अथ
शृङ्गारप्रकाशे चतुर्विंशः प्रकाशः
विप्रलम्भान्वर्थप्रकाशः
तत्र सम्भोगो विप्रलम्भमन्तरेण न प्रकर्षमारोहतीति विप्रलम्भ एव प्रथममुपादीयते।
स च एवमुपजायते—
‘नायकयोः प्रागसङ्गतयोः सङ्गतवियुक्तयोर्वा मिथो दर्शनश्रवणाभ्यामवस्थिताभिमानजन्मा परस्परानुरागोऽन्यतरानुरागो वा अभिलषणीयालिङ्गनादीनामनवाप्तौ सत्यां समुपजायमानैस्तैस्तैरुत्कण्ठा— दिभिर्व्यभिचारिभावैर्मनोवाग्बुद्धिशरीरजन्मभिश्चानुभावैरनुविद्धः १प्राप्त— प्रकर्षावस्थो विप्रलम्भश्रृङ्गाराख्यां लभते।
स परस्परानुरागे उत्तमः।
नायिकानुरागे मध्यमः।
नायकानुरागे कनिष्ठः।
तस्य२ भेदा. — ‘प्रथमानुराग—मान—प्रवास—करुण’—विप्रलम्भाः।
तेऽपि नायकयोः प्रागसङ्गतयोः सङ्गतवियुक्तयोर्वा भवन्ति।
तत्र सङ्गतवियुक्तयोः प्रागसङ्गतयोश्च मानप्रवासकरुणाः।
(१. प्रथमानुरागः)
प्रथमानुरागश्च प्रागसङ्गतयोरेव। तदुक्तम्—‘स्त्रीपुंसयोरपूर्वादिदर्शनश्रवणजन्मा रूपगुणवयस्सम्पदुपकारापेक्षस्तदनपेक्षो वा मनःपक्षपातविशेषः प्रथीयान् प्रथमानुरागः’। १. ‘प्राप्तप्राप्यप्र.’ जो.रा.। २. तस्य विप्रलम्भस्य भेदाः ‘प्रथमानुरागविप्रलम्भ इति, मानविप्रलम्भ इति, प्रवासविप्रलम्भ इति, करुणविप्रलम्भ इति प्रत्येकं विप्रलम्भपदान्तपदवाच्या इत्यर्थः, स्वतन्त्रस्य विप्रलम्भस्यानुक्तत्वात्। सोऽभिलाषादिभेदाच्चतुष्षष्टिप्रकारः, नित्यादिभेदादष्टप्रकारः, उच्चादिभेदाद् द्विनवत्युत्तरशतप्रकारः, परस्परघातात् साष्टत्रिंशत्सपा(. . .) युतप्रकारः। तेषामेव हीनसमज्यायस्तया मिथो व्यतिषङ्गादनन्तप्रकारः सम्भवतीत्यभिहितं पुरस्तात्।
(२. मानः)
एवं च सति—प्रथमानुरागे तदनन्तरादिसम्भोगे वा दृष्टश्रुतानुमिताऽपराधजन्मा मिथो मिथुनमानसेषु रोषो मानः।
(३. प्रवासः)
सति पूर्वानुरागे सम्भोगेऽपि वा दैवदुर्विपाकादिजन्मा स्त्रीपुंसयोर्विदूर— देशवासः प्रवासः।
(४. करुणः)
प्ररूढस्नेहयोश्च दैवदुर्विपाकादिभिरेव एकनिपातेऽन्यस्य दुःखातिरेको हृदयदारुणः करुण इति।
तत्प्रभेदान् पुनरग्रतो यथावसरमुपवर्णयिष्यामः।
(विप्रलम्भस्य प्रकृत्यर्थः)
संज्ञास्तु नैताः पारिभाषिक्य एव, प्रकृतिप्रत्ययोपसर्गविभागकल्पनाया— मन्वर्थस्यापि सम्भवात्। तथाहि—
‘डुलभष् प्राप्तौ’ इत्यस्मात् विप्रशब्दपूर्वत्वे सति विशिष्टार्थवाचिनः सर्वकालेषु ‘भावे’ (३.३.१८) ‘अकर्तरि च कारके संज्ञायां’ (३.३.१९) वेति १घञि विप्रलम्भ इति रूपं भवति। तत्रायं लभिः प्राप्तावपि पठ्यमानः प्रोपसर्गयोगद् वञ्चने वर्तते। प्र(स्य) प्रकृतिविपरीतार्थवाचकत्वात्, तथा प्रतिष्ठते प्रवसति प्रस्मरतीति। प्राप्तिविपरीतश्चार्थो वञ्चनमेव। तथा चानेनैव वञ्चतेरर्थं निर्दिशति ‘गृधिवञ्च्योः प्रलम्भने’ (१.३.६९) इति। वञ्चनं तु चतुर्धा — ‘१. प्रतिश्रुत्य अदानं, २. विसंवादनं, ३. कालहरणं, ४. प्रत्यादानमि’ति।
