अथ
श्रृङ्गारप्रकाशे एकोनत्रिंशः प्रकाशः
दूतसंप्रेषणादिप्रकाशः
के पुनर्दूतसम्प्रेषणादयः?
दूतसम्प्रेषणं, सन्देशदानं, सुपात्रप्रणिधानं, दूतानुगमः, सखीविगर्हणं, मार्गोदीक्षणं, समागमचिन्ता, चिरयद्विमर्शः, दूतागमनम्, आकारपरीक्षा, दूतप्रतिभेदः, दूतपरिप्रश्नः, दूतव्याहारः, दूतवाक्याकर्णनं, गमनवृत्तान्तः, प्रवृत्त्युपलम्भः, प्रियसन्देशः, सुहृत्संमन्त्रणम्, अवस्थानुभवः, सहायोत्साहनं, प्रियदूतागमनं, दूतप्रतिपत्तिः, वार्ताभिधानं, कार्यपर्यनुयोगः, दूतवाक्यम्, उत्तराभ्युपपत्तिः, दूतप्रतिंवाक्यं, दूतवाक्याक्षेपः, दूताभिभर्त्सनं, परिजनादिक्षोभः, गुरुजनाशङ्का, सहायावेगः, इतिकर्तव्यता, स्वयम्प्रवृत्तिः, नायकानयनं, प्रियाभिगमः, उपस्थापनं, सम्भ्रमविकल्पः, नायिकाप्रतिबोधनं:, सुहृत्परिहासः, दूतपुरस्कारः, इतिवृत्ताख्यानम्, अवस्थाज्ञानम्, अवधानं, (संप्रयोग—)संविधानं, शक्तिविवेचनं, समागमोपायः, समीहितसिद्धिरिति अष्टचत्वारिंशत्।
तेषामन्वर्थसंज्ञाभिर्लक्षणान्युपलक्षयेत् ।
नानाविधेषु लक्ष्येषु वक्ष्यमाणेन वर्त्मना॥ १॥ तत्र—
१. दूतसम्प्रेषणं यथा—(मेघ. ६, ७)
जातं वंशे भुवनविदिते पुष्करावर्तकानाम्॥ २॥
(पृ. १०५४) इत्यादि।
सन्तप्तानां त्वमसि शरणं तत्पयोद! प्रियायाः सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यान—स्थित—हर—शिरश्चन्द्रिका—धौतहर्म्या॥ ३॥
२. सन्देशदानं यथा—(गास. ४८६वे, २.१)
अहअं विओअतणर्इ दुसहो विरहाणलो चलं जीअं।
अप्पाहिज्जउ किं सहि! जाणसि तं चेअ जं जुत्तं॥ ४॥
(अहं वियोगतन्वी दुस्सहो विरहानलश्चलं जीवम्।
अभिधीयतां किं सखि जानासि त्वमेव यद् युक्तम्॥)
दूइ तुमं विअ णिउणा कक्खढमउआइं जाणसे वोत्तुं(ल्लुं)।
कंडूइअपंडुरं जह ण होइ तह तं कुणिज्जासु॥ ५॥
{दूति त्वमेव निपुणा कर्कशमृदुकानि जानासि कक्तुम्।
कण्डूयितपाण्डुरं यथा न भवति तथा त्वं कुर्वीथाः॥}
(गास. २. ८१)
३. सुपात्रप्रणिधानं यथा—
सत्थिमल—आवलाओ—सुहाहहगुजोलंहइ ।
सब्भावमेत्तएणएणअभावेज्जसु किंध बहुएणा॥ ६॥
वेविर—सिण्ण—करंगुलि—परिग्गह—क्खलिअ—लेहणीमग्गे ।
सोत्थि व्विअ ण समप्पइ पिअसहि लेहम्मि किं लिहिमो॥ ७॥
(वेपनशीलस्विन्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे।
स्वस्त्येव न समाप्यते प्रियसखि लेखे किं लिखामः॥)
(गास. ३.४४)
४. दूतानुगमो यथा—(गास. ५.४०)
तं भणहि दूइ एअं ण इमं एअं ति अणुपहमिमाए।
पुणरुत्तं सीसंता कह—वि समप्पंति संदेसा॥ ८॥
(तं भण दूति एतन्नेदमेतदिति अनुपदमनया।
पुनरुक्तं कथ्यमानाः कथमपि समाप्यन्ते संदेशाः॥)
सेडल्लियसव्वङ्गी गोत्तग्गहणेण तस्स सुहअस्स।
दूइं पट्ठाएन्ती तस्सेअ घरङ्गणं पत्ता॥ ९॥
(स्वेदार्दीकृतसर्वाङ्गी गोत्रग्रहणेन तस्य सुभगस्य।
दूतीं प्रस्थापयन्ती तस्यैव गृहाङ्गणं प्राप्ता॥)
(गास. ५.४०)
५. सखीविगर्हणं यथा—(गास. ५.१२)
सुप्पउ तइओ वि गओ जामो त्ति सहिओ कीस मं भणह।
सेहालिआणं गंधो ण देइ सोत्तुं, सुअह तुम्हे॥ १०॥
(सुप्यतां तृतीयोऽपि गतो याम इति सख्यः किमिति मां भणथ।
शेफालिकानां गन्धो न ददाति स्वप्तुं स्वपत यूयम्॥)
किं भणह मं सहिओ ‘मा मर, दीसिहह सो जिअंतीए’।
कज्जालाओ एसो सिणेहमग्गो उण ण होइ॥ ११॥
(किं भणथ मां सख्यः मा म्रियस्व द्रक्ष्यते स जीवन्त्या।
कार्यालाप एष स्नेहमार्गः पुनर्न भवति॥)
(गास. ६१९वे.)
६. मार्गोदीक्षणं यथा—
सुरअसुहलालसाहिं पिअअमरत्थंतरेसु पुणरुत्तं।
पेसिज्जंति सरहसं समअं दूईहि दिट्टीओ॥ १२॥
{सुरतसुखलालसाभिः प्रियतमरथ्यान्तरेषु पुनरुक्तम्।
प्रेष्यन्ते सरभसं समकं दूतीभिः दृष्टयः॥}
कं तुंगथगुक्खित्तेण पुत्ति दारट्ठिआ पलोएसि।
उण्णामिअ-कलस-णिवेसिअग्घकमलेण व मुहेण॥ १३॥
(कं तुङ्गस्तनोत्क्षिप्तेन पुत्रि द्वारस्थिता प्रलोकयसि।
उन्नमितकलशनिवेशितार्घकमलेनेव मुखेन ॥)
(गास. २५६वे.)
७. समागमचिन्ता यथा—(गास. ९१८ वे
वच्चिहिइ सो घरं से लहिहिइ ओआसमेहिइ सआसं।
भणिहिइ जं भणिअव्वं, पच्चुत्तं किं णु पाविहिइ॥ १४॥
{व्रजिष्यति स गृहं तस्या:, लप्स्यतेऽवकाशमेष्यति सकाशम्।
भणिष्यति यद् भणितव्यं युक्तमुत्तरं किं नु प्राप्स्यति॥}
आअअस्स किं णु, काहं/किं वोच्छं कह णु होहिइ इमंति।
पढमुग्गअसाहस—आरिआएॅ हिअअं थरहरेइ॥ १५॥
{आगतस्य किं नु करिष्यामि किं प्रवक्ष्यामि कथं नु भविष्यति इदमिति।
प्रथमोद्गतसाहसकारिकाया हृदयं थरथरायते॥}
(गास. २.८७)
८. चिरयद्विमर्शो यथा—(गास. ८५५वे)
दूई गआ चिराअह किं सो मह वासमेहिइ ण व त्ति।
जीवितमरणंतरसंठिआए अंदोलए हिअअं॥ १६॥
(दूती गता चिरायते किं स मम वासमेष्यति न वेति।
जीवितमरणान्तरसंस्थिताया आन्दोलायते हृदयम्॥)
दूइ ण एइ चंदो पि उग्गओ जामिणी वि वोलेइ।
सव्वं सव्वओ च्चिअ विसंठुलं कस्स किं भणिमो॥ १७॥
(दूती न एति चन्द्रोऽपि उद्गतः यामिन्यति अतिक्रामति।
सर्वं सर्वत एव विसंष्ठुलं कस्य किं भणामः॥)
(गास.८५४वे.)
९. दूतागमनं यथा—(सेब. १०.७४)
सहिअण—हत्थाहिमुखं दरइअविसेसअं वि अक्खिविऊणं।
जुअईहि पडिणिउत्तो अवलोहिज्जइ ससंभम दूइजणो॥ १८॥
{सखीजनहस्ताभिमुखं धरति च धृतं विशेषकं व्याक्षिप्य।
युवतिभिः प्रतिनिवृत्तोऽवलोक्यते ससंभ्रमं दूतीजनः॥}
अहिसारणं ण गेण्हइ ण संठवेइ अलअं ण पुच्छइ दूइं।
चंदालोअपडिहदो वेवइ मूढहिअओ विलासिणि—सत्थो॥ १९॥
(अभिसारणं न गृहणाति न संस्थापयति अलकं न पृच्छति दूतीम्।
चन्द्रलोकप्रतिहतः स्थपितः मूढहृदयः विलासिनीसार्थः॥)
सेब. १०.६५
१०. आकारपरीक्षा यथा—(गास. ८२८वे.)
