अमरु. ३८)

कोपो यत्र भ्रुकुटिरचना विग्रहो यत्र मौनं यत्रान्योन्यं स्मितमनुनयो दृष्‍ठिपातः प्रसादः।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः॥ २१७॥

१६. अनुभयाश्रितसखीविषयो यथा—(अमरु. ९२)

निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तन्दिवं रुद्यते।
अङ्गं शोषमुपैति पादपतितं यावन्न सम्भाव्यते सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः॥ २१८॥

यथा वा—

मानोन्नतेत्यकरुणेत्यतिपण्डितेति मय्येव धिक्कृतिरनेकमुखी सखीनाम्।
दाक्षिण्यमात्रमसृणेन विचेष्‍टितेन धूर्तस्य तस्य न गुणानुपवर्णयन्ति॥ २१९॥

(९. प्रकीर्णकर्माणि —११)

अथ प्रतिबोधनं, परिहासः, उपदेश; प्रतिबो/षेधनं, उपजापः, स्खलितगोपनमिति प्रकीर्णकर्माणि। तानि प्रायशः सखीदूत्योरेवेति तयोरेवोदाह्रियन्ते। तत्र—

१. सखीप्रतिबोधनं यथा—(गास. १.१०)

सहि एरिसि च्‍चिअ गई मा रुव्वसु तंस—वलिअ—मुहअंदं।
एआणं बाल—बालुंकि—तंतुकुडिलाणं पेम्माणं॥ २२०॥

(सखि ईदृश्येव गतिः, मा रोदीः त्र्यस्रवलितमुखचन्द्रम्।
एतेषां बालकर्कटीतन्तुकुटिलानां प्रेम्णाम्॥)

यथा वा—

यद् वचो विपरीतकारिणि मयि प्रेमस्खले न श्रुता यत् कल्याणपराङ्‌मुखि! प्रियतमः पादानतो नेक्षितः।
पश्यैतन्ननु पश्य दुर्नयतरोरस्यापि पापं फलं येनेन्दुर्दहनो तथा मलयजो वायुः कुठारीकृतः!॥ २२१॥

२. दूतीप्रतिबोधनं यथा—(गास. ६.१६)

किं रुवसि किं विव सोअसि किं कुप्पसि सुअणु एक्‍कमेक्‍कस्स।
पेम्मं विसं व विसमं साहसु को रुंधिउं तरइ॥ २२२॥

(किं रोदिषि किमिव शोचसि किं कुप्यसि सुतनु एकैकस्मै।
प्रेम विषमिव विषमं कथय को रोद्ध‍ुं शक्‍नोति॥)

यथा वा—(अमरु. ८०)

अनालोच्य प्रेम्णः परिणतिमनापृच्छ्‌य सुहृद— स्त्वया दर्पान्मानः सरलहृदये! सम्प्रति कृतः।
समाकृष्‍टा ह्येते विरहदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ २२३॥

३. सखीपरिहासो यथा—(कव्याद. २.२८९)

इदमम्लानमालाया लग्‍नं ‍ स्तनतटे तव।
छाद्यतामुत्तरीयेण नवं नखपदं सखि॥ २२४॥

यथा वा—(गास. १.८७)

अवलंबिअमाणपरम्मुहीए एंतस्स माणिणि! पिअस्स।
पुट्ठ पुलउग्गमो तुह कहेइ समुहट्ठिअं हिअअं॥ २२५॥

(अवलंम्बितमानपराङ्‌गमुख्या प्राप्‍तस्य मानिनि! प्रियस्य।
पृष्‍ठपुलकोद्गमस्तव कथयति सम्मुखस्थितं हृदयम्॥)

यथा वा—(गास. ९२८वे.)

ढक्केसि चलिअवलए हत्थे मुंचसि अहोमुही बाहं।
परिरुम्भसि णीसासे बहुअं ते माणविण्णाणं॥ २२६॥

(स्थगयसि चलितवलनौ हस्तौ मुञ्चस्यधोमुखी बाष्पम्।
प्रतिरुणत्सि निःश्वासान् बहुलं ते मानविज्ञानम्॥)

४. मनोपदेशेषु सख्युपदेशो यथा—(गास. ५.६५)

पाअपडणाण मुद्धे! रहस-बलामोडि-चुंबिअव्वाण।
दंसणमेत्तपसिज्जिरि! चुक्कसि सुहाणं बहुआणं॥ २२७॥

(पादपतनानां मुग्धे रभसबलात्कारचुम्बितव्यानाम्।
दर्शनमात्रप्रसादशीले वञ्चितासि सुखानां बहुकानाम्॥)

यथा वा—(गास. ५.३२)

पाअपडिओ ण गणिओ, पिअं भणंतो वि अप्पिअं भणिओ।
वच्चंतो वि ण रुद्धो, भण कस्स कए कओ माणो॥ २२८॥

(पादपतितो न गणितः प्रियं भणन्नप्यप्रियं भणितः।
गञ्छन्नपि न निरुद्धो भण कस्य कृते कृतो मानः॥)

५. दूत्युपदेशो यथा—(गास. ८९५वे.)

जइ पुत्तलि! बहुएहिं अणुणअसोक्खेहि अत्थि दे कज्जं।
रुअ ताव गेण्ह माणं खणमेत्तं तम्मि सुहअम्मि॥ २२९॥

(यदि पुत्रिके बहुभिरनुनयसौख्यैरस्ति ते कार्यम्।
रुद तावत् गृहाण मानं क्षणमात्रं तस्मिन् सुभगे॥)

यथा वा—(गास. ८९४वे.)

अणुणअपसरंतपिअपडणूसवं सरहसं चुंबणसुहेल्लिं।
एआइ अ अण्णाइ अ अवसोव्व कओ फलइ माणो॥ २३०॥

(अनुनयप्रसरत्प्रियपतनोत्सवं सरभसं चुम्बनसुखकेलिम्।
एतानि चान्यानि चावश एव कृतः फलति मानः॥)

६. मानप्रतिषेधे सखीप्रतिषेधो यथा—(गास. ६.२२)

माणुम्मत्ताएँ तए अकारणं कारणं कुणंतीए।
अद्दंसणेण पेम्मं विणासिअं पोढवाएण॥ २३१॥

(मानोन्मत्तया तया अकारणं कारणं कुर्वत्या।
अदर्शनेन प्रेम विनाशितं प्रौढवादेन॥)

यथा वा—(गास. ४.९)

जं जं पिहुलं अंगं तं तं जाअं किसोअरि किसं ते।
जं जं तणुअं तं तं वि णिट्ठिअं किं थ माणेण॥ २३२॥

(यद्यद्विकलमङ्ग तत्तज्जातं कृशोदरि कृशं ते।
यद्यत्तनुकं तत्तदपि निष्‍ठितं किमत्र मानेन॥)

७. दूतीप्रतिषेधो यथा—(गास. १२६वे.)

सुहआ वि सुंदरि वि हु तरुणी वि हु माणणित्ति आ पुत्ति।
चंदणलट्ठि व्व भुअंगदूमिआ किं णु दूमेसि॥ २३३॥

(सुभगापि सुन्दर्यपि खलु तरुण्यपि खलु मानिनीति आ पुत्रि।
चन्दनलतेव भुजङ्गदूना किंनु दुनोषि॥)

यथा वा—(गास. १.४५)

णइऊरसच्चहे जोवणम्मि दिअहेसु णिच्चपहिएसु।
अणिअत्तासु अ राईसु पुत्ति किं दड्ढमाणेण॥ २३४॥

{नदीपूरसदृशे यौवने दिवसेषु नित्यपथिकेषु।
अनिर्वृतासु च रात्रिषु पुत्रि किं दग्धमानेन॥}

८. नायकोपजापेषु सख्युपजापो यथा—(गास. १२१वे.)

कज्जं विण वि कअमाणडंबरा पुलअभिण्णसव्वंगी।
उज्जल्लालिंगणसोक्खलालसा पुत्ति मुणिआसि वराई॥ २३४॥

(कार्यं विनापि कृतमानडम्बरा पुलकभिन्नसर्वाङ्गी।
उज्वलालिङ्गनसौख्यलालसा पुत्रि ज्ञातासि वराकी॥)

यथा वा—(गास. ३.७७)

अणुणअपसाइआए तुज्झ वराहे चिरं गणंतीए।
अपहुत्तोहअहत्थंगुलीए तीए चिरं रुण्णं॥ २३६॥

(अनुनयप्रसादितया तवापराधांश्‍चिरं गणयन्त्या।
अप्रभूतोभयहस्ताङ्रगुल्या तया चिरं रुदितम्॥)

९. दूत्युपजापो यथा—(गास. ४.५२)

कंडुज्जुआ वराई अज्ज तए सा कआवराहेण।
अलसाइअरुण्णविअंभिआइ दिअहेण सिक्खविआ॥ २३७॥

(काण्डर्जुका वराकी अद्य त्वया कृतापराधेन।
अलसायितरुदितविजृम्भितानि दिवसेन शिक्षिता॥)

यथा वा—

सब्भावसिणेहवेविरीए जेण तुमं निवत्तंतो।
सा सुहअ पत्त दूईकुलविलक्खेव्व से दिद्ठी॥ २३८॥

(सद्भावस्‍नेहवेपनशीलायाः येन त्वं निवर्तमानः।
सा सुभग! पत्रदूतीकुलविलक्षेव तस्याः दृष्‍टिः॥)

१०. स्खलितगोपनेषु सखीगोपनं यथा—(गास. ९०९वे.)

वेआरिज्जसि मुद्धे गोत्तक्खलणेण मा खु तुं रुवसु।
किं व ण पेच्छसि अण्णह एद्दहमेत्तेहि अच्छीहिं॥ २३९॥

(व्याकुलीक्रियसे मुग्धे! गोत्रस्खलनेन मा खलु त्वं रोदीः। किं वा न पश्यस्यन्यथा एतावन्मात्राभ्यामक्षिभ्याम्॥)

यथा वा—(गास. ९०८वे.)

अइ चंडि किं ण पेच्छसि जइ सो वाहरइ अण्णगोत्तेण।
अह दे इच्छइ मच्छरपणच्चिअच्छं मुहं दद्‌ठुं॥ २४०॥

(अयि चण्डि! किं न पश्यसि यत् स व्याहरत्यन्यगोत्रेण।
असौ त इच्छति मत्सरप्रणर्तिताक्षि! मुखं द्रष्‍टुम्॥)

११. दूतीगोपनं यथा—(गास. ९६७वे.)

केलिगोत्तक्खलणे वि कुप्पए कइअअं अआणंती।
दुद्‌दम! मुअ परिहसं अज्जा सच्चं चिअ परुण्णा॥ २४१॥

(केलीगोत्रस्खलनेऽपि कुप्यति कैतवमजानन्ती।
दुर्दम! मुञ्च परिहासं आर्या सत्यमेव प्ररुदिता॥)

यथा वा—(गास. ९०७वे.)