तद् विविधं, विरुद्धं, व्याविद्धं, विप्रतिषिद्धमि’ति विशेषवाचिना व्युपसर्गेणोच्यते॥ तत्र — १. संज्ञायां वेति=संज्ञायां वस्ति जोशेरः, संज्ञायां वस्ति (घञि?) राघवः भावे अकर्त्तरि=भावे कर्त्तर्यकर्त्तरि च जोशेरः। (१. प्रतिश्रुत्यादानम्)
प्रतिश्रुत्यादानमित्ययं प्रकृत्यर्थः, विविधमित्ययं चोपसर्गार्थश्च प्रथमानुरागे घटते। तत्र हि इङ्गिताकारादिभिः स्वानुरागप्रकाशनं प्रतिश्रवः।
तस्य च पारतन्त्र्यं च लज्जाभयान्यतरानिच्छादिभिर्विविधमनेकप्रकारम— निर्वहणमेवादानं१ भवति। तत्र
प्रकृत्यर्थो यथा—(मामा. ४.४)
समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः।
तथाप्यस्मिन् दानप्रवणसमयेऽस्याः प्रविगल— त्प्रभं प्रातश्चन्द्रद्युति वदनमन्तर्दहति माम्॥ १॥
इत्यादि उपसर्गार्थो यथा—(मामा. १.३०)
परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च २संतापयति च॥ २॥
(२. विसंवादनम्)
ताप x x x तत्र विसंवाद ॰ ॰ नमित्ययं प्रकृत्यर्थो विरुद्धमित्ययं चोपसर्गार्थो माने सङ्गच्छते। तत्र हि मनोभिलषितालिङ्गनादीनां यथोक्तानामनवाप्तिर्विसंवादः।
स च व्यलीकादिजन्मभिरीर्ष्यायितादिभिरुपजायमानो विरुद्ध एव भवति। तत्र— प्रकृत्यर्थो यथा—
सोद्वेगस्य स्खलितवचसो यत्नसंस्तम्भिताश्रोः सावेगस्य श्रमजलभृतो दुर्निमित्तस्मितस्य।
भूयोभूयः कृतकघटितभ्रूलताभङ्गहेतो— र्मानस्यास्या रहसि कथितापह्नुतस्यास्ति नार्घः॥ ३॥
१. मेवादानं=मेवावदातं जोशेरः, राघवः। मूलं तु मूलानुसारि अस्मदुपकल्पितम्। २. ताप=मोह रा.जो. उपसर्गार्थो यथा—
लीलावती चरणचुम्बितमौलिमग्रे कान्तं विधूय विहितागसमुच्चचाल।
अत्रान्तरे मुखरनूपुरयुग्ममस्याः सौभाग्यगन्धगजडिण्डिमतां जगाम॥ ४॥
(३. कालहरणम्)
कालहरणमित्ययं प्रकृत्यर्थो व्याविद्धमित्ययं चोपसर्गार्थः प्रवासेऽनुषज्यते। तत्र हि देशविप्रकर्षात् तदैवालिङ्गनादीनामनवाप्तिः कालहरणम्।
तच्च कालविप्रकर्षोत्कण्ठादिभिरत्यायतं व्याविद्धमेव भवति। तत्र— प्रकृत्यर्थो यथा—(मेघ. १०८)
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ॥ ५॥ इत्यादि।
उपसर्गार्थो यथा—(मेघ. १०३)
त्वामालिख्य प्रणयकुपितां धातुरागैश्शिलायाम्॥ ६॥ इत्यादि।
(४. प्रत्यादानम्)
प्रत्यादानमित्ययं प्रकृत्यर्थो विप्रतिषिद्धमित्ययं चोपसर्गार्थः करुणे सम्बध्यते। तत्र दैवमेवेष्टसङ्गमादिमाच्छिनत्ति॥