उप्फुल्ललोअणेणं कवोलओसट्टमाणसेएण।
अभणंतेण वि भणिआ मुहेण से कज्जणिव्वित्ती॥ २०॥
(उत्फुल्ललोचनेन कपोलविसर्पत्स्वेदेन।
अभणतापि भणिता मुखेन तस्याः कार्यनिर्वृतिः॥)
णाअओ त्ति पेच्छइ परिहासुल्लाविरीएँ दूई सो।
णूमंतीए पहरिसो ओसट्टइ गंडपासेसु॥ २१॥
{स नागत इति प्रेक्षध्वं परिहासोल्लापशीलाया दूत्याः।
छादयन्त्याः (=गोपायन्त्याः) प्रहर्षो विसर्पति गणड—पार्श्वयोः॥}
गास.८५६वे
११. दूतप्रतिभेदो यथा—
एहि गमागमखेओसरंतपम्मुत्तकुसुमधम्मिल्ले।
सहि वीसम ता व भणेज्जउ वा जं तेण संदिट्ठं॥ २२॥
(एहि गमागमखेदापसरप्रमुक्तकुसुमधम्मिल्ले।
सखि! विश्राम्य तावद् भण्यतां वा यत्तेन संदिष्टम्॥)
जं तुह कज्जं तं चिअ कज्जं मज्झ त्ति जं सआ भणिसि।
ओ दूइ सच्चवअणे अज्ज सि पारं गआ तस्स॥ २३॥
{यत्तव कार्यं तदेव ममेति यत् सदा भणसि।
हे दूति! सत्यवचनेऽद्यासि पारं गता तस्य॥}
गास. ८६१वे.,वल.४१५
१२. दूतपरिप्रश्नो यथा—(गास. ८५७वे.)
कह णु गआ कह दिट्ठो किं भणिअं किं व तेण पडिपण्णं।
एअं च्चिअ ण समप्पइ पुणरुत्तं जंपमाणीए॥ २४॥
(कथं नु गता कथं दृष्टः किं भणितं कि च तेन प्रतिपत्रम्।
एवमेव न समाप्यते पुनरुक्तं जल्पमानायाः॥)
पिअपासाहि णिअत्तो सच्चं अलिअं व जं भणइ दूइजणो।
तां च्चिअ कामिणिसत्थो दूमेंतिं पि बहुसो णिअत्तेइ कहं॥ २४॥
{प्रियपार्श्वात् निवृत्तः सत्यं अलीकामिव या भणाति दूतीजनः।
तामेव कामिनीसार्थः दुन्वतीमपि बहुशो निवर्तयति कथाम्॥}
सेब. १०.६७
१३. दूतव्याहारो यथा—
जइआइरितवेसविअविअस्सदूलसीसंत ।
संगमसूएसमबहिअमणहरा होंति संदेसा॥ २६॥
(पृ. १२९७)
अवलंबिज्जउ धीरं सासो ण हु(अ)सो एहिह इहग्गए वि पओसे।
इअ दूईहि तुलिज्जइ पढमाणिअपिओ विलसिणिसत्थो॥ २७॥
{अवलम्ब्यतां धैर्यं श्वसो न अतिगतेऽपि प्रदोषे।
इति दूतीभिः तुल्यते प्रथमानीतप्रियतमः विलसिनीसार्थः॥}
(सेब.१०.७९)
१४. दूतवाक्याकर्णनं यथा—(गास. ८५८वे.)
दूई—मुह—अंद—पुलोइरी्एँ किं भणिहिइ त्ति अज्झाए।
पिअ—संगम—गलिअ—मणोरहाएँ हिअअं धरधरेइ॥ २८॥
(दूतीमुखचन्द्रप्रलोकनशीलायाः किं भणिष्यतीत्यार्यायाः।
प्रियसङ्गमगलितमनोरथायाः हृदयं धड़धड़ायते॥)
काए वि महुरसद्दं सरस—परिप्फुड—विइण्ण—मुह—सोहं।
मुइअं दूई—वअणं कीरइ कण्णे कुवलअं व॥ २९॥
{कयाऽपि मधुरशब्दं(मधु-रसार्द्रं) सरसपरिस्फुटवितीर्णमुखशोभम्।
मुदितं दूतीवचनं क्रियते कर्णे कुवलयमिव॥}
१५. गमनवृत्तान्तो यथा—
बहिणिग्गआम्हि वअणेण तुज्झ पत्ता अ पत्तलणिउंजं।
उद्दाणं जत्थ मिवेइ गमेइ सो जणो विरहदुक्खाइं॥ ३०॥
(बहिर्निर्गतास्मि वचनेन तव प्राप्ता च पत्रलनिकुञ्जम्।
उद्यानं यत्र गमयति स जनो विरहदुःखानि॥)
अप्पाइआइ दुह देण जाइ ताण मए ण मुणिआइ।
अंहुब्भत—सास—पडिक्ख—वंलत—विसम—क्खर—पआइं॥ ३१॥
(आप्यायितानि तव तेन यानि तानि मया न ज्ञातानि।
अभ्युद्गतश्वासप्रतीक्षवलमानविषमाक्षरपदानि ॥)
(गास. ८५९वे.)
१६. प्रवृत्त्युपलम्भो यथा—
क्षतैः क्वापि प्रीतः क्वचिदपि निमित्तैः पुलकितः क्वचिच्चोपश्रुत्या शमितपरितापो विकसितः।
प्रसादार्थं मुग्धे! तव विगतलज्जो (ऽग्रभणिति—) ष्वभिज्ञो दैवज्ञं जनमपि च ते पृच्छति पतिः॥ ३२॥
असौ विद्याधारः शिशुरपि विनिर्गत्य भवना— दिहायातस्संप्रत्यविकलशरच्चन्द्रमधुरः।
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव॥ ३३॥
(मामा. २.११) १७. प्रियसन्देशो यथा—(गास. ८५०वे.)
चंदो वि चंदवअणे मुणालवाहालए मुणालाइं।
इंदीवराइ इंदीवरच्छि तावेति तुह विरहो॥ ३४॥
(चन्द्रोऽपि चन्द्रवदने मृणालबाहालते मृणालानि।
इन्दीवराणीन्दीवराक्षि! तापयन्ति तव विरहः॥)
चंदमुहि चंदधवला दीहा दीहच्छि तुह विओअम्मि।
चउजामा सअजाम व्व जामिणी कहं वि बोलीणा॥ ३५॥
(चन्द्रमुखि चन्द्रधवला दीर्घा दीर्घाक्ष! तव वियोगे।
चतुर्यामा शतयामेव यामिनी कथमपि व्यालीना॥)
(गास. ३.५२)
१८. सुहृत्संमन्त्रणं यथा—(कादकसा. ४.९६, ९८)
अहं यथातथा वापि भवेयं स तु मत्कृते।
कथं भविष्यतीत्येषा चिन्ता दलयतीव माम्॥ ३६॥
वद किं करवाण्यत्र मुह्यतीव मनो मम।
मा भून्मे दुस्तरो विप्रवधैनसि निमज्जनम्॥ ३७॥
१९. अवस्थानुभवो यथा—(कादकसा. ४.९९)
इत्यादि विलपन्त्या मे तत्कालसुलभोदया।
जहार चेतनां मूर्च्छा निद्रेव नयनद्युतिम्॥ ३८॥
सा तु तैमिरकस्येव बभूव बहुलक्षपा।
मोहायाद्याप्यनाय्यैव/र्येव सुतरां मनसो मम॥ ३९॥
२०. सहायोत्साहनं यथा—(कादकसा. ६.३१, मामा. २.१)
उत्तिष्ठ यदि जीवन्तीं मामिच्छसि तमानय।
अह नेतुमशक्ता हि सुदूरमिदमन्तरम्॥ ४०॥
मनोरोगस्तीव्रो विषमिव विसर्पन्नविरत— प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव।
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां ज्ञा/त्रातुं तातः प्रभवति न चाम्बा न भवती॥ ४१॥
२१. प्रियदूतागमनं यथा—(कादकसा. ५.९५, ६.९)
निशि तस्यां व्यतीतायामन्येद्युरुदिते रवौ।
केयूरकस्तमागत्य हेमकूटादथाब्रवीत्॥ ४२॥
दिनेष्वथ व्यतीतेषु पत्रलेखा तदन्तिकम्।
प्रापद् बलाहकाश्वीयनिर्वृत्तपथसौष्ठवा ॥ ४३॥
२२. दूतप्रतिपत्तिर्यथा—(कुसं. ६.५०, ५२)
तानर्घ्यानर्घ्यमादाय दूरात् प्रत्युद्ययौ गिरिः।
नामयन् सारगुरुभिः पादन्यासैर्वसुन्धराम्॥ ४४॥
विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य देशिकः।
स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः॥ ४५॥
२३. वार्ताभिधानं यथा—(कुसं. ६.५५, ५७)
मूढं बुद्धमिवात्मानं हैमीभूतमिवायसम्।
भूमेर्दिवमिवारूढं मन्ये भवदनुग्रहात्॥ ४६॥
अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः।
मूध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः॥ ४७॥
२४. कार्यपर्यनुयोगो यथा—(कुसं. ६.६१, ६२)
कर्तव्यं वो न पश्यामि स्याच्चेत् किं नोपदिश्यते/पपद्यते।
मन्ये मत्पावनायैव प्रस्थानं भवतामिह॥ ४८॥
तथापि कार्ये कस्मिंश्चिदाज्ञां मे दातुमर्हथ।
विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु॥ ४९॥
२५. दूतवाक्यं यथा—(कादकसा. ४.८९, ९०)
ततोऽहमिदमेवात्र प्राप्तकालमिति द्रुतम्।
राजपुत्रि! सुहृत्प्राणरक्षणार्थमिहागतः॥ ५०॥
अतः परं तु सामर्थ्यगतार्था या यथा गिरः।
कण्ठे विपरिवर्तन्ते काश्चित् त्वमपि वेत्थ तत्॥ ५१॥
२६. उत्तराभ्युपपत्तिर्यथा—(कुसं. ५.६३, ६४)
अथाग्रहस्ते मुकुलीकृताङ्गुलौ निवेशयन्ती स्फटिकाक्षमण्डलम्।
कथञ्चिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत॥ ५२॥
यथाश्रुतं वेदविदां वर त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥ ५३॥
२७. दूतप्रतिवाक्यं यथा—(कुसं. ५.६५, ७२)
अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुर एव वर्तसे।
अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न तु कर्तुमुत्सहे॥ ५४॥
वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु।
वरेषु यद् बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने॥ ५५॥
२८. दूतवाक्याक्षेपो यथा—(कुसं. ५.७३, ८२)
विपत्प्रतीकारपरेण मङ्गलं निपेव्यते भूतिसमुत्सुकेन वा।
जगच्छरण्यस्य निराशिषस्सतः किमेभिराशोपहतात्मवृत्तिभिः॥ ५६॥
अलं विवादेन यथाश्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते॥ ५७॥
