अथ
शृङ्गारप्रकाशे अष्टाविंशः प्रकाशः
अभियोगविधिप्रकाशः
(दूतविशेषाः)
स्वयं दर्शनस्यालाभे दूतसम्प्रेषणादयः। तेषु दूतसम्प्रेषणं नायकयोः कर्म। तदज्ञातदूतविशेषकर्मणोः न घटत इति दूतविशेषाः दूतकर्माणि च प्रागेवाभिधीयन्ते। तत्र जात्यादियोगाद् दूतविशेषाश्चतुरशीतिः प्रायशो भवन्ति। यथोच्यते—
जातिर्गुणः क्रिया द्रव्यं सम्बन्धोऽर्थः प्रयोजनम्।
प्रयोगो योग्यता स्त्रीत्वं दूतभेदेषु हेतवः॥ १॥
इति। तेषु— १. जातेः — देवः, मनुष्यः, किन्नरः, वानरः, शुकः, शारिका, पारावतः, हंस इति।
२. गुणतः — पितृपैतामहं, अदृष्टवैकृतं, अविसंवादकं, अलोभशीलं, अपरिहार्यं, अमन्त्रविस्रावि, धार्मिकं, भरसहिष्णु चेति मित्रसंपत् (इति)।
३. क्रियातः — सहपांसुक्रीडितं, उपकारसम्बद्धं, जन्मान्तरार्जितं, सहाध्यायि, समान— शीलव्यसनं, यश्चास्य रहस्यानि मर्माणि विद्यात् (रहस्यमर्मवेदी), यस्य च विद्यात् (विदितमर्मरहस्या), धात्र्यपत्यसहसंवृद्धम् (सहसंवृद्धा) इति।
४. द्रव्यतः — मालाकार—ताम्बूलिक—गान्धिक—सौरिक—पीठमर्द—विट—विदूषक— पाषण्डिनः, मित्राणि इति।
५. सम्बन्धतः — गुरुः, सखा, शिष्यः, आत्मा, ज्ञातिः, औरसः, कनीयान् इति।
६. अर्थतः — अर्थः,अनर्थप्रतिघातः, सहार्थता, प्राप्तिः, प्रतारणं, आनृण्यं, कीर्तिः, प्रतीतिः, इत्यमीषामास्थेयानि (इति)।
७. प्रयोजनतः— दया, स्नेहः, कुतूहलं, अभिप्रायोपलम्भः, पूर्वप्रार्थना, अन्यतरप्रार्थना, शीलं, सङ्घर्ष इति अमीषामास्थेयानि (इति)।
८. प्रयोगतः —प्रच्छन्नः, प्रकाशः, हीनः, उत्कृष्टः, उद्धतः, उदात्तः, धृष्टः, शठ इति।
९. योग्यतायाः — निसृष्टार्थः, परिमितार्थः, पत्रहारकः, मूकदूतः (इति)।
१०. स्त्रीत्वादि —ईक्षणिका, भिक्षुकी, सखी, धात्रेयिका, विधवा, दासी, शिल्पकारिका, शिल्पिनी इति। (कामसू. ५.४)
तेषु— विधवा जातिमद्भयः; सखी गुणवद्भयः; धात्रेयिका क्रियावद्भयः; भिक्षुकी द्रव्यनिमित्तेभ्यः; दासी सम्बन्धकृतेभ्यः; ईक्षणिका अर्थहेतुभ्यः; शिल्पकारिका प्रयोजनिकेभ्यः; शिल्पिनी प्रायोगिकेभ्यः प्रायेण इति। तत्र —
(१. जातेः —८)
१. देवाः सप्तर्षयः; यथा कुमारसम्भवे—(कुसं. ६.९४)
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम्।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः॥ २॥
२. मनुष्याः अविभवा भूपप्रभृतयः; हर्षचरिते यथा—
तस्य च सुता कुमारी रूपवती सर्वलक्षणोपेता।
तां स भवतः प्रयच्छति हच्छो प्रहिते सहास्माभिः(?)॥ ३॥
३. किन्नरमिथुनं चारुमत्यां यथा—
कनककुण्डलमण्डितगण्डया जघनदेशनिवेशितवीणया।
अमरराजपुरे वरकन्यया तव यशो विमलं परिगीयते॥ ४॥
४. वानरः हनूमान्; रामायणे यथा—(भट्टि. १०.३८)
तस्याधिवासे तनुरुत्सुकाऽसौ दृष्टा मया रामपतिः प्रमन्युः।
कार्यस्य सारोऽयमुदीरितो वः प्रोक्तेन शेषेण किमुद्धतेन॥ ५॥
५. शुकः जरत्कीरः; शूद्रककथायां हरिमतीवृत्तान्ते यथा—
जंवद णरवइ विणउ पआसइ तांवहि कीरु निरारुअ भासइ।
हारि लक्खजणजुत्तहो दिज्जउ संखअत्त—वणिउत्तहो॥ ६॥
(यावन् नरपतिर्विनयं प्रकाशयति तावत् कीरः निश्चितं भाषते।
हारः लक्षजनयुक्ताय दीयतां शङ्खदत्त—वणिक्पुत्राय॥)
६. शारिका मेधाविनी ; बृहत्कथायां नन्दप्रबोधने यथा—
किं क्रन्दसि निराक्रान्ता नन्दनो राजतस्करः।
अमृते विषमुत्पन्नं यतो राजा ततो भयम्॥ ७॥
७. पारावतस्समुद्रघोषः; त्रैलोक्यसुन्दर्यां यथा—
किं त्वं नैव यशोदया स्तुतवपुर्मार्गेण गाश्चारयन् किं वा नो भवता वराहवपुषा पृथ्वीयमभ्युद्धृता।
नो वा कं सबलं करोषि समरे विध्वस्तसैन्यं हठा— दित्थं वैबुधवन्दनीयमहिमा त्वं देव लक्ष्मीपतिः॥ ८॥
८. हंसौ हैमन्तकवसन्तकौ दमयन्त्यां नलोपगमने यथा—
प्रसार्य हस्तं निपुणेन तेन धृतस्तदैनं धृतविक्रमेण।
क्रमेण हंसो दमयन्तिकायाः सन्देशकं दिव्यगिराचचक्षे॥ ९॥
तेषां मध्ये मनुष्यः श्रेयान्। तस्यैव वक्ष्यमाणगुणादिसम्पद्योगात्। मित्रे हि दूतकर्म कामसूत्रकारः कीर्तयति—“यदुभयोः साधारणमुभयत्रोदारं विशेषतो नायिकायां विस्रब्धम् अशेषगुणयोगि मित्रम्। तत्र दूतकर्म” (कामसू. १.५)
मैत्री समानसुखदुःखानां, यथा मनुष्याणाम्। नैवं देवतिरश्चामिति निश्चयः। मनुष्या हि प्रायशः ॰ ॰ रुयुप्रभृतयः समानशीलव्यसनवयसां वयस्यानामर्थे जीवितमपि परित्यजन्ति, नरकमपि विशन्ति। न पुनर्देवाः तिर्यञ्चो वेति।
(२. गुणतः —८)
गुणवत्सु —
९. पितृपैतामहः, वत्सराजस्य यौगन्धरायणः तापसवत्सराजे।
१०. अदृष्टवैकृतः, बन्धुदत्तः शूद्रकस्य विनयवत्युपयमने।
११. अविसंवादकः, नलः देवानां नलोपाख्याने।
१२. अलोभशीलः, शन्तनोर्देवव्रतः सत्यवतीवरणे।
१३. अपरिहार्या/अनपहार्या, उदयनस्य वासवदत्ता पद्मावतीविवाहे।
१४. अमन्त्र(वि)स्रावी, माधवादीनां भूरिवसुः मालतीमाधवे।
१५. धार्मिकः, अभिमन्योः बीभत्सुः उत्तरोपयमने।
१६. भरमहिष्णुः, विश्वामित्रः रामलक्ष्मणयोः सीतोर्मिलाप्रदाने इति।
(३. क्रियातः —८)
क्रिया —
१७. सहपांसुक्रीडा, कुवलयावली, महानुवत्याः, लीलावत्याम्।
१८. उपकारसम्बद्धा, मदनमञ्जरी, विक्रमादित्यस्य कलिङ्गसेनालाभे।
१९. जन्मान्तरार्जितः, महेश्वर उमायाः कुमारसम्भवे।
२०. सहाध्यायी, मदिरावतीभ्राता वसुवेगस्य मदिरावतीविवाहे।
२१. समानशीलव्यसनः, मलयकेतुः जीमूतवाहनस्य नागानन्दे।
२२. रहस्यमर्मवेदी, कनकलेखादीनां शक्तिवेगः चतुर्दारिकालाभे।
२३. विदितमर्मरहस्या नरवाहनदत्तस्यकर्पूरिकालाभे।
२४. सहसंवृद्धा, धात्रेयिका लवङ्गिका मलयवत्या/मालत्याः वकुलमालाप्रणये इति।
(४. द्रव्यतः —८)
द्रव्यवत्सु —
२५. मालाकारः मयूरकः, कुसुमगेहस्य कुन्दमालायाम्।
२६. ताम्बूलिकः, ताडजवः देवसेनस्य शाखिनीसंवादे।
२७. गान्धिकः, गौधेरेकः स्वयंप्रभाया ईर्ष्यालुविप्रलम्भे।
२८. सौरिकः, शाकुनिकः शकुन्तिकायां सातकर्णिहरणे।
२९. पीठमर्दः, दन्तकः शूद्रवत्सस्य कामसेनाविप्रलम्भे।
३०. विटः, मूलदेवः चारुलोचनस्य शाखाविशाखोपाख्याने।
३१. विदूषकः वसन्तकः उदयनस्य सागरिकाविप्रलम्भव्यतिकरे।
३२. पाषण्डी भैरवानन्दः चण्डपालस्य कर्पूरमञ्जरीसङ्गमन इति।
उक्तं च—“मालाकार—ताम्बूलिक—गान्धिक—पीठमर्द—विट—विदूषक— पाषण्डिनो मित्राणि, तद्योषिन्मित्राश्च नागरिकाः स्युः” इति (कासू. १.५)१।
तेषु— मालाकारादयस्सुप्रसिद्धाः। अविभवस्तु मालिकाफेनकषायमात्रपरिच्छदः, पूज्यदेशादागतः, कलासु विचक्षणः; तदुपदेशेन गोष्ठ्यां वेशे च वासयेदात्मानमिति पीठमर्दः२, (कामसू. १.४) भुक्तविभवस्तु तत्रत्य एव गुणवान् सकलत्रः गोष्ठ्यां वेशे च बहुमतः, तदुपजीवनः विटः३ (कामसू. १.४) एकादशविद्यस्तु क्रीडनकः विश्वास्यश्च विदूषकः, वैहासिको वा४। मुण्डजटिलव्यञ्जनः कुहक ऐन्द्रजालिको वा पाषण्डी५। ते हि प्रायेण नागरकाणां मित्राणि, मन्त्रिणः, दूताश्च भवन्ति।
(५. सम्बन्धतः —८)
सम्बन्धिषु
३३. सखा, कपिञ्जलः पुण्डरीकस्य महाश्वेताभिषङ्गे६।
३४. गुरुः, उपवर्षः उपकोशायाः कथापीठे७।
३५. शिष्यः, गालवः कुशिकसूनोः माधवीनिष्क्रयणे८। NOTES pg=1239! १–५. कामसूत्रे१.४,५,७२, ५७–५९। ६. कादम्बर्याम्। ७. बृहत्कथायाः प्रथमो भागः। ८. अयं वृत्तान्तः हरिश्चन्द्रचरिते। ९. मालतीमाधवे। ३६. प्रेष्यः, कलहंसकः माधवस्य चित्रफलकानयने१।
३७. आत्मा, महर्षिवेषो रावणस्य सीताहरणे।
३८. ज्ञातिः, महाश्वेता कादम्बर्याश्चन्द्रापीडानयने।
३९. औरसः, नाचिकेतुः पितुरेव मातुरुपयमने२।
४०. कनीयान्, गोपालकः पालकस्य कथामुखलम्भे।
(६. अर्थतः —८)
अथातोऽर्थ—प्रयोजन—प्रयोग—योग्यता—वतामुदाहरणानि। तत्र असिद्धाय यस्मै पुमान् प्रवर्तते सः अर्थ्यमानत्वादर्थः।
पूर्वसिद्धं सत् यद्येनमस्मै कर्मणे प्रवर्तयति तत्प्रवृत्तिनिमित्तत्वात् प्रयोजनम्।
प्रयोजनापेक्षया रूपस्वरूपवेषभाषादिव्यत्ययः प्रयोगः।
सम्भावनादिभिर्यथास्थानमुपयोगो योग्यता। तत्र
४१. अर्थेषु यतः स्वकार्यसिद्धिः सोऽर्थः, यथा—(कुसं. ६.२७)
सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः।
अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः॥ १०॥
४२. व्यसनप्रशसनम् अनर्थप्रतिघातः१, यथा—(रघु. १६.६९)
तस्मात् समुद्रादिव मथ्यमानादुद्वृत्तनक्रात् सहसोन्ममज्ज।
लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजङ्गराजाः॥ ११॥
४३. कार्यसिद्धौ साधारण्यमुभयोः सहार्थता, यथा—
तस्य द्रोणो धनुषि न गुरुस्स्वस्ति देवव्रताय च्छन्नाभ्यासं कुरुपतिरयं श्रीसमूढैर्विलासैः।
भोः कर्णाद्याश्शृणुत तदिमां ब्राह्मणस्यास्य वाणीं राधायन्त्रं रचयत पुनर्विद्धमप्यस्त्वविद्धम्॥ १२॥
४४. देशकालात्मप्राप्तौचित्यज्ञानमाप्तिः यथा—(रघु. ६.२०)
ततो नृपाणां श्रुतवृत्तवंशा पुंवत् प्रगल्भा प्रतिहाररक्षी।
प्राक् सन्निकर्षं गमधेश्वरस्य नीत्वा कुमारीमवदत् सुनन्दा॥ १३॥
NOTES pg=1240! १. कथेयं भीष्मस्येति ज्ञायते इति राघवः। २. व्यसनप्रशसनमर्थप्रति॰ इति रा. HOS पृ. १३६२ ४५. वञ्चनीयेषु कालहरणं प्रतारणम्, यथा—(मामा. ६.२)
हे राजानश्चरमवयसामाज्ञया सञ्चरध्वं कर्तव्येषु, श्रवणसुभगं भूमिदेवाः पठन्तु।
चित्रं नानावचननिवहैश्चेष्टतां मङ्गलेभ्यः प्रत्यासन्नस्त्वरयति हि नो जन्ययात्राप्रवेशः॥ १४॥
४६. उपकृतस्य प्रत्युपकरणम् आनृण्यं, यथा—(कुसं. ५.८६)
‘अद्यप्रभृत्यवनताङ्गि! तवास्मि दासः’॥ १५॥
(पृ. ११८४) इत्यादि ४७. कर्मापादनमात्रं कीर्तिः, यथा—(कुसं. ३.२३)
स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः।
अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम॥ १६॥
४८. कर्मातिशयादिभिः मनःप्रसादः प्रीतिः, यथा—(मामा. १०.२३)
श्लाघ्यानां गुणिनां धुरि स्थितवति श्रेष्ठान्ववाये त्वयि प्रत्यस्तव्यसने महीयसि परं प्रीतोऽस्मि जामातरि।
तेनेयं मदयन्तिकाद्य भवतः प्रीत्यै तव प्रेयसे मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते॥ १७॥
(७. प्रयोजनतः —८)
प्रयोजनेषु—
४९. मा भूदनयोः परस्परमयोगादत्याहितमिति दया, यथा—(मामा. ४.५)
मा वां सपत्नेष्वपि नाम तद् भूत् पापं यदस्यां त्वयि वा विशङ्क्यम्।
तत् सर्वथा सङ्गमनाय यत्नः प्राणव्ययेनापि मया विधेयः॥ १८॥
५०. नायकेन नायिकायां हृदयबन्धनं स्नेहः, यथा—(मामा. ६.७)
विधाता भद्रं नो वितरतु मनोज्ञाय विधये विधेयासुर्देवाः परममरणीयां परिणतिम्।
कृतार्थौ भूयास्तां प्रियसुहृदपत्ये परमतः प्रयत्नः कृत्स्नोऽयं फलतु शिवतातिश्च भवतु॥ १९॥
५१. युक्ताविमौ परस्परस्येति कुतूहलं, यथा—(मामा. १.१६)
शरज्ज्योत्स्नाकान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यस्स च युवा।
वरीयानन्योन्यप्रगुणगुणनिर्माणनिपुणो विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु॥ २०॥
५२. लज्जादिभिः नायकयोरनिर्वादे वस्तुनो/वस्तुनि ज्ञानमभिप्रायोपलम्भः, यथा—
तस्मिन् समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेत्य।
प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा॥ २१॥
(रघु. ६.७०) ५३. नायकयोः पूर्वपुरुषैः तत्र वस्तुनि प्रोत्साहनं पूर्वप्रार्थना, यथा—(मामा. १.९)
यन्मां विधेयविषये स भवान्नियुङ्क्ते स्नेहस्य तत्फलमसौ प्रणयस्य सारः।
प्राणैस्तपोभिरथवाऽभिमतं मदीयैः कृत्यं घटेत सुहृदो यदि तत् कृतं स्यात्॥ २२॥
५४. सैव नायके नायिकाया विहितान्यतरप्रार्थना यथा—(मामा. ४.६)
दया वा स्नेहो वा भवति हि निजेऽस्मिन् शिशुजने भवत्यास्संसाराद् विरतमपि चित्तं द्रवयति।
अतश्च प्रव्रज्यासुलभसमयाचारविमुखः प्रसक्तस्ते यत्नः प्रभवति पुनर्दैवमपरम्॥ २३॥
५५. फलनिरपेक्षाप्रवृत्तिश्शीलम्, यथा—(कुसं. १.५०)
तां नारदः कामचरः कदाचित् कन्यां किल प्रेक्ष्य पितुस्समीपे।
समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य॥ २४॥
५६. परस्परस्पर्धा सङ्घर्षः, यथा—
अह भणइ अअलसामी कइवअ—दिअसंतरंत—मज्झम्मि।
णाणेसि पाअमूले जइ गणिअं ता ण जीआमि॥ २५॥
(अथ भणति अचलस्वामी कतिपयदिवसान्तरान्तमध्ये।
नानयसि पादमूले यदि गणिकां तर्हि न जीवामि॥)
(८. प्रयोगतः —८)
५७. प्रयोगेषु रूपादि(ना) प्रच्छन्नो, यथा—(कुसं. ५.३०)
अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्निव ब्रह्ममयेन तेजसा।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा॥ २६॥
५८. प्रकाशो यथा—(कुसं. ५.८४)
इतो गमिष्याम्यथवेति वादिनी चचाल सा च स्तनभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः॥ २७॥
५९. हीनो यथा—(कुसं. ५.४०)
अतोऽत्र किञ्चिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः।
अयं जनः प्रष्टुमनास्तपोधने न चेद् रहस्यं प्रतिवक्तुमर्हसि॥ २८॥
६०. उत्कृष्टो यथा—(कुसं. ५.३१)
तमातिथेयं(यी) बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती।
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः॥ २९॥
६१. उद्धतो यथा—(कुसं. ५.५०)
कियच्चिरं श्राम्यसि गौरि! विद्यते ममापि पूर्वाश्रमसञ्चितं तपः।
तदर्धभागेन लभस्व काङ्क्षितं पतिं तमिच्छामि च साधु वेदितुम्॥ ३०॥
६२. उदात्तो यथा—(कुसं. ५.३२)
विधिप्रयुक्तां प्रतिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम्।
उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः॥ ३१॥
६३. धृष्टो यथा—(कुसं. ५.८३)
निवार्यतामालि! किमप्यसौ वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यस्स पापभाक्॥ ३२॥
६४. शठो यथा—(कुसं. ५.७२)
वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु।
वरेषु यद् बालमृगाक्षि! दृश्यते तदस्ति किं व्यस्तमपि त्रिलोचने॥ ३३॥
(९. योग्यतायाः —४)
योग्येषु निसृष्टार्थः प्रायो यथा………, दूतसम्प्रेषणे परिमितार्थो यथा ……..,
सन्देशदाने पत्रहारको यथा…….., पत्रप्रणिधाने मूकदूतो यथा……..