मा वेलवेसु बहुअं पुत्तअ! अलिऐहि गोत्तेहिं।
एसा वि जाणइच्चिअ परिहासोन्मिस्सभणिआइं॥ २४२॥

(मा व्याकुलय बहुकं पुत्रक! अलीकैर्गोत्रैः।
एषापि जानात्येव परिहासोन्मिश्रभणितानि॥)

(१०. मानविकाराः—६), (११. मनोपलक्षणस्थानानि—६) अथास्य षड् विकारा भवन्ति—‘जायते, विवर्धते, विवर्तते, विपरिणमते, अपक्षीयते, विनश्यतीति।

षट् चोपलक्षणस्थानानि—‘हृदयं, चक्षुषी, वक्त्रं, वाग्वपुश्चेष्‍टे’ति। तेषु—

१. जायते यथा—

धूमायते मनसि मूर्च्छति चेष्‍टितेषु सनदीप्यते वपुषि चक्षुषि जाज्वलीति।
वक्त्रे परिस्फुरति वाचि विजृम्भतेऽस्याः कान्तापराधजनितो बत मानवह्रिः॥ २४३॥

२. विवर्धते यथा—

भ्रुवोर्भेदः शेदो मनसि वचसि श्वासभृशता दृशोर्बाष्पः कम्पो वपुषि कुचयोरश्रुनिचयः।
विमोहश्चेष्‍टासु स्फुरितपुनरुक्तान्यधरयो— स्तवाकल्पः कोऽयं बत तरुणि मनेन विहितः॥ २४४॥

३. विवर्तते यथा—

तदेवजिह्याक्षं मुखमविशदास्ता गिर इमाः स एवाङ्गक्षेपो मयि सरसमाश्लिष्यति तनुम्।

यदुक्तप्रत्युक्तं तदपदु शिरः कम्पनपरं प्रिया मनेनाहो पुनरपि कृता मे नववधूः॥ २४५॥

४. विपरिणमते यथा—

आरुण्यं परिपीय गण्डफलके लब्धोदयः पाण्यिमा विश्रान्तस्फुरितोऽधरस्तरलतां श्वासानिलैर्नीयते।
मुक्ता सौष्‍ठवकर्कशा च वलना कार्श्यश्लथैरङ्गकैः कष्‍टो मानकलिस्तनुर्न सहते त्वं कोपना किं ब्रुवे॥ २४६॥

५. अपक्षीयते यथा—(अमरु. २८)

भ्रूभेदे रचितेऽपि दृष्‍टिरधिकं सोत्कण्ठमुद्‌वीक्षते रुद्धायामपि वाचि सास्मितामिदं दग्धाननं जायते।
कार्कश्यं जनिते विचेतसि तनू रोमाञ्चमालम्बते दृष्‍टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ् जने॥ २४७॥

६. विनश्यति यथा—(अमरु. १६०)

दृष्‍टे लोचनवर्त्मना मुकुलितं पार्श्वस्थिते वक्त्रव— न्न्यग्भूतं बहिरासितं पुलकवत् स्पर्शं समातन्वती।
नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे प्रिये मनेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि॥ २४८॥

(१२. मनोत्पत्तिकारणानि—१२) अथातो मानोत्पत्तिकारणानि—‘विप्रियकरणं, प्रियाकरणं, वारितवामता, कामचारः, स्वरूपतान्यत्वं, शाठ्यं, प्रतारणं, खण्डनम्, अवज्ञानम्, अकृतज्ञता, सपत्‍नी—नामग्रहणं, गोत्रस्खलनमि’ति। तेषु—

१. विप्रियकरणं यथा—(हरिवि.)

तं तिअसकुसुमदाणं/मं हरिणा णिम्महिअ—सुरहि—गंधामोअं।
अप्पणअं पि दूमिअ—पणइणि—हिअएण रुप्पिणिए विइण्णं॥ २४९॥

(तत् त्रिदशकुसुमदाम हरिणा निर्मथितसुरभिगन्धामोदम्।
अप्रणयितमपि दूनप्रणयिनीहृदयेन रुक्मिण्यै वितीर्णम्॥)

२. प्रियाकरणं यथा—(शाकु. ५.२३)

मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहःप्रणयमप्रतिपद्यमाने।
भेदाद् भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शारासनमिवातिरुषा स्मरस्य॥ २५०॥

३. वारितवामता यथा—(गास. ४.४)

जह जह वाएइ पिओ तह तह णच्चामि चंचले पेम्मे।
वल्ली वलेइ अङ्गं सहावथद्धे विरुक्खम्मि॥ २५१॥

(यथा यथा वादयति प्रियस्तथा तथा नृत्यामि चञ्चले प्रेम्णि।
वल्ली वलयत्यङ्गं स्वभावस्तब्धेऽपि वृक्षे॥)

४. कामचारो यथा—

दूसहकआवराहं अवरहे वि गुरुए पसाआहिमुहं।
अप्पच्छंदपअतं पिअं च पेम्मं च दोण्ण वि हुउच्चंति॥ २५२॥

(दुस्सहकृतापराधं अपराधेऽपि गुरुके प्रसादाभिमुखम्।
आत्मछन्दप्रवृत्तं प्रियं च प्रेम च द्वे अपि खलूच्येते॥)

५. स्वरुपतान्यत्वं (गास. ६.६)

ईसामच्छर—रहिएहिं णिव्विआरेहि मामि अच्छीहिं।
एण्हिं जणो जणं मिव णिरिक्खए कहं ण झिज्जामो॥ २५३॥

(ईर्ष्यामत्सररहिताभ्यां निर्विकाराभ्यां मातुलान्यक्षिभ्याम्।
इदानीं जनो जनमिव निरीक्षते कथं न क्षीयामहे॥)

६. शाठ्यं यथा—

पडिभिंदइ होंतवरं घरिणी दइअं परंमुहणुवण्णं।
वासघरदीरएणं णीसासंदोलिअसिहेण॥ २५४॥

(प्रतिभिनत्ति भवद्वरं गृहिणी दयितं पराङ्‍मुखसुप्‍तम्।
वासगृहदीपकेन निश्वासान्दोलितशिखेन॥)

७. प्रतारणं यथा—(गास. ४.५२)

कंडुज्जाआ वराई सा अज्ज तए सा कआवराहेण।
अलसाइअरुण्णविअंभिअं दिअहेण सिक्खविआ॥ २५५॥

(काण्डर्जुका वराकी साऽद्य त्वया कृतापराधेन।
अलसायितसंज्ञाविजृम्भितं दिवसेन शिक्षिता॥)

८. खण्डनं यथा—(गास. ७.५३)

पच्चूसागअ णवरत्तपिआलोअलोअणाणंद।
अण्णत्थक्खविअसव्वरि णहहूसण दिणवइ णमो दे॥ २५६॥

(प्रत्यूषागत! नवरक्‍तप्रियालोक! लोचनानन्द!।
अन्यत्रक्षपितशर्वरीक! नख/भोभूषण! दिनपते! नमस्ते॥)

९. अवज्ञानं यथा—(गास. २.४६)

उम्मूलअंति व हिअअं इमा इरे तुह विरज्जमाणस्स।
अवहीरणवसविसंठुल—वलंत—णअणद्ध—दिट्ठाइं॥ २५७॥

(उन्मूलयन्तीव हृदयं इमानि रे तव विरज्यमानस्य।
अवधीरक—सविसंष्‍ठुल—वलन्नयनार्धदृष्‍टानि॥)

१०. अकृतज्ञता यथा—(गास. ५.४५)

अकअण्णुअ तुज्झ कए पाउसराईंसु जं मए खुण्णं।
उप्पेक्खिमो अलज्जिर अज्ज वि तं गामचिक्खिल्लं॥ २५८॥

(अकृतज्ञ! तव कृते प्रावृड्रात्रिषु यो मया क्षुण्णः।
उत्पश्यामि अलज्जाशील! अद्यापि तं ग्रामपङ्कम्॥)

११. सपत्‍नीनामग्रहणं यथा—

निर्मग्नेन मयाम्भसि स्मरभरादालिस्समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे! मुधा ताम्यसि।
इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचश्शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः॥ २५९॥

१२. गोत्रस्खलनं यथा—

अग्घइ गोत्तक्खलणे पच्चक्ख-णिगलिअ-संगलंत-विसाओ।
एंतणिअत्तिअ—बाहो णेत्त—णिअत्त—दइ—उत्तरो जुअइजणो॥ २६०॥

(अर्घति गोत्रस्खलने प्रत्यक्षनिर्गलद्/सङ्गलद्‌विषादः।
एतन्निवर्तितबाष्पो नेत्रनिवृत्तदयितोत्तरो युवतिजनः॥)

(१३. मनोपलक्षणानि—१२)

मानोपलक्षणानि—‘अवज्ञानम्, अत्यादरः, विकृतवीक्षणम्, अनालोकः, असम्भाषणं, वाक्पारुष्यम्, अश्रूद्गमः, दीर्घनिःश्वासः, अविलक्षस्मितं, व्याजनिवृत्तिः, अत्यन्तानुकूल्यं, प्रसाधनाग्रहणमिति। तेषु

१. अवज्ञानं यथा—(कुसं. ८.४९)

निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा।
शैलराजतनया समीपगामाललाप विजयामहेतुकम्॥ २६१॥

२. अत्यादरो यथा—(अमरु. १४)

कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमप्यानतिमति।
न दृष्‍टेः शैथिल्यान्मिलनमिति चेतो दहति मां निगूढान्तःकोपा कठिनहृदये संवृतिरियम्॥ २६२॥

३. विकृतवीक्षणं यथा—(गास. ९२० वे.)

दावंतेण तुह मुहं भुमआ/भङ्गम्मि होंत—णव—सोहम्।
अकएण उवकअं अज्ज मण्णुणा मज्झ पसिअच्छि॥ २६३॥

(दर्शयता तव मुखं भ्रूभङ्गे भविष्यत्रवशोभम्।
अकृतेनोपकृतमद्य मन्युना मम, प्रसृताक्षि!॥)

४. अनालोको यथा्—

स्फुरसि बाहुलते! किमनर्थका त्वमपि लोचन! वाम भव स्थिरम्।
तमहमागतमप्यपराधिनं न परिरब्धुमलं न च वीक्षितुम्॥ २६४॥

५. असम्भाषणं यथा—

वाहिप्पंतीव-वहू-उल्लावं-णववरस्स ण हु देइ।
दावेइ अप्पणो हत्थं वारगआ सा णाहं॥ २६५॥

(व्याह्रियमाणैव वधूः उल्लापं नववरस्य न खलु ददाति।
दर्शयति आत्मनो हस्तं द्वारगता सा नाथम्॥)

६. वाक्पारुप्यं यथा—(गास. ९४६वे.)