२९. दूताभिभर्त्सनं यथा—(कुसं. ५.७४, ७५)
इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया।
विवर्तितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते॥ ५८॥
उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम्।
अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम्॥ ५९॥
३०. परिजन(/नादि)क्षोभो यथा—(कादकसा. ४.१०१, १०२)
किं शास्त्र गुरवः के वा का लज्जा का कुलस्थितिः।
रक्ष्यन्तामात्मनः प्राणा यूनस्तस्य च सर्वथा॥ ६०॥
गन्धर्वाणां विवाहोऽयमिच्छयान्योन्यसङ्गमः।
शास्त्रषु पठितस्तस्मात् तूर्णमुत्तिष्ठ गम्यताम्॥ ६१॥
३१. गुरुजनाशङ्का यथा—(रत्ना २.१)
दुल्लहजणाणुराओ लज्जा गरुई परव्वसो अप्पा।
पिअसहि विसमं पेम्मं मरणं सरणं णवर एक्कं॥ ६२॥
(दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा।
प्रियसखि विषमं प्रेम मरणं शरणं केवलमेकम्॥)
ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति।
मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्॥ ६३॥
(मामा. २.२) ३२. सहायावेगो यथा—(कुसं. ५.६१, ६०)
न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरास्रान्तरवीक्षितामिमाम्।
तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम्॥ ६४॥
द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपस्साक्षिषु दृष्टमेष्वपि।
न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः॥ ६५॥
३३. इतिकर्तव्यता यथा—(कादकसा. ५.१०६, १०७)
तदर्थमथ संमन्त्र्य सह मन्त्रिसुतेन च।
एवमेतदिति ध्यात्वा प्रस्थाने स्थैर्यमग्रहीत्॥ ६६॥
सत्यं वेद्मि तव प्रसादमधिकं चेतो ममेदं पदं दातुं नेच्छति किन्तु शासनमिदं नोल्लङ्घनीयं गुरोः।
मन्युः सम्प्रति संहितां पुनरिहागन्तास्मि कादम्बरीं सन्दिश्येति सबाष्पगद्गदमसौ केयूरकं प्राहिणोत्॥ ६७॥
३४. स्वयंप्रवृत्तिर्यथा—
आरूढविस्फुरितचापमनोजराजे सज्जीकृते दयितसङ्गमसङ्गराय।
उच्चैर्नितम्बजयहस्तिनि हेमकक्ष्यामेणेक्षणा सरभसं निबिडीचकार॥ ६८॥
क्व प्रस्थितासि करभोरु घने निशीथे प्राणाधिको वसति यत्र जनः प्रियो मे।
एकाकिनी वद कथं न बिभेषि बाले नन्वस्ति पुङ्खितशरो मदनः सहायः॥ ६९॥
३५. नायकानयनं यथा—(किराता. १०.४७, ७०)
सखि दयितमिहानयेति सा मां प्रहितवती कुसुमेषुणा विभिन्ना।
हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागतं विवेद॥ ७०॥
तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे।
पुनरपि सुलभं तवानुरागी युवतिजनः खलु नाप्यतेऽनुरूपः॥ ७१॥
३६. प्रियाभिगमो यथा—(कुसं. ५.८४, ८५)
इतो गमिष्याम्यथवेतिवादिनी चचाल सा च स्तनभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः॥ ७२॥
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि— र्निक्षेप एव पदमुद्धृतमुद्वहन्ती।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ॥ ७३॥
३७. उपस्थापनं यथा—
वेधाल्लणिं अप्पुव्वहणणीसहहीए कए वि समत्ताहि।
आअंचिअविहुत्तं गमणं छातरलच्छीए॥ ७४॥
एंतो वि पलोअनोच्छाहविअलंतकेसहत्थाए।
विअलंतवलआहणाए कहं वि संभाविओ दइओ॥ ७५॥
(आयन्नपि प्रलोकनोत्साहविगलत्केशहस्तया।
विगलद्वलयाभरणया कथमपि संभावितो दयितः॥)
३८. सम्भ्रमविकल्पो यथा—
तुरिअ-पहाइअ-दिट्टम्मि परिअणे आगओ त्ति सोऊण।
अज्जा सज्झसविअला पअं पि दाउं ण पारेइ॥ ७६॥
{त्वरित—प्रधावित—दृष्टे परिजने आगत इति क्षुत्वा।
आर्या साध्वसविकला पदमपि दातुं न पारयति॥}
सज्झसवेसवेविरकोमलोरुपडिसिद्धसमुहसेभारे ।
केण व दिण्णं ताविइ पिएण परिरंभिआ रमणी॥ ७७॥
{साध्वसवेपनशीलकोमलोरुप्रतिषिद्धसमूहसंभारे ।
केन वा दत्तं तावदिति(दिण्णोदंत त्ति) प्रियेण परिरब्धा रमणी॥}
३९. नायकाप्रतिबोधनं यथा—(मामा. ६.१५)
पुरश्चक्षूरागस्तदनु मनसो मन्युपरता तनुग्लानिर्यस्य त्वयि समभवद् यत्र च तव।
युवा सोऽयं प्रेयानिह सुवदने मुञ्च जडतां विधातुर्वैदग्ध्यं विलसतु सकामोऽस्तु मदनः॥ ७८॥
त्वं वत्सलेति कथमप्यवलम्बितात्मा सत्यं जनोऽयमियतो दिवसाननैषीत्।
आविद्ध—कङ्कण—कर—प्रणय—प्रसादं आसाद्य नन्दतु चिराय फलन्तु कामाः॥ ७९॥
४०. सुहृत्परिहासो यथा—(रघु. ६.८२, कुसं. ७.१९)
तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे।
आर्ये व्रजावान्यत इत्यथैनां वधूसूयाकुलितं ददर्श॥ ८०॥
पत्युः शिरश्चन्द्रकलमनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वा चरणौ कृताशीर् माल्येन तां निर्वचनं जघान॥ ८१॥
अथातो दूतपुरस्कार इतिवृत्ताख्यानमवस्थाज्ञानमवधानं सम्प्रयोगसम्प्रधानं शक्तिविवेचनं समागमोपायः समीहितसिद्धिरिति प्रपञ्चतोऽभिधीयन्ते।
(४१. दूतपुरस्कारः)
तत्र दूतीसखीनायकादिभेदाद् दूतपुरस्कारप्रपञ्चः। तत्र —
१. दूतीकृतो यथा—(मामा. १.१८/१९)
कामन्दकी— वत्से अवलोकिते, साधु साधु। अनेन मत्प्रियाभियोगेन स्मारयसि मे पूर्वशिष्यां सौदामनीम्।
यथा वा— साधु सखे भूरिवसो साधु। प्रभवति निजस्य कन्यकाजनस्य महाराज इति उभयलोकाविरुद्धमुत्तरमुपन्यस्तम्॥ ८२॥ (मामा. २.२/३)
यथा च—(मामा. १०.२०)
एह्येहि भूरिजनजीवितदानपुण्य— सम्भारधारिणि! चिरादसि हन्त दृष्टा।
दत्तप्रमोदमपि नन्दय मे शरीरम् आलिङ्ग्य सौहृदनिधे! विरम प्रणामात्॥ ८३॥
यतःmdash;(मामा. १०.२१)
वन्द्या त्वमेव जगतः स्पृहणीयसिद्धिः एवंविधैर्विलसितैरतिबोधिसत्त्वैः ।
यस्याः पुरा परिचयप्रतिबद्धबीजम् उद्भूतभूरिफलशालि विजृम्भितेन॥ ८४॥
२. सखीकृतो यथा—(मामा. ६.१५/१६)
साधु लवङ्गिके साधु। अवसरे खलु अनुरागो(प)कारयोर्गरीयसोरुपन्यासः।
यथा वा—(मामा. ४.६)
‘दया वा स्नेहो वा भगवति निजेऽस्मिन् शिशुजने’॥ ८५॥
इत्यादि यथा च—(मामा. २.७/८)
जदा भअवदीए आणत्तं। अण्णहा तस्सिं अवसरे दुद्दंसणे अदिक्कंतजोव्वणे किंति ण विआरिदं अमच्चेण। ता पसीद भअवदि पिरत्ताहि एत्तो जीवंतमरणादो पिअसहिं तुह वि एसा दुहिदा एव्व।
(यथा भगवत्याऽऽज्ञप्तम्। अन्यथा तस्मिन् अवसरे दुर्दर्शने अतिक्रन्तयौवने किमिति न विचारितम् अमात्येन? तत् प्रसीद भगवति परित्रायस्व एतस्मात् जीवन्मरणात् प्रियसखीम्, तवापि खलु एषा दुहितैव॥ ८६॥)
३. नायककृतो यथा—(मामा. १०.२२)
अपि चिन्तामणिश्चिन्तापरिश्रममपेक्षते।
इदं त्वकृतमन्येन कृतमाश्चर्यमार्यया॥ ८७॥
यथा वा—(रत्ना. ४.१९)
‘यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले’॥ ८८॥
(पृ.६३९) इत्यादि ४. नायिकाकृतो यथा—(मामा. ६.७/८)
हा परमत्थवादिणि पिअसहि लवंगिए एसा दाणिं पिअसही अणाधा मरणे वट्टमाणा आगव्भनिग्गमणिरंतरोपऊढवीसंभसरिसं परिस्सज्ज त्ति अब्भत्थेदि। (हा परमार्थवादिनि प्रियसखि, लवङ्गिके, एषा इदानीं प्रियसखी अनाथा मरणे वर्तमाना आगर्भनिर्गमनिरन्तरोपारूढविस्रम्भसदृशं परिष्वंजेति अभ्यर्थयते।)
यथा वा—(मामा. ७.१/२)
मदयन्तिका— किं पुणो वि पणअभंगेण किदावराहो अअं जणो जेण एवं मंतेसि। पिअसहि तुमं लवंगिअ अ संपदं मे हिअअं।
(किं पुनरपि प्रणयभङ्गेन कृतापराधः अयं जनो येन एवं मन्त्रयसे। प्रियसखि त्वं लवङ्गिका च साम्प्रतं मे हृदयम्॥ ८९॥) (पृ. १८०, NS 1936)
