२५ साधर्म्यवैधर्म्यप्रकाशः

अथ

शृङ्गारप्रकाशे पञ्चविंशः प्रकाशः

साधर्म्यवैधर्म्यप्रकाशः

तत्र वैधर्म्यात् साधर्म्यमेव प्रागभिधातव्यं भवति, महाविषयत्वात्।

किं पुनः प्रथमानुरागस्य साधर्म्यं, किं वा वैधर्म्यम्? इति। तत्र —

साधर्म्यं चतुर्णामपि विप्रलम्भभेदानां सामान्यलक्षणयोगः।

वैधर्म्यं तु सजातीयेभ्यो विजातीयेभ्यश्च भेदप्रतिपादको विशेषलक्षणयोगः इति।

तत्र साधर्म्यसूत्रस्य चत्वारोऽर्थस्कन्थाः—

१. भावस्कन्धः

२. भावजन्मस्कन्धः

३. भावानुबन्धस्कन्धः

४. भावप्रकर्षस्कन्धः इति। तेषु —

नायकयोः प्रागसङ्गतयोः मिथो दर्शनश्रवणाभ्यामवस्थिताभिमानजन्मा परस्परानुरागः अन्यतरानुरागो वेति भावस्कन्धः।

अभिलषणीयालिङ्गनादीनामनवाप्‍तौ सत्यां समुपजायमानैस्तैस्तैरुत्कण्ठादि— भिर्व्यभिचारिभावैरिति भावजन्मस्कन्धः।

मनोवाग्बुद्धिजन्मभिश्चानुभावैरनुबन्ध इति भावानुबन्धस्कन्धः।

प्राप्‍तप्राप्यप्रकर्षावस्थोऽपि विप्रलम्भशृङ्गाराख्यां लभत इति, भावप्रकर्षस्कन्ध इति।

एतेनैतदुक्तं भवति,

विषयाश्रयालम्बनसंयोगो भावस्कन्धः,

पश्चादादराभ्यासप्रत्ययोत्पत्तिसंयोगो भावजन्मस्कन्धः,

वेगभावनास्थितस्थापकाख्यवासनासंयोगो भावानुबन्धस्कन्धः,

विभावानुभावव्यभिचारिसंयोगो भावप्रकर्षस्कन्धः।

तदुक्तम् ‘भावजन्मानुबन्धप्रकर्षानुरूपास्तावदवस्थाः समृद्धय'१ इति। १. भावजन्मेति। भावानां पञ्चावस्थाः १३–१४ प्रकाशयोर्वर्णितोः। तदनुसारेणात्र ‘भावजन्मानुबन्ध— प्रकर्षानुवर्तनसम्पृक्तयः अवस्थाः’ इति पठितुं युक्तमिति राघवः। भावानां जन्मानुबन्धप्रवृद्धि— तत्र भावस्कन्धे ‘नायकयोर्मिथोदर्शनश्रवणाभ्याम्’ इत्यनेनास्य सविकल्पक— प्रत्यक्षानुमानोपमानशब्दैतिह्यार्थापत्तिसम्भवाभावप्रमाणव्यापारागोचरवस्तुविषयतामुपदिशति। निर्विकल्पकप्रत्यक्षोऽनेन प्रत्युक्तः, तेन व्यवहाराद् भावाद् दृशिरिह ज्ञानवचनोऽदर्शनार्थः; तेन प्रत्यक्षानुमानोपमानार्थापत्तिसम्भवाऽभावानां दर्शनाख्या, शब्दैतिह्य—श्रुतानुमान— श्रुतोपमानुश्रुतार्थापत्ति—श्रुति(त) सम्भवानां श्रवणाख्या, उभयेषामुभयाख्येति सिद्धं भवति। तथाहि—(वाप. १.१२३)

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते॥ १॥

ततश्चोपजायमानः परस्पराश्रयोऽन्यतराश्रयो वा मिथोविषयः एकविषयो वा दृगालम्बनः श्रुत्यालम्बनो वा प्रमाणभेदः प्रथमानः प्रथते। तत्र—

दर्शनतः षोढा ‘प्रत्यक्षानुरागोऽनुमानानुरागः, उपमानानुरागोऽर्थापत्त्यनुरागः, सम्भवानुरागोऽभावानुराग’ इति।

श्रवणतेऽपि तावदेव ‘शब्दानुरागः, ऐतिह्यानुरागः, श्रौतानुमानिकः, श्रौतोपमानिकः, श्रौतार्थापन्नः, श्रौतसम्भव’ इति।

(१. दृगालम्बनानुरागः)

(१.१ प्रत्यक्षानुरागः —६)

तत्राक्षमक्षं प्रति गतं विज्ञानं प्रत्यक्षम्।

तदपि षोढा ‘साक्षात्—प्रतिबिम्ब—प्रतिभा—उत्प्रेक्षा—स्मृति—स्वप्‍न’ भेदात्। तत्र—

१. प्रतिविषयाध्यवसायः साक्षात्प्रत्यक्षम्, यथा—(गास. १.९३)

अविअण्हपेच्छणिज्जेण तक्खणं मामि दिट्ठेण।
सिविणअपीएण व पाणिएव तह्‍ण च्‍चिअ ण फिट्ठा॥ २॥

(अवितृष्णप्रेक्षणीयेन तत्क्षणं मातुलानि! दृष्टेन।
स्वप्‍नपीतेनेव पानीयेन तृष्णैव न मृष्टा॥)

संपृक्त्यनुवृत्तिसंज्ञिकास्‍त्रयोदशे प्रकाशे, चतुर्दशे पुनर्जन्मानुबन्धप्रकर्षसंपर्कानुगमसंज्ञिकाः पञ्च पञ्चावस्थाः प्रतिपादितचराः। इह त्वनुगमः पृथङ्नोक्तः, तस्य प्रकर्षेणैव संग्रहात्। यश्‍च भाव— स्कन्धस्तस्यापि भावजन्मस्कन्धेन गतार्थयितुं शक्यत्वे तिस्र एवावस्थाः स्युः। २. प्रत्यक्षस्यैव देशमात्रान्यत्वप्रतिभासः प्रतिबिम्बं ; यथा—(गास. १.४२)

णच्‍चण—सलाहण—णिहेण पासपरिसंठिआ णिउणगोवी।
सरिसगोविआणँ चुंबइ कवोलपडिमाघअं कण्हं॥ ३॥

(नर्तनश्लाघननिभेन पार्श्वपरिसंस्थिता तरुणगोपी।
सदृग्‌गोपीनां चुम्बति कपोलप्रतिमागतं कृष्णम्॥)

३. बाह्येन्द्रियनिरपेक्षमदृष्टप्रभवमाकस्मिकमननुभूतानुभूतविषयज्ञानं प्रतिभानं ; यथा—

(शाकु. १.२०)

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥ ४॥

४. परोक्षेऽपि प्रत्यक्षविषये प्रमाणाधिगतवस्तुधर्माध्यारोपणमुत्प्रेक्षा; यथा—

अह सा हिअएण हरिं अ दिट्ठा आरपअ विलासं पि।
जहपडिवण्णु प्पेक्खा णिसवण्णरूअं पि अंतेइ/मंतेइ?॥ ५॥

(अथ सा हृदयेन हरिं च दृष्ट्वा आरोप्य विलासमपि।
यथाप्रतिपन्नोत्प्रेक्षा निषण्णरूपमपि मन्यते॥)

५. प्रमाणानुभूतस्य वस्तुनो मनसि प्रतिबिम्बनं स्मृतिः; यथा—(गास. ६.३०)