अग्रतो दूतीकल्पे वक्ष्यामः। एतेन एतत्प्रभेदा अपि व्याख्याताः।
का पुनरियं योग्यता?
ननूक्तं सम्भावनादिभिर्यथास्थानमुपयोगो योग्यता इति।
के पुनस्सम्भावनादयः?
सम्भावनाथ विश्वासः प्रवृत्तिर्मन्त्रसङ्ग्रहः।
मनोनिर्वाणमुत्साह आश्वासः कार्यनिर्णयः॥ ३४॥
इति। तत्र प्रेक्षापूर्वकारी दूतसम्प्रेषणादिषु वर्तमानः, जातिमत्सु देवादिष्वेव दौत्यं सम्भावयति। गुणवस्तु पितृपैतामहादिष्वेव विश्वसिति। क्रियानिमित्तेषु सहपांसु— क्रीडितादिष्वेव प्रवर्तते। द्रव्यनिमित्तेषु मालाकारादिष्वेव मन्त्रसङ्ग्रहं करोति। सम्बन्धिषु गुर्वादिष्वेव संशयच्छेदं विधत्ते। अर्थपरेष्वेव प्रत्याशामुत्सहते। प्रयोजनपरेष्वेव शश्वदाश्वसिति। प्रायोगिकेष्वेव कार्यसिद्धिं निश्चिनोति, इति।
सम्भावनादीनामपि को हेतुरिति चेत्? य एव निसृष्टार्थादेर्दूतभेदस्य दूत्यभिप्रायेण बुद्धिमन्तो वाग्ग्मिनश्च व्याप्रियन्ते। यदाह— (ऋवे. १०.७१.२)
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचः कुरु।१
यत्रासहायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि॥ ३५॥
किञ्च—(मामा. ३.११)
शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी।
कालावबोधः प्रतिभानवत्वमेते गुणाः कामदुघाः क्रियासु॥ ३६॥
तत्र बुद्धिमते(त्त्वे?) शुश्रूषादयोऽष्टौ धीगुणा एव योग्यतायाः हेतुः —
१. शुश्रूषा, २. श्रवणं, ३. ग्रहणं, ४. धारणं, ५. विज्ञानं, ६–७. ऊहापोहौ, ८. तत्त्वाभिनिवेशः इति।
बुद्धिमान् हि श्रोतव्यं शुश्रूषते; शुश्रूषितं शृणोतिः श्रुतं गृह्णाति; गृहीतं धारयति, धृतं विकल्पयति, विकल्पितं तर्कयति; तर्कितमपोहते; अपोढं निश्चिनोति’ इति।
वाग्ग्मित्वे तु (हेतुः) पुण्यपरिपाकजन्मान्तरीयसंस्काराभ्यासयोगः।
यथोच्यते— (किराता. १४.३)
विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम्।
प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती॥ ३७॥
अपि च—(सक. २.१७७)
विद्यास्प/स्यन्दो वाग्विदां यः प्रसन्नः पूज्यां वाचं देवतां तां नमामः।
यां ब्रह्माणश्चेतयन्ते विशोकाः सा नो देयात् सूनृता सूनृतानि॥ ३८॥
NOTES pg=1244! १. ऋवे. तु पाठः — ‘वाचः कुरु वाचमक्रत, यत्रासहायः अत्रासखायः’ इति किं तथेति चेत्—(उराच. ५.३०)
कामान् दुग्धे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुर्हृदो निर्दहन्ती।
शुद्धां शान्तां मातरं मङ्गला१नां धेनुं धीराः सूनृतां वाचमाहुः॥ ३९॥
असूनृता कीदृगिति चेत्—(उराच. ५.२९)
मुनयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः।
सा योनिस्सर्ववैराणां सा हि लोकस्य नैर्ऋतिः॥ ४०॥
अत आहुः—(बारा. मङ्गलम्)
आद्यः कन्दो वेदविद्यालतानां दिव्यं१ चक्षुर्निर्निमेषं कवीनाम्।
यो येनार्थी तस्य तत्प्रक्षरन्ती वाङ्मूर्तिर्मे देवता सन्निधत्तामू॥ ४९॥
परस्परकृतबुद्धिमत्त्ववाग्मित्वयोरुपकार्योपकारकभावः सर्वदैव साहचर्यात्। यदाह—“तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च” (बृहदा. ४.४.२)। एतेन गुण—क्रिया—द्रव्य—सम्बन्ध—अर्थ—प्रयोजन—प्रायोगा अपि सङ्गृहीताः। सर्वेषां बुद्धिमत्वेनैवोपयोगात्। तत्र—
६५. शुश्रूषाद्यष्टगुणयुक्तो निसृष्टार्थः। स ह्यनुक्तोऽपि स्वबुद्धयैव सर्वं साधयति।
६६. शुश्रूषा—श्रवण—ग्रहण—धारणावान् परिमितार्थः। स हि सन्देशमात्रमेव प्रापयति।
६७. शुश्रूषाश्रवणवान् पत्रहारकः। स हि सन्देशार्थं ग्रहीतुमक्षमः पत्रमात्रमुपनयति।
६८. सर्वगुणाभाववान् मूकदूतः। स हि पाषाणकल्पः। कल्पनाशून्यत्वात् वक्ष्यमाणं स्वलक्षणमेवानुबध्नाति।
का तर्हि योग्यता? जात्यादीनां सद्भावे(सम्भवे?) सति वाचंयमत्वमेव। यदाह—
‘अपदोषतैव विगुणस्य गुणः’ इति। (माघ. ९.१२) किञ्च—
वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान्।
प्रकृत्या ह्यमणिः श्रेयान्नालङ्कारश्च्युतोपलः॥ ४२॥
इति। एतेषां यथास्थानमुपयोगः। तेषु प्रायेण देवमनुष्यौ, पाषण्डिपीठमर्दौ च निसृष्टार्थौ। शारिकाशुकौ, विटविदूषकौ च परिमितार्थौ किन्नरवानरौ, मालाकार—ताम्बूलिकौ च पत्रहारकौ। हंसपारावतौ, गान्धिकसौरिकौ च मूकदूतौ। एवं सहपांसुक्रीडितसहाध्यायिनौ, पितृपैतामहवित्, विदितमर्मरहस्यौ, अमन्त्रविसंवादकौ च परिमितार्थौ। NOTES pg=1245! १. जैह्व्यमिति मुद्रा। अत्राकरो मृग्य इति राघवः। जन्मान्तरोपार्जितोपकारसम्बद्धौ अपरिहार्यादृष्टवैकृतौ च पत्रहारकौ। समानशीलव्यसन— धात्रेयकौ, धार्मिकालोभशीलौ च मूकदूतौ। एवमात्मा गुरुरुदात्तोत्कृष्टौ च निसृष्टार्थाः। सखा ज्ञातिरुद्धतप्रकाशौ च परिमितार्थाः। कनीयानौरसः शठधृष्टौ च मूकदूताः प्रायेणैवेति। प्रायोगिकेषु च प्रायशः प्रच्छन्नः। प्रकाशो हि उत्कृष्टः दूतः स्वयंदूतो वा। उद्धतोदात्तौ धृष्टः शठश्च स्वयंदूता एवेति। प्रायग्रहणात्तु हंसपारावतौ औरसकनीयसौ शारिकाशुकप्रच्छन्नवानरादीनां च क्वचित्। तत्र वैशम्पायन—शान्तनव—हैमन्तक— समुद्रघोषादयः उदाहरणं कथाविशेषयोगात्। यथोक्तम् पुरस्तात्।१
(१०. स्त्रीत्वादिः)
स्त्रीषु अनिमित्तेषु अपि —
ईक्षणिका, भिक्षुकी, स्वयंदूती, वातदूती च प्रायशः निसृष्टार्थाः,
सखी, धात्रेयिका, मूकदूती, भार्यादूती च परिमितार्थाः,
विधवा, दासी, च्छद्मदूती, व्याजदूती च पत्रहारिका,
मन्त्रदूती, तन्त्रदूती च मूकदूत्य इति।
तत्र न तथा प्रायेण परभवनेषु पुरुषाणां प्रवेशः यथा स्त्रीणामतो दूतीसम्प्रेषणमेव श्रेयः, न दूतसम्प्रेषणमिति। उक्तं च—(कासू. ५.४)
विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका।
मालाकारादियोषास्स्युः सखी धात्रेयिकापि वा॥ ४३॥
सा प्रवृत्तिनिमित्तेषु सत्सु दूत्ये नियोजिता।
प्रविशत्याशु विश्वासं दूतीकार्यं च विन्दति॥ ४४॥
ताश्च यथासम्भवं यथोपन्यासं वा निसृष्टार्था, परिमितार्था, पत्रहारिणी, मूकदूती, स्वयंदूती, वातदूती, मूढदूती, भार्यादूती, छद्मदूती, व्याजदूती, मन्त्रदूती, तन्त्रदूती चेति द्वादश भवन्ति। तत्र—
६९. नायकस्य नायिकाया वा यथामनीषितमुपलभ्य स्वबुद्धया कार्यसम्पादिनी निसृष्टार्था, तस्याः समग्रबुद्धिगुणयोगात्। यथा—(गास. ७.२)
हिअ/ए एहि एहि किंपि तस्य कएण णिक्विव भणामि अलमहवा।
अविआरिअकज्जारंभआरिणी मरउ ण भणिस्सं॥ ४५॥
NOTES pg=1246! १. १२४६ पृष्ठे।
(अयि एहि किमपि तस्याः कृते निष्कृप भणाम्यलमथवा।
अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्यामि॥)
यथा वा—(गास. १.१२)
सच्चं जाणइ दट्ठुं सरिसम्मि जणम्मि जुज्जए राओ।
मरउ, ण तुमं भणिस्सं, मरणं पि सिलाहणिज्जं से॥ ४६॥
(सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयं तस्याः॥)
७०. या दृष्टपरस्परयोः प्रविरलदर्शनयोर्वा सन्देशमात्रं प्रापयति सा बुद्धिगुणसम्पद्योगात् परिमितार्था। यथा—(कुसं. ६.१, २)
अथ विश्वात्मने गौरी सन्दिदेश मिथस्सखीम्।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति॥ ४७॥
तथा व्याहृतसन्देशा सा बभौ निभृता प्रिये।
चूतयष्टिरिवाभ्याशे मधौ परभृतोन्मुखी॥ ४८॥
७१. या तु सन्देशमवधारयितुमक्षमा लेखमात्रं प्रापयति सा बुद्धिगुणवादसम्पद्योगात् पत्रहारिणी। यथा—(कादकसा. ४.६८)
ततस्तरलिका मह्यमर्पयामास पट्टिकाम्।
तस्यां तु लिखितामार्यामिमामहमवाचयम्॥ ४९॥
दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे।
हंस इव दर्शिताशः मानसजन्मा त्वया नीतः॥ ५०॥१
७२. एतासां तु तिसृणामपि प्रतिवाक्य—प्रतिसन्देश—प्रतिलेखैरुत्तराणि योजयेत्। तथाभिधास्यामः। प्रायशः पुरस्तात् (कासू. ५.४) ‘बालां परिचारिकाम् अदोषज्ञाम् अदुष्टेनोपायेन प्रहिणुयात्। तस्याः स्त्रजि कर्णपत्रे वा लेखं विदध्यात्। नखदशनपदानि पादन्यासा वा दद्यात्; सा (?) समस्तबुद्धिगुणाभावान्मूकदूती। तस्यास्तयैवोत्तरं प्रार्थनम्।’ यथा—
सङ्केतद्रुममञ्जरीकृतशिरोभूषां भुजिष्यात्मजा— मालोक्य प्रहिता विटेन कुलटा प्रत्यागमिष्यत्पतिम्।
रक्षन्ती नखदन्तकर्म महतः प्रेम्णश्च भङ्गव्यथा— मानायास्मि रजस्वलेति रजसा पौष्पेण पर्यस्यति॥ ५१॥
NOTES pg=1247! १. कादम्बरीकथामुखे। यथा वा—
कान्तायाः परिचारिकामतिशिशुं दृष्ट्वा गृहप्राङ्गणे गूढं केतकपत्रगर्भलिखितं लेखं दधानां स्त्रजि।
आहूय प्रविलोभ्य नीच—निचुलैरादाय तं मुञ्चते तां सङ्केतनिकेतवेतसदलैः क्लृप्तावतंसां विटः॥ ५२॥
७३. संसृष्टयोः प्रगाढसद्भावयोः देशकालसम्पादनार्थमाहूतापि या ‘स्वयमेव नायकमभिगच्छेत्, अजानती नाम तेन सहोपभोगस्वप्नं कथयेत्, गोत्रस्खलनं विदध्यात्, भार्यां वास्य निन्देत्, तद्व्यपदेशेन च स्वयमीर्ष्यां दर्शयेत्, नखदशन— चिह्नितं वा किञ्चिद् दद्यात्, भवतेऽहमादौ दातुं सङ्कल्पितेति वाभिदधीत; मम वा त्वद्भार्याया वा का रमणीयेति विविक्ते पर्यनुयुञ्जीत सा स्वयंदूती’ (कासू.५.४)। यथा—
पित्राहं परिकल्पितास्मि भवते दातुं बतैषा त्वया किं मां रम्यतरावमवैषि यदियं मामीर्ष्यया पश्यति।
स्वप्ने दानमभूत्त्वया मम मया नाम प्रभातेऽद्य ते धिक्त्वां क्रूरकलत्रपाशपतितं भव्योत्तरोपेक्षणम्॥ ५३॥
स्वयंदूताभियोगे यथा—(सक. २.३३८)
नादेयं किमिदं जलं घटगतं नादेयमेवोह्यते सत्यं नाम पिबामि कत्यपतृषः पीतेन नाम्नाऽभवन्।
किं वर्णा अपि सन्ति नाम्नि रहितं किं तैरलं त्वं कुतो यस्मादेव भवान्भगिन्यसि ततस्तेनैव मां बाधसे॥ ५४॥
७४. प्रस्तुतार्थलिङ्गसम्बद्धमन्यजनाग्रहणीयार्थमलौकिकार्थं वातदूती। तत्र—
प्रस्तुतार्थलिङ्गसम्बद्धं यथा—(गास. ९५८वे.)