५. एवं सामान्यतोऽपि यथा—
कह वि विलग्गालोअण—णीससणुब्भडपिआहिउक्कंठं।
दुल्लहजणाणुरत्तं दूइओ पुण जिआवेंति॥ १०॥
(कथमपि विलग्नालोकननिःश्वासनोद्भटप्रियाधिकोत्कण्ठम्।
दुर्लभजनानुरक्तं दूत्यः पुनर्जीवयन्ति ॥)
कत्तो सन्देससुहं कत्तो सरसाइ मोहणसुहाइ।
चिंतामणि व्व लोअम्मि सा हु दूई जइ ण होइ॥ ९१॥
(कुतः सन्देशसुखं कुतः सरसानि मोहनसुखानि।
चिन्तामणिरिव लोके सा खलु दूती यदि न भवति।)
जइआइरितवेसविअविअसदूल सीसंत।
संगमसुहसमब्भहिअमणरहा होंति संदेसा॥ ९२a॥
(पृ.१२८९) (सङ्गमसुखसमाभ्यधिकमनोरथा भवन्ति सन्देशाः॥)
असङ्कल्पितमप्यर्थमुत्सृष्टमपि कारणात्।
पुनरावर्तयत्येव दूती वचनकौशलात्॥ ९२b॥
(कामसू.५.४) (४२. इतिवृत्ताख्यानम्)
दूतीसखीनायिकाव्याख्यानप्रपञ्चः। तत्र—
१. दूतीसख्याः यथा—(मामा. २.८/९) ‘श्रूयतामस्ति, विदर्भाधिपस्य नरपतेः अमात्य’ इत्यत आरभ्य ‘स एष माधवो नाम’ इतियावत्।
२. दूतीनायिका यथा—(मामा. ३.१०/११)
कामन्दकी— मालत्याश्चिबुकमुन्नमय्य ‘शृणु विचित्रमिदं सुभगे। अस्ति तावदेकदा प्रसङ्गतः कथित एव मया माधवाभिधानः कुमारो यस्त्वमिव मामकीनस्य मनसो द्वितीयं बन्धनम्’ इत्युपक्रम्य ‘अहो उपन्यास अहो महत्त्वारोपणे यत्न’ इति माधवस्य सम्प्रत्ययोत्पत्तिरिति यावत्।
३. दूती नायकस्य यथा—(मामा. ४.४/५)
एवमतिदुर्मनायमानः पीडयति मां वत्सो (माधवः) वत्सा च मालती। दुष्करं निराशा प्रणिति (इति)। पृच्छामि च तावदायुष्मन्तंमपि। भवानमंस्त यथा भूरिवसुरेव मालतीमस्मभ्यं दास्यतीति। (अतः) प्रभवति ॰ ॰ ॰ कथञ्चन मामनवधानां मन्यसे’ इतियावत्।
४. एवं सखी दूत्या यथा—(मामा. ३.१२/१३)
‘भअवदी एव्वंवादिणि त्ति अत्थि। अंहाणं वि भट्टिदारिआ भवणसण्णरच्छामुहमुहुत्तवेदनस्स/मण्डणस्स तस्स एव्व देवस्स बहुसो अणुभूददंसणा भविअ रविअरासिलिट्ठमुद्धकमलिणीकंदसुंदरावअवसोहाविहा— विदाणंगवेअणावइअररमणीआ वि परिअणकुलदिण्णाहिणंदइ कलाकीला— वसाणदां वम्महस्स’ इतियावत्।
(भगवती एवंवादिनीति अस्ति। अस्माकमपि भर्तृदारिका भवनासन्नरथ्यामुखमुहूर्तवेदनस्य/ मण्डनस्य तस्यैव देवस्य बहुशोऽनुभूतदर्शना भूत्वा रविकराश्लिष्टमुग्धकमलिनीकन्द— सुन्दरावयवशोभाविभावितानङ्गवेदनाव्यतिकररमणीयापि परिजनकुलदत्ताऽभिनन्दति कलाक्रीडावसानतां मन्मथस्य ॥ ९३॥)
५. सखी नाथिकाया यथा— (कादकसा. ७.५३–५५,७७, ७८)
अथ बिभ्रज्जटास्तन्वीः स्रुताम्बुकणदन्तुराः।
स्त/स्नानार्द्रवल्कलस्ताभिरदृश्यत कपिञ्जलः॥ ९४॥
स्वयमेवोपसृत्यैष महाश्वेतामभाषत।
राजपुत्र्यपि नामायं प्रत्यभिज्ञायते जनः॥ ९५॥
अहं कपिञ्जलस्तस्य वयस्यो दयितस्य ते।
चिरागमनदौरात्म्यादुपालभ्योऽस्मि न त्वया॥ ९६॥
इत्यत आरभ्य,
कपिञ्जलकथातस्तं वैशम्पायनविग्रहम्।
पुण्डरीकमभिज्ञाय महाश्वेतान्वतप्यत॥ ९७॥
द्वितीयेऽप्यहमेवास्य जाता जन्मनि मृत्यवे।
शप्तो ममानुरक्तोऽसौ मयेति विललाप सा॥ ९८॥
इति यावत् ६. सखी नायकस्य यथा—(कुसं. ५.५२, ६२)
सखी तदीया तमुवाच वर्णिनं निबोध साधो तव चेत्कुतूहलम्।
यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः॥ ९९॥
इत्यत उपक्रम्य,
अगूढसद्भावमितीङ्गितज्ञया निवेदिते नैष्ठिकसुन्दरस्तया।
अपीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः॥ १००॥
इति यावत् ७. नायको दूत्या यथा—(मामा. ४.१)
‘अद्याहमन्तर्नगर एव कांचिद् वार्तामुपश्रुत्य माधवस्य चित्तोद्वेगमधिकमाशङ्कमानः त्वरितमवलोकिताविदितकुसुमाकरोद्यानवृत्तान्तः परापतन्नेव शार्दूलावस्कन्देन गोचरमिमामभिजातकन्यकामभ्युपपन्नवान्’॥ १०१॥
८. नायकः सख्युर्यथा—‘श्रूयताम्, गतोऽहमवलोकिताजनितकौतुकः कामदेवायतनम् (मामा. १.२३/२४)’ इत्यत आरभ्य,
जयति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलेचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ १०२॥
(मामा. १.३९) इति यावत्।
९. नायको नायिकाया यथा—(मामा. ५.२७)
त्वत्पाणिपङ्कजपरिग्रहपुण्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः ।
भ्राम्यत्रृमांसपणनाय परेतभूमा— वाकर्ण्य भीरु रुदितानि तवागतोऽस्मि॥ १०३॥
१०. नायिकाय दूत्या यथा—(मामा. ७.१/२)
‘पिअसहि बुद्धरक्खिदापक्खवादपच्चएण पधमं एव्व तस्सिं जणे अचिरणिव्वुददंसणा भविअ’ (प्रियसखि बुद्धरक्षितापक्षपातप्रत्ययेन प्रथममेव तस्मिन् जने अचिरनिर्वृत्तदर्शना भूत्वा॥) इत्यत आरभ्य
‘पिअसमक्खं सव्वमणुभविअ झडिति सुण्णारण्णसण्णिहं पुणो वि मंदभाइणी विभावेमि जीवलोअं’ (प्रियसमक्षं सर्वमनुभूय झडिति शून्यारण्यसन्निभं पुनरपि मन्दभागिनी विभावयामि जीवलोकम्॥) इति यावत्। यद्वा ‘कथं पुणो दीअणाडिआविच्छेदपडहो ताडिअदि।’ (कथं पुनः दीर्घनाडिकाविच्छेदपटहः ताड्यते ॥ १०४॥) इति यावत्।
११. नायिकासख्या यथा—(शाकु. ३.१०)
शाकुन्तले ‘जदो पहुदि मम दंसणपहं गदो तपोवणरक्खी राएसी तदो आरहिअ तग्गदेण अहिलासेण एआरिसावत्था संउत्ता। तहा करेह यहा तस्स राएसिणो अणुकंपणीआ होमि। अह अण्णहा सिंच दाणिं मे उदअं।’ (यतः प्रभृति मम दर्शनपथमागतः तपोवनरक्षी राजर्षिः, तत आरभ्य तद्गतेन अभिलाषेण एतादृशावस्था संवृत्ता। तथा कुरुतं यथा तस्य राजर्षेः अनुकम्पनीया भवामि। अथ अन्यथा सिञ्चतं इदानीं मे उदकम्।)
राजा— सहर्षं ‘श्रुतं श्रोतव्यम्। विमर्शच्छेदि वचनम्। एतावान् कामिन’ इत्यारभ्य ॥ १०५॥ (शाकु. ३.१०)
तपति तनुगात्रि! मदनस्त्वामनिशं मां पुनर्दहत्येव।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः॥ १०६॥
इति यावत्। (शाकु. ३.१४)
१२.नायिका नायकस्य यथा—(कुसं. ५.६४)
यथाश्रुतं वेदविदां वर! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥ १०७॥
एवमन्येऽपि यथा—(मामा. ६.१५ / १६)
‘भअवदि किसण—रअणि—मसाण—पचार—विव्वसिद—विसम—ववसाअ— णिट्ठाविद—चंड—पचंडपखंडदोद्दण्डसाहसो साहसिओ एसो। अदो पिअसही उक्कंविदा।’ (भगवति कृष्णरजनीश्मशानप्रचारव्यवसितविषमव्यवसायनिष्ठापितचण्डप्रचण्ड— पाखण्डदोर्दण्डसाहसो साहसिक एषः। अतः प्रियसखी उत्कम्पिता।)
यथा वा—(मामा. ३.१४/१५)
‘अण्णं च जाणिदव्वं भअवदीए। एतच्च माहवपदिच्चंदअसणाहं चित्तफलअं। (मालत्याः स्तनांशुकमपनीय) एसा अ तस्स एव्व सहत्थविरइदा कंठविलंबिदा बउलमाला जीविदप्पिअसहित्ति॥ {अन्यच्च ज्ञातव्यं भगवत्या। एतच्च माधवप्रतिच्छन्दकसनाथं चित्रफलकम्। (मालत्याः स्तनांशुकमपनीय) एषा च तस्यैव स्वहस्तविरचिता कण्ठविलम्बिता बकुलमाला जीवितप्रियसखीति।} यद्व्यालव्रणितसुहृत्प्रमोहमुग्धं सौजन्याद् विहितम्’॥ १०८॥ (मामा.४.१) इत्यादि
अपि च—(रत्ना. २.६)
दुर्वारां मदनशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम्।
तद्भूयः शुकशिशुशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति॥ १०९॥
अस्यावस्थानिवेदनात्प्रयोज्य ॰ ॰ ॰ भेदः।
(४३. अवस्थाज्ञानम्)
सखी—दूती—नायकोदासीनेषु दृष्टश्रुतानुमितभेदावस्थाज्ञानं प्रपञ्चः। तत्र —
१. सख्या दृष्टं यथा—
प्रम्लानोत्पलकोमले सखि दृशौ नीलाञ्जनेनाञ्चिते कर्पूरच्छुरणाच्च गण्डफलके संवर्गिकः/र्धिंतः पाण्डिमा।
श्वासाः सन्तु च कन्दुकभ्रमिभुवः किन्तु प्रभावाहिना— मङ्गानां क्रशिमानमुत्कटममुं को नाम नोत्प्रेक्षते॥ ११०॥