जं जं पुलएमि दिसं पुरओ लिहिओ व्व दीससे तत्तो।
तुह पडिमाडिवाडिं पवहइ व सअलं दिसावलअं॥ ६॥

(यां यां प्रलोकयामि दिशं पुरतो लिखित इव दृश्‍यसे तत्र।
तव प्रतिमापरिपाटीं वहतीव सकलं दिशावलयम्॥

६. अविषयेन्द्रियव्यापारमिन्द्रियेणेव विषयेषु यदनुभवं मानसं स स्वप्‍न। यथा—

(विसा. १.१५)

जाने स्वप्‍नविधौ ममाद्य चुलुकोत्सेक्यं पुरस्तादभूत् प्रत्यूषे परिवेषमण्डलमिव ज्योत्स्‍नासपत्‍नं महः।
अस्यान्तर्नखनिस्तुषीकृतशरच्‍चन्द्रप्रभैरङ्गकै— र्दृष्टा काऽप्यबला बलात्कृतवती सा मन्मथं मन्मथम्॥ ७॥

स्वप्‍नादयः प्रमाणाभासत्वादप्रमाणमिति चेत्,

तत्र, प्रथमानुरागोत्पत्तौ प्रमाणतदाभासयोरविशेषात्।

(१.२ अनुमानानुरागः —६)

लिङ्गदर्शनाल्लिङ्गिप्रतिपत्तिरनुमानम्। तदुक्तम्— (प्रपाभा.)

अनुमेयेन सम्बद्धं प्रसिद्धत्वं/द्धं च तदन्वये।
तदभावे तु यन्नास्ति तल्लिङ्गमनुमापकम्॥ ८॥

विपरीतमतो यत् स्यादेकेन द्वितयेन वा।
विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्‍यपोऽब्रवीत्॥ ९॥

वयं तु लिङ्गमात्रमेव ब्रूमः। तदाभासस्यापि प्रथमानुरागनिमित्तत्वात्।

तदपि षोढा—

१. सामान्यतो दृष्टं, २. विशेषतो दृष्टं, ३. प्रत्यक्षतो दृष्टं

४. परोक्षतो दृष्टं, ५. विद्यमानविषयम् ६. अविद्यमानविषयं च।

यथा— कार्येण कारणं, स्वरेण पुत्रम्, कृत्तिकोदयेन रोहिण्युदयम्, ॰ ॰ ॰ देशान्तरप्राप्त्या आदित्यगतिं, धूमेनाग्‍नि, निमित्तेन भाविनमर्थं जानाति। तत्र—

१. सामान्येन (गृहीत)व्याप्तिकं सामान्यतो दृष्टम्, यथा—शाकु. ३.१२

‘उन्नमितैकभ्रूलतमाननमस्याः’॥ १०॥

इत्यादि (पृ. ८२२) २. विशेषेण गृहीतव्याप्तिकं विशेषतो दृष्टम् ; यथा—(शाकु. ३.७)

अभ्युन्नता पुरस्तादवगाढा जघनगौरवात् पश्चात्।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दश्‍यतेऽभिनवा॥ ११॥

३. प्रत्यक्षेण गृहीतव्याप्‍तिकं प्रत्यक्षतो दृष्टम् ; यथा—(मामा. ३.४)

आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्‌वासमन्तःकरणं करोति।
सन्तापदग्धस्य शिखण्डियूनोर्दृष्टेः पुरस्तादचिरप्रभेव॥ १२॥

४. परोक्षेण गृहीतव्याप्‍तिकं परोक्षतो दृष्टम्; यथा—(सक. २.२८)

एतानि निस्सहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति पदानि तस्याः।
एते च मार्गतरवः कथयन्ति तापमालम्बितोज्झितपरिग्लापितैः प्रवालैः॥ १३॥

५. वर्तमानवस्तुगोचरो विद्यमानविषयम्, यथा—

अशोकतरुरुज्ज्वलस्तबकमालभारी यथा यथा कुरबकस्तनूमतकोरकैरर्चति।
यथा च तिलकद्रुमः सृजति मञ्जरीजालकं तथेह पुरतो वने पूरवधूजनः क्रीडति॥ १४॥

६. अनागतवस्तुगोचरमविद्यमानविषयं; यथा—(शाकु. १.१५)

‘शान्तमिदमाश्रमपदं स्फुरति च’॥१५॥

इत्यादि (पृ.१३०५) तदेतत् षड्विधमपि स्वार्थानुमानम्। परार्थानुमानं श्रावणप्रमाणषट्के वक्ष्यामः।

(१.३ उपमानानुरागः —६)

अविज्ञातस्वरूपस्य वस्तुनः साधर्म्यादिभिरुपदेशादिसव्यपेक्षैः साक्षात्करण— मुपमानम्। उक्तं च— ‘प्रसिद्धसाधर्म्यात्‌साध्यसाधनमुपमानम्’ (न्यायसू. १.१.६)। उपमानमपि सादृश्यादसन्निकृष्टेऽर्थे बुद्धिं जनयतीति।

तदपि षोढैव १. साधर्म्योपमानम्, २. वैधर्म्योपमानम्, ३. मुद्रोपमानम्, ४. शिल्पोपमानम्, ५. संज्ञोपमानम्, ६. अभिनयोपमानमिति।

संज्ञासाधर्म्यवैधर्म्यमुद्राशिल्पाभिनीतिभिः।
ब्रूते यद् वस्तुनो रूपमुपमानं तदुच्यते॥ १६॥

१. तत्र साधर्म्योपमानं यथा—(बारा. १.४०)

निर्माल्यं नयनश्रियः कुवलयं, वक्त्रस्य दासः शशी, कान्तिः प्रावरणं तनोर्मधुमुचो यस्याश्च वाचः किल।
विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावण— स्त्वां द्रष्टुं जनकात्मजां हृदय! हे नेत्राणि मित्रीकुरु॥ १७॥

२. वैधर्म्योपमानं यथा—(विक्रमो. २.३)

आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः।
उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः॥ १८॥

३. मुद्रोपमानं यथा—(किराता. १०.७)

सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः।
क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि॥ १९॥

४. शिल्पोपमानं यथा—(रत्‍ना. २.९)

लीलावधूतपद्मा प्रथयन्ती पक्षपातमधिकं नः।
मानसमुपैति केयं चित्रगता राजहंसीव॥ २०॥

५. संज्ञोपमानं यथा—(वल. ६१७)

दट्ठूण तं जुवाणं परिअणमज्झंमि पोढमहिलाए।
पप्फुल्लदलं कमलं करेण मुउलावियं किस्स॥ २१॥

(दृष्ट्वा तं युवानं परिजनमध्ये प्रौढमहिलया।
प्रफुल्लदलं कमलं करेण मुकुलायितं कस्मात्॥)

६. अभिनयोपमानं यथा—

वइविवरणिग्गअदलो एरंडो साहइ व्व तरुणाणं।
एत्थ घरे हलिअवहू एद्‍दहमेत्तत्थणी वसइ॥ २२॥

(वृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणानाम्।
अत्र गृहे हालिकवधूरेतावन्मात्रस्तनी वसति॥)

तत्र प्रत्यक्षागमावेवोपमानमिति काणादकपिञ्जलपातञ्जलाः। तथाहि। यथा गौस्तथा गवय इति, अयं स गोसदृशो गवय इति। नात्र गवानुभवोपदेशस्मरणगवय— दर्शनानामतिरिक्तं स्फुरति यत्प्रसिद्धे तुरीयं प्रमाणमङ्गीकुर्मः।