यथोच्यते—(उराच. ४.१५)
सुहृदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम्।
पुनरकाण्डविवर्तनदारुणः परिशिनष्टि विधिर्मनसो रुजम्॥ ७॥
तच्च कस्यचिदपि कदाचिदपि मा भूयादिति विशेषेण प्रतिषिध्यमानं विप्रतिषिद्धमेव भवति॥ तत्र—
प्रकृत्यर्थो यथा—(रघु. ८.६७)
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्?॥ ८॥
उपसर्गार्थो यथा—(रघु. ८.६६)
धृतिरस्तमिता रतिश्च्युता गलितं गेयमृतुर्निरुत्सवः।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे॥ ९॥
ननु च प्रतिश्रुत्याऽदानादयश्चत्वारोऽपि प्रकृत्यर्थाः, विविधमित्यादयश्चत्वारोऽपि च उपसर्गार्थाः प्रथमानुरागादिषु चतुर्ष्वपि व्यवस्थासम्प्लवाभ्यामुपलभ्यन्ते।
तत् कथम्?
उच्यते प्रतिश्रुत्याऽदानमित्यादयो यथायथमुपसर्गा अविशिष्टाः प्रथमानुरागादिषु व्यवतिष्ठन्ते, इति। तथाहि—
(प्रथमानुरागे प्रतिश्रुत्यादानादयः)
(व्यवस्था)
प्रथमानुरागे प्रतिश्रुत्याऽदानं विविधमपि दृश्यते; यथा—(विसा. १.१८)
कथय किमिह बाले! का त्वमित्युल्लपंस्तां झटिति किल दुकूलस्याञ्चले धारयामि।
अगमदथ निकेतं क्वाप्यसौ शारयन्ती नव—कुवलय—माला—मांसलैर्दृष्टिपातैः ॥ १०॥
विविधमपि च यथा—(मामा. १.२९)
यान्त्या मुहुर्वलितकन्धरमाननं त— दावृत्तवृन्तशतपत्रनिभं वहन्त्या।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः॥ ११॥
तत्रैव कालयापनमपि व्याविद्धमपि ; यथा—(कुसं. ६.१)
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम्।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति॥ १२॥
व्याविद्धमपि च यथा—(मामा. ६.३)
मालत्याः प्रथमावलोकदिवसादारभ्य विस्तारिणो भूयः स्नेहविचेष्टितैर्मृगदृशा नीतस्य कोटिं पराम्।
अद्यान्तः खलु सर्वथाऽस्य मदनायासस्य मे सर्वतः कल्याणं विदधातु वा भगवती नीतिर्विपर्येतु वा॥ १३॥
तत्रैव प्रत्यादानमपि प्रतिषिद्धमपि यथा—(मामा. १.२२)
यद् विस्मयस्तिमितमस्तमितान्यभावमानन्दमन्दममृतप्लवनादिवासीत्।
तत्सन्निधौ तदधुना हृदयं मदीयमङ्गारचुम्बितमिव व्यथमानमास्ते॥ १४॥
विप्रतिषिद्धोऽपि यथा—(कादकसा. ४.१११)
गत्वा तमहमद्राक्षं तत्क्षणोत्क्रान्तजीवितम्।
चिरात् त्वमागताऽसीति रुषित्वेवमवस्थितम्॥ १५॥
(माने प्रतिश्रुत्यादानादयः)
एवं मानेऽपि प्रतिश्रुत्यादाने विविधं यथा—(अमरु. ८१)
कपोले पत्राली करतलनिरोधेन मृदिता॥ १६॥ इत्यादि
विविधं यथा—(अमरु. १४)
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमप्यानतिमति।
न दृष्टेः शैथिल्यं मिलन इति सन्तापयति मां निगूढान्तःकोपा कठिनहृदये संवृतिरियम्॥ १७॥