हुं णिल्लज्ज समोसर तं चिअ अणुणेसु जआ दे वअणे।
पाअंगुट्ठालत्तअरसेण तिलअं विणिम्मविअं॥ २६६॥

(हुं निर्लज्ज समपसर तामेवानुनय यया ते वदने।
पादाङ्गुष्‍ठालक्तकरसेन तिलकं विनिर्मितम्॥)

७. अश्रूद्गमो यथा—

दूसहमंतुपउत्तो मुहुत्त—संगलिअ—धीर—पडिउत्तो/णिव्वत्तो।
णअणंतपरिक्खलिओ ण पडइ तीए मडअं बहोलइ/वहइ वाहो॥ २६७॥

(दुस्सहमन्युप्रवृत्तः मुहूर्तसङ्गलितधैर्यप्रतिगुप्‍तः।
नयनान्तपरिस्खलितो न पतति तस्या मृदुकं वहति बाष्पः॥)

८. दीर्घनिःश्वासो यथा—(गास. ६.१८)

धीरक्खलिअणिअत्ता दूरविअंभंतरोसपडिवज्झंता।
पसरंति सेअगरुआ वीसमिऊण पिअम्मि से णीसासा॥ २६८॥

(धैर्यस्खलितनिवृत्ता दूरविजृम्भमाणरोषप्रतिपद्यमानाः।
प्रसरन्ति स्वेदगुरुका विश्रम्य प्रिये तस्या निःश्वासाः॥)

९. (अ) विलक्षस्मितं यथा—(गास. ६.१८)

बाहोल्लफुरिअ—गंडाहराए भणिअं विलक्खहसिरीए।
अज्ज वि किं रूसिज्जइ सवहावत्थं गअं पेम्मं॥ २६१॥

(बाष्पार्द्रस्फुरितगण्डाधरया भणितं विलक्षहसनशीलया।
अद्यापि किं रुष्यते शपथावस्थां गतं प्रेम॥)

१०. व्याजनिवृत्तिर्यथा—(गास. ९१७वे.)

पिअअमविइण्णचसअं अचक्खिअं पिअसहीएँ देंतीए।
अभणंतीएँ वि माणंसिणीए कहिओ च्चिअ विरोहो॥ २७०॥

{प्रियतमवितीर्णचषकम् अस्वदितं प्रियसख्यै ददत्या।
अभणन्त्यापि मनस्विन्या कथित एव विरोधः॥}

११. अत्यन्तानुकूल्यं यथा—

जलविणबीजसिकामं भणिअं चकरेडितं तहा तुरिअं।
पंसातुभरोदेवंघलिअं ण च्चिअ कभेइ भोइ॥ २७१॥

१२. प्रसाधनाग्रहणं यथा—(हरिवि.)

कीस मलिआवअंसं वण्ण—णीसास—पंडुराहरराअं।
वअणं वहसि किसोअरि करसंकामिअकपोलपत्तालेक्खं॥ २७२॥

(कस्मात् मलिनावतंसं बहलश्वासप्रगुणिताधरतापम्।
वदनं वहसि कृशोदरि करसङ्क्रामितकपोलपत्रालेख्यम्॥)

(१४. मानोद्दीपनानि—१२)

अथ मानोद्दीपनानि—‘वयस्यावाक्यं, विपक्षसत्रिधिः, सखीवैलक्ष्यं, सपत्‍न्युपहासः, सौभाग्यदर्शनं, दाक्षिण्योक्तिः, अत्यन्तोपेक्षा, द्रष्‍टव्यप्रलापः, अपराधस्मरणं, विवक्षानुकम्पा, आर्द्रापराधता, प्रियानुनय इति। तेषु’

१. वयस्यावाक्यं यथा—

सखि स्थित्वा स्थित्वा कुचकलशयोरश्रुविसरै— रुपान्तौ सिञ्चन्ती किमिदमधुना रोदिषि मृषा।
अलं चास्माभिर्वा निरवधि तदैवात्र रुदितं तृणच्छन्ने कूपे कथमपि यदैवासि पतिता॥ २७३॥

२. विपक्षसन्निधिर्यथा—(हरिवि.)

सरिस-पडिवक्ख-पुरओ हिअअम्मि अउव्व-माण-भंग-कलुसिए।
समसुहदुक्खम्मि जणे विरिक्कसेसो वि से ण माइ अमरिसो॥ २७४॥

(सदृशप्रतिपक्षपुरतो हृदये अपूर्वमानभङ्गकलुषिते।
समसुखदुःखे जने विरिक्तशेषोऽपि तस्या न माति अमर्षः॥)

३. सखीवैलक्ष्यं यथा—(हरिवि.)

गोत्तक्खलिअम्मि पिए मण्णे पाउडिअ-साहि-णिवेसिअ-णअणं।
आऊरमाण-वाहं कीएँ वि णिव्वोलिआहरं णीससिअं॥ २७५॥

(गोत्रस्खलिते प्रिये मन्ये प्रकटितसखी—निवेशितनयनम्।
आपूर्यमाण—बाष्पं कयापि मलिनिताधरं निःश्वसितम्॥)

४. सपत्‍न्युपहासो यथा—

‘सहिअं माणक्खलणम्’॥ २७६॥ (पृ. १३५८)

इत्यादि। ५. सौभाग्यदर्शनं यथा—(गास. ६.२८)

थोरसुएहिं रुण्णं सवत्तिवग्गेण पुप्फवइआए।
भुअसिहरं पइणो पेच्छिऊण सिरमग्गतुप्पलिअं॥ २७७॥

(स्थूलाश्रुभी रुदितं सपत्‍नीवर्गेण पुष्पवत्याः।
भुजशिखरं पत्युः प्रेक्ष्य शिरोमग्नवर्णलिप्‍तम्॥)

६. दक्षिण्योक्तिर्यथा—(गास. ४.५३)

अवराहेहिं वि णवि तह पतिअ जह मं/तं इमेहिं दूमेसि।
अवहत्थिअसब्भावेहिं सुहअ दक्खिण्णभणिएहिं॥ २७८॥

(अपराधैरपि नैव तथा प्रतीहि यथा ममेभिर्दुनोषि।
अपहस्तितसद्भावैः सुभग! दाक्षिण्यभणितैः॥)

७. अत्यन्तोपेक्षा यथा—

प्रियसखि! ययोः प्रेमग्रन्थिस्तथा प्रथमः स नौ स्फुटितपिठरीबन्धश्लाघ्यो विपक्षगृहेऽप्यभूत्।
जनवदधुना सद्मन्यावां वसाव इहैव तौ धिगपरिचितं प्रेम स्त्रीणां चिराय च जीवितम्॥ २७९॥

८. द्रष्‍टव्यप्रलापो यथा—

अउओच्चिअ अच्चसुरे कज्जलिआहरकरेसि कीसवहे।
किण्णइ उअ सस्संलज्जणिज्जइ हत्थवाएण॥ २८०॥

९. अपराधस्मरणं यथा—(गास. ९१३वे.)

कअविच्छेओ सहीभंगिभणिअसंभाविआपराहाए।
झडिआ पल्लवइ पुणो णअण—कओलेसु कोवतरू॥ २८१॥

(कृतविच्छेदः सखीभङ्गिभणितसम्भावितापराधायाः।
झटित्यापल्लवयते पुनर्नयनकपोलेषु कोपतरुः॥)

१०. विपक्षानुकम्पा यथा—

जामिअहिअअपहरिसा अगहिआअत्तण विमुक्कमच्छरमहुरा।
अणुअंपंती ण/वविओअं जसवत्तीण मे सुआ उव्वहइ॥ २८२॥

(यामिकहृदयप्रहर्षा अगृहीतात्मनां विमुक्तमत्सरमधुरा।
अनुकम्पमाना नववियोगं सपत्‍नीनां मे सुता उद्‌वहति॥)

११. आर्द्रापराधता यथा—

साहसु विलासिणिअणं जे आहिलेंति सरसावराहा पिअआ।
किं हअ दक्खणगुणा पहवंताण सुहअ एस सहाओ॥ २८६॥

(कथय विलासिनीजनमेव अभिलीयन्ते सरसापराधाः प्रियाः।
किं हतदाक्षिण्यगुणानां प्रभवतां/सुभग एष स्वभावः॥)

१२. प्रियानुनयो यथा—(किराता. ८.६४)

प्रियेण सिक्ता परमं विपक्षतश्‍चुकोप काचिन्न तुतोष सान्त्वनैः।
जनस्य रूढप्रणयस्य चेतसः किमप्यमर्षोऽनुनये भृशायते॥ २८४॥

(१५. मानविलासाः—१२)

अथ मानविलासाः। तत्र सव्यलीकप्रेयसो वाङ्‌मनःकायकृतप्रवृत्तिदर्शनजन्मा प्रियावक्रोक्तिविन्यासो मानविलासः। स द्विधा, सम्मुखः परावृत्तश्च। तयोः प्रियाभिमुख्ये सम्मुखः। सोऽपि द्विधा—शुद्धो मिश्रश्च। तयोरपि शुद्धस्त्रिधा— वाक्पवृत्तिजः, मनःप्रवृत्तिजः, कायप्रवृत्तिजश्च। मिश्रोऽपि त्रिधा। वाङ्‌मनःप्रवृत्तिजः, वाक्कायप्रवृत्तिजः, कायप्रवृत्तिजश्च। प्रियमुद्दिश्य सख्यान्याभिमुख्ये परावृत्तः। सोऽपि द्विधा—चेतनविषयोऽचेतनविषयश्च। तयोश्चेतनविषयस्त्रिधा सामान्यनिष्‍ठः, विशेषनिष्‍ठः, कल्पनानिष्‍ठश्च। अचेतनविषयोऽपि त्रिधा—प्रत्यक्षविषयोऽप्रत्यक्षविषयोऽनिर्धारित— विषयश्च। तत्र

१. सम्मुखभेदेषु वाक्प्रवृत्तिजः शुद्धो यथा—(गास. ९४२वे.)

आम ण तुहावराहो पिअअम मे लोअणाण इह दोसो।
माणासहम्मि चडुलेहिं वासिओ जो हिअअंमि॥ २८५॥

(आम न तवापराधः प्रियतम! मे लोचनयोरिह दोषः।
मानासहे चटुलाभ्यां वासितो यो हृदये॥)

२. स एव मनःप्रवृत्तिजो यथा—(गास. २.८५)

अण्णअ! णाहं कुविआ, उवऊहिअ, किं मुहा पसाएसि।
तुह मण्णुसमुप्पण्णेण मज्झ मणेण वि ण कज्जं॥ २८६॥

(ऋजुक/अज्ञक! नाहं कुपिता, उपगूहस्व, किं मुधा प्रसादयसि।
तव मन्युसमुत्पन्नेन मम मानेनापि न कार्यम्॥)

३. कायप्रवृत्तिजो यथा—(गास. ७०६वे.)