यच्च कैश्चिदुक्तम् — अनेन सदृशी मदीया गौरित्येतदुपमानं, तदपि सादृश्योद्‍बोधितस्मृतिबीजप्रभवगवानुभवस्मरणतो नातिरिच्यते इति।

अत्रोच्यते। उक्तमेवास्माभिः। किं तदिति चेदविज्ञातस्वरूपस्य वस्तुनः साधर्म्यादिभिरुपदेशादिसव्यपेक्षैः साक्षात्करणमुपमानमिति। उपदेशादयः पुनरुभयजन्यज्ञाने चक्षुरादय इव तत्सहकारिणः, न तद्‍व्यपदेशहारिणः। तथा चेन्द्रियार्थसन्निकर्षोत्पन्नत्वेऽपि उभयजन्यव्यपदेश्यपदेन व्यवच्छिन्नम् अक्षपादपादैः।

किञ्चान्यत्; आस्तामस्थानिकी महत्येषा कथा। परीक्षकाणां हि प्रायेणोपमानमेव प्रमाणं, प्रत्यक्षादीनि पुनरुपमायामेवान्तर्भवन्ति। तथाहि। व्यवहारोपयोगि प्रमाणं सविकल्पकज्ञानपूर्वं, सविकल्पकं शाब्दम्; शब्दस्य च सम्बन्धग्रहणसमयेऽर्थ— प्रतिपादकम्। तदुत्तरकालं तु तत्सादृश्येन अवबोधकत्वात् कथं न प्रत्यक्षमुपमानम्। आह च विन्ध्यवासी—‘शब्दस्य सामान्यं वाच्यम्। तच्च सादृश्यरूपम्’ इति। सामान्यं च पूर्वव्यक्त्यवच्छिन्नमपूर्वव्यक्तौ प्रतीयमानम्; तदुक्तम् ‘सादृश्यम्, तच्चोपमानमेव भवति। प्रत्यक्षस्य चोपमानान्तर्भावे प्रागेवानुमानमुपमानं यथा तथेति व्यपदेशात् ॰ ॰ ॰ ॰ स्वार्थानुमाने लिङ्गमधिगतलिङ्गिनोऽधिगमहेतुः। तदधिगमश्च प्रत्यक्षादिपूर्वक’ इति। यथा तथेति च व्यपदेशात् परार्थानुमाने चोक्तमनुभाष्यकारैः ‘तदागमः, प्रतिज्ञा, हेतुः, अनुमानं, दृष्टान्तः, प्रत्यक्षम्, उपमानम्, उपनय’ इति। शाब्दं तु साक्षा ॰ ॰ ॰ पमानमेवेदं तदित्यादिव्यपदेशात्। एतेनार्थापत्तिसम्भवाभावा अपि तत्प्रसिद्धयैव व्याख्याताः। तैर्हि तेऽनुमानैरन्तर्भाविता’ इति। ऐतिह्यं तु शाब्दविशेषण एव। तस्मात् सर्वं प्रमाणमुपमानम्।

यद्येवमुपमानमेवास्तु, किं प्रत्यक्षादिभिरिति।

अत्रोच्यते— गतानुगतिकन्यायोऽविचारितरमणीयः संसारव्यवहार इव विचारं न क्षमते।

तथाहि—भगवता अक्षपादेन प्रमाणप्रमेयान्तर्भूता अपि संशयादयश्चतुर्दश पृथदुक्ताः। निग्रहस्थानान्तर्भावेऽपि हेत्वाभासच्छलत्रयजातिनिग्रहस्थानानां पृथक्प्रस्थान— मभिहितम्। असिद्धानैकान्तिकान्तर्गता अपि विरुद्धादयो हेत्वाभासाः पञ्चहेतूनुपादाय चतुष्षट्केण त्रिंशता षोडशकत्रयेण च द्वे सहस्त्रे द्वात्रिंशके इति वर्णिताः।

एवं धर्मकीर्तिनापि स्वभावानुपलब्धिरिति वक्‍तव्ये स्वभावानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, व्यापकानुपलब्धिः, स्वभावविरुद्धोपलब्धिः, कार्यविरुद्धोपलब्धिः, कारणविरुद्धोपलब्धिः, विरुद्धव्याप्‍तोपलाब्धिः, विरुद्धकारणोपलब्धिः, विरुद्धकार्योपलब्धिः, कारणविरुद्धकार्योपलब्धिरित्येकादशानुपलब्धयो विकल्पिताः। लोकेऽपि दृश्यते ब्राह्मणा आयाता वसिष्ठश्चायात इति। तद्वदुपमानान्तर्गतत्वेऽपि प्रत्यक्षादिप्रमाणवर्णनमिति।

(१.४ अर्थापत्त्यनुरागः —६)

दृष्टः श्रुतो वान्यथा नोपपद्यत इत्यर्थान्तरपरिकल्पना अर्थापत्तिः। सापि षट्प्रमाणपूर्वकत्वात् षट्प्रकारा दृष्टार्थापत्तिः १. प्रत्यक्षपूर्विका, २. अनुमानपूर्विका, ३. उपमानपूर्विका, ४. शब्द(सम्भव)पूर्विका, ५. अर्थापत्तिपूर्विका, ५. अभावपूर्विका चेति। श्रुतार्थापत्तीस्तु श्रावणषट्के वक्ष्यामः। सानुमानतः सामग्रीभेदाद् भिद्यते। तथाहि— पक्षे वृत्तिः, सपक्षवत्त्व/वृत्तिः विपक्षावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चानुमानलक्षणम्। अर्थापत्तौ पक्षधर्मत्वाद्यनपेक्षस्तथानुपपद्यमानोऽर्थः स्वसिद्धयर्थमर्थान्तरं कल्पयति। तत्र दृष्टार्थापत्तिः —

१. प्रत्यक्षपूर्विका यथा—(मामा. १.२६)

‘सन्तापसन्ततिमहाव्यसनाय तस्यामासक्तम्’॥ २३॥ (पृ.११०४) इत्यादि।

२. अनूमानपूर्विका यथा—(मामा. ५.२०)

‘नादस्तावद्‌विकलकुररीकूजितस्निग्धतारश्चित्ताकर्षी’॥ २४॥(पृ.१०४२)इत्यादि।

३. उपमानपूर्विका यथा—

शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत् तपः।
तरुणि! येन तवाधरपाटलं दशति बिम्बफलं शुकशाबकः॥ २५॥

४. अर्थापत्तिपूर्विका यथा—(रत्‍ना. २.१४)

स्थितमुरसि विशालं पद्मिनीपत्रमेतत् कथयति न तथान्तर्मन्मथोत्थामवस्थाम्।
अतिशयपरितापम्लापिताभ्यां यथास्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति॥ २६॥

५. सम्भवपूर्विका यथा—

‘जनः पुण्यैर्यायाज्जलधिजलभावम्’॥ २७॥

(पृ.९५७) इत्यादि। ६. अभावपूर्विका यथा—(गास. ४.१८)

अह सा तहिं तहिं चिअ वाणीरवणंमि चुक्कसंकेआ।
तुह दंसणं विमग्गइ पम्हुट्ठणिहाणठाणं व्व॥ २८॥

(अथ सा तत्र तत्रैव वानीरवने च्युतसङ्केता।
तव दर्शनं विमार्गते प्रस्मृतनिधानस्थानमिव॥)

(१.५ सम्भवानुरागः —६)