तत्रैव विसंवादनमविरुद्धं; यथा—
त्वया क्षान्तं क्षान्तं कुरु मुखमितो मां प्रतिकृतिः निधेहीमं पृष्ठे मम करमपक्रान्तनिहितः।
सखीनां निर्बन्धान्मम च धृतपाणेः प्रणमतः प्रिये काकुप्रीतेस्तव परमगूढं मयि रुषः॥ १८॥
विरुद्धं यथा—(अमरु. ८०)
अनालोच्य प्रेम्णः परिणतिमनापृच्छ्य सुहृद— स्त्वया दर्पान्मानः किमिति सरले! प्रेयसि कृतः।
समाकृष्टा ह्येते विरहदहनोद्भासुर—शिखाः स्वहस्तेनाङ्गारास्तदलमधुनाऽरण्यरुदितैः ॥ १९॥
तत्रैव कालहरणं व्याविद्धम्; यथा—(अमरु. ४९)
दूरादुत्सुकमागते विल/कसितं, सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं, गृहीतवसने कोपाञ्चितभ्रूलतम्।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णं क्षणा— च्चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ २०॥
व्याविद्धं यथा—
कृशप्राया रात्रिः कृशतनु! शनैर्येन विनम— त्प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव।
प्रणामान्तो मानस्त्यजसि न तथाऽपि क्रुधमहो! कुचप्रत्यासत्त्या हृदयमपि ते चण्डि! कठिनम्॥ २१॥
तत्रैव प्रत्यादानमपि प्रतिषिद्धं ; यथा—(अमरु. ३८)
कोपो यत्र भ्रुकुटिरचना विग्रहः॥ २२॥ इत्यादि
विप्रतिषिद्धं यथा—(अमरु. ६०)
लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले॥ २३॥ इत्यादि
(प्रवासे प्रतिश्रुत्यादानादयः)
अथ प्रवासेऽपि प्रतिश्रुत्यादानं विविधं; यथा—(मवीच. ५.२८)
प्रिये! हाहा क्वासि प्रकिर मधुरां वाचमधुना पराभूतैरित्थं विलपनविनोदोऽप्यसुलभः।
अनिन्द्यः पौलस्त्यो व्रजतु परिवादो मयि जरां यतो रूढे वैरे बहुगुणमनेन प्रतिकृतम्॥ २४॥
विविधं यथा—
कृतकरुचि/दितैर्बाष्पाम्भोभिः सदैन्यविलोकितै— र्वनमसि गता यस्य प्रीत्या तथाऽपि धृताऽम्बया।
नवजलधरश्यामाः पश्यन् दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये! स तव प्रियः॥ २५॥
तत्रैव विसंवादनमविरुद्धं; यथा—(सूमु. २४)
तन्वङ्ग्यास्त्वमिति प्रसादविशदं, नास्तीति खेदालसं चक्षुर्द्वारपथावतारिणि जने व्यापारयन्त्या मुहुः।
हर्षार्तिप्रभवाः प्रतिक्षणभवस्वेदाम्बुदाहज्वरे बाष्पाम्भःकणिकाः पयोधरतटे पुष्यन्ति शुष्यन्ति च॥ २६॥
विरुद्धं यथा—(काव्याद. २.१३३)
दूरे प्रियतमः सोऽयमागतो जलदागमः।
दृष्टाश्च फुल्ला निचुला न मृताऽस्मीति किंन्विदम्?॥ २७॥
(संप्लवः)
तत्रैव कालहरणमव्याविद्धं; यथा—(अमरु. १२)
प्रहरविरतौ मध्ये वाऽह्नस्ततोऽपि परेऽथ वा किमुत सकले यातेऽप्यह्नि प्रिय! त्वमिहैष्यसि।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालाऽऽलापैः सबाष्पझलज्झलैः॥ २८॥
व्याविद्धं यथा—(गास. ८४७वे.)