अवसर रोत्तुं चिअ णिम्मिआइं मा पुसअ मे हअच्छीइं।
दंसणमेत्तुंमइएहिं जहि हि सीलं तुह ण णाअं॥ २८७॥

(अपसर रोदितुमेव निर्मिते मा पुसय मे हताक्षिणी।
दर्शनमात्रोन्मत्ताभ्यां याभ्यां खलु शीलं तव न ज्ञातम्॥)

४. वाङ्‌मनःप्रवृत्तिजो मिश्रो यथा—(सक. ५.१०९)

पहवंति च्चिअ पुरिसा महिसा महिलाणं किंत्थ सुहअ! विडिओसि।
अणुराअणोल्लिआए को दोसो आहिआईए॥ २८८॥

(प्रभवन्त्येव पुरुषाः महिलानां किमत्र सुभग! विहितोऽसि।
अनुरागनोदितायाः को दोष आभिजात्यायाः॥)

५. स एव कायप्रवृत्तिजो यथा—(गास. १.५१)

आम जरो मे मंदो, अहव ण मंदो, जणस्स का तत्ती।
सुह पृच्छिअ सुहअ सुअंधअन्ध मा अंधिअं छिवसु॥ २८९॥

(आमज्वरो मे मन्दोऽथवा न मन्दो जनस्य का चिन्ता।
सुखपृच्छक सुभग सुगन्धगन्ध मा गन्धिकां स्पृश॥)

६. मनःकायप्रवृत्तिजो यथा—(गास. ९४५वे.)

अणुवत्तंतो अम्हारिसं जणं सुहअ! आहिजाईए।
चिंतेसि उणो ण हिअए अणाहिजाई सुहं जिअई॥ २९०॥

(अनुवर्तमानोऽस्मादृशं जनं आभिजात्या।
चिन्तयसि पुनर्न हृदये अनाभिजात्या सुखं जीयते॥)

७. परावृत्तविषयेषु चेतनविषयः सामान्यनिष्‍ठो यथा—

पेश्छे मापसि भिंदह पिए जणे दंसणं वि रमणिज्जं।
पडिभिण्णुव्वट्ठरदिसोपुअं जमाआहिआलंवि॥ २९१॥

८. स एव सखायाभिमुख्ये विशेषनिष्‍ठो यथा—(गास. २.३१)

वाहरउ मं सहीओ तिस्सा गोत्तेण किंत्थ भणिएण।
थिरपेम्मा होउ जहिं तहिं मा किं पि णं भणह॥ २९२॥

(व्याहरतु मां सख्यस्तस्या गोत्रेण किमत्र भणितेन।
स्थिरं प्रेम भवतु यत्र तत्रापि मा किमप्येनं भणत॥)

९. गोत्रस्खलनतः सपत्‍न्यनुसन्धाने कल्पनानिष्‍ठो यथा—(गास. ४.९०)

पाअपडिअं अहव्वे किं दाणिं ण उट्ठवेसि भत्तारं।
एअं चिअ अवसाणं दूरं पि गअस्स पेम्मस्स॥ २९६॥

(पादपतितं अभव्ये किमिदानी नोत्थापयसि भर्तारम्।
एतदेवावसानं दूरमपि गतस्य प्रेम्णः॥)

१०. अचेतनविषयः प्रत्यक्षविषयो यथा—(गास. १.५०)

सुहउच्छअं जणं दुल्लहं पि दूराहि अम्ह आणेंत।
उअआरअ जर जीअं पि णेंत ण कआवराहो सि॥ २९४॥

(सुखपृच्छकं जनं दुर्लभमपि दूरादस्माकमानयन्।
उपकारक ज्वर जीवमपि नयन् न कृतापराधोऽसि॥)

११. स एवाप्रत्यक्षविषयो यथा—(गास. १.२४)

पिअविरहो अप्पिअदंसणं अ गुरुआइं दो वि दुक्खाइ।
जिस्सा तुमं कारिज्जसि तीए णमो आहिआईए॥ २९५॥

(प्रियविरहोऽप्रियदर्शनं च गुरुके द्वे अपि दुःखे।
यया त्वं कार्यसे तस्ये नम आभिजात्यै॥)

१२. अनिर्धारितविषयो यथा—(गास. ३.६५)

अणुवत्तणां कुणंतो वेसे वि जणे अ—हिण्ण—मुहराओ।
अप्पव्वसो वि सुअणो परव्वसो आहिजाईए॥ २९६॥

(अनुवर्तनां कुर्वन् द्वेष्येऽपि जने अभित्रमुखरागः।
आत्मवशोऽपि सुजनः परवश आभिजात्याः॥)

(१६. मानमोट्टायितानि—१२)

अथ मानमोट्टायितानि। विलास एव काक्वादिनातिवक्रो मानमोट्टायितम्। सोऽपि द्विधा अगोत्रस्खलनविषयो गोत्रस्खलनविषयश्च। तयोराद्यः प्राग्वदेव शुद्धो मिश्रश्च। द्वितीयस्त्वभिहितनिमित्तो गतिनिमित्तश्च। तत्र शुद्धमिश्रौ पूर्ववदेव त्रिधा। अभिहितनिमित्तस्तु त्रिधा—विधिमुखेन, प्रतिषेधमुखेन प्रतिषेधविधिमुशेन च। गतिनिमित्तोऽपि त्रिधैव वृत्तानुषङ्गतः, वर्तमानानुषङ्गतः, भविष्यदनुषङ्गतश्च। तेषु—

१. वाक्यप्रवृत्तिजं शुद्धं यथा—(गास. ७५०वे.)

सद्धा मे तुज्झ पिअत्तणस्स कह तं ति णेअ आणामो।
दे पसिअ तुमं चिअ सिक्खवेसु जह ते पिआ होमि॥ २९७॥

(श्रद्धा मे तव प्रियत्वस्य कथं तदित्येतन्न जानामि।
प्रार्थये तावत् प्रसीद त्वमेव शिक्षय यथास्य प्रिया भवामि॥)

२. तदेव मनःप्रवृत्तिजं यथा—

एत्थच्चिअ वससि तुमं साहसु मा कुणसु सुहअ णीसासं।
एसच्चिअ होइ गई परिणइपरुसाणं पेम्माणं॥ २९८॥

(अत्रैव वसासि त्वं मा कुरु सुभग! निःश्‍वासम्।
एषैव भवति गतिः परिणतिपरुषाणां प्रेम्णाम्॥)

३. कायप्रवृत्तिजं यथा—

उण्णमसु सुहअ एअं कहेउ पडिसिद्ध—दड्ढहिअअस्स।
पंसुलिक अणिम्मएण किं पाअपडणेण॥ २९९॥

(अन्नम सुभग! एतत् कथयित्वा उत्पीडयसि दग्धहृदयस्य।
पांसुलिक! अनिर्मलेनैतेन किं पादपतनेन॥)

४. वाङ्‌मनस्सम्मिश्रं यथा—

रक्खंति आहिआअं सहंती विरहं पिअं पजंपति।
किं खु पुरिसा—विअड्ढा आहिणंदिज्जंति महिलाहिं॥ ३००॥

(रक्षन्त्याभिजात्यं सहन्ते विरहं प्रियं प्रजल्पन्ति।
किं खलु पुरुषा विदग्धा अभिनन्द्यन्ते महिलाभिः॥)

कु. ५. तदेव वाक्कायजं यथा—(गास. ५.८९)

दीससि पिआइं जंपसि सब्भाओ सुहअ एत्तिओ च्चेअ।
फालेइऊण वि हिअअं साहसु को दावए कस्स॥ ३०१॥

(दृश्यसे प्रियाणि जल्पसि सद्भावः सुभग एतावनेव।
पाटयित्वापि हृदयं कथय को दर्शयति कस्य॥)

६. मनःकयजं यथा—(गास. ४.७६)

अवरज्झसु वीसद्धं सच्चं(व्वं) ते सुविअ विसाहिमो अम्हे।
गुणणिब्भरम्मि हिअए पत्तिअ दोसा ण माअंति॥ ३०२॥

(अपराध्यस्य विस्त्रब्धं सत्यं सर्वं ते श्रुत्वां विषहामहे वयम्।
गुणनिर्भरे हृदये प्रतीहि दोषा न मान्ति॥)

७. अभिहितनिमित्ततो विधिमुखेन यथा—(गास. ९०५वे.)

एअं चिअ मह णामं भण भण दे सुहअ कीस विलिओसि।
पडिभाइ जं ण तुज्झ वि मम पि किं तेण तेण णामेण॥ ३०३॥

(एवमेव मम नाम भण भण तावत् सुभग कस्मात् व्रीडितोऽसि।
प्रतिभाति यन्न तवापि ममापि किं तेन नाम्ना॥)

८. तदेव प्रतिषेधमुखेन यथा—

तुज्झ वअणइरच्छअ किं इमिणा विमक्खरेण णामेण।
जण्ण ऊणाऊण अ अह्यसु भण्णं तए णांम॥ ३०४॥

(तव वदनचिरस्थितेन किमनेन विषमाक्षरेण नाम्ना।
येन पुनःपुनश्च अस्मासु भणितं त्वया नाम॥)

९. प्रतिषेधविधिमुखेन यथा—

होउ ण सुअं चिअ मए णेअ तुमे सुहअ किं चि वि पउत्तं।
एत्ताहे संभरिऊण भणसु रे मज्झ जं णामं॥ ३०५॥

(भवतु न श्रुतमेव मया नैव त्वया सुभग किञ्चिदपि प्रवृत्तम्।
इदानीं संस्मृत्य भण रे मम यन्नाम॥)

१०. गतिनिमित्तको वृत्तानुषङ्गतो यथा—(गास. १.३२)

अह संभाविअमग्गो सुहअ तुए जेव्व णवर णिव्वूढो।
एण्हिं हिअए अण्णं अण्णं वाआएँ लोअस्स॥ ३०६॥

(अथ सम्भावितमार्गः सुभग! त्वयैव केवलं निर्व्यूढः।
इदानीं हृदये अन्यदन्यद् वाचि लोकस्य॥)

११. वर्तमानानुषङ्गतो यथा—

एत्थ अहं चेअ पिआ ण अ सा मा लज्ज भणसु वीसत्थो।
वेसो सुहअ पुरओ ण णिव्वरिज्जंति सब्भावा॥ ३०७॥

(अत्राहमेव प्रिया न च सा मा लज्जस्व भण विस्त्रब्धः।
द्वेष्यस्य सुभग पुरतो न कथ्यन्ते सद्‌भावाः॥)

१२. भविष्यदनुषङ्गतो यथा—(गास. ९०६वे.)