सम्भावनाज्ञानं सम्भवः, सोऽपि षट्प्रकार एव— ‘सम्भावना—संशय—वितर्क— प्रायोवाद—सम्प्रत्यय—प्रत्यनुसन्धिभेदात्’। तत्र—

१. प्रबलकारणकलापादर्शनात् कार्योत्पत्तिसम्प्रधारणं सम्भावना, मेघोदयाद् वृष्टिरिति।

यथा—

मा मुद्धपो उच्छोडअ बालाए इमिए हरिससुअपरिल्लं।
विणिअंपणदंसणकोउहलग्गहिओ हहिओ गहिल्लि॥ २९॥

२. समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः (न्यायसू. १.१.२३)— स्थाणुर्वा पुरुषो वेत्यादि। यथा—(उदात्तरा. २.१२)

किं रूपं स्फुटमेव सा शशिमुखी धत्ते तदत्यद्भतं मामुत्साहयितुं परापकरणे चित्तं नु किं नः स्वसुः।
इत्यन्तर्विकसद्‌वितर्कविधुरं चेतस्तथा जायते स्वल्पोऽप्येष मम प्रयाति पुरतः पन्था यथा दीर्घताम्॥ ३०॥

॰ ॰ अंशावलम्बी प्रत्ययः सन्देहः। इहापि पाक्षिकी सम्भावनास्त्येव। सा प्रवृत्तिहेतुः। तथा ह्यनिश्चितेऽपि प्रतिबन्धकाभावे सुखसाधनं ज्ञानं प्रमाणमेवेति।

३. अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहो वितर्कः (न्यायसू. १.१.४०)—

‘पुरुषेणानेन भवितव्यमि’ति। स यथा—(विक्र. १.१०)

अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः श्रृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः।
वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥ ३१॥

इत्यादि ४. बहूनामैकमुख्यः प्रायोवादः— ‘प्रायेणौशीनरास्तक्रपायिण’ इति। स यथा—

ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्दृष्ट्वाऽऽलापं कलयति कथामात्मविषयाम्।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यमतुलं प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा॥ ३२॥

(रत्‍ना. ३.४) ५. कार्यार्थं प्रवर्तितस्य यथोक्तावान्तरचिह्नदर्शनं सम्प्रत्ययः; यथैतद्‍घट्टद्वारं तथाग्रे नागकन्यकानगरमिति, स यथा— (मामा. ४.९)

प्रमथ्य क्रव्यादं मरणसमये रक्षितवतः परिष्वङ्गं लब्ध्वा तव कथमिवान्यत्र रमताम्।
तथा च व्यापारः कमलनयनाया नयनयो— स्त्वयि व्यक्तः स्नेहस्तिमित—रमणीयश्चिरमभूत्॥ ३३॥

६. अन्यथाव्यवसितपदार्थतथात्वदर्शनात् प्रागुपलब्धेऽपि तदात्वसम्भावना प्रत्यनुसन्धिः। योऽपि कपोलपाण्डुतादिसूचितः तस्याः स्मराभिष्वङ्गः, सोऽपि त्वन्निबन्धन इति। स यथा—

मा भैः शशाङ्क! मम शीधुनि नास्ति राहुः खे रोहिणी कथय कातर! किं बिभेषि।
प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम्॥ ३४॥

(१.६. अभावानुरागः —६)

प्रमाणसप्‍तकव्यापारातीतप्रमेयग्राहकं प्रमाणम् अभावः। स त्वेकोऽपि प्रमेयोपाधिभेदाद् विभिद्यमानः षोढा सम्भवति—‘प्रागभावः, प्रध्वंसाभावः, इतरेतराभावोऽत्यन्ताभावः, सम्बन्धाभावः, सर्वाभाव’ इति। तत्र

१. प्रागभावः—क्षीरे दधि नास्तीति। स यथा—(९४७)

जाव ण उट्ठंति च्चिअ थणआ से दुद्धगंधिअमुहीए।
ताव च्चिअ धुधुक्कारिआइ मअणेण अंगाइ॥ ३५॥

(यावन्न उत्तिष्ठेते स्तनकौ दुग्धगन्धिकमुख्याः।
तावदेव थूथूकारितानि मदनेन अङ्गानि॥)

२. प्रध्वंसाभावः, क्षीरं दध्नि नास्तीति। स यथा—

स्वस्ति सुखेभ्यः सम्प्रति तिलाञ्जलिरेष मन्मथकथायाः।
तता अपि मामतिवयसं तरलदृशः तरलमीक्षन्ते॥ ३६॥

३. इतरेतराभावः, स्तम्भः कुड्यो न भवतीति। स यथा—(काव्याद. २.३२५)

न देवकन्यका नापि गन्धर्वकुलसम्भवा।
तथाऽप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम्॥३७॥

४. अत्यन्ताभावः, शशविषाणं नास्तीति। स यथा—(गास. ३.१२)

जं जस्स अत्थि/होइ सारं तं सो देइ त्ति किंत्थ अच्चरिअं।
अणहोंता अंपि दिण्णं दोहग्गं तइ सवंत्तीणं॥ ३८॥

(यद् यस्यास्ति/भवति सारं तद् स ददाति इति किमत्राश्चार्यम्।
अभवदपि दत्तं। दौर्भाग्यं तया सपत्‍नीनाम्॥)

५. सम्बन्धाभावः, चैत्रो गृहे नास्तीति। स यथा—(शाकु. १.२६)

मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्॥ ३९॥

६. सर्वाभावः, तस्य नामापि नास्तीति। य यथा—

गामा पएससेसा णु रण्ण सेसा कुडुंगपरिवाडा।
देहा वि जीअसेसा पेम्मस्स ण अत्थि सेसं वि॥ ४०॥

(ग्रामाः प्रदेशशेषाः सुमरणशेषाः लतागृहपरिवाडाः।
वयमपि जीवशेषाः प्रेम्णो नास्ति शेषमपि॥)

सम्भवाभावयोरनुमानेऽन्तर्भावो न घटते, सामान्यादेरभावात्। तथाहि— निश्चयात्मकमनुमानम्, अनिश्चयात्मा सम्भवः; तथाप्यविनाभावेन गतार्थत्वमिति चेत् तन्न उत्पत्तिकाले तस्यापि निश्चयात्मकत्वात्। अभावस्तु नानुमानसादृश्यमपि स्पृशति।

तदुक्तम्— मयूरो वृक्षमारुह्य कृत्व दिगवलोकनम्।
हन्तृभावमभावेन ज्ञात्वा नृत्यति निर्भयः॥ ४१॥

स हन्द्रियव्यापारभावभावित्वेन प्रत्यक्ष इति चेत्, तत्र, प्रत्यक्षलक्षणस्यायोगात्। तथाहि। इन्द्रियार्थसन्निकर्षजं ज्ञानं प्रत्यक्षम्, इन्द्रियार्थश्‍च व्यापारभावाभावादौ न घटते। अथाघटं भूतलमित्यत्र विशेषणविशेष्यभावः सन्निकर्षो भविष्यति’ यथोक्‍तम्—‘संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति षोढा सन्निकर्षः। तेषु संयोगाद् द्रव्यग्रहणं; संयुक्‍तसमवायाद् गुणग्रहणं, संयुक्तसमवेतसमवायाद् गुणत्वग्रहणं; समवायाच्छब्दग्रहणं; समवेतसमवायात् शब्दत्वग्रहणं; विशेषणविशेष्यभावाद् अभावग्रहणमिति। यद्यपि धर्मविकल्पत्याग१ एव धर्माणाम्, तथाऽप्यनुत्पत्तिमान् विनाशी प्रागभावः, उत्पत्तिमानप्यविनाशी प्रध्वंसाभावः। ततश्च ययैव सामग्र्या भावभूतं भूतलमुपलभ्यते न तया तद्‌विशेषणमभाव इति। न चागृहीतविशेषणा विशेष्ये बुद्धिः प्रवर्तते इत्यतोऽभावग्राहकं प्रमाणान्तरमभ्युपगन्तव्यम्। स च प्रमाणसप्‍तकव्यापारातीत (विष) यग्राहकोऽभाव एवेति। तान्येतानि प्रत्यक्षानुमानोपमानार्थापत्तिसम्भवाभावसमाख्यानि दर्शनान्तरे षट् प्रमाणानि प्रतिपादितानि।