२. सख्या श्रुतं यथा—
प्रियसखि! विपद्दण्डाघातप्रवातपरम्परा— परिचयचले चिन्ताचक्रे विधाय विधिः खलः।
मृदमिव हठात् पिण्डीकृत्य प्रगल्भकुलालवद् भ्रमयति मनो नो जानीमः किमत्र विधास्यति॥ १११॥
३.सख्या अनुमितं यथा—(विसा. २.१४)
यत् तालीदलपाकपाण्डुरदनं यद् दुर्दिनं नेत्रयोः यत् प्रेङ्खोलितकेलिपङ्कजवनाश्वासाः प्रसर्पन्ति च।
गौरी क्रुध्यतु वर्तते यदि न ते तत् कोऽपि चित्ते युवा धिग्धिक्त्वां सहपांसुखेलनसखीलोकेऽपि यन्निह्नवः॥ ११२॥
४. दूत्या दृष्टं यथा—(मामा. २.३)
निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलशेषा मूर्तिः शशिन इव नेत्रेत्सवकरी।
अवस्थामापन्ना मदनदहनोद्दाहविधुरा— मियं नः कल्याणी रमयति मनः कम्पयति च॥ ११३॥
५. दूत्या श्रुतं यथा—(मामा. ३.१३)
यदि तद्विषयोऽनुरागबन्धः स्फुटमेतद्धि फलं मनोज्ञतायाः।
इति नन्दितमप्यवस्थयास्याः हृदयं दारुणया विदार्यते मे॥ ११४॥
६. दूत्यानुमितं यथा—(मामा. ४.२)
ईषत्तिर्यग्वलनविषमं कूणितप्रान्तमेतत् प्रेमोद्भेदस्तिमितललितं किञ्चिदाकुञ्चितभ्रु।
अन्तर्मोदानुभवमसृणस्रस्तनिष्कम्पपक्ष्म— व्यक्तं शंसत्यचिरमनयोर्दृष्टमाकेकराक्षम्॥ ११५॥
७. नायकस्य दृष्टं यथा—(शाकु. ३.८)
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥ ११६॥
८.नायकस्य श्रुतं यथा—(सूमु. १.६०)
तन्वङ्गयास्त्वमिति प्रमोदविशदं नास्तीति खेदालसं चक्षुर्द्वारपथावतारिणि जने व्यापारयन्त्या मुहुः।
हर्षार्तिप्रभवप्रतिक्षणभवस्वेदाम्बुदाहज्वरे बाष्पाम्भःकणिकाः पयोधरतटे पुष्यन्ति शुष्यन्ति च॥ ११७॥
९. नायकस्यानुमितं यथा—(शाकु. २.२)
स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव। मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी सर्वं तत् किल मत्परायणमहो कामी स्वतां पश्यति॥ ११८॥
एवं नायकविषये सख्यादीनां दृष्टं यथा—(मामा. १.३५)
मा मूमुहत् खलु भवन्तमनन्यजन्मा मा ते मलीमसविकाराघना मतिर्भूत्।
इत्यादि नन्विह निरर्थकमेव यस्मिन् कामश्च जृम्भितगुणो नवयौवनं च॥ ११९॥
१०. श्रुतं यथा—(मामा. ३.१२)
धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति वकुलामोदगर्भस्य वायोः।
भा(दा)वप्रेम्णा सरसबिसिनीपत्रमात्रोत्तरीय— स्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान्॥ १२०॥
११. अनुमितं यथा—(मामा. ३. ९)
यदिन्दावानन्दं प्रणयिनि जने वा न भजते व्यनक्त्यन्तस्तापं तदयमतिधीरोऽपि विषमम्।
प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डु मधुरं वपुः क्षामं क्षामं वहति रमणीयश्च भवति॥ १२१॥
१२. नायिकातो नायकस्य श्रुतं यथा—(शाकु. ३.१३)
तुह/तुज्झ ण आणे हिअअं मह अण मअणो दिवा वि रत्तिं वि।
णिग्घिण तवेइ बलिअं तुइ जुत्तमणोरहं हिअअं॥ १२२॥
(तव न जाने हृदयं मम पुनः मदनो दिवापि रात्रिमपि।
निर्घृण! तपति बलीयः त्वयि युक्तमनोरथं हृदयम्॥)
१३. नायकतो नायिकाया यथा—(शाकु. ३.१४)
तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव।
ग्लपयति यथा शाशाङ्कं न तथा हि कुमुद्वतीं दिवसः॥ १२३॥
इत्यादि १४. नायकस्य स्वानुभूतं यथा—(शाकु. ३.१०)
इदमशिशिरैरन्तस्तापाद् विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रवर्तिभिरश्रुभिः।
अनतिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते॥ १२४॥
१५. अन्येन दृष्टं यथा—(मामा. ५.५)
कुवलयदलश्यामोऽप्यङ्गं दधत् परिधूसरं ललितविकटन्यासः श्रीमन्मृगाङ्कनिभाननः।
रहसि विनयं वामो यस्य प्रकाशितसाहसः प्रविगलदसृक्पङ्कः पाणिर्ललन्नरजाङ्गलः॥ १२५॥
(४४. अवधानम्)
सखीदूतीनायकानां देशकालकार्यपात्रभेदाद् अवधानप्रपञ्चः। तत्र —
१. सख्या देशावधानं यथा—(मामा. ४.१०)
‘अयमसौ महानद्योर्व्यतिकरः। स एषः—
जलनिबिडितवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिः स्नानमात्रोद्गताभिः।
रुचिरकनककुम्भश्रीमदाभोगतुङ्गस्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः॥ १२६॥
२. कालावधानं यथा—(मामा. १.२०)
गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किन्वेतत् स्यात्किमन्यदतोऽथवा।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम्॥ १२७॥
३. कार्यावधानं यथा—(मामा. १.४२)
अभिहन्ति हन्त कथमेष माधवं सुकुमारकायमनवग्रहः स्मरः।
अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः॥ १२८॥
४. पात्रावधानं यथा—(मामा. ६.६)
इयमवयवैः पाण्डुक्षामैरलङ्गकृतमण्डना कलितकुसुमा वल्ली/बालेवान्तर्लता परिशोषिणी। वहति च वरारोहा रम्यां विवाहमहोत्सव— श्रियमुदयिनीमत्यर्थं च व्यनक्ति मनोरुजम्॥ १२९॥
५. दूत्या देशावधानं यथा—(मामा. ६.१९)
‘गाढोत्कण्ठ’॥ १३०॥
(पृ. ९४६) इत्यादि ६. कालावधानं यथा—(मामा. २.१२)
क्षिपन्निद्रामुद्रां मदनकलहच्छेदसुभगा— मुपान्तोत्कम्पानां विहगमिथुनानां प्रथमतः।
दधानस्सौधानामलघुषु निकुञ्जेषु घनता— मसौ सन्ध्याशाङ्खध्वनिरनिभृतः खे विचरति॥ १३१॥
७. कार्यावधानं यथा—(मामा. २.१३)
वरेऽन्यस्मिन् द्वे/दोषः पितरि विचिकित्सा च जनिता पुरावृत्तोद्गारैरपि च कथिता कार्यपदवी।
स्तुतं माहाभाग्यं यदभिजनतो यच्च गुणतः प्रसङ्गाद् वत्सस्येत्यथ खलु विधेयः परिचयः॥ १३२॥
८. पात्रावधानं यथा—(मामा. १.१९)
शरज्ज्योत्स्ना कान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यस्स च युवा।
वरीयानन्योन्य—प्रगुण—गुण—निर्माण—निपुणो विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु॥ १३३॥
९.नायकस्य देशावधानं यथा—(शाकु. १.१५)
शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र॥ १३४॥
१०. कालावधानं यथा—(मामा. ३.१४)
‘प्रकृतिललितमेतत्सौकुमार्यैकसारम्’॥ १३५॥
(पृ. ११००) इत्यादि ११. कार्यावधानं यथा—(मामा. ६.३)
मालत्याः प्रथमावलोकनदिनादारभ्य विस्तारिणो भूयः स्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटिं पराम्।
अस्यान्तः खलु सर्वथास्य मदनायासस्य सर्वस्य मे कल्याणं विदधातु वा भगवतीनीतिर्विपर्येतु वा॥ १३६॥
१२. पात्रावधानं यथा—(मामा. ३.४ इयं हि मम)
आविर्भवन्ती प्रथमं प्रियायाः सो शच्छ्वासमन्तःकरणं करोति।
सन्तापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव॥ १३७॥
१३. नायिकावधानं यथा—(गास. २.६५, ६.४९)
फलहीपाडअ/वाहणपुण्णाहि/हमंगल लंगले कुणंतीए।
वहुआए/असईएँ मणोरहगब्भिणीए हत्था थरहरंति॥ १३८॥
(कार्पासीक्षेत्रकर्षणपुण्याहमङ्गलं लाङ्गले कुर्वत्याः।
वधुकाया मनोरथगर्भिण्याः हस्तौ थरथरायेते॥)
अज्ज मए गंतव्वं घणंधआरे वि तस्स सुहअस्स।
बाला/अज्झा णिमीलअच्छी पअपरिवाडिं घरे कुणइ॥ १३९॥
(अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।
बाला/ आर्या निमीलिताक्षी पदपरिपाटीं गृहे करोति॥)
गास. ३.४९
१४.कार्यावधानं यथा—
दृष्टिं हे प्रतिवेशिनि! क्षणमिहाप्यस्मिन् गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति।
एकाकिन्यपि यामि तद् वरमितः स्रोतस्तमालाकुलं नीरन्ध्राः पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः॥ १४०॥
१५. पात्रावधानं यथा—(गास. ८६५वे.)