सुहअ मुहुत्तं सुप्पउ जं जं पहिभाइ तं भणिस्सिहिसी।
अज्ज ण पेच्छंति तुहं णिद्‍दागरुआइ अच्छीइ॥ ३०८॥

(सुभग! मुहूर्तं सुप्यतां, यद्यत् प्रतिभाति तद् भणिष्यसि।
अद्य न प्रेक्षेते तव निद्रगुरुके अक्षिणी॥)

(१७. मनसुखानुभावाः—६)

अथ मानसुखानुभावाः। तत्र माने बहुमानादिसम्पद्‌योगादयं बहुमतः; जिघृक्षितोऽनुबद्धः, शिक्षितः, उपद्रुतः, विद्रुतश्चेति षोढा सम्भवति। तेषु

१. बहुमतो यथा—(गास. ७.७५)

अत्थक्क-रूसणं खण-पसंजणं अलिअ-वअण-णिब्बंधो।
उम्मच्छरसंदाओ पुत्तअ पअई सिणेहस्स॥ ३०९॥

(अकस्माद् रोषणं क्षणप्रसादनम् अलीकवचननिर्बन्धः।
उन्मूर्च्छितसन्तापः पुत्रक! पदवी स्‍नेहस्य॥)

यथा वा—(गास. ८२९वे.)

जत्थ ण उज्जग्गिरओ जत्थ ण ईसा विसूरणं माणो।
सब्भावचाडुअं जत्थ णत्थि णेहो तहिं णत्थि॥ ३१०॥

(यत्र नास्त्युज्जागरको यत्र नेर्ष्या खेदो मानः।
सद्भावचाटुकं यत्र नास्ति स्‍नेहस्तत्र नास्ति॥)

२. जिघृक्षितो यथा—(काव्याद. २.२४३)

मानयोग्यां करोमीति प्रियस्थाने स्थितां सखीम्।
बाला भ्रूभङ्गजिह्याक्षी पश्यति स्फुरिताधरा॥ ३११॥

यथा वा—(अमरु. ९७)

भ्रूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्‌धुं शिक्षितमादरेण हासितं मौनेऽभियोगः कृतः।
धैर्यं धर्तुमिह स्थिरीकृतमिदं चेतः कथाञ्चिन्मया
बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता॥ ३१२॥

३. अनुबद्धो यथा—(गास. २.२९)

तह माणो माणतीए एमेअ दूरमणुबद्धो।
जह सविणीअ विविओ पिओ एक्कग्गामच्चिअ परमत्थो/पउत्थो॥ ३१३॥

(तथा मानो मानवत्या एवमेव दूरमनुबद्धः।
यथा सुविनीय विविधः प्रिय एकग्राम एव प्रोषितः॥)

यथा वा—

लीलावतीचरणचुम्बितमौलिमग्रे कान्तं विधूय विहितागसमुच्‍चचाल। अत्रान्तरे मुखरनुपुरयुग्ममस्याः सौभाग्यगन्धगजडिण्डिमतां॥३१४॥

४. शिक्षितो यथा—(गास. १.२६)

पणअकुविआण दोण्ह वि अलिअपसुत्ताणँ माणइल्लाण।
णिच्‍चल-णिरुद्ध-णीसास-दिण्ण-अण्णणं को मल्लो॥ ३१५॥

(प्रणयकुपितयोः द्वयोः अप्यलीकप्रसुप्‍तयोः मानवतोः।
निश्चलनिरुद्धनिःश्वासदत्तकर्णयोः को मल्लः॥)

यथा वा—

चुंबसु सहस्सउत्तं मुहमिणमो हारिअँ मए जूए।
माणो उण मुच्‍चइ सामलं कह माणइत्तीए॥ ३१६॥

(चुम्ब सहस्रकृत्वो मुखमिदं हारितं मया द्यूते।
मानः पुनर्मुच्यते श्यामलाङ्ग कथं मानवत्या॥)*

६. विद्रुतो यथा—(माघ. १०.६३)

ग्रन्थिमुद्‍ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः।
भ्रूयुगेन सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः॥ ३१७॥

यथा वा—(गास. ७७९वे.)

कारणगहिओ वि मए माणो एमेअ जं समोसरिओ।
अत्थक्कपुल्लिअंकोल्ल तुज्झ तं मत्थए पडउ॥ ३१८॥

(कारणगृहीतोऽपि मया मान एवमेव यत् समवसृतः।
अकाण्डपुष्पिताङ्कोल! तव मस्तके पततु॥)

(१८. मानोत्पत्तिप्रकीर्णानि —११)

अथ मानोत्पत्तिप्रकीर्णकानि। तत्र मानवत्याः स्वहृदयसखीप्रियतमादिषु वैमनस्यात् प्रकीर्णकानि। तत्र —

१. स्वहृदये शङ्कायां यथा—(गास. ३.२)

अप्पच्छंद—पहाविर दुल्लहलम्भं जणं विमग्गंत।
आआसपहेहिं भमंत हिअअ कइआ वि भज्जिहिसि॥ ३१९॥

NOTES pg=1378! *अतः परं उपद्रुतः नोपलभ्यते। (आत्मच्छन्द—प्रधावनशील दुर्लभलम्भं जनमपि विमार्गयत्।
आकाशपथैर्भ्रमद्हृदय कदापि भङ्क्ष्यसे॥)

२. विप्रियप्रवृत्तौ यथा—

सहिअं गोत्तक्खलणं दिट्‌ठो अ पिओ अहिण्णमुहराओ।
एण्हिं वित्तवि (पिज्जइ) वाहोवाहिव्व पडिअ॥ ३२०॥

(सोढं गोत्रस्खलनं दृष्‍टश्च प्रियोऽभिन्नमुखरागः।
इदानीं पीयते तया बाष्पोदधिरिव पथिक॥)

३. ॰ ॰ ॰ ह्यप्रवृत्तौ यथा—

विलीनो विस्रम्भः सपदि तदपि प्रेम गलितं च्युताश्चित्राकाराः प्रणयसुभगास्ता अपि गिरः।
प्रियस्यैवं तत्तद्‍‌विनयबहिरङ्गव्यवसितं किमन्यद् दुःशानां हृदय नगरीचत्वरमसि॥ ३२१॥

४. सख्या दयितदोषाख्याने यथा—(अमरु. ९४)

इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमधिकं गमिष्यामो यामो भवतु गमनेनापि भवतु।
पुरा येनेयं मे चिरमनुसृता वाक्यपदवी स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः॥ ३२२॥

५. हृदये शङ्कायां यथा—(अमरु.)

सखि! स सुभगो मन्दः स्‍नेहो मयीति न मे व्यथा विधिविरचितं यस्मात् सर्वो जनः सुखमश्‍नुते।
मम तु मनसः सन्तापोऽयं जने विमुखेऽपि यत् क्षणमपि हतव्रीडं चेतो न याति विरागिताम्॥ ३२३

६. दै ॰ ॰ ॰

ज्योतिर्भ्यस्तदिदं तमस्समुदितं जातोऽयमद्‍भ्यशिशखी पीयूषादिदमुत्थितं विषमयं छायाप्‍तजन्मातपः।
को नामास्य भवेत् प्रशान्तिषु विधिर्बाढं द्रढीयानयं ग्रन्थिर्यत् प्रियतोऽपि विप्रियमिदं सम्यक्कृतं सान्त्वनैः॥ ३२४॥

७. प्रिये तद्दोषापादने यथा—(गास. ९०४वे.)

भण भण जं जं पडिहाइ तुज्झ तं तं सहारि/मिमो अम्हे।
असहत्तणं च जीअं च वल्लभे दोविइ ण घडंति॥ ३२५॥

(भण भण यद् यत् प्रतिभाति तव तत् तद् सहामहे वयम्।
असहमानत्वं च जीवितं च वल्लभे द्वावपि न घटेते॥)

८. स्वदोषापादने यथा—

॰ ॰ ॰ गहिक्खे वअणं सह तीण तण्णा।
हणओसि पिओ जीअं चिअ कलिसिअं पि मह पिअं॥ ३२६॥

९. उभयदोषापादने यथा—(गस. ४.७६)

अवरज्झसु एत्ताहे वीसद्धो च्‍चिअ जणम्मि णिप्फलमउए।
काउं णिक्‍किव दुक्खं पत्तिअ सहउ अ एक्कस्स च्‍चिअ हिअअं॥ ३२७॥

{अपराध्यस्वेदानीं विश्वस्त एव जने निष्फलमृदुके।
कृत्वा निष्कृप दुःखं प्रतीहि सहतां चैकस्यैव हृदयम्॥}

यथा वा—(गास. ९१०वे.)

सोत्तुं सुहं ण लब्भइ अव्वो पेम्मेण वंकविसमस्स।
दुग्घडिअ—मंचअस्स व खणे खणे पाअपडणेण॥ ३२८॥

(स्वप्‍तुं सुखं न लभ्यते अंबो प्रेम्णा वक्रविषमस्य।
दुर्घटितमञ्चस्येव क्षणे क्षणे पादपतनेन॥)

१०. प्रियविषयो यथा—(गास. ९३१वे.)

ता सोक्खं ताव रई ता रणरणअस्स णत्थि ओआसो।
जा दुक्खेक्कणिहाणे ण होइ बहुवल्लहे पेम्मं॥ ३२९॥

(तावत्सौख्यं तावद् रतिस्तावद् रणरणकस्य नास्त्यवकाशः।
यावद् दुःखैकनिधाने न भवति बहुवल्लभे प्रेम॥)

११. देवविषयो यथा—(गास. ८४४वे.)

जइ देव्व तुं पसण्णो मा काहिसि मज्झ माणुसं जम्मं।
अह जंमं मा पेम्मं जइ पेम्मं मा जणे जुलहे॥ ३३०॥

(यदि देव त्वं प्रसन्नो मा कुरुष्व मम मानुषं जन्म।
अथ जन्म मा प्रेम, यदि प्रेम मा जने दुर्लभे॥)

(१९. मनोपाधिभङ्गाः —११)

अथ मानोपाधिभङ्गाः। ते चाङ्गचक्षुश्चित्तचाटुधैर्यकार्यशक्‍त्याकारदेशकाल— पात्रसंज्ञाद्युपाधिभ्यो भवन्ति। तत्र —

१. अङ्गोपाधिर्यथा—

अण्णत्थपेसि एणेहे ॰ ॰ ॰॥ ३३१॥ (?)

२. चित्तोपाधिर्यथा—(गास. ९०३वे.)

अवराहसहस्साइं भरिमो हिअएण तम्मि अद्दिट्ठे।
दिट्ठम्मि उणो पिअसहि एक्कं पि खु णं ण संभरिमो॥ ३३२॥

(अपराधसहस्राणि भरामो हृदयेन तस्मित्रदृष्‍टे।
दृष्‍टे पुनः प्रियसखि! एकमपि खलु न स्मरामः॥)

३. चाटूपाधिर्यथा—(गास. ९०२वे.)

जाणिमि कआवराहं जाणिमि अलिआइ भणइ सअलाइ।
अणुणंते उण जाणे कआपराहं वि अप्पाणं॥ ३३३॥

(जानामि कृतापराधं जानामि अलीकानि भणाति सकलानि।
अनुनयति पुनर्जाने कृतापराधामिवात्मानम्॥)

४. धैर्योपाधिर्यथा—(लीलावई ७१६ तुल्यम्)

भण सहिओ ॰ ॰ ॰ तम्मि॥ ३३४॥ (?)