आसाइअमणाणेण जेत्तिअं तेत्तिएण चिअ बंध दिहिं।
ओरमसु वसह एण्हिं रक्खिज्जइ गहवईच्छत्तं॥ ५५॥
(आसादितमज्ञातेन यावत् तावतैव बधान धृतिम्।
उपरम वृषभेदानीं रक्ष्यते गृहपतिक्षेत्रम्॥)
अन्यजनाग्रहणीयार्थं यथा—(गास. ५.८२)
उज्जागरअ—कसाइअ—गुरु—अच्छी मोहमंडणविलक्खा।
लज्जइ लज्जालुइणी सा सुहअ सहीण वि वराई॥ ५६॥
(उज्जागरककषायितगुरुकाक्षी मोघमण्डनविलक्षा।
लज्जते लज्जाशीला सा सुभग! सखीभ्योऽपि वराकी॥)
अलौकिकार्थं यथा—
॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ १इओच्चेउं।
ओच्चेइ अप्पणो च्चिअ माए अउलज्जुअल ॰ ॰॥ ५७॥
अत्र हि वाक्ये लौकिकमार्जवं, अनार्जवं तु अलौकिकमिति द्वयर्थम्।
यथा—(वल. ५३७)
चंदणवलिअं दिढकंचिबंधणं दीहरं सुपरिणाहं।
होइ घरे साहीणं मुसलं धण्णाण महिलाणं॥ ५८॥
(चन्दनवलितं दृढकाञ्चीबन्धनं दीर्घं सुपरिणाहम्।
भवति गृहे स्वाधीनं मुसलं धन्यानां महिलानाम्॥)
तस्यास्तथैवोत्तराणि योजयेत्। (यथा नायिकिया) ‘ह्नस्वं लघु’ (१.४.१०) इत्युदासीनतया व्याकरणसूत्र उक्ते बाणे(?)प्युदासीनतयाप्याह ‘संयोगे गुरु’ (१.४.११), ‘दीर्घं च’ (१.४.१२) इति।
यथा वा— निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम्।
उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन॥ ५९॥
७५. एतेन स्वयंदूत्युत्तरमपि व्याख्यातम्। ‘नायकभार्यां मुग्धां विश्वास्य निर्यन्त्रणमनु— प्रविश्य तामस्य चेष्टितं पृच्छति, योगान् शिक्षयति, साकारं मण्डयति, कोपमेनां ग्राहयति, एवं च प्रतिपद्यस्वेति श्रावयति, स्वयं च ताभ्यां नखदशनपदानि विधत्ते, तेन च द्वारेण नायकमाकारयति, सा मूढदूती’ (कासू. ५)।
यथा— मुग्धां पृच्छति वल्लभस्य दयितामाहूय तच्चेष्टितं व्याचष्टे च रहः प्रबन्धमधिकं संख्याय सन्नह्यति।
तां साकारमलङ्करोति कुलटा तस्यास्तनूत्सङ्गयो— र्दत्ते दन्तनखक्षतानि वचनप्रेम्णा न को मुह्यति॥ ६०॥
तस्यास्तथैवौत्तराणि योजयेत्। (कासू. ५)
(सर्वेऽप्यद्य नवे रते समुचिताः) योगाः चतुष्षष्टिजाः सङ्खयां मे न समाख्यदत्रभवती सम्यक्समग्रानिमान्।
NOTES pg=1249! १. जो. रा. एवमेव खण्डितम्। शिक्षस्वैहि तवेह कौतुकरसो जातः पृथुश्रोणि! चे— दित्थं मुग्धवधूमुखेन दयितां धूर्तस्समाकर्षति॥ ६१॥
७६. ‘स्वभार्यां वा मूढां प्रयोज्य तया सह विश्वासेन योजयित्वा तयैवाकारयेद्, आत्मनश्च वैचक्षण्यं प्रकाशयेत् सा भार्यादूती’ (कासू. ५), (गास. ७.७७)
अयि उजुए ण लज्जसि पुच्छन्ती मह पिअस्स चरिआइं।
सव्वंगसुरहिणो मरुवअस्स किं कुसुमरिद्धीए॥ ६२॥
(अयि ऋजुके न लज्जसे पृच्छन्ती मम प्रियस्य चरितानि।
सर्वाङ्गसुरभिणः मरुवकस्य किं कुसुमद्धर्या॥)
यथा वा—(गास. ९०२वे.)
जाणिमि कआवराहं जाणिमि अलिआइ भणइ सअलाइ।
अणुणंते उण जाणे कआवराहां वरां व अप्पाणं॥ ६३॥
(जानामि कृतापराधं जानामि अलीकानि भणति सकलानि।
अनुनयति पुनर्जाने कृतापराधामिवात्मानम्॥)
तस्याः तथैवाकारग्रहणं यथा—
किं मामलीकसुभगे! मुखरीकरोषि भार्याजितस्य कमितुर्गुणकीर्तनेन।
द्राक्षाफलं न युवजन्मनि येन भुक्तं मन्ये मधूकमपि तस्य महोत्सवाय॥ ६४॥
७७. दूत्या च्छलेन अन्यामतिसन्धाय तस्याः सन्देशकथनद्वारेण नायकं साधयेत्।
तां वोपहन्यात् सा च्छद्मदूती, यथा—
दूत्येन प्रहिताहमस्मि भवतः कामं तया कान्तया दृष्ट्वा तामतिनिन्दितेऽपि हि पदं दत्तं मया वर्त्मनि।
दृष्टोऽसि त्वमभूत् कृतार्थमपि मे चक्षुस्स्त्रगेषार्प्यता— मित्थं दामविमोचनेन दयितं पीनस्तनी श्लिष्यति॥ ६५॥
७८. व्याजेनान्यमभिधत्ते सा व्याजदूती यथा—(मामा. १.३५/३६)
‘महाभाग, सुश्लिष्टगुणतया रमणीय एव सन्निवेशः, कुतूहलिनी इव नः भर्तृदारिका, वर्तते च तस्यामभिनवः विचित्रः कुसुमेषुव्यापारः। तद् भवतु कृतार्थता वैदग्ध्यस्य, फलतु निर्माणरमणीयता, समासादयतु सरस एष भर्तृदारिकायाः कण्ठावलम्बनमहार्घतामिति॥ ६६॥
अनयोरुत्तरं प्रतिपत्तिरेव।
कथं त्विमे निसृष्टार्थे अपि पत्रहारिण्यौ?
पत्रशब्देन इह च्छद्मव्याजयोः प्रवेशनिमित्तत्वेनेष्टत्वात्।
७९. मन्त्राराधनादिभिः नायकयोस्संयोगं साधयन्ती मन्त्रदूती, यथा—
दर्शयामि शशिनं महीतले पातयामि तपनं नभःस्थलात्।
आनयामि सुरसिद्धकन्यकां नास्ति मे नसुकरं जगत्त्रये॥ ६७॥
८०. तन्त्रादिप्रभेदादुभयोः संयोगसम्पादयित्री तन्त्रदूती, यथा—
गुरुचर्यातपस्तन्त्रमन्त्रयोगाभियोगजाम्।
इमामाक्षेपिणीं सिद्धिमातनोति हिताय वः॥ ६८॥
अनयोरन्तरं नास्ति, नायकयोः पराधीनतया नीयमानत्वात्।
मूकदूत्यौ पुनरिमे तच्चेष्टानुकृतियोगात्। न च निसृष्टार्थानामविषयस्सम्भवति। स हि मितार्थः पत्रहारको मूकदूतो वा भवितुं शक्नुयात्। एवं मितार्थः, पत्रहारकः, मूकदूतो वा; पत्रहारको मूकदूत एवेति। न तु मितार्थो निसृष्टार्थः पत्रहारकः। मितार्थः निसृष्टार्थो वा न मूकदूतः। पत्रहारकः मितार्थो निसृष्टार्थो वेति। एवं भिक्षुकीक्षणिके, सखीधात्रेयिके, दासीविधवे, शिल्पिनीशिल्पकारिके च निसृष्टार्थाः। भिक्षुकीक्षणिकावर्जमेव परिमितार्थाः। दासीविधवे, शिल्पिनीशिल्पकारिके मूकदूत्यौ, न तु भिक्षुकीक्षणिके परस्परार्थपत्रहारिण्यौ मूकदूत्यौ वा। न सखीधात्रेयिके पत्रहारिण्यौ मूकदूत्यौ वा। न दासीविधवे मूकदूत्याविति स्यात्। एवं न स्वयंदूतीवातदूत्यौ परिमितार्थे पत्रहारिण्यौ वा। न मूकदूतीभार्यादूत्यौ पत्रहारिण्यौ मूकदूत्यौ वा। न च्छद्मदूतीव्याजदूत्यौ मूकदूत्यौ स्याताम्। नानिसृष्टार्थे मन्त्रदूतीतन्त्रदूत्याविति। निसृष्टार्थास्तु सर्वाः स्वयंदूत्यादयः भवेयुः। द्वे द्वे वर्जयित्वा परिमितार्थापत्रहारिण्यौ मूकदूत्यश्चेति। एतेन ॰ ॰ ॰ त्रसम्बद्धा राजसम्बद्धास्तत्रैकदेशचारिण्यः काश्चिदन्या वा कार्यसम्पादिन्यः चण्डरण्डावृद्धवर्धक्यो बुद्धिमद्गणिकाः गणाङ्गनाश्च व्याख्याताः। रजक—नापित—स्वर्णकार—मणिकार—वैद्य—वैदिक—नर्तक—गायन—वादक—वाग्जीवन— वाणिज्यशीलवाग्ग्मिनश्च दूतविशेषाः इति॥
(दूतकर्म —२४)
अथातो दूतकर्माणि चतुर्विंशतिः। तानि— १. प्रवेशः २. विश्वासनं ३. उपावर्तनं ४. अनुवर्तनं ५. कार्योपन्यासशुद्धिः ६. अवस्थानिवेदनं ७. इङ्गिताकारज्ञानं ८. उपायज्ञानं ९. प्रक/तारणज्ञानं १०. समाश्वासनम् ११. अत्ययप्रतीकारः १२. प्रयोज्यप्रेषणं १३. सन्धिरक्षा १४. प्रतापव्यावर्णनं १५. प्रयोज्योपजापः १६. पराक्रमणं १७. बन्धुरत्नापहारः १८. मित्रोपग्रहः १९. सुहृद्विभेदः २०. चारज्ञानं २१. गूढदण्डातिचारः २२. अग्रसमाधानं २३. समाधिमोक्षः २४. दूतस्य कर्मयोगाश्रय इति।
प्रोक्ताः प्रवेशो विश्वासः प्रत्याहारोऽनुवर्तनम्।
उपन्यासो मनस्स्थानामवस्थानां निवेदनम्॥ ६९॥
देशकालेङ्गिताकारोपायज्ञानं प्रतारणम्।
समाश्वासनमापत्सु प्रतीकारः प्रतिक्रिया॥ ७०॥
प्रेषणं सन्धिका/पालत्वं प्रतापो मित्रसङ्ग्रहः।
उपजापस्य चाभेदो गूढदण्डातिचारणम्॥ ७१॥
बन्धुरत्नापहरणं चारज्ञानं पराक्रमः।
समाधिमोक्षो दूतस्य कर्मयोगस्य चाश्रयः॥ ७२॥
इति। (१. प्रवेशः —६)
तत्र दर्शितेङ्गिताकारायां प्रविरलदर्शनायाम् अपूर्वायां च प्रयोज्यायां दूतप्रयोगः। स चैनां शीलतोऽनुप्रविशेदिति प्रवेशः। तत्र च पदात्पदान्तरमाकाङ्क्षेदिति सङ्क्षेपः; षट्प्र कारः, अष्टादशप्रकारो वेति विस्तरः। यथा—
‘विधिप्रयुक्तां प्रतिगृह्य सत्क्रियाम्’॥ ७३॥ (कुसं. ५. ३२) इत्यत आरभ्य ‘इति प्रविश्याभिहिता द्विजन्मना’ इतिपर्यन्तः कुमारसम्भवे (५. ३२—५१)
उपोद्घातः पदं चैव पदार्थः पदविग्रहः।
चालना प्रत्यवस्थात्र व्याख्या तत्रास्य षड्विधा॥ ७४॥
षण्णामपि पृथक् त्रैविध्यादाष्टादशप्रकारत्वम्। तेषु —
१. प्रस्तावनामात्रमुपोद्घातः। सः अनुषङ्गप्रसङ्गानुप्रसङ्गभेदात् त्रिविधः। तत्र—
अनुषङ्गो यथा—(कुसं. ५.३३)
अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते।
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम्॥ ७५॥
प्रसङ्गो यथा—(कुसं. ५.३४)
अपि त्वदावर्जितवारिसम्भृतं प्रवालमासामनुबन्धि वीरुधाम्।
चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा॥ ७६॥
अनुप्रसङ्गो यथा—(कुसं. ५.३५)
अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु।
यदुत्पलाक्षेपचलैर्विलोचनैस्तवाक्षिसापत्न्यमिव प्रयुञ्जते॥ ७७॥
२. प्रस्तुतस्य स्थिरीकरणं पदम्। तद् उपक्षेपविक्षेपप्रक्षेपैः त्रिविधम्। तत्र— उपक्षेपो यथा—(कुसं. ५.३६)
यदुच्यते पार्वति! पापवृत्तये न रूपमित्यव्यभिचारि तद् वचः।
तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम्॥ ७८॥
विक्षेपो यथा—(कुसं. ५.३७)
विकीर्णसप्तर्षिबलिप्रहासिभिः तथा न गाङ्गैः सलिलैर्दिवश्चयुतैः।
यथा त्वदीयैश्चरितैरनाविलैः महीधरः पावित एव सान्वयः॥ ७९॥
प्रक्षेपो यथा—(कुसं. ५.३८)
अनेन धर्मस्सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भामिनि!।
त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते॥ ८०॥
३. तत्प्रयोगः पदार्थः। सोऽपि त्रेधा—उपक्रमः, प्रक्रमः, अनुक्रम इति। तत्र उपक्रमो यथा—(कुसं. ५. ३९)
प्रयुक्तसत्कारविशेषमात्मना न मां परं सम्प्रतिपत्तुमर्हसि।
यतस्सतां सन्नतगात्रि! सङ्गतं मनीषिभिस्साप्तपदीनमुच्यते॥ ८१॥
प्रक्रमो यथा—(कुसं. ५.४०)
अतोऽत्र किञ्चित् भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः।
अयं जनः प्रष्टुमनास्तपोधने! न चेद्रहस्यं प्रतिवक्तुमर्हसि॥ ८२॥
अनुक्रमो यथा—(कुसं. ५.४१)
कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः।
अमृग्यमैश्वर्यसुखं नवं वयः तपः फलं स्यात् किमितः परं तव॥ ८३॥
४. (पदविग्रहः) प्र[स्तुतस्यास्वीकारोऽप्यनुपपन्न इति कथनं पदविग्रहः]१ तदपि त्रेधा — ‘वितर्कविस्मयविप्रतिषेधभेदात्। तेषु —’
वितर्को यथा—(कुसं. ५.४२)
भवत्यनिष्टादपि नाम दुस्सहान्मनस्विनां सम्प्रतिपत्तिरीद्ृशी।
विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि! त्वयि॥ ८४॥
विस्मयो यथा—(कुसं. ५.४३)
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु! कुतः पितुर्गृहे।
पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये॥ ८५॥
विप्रतिषेधो यथा—(कुसं. ५.४४)
किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्।
वद प्रदोषे विनिकीर्णतारका विभावरी यद्यरुणाय कल्पते॥ ८६॥
५. प्रस्तुतेष्वसंहतं चालना। सापि ज्ञाताज्ञातनिष्ठितभेदात् त्रिधा। तत्र— अविज्ञातविषया यथा—(कुसं. ५.४५)
दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः।
अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत्॥ ८७॥
ज्ञातविषया यथा—(कुसं. ५.४६)
निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते।
न दृश्यते प्रार्थयितव्य एव ते भविष्यते प्रार्थितदुर्लभः कथम्॥ ८८॥
निष्ठितविषया यथा—(कुसं. ५.४७)
अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते।
अपेक्षते यः श्लथबन्धिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः॥ ८९॥
६. कथंचिन्मर्षणं प्रत्यवस्था। सापि त्रेधा— समीपस्था, श्लिष्टा, अन्तर्गता च। तासु— समीपस्था यथा—(कुसं. ५.४८)
मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम्।
शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते॥ ९०॥
श्लिष्टा यथा—(कुसं. ५.४९)
अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः।
करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः॥ ९१॥
अन्तर्गता यथा—(कुसं. ५.५०)
कियच्चिरं श्राम्यसि गौरि! खिद्यसे(विद्यते?) ममापि पूर्वाश्रमसञ्चितं तपः।
तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम्॥ ९२॥
(२. विश्वासनम् —६)
(सैनां शीलतोऽनु)प्रविश्य चाख्यान—कपटैः, सुभगङ्करणयोगैः, जनप्रवादैः, पूर्ववृत्तान्तैः, कविकथाभिः, पारदारिककथाभिश्च विश्वासयेद् (कासू. ५.४.२) इति विश्वासनम्। तेषु—
१. मिथ्यामिथःप्रश्नोत्तरादिभिः प्रयोज्ययोरतिसन्धानं कपटः। यथामालतमाधवे
द्वितीयाङ्के—॥ ९३॥
लवङ्गिका— कुसलं भअवदीए। (कुशलं भगवत्यै।)
कामन्दकी— (निःश्वस्य) कुशलमिव।
लवङ्गिका— (स्वगतं) पत्थावणा क्खु एसा कवडणाडअस्स। (प्रस्तावना खल्वेषा कपटनाटकस्य।)
अवलोकिता— चिराइदं भअवदीए। णं भणामि अस्सत्थसरीरो महाभाओ माहवो त्ति (चिरायितं भगवत्या। ननु भणामि अस्वस्थशरीरो महाभागो माधव इति।)
कामन्दकी— इदं गम्यते, वत्से, अनुजानीहि माम्।
लवङ्गिका— (जनान्तिकं) सहि मालदि, संपदं भअवदीए सआसादो तस्स महाणुहाअस्स उग्गमं जाणीमो। (सखि मालति, साम्प्रतं भगवत्या— स्सकाशात् तस्य महानुभावस्य उद्गमं जानीमः।)
मालती— (जनान्तिकं) अत्थि मे कोऊहलं। (अस्ति मे कौतूहलम्।)
लवङ्गिका— (प्रकाशं) (मामा. २.८१ श्लोकात् परम्) को एसो माहवो णाम, जस्सिं भअवदी एव्वं सिणेहगरुअं अत्ताणं धारेदि? (क एष माधवो नाम यस्मिन् भगवती एवं स्नेहगुरुकमात्मानं धारयति।)
कामन्दकी— अप्रस्ताविकी महत्येषा कथा।
लवङ्गिका— तह वि आचक्खिअ भअवदी पसादं करेदु (तथापि आख्याय भगवती प्रसादं करोतु)।
कामन्दकी— ‘श्रूयताम् अस्ति’ इत्यत आरभ्य ‘स एष माधवो नामे’—ति मालती श्रावयति।
लवङ्गिका— कुदो महोहहिं वज्झिअ पारिआअस्स उद्गमो (कुतो महोदधिं वर्जयित्वा परिजातस्य उद्गम़) इत्येवमादि। (मामा. २.११तःपरम्)
तदुक्तम्—
बहिःसर्वाकारप्रवणरमणीयं व्यवहरन् पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति।
जनं विद्वानेकस्सकलमतिसन्धाय कपटै— स्तटस्थः स्वानर्थान् घटयति च मौनं च भजते॥ ९४॥
(मामा. १.१७) २. अभिगामिकयोगस्सुभगङ्करणम्।
यथा— तत्रैव तृतीयषष्ठाङ्कयोः (मामा. ३ प्रवेशके)— ‘अज्ज किसणचद्दसि त्ति जणणीए समं मालदी संकरउरं गमिस्सदि। तदो एव्वं सोहग्गं बढ्ढइ त्ति देवदाराहणणिमित्तं सहत्थकुसुमावअअं उद्दिसिअ भअवदी लवंगिआदुदीअं मालदिं तं एव्व कुसुमाअरुज्जाणं आणइस्सदि’ (अद्य कृष्णचतुर्द्दशीति जनन्या समं मालती शङ्करपुरं गमिष्यति। तत एवं किल सौभाग्यं वर्धत इति देवताराधननिमित्तं स्वहस्तकुसुमावचमुद्दिश्य भगवती लवङ्गिकाद्वितीयां मालतीं तदेव कुसुमाकरोद्यानमानेष्यति।)
यथा च— सहि एसो अङ्गराओ इमा(ओ) कुउममालाओ। म तो इमास्मिं पाणिग्गहणमंगलारम्भे सोहग्गसंपत्तिणिमित्तं देवदाओ अच्चेहिं। (सखि, एष अङ्गरागः; इमाः कुसुममालाः। तदस्मिन् पाणिग्रहणमङ्गलारम्भे सौभाग्यसम्पत्तिनिमित्तं देवता अर्चय।) इति।
३. यथा तत्रैव (जनप्रवादः)— अद्धि)अत्थि) एसा णरिंदवअणाणुरोहेण णंदणस्स पडिवण्णा मालदि त्ति सअलो जणो अमत्तं जुउज्जइ(जुगुच्छइ)। (अस्त्येषा नरेन्द्रवचनानुरोधेन नन्दनस्य प्रतिपन्ना मालतीति सकली जनोऽमात्यं जुगुप्सते।)
यथा वा—
अनुरागप्रवादस्तु वत्सयोस्सार्वलौकिकः।
श्रेयानस्माकमेवं हि प्रतार्यौ राजनन्दनौ॥ ९५॥
(मामा. १.१६) ४. (पूर्ववृत्तान्तः) पूरा चकमे दुष्यन्तं शकुन्तला, रुक्मिणी कंसव्दिषम्, उषा अनिरुद्धम्, इत्येवमादि बुद्धिकल्पितमुदाहरणम्। (कासू. ५.४)।
५. कविकथा यथा— महाश्वेता पुण्डरीकं, चन्द्रपीडं कादम्बरी, गुरुभिरप्रदत्ता प्रतिपत्तिमापेदे। वासवदत्ता च सञ्जयाय रार्ज्ञे, मालती राजसुहृदे नन्दनाय पित्रा प्रदत्तमात्मानमुदयनाय, माधवाय च प्रायच्छत्। (मामा. २.७/८)
६. परदारप्रयोजनमितिहासादिःपारदारिकं यथा— अस्त्यहल्येति गौतममहर्षेः प्रियकलत्रं, तामिन्द्रश्चकमे। ततस्तम् ‘अहल्यायै जार’ इति निर्जानन्ति। अस्ति तारेति वाचस्पते: सुरपुरोधसः धर्मपत्नी। सा प्रजापतिमतिचरतः पत्युरमर्षात् कियन्तं कालं सोमेन सह उषित्वा बुधाभिधानमात्मजं सुषुवे। एवमञ्जना प्रभञ्जनेन, कृत्तिकापरिषत् कृशानुना हनूमन्तं कार्तिकेयं चेति।
(३. उपावर्तनम्)
विश्वस्य च ‘कथमेवंविधः पतिरिति पत्यावनुशयं ग्राहयित्वा, न तव सुभगे दास्यमपि युक्तः कर्तुमिति ब्रूयात्’ (कासू. ५.४) इत्युपावर्तनम्।
तत्रोदाहरणच्छाया— (मामा. २.६.)
इदमिह मदनस्य जैत्रमस्त्रं सहजविलासनिबन्धनं शरीरम्।
अनुचितवरसम्प्रयोगशोच्यं विफलगुणतिशयं भविष्यतीति॥ ९६॥
यथा वा—(मामा. २. ८.)
राज्ञः प्रियाय सुहृदे सचिवाय कार्याद्दत्वात्मजां भवतु निर्वृतिमानमात्यः।
दुर्दर्शनेन घटतामियमप्यनेनधूमग्रहेण विमला शशिनः कलेव॥ ९७॥
भूयश्च यथापुरस्तादुपायेषु वक्ष्यामः।
यदाह कामन्दकी—(मामा. ३.१)
तथा विनयनम्रापि मया मालत्युपायतः।
नीता कतिपयहेन सखीविस्रम्भसेव्यताम्॥ ९८॥
(४. अनुवर्तनम्)
‘नायकयोः चरितमनुकूलतया कामितानि च वर्णयेत्’ (कासू. ५.४) इत्यनुवर्तनं, यथा—(मामा. १.२३)
अन्येषु चन्तुषु च यस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि।
सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथंचिदपह्रुतिर्भूत्॥ ९९॥
यथा वा— ‘उचितस्तावदस्यां भवतोऽभिषङ्ग’ इति। ‘अमात्यभूरिवसोः आत्मजेत्यपर्याप्तिर्बहुमानस्य इति।’ (मामा. १. ३८/३९)
अपि च—‘मालती, मालतीति मोदते भगवती कामन्दकी। मालत्या अपि स्नेहदर्शनात् सुश्लष्टमेतत्’ (मामा. १.३५/३६)
किञ्च— ‘सहि दिटिठअा दे अणुरुवः अहिलासो। साअरं उज्झिअ महाणई कहिं वा ओदरड? किं अण्णदो चरिदव्वमेदि? का वा दाणिं सहआरमंतरेण अदिमुत्तलअं पल्लविदं सहेदि? (सखि! दिष्टया तेऽनुरूपोऽभिलाषः। सागरमुज्झित्वा महानदी (कुत्र वावतरति)?। किमन्यतः चरितव्यमेति(?)को वा इदानीं सहकारमन्तरेणातिमुक्तलतां (पल्लवितां सहते)? (शाकु. ३.१०/११) ॰॰॰ ण सहेज्ज णहअंणा ॰॰॰ (न सहिस्यते नखशङ्का) तुह्मारिसीओ पक्खवाइणीओ होति। सहि मालदीए वि रमणीअअणुराअ एव्व रमणिज्जो इमस्सिं महाणुहावे अणुराअप्पवादो त्ति। (युष्मादृश्यः पक्षपातिन्यः भवन्ति सखि! मालत्या अपि रमणीयानुराग एव रामणीयेऽस्मिन् महानुभावेऽनुरागप्रवादः) इति॥ १००॥’
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम्।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत्॥ १०१॥ इति॥
(पञ्चतन्त्रम्१.७४) चित्तानुवर्तनाच्च प्रसृतसद्भावायां तस्यां कार्यशरीरमित्थं वदेत् ‘श्रृणु विचित्रमिदं सुभगे, त्वं (त्वां) किल संदृश्यामुत्र असावित्थं गोत्रपुत्रो नायकः उन्मादमनुभवति। द्वितीये अहनि वाचि वक्त्रे दृष्टयां च प्रसादमस्या लक्षयित्वा पुनरपि कथां प्रवर्तयेत् (कामसू. ५.४) नायकस्य सौभाग्यं श्लाघनीयतया प्रच्छन्नत्सम्प्रयोगं भूतमभूतं वा कीर्तयेत् (कामसू. ५.४)। श्रृण्वतां वा अहल्याऽविमारकशाकुन्तलादीन्यन्यानि च सोत्कण्ठानि कथतेत् (कामसू. ५.४)। तदेवं ‘प्रकृत्या सुकुमारः (कुमारः) कदाचिदन्यत्र अपरिक्लिष्टपूर्वस्तपस्वी, ततोऽधुना शक्यमनेन मरणमप्यनुभवितुम्।’ इति च वर्णयेत्।
(४. कार्योपन्यासशुद्धिः)
इङ्गिताकारांश्च लक्षयेदिति कार्योपन्यासशुद्धिः (कासू. ५.४)।
यथा मालतीमाधवे—
कमन्दकी— (मालत्याश्चिबुकमुन्नमय्य) ‘श्रृणु विचित्रमिदं सुभगे, अस्ति तावद् एकदा प्रसङ्गतः कथित एव मया माधवाभिधानः कुमारः, यस्त्वमिव मामकीन्स्य मनसः द्वितीयं बन्धनम् (मामा. ३.८)
लवङ्गिका— सुमरामो। (स्मरामः।)
कामन्दकी— अस्ति विदर्भाधिपस्य नरतेरमात्यः समग्रपुरुषप्रकाण्डचक्र— चूडामणिर्देवरातो नाम, यमशेषभुवनमहनीयपुण्यमहिमानमात्मनः सामर्थ्यात् पितैव ते जानाति यश्च यादृशश्चेति (मामा. २.८/९)।
अपि च— (मामा. २.९—११)
व्यतिकरितदिगन्ताः श्वेतमानैर्यशोभिः सुकृतिविलसितानां स्थानमूर्जस्वलानाम्।
अकलितमहिमानः केतनं मङ्गलानां कथमपि भुवनेऽस्मिँस्तादृशास्सम्भवन्ति॥ १०२॥
तत उदयगिरेरिवैक एव स्फुरितगुणद्युतिसुन्दरः कलावान्।
इह जगति महोत्सवस्य हेतुर्नयनवतामुदियाय बालचन्द्रः॥ १०३॥
असौ वद्याधारः शिशुरपि विनिर्गत्य भवना— दिहायातस्सम्प्रत्यविकलशरच्चन्द्रमधुरः।
यदलोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुंवलयितवातायनमिव॥ १०४॥
अत्र बालसुहृदा मकरन्देन सह विद्यामान्वीक्षिकीमधीते। स एष माधवो नामेति। कामन्दकी— स खलु मन्मथोद्यानयात्रादिवसात् प्रभृति दुर्मनायमानः परवानिव शरीरोपतापेन। (मामा. ३.८/९)
यदिन्दावानन्दं प्रणयिनि जने वा न भजते व्यनक्त्यन्तस्तापं तदयमतिधोरोऽपि विषमम्।
प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डुमधुरं वपुः क्षामं क्षामं वहति रमणीयश्च भवति॥ १०४॥
(मामा. ३.९) लवङ्गिका— इदं वि तस्सिं अवसरे भअवदिं तुवराअंतीए (अवलोइदाए) उदीरिअं आसि। {इदमपि तस्मिन्नवसरे भगवतीं त्वरयन्त्या (अवलोकितया) उदीरितमासीत्।}
कालन्दकी— यावदश्रृणवं मालत्येवास्य मन्मथोन्मादहेतुरिति। ममापि हि स एव निश्चयः. (मामा. ३.१०)
अनुभवं वदनेन्दुरुपागमन्नियतमेव यदस्य महात्मनः।
क्षुभितमुत्कलिकातरलं मनः पय इव स्तिमितस्य महोदधेः॥ १०६॥
(६. अवस्थानिवेदनम्)
नायकयोः विलोकनश्रवणदिवसादारभ्य मिथोऽभिलाषात् चिन्तादिजन्मनः मनोवाग्बुद्धिशरोरस्याकल्यस्य स्थानात् स्थानान्तरोपवर्णनमवस्थानिवेदनम्। तच्च कार्योपन्यासशेषः। यथाह कामन्दकी— (मामा. ३.१०—१२)
‘तदेवं प्रकृत्या सुकुमारः कुमारः। तदत्रापरिक्लिष्टपूर्वस्तपस्वी। यतोऽधुना शक्यमनेन मरणमप्यनुभवितुम्। असौ हि—’
धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति बकुलामोदगर्भस्य वायोः।
दावप्रेम्णा सरसबिसिनीपत्रमात्रान्तराय— स्ताम्यन्मूर्तिश्श्रयति बहुशो मृत्यवे चन्द्रपादान्॥ १०७॥
यच्चैतन्मरणतां दशमीं कामसूत्रकाराः कामयमानावस्थामामनन्ति। यदाहुः—‘तस्य दश स्थानानि चक्षुःप्रीतिः, मनस्सङ्गः, सङ्कल्पोत्पत्ती, निद्राच्छेदः, तनुता, विषयेभ्यो व्यावृत्तिः, लज्जाप्रणाशः, उन्मादः, मूर्च्छा, मरणम्’ (कासू. ५.१) इति।
इह तु भावेषु मरणानभ्युपगमात् मृत्युयोग्यतैव मरणमुच्यते।
चक्षुःप्रीतिः पुनः मिथोऽभिलाष एव।
कानि तर्हि चित्तजन्मनः दशस्थानानि?