(२. श्रुत्यालम्बनानुरागः)

अथ श्रवणतः शब्दैतिह्यश्रुतानुमानादि प्रमाणषट्कं वक्ष्यामः।

तत्र शाब्दः शब्दविज्ञानादसन्निकृष्टेऽर्थे ज्ञानं शाब्दम्।

तद् द्विविधम् औपदेशिकं विधिश्‍च।

(२.१ औपदेशिकम् —६)

तत्र उपदेशः षोढा १. विधिवादः, २. अर्थवादः, ३. संज्ञावादः, ४. स्वरुपवादः, ५. मन्त्रवादः, ६. अनुवाद इति। तत्र—

(१. विधिवादः —४)

प्रवृत्तिनिवृत्त्योर्विधायको विधिः। स चतुर्धा— उत्पत्तिविधिः, विनियोगविधिः, प्रयोगविधिः, अधिकारविधिश्चेति।

तदुक्तम्—

उत्पत्तिविनियोगाख्यप्रयोगाधिक्रियार्थकः।
एको विधिस्तत्परतो विभेदेन विभिद्यते॥ ४२॥

NOTES pg=1207! १. ‘धर्मविकल्पत्वादत एव धर्माणाम्……..तथप्य’ इति रा. HOS। जोपाठस्त्वादृतः। १. तत्राज्ञारूप—स्वरूपज्ञापनापर उत्पत्तिविधिः। यथा—(मामा. २.१०)

तत उदयगिरेरिवैक एषः स्फुरितगुणद्युतिसुन्दरः कलावान्।
इह जगति महोत्सवस्य हेतुर्नयनवतामुदियाय बालचन्द्रः॥ ४३॥

२. शेषभावेन कर्मादीनां विनियोजनापरो विनियोगविधिः। यथा—(मामा. २.११)

असौ विद्याधारश्शिशुरपि विनिर्गत्य भवना— दिहायातः सम्प्रत्यविकलशरच्चन्द्रमधुरः।
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव॥ ४४॥

यत्र लिङ्गतो विनि(योगविधिः) यथा ‘वर्हिर्देवसदनं दामि’ इति लिङ्गादनेन मन्त्रेण बर्हींषि लुनीयाः इति।

३. कर्मानुष्ठानपरः प्रयोगविधिः। यथा—(मामा. ६.१५)

पुरश्चक्षूरागस्तदनु मनसो मन्युपरता तनुर्ज्यानिर्यस्य त्वयि समभवद् यत्र च तव।
युवा सोऽयं प्रेयानिह सुवदने! मुञ्च जडतां विधातुर्वैदग्ध्यं विलसतु सकामोऽस्तु मदनः॥ ४५॥

४. नियोज्यविशेषप्रतिपादनापरोऽधिकारविधिर्यथा—(मामा. १.१९)

शरज्ज्योत्स्नाकारं/कान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यः स च युवा।
वरीयानन्योन्य—प्रगुण—गुण—निर्माण—निपुणो विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु॥ ४६॥

अधिकृतस्य कर्तृत्वे, कर्तुरधिकारे वा प्रयोगविधेरेव प्राधान्यम्।

तदुक्तम्— (तवा. ३.१.१३)

अभिधात्री श्रुतिः काचिद् विनियोक्त्र्यपरा मता।
विधात्री च तृतीया सा प्रयोगो यन्निबन्धनः॥ ४७॥

स विधिर्लोट्तव्यादिप्रत्ययाभिधेयः पुरुषमिष्टाभ्युपायावच्छिन्नायां भावना— यामप्रवृत्तं प्रवर्तयति, प्रवृत्तं रागतो (निवर्त्तयति)।

(२. अर्थवादः —४)

अर्थवादः चतुर्धा स्तुतिः, निन्दा, पुराकल्पः, परा/रकृतिरिति। तत्र—

१. विद्यमानाविद्यमानगुणसङ्कीर्तनं स्तुतिः। यथा—(रघु. ६.२२)

कामं नृपाः सन्तु सहस्त्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम्।
नक्षत्रताराग्रहसङ्कुलाऽपि ज्योतिष्मती चन्द्रमसैव रात्रिः॥ ४८॥

२. दोषप्रकाशनं निन्दा यथा—(कुसं. ५.७२)

‘वपुर्विरूपाक्षम्’॥ ४९॥

(पृ.१२४३) इत्यादि ३. एवं पुराऽभूदिति पुराकल्पः। यथा—

‘अपेतव्याहारम्’॥ ५०॥

(सक. ५.२७७) (पृ.१२६६) इत्यादि ४. व्याहतस्य प्रवादः ॰ ॰ ॰ परा / कृतिर्यथा—(कुसं. ५.६९)

अयुक्तरूपं किमतः परं भवेत् त्रिनेत्रवक्षस्सुलभं तवापि यत्।
स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति॥ ५१॥

स चायमर्थप्रकारोऽर्थवादः प्ररोचनया पुरुषमप्रवर्तमानं स्तुतिपुराकल्पाभ्यां प्रवर्तयति। रागतः प्रवृत्तं निन्दापरा/कृतिभ्यां निवर्तयति।

(३. संज्ञावादः —४)

कर्मव्यतिहारहेतुः संज्ञा। सापि चतुर्धा—आन्वार्थिकी, पारिभाषिकी, नैमित्तिकी, यादृच्छिकी चेति। तत्र

१. संज्ञार्थमनुगताऽऽन्वर्थिकी यथा—(रघु. ६.२१)

असौ शरण्यः शरणागतानां अगाधसत्त्वो मगधप्रतिष्ठः।
राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनामा॥ ५२॥

२. अनपेक्षितसंज्ञार्था पारिभाषिकी यथा—(रघु. ६.४१)

तस्यान्वये भूपतिरेष जातः प्रती / दीप इत्यागमवृद्धसेवी।
येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम्॥ ५३॥

३. निमित्तसव्यपेक्षा नैमित्तिकी यथा—(कुसं. १.२६)

‘तां पार्वतीत्याभिजनेन नाम्ना’॥५४॥

इत्यादि ४. अविद्यमानव्युत्पत्तिर्यादृच्छिकी, यथा—(मवीच. १.२०)

लाङ्गलोल्लिख्यमानाया यज्ञभूमेः समुद्गता।
सीतेयमूर्मिलेयं तु द्वितीया जनकात्मजा॥ ५५॥

सा तु चतुर्विधापि विधिनिषेधार्थमर्थवादानुवादौ विधत्ते।

(४. स्वरूपविधिः —४)

मिथो विवेकहेतुः स्वरूपविधिः। सोऽपि चतुर्धा—‘जातिः, गुणः, क्रिया, द्रव्यमि’ति। तत्र—