५. कार्योपाधिर्यथा—

भिउडीए वाहारो अंगक्खिवणाइ विसहि कीरंति।
सहसा दिट्ठम्मि पिएं ता पिअसहि सुंदरो माणो॥ ३३५॥

(भ्रुकुट्या व्याहारः अङ्गक्षेपणानि यदा क्रियन्ते।
सहसा दृष्‍टे प्रिये तावत् प्रियसखि! सुन्दरो मानः॥)

६. शक्त्युपाधिर्यथा—

॰ ॰ ॰ उण असम्मोहा तस्स उप्परिउं॥ ३३६॥

७. आकारोपाधिर्यथा—(गास. ४.१४)

अच्छीइ तां थइस्सं दोहिं वि हत्थेहिं तम्मि दिट्ठम्मि।
अंगं कलंबकुसुमं व पुलइअं कह णु ढक्खिस्सं॥ ३३७॥

(अक्षिणी तावत्स्थगयिष्यामि द्वाभ्यामपि हस्ताभ्यां तस्मिन् दृष्‍टे।
अङंग कदम्बकुसुममिव पुलकितं कथं नु स्थगयिष्ये॥)

८. देशोपाधिर्यथा—(गास. ९०१वे.)

जइआ पिओ ण दीसइ भणह हला कस्स कीरए माणो।
अह दिट्ठम्मि वि माणो ता तस्स पिअत्तणं कत्तो॥ ३३८॥

(यदा प्रियो न दृश्यते भणत सख्यः कस्य क्रियते मानः।
अथ दृष्‍टेऽपि मानस्तावत्तस्य प्रियत्वं कुतः॥)

९. कालोपाधिर्यथा—(गास. ७४५वे.)

कस्स ण सद्धा गरुअत्तणम्मि पइणा पसज्जमाणस्स।
जइ माणभंजणीओ ण होंति हेमंतराईओ॥ ३३९॥

(कस्य न श्रद्धा गुरुत्वे पत्या प्रसाद्यमानेन।
यदि मानभञ्जिन्यो न भवन्ति हेमन्तरात्रयः॥)

१०. पात्रोपाधिर्यथा—(गास. ७४३वे.)

भिउडीए पुलोइस्सं णिब्भच्छिस्सं परम्मुही होस्सं।
जं भणह तं करिस्सं सहिओ जइ तं ण पेक्खिस्सं॥ ३४०॥

(भ्रकुट्या प्रलोकयिष्यामि निर्भर्त्सयिष्यामि पराङ्‍मुखी भविष्यामि।
यद्भणथ तत्करिष्यामि सख्यो यदि तं न प्रेक्षिष्ये॥)

११. संज्ञोपधिर्यथा—(गाहाको. ४४०)

माणो माए दो अक्खराइ पिअसग्गमोत्ति बहुआइ।
बहुअं जंपइ थोएहि एत्थ तुमं च्‍चिअ पमाणं॥ ३४१॥

(मानो मातः द्वे अक्षरे, प्रियसङ्गम इति बहुकानि।
बहुकं जल्पति स्तोकैः अत्र त्वमेव प्रमाणम्॥)

(२०. मानभङ्गकारणानि —१२)

अथ मानभङ्गकारणानि। मदः, त्रासः, भयम्, ऋतूपगमः, उपवनविकासः, सुरभिवनवातः, कोकिलाद्यालापः, प्रभातं, प्रदोषश्चन्द्रोदयः, प्रवासारम्भः, विविक्तमिति। यथोच्यते—

त्रासो भयं मद ऋतूपगमः प्रदोषश्चन्द्रोदयः पिकरुतं रजनीविरामः।
हृद्यो मरुद् विकसितोपवनं विविक्तमाद्यः प्रवास इति माननिवर्हणानि॥ ३४२॥

१. तेषु मदो यथा—

घेप्पंति अप्पण च्‍चिअ कआवराहा वि कामिणीहि विअअमा।
किं इअ सिक्खावंतो अवरज्झइ वि पिअं करेइ महुमओ॥ ३४३॥

(गृह्यन्त आत्मनैव कृतापराधा अपि कामिनीमिः प्रियतमाः।
किमिति शिक्षयन्नपराध्यति, प्रियं करोति मधुमदः॥)

२. त्रासो यथा—(हरिवि.)

चंदामअ-पडिजीविअ-कवाल-मुक्क-ट्टहास-भीआए।
गोरीए माण-विघडण-घडंत-देहो हरो जअइ॥ ३४४॥

(चन्द्रामृतप्रतिजीवितकपालमुक्ताट्टहासभीतायाः।
गौर्या मानविघटनघटमानदेहो हरो जयति॥)

३. भयं यथा—(उरा. १.१)

पौलस्त्यपीनभुजसम्पदुदस्यमान— कैलाससम्भ्रमविलोलदृशः प्रियायाः।
श्रेयांसि वो दिशतु निह्‍नुतकोपचिह्न— मालिङ्गनोत्पुलकमासितमिन्दुमौलेः॥ ३४५॥

४. ऋतूपगमो यथा—

तान्येतानि शिखण्डिताण्डवगुरूनम्भोधरानम्बरे तन्वानानि दिनानि नूनममृतस्यन्दीनि वन्दामहे।
उद्गाढा नवनीलनीरजदृशामत्यन्तमायामिनो भिद्यन्ते स्वयमेव येषु विषमा मानग्रहग्रन्थयः॥ ३४६॥

५. उपवनविकसो यथा—(गास. ७७९वे.)

कारणगहिओ वि मए माणो एमेअ जं समोसरिओ।
अत्थक्क—फुल्लिअंकोल्ल तुज्झ तं मत्थए पडउ॥ ३४७॥

(कारणगृहीतोऽपि मया मान एवमेव यत्समपसृतः।
अकाण्डपुष्पिताङ्कोल तव तत् मस्तके पततु॥)

६. सुरभिवनवातः यथा—(लीलावती ३२)

अह णवर तत्थ दोसो जं गिम्ह-पओस-मल्लिआमोओ।
अणुणअसुहाइ माणंसिणीण भोत्तुं च्‍चिअ ण देइ॥ ३४८॥

(अथ केवलं तत्र दोषः यत् ग्रीष्मप्रदोषमल्लिकामोदः।
अनुनयसुखानि मनस्विनीनां भोक्‍तुमेव न ददातु॥)

७. कोकिलाद्यालापो यथा—

कलकंठीकलरओम्मूलिअस्स माणस्स किंसुअतरुअस्स।
भूइपतओ होइ महुंमि माहवीभमरझंकारो॥ ३४९॥

(कलकण्ठीकलरवोन्मूलितस्य मानस्य किंशुकतरुकस्य।
भूमौ पततो भवति मधौ माधवीभ्रमरझङ्कारः॥)

८. प्रभातं यथा—(गास. १.२९)

अज्ज सहि राइसेसे माणमहूसव—सुहच्छिआरद्‍धे।
सहसत्ति कुक्कुडरओ णिसामिओ वज्झपडहो व्व॥ ३५०॥

(अद्य सखि रात्रिशेषे मानमहोत्सवसुखक्षयारब्धे।
सहसेति कुक्कुटरवो निशामितः वध्यपटह इव॥)

९. प्रदोषो यथा—

जह जह अत्थमइ रवी विअलिअसज्झावो पदोसाम्मि।
तह तह माणो माणंसिणीण हिअएसु विज्झाइ/विवुज्झइ॥ ३५१॥

(यथा यथाऽस्तमेति रविर्विगलितसच्छायः प्रदोषे।
तथा तथा मानो मनस्विनीनां हृदयेषु विध्यति/बुध्यते॥)

१०. चन्द्रोदयो यथा—(हरिवि.)

अणुणअसुहं ण पत्तं पिआहि दइएसु खिज्जइ वि ण चलणो।
ओसोरिअंमि पढमं दूईएव्व दोसिणाए माणग्गहणे॥ ३५२॥

११. प्रवासारम्भो यथा—

जा अणुणअं ण गेहणइ माणक्खलणंमि सहिअणेण वि भणिआ।
पाअपडणेहिं णेंतं सच्चिअ कआवि पिअं णिवारेइ पिआ॥ ३५३॥

(या अनुनयं न गृह्‍णाति मानस्खलने सखीजनेनापि भणिता।
पादपतनैः यान्तं सैव कदापि प्रियं निवारयति प्रिया॥)

१२. विविक्तं यथा—(माघ. ४.४५)

या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम्।
तेन सहेह बिभर्ति रहः स्त्री सा रतरागमनायतमानम्॥ ३५४॥

(२१. मानोपशान्तयः —१२)

अथ मानोपशान्तयः। विरोधिप्रादुर्भावः, प्रतिपक्षाभियोगः, प्रत्यनीकधर्षणं, विपक्षाभिभवः, परिभ्रंशः, अवस्रंसनं, चलनं, स्खलनं, विघट्टनम्, उन्मूलनम्, पलायनम्, अपुनर्भाव इति। तेषु —

१. विरोधिप्रादुर्भावो यथा—

अवलम्बिओवआरं अभग्ग-माण-पसरं पअत्त-पहरिसं।
एक्कं अ एक्कराअं (जाअं) से दइअदंसण च्‍चिअ हिअअं॥ ३५५॥

(अवलम्बितोपचारमभग्‍नमानप्रसरं प्रवृत्तप्रहर्षम्।
एकं च एकरागं च जातं दयितदर्शन एव हृदयम्॥)

२. प्रतिपक्षाभियोगो यथा—

तो इअ—मणोरहेहिं वि अलंघणिज्जगरुअं पिअम्मि भणंते।
आदत्ता लक्खेउ अण्ण च्‍चिअ से रसंतरं मुहसोहा॥ ३५६॥

(तत इतो मनोरथैरलङ्घनीयगुरुकं प्रिये भणति।
आत्ता लक्षयितुमन्यमेव तस्या रसान्तरं मुखशोभा॥)

३. प्रत्यनीकधर्षणं यथा—

थोअत्थोअ—पसरिओ तीए णिरंतर—परिट्ठिआमरिस—रसं।
लंघेइ च्‍चिअ हिअअं पडिवल्लेहोण्णअ/इसहो परिओसो॥ ३५७॥

(स्तोकस्तोकप्रसृतः तस्याः निरन्तरपरिस्थितामर्षरसम्।
लङ्घयतीव हृदयं प्रतिपल्लेखोन्नतिसखः परितोषः॥)

४. विपक्षाभिभवो यथा—(हरिवि.)

थोओसरंतरोसं थोअत्थोअ—परिवड्‍ढमाण—पहरिसं।
होइ अदूरपसाअं उहअ—रसाअत्त—विब्भमं तीए मुहं॥ ३५८॥

(स्तोकापसरद्‍रोषं स्तोक—स्तोक—परिवर्धमानप्रहर्षम्।
भवति च दूरप्रसादमुभयरसायत्तविभ्रमं तस्या मुखम्॥)

५. प्रभातपरिभ्रंशो यथा—(गास. ९३३वे.)