श्रूयन्ताम्—‘षडिन्द्रियाणि, वक्त्रं, वाक्, वपुः, चेष्टा’ इति। तत्र—
मनसि चिन्ता, अनुस्मरणं च ।
बुद्धीन्द्रियेषु विषयव्यावृत्तिर्निद्राच्छेदश्च।
वक्त्रे लज्जाप्रणाशः उन्मादश्च।
वाचि गुणकीर्तनं विलापश्च।
वपुषि व्याधिः तनुता च।
चेष्टायां जाड्यं मूर्च्छा च। एवमेते मनोविकारा इत्युच्यन्ते। तासु१— NOTES pg=1260! १. ‘विकाराणीत्युच्यन्ते तासु’ इति मुद्रणा चोशेरे राघवे च। ‘विकारा इ॰’ इत्यस्माकं योजना। तेष्विति वक्तव्ये तास्विति ‘षडिन्द्रिय—वक्त्र—वाग्वपुश्चेष्टाश्चित्तजन्मनो दश स्थानानी’—ति चेष्टान्तं सूत्रं परिकल्प्याऽन्तिमां चेष्टां परामृशता ग्रन्थकृताऽवोचीति समाधेयम्। चिन्ता यथा—(गास. २.३३)
सअणे चिंतामइअं काऊण पिअं णिमीलिअच्छीए।
अप्पाणो उवऊढो पासिढिलवलआहिँ वाहाहिँ॥ १०८॥
(शयने चिन्तामयं कृत्वा त्वां/प्रियं निमीलिताक्ष्या।
आत्मा अवगूढः प्रशिथिलवलयाभ्यां बाहुभ्याम्॥)
अनुस्मरणं यथा—
जेहिँ चिअ जीविज्जइ तुह (सअ) संकप्प—संगम—सुहेहिँ।
खणविघडिएहिं लाहं तेहिं ण अ जाणइ वराई॥ १०९॥
(यैरेव जीव्यते तव/शतसङ्कल्पसङ्गमसुखैः।
क्षणविघटितैः लाभं तैः न च नीयते वराकी॥)
विषयव्यावृत्तिः यथा—(विसा. ३.२)
सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं द्वारात् त्रस्यति चित्रकेलिसदसो वेषं विषं मन्यते।
आस्ते केवलमब्जिनीकिसलयप्रस्तारशय्यातले सङ्कल्पोपनत—त्वदाकृतिरसायत्तेन चित्तेन सा॥ ११०॥
निद्राच्छेदो यथा—(गास. ५.८७)
तुह विरहुज्जुग्गिज्जागरओ सिविणे वि ण देइ दंसणसुहाइं।
वाहेण जहालोअणविणोअणं पि से विहअं॥ १११॥
(तव विरहोज्जागरकः स्वप्नेऽपि न ददाति दर्शनसुखानि।
बाष्पेण यदालोकनविनोदनमपि तस्या विहतम्॥)
लज्जाप्रणाशः यथा—(गास. १.५७)—
अगणिअ—सेसजुआणो बालअ बोलीणलोअमज्जाआ।
अह ए भमइ दिसामुहविसारिअच्छी तुह कएण॥ ११२॥
(अगणिताऽशेषयुवा बालक विलीन/व्यतिक्रान्तलोकमर्यादा।
अथ हे भ्रमति दिशामुखविसारिताक्षी तव कृतेन॥)
उन्मादो यथा—(सूमु. ९)
चन्द्रं चन्दनकर्दमेन लिखितं यन्मार्ष्टि दष्टाधरा कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च यत्।
वन्द्यं निन्दति यच्च मन्मथमसौ भङ्कत्वाऽग्रहस्ताङ्गुली— स्तत्कामं सुभग! त्वया वरतनुर्वातूलतां लम्भिता॥ ११३॥
गुणकीर्तनं यथा—(सक. ५.१३७)
विलिम्पत्येतस्मिन् मलयजरसार्द्रेण महसा दिशां चक्रं चन्दे सुकृतमथ तस्या मृगदृशः।
दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं ह्नीः पृष्ठे वचसि च गुणा एव भवतः॥ ११४॥
विलापो यथा—(कुसं. ५.५८)
यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थामिमं कथं जनम्।
इति स्वहस्तालिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः॥ ११५॥
व्याधिर्यथा—
तस्यास्तापमहर्निशं स कथयाम्येणीदृशस्ते कथं पद्मिन्यास्सरसं दलं विनिहितं यस्याश्शमायोरसि।
आदौ शुष्यति सङ्कुचत्यनु ततः चूर्णत्वमापद्यते पश्चान्मुर्मुरतां दधद्दहति च श्वासावधूतं सखीः॥ ११६॥
तनुता यथा—
(वक्त्रं तस्याः कृशतरकपोलद्वयं कान्तिलक्ष्यं)१ बाष्पाम्भोभिश्चमिति पतितैः सूच्यते च स्तनान्तः।
तस्याः किञ्चित्सुभग! तदभूत्तानवं त्वदवियोगे येनाकस्माद् वलयपदवीमङ्गुलीयं प्रयाति॥ ११७॥
जा़ड्यं यथा—(अमरु. ११०)
अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुभ्योऽर्पिता दत्तं दैन्यमशेषतः परिजने तापस्सखीष्वाहितः।
अद्य श्वः किल निवृतिं व्रजति सा श्वासैः परं खिद्यते विस्त्रब्धो भव विप्रयोगजनितं दुःखं विमुक्तं तया॥ ११८॥
NOTES pg=1262! १. पाद एषोऽस्माभिर्योजितः। मूर्च्छा यथा—
कथमिव मनोमोहं तस्यास्सखे! कथयामि ते दहनपतिता दृष्टा मूर्तिर्मया नहि वैधवी।
इति तु विदितं नारिरूपस्सलोकदृशां सुधा तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते॥ ११९॥
(७. इङ्गिताकारज्ञानम्)
इङ्गिताकारज्ञानमपि विशेषतस्तत्र प्रसिद्धायां ‘द्वितीयेऽहनि वाचि, वक्त्रे, दृष्ट्यां च प्रसादमस्या लक्षयित्वा पुनरपि कथां प्रवर्तयेदिङ्गिताकारांश्च लक्षयेद्’ (कामसू. ५.४) इत्यभिहितात्। ‘ते दर्शने प्रसीदति, विरहे उद्विजते, विहसितं कृत्वा सम्भाषते, आदरेणोपमन्त्रयते, आसन्नमासनं ददाति, इष्टेषूत्सवेषु स्मरति, भक्ष्येषु ॰ ॰ ॰ ॰ हारं गच्छति, क्वासि ॰ ॰ ॰ त्वरयितुं ॰ ॰ ॰ किं वा कृतमिति पृच्छति, विविक्ते दर्शयते, गृह्यमाचष्टे, शङ्कास्थानेषु नाभिशङ्कते, कथायां रमते, परविज्ञापनायां ॰ ॰ ॰ पेक्षते, वाक्यं प्रतिगृह्णाति, पथ्यमुक्तं सहते, हस्तेन, स्पृशति, श्लाघ्येनोपहसनि, परोक्षे गुणान् ब्रवीति ॰ ॰ ॰ तद्भक्तान् पूजयति, मानं वर्धयति, अर्थं करोति, अनर्थं प्रतिहन्ति, कृत्येष्वात्मानं नियोजयति, आख्यायकमनुयुङ्क्ते, श्रुत्वा चिन्तयति, जृम्भते, निःश्वसिति; प्रीतिदायं च ददाति, पुनर्दर्शनानुबन्धं विसृजति, साधुवादिनी सती किमिदमशोभनमभिधत्स इति कथामनुबध्नाति, नायकस्य साध्य ॰ ॰ ॰ ॰ पूर्वसिद्धं च तत्सम्बन्धं दर्शनं कथां नियोगं वा स्वयमकथयन्ती तया कथ्यमानं काङ्क्षति, नायकमनोरथेषु च सपरिभवं नाम सहते, न च निर्वदति, तन्मित्रेषु विश्वसिति, तया सह क्रीडामभिनन्दति, स्वकर्मसु चैनां प्रभविष्णुरिव नियुङ्क्ते'१ (कासू. ५.४) इति। उदाहरणं यथा—(मामा. ३.२., ३)
व्रजति विरहे वैचिञ्यं नः प्रसीदति सन्निधौ रहसि रमते प्रीत्या दायं ददात्यनुवर्तते।
गमनसमये कण्ठे लग्ना निरुध्य निरुध्य मां सपदि शपथैः प्रत्यावृत्तिं प्रणम्य च याचते॥ १२०॥
NOTES pg=1236! १. ते दर्शने प्रसीदतीत्यारभ्य प्रभविष्णुरिव नियुङ्क्त’ इति यावत् सर्वाणि वाक्यानि भोजरचितान्येव॥
शाकुन्तलादीनितिहासवादान् प्रस्तावितानन्यपरैर्वचोभिः।
श्रुत्वा मदुकत्सङ्गनिवेशिताङ्गीं चिराय चिन्तास्तिमितत्वमेति॥ १२१॥
॰ ॰ ॰ हार्यं (?) यथा चोदाहृतमिङ्गिताकारेषु स्थानस्थानेषु पुरस्ताद् दर्शितेङ्गिताकारां नायकाभिज्ञानैरुपबृंहयेत्, सा चेत् संस्तुता स्यात्। असंस्तुतां तु गुणकथनैरनुरागकथाभिश्च आवर्जयेत्। (कासू. ५.४) ‘मनोहराणि उपायनानि ताम्बूलम् अनुलेपनं स्त्रजमङ्गुलीयकं ॰ ॰ तेषु नायकस्य नखदशनपदानि तानि तानि चिह्नानि च स्युः। पत्रच्छेद्यानि च नानाभिप्रायाकृतीनि दर्शयेत्। लेखगर्भाणि च कर्णपत्रादीनि। तेषु च तन्मानोरथाख्यानं प्रति प्राभृतदाने चैनां नियोजयेद्’ इति (कासू. ५.४)।
(८. उपायज्ञानम् — ४)
उपायज्ञानम्। तेषु च प्राग् दर्शितेङ्गिताकारां नायकाभिज्ञानैरुपबृंहयेत्।
सा चेत्संस्तुता स्यादिति साम।
असंस्तुतां गुणकथनैरनुरागसङ्कथाभिश्चैनां नियोजयेदिति भेदः।
मनोहराण्युपायनानि ताम्बूलमनुलेपनं स्त्रजमङ्गुलीयकं वासो वा तेन प्रहितानि।
तानि च चिह्नानि स्युरिति दण्डः।
पत्रच्छेद्यानि नानाभिप्रायाकृतीनि प्रेषयेत् इति भेददण्डौ।
लेखगर्भाणि, कर्णपत्रादीनीति दानभेदौ।
तेषु च तन्मनोरथाख्यानमिति सामभेदौ। प्रतिप्राभृतदाने चैनां नियोजयेदिति दानदण्डौ। ते च प्रत्येकं चत्वारः पञ्चधा भवन्ति।
(१. साम —५)
गुणकीर्तनम्, सम्बन्धोपाख्यानम्, परस्परोपकारसन्दर्शनम्, आयतिप्रदर्शनम्, आत्मोपधानं चेति साम।
१. तेष्वभिज्ञादिप्रशंसा गुणकीर्तनम्। यथा—(सक. ५.३६९)
कुलममलिनं भद्रा मूर्तिः मतिश्श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्।
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्।
प्रकृतिसुभगा ह्येते भावा मदस्य च हेतवो व्रजति पुरुषो यैरुन्मादं त एव तवाङ्कुशाः॥ १२२॥
२. मैत्र्यादिसंकीर्तनं सम्बन्धोपाख्यानम्। यथा—(कुसं. ५.३९)
प्रयुक्तसत्कारविशेषमात्मना न मां परं सम्प्रतिपत्तुमर्हसि।
यतस्सतां सन्नतगात्रि! सङ्गतं मनीषिभिस्साप्तपदीनमुच्यते॥ १२३॥
३. स्वपक्षपरपक्षयोरन्यग्रहाख्यानं परस्परोपकारसन्दर्शनम्। यथा—(शाकु. ५.१७)
णावेक्खिओ गुरुअणो इमीए ण तुए वि पुच्छिओ बंधू।
एक्केक्कमेव्व चरिए भणामि किं एक्कमेक्कस्य॥ १२४॥
(नापेक्षितो गुरुजनोऽनया न त्वयापि पृष्टः बन्धुः।
एकैकमेव चरिते भणामि किमेकमेकस्य॥)
४. अस्मिन्नेवंगते इदमेदं भविष्यतीत्याशाजननं आयतिप्रदर्शनम्। यथा—(बारा. १.३४)
सोऽयं स्वयंग्रहणदुर्ललितो दशास्यस्त्वां याचते दुहितरं पणपूर्वमेव।
सम्बन्धसन्धिममुना च सहानुभूय वंशो निमेर्जयतु यावदियं धरित्री॥ १२५॥
५. योऽहं स भवान्, यन्मम द्रव्यं तद्भवतः, स्वकृत्येषूपयुज्यतामित्यात्मोपाधानं, यथा—(कुसं. ५.५०)
कियच्चिरं श्रामयसि गौरि विद्यते ममापि पूर्वाश्रमसञ्चितं तपः।
तदर्धभागेन लभस्व काङ्क्षितं पतिं तमिच्छामि च साधु वेदितुम्॥ १२६॥
(२. भेदः —५)
अन्यविद्वेषणम्, अन्यव्यवर्तनम्, अन्योपभोगदर्शनम् अन्यानुरागकथनम्, अन्यसौभाग्यप्रकाशनं चेति भेदः। तदुक्तम्— (कासू. ५. ४, ६४, ६५, पृ. ५६७ चौखं. सं. १९६४)
विद्वेषं ग्राहयेत् पत्यौ रमणीयानि वर्णयेत्।
चित्रान् सुरतसम्भोगानन्यासामपि दर्शयेत्॥ १२७॥
नायकस्यानुरागं च पुनश्च रतिकौशलम्।
प्रार्थनं चापरस्त्रीभिरवष्टम्भं च वर्णयेत्॥ १२८॥
तत्र— १. विद्वेषं ग्राहयेत् पत्याविति विद्वेषणम्। यथा—
दुद्दंसणेण ईसालुएण थेरेण दुव्विअङ्ढेण।
ऊवोढा पिअसहि साह(सु) संपअं कह णु जीअसि॥ १२९॥
(दुर्दर्शनेनेर्ष्यालुना स्थविरेण दुर्विदग्धेन।
उपोढा प्रियसखि! कथय साम्प्रतं कथं नु जीवसि॥)
२. अन्यव्यावर्तनं यथा—
कूरस्स कारणट्ठं दिज्जइ अप्पा पइस्स णिअअस्स।
सुरअसुहं पुण मुद्धे होहिइ अक्खण्डिए सीले॥ १३०॥
(क्रूरस्य कारणार्थं दीयते आत्मा पत्युर्निजकस्य।
सुरतसुखं पुनर्मुग्धे भविष्यति अखण्डिते शीले॥)
३. चित्रान् सुरतसम्भोगानन्यासामपि दर्शयेदित्यन्योपभोगदर्शनम्।
यथा—(सक. ५.२७७)
अपेतव्याहारं धुतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् ।
मुहुर्बद्धोत्कम्पं दिशि दिशि मुहुः प्रेरितदृशो— रहल्यासुत्राम्णोः क्षणिकमिह तत्सङ्गतमभूत्॥ १३१॥
४. नायकस्यानुरागं च पुनश्च रतिकौशलं इत्यन्यानुरागकथनम्। यथा—
ससिमुहि मुहस्स लच्छी घणालिणथण चक्कजुअं।
तणुओअरि तणुआअइ हलिअसुओ कुणउ जुत्तं॥ १३२॥
(शशिमुखि! मुखस्य लक्ष्मीः घनालीनस्तननितम्ब—चक्रयुगम्।
तनुकोदरि! तनुकायते हलिकसुतः करोतु युक्तम्॥)
५. प्रार्थनं चापरस्त्रीभिरवष्टम्भं च वर्णयेदित्यन्यसौभाग्यकथनम्। यथा—(मामा. २.११)
असौ विद्याधारश्शिशुरपि विनिर्गत्य सदना— दिहायातः सम्प्रत्यविकलशरच्चन्द्रमधुरः।
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव॥ १३३॥
(३. दानम् —५)
(देयविसर्गः) गृहीतानुर्वतनम्, आवर्तनप्रतिपादनं, स्वद्रव्यदानम्, आत्मपरस्वेषु स्वयंग्राहद(नं) चेति दानम्। तेषु—
१. जित—न्यस्त—प्रयुक्त—प्रतिश्रुतादीनां समर्पणं देयविसर्गः। यथा—
दीपोत्सवेऽद्य भवता शतमेकविंश— द्यूते जिता कितव! सा स्वयमाहृतानि।
गोदावरीतटवनेषु गता विचेतुं मुक्ताकदम्बकुसुमानि सकेसराणि॥ १३४॥
२. अदत्तस्वीकृतस्य मर्षणं गृहीतानुवर्तनम्। यथा—
सञ्जग्मुषा सुभग! भीमरथीनिकुञ्जे संख्यास्स्तनांशुकमगृह्यत यत् त्वया नः।
स्वप्ने ददासि गमयन्न शठत्वमेव तुष्यामुना किमिति दुर्लभदर्शनोऽसि॥ १३५॥
३. स्वयंगृहीतस्य प्रत्यर्पणमावर्तप्रतिपादनम्। यथा—(रघु. १६.८६)
इत्यूचिवानुपहिताभरणः क्षितीशं श्लाघ्यो भवान् स्वजन इत्यनुभाषितारम्।
संयोजयां विधिवदास समेतबन्धुः कन्यामयेन कुमुदः कूलभूषणेन॥ १३६॥
४. आत्मीयस्य हारकेयूरादेः प्रयत्ननो वितरणं स्वद्रव्यदानम्। यथा—
आमुच्यतामिह सुधारसधाम्नि कण्ठे कादम्बरीप्रहित एष स शेषहारः।
अस्याः कुमार! तव निर्जितमन्मथायाः मूर्तेर्गुणानुगुणमाभरणं किलेति॥ १३७॥
५. ममान्यस्य सा यदस्ति तद्दृश्यतामिति आत्मपरस्वेषु स्वयंग्राहदानम्। यथा—(मामा. ४.१)
यद् व्यालव्रणितसुहृत्प्रमोहदग्धं सौजन्याद् विहितवती गतव्यथं माम्।
तत् कामं प्रभवतु पूर्णपात्रवृत्त्या स्वीकर्तुं मम हृदयं च जीवितं च॥ १३८॥
(४. दण्डः —५)
शङ्काजननं, अभिभर्त्सनं, अर्थापहरणं, परिक्लेशनं, उपघातश्च दण्डः। तेषु—
१. वचनबिभीषिका शङ्काजननम्। यथा—(मवीच. १.५९)
पौलस्त्यः प्रणयेन याचत इति श्लाघ्येन येनादरः सम्बन्धे सति यत्त्रिलोकपतिना सौख्ये न तत्र स्पृहा।
गन्तव्या पुनरन्यथापि नियतं लङ्का तया सीतया तन्मा भूदिह वः पुरन्दरपुरीबन्दिप्रयुक्तो विधिः॥ १३९॥
२. प्रणयकोपादिभिराक्रोशनमभिभर्त्सनम्। यथा—(गास. १.३०वे.)