१. सामान्याभिधायिनी जातिः; यथा—

रतेरिव निधानानि रत्‍नानामिव राशयः।
अमृतस्येव कुण्डानि योषितः केन निर्मिताः॥ ५६॥

२. आश्रितो / आश्रय विशेषणं च गुणः, यथा—(काव्याद. २.११)

बध्नन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम्।
नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते॥ ५७॥

३. मनश्शरीरपरिस्पन्दः क्रिया, यथा—

शिञ्जानमञ्ञुमञ्जीरकाञ्चीसञ्चारचारवः।
रमयन्ति मनःकान्ता नितान्तं योगिनामपि॥ ५८॥

४. विशेषाभिधायि द्रव्यं यथा—(शाकु. १.१८)

‘सरसिजमनुविद्धं शैवलेनापि रम्यम्’॥ ५९॥

(पृ.८८३) इत्यादि तच्चतुःप्रभेदमपि विध्यनुरोधेन हानोपादानबुद्धिमुपकल्पयति।

(५. मन्त्रवादः —४)

मनस्त्राण/मननात् त्राण—धर्माणः शब्ददेवतात्मानो मन्त्राः; तेऽपि चतुर्धा— वैदिकाः, पौराणिकाः, सैद्धान्तिकाः, लौकिकाश्च। तत्र

१. वेदोपनिबद्धा वैदिकाः। यथा—(ऋवे. १०.८५.४१)

सोमोऽददद्गन्धर्वाय गन्धर्वोऽदददग्नये।
रयिं च पुत्राँश्चाददग्निर्मह्यमथो इमाम्॥ ६०॥

२. पुराणोपनिबद्धाः पौराणिकाः। यथा—

श्रिया वियुज्यते नाथ न कदाचिद् यथा भवान्।
तथा कलत्रसम्बन्धो देव! मा मे वियुज्यताम्॥ ६१॥

३. सिद्धान्तोपनिबद्धाः सैद्धान्तिकाः। यथा—(दुर्गासश. ११.५८५)

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधनि।
शरण्ये वत्सले गौरि नारायणि नमोऽस्तु ते॥ ६२॥

४. लोके विदिताः लौकिकाः। यथा—(विसा. १.३)

‘गोनासाय नियोजितागदरजाः’॥ ६३॥

(पृ.५८६) इत्यादि (६. अनुवादः —४)

ते चतुर्विधा अपि कर्माणि प्रकाशयन्तो रक्षन्ति।

विधिविहितस्यानुवचनमनुवादः,

स विध्यर्थः, निषेधार्थः, स्तुत्यर्थः, निन्दार्थश्च।

अद्रव्यं हि विधत्ते, निषेधति, स्तौति, निन्दति वा; तत्र—

१. विध्यर्थो यथा—(रघु. ६.६५)

इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु॥ ६४॥

२. निषेधार्थो यथा—(कुसं. ५.६५)

अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुर एव वर्तसे।
अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न तु कर्तुमुत्सहे॥ ६५॥

३. स्तुत्यर्थो यथा—(कुसं. ५.७५)

‘उवाच चैनं परमार्थतो हरं न वोत्सि’॥ ६६॥

इत्यादि ४. निन्दार्थो यथा—(कुसं. ५.६६)

अवस्तुनिर्बन्धपरे! कथं नु ते करोऽयमानुक्तविवाहकौतुकः।
करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम्॥ ६७॥

सोऽयमुपदेशश्चतुर्विशतिविधोऽपि विधिरित्युच्यमानः—

साक्षाद्, विकल्पेन, समुच्‍चयेन विदधाति, नञा, नियमेन, परिसङ्ख्यया च निषेधति।

यथोच्यते—(तवा. १.२.४२)

विधिरत्यन्तमप्राप्‍तौ नियमः पाक्षिके सति।
तत्र चान्यत्र च प्राप्‍तौ विकल्पो नियमे सति॥

समुच्‍चयोऽसमावेशे परिसङ्ख्याविकल्पयोः॥ ६८॥

तत्र (विधानम्)

साक्षाद् विधानं यथा—(रघु. ६.५७)

अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः॥ ६९॥

विकल्पविधानं यथा—(कुसं. २.६०)

उभे एव क्षमे वोढुमुभयोर्वीर्यमाहितम्।
सा वा शम्भोस्तदीया वा मूर्तिर्जलमयी मम॥ ७०॥

समुच्‍चयविधानं यथा—(शाकु. ३.१७)

परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे।
समुद्ररशना चोर्वी सखी च युवयोरियम्॥ ७१॥

(निषेधः)

नञादिनिषेधो यथा—(कुसं. ५.७३)

निवर्तयास्मादसदीप्सितान्मनः क्‍व तद्विधस्त्वं क्‍व च पुण्यलक्षणा।
अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया॥ ७२॥

नियममिषेधो यथा—(मामा. १.३९)

‘जगति जयिनस्ते ते भावा नवेन्दुकलादयः’॥ ७३॥

इत्यादि परिसङ्ख्यानिषेधो यथा—(विक्र. ३.११)

अयं तस्या रथक्षोभादंसेनांसो निपीडितः।
एकः कृती शरीरेऽस्मिन् शेषमङ्गं भुवो भरः॥ ७४॥

(२.२ विधिः)

विधिश्च विधिरूपो निषेधरूपो वा प्रयोजकाप्रयोजकतया द्विरूपः।

तत्र च साधारणे कर्मण्येकस्य प्राधान्येन हेतुत्वं प्रयोजकता। स—

१. विधिरूपो यथा—(काव्याद. २.२५५)

त्वदपाङ्गाह्वयं जैत्रमनङ्गास्त्रवदङ्गने !
क्षिप्‍तं त्वयान्यतस्तेन सोऽप्यहं मनसि क्षतः॥ ७५॥

२. निषेधरूपो यथा—(कुसं. ५.५४)

असह्यहुङ्कारनिवर्तितः पुरा पुरारिमप्राप्‍तमुखः शिलीमुखः।
इमां हृदि व्यायतपातमक्षिणोद् विशीर्णमूर्तेरपि पुष्पधन्वनः॥ ७६॥

(विधिरूपः —६)

विधिषु च प्रयोगविधेः प्रयोजकत्वमितरेषां तु त्रयाणामप्रयोजकत्वम्।

तत्रोत्पत्तिविध्यपेक्षितभेदप्रतिपादकानि शब्दान्तरादीनि षट् प्रमाणानि।

(१. उत्पत्तिविधिप्रमाणानि —६)

शब्दान्तरम्, अभ्यासः, संज्ञा, सङ्ख्या, गुणः, प्रकरणमिति।

स्वरूपपरो हि विधिर्भिनत्ति कर्मेति। तत्र —

१. शब्दान्तरभेदो यथा—

बंदं कीराण णहे पहिआण पहे मआण छेत्तम्मि।
तुह कलमगोवि छीका—रव—रणिअं ण चलइ पअं पि॥ ७७॥

(बृन्दं कीराणां नभसि पथिकानां पथि मृगाणां क्षेत्रे।
तव कलमगोपि! स्तोकारवरेटितं न चलति पदमपि॥)

तत्र नभसि क्षेत्रे चैकमेव बृन्दमिति प्राप्‍ते कीरपथिकमृगशब्दान्तरेभ्यो भेदः।

२. अभ्यासाद् भेदो यथा—(गास. १.८१)