एमेअ अकअ/मंदपुण्णा अप्पत्तमणोरहा विवज्जिस्सं।
जणवावो वि ण जाओ तेण समं हलिअउत्तेण॥ १४१॥
(एवमेव अकृतपुण्या अप्राप्तमनोरथा विपत्स्ये।
जनवादोऽपि न जातः, तेन समं हलिकपुत्रेण॥)
(४५. (सं(प्र)योगसंविधानम्)
स्वयंकृत—दूतकृत—गुरुकृत—सहायकृत—योगात् संयोगसंविधानप्रपञ्चः। तत्र— स्वयंकृतेषु नायककृतं नायिकाकृतं च। तेषु—
१. नायककृतं यथा—(कुसं. ५.८४)
इतो गमिष्याम्यथवेति वादिनी चचाल सा च स्तनभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः॥ १४२॥
२. नायिकाकृतं यथा—(कादकसा. ८.८०)
चन्द्रापीडं सा च जग्राह कण्ठे कण्ठस्थानं जीवितं च प्रपेदे।
तेनापूर्वां सा समुल्लासलक्ष्मीमिन्दुस्पृष्टा सिन्धुवेलेव भेजे॥ १४३॥
३. उभयकृतं यथा—
पढम—पहाएँ पुहक्किओ पओस—काल—पडिसिद्ध—धीरारंभो।
पेच्छइ गमणद्धपहे चंद—कर—समप्पिए पिए जुअइजणो॥ १४४॥
(प्रथम—प्रभया पृथक्कृत: प्रदोष—काल—प्रतिषिद्ध—धैर्यारम्भः।
प्रेक्षते गमनार्धपथे चन्द्रकरसमर्पितान् प्रियान् युवतिजनः॥)
४. अनुभयकृतं यथा—(मामा. ५.२७)
‘त्वत्पाणिपङ्कजपरिग्रहपुण्यजन्मा भूयासम्’॥ १४५॥ (पृ.७८८) इत्यादि दूतकृतेषु नायकापेक्षया नायिकापेक्षया उभयापेक्षया अनुभयापेक्षया च। तेषु—
५. नायकापेक्षया यथा—(मामा. ७.३)
प्रेयान् मनोरथसहस्रवृतः स एष सुप्तप्रमत्तजनमेतदमात्यवेश्म।
प्रौढं तमः कुरु कृतज्ञतयैव भद्रमुत्क्षिप्तमूकमणिनूपुरमेहि यावः॥ १४६॥
६. नायिकापेक्षया यथा—
इअ जा मणम्मि ऊसा पुरंतवाम—त्थणी वलंतेई/वेआरेइ।
ता अणिरुद्धो सुद्धंतमाणिओ चित्तलेहाए॥ १४७॥
(इति यावन्मनसि उषा स्फुरद्वामस्तनी वलमाना/विचारयति।
तावद् अनिरुद्धः शुद्धान्तमानीतः चित्रलेखया॥)
७. उभयापेक्षया यथा—(मामा. ६.१५)
‘पुरश्चक्षूरागस्तदनु मनसो मन्यु(नन्य)परता’॥ १४८॥
(पृ.७१४) इत्यादि ८. उभयान/अनुभयापेक्षया यथा—(रुद्रटालङ्कारे ६.४७ नमिसाधु)
पृष्टः काले वदति स माषं तद्विपरीतं सम्यमरण्ये।
लुम्पति चोष्ट्रे रं वा षं वा तस्मै दत्ता विकटनितम्बा॥ १४९॥
९. गुरुकृते नायकापेक्षया यथा—(मामा. १.१३)
अपत्यसम्बन्धविधिप्रतिज्ञा प्रियस्य नीता सुहृदः स्मृतिं च।
अलोकसामान्यगुणस्तनूजः प्ररोचनार्थं प्रकटीकृतश्च॥ १५०॥
१०. नायिकापेक्षया यथा—(कुसं. १.५८)
तमर्घ्यमर्घ्यादिभिरद्रिनाथः स्वर्गौकसामर्चितमर्चयित्वा।
आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम्॥ १५१॥
११. उभयापेक्षया यथा—(मामा. १.१५)
विशेषतस्तु बालत्वात् तयोर्विनतभावयोः।
तेन माधवमालत्योः कार्यस्स्वमतिनिह्नवः॥ १५२॥
१२. अनुभयापेक्षया यथा—(रघु. १३.८५)
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम्।
आत्मापराधं नुदतीमुपेतां शुश्रूषया पार्थिव! पादयोस्ते॥ १५३॥
सहायकृतेषु नायकापेक्षया यथा—(रत्ना. १.७)
प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ दैवेनेत्थं दत्तहस्तावलम्बे।
सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाकारी भीत एवास्मि भर्तुः॥ १५४॥
१३. नायिकापेक्षया यथा—(शाकु. ५.१५)
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमतीव सत्क्रिया।
समानयंस्तुल्यगुणं वधूवरं चिराय वाच्यं न गतः प्रजापतिः॥ १५५॥
१४. उभयापेक्षया यथा—(कादकसा. ५.५९)
लज्जास्तिमितमासीनामथ कादम्बरीं बलात्।
महाश्वेता गृहाचारं चन्द्रापीडे न्यधापयत्॥ १५६॥
१५. उभयानपेक्षया यथा—
. . . संवाहंति जंणिआजंजं। आलीहउं . . दे रोमंचस्समुप्पहइ॥ १५७॥
(४६. शक्तिविवेचनम्)
सखीदूतनायिकानां प्रभुत्वोत्साहमन्त्रदैवभेदाच्छक्तिविवेचनप्रपञ्चः। तत्र —
१. सख्युः प्रभुशक्तिविवेचनं यथा—(मवीच. १.५४)
दोर्लीलाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत— ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः।
द्राक्पर्यस्तकवाटसम्पुटमित—ब्रह्माण्डभाण्डोदर— भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति॥ १५८॥
२. सख्युः उत्साहशक्तिविवेचनं यथा—(बाभा. १.८३)
‘कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवव्रताय छन्नाभ्यासः’॥ १५९॥
(पृ. १०२९) इत्यादि। ३. सख्युः मन्त्रशक्तिविवेचनं यथा—(मामा. ४.९)
‘प्रमथ्य क्रव्यादं मरणसमये’॥ १६०॥
(पृ. १२७६) इत्यादि। ४. सख्युः दैवशक्तिविवेचनं यथा—(मामा. ३.१८)
वयं बत विदूरतः क्रमगता वसोः कन्यका कथं तदवपातितादधिगतायुधः सम्भ्रमात्।
कुतोऽपि मकरन्द एत्य सहसैव मध्ये स्थितो दृढं परशुनाहतो व्यसुरसौ कृतश्चामुना॥ १६१॥
५. दूतस्य प्रभुशक्तिविवेचनं यथा—(मामा. ९.५३)
गुरुचर्यातपस्तन्त्रमन्त्रयोगाभियोगजाम्।
इमामाक्षेपणीं सिद्धिमातनोमि हिताय वः॥ १६२॥
६. मन्त्रशक्तिविवेचनं यथा—(मामा. १.१४)
तां याचते नरपतेर्नर्मसुहृन्नन्दनो नृपमुखेन।
तत्साक्षात्प्रतिषेधः कोपाय शिवस्त्वयमुपायः॥ १६३॥
७. उत्साहशक्तिविवेचनं यथा—(मामा. ४.५) (पृ. ७९१)
‘मा वां सपत्नेष्वपि नाम तद् भूत् पापं यदस्याम्’॥ १६४॥
इत्यादि ८. दैवशक्तिविवेचनं यथा—(रत्ना. १.६)
द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः॥ १६५॥
९. नायकस्य प्रभुशक्तिविवेचनं यथा—(मामा. ५.३२)
धैर्यं निधेहि हृदये हत एष पापः किं वा कदाचिदपि केनचिदन्वभावि।
सारङ्गसंहृतिविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः॥ १६६॥
१०. उत्साहशक्तिविवेचनं यथा—
येनारोपणकर्मणापि बहवो वीरव्रतं त्याजिताः कार्यं सज्जितबाणमीश्वरधनुस्तद्दोर्भिरेभिर्मुदा।
स्त्रीरत्नं तदगर्भसम्भवमितो लभ्यं च लीलायितात् तेनैषा मम फुल्लपङ्कजवनी जाता दृशां विंशतिः॥ १६७॥
११. मन्त्रशक्तिविवेचनं यथा—(मामा. ४.४)
‘समानप्रेमाणं जनमसुलभं प्रार्थितवतो वि धौ वामे’॥ १६८॥
(पृ. ११७४) इत्यादि। १२. दैवशक्तिविवेचनं यथा—(मामा. ५. २८) (पृ. ५५४)
‘राहोश्चन्द्रकलामिवाननचरीं दैवात् समासाद्य मे’॥ १६९॥
इत्यादि १३. नायिकायाः प्रभुशक्तिविवेचनं यथा—(मामा. २.१)
मनोरा/रोगस्तीव्रं विषमिव विसर्पन्नविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव।
हिनस्ति प्रत्यङगं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती॥ १७०॥
१४. मन्त्रशक्तिविवेचनं यथा—(मामा. २.२)
‘ज्वलतु गगने रात्रौ रात्रावखण्डकलश्शाशी’॥ १७१॥
(पृ.८८७) इत्यादि १५. उत्साहशक्तिविवेचनं यथा—(गास. ३.४९)
‘अज्ज मए गंदव्वं’॥ १७२॥
(पृ. १२३०) इत्यादि १६. नायिकायाः दैवशक्तिविवेचनं यथा—(कादकसा. ४.१२३)