णिक्किव जाआभीरुअ दुद्दंसण णिंब—ईड—सारिच्छ।
गामो गामिणिणंदण तुज्झ कए तह वि तणुआइ॥ १४०॥
(निष्कृप जायाभीरुक दुर्दर्शन निम्बकीटसदृश!।
ग्रामो ग्रामणीनन्दन! तव कृते तथापि तनुकायते॥)
३. वस्त्रविभूषणादेर्बलच्छलादिभिः आदानमर्थापहरणम्। यथा—(मवीच. १.५९)
“भो गंगारोल/गेण्टाकराल पअच्छसु नोपवत्थानि जानि मज्जंदिदीणं तुए अपहितानि, अंहेहिं सग्गे गंतव्वं। कथं सिनानसाटकेसु परिहितेसु तत्थ वच्चा—(गच्छा)मो। अगच्चमानीओ उण भआमो सतक्कुतुनो सापातो। पभतअं च संवरिकाअं सिलभूदा इहव्वे अवचिट्ठिस्सामो॥” (भो गङ्गारोल/गेण्टाकराल प्रयच्छ नो वस्त्राणि यानि मज्जन्तीनां त्वया अपहृतानि। अस्माभिः स्वर्गे गन्तव्यम्। कथं स्नानशाटकेषु परिहृतेषु तत्र गच्छामः? अगच्छन्त्यः पुनः बिभिमः शत्रक्रतो शापात्। प्रभातायां च शर्वरिकायां शिलाभूताः इहैव अवस्थास्यामः।) इत्यप्सरोभिरुक्ते गेण्टाकरालः कलिङ्गसेनालम्भे प्राह—
‘पअच्छामि ओपवत्थानि जमेदि/जदि मे एक्क अच्छरं भरिअं संपअच्छथ॥ १४१॥’ (प्रयच्छामि औपवस्त्राणि यदि मे एकामप्सरसं भार्यां संप्रयच्छथ।) इति।
४. कामचारादेः विघातः परिक्लेशनम्। यथा शाकुन्तले—(१.२७.३ पृ. ५४६) प्रियंवदा— (शकुन्तलामुपसृत्य) हला! चंडि! तुमं णारुहसि गंतुं। रुक्खसेअणके मे दुए धारेसि। तेहिं दाव मोआवेहि अत्ताणं तदो गमिस्ससि। (हला चण्डि, त्वं नार्हसि गन्तुम्। वृक्षसेचनके मे द्वे धारयसि। ताभ्यां तावत् मोचयत्वात्मानम्। ततो गमिष्यासि) इति बलादेनां निवर्तयति॥
५. वधोद्योगः उपघातः, यथा—
इति परुषमुदीर्य राजपुत्रीं मरणवितीर्णमनाः परेतभूमौ।
त्रिभुवनपतिरुज्जगाम पीठाज् झटिति विमोचितचन्द्रहासकोशः॥ १४२॥
एतेषां च (समस्तानां) व्यस्तानां च क्रमेणाक्रमेण च प्रयोगो यथा— (मवीच. १.३०) (पृ. ११०६) ‘कन्यारत्नमयोनिजन्म भवताम्’ इत्य़ादि॥ १४३॥ (पृ. ११३२)
(उपायानां देशकालविशेषः)
उपायाश्च प्रयुज्यमानाः अवश्यं देशकालयोः विशेषमपेक्षन्ते। परस्परपक्षयोर— भिदूतिप्रत्ययः समागमः। ॰ ॰ ॰ ॰ तात्ययप्रतीकारे गृहोद्याने गुल्मलतानिकुञ्ज— निष्कुटादिषु सखी—भिक्षुकी—तापसी—भवनेषु, देवतायतने, देवयात्राया— मुद्यानक्रीडायां, जलावतरणे, विवाहयज्ञोत्सवव्यसनेषु, अग्न्युत्पाते, चोरविभ्रमे, जनपदस्य चक्रारोपणे, प्रेक्षणव्यापारे (कासू. ५.४)। यथा—(मामा. ७.३)
प्रेयान्मनोरथसहस्त्रवृतस्स एष सुप्तप्रमत्तजनमेतदमात्यवेशम।
प्रौढं तमः कुरु कृतज्ञतयैव भद्रमुत्क्षिप्तमूकणिनूपुरमेहि यामः॥ १४४॥
तत्र—देशस्सन्निकृष्टः विप्रकृष्टः, सुगमः दुर्गमः, सापायः, निरपायः, सेव्यः, असेव्य इति।
कालः चिरः, क्षिप्रः, साधारणः, सावधिः, निरवधि, अतीतः, भावी, वर्तमान इति। तेषु—
(देशः —८)
१. सन्निकृष्टो यथा—(कादकसा. ५.८०)
मदलेखा गृहीत्वा तं हारं गत्वा तदन्तिकम्।
तथोवाच यथानेन प्रत्युक्ता सा न किञ्जन॥ १४५॥
२. विप्रकृष्टो यथा—(कादकसा. ६.३१)
उत्तिष्ठ यदि जीवन्तीं मामिच्छसि तमानय।
अहं नेतुमशक्या हि सुदूरमिदमन्तरम्॥ १४६॥
३. सुगमो यथा—(कादकसा. ६.९)
दिनेष्वथ व्यतीतेषु पत्रलेखा तदन्तिकम्।
प्रापद् वलाहकाश्वीयनिर्वृत्तपथसौष्छवा॥ १४७॥१
४. दुर्गमो यथा—(गास. ६.७६)
चोरा सभअसतण्हं पुणो पुणो पेसअन्ति दिट्ठिओ।
अहि—रक्खिअ—णिहि—कलसे व्व पोढवइआ—थणुच्छङ्गे॥ १४८॥
(चोराः सभयसतृष्णं पुनः पुनः प्रेषयन्ति दृष्टीः।
अहिरक्षितनिधिकलश इव प्रौढपतिकास्तनोत्सङ्गे॥)
NOTES pg=1269! १. दुर्गमः, सापायो निरपायश्चेति त्रयो भेदा जोशेरेण न दत्ताः। राघवस्तूष्णीमत्र तिष्ठति दृष्टजोशेरग्रन्थोऽपि। ५. सापायो यथा—(कुसं. ३.४३)
दृष्टिप्रपातं परिहृत्य तस्य कामः पुरः शुक्रमिव प्रयाणे।
प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश॥ १४९॥
६. निरपायो यथा—(कादकसा. ६.३५)
दिनेष्वन्येषु यातेषु वक्तुं कादम्बरीदशाम्।
आयात् केयूरकोऽप्याशु दीर्घाध्वश्रान्तवाहवनः॥ १५०॥
७. सेव्यो यथा—(कादकसा. ५.३६)
इतो न दूरे गन्धर्वराजधानी तदद्य ताम्।
दृष्ट्वास्मदनुरोधेन श्वो गन्तासि स्ववाहिनीम्॥ १५९॥
८. असेव्यो यथा—(कादकसा ४.९२)
तच्छुत्वा जनसम्मर्दभीरुर्यातः कपिञ्जलः।
न स प्रतिवचः किञ्चिन्मामकीनमपैक्षत॥ १५२॥
(कालः —८)
१. कालश्विरो यथा—(कादकसा. ६.३२)
स्थितायां त्वयि जीवामि त्वत्स्पर्शेन यथा तथा।
गतायां तु चिरं कालं क्षमन्ते मम नासवः॥ १५३॥
२. क्षिप्रो यथा—(कादकसा. ४. ५९)
ततोऽहमिदमेवात्र प्राप्तकालमचिन्तयम्।१
राजपुत्रि! सुहृत्प्राणरक्षणार्थमिहागतः॥ १५४॥
३. साधारणो यथा—(शाकु. पृ. ५७३ रू)२
त्वं दूरमपि गच्छन्ती हृदयं न जहासि मे।
दिनावसाने छायेव पुरोमूलं वनस्पतेः॥ १५५॥
४. सावधिर्यथा—(शाकु. ६.१२)
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम्।
तावत् प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति॥ १५६॥
NOTES pg=1270! १. लंम = ‘लमिति द्रुतम’—रा.। २. शाकुन्तलस्य वङ्गीयानां वाचनायां पद्यमिदं लभ्यते। नागरवाचनायां पुनर्न। राघवस्य तु वङ्गवाचना न स्वभ्यस्ता। इदमपि निध्येयमत्र यद् भोजस्तदिदं द्वितयमप्यभ्यस्तवान्। द्र. अस्माकं कालिदासग्रन्थावल्याः (पृ. ५७३ (द्वि. सं.) ५. निरवधिर्यथा—(कुसं. ५. ६१)
न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्त्रोत्तरमीक्षितामिमाम्।
तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम्॥ १५७॥
६. अतीतो यथा—(कादकसा. ४. ७२)
वद तेन किमुक्तासि स किमुक्तस्त्वयापि वा।
तदन्तिके च विस्त्रब्धमुषितासि कियच्चिरम्॥ १५८॥
७. भावी यथा—(कुसं. ४. ४२)
परिणेष्यति पार्वकीं यदा तपसा तत्प्रवणीकृतो हरः।
उपलब्धसुखस्तदा स्मरं वपुषा स्वेन समग्रयिष्यति॥ १५९॥
८. वर्तमानो यथा—(कुसं. ३. १७)
गुरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम्।
अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिस्स वर्गः॥ १६०॥
(९. प्रतारणम्)
देशकालस्योपसलब्धये मिथ्यामाध्यस्थ्यमुग्धत्वानपेक्षत्वार्जवत्वादिप्रशमनैः प्रयोज्यादीनामतिसन्धानं प्रतारणम्, यथोच्यते—(कासू. ५. ४. ६३)
विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका।
प्रवेशमाशु विश्वासं दूतीकार्यँ न विन्दति॥ १६१॥
सा प्रयोज्य़ायां प्रागेव सम्भाष्य द्रष्टव्यदर्शनफलानि लोचनानीत्युक्त्वा रामणीयकदर्शने नियोजयेत्। स्वभवनस्थामेव च ब्रूयात्—
‘अहममुष्यां क्रीडायां ते राजभवनोपवनदीर्घिकासरित्परिसरस्थानानि रमणीयानि दर्शयिष्यांमि’।
ततश्च प्रवालकुट्टिमं मणिभूमिकं वृक्षवाटिकां मृद्वीकामण्डपं समुद्रगृहकं, प्रासादात् गूढभित्तिसञ्चारान् चित्रगृहाणि क्रीडामृगान् यन्त्राणि शाकुनिकान् सव्याघ्रसिंहपञ्जरादीनि यानि यानि पुरस्तादुपवर्णितानि स्युः तान्यस्याः सानुप्रशंसमादरेण दर्शयेत्।
एकान्ते च तद्गतानुरागशंसी चित्रफलकादिकं अन्यद् वा प्रकाशयेत्।
नायकानुरागं वा श्रावयेत्।
तमेवाभिभावयेत्।
तां वा तस्य प्रदर्शयेत्।
अमन्त्रस्त्रावं च प्रतिपन्नां योजयेत्।
संप्रयोगे च आयातिं वर्णयेत्’ (कासू. ५.५) इति प्रतारणप्रकारः। उदाहरणच्छाया, मालतीमाधवे द्वितीयेऽङ्के लवङ्गिकाबुद्धरक्षितादीनां वाक्यानि। तेषु— (मामा. २.१./२)
‘सहि सलहणिज्जं दुल्लहमणोरहफलं जीअलोअस्स सरिसमहाभाअवल्लहसमाअमो’, (सखि श्लाघनीयं दुर्लभमनोरथफलं जीवलोकस्य, सदृशमहाभागवल्लभसमागमः) इति रामणीयकदर्शने नियोगः।
(मामा. ३.३/४–८) एसो क्खु महुर-महु-रसोल्लइ-मंजरी-कवलण-केलि-कलकोइल- उल-कोलाहलोन्निद्द-सहआर-सिहरुड्डण-चडुल-चंचरीअ-णिअर-वइ-अरुद्दलिद- दल-कराल-चंपआहिवास-मणोहरो मराल-मंसल-जहण-परिणाहु-व्वहण- मंथरोरुभर-विसंठुल-क्खलिद-चलण-संचार-विअंभिद-परिस्समोपणीद-सेअ- सीअर-सुहाबिंदुजोज्जंतमुद्ध-मुहचंद-चंदणाअमाण-सीअलसुरहि-सुहप्फंसो तुमं परिस्सअदि कुसुमाअरुज्जाणमारुदो। कुलतापविसहर ॰ ॰ ॰ ॰ ॰ ॰ मालती - सहि इमस्सिं कुंदणिउंजे कुसुमाइं अवचिणुह्य। इदो वि अवरस्सिं अवचिणुम्ह। एदं देवदामंदिरदुवारं। (सहि एसो) अंगराओ इमाओ कुसुममालाओ’ (एष खलु मधुरमधुरसार्द्रमञ्जरीकबलनकेलिकलकोकिलकुलकोलाहलोन्निद्र— सहकार—शिखरोड्डीन—चटुलचच्ञरीकनिकरव्यतिकरोद्दलितदलकरालचम्पका— धिवास—मनोहरो मरालमांसलजघनपरिणाहोद्वहनमन्थरोरुभरविसंष्ठुलस्खलितचरण— सञ्चारविजृम्भितपरिश्रमोपनीतसेकशीकरसुधाबिन्दुद्द्योत्यमानमुग्धमुखचन्द्रचन्दनायमान— शीतल सुरभिसुखस्पर्शः त्वां परिष्वजति कुसुमाकरोद्यानमारुतः। कुलतापविषहर ॰ ॰ ॰ मालती— सखि, अमुष्मिन् कुञ्जनिकुञ्जे कुसुमानि अवचिनुवः। इतोऽप्यपरस्मिन् अवचिनुवः। एतद् देवतामन्दिरद्वारम्। (सखि एष) अङ्गरागः, इमाः कुसुममालाः’) इति। पुरस्तादुपवर्णितानां उपवनादीनां सानुप्रवेशं समादरेण दर्शनम्।
(मामा. ३. १४) अण्णं अ जाणिदं होदु भअवदीए। एदं अ माहवपडिच्चंअसणाहं चित्तलअं। एसा वि तस्स एव्व सहत्थविरइ एत्ति कंठावलंविदा वउलमाला जीवणं पिअसहीए। (अन्यच्च ज्ञातं भवतु भगवत्या। एतच्च माधवप्रतिच्छन्दकसनाथं चित्रफलकम्। एषापि तस्यैव स्वहस्तविरचितेति कण्ठावलम्बिता वकुलमाला जीवनं प्रियसख्याः) इत्येकान्ते अनुरागशंसिनः चित्रफलकादेः प्रकाशनम्।