चिरजीवित्तणकिंखिरि! मा तम्म रसाअणेहि अथिरेहि।
विरहं पवज्ज, जाअंति जेण जुअ—दीहरा दिअहा॥ २९॥
(चिरजीवित्वकाङ्क्षिणि ! मा ताम्य रसायनैरस्थिरैः।
विरहं प्रपद्यस्व जायन्ते येन युगदीर्घा दिवसाः॥)
ततैव प्रत्यादानमप्रतिषिद्धं यथा—
उअ हुज्जंति पिउच्छा जाइ पिअसंगमम्मि सोक्खाइँ।
ताइँ विरहेण पिसुणेण धुग्गलिआइ कीरंति॥ ३०॥
(पश्य भविष्यन्ति पितृष्वसो यानि प्रियसङ्गमे सौख्यानि।
तानि विरहेण पिशुनेन गालितानि क्रियन्ते॥)
प्रतिषिद्धं यथा—
मुग्धे! प्रेषय यामि यान्ति पथिकाः कालोऽवधिः कथ्यता— मुद्विग्ना किमकाण्ड एव भवती तूष्णीं किमेवं स्थिता?।
पूर्वोक्तोपरतां प्रियेण दयितामाश्लिष्य तत्तत्कृतं दत्तो येन समस्तपान्थ—निवह—प्राणान्तको डिण्डिमः॥ ३१॥
(करुणे प्रतिश्रुत्यादानादयः)
तथा करुणे प्रतिश्रुत्यादानं विविधं; यथा—(कुसं. ४.२)
अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने।
न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम्॥ ३२॥
विविधं यथा—(कुसं. ४.९)
हृदये वससीति मत्प्रियं यदवोचः॥ ३३॥
इत्यादि तत्रैव विसंवादनमविरुद्धं; यथा—(कुसं. ४.७)
उपमानमभूद् विलासिनां करणं यत् तव कान्तिमत्तया।
तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः॥ ३४॥
विरुद्धं यथा—(मामा. ९.१२, उराच. ३.२१)
दलति हृदयं गाढोद्वेगाद्, द्विधा तु न भिद्यते वहति विकलः कायो मोहं, न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाहः, करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी, न कृन्तति जीवितम्॥ ३५॥
तत्रैव कालयापनमव्याविद्धम्; यथा—(रघु. ८.९२)
तेनाष्टौ परिगमिताः समाः कथञ्चिद् बालत्वादवितथसूनृतेन सूनोः।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च॥ ३६॥
व्याविद्धं यथा—(उराच. ३.३३)
देव्या शून्यस्य जगतो द्वादशः परिवत्सरः।
प्रणष्टमिव नामापि न च रामो न जीवति॥ ३७॥
तत्रैव प्रत्यादानमप्रतिषिद्धम्; यथा—(कुसं. ३.७३)
तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम्।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव॥ ३८॥
प्रतिषिद्धं यथा—(उराच. १.२८)
अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये विकलकरणैरार्यचरितै— रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥ ३९॥
अथ प्रथमानुरागे विसंवादनमपि विविधम्; यथा—(शाकु. ३.२२)
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम्।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं, न चुम्बितं तु॥ ४०॥
कालहरणमप्यविरुद्धम् ; यथा—(शाकु. २.१२)