विरम रम/मरणोद्योगादस्मात् प्रियेण तवामुना पुनरपि महाश्वेते! वत्से! भविष्यति सङ्गमः।
इति गिरमिमां श्रुत्वा तस्मात् ससम्भ्रमविस्मयात् किमिजमिति तं तत्रापृच्छ प्रसृत्य कपिञ्जलम्॥ १७३॥
(४७. समागमोपायः)
तपस्यासाहसादिभिः समागमोपायप्रपञ्चः; यथोच्यते—
तपस्या साहसं माया च्छद्म च्छलितकं हठः।
वेषो रूपान्तरापत्तिरिन्द्रजालं विनिर्गमः॥ १७४॥
(उत्सवालेखपूजादिर्)१ लेखश्चेष्टाऽनुवर्तनम्।
कार्योपदेशः साहाय्यमित्युपायाः समागमे॥ १७५॥
तेषु १. तपस्या यथा—(कुसं. ५.२)
इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः।
अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च ताद्ृशः॥ १७६॥
२. साहसं यथा—(मामा. ५.५)
तत्कोऽयमतिगम्भीरमधुराकृतिरुत्तरङ्गितकुटिलकुन्तलः कृपाणपाणिः श्मशानमवतरति? (य एषः) ‘कुवलयदलश्यामोऽप्यङ्गं दधत्परिधूसरे’ त्यादि॥ १७७॥
३. माया यथा—(रघु. १२.५३)
रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः॥ १७८॥
४. छद्म यथा—(मामा. १.१४)
‘तां याचते नरपतेः॥ १७१॥ (पृ. १३०९) इत्यादि
५. छलितकं यथा—(मामा. ६.१८/१९)
‘वत्स मकरन्द, अनेनैव वैवाहिकेन मालतीनैपथ्येन परिवारितः प्रवर्तस्व परिणयायात्मानम्॥ १८०॥
इति। NOTES pg=1311! १. इयमस्माकं योजना। ६. हठो यथा—(रघु. ७.३१)
स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम्।
आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ॥ १८१॥
७. वेषः यथा—
(मुक्ताकलापमितभूषणमच्)१ छमेकं वासश्च वासवरिपुर्ममृषेऽलसाङ्गः।
सञ्चिक्लिशे कलितरुद्रनिकेतनाद्रिभरिण तत्क्षणमसौ मणिभूषणानाम्॥ १८२॥
८. रूपान्तरापत्तिर्यथा—(उरा. २.१०)
दोर्दण्डाः क्व धृताङ्गदाः क्व च सिरानद्धौ भुजौ द्वाविमौ वक्त्राणि क्व नु कान्तिमन्ति वलिमत् क्वेदं ममेदं मुखम्।
वाचस्ताः क्व जितार्णवध्वनिघनाः क्वेदं वचस्संयतं हेलाकम्पितभूधरः क्व चरणन्यासः, क्व मन्दा गतिः॥ १८३॥
९. इन्द्रजालं यथा—(सेब. ११.२८)
पइमाहप्प—णिसण्णा अवमण्णिअ—सेस—सप्पुरिस—सोडीरा।
जइ णवरं एज्ज वसं लुअ—राहव—सीस—दंसणे जणअसुआ॥ १८४॥
(पतिमाहात्म्यनिषण्णा अवमानित—शेष—सत्पुरुष—शौण्डीर्या।
यदि नूनमियात् वशं लून—राघव—शीर्ष—दर्शने जनकसुता॥)
१०. विनिर्गमो यथा—(शाकु. ३.११)
अयं स ते तिष्ठति सङ्गमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम्।
लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो जनः॥ १८५॥
११. {उत्सवः यथा मालविकाग्निमित्रे।
देवपूजा यथा मालत्याः कामदेवपूजा। (मामा.)}१
१२. लेखो यथा—(काद.)
दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः॥ १८६॥
NOTES pg=1312! १. इयमस्माकं योजना। १३. चेष्टानुवर्तनं यथा—
सा माहमासगोसग्गमंजरितं वि दिणपुणग्गमिअ।
अतताअदुहे दोह्िणवितुंहे धधंमिट्ठो॥ १८७॥
१४. कार्योपदेशो यथा—(गास. ४.२८)
णीआइँ अज्ज णिक्किव पिणद्धणवरंगआएँ वरईए।
घरपरिवाडीअ पहेणआइँ तुह दंसणासाए॥ १८८॥
(नीतानि अद्य निष्कृप पिनद्धनवरङ्गकया वराक्या।
गृहपरिपाट्या प्रहेणकानि तव दर्शनाशया॥)
१५. साहाय्यं यथा—(सक. ५.४९३)
हेलोदस्तमहीधरस्य तनुतामालोक्य दोष्णोर्हतेः(रेः) हस्तावंसतटे निधाय चरणावरोप्य तत्पादयोः।
शैलोद्धारसहायतां जिगमिषोरप्राप्तगोवर्धना राधायाः सुचिरं जयन्ति गगने वन्ध्याः करभ्रान्तयः॥ १८९॥
(४८. समीहितसिद्धिः)
इतिवृत्तस्य सन्ध्यादीनाम् अलब्धलाभार्थादिभेदात् समीहितसिद्धिप्रपञ्चः। अर्थितया अभिप्रवृत्तस्य यथेप्सितफलावाप्तिः समीहितसिद्धिः।
सा च प्रमाणप्रमेयविचारनिश्चयप्रवृत्तेरन्तरेण न स्यात्। अतस्तन्निबन्धना एव इतिवृत्तेषु प्रतिमुखादयो बीजबिन्द्वादीनामर्थप्रकृतीनां ये क्रियाविभागास्ते सन्धयोऽवस्थाः संस्थाः समवस्थाश्चाभिधीयन्ते। तत्र —
(१. प्रमाणम्)
प्रमाणं परोक्षप्रत्यक्षोभयात्मकमपि युक्तियुक्तमेव प्रमाणमिति। प्रमाणविचारेषु युक्तेः बलीयस्त्वाद् युक्तिः प्रमाणम्। यथोच्यते—‘‘युक्त्या यन्न घटामुपैति तदहं द्ृष्ट्वापि न श्रद्दधे।’ तच्च पञ्चावयवमेव वाक्यं यत्परार्थानुमानमिति आचक्षते। ते चावयवाः प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि, तेषामशेषप्रमाणसमभिव्याहाररूपत्वात्। उक्तं च ‘तत्रागमः प्रतिज्ञा हेतुरनुमानमुदाहरणमुपमानमुपनयः प्रत्यक्षम्’ (न्यायसू.) इति।
(२. प्रमेयम्)
आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्। तत् सामान्येन संक्षेपतो देशः, कालः, पात्रम्, शक्तिः,साधनमिति।
विशेषतस्तु बीजबिन्दुपताकाप्रकरीकार्यमिति। यथोच्यते— (नाशा. १९.२०)
बीजं बिन्दुः पताका च प्रकरी कार्यमेव च।
अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि॥ १९०॥
तत्र— १. बीजं महावाक्यार्थः। यथा जानकीहरणं, सुभद्राहरणं, कुमारसम्भवः, शिशुपालवध इति। उक्तं च— (नाशा. १९.२१)
अल्पमात्रमुपक्षिप्तं बहुधा यद् विसर्पति।
फलावसानं यच्च स्यात् तद् बीजमिति कीर्तितम्॥ १९१॥
बीजमिव बीजं (तथोक्तम्)
यथा— बीजमुप्तमन्ते प्रकाण्ड . . . शाखाप्ररोहपल्लवपुष्पादिना प्रकारेण बहुधा विसर्पदन्ते फलाय कल्पते, तथा यो महावाक्यार्थः नायकोपनायकानुनायकप्रतिनायकसुहृत्सहायादिव्यापारभेदाद् बहुधा विसर्पन्नन्ते फलाय जायते स बीजमिति।
२. कथाशरीराविच्छेदहेतुर्विष्कम्भकप्रवेशकादिरसम्बद्धः सम्बद्धो वा बिन्दुः। उक्तं
च— प्रयोजनानां विच्छेदे यदविच्छेदकारणम्।
यावत्समाप्तिर्बन्धस्य स बिन्दुरिति कीर्तितः॥ १९२॥
(नाशा. १९.२३)१ यथा हि पयोबिन्दुश्च्योतन् पयोऽभिष्यन्दलक्षणायाः क्रियाया अविच्छेदहेतुः, यथा वा घृतबिन्दुरग्निज्वलनलक्षणायाः क्रियायाः विवृद्धये यस्स्यादेवं विच्छिन्नेषु कथाशरीरेषु योऽनुसन्धाता स बिन्दुरिति।
३. कथाशरीरव्यापिनो नायकस्य प्राधान्येन यदुपकारकं स्वेन फलेन फलवत् सा पताका। यथोच्यते—(नाशा. १९.२४)२
यस्या वृत्तं परार्थं स्यात् प्रधानस्योपकारकम्।
प्रधानबद्धफलवत् सा पताकेति कीर्तिता॥ १९३॥
यथाहि पताका नायकस्य चिह्नरूपा प्रकर्षशोभायै भवन्ती स्वस्यापि प्रकर्षशोभायै भवति एवमितिवृत्तेषु यदुपनायकादेः चरितं तत् प्रधानस्य आत्मनश्च शोभाप्रकर्षाय जायमानं पताकेत्युच्यते। पताकैवाफलवत्यनु— NOTES pg=1314! १—२. अस्मत्संस्करणे १९.२२,२३. बन्धविहीना च प्रकरी। यथोच्यते—(नाशा. १९.२५)१
फलं प्रकल्पते यस्याः परार्थायैव केवलम्।