(मामा. ३.७/८) कामन्दकी— वत्से इत इतः। अयि विरम विरम निस्सहासि जाता।
स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं जनयति मुखचन्द्रोद्भासिनः स्वेदबिन्दून्।
मुकुलयति च नेत्रे सर्वथा सुभ्रु! खेद— स्त्वयि विलसति तुल्यं वल्लभालोकनेन॥ १६२॥
(मामा. ३. ८) तदास्यतां किञ्चिदाख्येयमाख्यातुकामास्मि। अस्ति तावदेकदा प्रसङ्गतः कथित एव माधवाभिधानः कुमारः। स खलु मन्मथोद्यानयात्रादिवसात् प्रभृति दुर्मनायमानः परवानिव शरीरोपतापेन। यावदश्रृणवं मालत्येवास्य मन्मथोन्मादहेतुः। इति नायकानुरागश्रवणम्।
यदि तद्विषयोऽनुरागबन्धः स्फुटमेतद्धि फलं गुणज्ञतायाः।
इति नन्दितमप्यवस्थयास्या हृदयं दारुणया विदीर्यते मे॥ १६३॥
(मामा. ३.१३) इति नायकानुरागश्रावणम्।
मालती— अंमहे एसो वि एत्थ एव्व। (अहो, एषोऽप्यत्रैव।)
माधवः—हन्त पुण्यवानस्मि। यदहमवितर्कितोपनतदर्शनोल्लसितया अनया—
अविरलमिव दाम्ना पौण्डरीकेण नद्धः स्नपित इव च दुग्धस्त्रोतसा निर्झरेण।
कवलित इव कृत्स्नं चक्षुषा स्फारितेन प्रसभममृतसेकेनेह सान्द्रेण सिक्तः॥ १६४॥
(मामा. ३. १६) कामन्दकी—भवति लवङ्गिके वत्सया सह प्रविशाभ्यन्तरमितः। स्तम्भापवारितौ तिष्ठावः। (मामा. ६.७–८) वयस्य गत्वा लवङ्गिकास्थाने तिष्ठ। सहि मा णं पडिबोधइस्ससि। दाणिं एव्व दुम्मणाअमाणा ईस मण्णे पसुत्तेति। सणिअं एव्व सअ(णद्धम्मि) उवविस। (सखि मैनां प्रतिबोधयिष्यसि। इदानीमेव दुर्मनायमाना ईषन्मन्ये प्रसुप्तेति। शनैरेव शयनार्धे उपविश।)
जितमिह भुवने त्वया यदस्य़ाः सखि वकुलावलि वल्लभासि जाता।
परिणत-बिसदण्ड- पाण्डु-मुग्ध-स्तन-परिणाह-विलास-वैजयन्ती ॥ १६५॥
इति तां वा तस्य प्रदर्शयेदिति प्रतिच्छन्दः।
अह सो तुमं कंदप्पजणणिं रुक्किणिं विअ पुरुसुत्तमो सअंगाहसाहसेण सहधम्मआरिणिं करेइ। को तदो पडिवत्ती। सहि कीस मं एत्तिअं आसासेध। काहं इमस्स देण एव्व अत्ताणं पणीकदुअ मं मिच्चुकवलणादो कड्डिअस्स तस्स एब्व परएअस्स? अत्तणो सरीरस्य। सहि सच्चं करेहि। कहिदं एव्व हिअआवेदसूअएहिं दीहणीसासेहिं। सरिसं महाणुभावदाए। सुमरेसि एदं। (अथ स त्वां कन्दर्पजननीं रुक्मिणीमिव पुरुषोत्तमः स्वयंग्राहसाहसेन सहधर्मचारिणीं करोति। का ततः प्रतिपत्तिः। सखि! कस्माद् मामेतावद् आश्वासयथ। काहमेतस्य। तेनैव आत्मानं पणीकृत्य मां मृत्युकबलनादीषत्कृष्टस्य तस्यैव परकीयस्य आत्मनश्शरीरस्य। सखि सत्यं कथय। कथितमेव हृदयावेदसूचकैः दीर्घनिःश्वासैः। सदृशं महानुभावतायाः। स्मरस्येतत्।) इत्यमन्त्रस्त्रावप्रतिपत्तिः।
उद्दामदेहपरिदाहमहाज्वराणि सङ्कल्पसन्निधिविनोदितवेदनानि ।
त्वत्स्नेहसंविदवलम्बितजीवितानि किं वा मयापि न दिनान्यतिवाहितानि॥ १६६॥
(मामा. ६. १३) सहि उवालंबणिज्जं उबालद्धासि (सखि, उपालम्भनीयमुपालब्धासि।)
महाभागे एवमेतत्।
त्वं वत्सलेति कथमप्यवलम्बितात्मा सत्यं जनोऽयमियतो दिवसाननैषीत्।
आनद्धकङ्कणकरप्रणयप्रसाद— मासाद्य नन्दतु चिराय फलन्तु कामाः॥ १६७॥
(मामा. ६.१४) कहं दुदिअआमविच्छेदपडहो ताडिआदि। ता जाव णंदणं णिब्भच्छिअ मालदीए उअरि अणुऊलइस्सं। (कथं द्वितीययामविच्छेदपटहः ताडयते। तद् यावत् नन्दनं निर्भर्त्स्य मालत्या उपरि अनुकूलयिष्यामि।)
(मदयन्तिका उत्थातुमिच्छति। मुखमुद्घाटय तां हस्ते गृह्णाति।)
मदयन्तिका—सहि मलादि पडिबुद्धासि? (सखि, मालति, प्रतिबुद्धासि?) (विलोक्य सहर्षसाध्वसं) अंहो अण्णं एव्व किं वि एदं वट्टदि। (अहो अन्यदेव किमपि एतद् वर्तते।)
रम्भोरु संहर भयं क्षमते विकार— मुत्कम्पिनस्स्तनभरस्य न मध्यभागः।
इत्थं त्वयैव कथितप्रणयप्रसाद सङ्कल्पनिर्वृतिषु संस्तुत एष दासः॥ १६८॥ (मामा. ७.१. / २)
इति संयोजनम्।
कामन्दकी—वत्स माधव इयमशेषसामन्तमस्तकोत्तंसपरागरञ्जितचरणाङ्— गुलेरमात्यभूरिवसोरेकापत्यं मालती भगवता सदृशसंयोगरसिकेन वेधसा मन्मथेन च तुभ्यं दीयते।
परिणतिरमणीयाः प्रीतयस्त्वद्विधाना— महमपि तव मान्या हेतुभिस्तैश्च तैश्च।
तदिह सुवदनायां तात! मत्तः परस्तात् परिचयकरुणायां सर्वथा मा विरंसीः॥ १६९॥
(मामा. ६. १६) सम्प्रयोगात् प्रतिवर्णनम्—एवमयमुक्तः, प्रतारणे प्रकारविस्तारः, इतिवृत्तेषु वेदितव्यः।
(१०. समाश्वासनम्)
नायकयोः समीहितवस्तुसंशये च अवष्टम्भप्रदानमाश्वासनम्।
यथा— मालतीमाधवे—(मामा. ४.१/२)
कामन्दकी— वत्स माधव अपि भावानमंस्त यभ्दूरिवसुरेव मालतीं मह्यं दास्यतीति।
माधवः—(सविलक्षं) नहि, नहि।
कामन्दकी—न तर्हि प्रागवस्थायाः (भूरिवसुः) परिहीयते। तदिदमायुष्मन्तं बोधयामि। यदैव नौ विद्याग्रहणाय नानादिगन्तसाहचर्यमासीत् तदैव अस्मत्सौदामिनीसमक्षं भूरिवसुदेवरातयोः वृत्तेयं प्रतिज्ञा, अवश्यमावाभ्यां अपत्यसम्बन्धः कर्तव्य इति। इह तु वाक्प्रतिष्ठानि देहिनां व्यवहारतन्त्राणि। वाचि पुण्यापुण्यहेत्ववस्थाः सर्वजनानां आपतन्ति। इदं तावत्प्रसिद्धमेव— ‘यदुत नन्दनाय मालती प्रार्थयमानं भूरिवसुर्नृपतिमुक्तवान्, प्रभवति निजस्य कन्यकाजनस्य महाराज’ इति। सम्प्रत्येव चागत्य पुरुषेणावेदितम्। यत्किल राज्ञा पद्यावतीश्वरेण अमात्यभूरिवसोरुपरि विश्वासं अस्मासु च प्रसादं सबहुमानमातन्वता भगनमागत्य नन्दनाय मालती प्रतिपादिता। तत्र भूरिवसोः वाग(नृतैव)। न खलु महाराजस्य निजा कन्यका(मालती)। कन्यादानेषु च नृपतयः प्रमाणमिति नैवंविधः धर्माचारसमयः तस्मादविचिकित्सितव्यमेतत्। अपि च वत्स किमिति मामनवधानां मन्यसे? पश्यतु हि भवान्। (मामा. ४.१ / २)
मा वां सपत्नेष्वपि नाम तद् भूत् पापं यदस्यां त्वयि वा विशङ्कयम्।
तत् सर्वथा सङ्गमनाय यत्न: प्राणव्ययेनापि मया विधेयः॥ १७०॥
यथा वा—दुर्लभा न बुद्धरक्षितायाः प्रियसखी भवतः।
अपि च—(मामा. ४. ९)
प्रमथ्य क्रव्यादं मरणसमये रक्षितवतः परिष्वङ्गं लब्ध्वा तव कथमिवान्यत्र रमताम्।
तथा च व्यापारः कमलनयनाया नयनयो— स्त्वयि व्यक्तस्नेहः स्तिमितरमणीयश्चिरमभूत्॥ १७१॥
यथा वा—वयस्य माधव सर्वथा समाश्वसिहि।
या कौमुदी नयनयोर्भवतस्सुजन्मा तस्या भवानपि मनोरथबद्धबन्धुः।
तत्सङ्गमं प्रति सखे! नहि संशयेऽस्ति यस्मिन्विधिश्च मदनश्च कृताभियोगः॥ १७२॥
(मामा. १. ३७) यदाह—मालत्या अपि स्नेहदर्शनात् सुश्लिष्टमेतत्। योऽपि हि कपोलपाण्डुतादि— चिह्नसूचित प्राग्बन्धस्तस्याः कामिभिष्वङ्गः सोऽपि त्वन्निबन्धन एवेति व्यक्तम्। एतत्तु न ज्ञायते क्व दृष्टपूर्वस्तया वयस्य इति। न खलु तादृश्यो महाभागधेयाः कुमार्यः अन्यत्र अवसक्तचेतसः भूत्वा परत्र चक्षूरागिण्यो भवन्ति। अपि च—(मामा. १. ३६)
अन्योन्यसम्भिन्नदृशां सखीनां तस्यास्त्वयि प्रागनुरागचिह्नम्।
कस्यापि कोऽपीति निवेदितं च धात्रेयिकायाश्चतुरं वचश्च॥ १७३॥
कलहंसः—(उपसृत्य) एदं अ। (एतच्च।) (चित्रफलकं दर्शयति।)
यथा च— वयस्य कथं भगवत्याः सा मेधाशक्तिर्विपर्येष्यति।
यथा च—
मकरन्दः— अपि नाम बुद्धरक्षितासङ्क्रान्ता भगवतीनीतिर्विजेष्यते।
लवाङ्गिका—को सन्देहो महाभाअस्स। किं बहुणा, जह एसो मंजीरसद्दो तह जाणामि देण ववदेसेण आणीदा बुद्धरक्खिदाए मदअंतिएत्ति। ता उत्तरीआववारिदो सुत्तलक्खणो चिट्ठ। (कस्सन्देहो महाभागस्य। किं बहुना। यथैष मञ्जीरशब्दः तथा जानामि तेन व्यपदेशेनानीता बुद्धरक्षितया मदयन्तिकेति। तदुत्तरीयापवारितः सुप्तलक्षणस्तिष्ठ)॥ १७४॥
यथा च—सहि एव्वं पि णाद्धि आसासो। जस्स कारणादो तुमं उक्खडिअबंधणं कंकेलिपल्लव विअ हिअअं धारेंदी किलंदणवमालिआकुसुमणीसहा परिहिअसि, सो वि जाणाविदो भअवदा वम्महेण संदावस्स दूसत्तणं। (सखि, एवमपि नास्ति आश्वासः। यस्य कारणात् त्वं उत्खण्डितबन्धनं कङ्केलिपल्लवमिव हृदयं धारयन्ती क्लान्तनवमालिकाकुसुमनिस्सहा परिहीयसे, सोऽपि ज्ञापितो भगवता मन्मथेन सन्तापस्य दुस्सहत्वम्।)
मकरन्दः— इयमेव नेदीयसां प्रकृतिरभ्युदयानाम्। यथा च—
माधवः— भगवति सुलभमपि बह्वनर्थमतिसङ्कटं हि एतद्वयस्यस्य।
कामन्दकी— आः! कस्त्वमस्यां चिन्तायाम्।
यथा च—
मकरन्द— वयस्य अतिकातरोऽसि। किमेतत्। ननु स्वस्थ एवास्मि।
यथा च—
मालती— (माधवस्य ललाटे हस्तं दत्वा) दिट्ठिआ वड्ढसि! (दिष्टया वर्धसे)॥ १७५॥
(माधवः)— महाभागे न भेतव्यं न भेतव्यम्— (मामा. ५. २६)
मरणसमये त्यक्ताशङ्कप्रलापनिरर्गल—
प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते।
सुतनु विसृजोत्कम्पं सम्प्रत्यसावपि पाप्मनः फलमनुभवत्युग्रं पापं प्रतीपविपाकिनः॥ १७६॥
अपि च—(मामा. ५. ३२)
धैर्य़ँ निधेहि हृदये हत एष पापः किं वा कदाचिदपि केनचिदन्वभावि।
सारङ्गसंहृतिविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः॥ १७७॥
(११. अत्ययप्रतीकारः)
दैवयोगात् पुरुषापराधात् प्रमादतो वा कार्यस्य व्यापदि प्रत्यूहप्रशमनम् अत्ययप्रतीकारः।
यथा— शाकुन्तले—(४.१)आः अतिथिपरिभाविनि!
विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपस्थितम्।
स्मरिष्यति त्वां न स बोधितोपि सन् कथां प्रमत्तः प्रथमं कृतामिव॥ १७८॥
प्रियवंदा— हद्धि तं एव्व संउत्तं। कस्सिं वि पूआअरुहे अवरद्धा सुण्णहिअआ सउंदला। (पुनर्विलोक्य) ण क्खु जस्सिं कस्सिं वि। एसो दुव्वासो सुलहकोवो महेसी। (हा धिक्, तदेव संवृत्तम्। कस्मिन्नपि पूजार्हे अपराद्धा शून्यहृदया शकुन्तला। (पुनर्विलोक्य) न खलु यस्मिन् कस्मिन्नपि। एष दुर्वासाः सुलभकोपो महर्षिः।)
अनसूया— गच्छ पादेसु पणमिअ णिव्वट्टेहि णं। (गच्छ, पादयोः प्रणम्य निवर्तय एनम्।)
प्रियंवदा— सहि सुहावक्कोधो कस्य अणुणअं गण्हइ। किंचि उण साणुकंपो किदो। (सखि, स्वभावक्रुद्धः कस्य अनुनयं गृह्णाति? किंचित् पुनः सानुकम्पः कृतः।)
अनसूया—कहेहि एदं (कथयैतत्)।
प्रियंवदा— जदा अणुणीदो वि णिवत्तिदुं ण इच्चदि तदा विण्णविदो मए दुव्वासा, ‘भअवं पढमभत्तिं अवेक्खिअ अविण्णादतवप्पहावस्स दुहिदुजणस्स भअवदा एक्को अवराहो मरिसिदब्बो’ इति। सो तदो ’ ण मे वअणं अण्णहा होदुं अरुहदि किंदु अहिण्णाणाहरणदंसणेण सावो णिवत्तिस्सदि’ त्ति मंतअतो एव्व अंतरिहिदो।
यदा— अनुनीतोऽपि निवर्तितुं नेच्छति, तदा विज्ञापितो मया दुर्वासाः— ‘भगवन् प्रथममित्यवेक्ष्य अविज्ञाततपः प्रभावस्य दुहितृजनस्य भगवतैकः अपराधो मर्षयितव्य’ इति। स तदा— ‘न मे चनमन्यथा भवितुमर्हति। किन्तु अभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यति’ इति मन्त्रयन्नेवान्तर्हितः।
अनसूया— सक्कं दाणिं आससिदुं। अद्धि तेण राएसिणा संपत्थिदेण सणमहेअंकिदं अंगुलीअअं सुमरणीअंति सउंदलाए सअं पिणद्धं। तेण साहीणोवाआ सउंदला भविस्सदि। {शक्यमिदनीमाश्वसितुम्। अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितं अङ्गुलीयकं स्मरणीयमिति शकुन्तलाया स्वयं पिनद्धम्। तेन स्वाधीनोपाया शकुन्तला भविष्यति}॥ १७८॥
यथा च मालतीमाधवे— (५.२०)
नादस्तावद् विकलकुररीकूजितस्निग्धतारः’॥ १८०॥
(पृ. १०४२) इत्यादि।
करालायतनाच्चायमुच्चरन् करुणध्वनिः।
विभाव्यते ननु स्थानमनिष्ठानां तदीदृशाम्॥ १८१॥
हन्त सम्प्रति निरस्त एव मे सन्देहः। तदपि नाम जीवन्तीमेनां सम्भावयेयम्। (इति परितः परिक्रामति) (सहसोपसृत्य खङ्गं प्रकोष्ठे निक्षिप्य)
दुरात्मन्नपेहि। प्रतिहतोऽसि कापालिकापस। (स्वगतं) अहो नु खलु भोस्तदेतत् काकतालीयं नाम। सम्प्रति हि मम— (मामा. ५. २८, ३०, ३१)
‘राहश्चन्द्रकलां’॥ १८२॥
(पृ. ५५४) आः पापकर्मन् पाषण्डचण्डाल!
असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम्।
अदर्पँ कन्दर्पँ जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः॥ १८३॥
(मामा. ५. २८) अपि च रे रे पाप!
प्रणयसखीसलीलपरिहासरसाधिगतै— र्ललितशिरीषपुष्पहननैरपि ताम्यति यत्।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः॥ १८४॥
(मामा. ५. ३०) (१२. प्रयोज्यप्रेषणम्)
सन्दर्शनसमागमादिहेतोः सङ्केतकादौ नायकयोर्नियोगः प्रयोज्यप्रेषणम्। यथा मालतीमाधवे—
बुद्धरक्षिता—हुं तुमं उण कहिं पत्थिदासि। (हुम्। त्वं पुनः कुत्र प्रस्थितासि?)
अवलोकिता— अहं क्खु भअवदीए माधवसआसं अणुप्पेसिदा। संदिठ्ठं अ तस्स सङ्करउरसम्बन्धि कुसुमाकरुज्जाणं गदुअ कुंजणिउंजपेरंतरत्तासोअगङणे चिट्टेत्ति। गदो अ तत्थ माहवो। (अहं खलु भगवत्या माधवसकाशमनुप्रेषिता। संदिष्टं च तस्मै शङ्करपुरसम्बन्धि कुसुमाकरोद्यानं गत्वा कुञ्जनिकुञ्जपर्यन्तरक्ताशोकगहने तिष्ठेति। गतश्च तत्र माधवः।)
अवलोकिता— अज्ज किसणचउद्दसित्ति जणणीए समं मालदी सङ्करउरं गमिस्सदि। तदो एव्वं किल सोहग्गं बढ्ढइ त्ति देवदारहणणिमित्तं सहत्थकुसुमावचअं उद्दिसिअ लवङ्गिआदुदीअं मालदी तं एव्व कुसुमाअरुज्जाणं आणइस्सदि। तदो अण्णोण्णदंसणं हविस्सदि त्ति। (अद्य कृष्णचतुर्दशीति जनन्या समं मालती शङ्करपुरं गमिष्यति। तत एवं किल सौभाग्यं वर्धत इति देवताराधननिमित्तं स्वहस्तकुसुमावचयम् उद्दिश्य लवङ्गिकाद्वितीयां मालतीं तदेव कुसुमाकरोद्यानमानेष्यति। ततः अन्योन्यदर्शनं भविष्यति इति) ॥ १८५॥
यथा च—
कामन्दकी— वत्सौ मालतीमाधवौ इतो निर्गत्य वृक्षगहने गम्यताम् उद्वाह— मङ्गलार्थम्। अस्मद्विहारिकायाः पश्चादुद्यानवाटः। सुविहितं तत्र वैवाहिकद्रव्यजातं अवलोकितया। भूयश्च—(मामा. ६.१९)
गाढोत्कण्ठकठोरकेरलवधूगण्डावपाण्डुच्छदै— स्ताम्बूलीपटलैः पिनद्धफलितव्यानम्रपूगद्रुमाः।
तक्कोलीफलजग्धमुग्धविकिरव्याहारिणस्तद्धुवो भागाः प्रेङ्खितमातुलुङ्गवृतयः प्रेयो विधास्यन्ति वाम्॥ १८६॥
यतस्तत्रैव मदयन्तिकामकरन्दयो यावदागमनं स्थातव्यम्।
(१३. सन्धिरक्षा)
परस्पराभियोगादिषु अनागतप्रतीहारादिभिः च्छिद्रापिधानं सन्धिरक्षा।
यथा मालतीमाधवे बुद्धरक्षिता— अम्महे सुसिलिट्ठमालदीणेवच्छलच्छीविप्पलद्ध— णंदणकरग्गहो अमच्चभूरिवसुमंदिरे भअवदीए संविहाणेण खेमेण गोवाइदो
अज्ज मअरंदो। (अहो सुश्लिष्टमालतीनेपथ्यलक्ष्मीविप्रलब्धनन्दनकरग्रहः अमात्यभूरिवसुनन्दिरे भगवत्याः संविधानेन क्षेमेण गोपायितोऽद्य मकरन्दः।)
कामन्दकी— साधु सखे भूरिवसो साधु। ‘प्रभवति निजस्य कन्यकाजनस्य महाराजः’ इत्युभयलोकाविरुद्धमुपन्यस्तम्।
यथा वा—
अवलोकिता— भअवदि, ण हु अमच्चो माहवस्स णामं वि जाणादि त्ति णिरवेक्खदा लक्खीअदि। (भगवती, न खलु अमात्यो माधवस्य नामापि जानातीति निरपेक्षता लक्ष्यते।)
कामन्दकी— संवरणं हि तत्। पश्य—(मामा. १.१७)
बहिस्सर्वाकारप्रवणरमणीयं व्यवहरन् पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति।
जनं विद्वानेकस्सकलमतिसन्धाय कपदै— स्तटस्थः स्वानर्थान् घटयति च मौनं च भजते॥ १८७॥
१४. प्रतापव्यावर्णनं यथा—(मामा. २.९)
व्यतिकरितदिगन्ताश्श्वेतमानैर्यशोभि— स्सुकृतविलसितानां स्थानमूर्जस्वलानाम्।
अकलितमहिमानः केतनं मङ्गलानां कथमपि भुवनेऽस्मिन् तादृशास्सम्भवन्ति॥ १८८॥
१४. प्रयोज्योपजापः यथा
अवलोकिता— तुमं क्खु भअवदीए जास्सिं पओअणे णिउत्ता तत्थ को उत्तंदो। (त्वं खलु भगवत्या यस्मिन् प्रयोजने नियुक्ता तत्र को वृत्तान्तः?)
बुद्धरक्षिता— मए क्खु भअवदीए समादेसेण तासु तासु वीसंभकहासु ईरीसो तारिसो त्ति कदुअ मअरंदस्स उवरि पिअसहीए दूरमारोविदो परोक्खाणुराओ। एसो अ से मणोरहो अवि णाम तं वेक्खेअ ति। (मया खलु भगवत्यास्समादेशेन तासु तासु विस्रम्भकथासु ईदृशः तादृश इति कृत्वा मकरन्दस्योपरि प्रियसख्याः दूरमारोपितः परोक्षानुरागः। एष च तस्याः मनोरथः, अपि नाम तं पश्येयेति।)
१६. पराक्रमणं यथा—
भो भो मालत्यन्वेषिणः इयममात्यभूरिवसुमाश्वासयन्ती अप्रतिहतप्रज्ञा— चक्षुर्भगवती कामन्दकी समादिशति पर्यवष्टभ्यतामदः करालायतनम्।
नाघोरघण्टादन्यस्मात् कर्मैतद्दारुणादभूत्।
न करालोपहाराच्च फलमन्यद् विभाव्यते॥ १८९॥
(मामा. ५.३३) १७. बन्धुरत्नापहारो यथा—
कामन्दकी — तत्रैव मकारन्दमदयन्तिकागमनं यावत् स्थातव्यम्।
माधवः — (सहर्षं) कल्याणोत्तरावतंसा कल्याणसम्पत्।
कलहंसः — दिट्ठिआ एव्वं णो हविस्स दि। (दिष्ट्या एवं नो भविष्यति।)
१८. मित्रोपग्रहो यथा—
अवलोकिता—भअवदि सो वि पासअरो माहवस्स वालमित्तं मअरंदो णंदणस्स भइणिं मदअंतिआं जइ समुव्वहइ तं वि माहवस्स दुइअं पिअं होदि। (भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं मकरन्दो नन्दनस्य भगिनीं मदयन्तिकां यदि समुद्वहति, तदपि माधवस्य दिृतीयं प्रियं भवति।)
कामन्दकी— नियुक्तैव हि मया तत्र तत्प्रियसखी बुद्धरक्षिता।
१९. सुहृद्भेदो यथा—(मामा. २.७)
गुणापेक्षाशून्यं कथामिदमुपक्रान्तमथवा कुतोऽपत्यस्नेहः कुटिलनयनिष्णातमनसाम्।
इदं त्वैदम्पर्यं यदुत नृपतेर्नर्मसचिवः सुतादानान्मित्रं भवतु स हि नो नन्दन इति॥ १९०॥
लवङ्गिका— जधा आणत्तं भअवदीए तं तह एव्व। अण्णहा तस्सिं वरे दुद्दंसणे अदिक्कंतजोव्वणे किं ति ण विआरिअं अमच्चेण। (यथाज्ञप्तं भगवत्या तत्तथैव। अन्यथा तस्मिन वरे दुर्दर्शनेऽतिक्रान्तयौवने किमिति न विचारितममात्येन?)
२०. चारज्ञानं यथा—(मामा.)
अवलोकिता— भअवदि सा दाणिं सोदामिणी समासादिदअच्चरिअमंत— सिद्धिप्पहावा सिरिपव्वदे कावालिअवदं धारेदि। (भगवति, सा इदानीं सौदामिनी समासादिताश्चर्यमन्त्रसिद्दिप्रभावा श्रीपर्वते कापालिकाव्रतं धारयति।) कामन्दकी— कुतः पुनारियं प्रवृत्तिः?
अवलोकिता— अत्थि एद्ध णअरीए महामसाणप्पएसे कराला णाम चामुंडा।
(अस्त्यत्र नगर्यां महाश्मशानप्रदेशे कराला नाम चामुण्डा)
कामन्दकी—अस्ति। या किल विविधजीवोपहारप्रियेति साहसिकानां प्रवादः।
अवलोकिता— तस्सिं खु सिरिपव्वदादो आअदस्स इदो णादिदूरासण्णमसाण— वासिणो साधअस्स मुंडधारिणो अघोरघंटणामहेअस्स अंतेवासिणी महाप्पहावा कवालकुंडला णाम अणुसझं आअच्छइ। तदो इअं पउत्ती। (तस्मिन् खलु श्रीपर्वतादागतस्य इतो नातिदूरासन्नश्मशानवासिनः साधकस्य मुण्डधारिणः अघोरघण्टनामधेयस्य अन्तेवासिनी महाप्रभावा कपालकुण्डला नाम अनुसन्ध्यं आगच्छति। तत इयं प्रवृत्तिः।)
२१. गूढदण्डातिचारो यथा—
कामन्दकी— वत्स मकरन्द, अनेनैव वैवाहिकेन मालतीनेपथ्येन अपवारितः प्रवर्तस्व परिणयायात्मनः (इति पटलकमर्पयति।)
मकरन्दः— यथाज्ञपयसि। यावदितः चित्रयवनिकामन्तर्धाय नैपथ्यं धारयामि।
(तथा करोति।)
२२. चारसमाधानं यथा—
बुद्धरक्षिता— संपदं अ तुवरंतकामो कामेदुं सपादपडणं अव्भत्थिअ पुणो बलामेडिअ अभिद्दवंतो मअरंदेण णिट्ठुरं पडिहरो जामादा। सो अं वेलक्खरोसावेसखलंतअक्खरो ओरुइदणअणपप्फुरंतवअणो (स) णिव्भरदुक्खिदो ण मे संपदं एदाण कोमारबंधकीए पओअणं ति ससपहं पइण्णं काऊण वासभवणादो णिग्गदो। ता एदेण पसंगेण मदअंतिअं आणीअ मअरंदेण संजोअइस्सं। (सम्प्रतं च त्वरमाणकामः कामयितुं सपादपतनमभ्यर्थ्य पुनर्वलात्कारेण अभिद्रवन् मकरन्देन निष्ठुरं प्रतिहतो जामाता। स च वैलक्ष्यरोषावेशस्खलदक्षरोऽवरुदितनयप्रस्फुरद्वदनो निर्भरदुःखितो न मे सामप्रतं एतया कौमारबन्धक्या प्रयोजनमिति सशपथं प्रतिज्ञां कृत्वा वासभवनात् निर्गतः। तस्मादेतेन प्रसङ्गेन मदयन्तिकाम् अनीय मकरन्देन संयोजयिष्यामि।)
२३. समाधिमोक्षो यथा—
अम्हहे सुसिलिट्ठमालदीणेवच्छलच्छीविप्पलद्धणंदणकरग्गहो अमच्चभूरिव— सुमंदिरे भअवदीवअणसंविहाणेहिं खेमेण गोवाविदो मअरंदो। अम्हे णंदणावासमुवगदा। अदो भअवदी णंदणं आणुच्छिअ णिआवसअं गआ। अज्ज णववहूघरप्पवेसिविरइदाकालकोमुदीमहूसवप्पमत्तपज्जाउलासेसपरिअणो पओसो अणुऊलइस्सदि अज्ज णो ववसिदं। (अहो सुश्लिष्टमालतीनेपथ्य— लक्ष्मीविप्रलब्धनन्दनकरग्रहोऽमात्यभूरिवसुमन्दिरे भगवतीवचनसंविधनैः खेमेण गोपायितो मकरन्दः। अहो नन्दनावासमुपगता। अतो भगवती नन्दनमापृच्छ्य निजावसथं गता। अद्य नववधूगृहप्रवेशविरचिताकालकौमुदीमहोत्सवप्रमत्तपर्याकुला— शेषपरिजनः प्रदोषोऽनुकूलयिष्यत्यद्य नो व्यवसितम्।)१
सैषा दूतविशेषाणामशीतिश्चतुरुत्तरा।
चतुर्विंशतिरेतेषां मयोक्ता कर्मणामपि॥ १९१॥
जातिक्रियादियोगेन यस्य दूतस्य यो विधिः।
युज्यते तत्र मेधावी तमेव विनियोजयेत्॥ १९२॥
बुद्ध्वा बुधश्चतुरशीतिमपीह दूतान् कर्माणि विंशतिमशीतियुतां चतुर्भिः।
यो यत्र सिद्ध्यति तमेव हि तत्र दूत— सम्प्रेषणादिषु समीक्ष्य समादधीत॥ १९३॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे अभियोगविधिप्रकाशो नाम ॥ अष्टाविंशः प्रकाशः॥ २८॥
यत्कामतन्त्रमनु किञ्चन नाट्यशास्त्रमादिक्षदेतदखिलं खलु दूतकर्म।
धारेश्वरो नृपतिरेष समुद्दिदेश ग्रन्थेऽत्र काव्यनिगमागमसार्वभौमः॥
NOTES pg=1284! १. चतुर्विंशो दूतकर्मयोगाश्रयो नाम प्रकारोऽग्रिमे प्रकाशे दृश्यः।