उव्वहइ दइअ—गहिआहरोट्ठ—झिज्जंत—रोस—पडिराअं।
पाणोसरंतमइरं व फलिहचसअं मुहं बाला॥३५९॥

(उद्वहति दयितगृहीताधरोष्‍ठक्षीयमाणरोषप्रतिरागम्।
पानापसरन्मदिरमिव स्फटिकचषकं मुखं बाला॥)

६. अवस्रंसनं यथा—(गास. १.७४)

दिढमंतुदूमिआएँ वि गहिओ दइअम्मि पेच्छह इमाए।
ओसरइ वालुआसुट्ठिओव्व माणो सुरुसूरंतो॥ ३६०॥

(दृढमन्युदूनया गृहीतो दयिते पश्यतानया।
अपसरति वालुकामुष्‍टिरिव मानस्सुरुसुरायमाणः॥)

७. चलनं यथा—

अह ओ त्ति णवरिअ अच्‍चासण्णो पि सच्‍चभामाए हरि।
परिअणमुह च्‍चिअ सुओ वाहजलत्तरिअ—णोअणाएॅ, ण दिट्ठो॥ ३६१॥

(अथागत इति सहसा अत्यासन्नोऽपि सत्यभामया हरिः।
परिजनमुखादेव श्रुतो बाष्पजलान्तरितलोचनया, न दृष्‍टः॥)

८. स्खलनं यथा—(हरिवि.)

तीए विअलंत्तधीरं अब्भुट्ठंतीएॅ थण—पहोलिर—वाहं।
दूरोसरंत रणं दूरअर—वलग्गवेअणं णीससिअं॥ ३६२॥

(तस्याः विगलद्धैर्यं अभ्युत्थितायाः स्तनप्रवहनशीलबाष्पम्।
दूरापसरत्स्मरणं दूरतरावरूढवेदनं निःश्वसितम्॥)

९. विघट्टनं यथा—(गास. ९३५वे., वल. ३६१)

तुंगो त्थिरो विसालो जो सहि मे माणपव्वओ रइओ।
सो दइअदिट्ठिवज्जासणीएँ घाअम्मि ण पहुत्तो॥ ३६३॥

(तुङ्गः स्थिरो विशालो यस्सखि मे मानपर्वतो रचितः।
स दयितदृष्‍टिवज्राशन्याघातेऽपि न पर्याप्‍तः॥)

१०. उन्मूलनं यथा—(हरिवि.)

तो इअ सुरअरु—कारण—मउलिअ—हिअआए सावसेसलहुओ।
संभाविअ च्‍चिअ हिओ हरिणा पाअपडणम्मि तीएँ अमरिसो॥ ३६४॥

(तत इति सुरतरुकारणमुकुलितहृदयायाः सावशेषलघुकः।
सम्भावित एव हृतो हरिणा पादपतने तस्या अमर्षः॥)

११. पलायनं यथा—(गास. २.४४)

जो कह वि सहीहि मह छिद्दं लहिऊण पेसिओ हिअए।
सो माणो चोरिअकामुअ व्व दिट्ठे पिए णट्ठो॥ ३६५॥

(यः कथमपि सखीभिर्मम छिद्रं लम्भयित्वा प्रेषितो हृदये।
स मानश्चोरितकामुक इव दृष्‍टे प्रिये नष्‍टः॥)

१२. अपुनर्भावो यथा—(हरिवि.)

तो से रुब्भंत च्‍चिअ हिअअ—विअंभंत—हरिस—वेअउच्‍चिलिआ।
पाअपडिअस्स हरिणो पडिआ पुट्ठीए बाहसलिलत्थेवा॥ ३६६॥

(ततस्तस्याः रुध्यमाना एव हृदयविजृम्भमाणहर्षवेगोच्‍चिलिताः।
पादपतितस्य हरेः पतिताः पृष्‍ठे बाष्पसलिलबिन्दवः॥)

(२२. मानोपशमलक्षणानि —१२)

अथ मानोपशमलक्षणानि— नयननिमीलनम्, मुखप्रसादः, बाष्पमोक्षः, पुलकोद्भेदः, दोषप्रतिभेदः, अक्रमनिन्दा, उपालम्भः, प्रत्युपालम्भः, मनोजुगुप्सा, मानानुशयः, मानयोग्या, मानानुयोग इति। तेषु —

१. नयननिमीलनं यथा—

दइआलोअपअत्ता अंतोच्छीण पसरंत-वाह-विअलिआ।
मउलइ-अंबुअ-पसरा तीसे दसणसुहं ण पावइ दिठ्ठी॥ ३६७॥

(दयितालोकप्रवृत्ताऽव्युच्छिन्न—प्रसरद्—बाष्पविकलिता।
मुकुलिताऽम्बुज—प्रसरा तस्या दर्शनसुखं न प्राप्‍नोति दृष्‍टिः॥)

२. मुखप्रसादो यथा—

आलोइए च्‍चिअ पिए ठविओ तीए मअणेण मोहणसुहओ।
कुसुमधणुम्मि बाणो वलइअविब्भमउणे मुहम्मि पहरिसो॥ ३६८॥

(आलोकित एव प्रिये स्थापितः तस्या मदनेन मोहनसुभगः।
कुसुमानमित—धनुषि बाणो वलयितविभ्रमगुणे मुखे प्रहर्षः॥)

३. बाष्पमोक्षो यथा—(अमरु. ५०)

अङ्गनामतितानवं कुत इदं कम्पश्च कस्मात् कुतो मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति।
तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तर— व्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः॥ ३६९॥

४. पुलकोद्भेदो यथा—(किराता. ९.४६)

शङ्किताय कृतबाष्पनिपातामीर्ष्यया विमुखितां दयिताय।
मानिनीमभिमुखस्थितचित्तां शंसति स्म घनरोमविभेदः॥ ३७०॥

५. दोषप्रतिभेदो यथा—(गास. ३.१)

अच्छउ ता अण्णजणो हिअअं चिअ अप्पणो तुह पमाणं।
तह तंसि मंदणेहो जह ण उवालंभजोग्गो सि॥ ३७१॥

(आस्तां तावद् अन्यजनो हृदयमेवात्मनः तव प्रमाणम्।
तथा त्वमसि मन्दस्‍नेहो यथा नोपालम्भयोग्योऽसि॥)

६. अप्रक्रमनिन्दा यथा—(गास. ७.१७)

किं भणह मं सहीओ करेहि माणंति किंत्थ माणेण।
सभावबाहिरे तम्मि मज्झ माणेण वि ण कज्जं॥ ३७२॥

(किं भणथ मा सख्यः कुरु मानमिति किमत्र मानेन।
स्वभावबाह्ये तस्मिन् मम मानेनापि न कार्यम्॥)

७. उपालम्भो यथा—(अमरु.)

सखि स सुभगो मन्दस्‍नेहो मयीति न मे व्यथा विधिविरचितं यस्मात् सर्वो जनस्सुखमश्‍नुते।
मम तु मनसस्सन्तापोऽयं जने विमुखेऽपि यत् क्षणमपि हतव्रीडं चेतो न याति विरागिताम्॥ ३७३॥

८. प्रत्युपालम्भो यथा—

मानोन्नतेत्यसहनेत्यतिपण्डितेति मय्येव धिक्कृतिरनेकमुखी सखीनाम्।
दाक्षिण्यमात्रमसृणेन विचेष्‍टितेन धूर्तस्य तस्य हि गुणानुपवर्णयन्ति॥ ३७४॥

९. मनोजुगुप्सा यथा—

ण वि तेण तहा तविआ जह इमिणा मामि दड्‍ढहिअएण। बहु ॰ ॰ ॰ ॰ ॰ ॰ तिं कुणंतेण॥ ३७५॥

(नापि तेन तथा तापिता तथाऽनेन मामि दग्धहृदयेन।
बहु ॰ ॰ ॰ ॰ ॰ ॰ न्ति कुर्वता॥)

१०. मानानुशयो यथा—

यः सखि मानानुशयोदयस्तेन भवतु पापेन।
॰ ॰ ॰ ती भवितुं कलप्राणैः क्रीणानि भैषज्यम्॥ ३७६॥

११. मानयोग्या यथा—(काव्याद. २.२४६)

मानयोग्यां करोमीति प्रियस्थाने स्थितां सखीम्।
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा॥ ३७७॥

१२. मानानुयोगो यथा—(गास. ८९८वे.)

अल्लिअइ दिट्ठिणिब्भच्छिओ वि विहुओ वि लग्गए सिअए।
पहओ वि चुम्बइ बला अलज्जए कह णु कुप्पिस्सं॥ ३७८॥

(आलीयते दृष्‍टिनिर्भर्त्सितोऽपि विधुतोऽपि लगति सिचये।
प्रहतोऽपि चुम्बति बलादलज्जकाय कथं नु कोपिष्यामि॥)

(२३. मानभङ्गोपाधयः —१२)

अथ मानभङ्गोपाधयः। ते च निद्रा, मदः, त्रासः, भयम्, अज्ञानम्, प्रसङ्गः, प्रमादः, देशः, कालः, कार्यम्, पात्रम्, सुप्‍तमित्यादयो भवन्ति। तेषु—

१. निद्रोपधानं यथा—

प्रणयिषु पुरा मिथ्यामानी न चाटुशतैरपि प्रणयमभजन्यस्सौभाग्यग्रहात्तरुणीजनः।
स्वयमनुनये हूणस्तेषामिहानुशयादयं नयति विवशो निद्रां दूत्ये मृषाप्रणयामपि॥ ३७९॥

२. मदोपधानं यथा—

अगहिअदइआणुणओ पच्छा अणुणेइ अणुणसआविसंवलिओ।
कइअवणिरूविअमओ वि कइअवमअणउम्मूलिओ जुवजइजणो॥ ३८०॥

(अगृहीतदयितानुनयः पश्‍चात् अनुनयति अनुशयविसंवलितः।
कैतव—निरूपित—मदो निष्कैतवमदनोन्मूलितो युवतिजनः॥)

३. त्रासोपधानं यथा—(किराता. ८.४६)

भयादिवाश्लिष्य रुषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी।
अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः॥ ३८१॥

४. भयोपधानं यथा—(किराता. ८.४८)

करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा।
सखीषु निर्वाच्यमधार्ष्टयदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी॥ ३८२॥

४. अज्ञानोपधानं यथा—(अमरु. ७५)

कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमद्रुतम्।
असहनसखीश्रोत्रप्राप्‍तिप्रमादससम्भ्रमं विवलितदृशा शून्ये गेहे समुच्छ्‌वसितं पुनः॥ ३८३॥

६. प्रसङ्गोपधानं यथा—

माणो वाऽमाणो च्‍चिअ माणं बारेह घरब्भारं।
पेच्छामुताव कइआ कआवराहो समल्लिअइ॥ ३८४॥

७. प्रमादोपधानं यथा—(सक. ५.३२२)

थोआरूढमहुमआ खणपम्हट्ठावराहदिण्णुल्लावा।
हसिऊण संठविज्जइ पिएण संभरिअलज्जिआ कावि पिआ॥ ३८५॥

(स्तोकारूढमधुमदा क्षणप्रभ्रष्‍टापराधदत्तोल्लापा।
हसित्वा संज्ञाप्यते प्रियेण संस्मृता लज्जिता कापि प्रिया॥)

८. देशोपधानं यथा—

अज्जं वहेण कहआहत्थाभ त्थिव्व उवणिआतस्स।
मज्जणिआ मूलालग्गथोअच्छाहिं कुणंतेण॥ ३८६॥

९. कालोपधानं यथा—(गास. ८९९वे.)