अनुबन्धविहीनां तां प्रकरीति विनिर्दिशेत् ॥ १९४॥
४. प्रकरीव प्रकरी। लघुर्हि प्रकरः प्रकरीत्युच्यते। स तु पुष्पादीनामेव स्यात्। स च पुष्पप्रकरः परार्थोपकारकादेश्शयनस्थानस्यान्यस्य वा शोभायै भवति। एवं महाप्रबन्धस्य यः ऋतुवर्णनादिरन्यो वा कोऽपि तद्विधो व्यापारः सा प्रकरी।
५. धर्मादीनामन्यतमपुरुषार्थः कार्यम्, यथोच्यते—(नाशा. १९.२६)२
यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते।
यदर्थस्तु समारम्भः तत् कार्यमिति कीर्तितम्॥ १९५॥
अत्रोदाहरणानि—(मवीच. १.७)
प्राचेतसो मुनिवृषः प्रवरः कवीनां यत् पावनं रघुपतेः प्रणिनाय वृत्तम्।
भक्तस्य तत्र सुमहान्ति ममापि वाच— स्ताः सुप्रसन्नमनसः कृतिनो भजन्ताम्॥ १९६॥
इति बीजस्य। ‘हा वत्साः खरदूषणत्रिशिरसो वध्याः स्थ पापस्य मे’॥ ११७॥
(पृ. ६९६) (मवीच. ४.११) इत्यादि बिन्दोः।
मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापती— नाश्वास्याश्रुमुखान् मुहुः प्रियसखान् प्रेष्यान् समादिश्य च।
आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन् मारुतिः॥ १९८॥
इति पताकायाः (राच. १.५.६७)
मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपात/पतनाद् भीतो महेन्द्रादपि।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावण— मा ज्ञातं स जटायुरेष जरयाक्लिष्टो वधं वाञ्छति॥ १९९॥
इति प्रकर्याः (उराच. २.३१)
यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले इत्यादि;॥ २००॥ (रत्ना. ४.१९)
(पृ.६३९) इति कार्यस्य। NOTES pg=1315! १—२. अस्मत्संस्करणे १९.२४,२५. (विचारः) एवमर्थप्रकृतीनां साधर्म्यवैधर्म्याभ्याम् अवगतत्वस्य हानोपादानोपेक्षाबुद्धिहेतवे विचारः। स च पञ्चाङ्गः — १. कर्मणामारम्भोपायः, २. पुरुषद्रव्यसम्पत्, ३. देशकालविभागः, ४. विनिपातप्रतीकारः, ५. कार्यसिद्धिश्चेति।
तस्य च विनिश्चयावस्थायां पञ्च कर्माणि —
१. अनुपलब्धस्य ज्ञानम्, २. उपलब्धस्य निश्चयबलाधानम्; ३. अनर्थद्वैधस्य संशयच्छेदनम्; ४. एकदेशद्ृष्टस्य शेषोपलब्धिः, ५. विपर्ययविचिकित्सा चेति।
तेन च निर्णीताऽभिमतफलसिद्धिः(नायकः) अलब्धलाभार्थं, लब्धपरिरक्षार्थं, रक्षिताभिवृद्धये, अर्थितोपयोगाय, उपयुक्तपर्याप्तये च वर्तमानः यं यं क्रियाप्रबन्ध— स्कन्धमध्यास्ते तस्य तस्य मुखप्रतिमुखाकृतिभिः सन्ध्यादयो व्यपदेशा भवन्ति। ते च सन्धयोऽवस्थासंस्थासमवस्था इति। तत्र —
(पञ्चनाटकसन्धयः)
मुखः प्रतिमुखो गर्भो विमर्शो निर्वहणम् इत्यारम्भात् परिसमाप्तिपर्यन्तायाः प्रवृत्तेः पञ्च सन्धयो भवन्ति। यथोच्यते—(नाशा. १९.३५)
मुखं प्रतिमुखं गर्भो विमर्शश्च तथैव हि।
तथा निर्वहणं चेति सन्धयः पञ्च नाटके॥ २०१॥
१. तत्राधिकारिणो नायकादेर्यत्र निर्देशस्तन् मुखम्। उक्तं च—(नाशा. १९.३६)
यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा।
कथाशरीरानुगता तन्मुखं परिकीर्तितम्॥ २०२॥
२. तत्र फलार्थायाः प्रवृत्तेरुपक्रमस्तद्धेतुर्वा तत् प्रतिमुखम्, यथोच्यते—(नाशा. १९.३७)
बीजस्योद्घाटनं यत्र द्ृष्टनष्टमिव क्वचित्।
मुखे न्यस्तस्य द्ृश्येत तद् वै प्रतिमुखं स्मृतम्॥ २०३॥
३. यत्र क्रियाफलस्योद्भेद (लाभ)नाशान्वेषणादयो जायन्ते स गर्भः। यथोच्यते—
उद्भेदः कार्यबीजस्य प्राप्तिरप्राप्तिरेव वा।
पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः॥ २०४॥
(नाशा. १९.३८) ४. क्रियाफलावाप्तये विचारनिर्णयो विमर्शः। यथोच्यते—(नाशा. १९.३९)
गर्भनिर्भिन्नबीजोत्थः(ऽर्थः) क्रोधव्यसनजोऽपि वा।
विप्रलम्भकृतो वापि विमर्श इति कीर्तितः॥ २०५॥
५. क्रियाफलेन सम्यग्योगो निर्वहणम्, यथोच्यते—(नाशा. १९.४०)
यत्रानयनमर्थानां मुखाद्यानां महौजसाम्।
फलोपसङ्गतानां स्याज्ज्ञेयं निर्वहणं च तत्॥ २०६॥
इहोदाहरणमेकश्लोकेन। (अमरुश. ७५)
कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहन—सखी—श्रोत्र—प्राप्ति—प्रसाद—ससम्भ्रमं विवलितद्ृशा शून्ये गेहे समुच्छ्वसितं पुनः॥ २०७॥
एवं महावाक्येष्वपि रत्नावल्यादिषु द्रष्टव्यम्। तेषां च किलोत्क्षेपपरिकरपरिन्यासादीनि चतुष्षष्टिरङ्गानि। तानि च नेह प्रतन्यन्ते। अभ्युपगतत्वात्। यथा ह्युपक्षेपादयस्तथोपोद्घातादयोऽपि सम्भवन्त्येव। तथा च ते प्रबन्धेष्वाधिकारिका आनुषङ्गिकाः प्रासङ्गिका वा प्रयोक्तव्याः, यथा सन्दर्भशोभायै भवन्ति। तेनानुसन्ध्यादीनामपि समावेशः सिद्धो भवति। तत्र किमाधिकारिकं किमानुषङ्किकं किं प्रासङ्गिकमिति चेत्— (नाशा. १९.३, ४)
यत्कार्यं हि फलप्राप्तौ समर्थः परिकल्प्यते।
तदाधिकारिकं ज्ञेयमन्यत् स्यादानुषङ्गिकम्॥ २०८॥
कारणात् फलसौभाग्यवृतं स्यादाधिकारिकम्।
तस्योदाहरणार्थं तु प्रासङ्गिकमिहोच्यते॥ २०९॥
एवमेते पञ्चसन्धयः साङ्गाः सानुषङ्गप्रसङ्गाश्च दैवपौरुषोभयव्यापारप्रधानतया त्रेधा सम्भवन्ति— अवस्थाः, संस्थाः, समवस्था इति। तत्र—
यासु दैवस्य प्राधान्यं ता अवस्थाः, दैवकृतो हि कार्यपरिणामोऽवस्था। तत्र पौरुषमुपाश्रय आस्ते, दैवमेव च प्रधानत्वेन व्याप्रियते। तत्र ह्यनुगुणे कार्यमारब्धमारम्भादिभङ्ग्या सिद्ध्यत्येव।
के पुनरारम्भादयः?
आरम्भप्रसवोद्भेदः किञ्चिच्छेषसमाप्तयः॥ २१०॥
तत्र—(नाशा. १९.८—१२)
१. औत्सुक्यमात्रबन्धस्तु यो बीजस्य निबध्यते।
महतः फलयोगस्य स खल्वारम्भ इष्यते॥ २११॥
२. अपश्यतः फलप्राप्तिं यो व्यापारः फलं प्रति।
परं त्वौत्सुक्यगमनं प्रसवः(प्रयत्नः) स उदाहृतः॥ २१२॥
३. ईषत्प्राप्तिर्यदा काचित् फलस्य परिकल्प्यते।
भावमात्रेण तं प्राहुरुद्भेदमिह सूरयः॥ २१३॥
४. नियोगात् १ तु फलप्राप्तिं यदा भावेन पश्यति।
किञ्चिच्छेषां समाप्तिं तामाप्तिं सन्तः प्रचक्षते॥ २१४॥
५. अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम्।
इतिवृत्ते भवेद् यत्र समाप्तिः सा निगद्यते॥ २१५॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे दूतविशेषदूतकर्मोपवर्णनं नाम
॥ एकोनत्रिंशः प्रकाशः॥ २९॥
काऽवस्था कः सन्धिः काऽर्थप्रकृतिश्च नाट्यसंहनने।
सर्वमिदं त्विह विहितं सुस्पष्टं भोजदेवेन॥
न पताका न प्रकरी विकल्पिताऽस्यां समीक्षायाम्।
आभ्यन्तरमपि किञ्चिद् विकल्पजातं समुद्दध्रे॥
हन्त सनातनदर्शनमितोऽपि सूक्ष्मं विभातीव।
परिणतिवादो यस्मिन् बीजफलन्यायमभियाति॥
NOTES pg=1318! १. नियताम् इति ना॰शा॰ १९.११