अदंसणेण पेम्मं अवेइ अइदंसणेण वि अवेइ।
पिसुणजणजप्पिएण वि अवेइ एमेअ वि अवेइ॥ ७८॥

(अदर्शनेन प्रेमापैत्यतिदर्शनेनाप्यपैति।
पिशुनजनजल्पितेनाप्यपैत्येवमेवाप्यपैति ॥)

अत्रादर्शनादिभिः प्रेमापैतीति वाच्ये अपैतीति पदाभ्यासः प्रेमभेदं बोधयति। कस्याचिद्दर्शनेन, कस्यचिददर्शनेन, कस्यचित्पिशुनजनजल्पितेन, कस्यचिदेवमेवेति।

३. संज्ञाभेदो यथा—(रघु. ११.५३)

मैथिलीमुदवहद् रघूद्‍वहो लक्ष्मणो ललितवाचमूर्मिलाम्।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे॥ ७९॥१

अत्र रघूद्वहत्वमैथिलीत्वाभ्यां भेदे प्राप्‍ते लक्ष्मण ऊर्मिलामुदवहदिति संज्ञातो भेदः।

४. सङ्ख्यातो भेदो यथा—(कुसं. ५.७१)

द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः।
कला च सा कान्तिमती कलावत— स्त्वमस्य लोकस्य च नेत्रकौमुदी॥ ८०॥

NOTES pg=1213! १. मैथिली = पार्थिवी, ललितवाचमू = तदनुजामथो इति पाठान्तराणि। अत्र कपालिसमागमप्रार्थनया भेदे प्राप्‍ते द्वयमिति सङ्ख्यातो भेदः।

५. गुणाद् भेदो यथा—(रघु. ६.६०)

पाण्डयोऽयमंसार्पितलम्बहारः क्लृप्‍ताङ्गरागो हरिचन्दनेन।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ ८१॥

अत्र पाण्डयोऽयमित्युक्तेऽनेकराजन्यसमानाभिहारान्न ज्ञायते कोऽसाविति।

अंसार्पितलम्बहारत्वादिभेदक—विशेषगुणयोगात्तु भिद्यते।

६. प्रकरणान्तराद् भेदो यथा—(रघु. ६.८५)

शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः॥ ८२॥

अत्रेयमिति सर्वनामपदप्रयोगात् न ज्ञायते का सा इति। अभेदे प्राप्‍ते स्वयंवरप्रस्तावादिन्दुमतीति प्रकरणान्तराद् भेदः।

एवमेतद्‍भेदकं प्रमाणान्तरतो विवेकहेतुर्भेदः। स तु क्रियार्थोपाधिभेदात् कारकभेदाद्वा भवति। नात्र कनीयानपि विशेषः। योषाञ्च कार्येऽर्थे वे(भे)दस्य प्रामाण्यं तेषां मते सान्ध्यं क्रिया न भिनत्तीति१। सिद्धे च भेदे प्रधानाङ्गभावविवक्षा।

(२. विनियोगविधिप्रमाणानि —६)

तत्र विनियोगाविध्यपेक्षितशेषभावप्रतिपादकानि श्रुतिलिङ्गादीनि षट् प्रमाणानि— श्रुतिः, लिङ्गं, वाक्यं, प्रकरणं, स्थानं, समाख्येति ।

परोपकारभावो हि शेषः। स —

१. श्रुतितो यथा—(रघु. ६.३५)

अनेन यूना सह पार्थिवेन रम्भोरु! कच्‍चिन्मनसो रुचिस्ते।
शिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु॥ ८३॥

अत्रानेनेत्यादितृतीयाश्रुत्या पार्थिवस्याङ्गभावः प्रतिपाद्यते। तृतीया हि षष्ठीवदप्रधानादेव। NOTES pg=1214! १. अत्र जो. रा. ‘वेदस्य प्रामाण्यं तेषां मते……मभिनन्दतीति’—पठतः। २. लिङ्गतो यथा—(मामा. २.११)

असौ विद्याधारः शिशुरपि विनिर्गत्य भवना— दिहायातः सम्प्रत्यविकलशरच्‍चन्द्रमधुरः।
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव॥ ८४॥

अत्र सौभाग्यसूचकाभिगामिकसमस्तवरगुणाभिधायिपदप्रयोगलिङ्गभावित्वस्या— भिप्रायविनिवर्तने नियोगः।१

४. प्रकरणतो यथा—(रघु. ६.५१)

अध्यास्य चाम्भःपृषतोक्षितानि शैलेयनद्धानि शिलातलानि।
कलापिनां प्रावृषि पश्य नृत्तं कान्तासु गोवर्धनकन्दरासु॥ ८५॥

अत्र कलापिनृत्तदर्शनादिकं किमन्योपकारकम्, उतेन्दुमतीयौवनश्रीनिर्वे— शोपकारकमिति सन्देहे प्रकरणादुत्तरः पक्षः। इदं हि ‘सम्भाव्य भर्तारममुं युवानमि’ति (रघु. ६.५०) प्रकरणे पठ्यते।

५. स्थानतो यथा—(रघु. ६.७८)

असौ कुमारस्तमजोऽनुजातः त्रिविष्टपस्येव पतिं जयन्तः।
गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण २सम्यक्सद्‍ृशीं बिभर्ति॥ ८६॥

अत्र राज्यधुरोद्वहनादिसादृश्यात् पितृसन्निधौ श्रूयमाणस्य स्थानतस्तद्गौर— वाभ्युपपत्तिः।

६. समाख्यातो यथा—

सच्‍चं सण्णा धण्णा जा तइआ केसवेण गिरिधरणे।
गुरुभारवावडेण वि तिरिअं अच्छं चिरं दट्ठा॥ ८७॥

(सत्यं संज्ञा धन्या या तदा केशवेन गिरिधरणे।
गुरुभारव्यापृतेनापि तिर्यगक्षं चिरं द्‍ृष्टा॥)

अत्र धन्येति समाख्याबलात् सदैव तस्याः प्रियप्रसादपात्रत्व एव विनियोगः। एवमेतत्प्रधानविशेषभावाद् विनियोजकं प्रमाणषट्कम्।

अत्रापि कर्मणः कारकस्य वा शेषभाव इति समानं पूर्वेण। NOTES pg=1215! १. अत्र क्रमप्राप्‍तं वाक्यनिरूपणं ३२५२ मात्रिकायां नोपलभ्यते। २. सम्यक्=दम्यः (३. प्रयोगविधिप्रमाणानि —६)

अवगते च प्रधानाङ्गभावे क्रमापेक्षा। तत्र प्रयोगविध्यपेक्षितप्रतिपादकानि श्रुत्यर्थादीनि षट् प्रमाणानि श्रुतिः, अर्थः, पाठः, स्थानं, मुख्यं, प्रावृत्तिकमिति।

पौर्वापर्येणानुष्ठानं क्रमः। स

१. श्रौतो यथा—(रघु. ६.५०)

सम्भाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये।
बृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि यौवनश्रीः॥ ८८॥

अत्र सम्भाव्येति पूर्वकाले क्त्वाश्रुतेः श्रौतः क्रमः।

२. आर्थो यथा—(गास. ४.२७)

ईसं जणेंति दावेंति वम्महं विप्पिअं सहावंति।
विरहे ण देंति मरिउं अहो गुणा तस्स बहुमग्गा॥ ८९॥

(ईर्ष्यां जनयन्ति दर्शयन्ति/वर्धयन्ति मन्मथं विप्रियं साहयन्ति।
विरहे न ददति मर्तुमहो गुणास्तस्य बहुमार्गाः॥)