हिमचुण्णजोअहत्थाओ जस्स दप्पं कुणंति राईओ।
कह तस्स् पिअस्स मए तीरइ माणो हला काउं॥ ३८७॥

(हिमचूर्णयोगहस्ता यस्य दर्पं कुर्वन्ति रात्रयः।
कथं तस्य प्रियस्य मया शक्यते मानः सख्यः कर्तुम्॥)

१०. कार्योपधानं यथा—

चुंबसु सहस्सहुत्तं मुहमिणमो हारिअं मए जुए।
माणो उण मुच्‍चइ सामलं कह माणइत्तीए॥ ३८८॥

(चुम्ब सहस्रकृत्वो मुखमिदं हारितं मया द्यूते।
मानः पुनर्मुच्यते श्यामलाङ्गि कथं मानमुक्‍तायाः॥)

११. पात्रोपधानं यथा—

सहि पाएसु छिवंति विओव्वकिवेलवेसुमंसुअइं।
एहिणुवज्जसु पासेपाइअमुहिआविणं मुणिओमो॥ ३८९॥

१२. सुप्‍तोपधानं यथा—(गास. ४.६८)

भरिमो से सअणपरम्मुहीए विअलंतमाणपसराए।
कइअवसुत्तव्वत्तणत्थणभरुप्पेल्लणसुहेल्लिं॥ ३९०॥

(स्मरामस्तस्याः शयनपराङ्‌मुख्या विगलन्मानप्रसरायाः।
कैतव—सुप्‍तोद्वर्तन—स्तनभरोत्प्रेरण—सुख—केलिम्॥)

(२४. मानानुभावसौख्यानि—१२)

अथ मानानुभावसौख्यानि। तेषु पादपतनं, प्रसह्याश्लेषः, हठकचग्रहः, चुम्बनबलात्कारः, प्रियप्रणयोक्तिः, उपालम्भसूक्तिः, स्‍नेहपरीक्षा, विपक्षाभिभवः, सखीश्लाघा, बन्धुबहुमानः, लाभविशेषः, शृङ्गारवृद्धिरिति। तत्र —

१. पादपतनं यथा—(गास. ८९३वे.)

पणमह माणस्स/मअणस्स हला चलणे किं देवएहि अण्णेहिं।
जस्स पसाएण पिओ लोलइ पाअंतपासेसु॥ ३१२॥

(प्रणमत मानस्य/मदनस्य सख्यश्चरणौ किं दैवतैरन्यैः।
यस्य प्रसादेन प्रियः लोलति पादान्तपार्श्वेषु॥)

२. प्रसह्याश्लेषो यथा—(गास. ९२९वे.)

कज्जं विणा वि कअमाणडंबरा पुलअभिण्णसव्वंगी।
उज्जलालिंगण-सोक्ख-लालसा पुत्ति मुणिआसि॥ ३९२॥

(कार्यं विनापि कृतमानडम्बरा पुलकजीर्णसर्वाङ्गी।
उज्ज्वलालिङ्गनसौख्यलालसा पुत्रि! ज्ञातासि॥)

३. हठकचग्रहो यथा—

उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुंहु मुञ्च म म मेति च मन्दं जल्पितं जयति मानवतीनाम्॥ ३९३॥

४. चुम्बनबलात्कारो यथा—(गास. ५.३५)

पाअपडणाण मुद्धे रभसबलामोडिचुंबिअव्वाणं।
दंसणमेत्तपसज्जिरि चुक्कासि सुहाणं बहुआण॥ ३९४॥

(पादपतनानां मुग्धे! रभसबलात्कारचुम्बितव्यानाम्।
दर्शनमात्रप्रसन्नशीले च्युतासि सुखानां बहुकानां॥)

५. प्रियप्रणयोक्तिर्यथा—

श्वासोत्कम्पितकम्पि ॰ ॰ ॰ ॰।
॰ ॰ ॰ ॰ ॰ ॰ ॰ त्वयि॥ ३९५॥

(?) ६. उपालम्भोक्तिर्यथा—

अपरिक्खिअ दोसगुणं अवमण्णअ चिरप्परूढवीसम्भरसं।
अवहीरिआणुराअं तुमे वि मह रूसिउं जणेण वि खिण्णं॥ ३९६॥

(अपरीक्ष्य दोषगुणं अवमत्य चिरप्ररूढविस्रम्भरसम्।
अवधीर्यानुदूतं त्वमपि मह्यं रुष्‍ट्वा जनेन न विदीर्णम्॥)

७. स्‍नेहपरीक्षा यथा—(गास. ९२७वे.)

पडिपक्खस्स वि पुरओ समुहं भणिआ सि तेण पसिअ त्ति।
अवलंबिअस्स माणिणि माणस्स वि किं फलं अण्णं॥ ३९७॥

(प्रतिपक्षस्यापि पुरतः सम्मुखं भणितासि तेन प्रसीदेति।
अवलम्बितस्य मानिनि! मानस्यापि किं फलमन्यत्॥)

८. विपक्षाभिभवो यथा—(हरिवि.)

तीए सविसेसदूमिअसवत्तिहिअआएँ णिव्वलंत—सिणेहं।
पिअगरुइआअ णिमिअं सोहग्गगुणाण अग्गभूमीएँ पअं॥ ३९८॥

(तया सविशेषदूनसपत्‍नीहृदयया निर्बलस्‍नेहम्।
प्रियगुरूकृतया न्यस्तं सौभाग्यगुणानामग्रभूमौ पदम्॥)

९. सखीश्लाघा यथा—

क्षुतैः क्‍वापि प्रीतिः क्‍वचिदपि निमित्तैः पुलकिता (क्‍वचिन्मिथ्यावादैर)मितपरितापो विकसितः।
प्रसादार्थं मुग्धे तव विगतलज्जोऽनृतशते— ष्वभिज्ञो दैवज्ञं जनमपि च ते पृच्छति पतिः॥ ३९९॥

१०. बन्धुबहुमानो यथा—(सूमु. २०५)

चक्षुर्लुप्‍तमषीकणं कबलितस्ताम्बूलरागोऽधरे विश्रान्ता कबरी कपोलफलके लुप्‍तेव गात्रद्युतिः।
मन्ये मानिनि! साम्प्रतं प्रणयिना कैरप्युपायक्रमै— र्भग्‍नो मानतरुस्तथापि फलितश्चेतस्थलीवर्धितः॥ ४००॥

११. लाभविशेषो यथा—(हरिवि.)

दार-ट्ठविअ-सुर-दुमं तं चिअ कुसुमोवआरग्घविअं।
अण्णं च सच्‍चविज्जइ परिओस-परित्त-परिअणं तीएॅ घरं॥ ४०१॥

(द्वारस्थापितसुरद्रुमं तदेव कुसुमोपहारार्घितम्।
अन्यच्‍च संवीक्ष्यते परितोषपरीतपरिजनं तस्या गृहम्॥)

१२. शृङ्गारवृद्धिर्यथा—

पणअपरिपूरणेण अविरअभूसिअपिअअमागमेण अ गरुओ।
पसरइ लद्धत्थामो अण्णण्णरसंतरेहिं तीए पहरिसो॥ ४०२॥

(प्रणयपरिपूरणेनाविरतभूषित—प्रियतमानमेन च गुरुकः।
प्रसरति लब्धस्थामाऽन्यान्यरसान्तरैस्तस्याः प्रहर्षः॥)

एवमेते त्रयो मानास्रयश्च तदुपाधयः।
जातयश्च विशेषाश्च प्रकीर्णानां च भक्तयः॥ ४०३॥

अवस्थावैकृतोपायमिषज्जितविभक्तिकैः।
कर्म सानुनयैः षोढा नायकस्य समासतः॥ ४०४॥

नायिकायाश्च मर्यादाप्रक्रमप्रतिभेदनैः।
प्रियप्रियवयस्यानामुपालम्भैर्विमर्शनैः॥ ४०५॥

सखीदूत्योः समाश्वासैः परिहासैः प्रवर्तनैः।
निवर्तनैः सकान्तोपजापैः स्खलितगोपनैः॥ ४०६॥

समासेनैव षोढैव पृथक्पृथगुदीरितम्।
कर्मैतद् व्यासतोऽप्युक्तप्रकारेणैव गम्यताम्॥ ४०७॥

अथ जन्मादिभिः षड्‌भिर्विकारैरेष भिद्यते।
मानोऽग्‍निरिव धूमार्चि ॰ ॰ ॰ ॰ ॰॥ ४०८॥

॰ ॰ ॰ ॰ भो लोकोष्‍टभस्मभिः।
तत्र माननिमित्तानि मानस्योद्दीपनानि च॥ ४०९॥

मानोत्पत्तिप्रकीर्णानि मानसौख्यानुभूतयः।
मानलिङ्गनि मानोपलक्षणस्थानकादि षट्॥ ४१०॥

मानवक्रोक्तिविन्यासा मानमोट्टायितानि च।
मानोपशमचिह्नानि मानापगमहेतवः॥ ४११॥

उपाधिभङ्गा मानस्य मानभङ्गस्य भक्तयः ।
मानभङ्गोपधानानि मानानुभवसम्मताः॥ ४१२॥

उक्ताः संक्षेपतः प्राज्ञैरनुक्तमनुमीयताम्।
मनुष्यवचसा केऽस्य प्रकारान् वक्‍तुमीशते॥
क्षमन्ते मातुमम्भोधेरापः केऽञ्जलिना जनाः॥ ४१३॥

परश्शतविकल्पवानिति स एष मानस्रिधा मयैणनयनामनः—परमबान्धवो वर्णितः।
अथाध्वगविलासिनीमुखसरोजसन्ध्यातमः— प्रवास उपवर्ण्यते रतिसमुद्रचन्द्रोदयः॥ ४१४॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे मानप्रकाशो नाम

॥ त्रिंशः प्रकाशः समाप्‍तः॥ ३०॥

मनुष्यहृदयाम्बुधौ बहलभङ्गसङे्ग कविः क एकश उदाहरेदपि सहस्रशीर्षायितः।
नृपस्तदिह सूक्ष्मशो यदिदमुच्‍चकैर्व्याहर— त्यसावधिकविस्तरं विषयमेतमन्यो ह्यसौ॥