अत्र पूर्वं मन्मथवृद्धिस्तत ईर्ष्या, प्राङ्‍मरणाभावः, ततो विप्रिय— सहिष्णुत्वमित्यार्थः क्रमः, यथा ‘अग्‍निहोत्रं जुहोति’, ‘यवागूं पचति’ इति।

३. पाठक्रमो यथा—(रघु. ६.६३)

अनेन कल्याणि! करे गृहीते महाकुलीनेन महीव गुर्वी।
रत्‍नानुविद्धार्णवमेखलाया दिशस्सपत्‍नी भव दक्षिणायाः॥ ९०॥

अत्र पृथ्वीसामान्याद् दक्षिणासाधर्म्याच्‍च पूर्वं पतित्वं पश्चात्करग्रहणमित्यर्थे प्राप्‍ते पाठसामर्थ्यात् पूर्वं करग्रहणं ततः पतित्वमिति क्रमः।

४. स्थानक्रमो यथा—(गास. ३.६२)

सा तुह कएण बालअ णिच्‍चं घर—दार—तोरण—णिसण्णा।
ओसूसइ वंदणमालिअ व्व दिअह च्‍चिअ वराई॥ ९१॥

(सा तव कृतेन बालक! नित्यं गृहद्वारतोरणनिषण्णा।
अवशुष्यति वन्दनमालिकेव दिवस एव वराकी॥)

अत्र गृहद्वारतोरणनिषण्णत्वेन वन्दनमालासन्निधेः दिने दिने सापि शुष्यति कृशायते रणरणायते चेति क्रमः।

५. मुख्यक्रमो यथा—(गास. ३.४४)

वेविर—सिण्ण—करंगुलि—परिग्गह—क्खलिअ—लेहणीमग्गे।
सोत्थि च्‍चिअ ण समप्पइ पिअसहि लेहंमि किं लिहिमो॥ ९२॥

(वेपनशीलस्विन्नकाराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे।
स्वस्त्येव न समाप्यते प्रियसखि! लेखे किं लिखामः॥)

अत्र स्वस्तिशब्दस्य माङ्गलिकत्वेन मुख्यत्वाल्लेखे प्राङ्निवेशस्ततो व्यवहितस्थाननाम्‍नोरथ प्रतियोगिनोऽनन्तरमक्षरस्य, ततः सन्देशस्येति क्रमः।

६. प्रावृत्तिकक्रमो यथा—(गास. ५.२५)

पढमं वामणविहिणा पच्छा हु कओ विअंभमाणेण।
थणजुअलेण इमीए महुमहणेण व्व बलिबंधो॥ ९३॥

(प्रथमं वामनविधिना पश्चात् खलु कृतो विजृम्भमाणेन।
स्तनयुगलेनैतस्याः मधुमथनेनेव बलिबन्धः॥)

अत्र त्रिविक्रमप्रवृत्तावपि स्तनप्रवृत्तावपि (च) प्राग् वामनत्वं, ततो विजृम्भणं, पश्चाद् बलिबन्ध इति क्रमः। सिद्धेषु च भेदाङ्गाङ्गिभावक्रमेषु शब्दानामनेकार्थत्वेन कदाचिद् यौगपद्येनार्थानामनुष्ठेयत्वादिप्राप्‍तौ तदर्थं निर्धारणापेक्षा।

(४. अधिकारविधिप्रमाणानि —६)

तत्राधिकारविध्यपेक्षितानि समस्तानेकार्थशब्दसाधारणाद्यर्थप्रकरणादीनि षट्प्रकाराणि— ‘अर्थः, प्रकरणं, लिङ्गम्, औचित्यं, देशः, काल’ इति। निर्धारणं विभागतः पृथक्करणम्। तद्—

१. अर्थतो यथा—(सक. ४.२३०)

गतिर्वेणी च नागेन वपुरूरू च रम्भया।
पाणी प्रवालैरोष्ठौ च तस्यास्तुल्यत्वमाययुः॥ ९४॥

अत्र गतिर्गजसदृशी, वेणी सर्पसदृशी, वपुः सुरस्त्रीसदृशं, ऊरू कदलीसदृशौ, पाणी पल्लवोपमौ, ओष्ठौ विद्रुमोपमाविति अर्थतोऽनेकार्थशब्दार्थविभागः।

२. प्रकरणाद् यथा—

लच्छीए मुद्धकुवलअदलुज्जला जलहि—महण—विरमम्मि।
दिट्ठी जअइ सअंवरमाल व्व हरिम्मि णिवडंती॥ ९५॥

(लक्ष्म्या मुग्धकुवलयदलोज्ज्वला जलधिमथनविरमे।
दृष्टिर्जयति स्वयंवरमालेव हरौ निपतन्ती॥)

अत्र लक्ष्मीस्वयंवरणप्रकरणतो हरिशब्देन विष्णुरुच्यते।

३. लिङ्गतो यथा—

कलहोलुज्जलगोरं कलहोअसिआसु सरअराईसु।
चुंबंति अद्‍धअच्छं विअत्त/द्ध—जुअईमुहं धण्णा॥ ९६॥

(कलधौतोज्‍जलगौरं कलधौतसितासु शरद्‍रात्रिषु।
चुम्बन्ति अर्धक्षं विदग्ध/विवृतयुवतीमुखं धन्याः॥)

अत्र गौरसितशब्दाभ्यां कलधौतशब्दस्य स्वर्णरौप्यवाचकत्वेन यथाक्रमं युवतिमुखशरद्‌विभावर्योरुपमानविभागः।

४. औचित्यतो यथा—(रघु. ६.८३)

सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः।
आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम्॥ ९७॥

अत्राङ्गनारूपमौचित्यात्। करभशब्देन धनुःकोट्यग्रभागो विधीयते, नोष्ट्रावयव इति।

५. देशतो यथा—

पउमप्पहं दिअं कं मअच्छि पुंडरिअपुंडरीएण।
करसंधिएण मग्गसि पुंडरीअसमाउले रण्णे॥ ९८॥

(पद्मप्रभं द्विजं कं मृगाक्षि! पुण्डरीकपुण्डरीकेण।
करसंहितेन मार्गयसि पुण्डरीकसमाकुले अरण्ये॥)

अत्र देशतः पुण्डरीकशब्दोऽरण्यविशेषणे व्याघ्रमाह, करस्थाने पद्ममातपत्रस्थाने छत्रमिति विभागः।

६. कालतो यथा—(गास. १.६४)

उअरि—दर—दिट्ठ—खण्णुअ—णिलीण—पारावआणं विरुएहिं।
णित्थणइ जाअविअणं सुलाहिण्णं व देवउलं॥ ९९॥

(उपरि—दर—दृष्ट—शङ्कु—निलीन—पारावतानां विरुतैः।
निस्स्तनति जातवेदनं शूलाभिन्नमिव देवकुलम्॥)

यथा वा—(गास. २.९)

पालेइ अच्छभल्लं व उअह कुग्गामदेउलद्दारे।
हेमंतआलपहिओ विज्झाअंतं पलालग्गिं॥ १००॥

(पाटयत्यच्छभल्लमिव पश्यत कुग्रामदेवकुलद्वारे।
हेमन्तकालपथिको विध्मायमानं पलालाग्‍निम्॥)

x x x x x x x x x x x x x x

(त्रुटिरत्रेति—राघवजोशेरौ)

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङगारप्रकाशे पूर्वानुरागविप्रलम्भप्रकाशनो नाम

॥ पञ्चविंशः प्रकाशः॥ २५॥