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा।
आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम्॥ ४१॥
माने प्रतिश्रुत्यादानमपि व्याविद्धम् ; यथा—(अमरु. १८)
एकत्रासनसंस्थिति; परिहृता प्रत्युद्गमात्॥ ४२॥
(पृ.११३३) इत्यादि अप्रतिषिद्धमपि विसंवादनम् ; यथा—(रत्ना. २.२१)
भ्रूभेदे सहसोद्गतेऽपि वदनं॥ ४३॥
इत्यादि। प्रवासे प्रत्यादानमपि विविधम्; यथा—(रामाभ्युदये)
यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता— स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥ ४४॥
विसंवादनमपि व्याविद्धं; यथा—(अमरु. ७६)
आदृष्टिप्रसरात् प्रियस्य पदवीमालोक्य निर्विण्णया विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति।
दत्त्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियाऽस्मिन् क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम्॥ ४५॥
करुणे कालहरणमप्यविरुद्धं ; यथा—(कुसं. ४.४६)
अथ मदनवधूरुप्लवान्तं व्यसनकृशा प्रतिपालयाञ्चकार।
शशिन इव दिवातनस्य रेखा किरणपरिक्षयधूसरा प्रदोषम्॥ ४६॥
विसंवादनमपि विविधं, यथा—(सक. ५.४३०)
ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः पुराणैरातङ्कग्लपितहृदयेन क्षितिभृता।
विना वाचा नैतत् क्षममिति विधायाननमधः पतद्बाष्पाम्भोभिर्लिखितमिव दत्तं प्रतिवचः॥ ४७॥
एवमन्येऽपि प्रकृत्यर्थोपसर्गार्थानां व्यवस्थासम्प्लवाः संदृश्यन्ते।
(रागानुरागयोः प्रकृतिप्रत्ययविवेचनम्)
अत्रोच्यते। संज्ञाशब्दानां यथाकथञ्चिद् व्युत्पत्तिदर्शने रूढिर्विषयमपहरति। तेन व्युत्पत्ति ॰ ॰ ॰ ॰ ॰(नि)यमो नोपपद्यते। स तत्रैव व्यवह्रियते। न चासावन्यत्र नास्ति। न चान्ये तत्र न सन्ति। तद् यथा—पङ्केरुहं सरसिजमिति। न हि ततः पङ्कं एव केवले रोहति, अपि तु सजले। न केवलं सरस्येव जायते, अपि तु वाप्यामपि। न च पङ्के पयसि सरसि वा पङ्कजमेव केवलम, अपि तु कशेरुक—मकर—मत्स्य— मुस्तादि अपीति। तद्वदिहापि द्रष्टव्यम्॥
किञ्च, यद्यपि प्रतिश्रुत्यादानमित्यादयोऽर्था मानादिष्वपि संभवन्ति, तथाऽपि यथा प्रथमानुरागे, प्रतिश्रुत्यादानं वैविध्यं च संविधानकेषु निरूप्यते, नैवमन्येषु। यद्यपि च विसंवादनादयोऽपि विरोधादिसहकृतास्तत्र विद्यन्ते, तथाऽपि यथा प्रितश्रुत्यादानं वैविध्यं च, नैवमेते ॰ ॰ ॰ ॰ णेत्यभिप्रायेणोक्तम् ‘प्रतिश्रुत्यादानमित्ययं प्रकृत्यर्थः, विविधमित्ययं चोपसर्गार्थः प्रथमानुरागे घटते’ इति॥
एतेन मानादिष्वपि विप्रलम्भशब्दस्य यथोक्तनिरुक्तयो व्याख्याताः।
कः प्रथमानुरागादिसंज्ञादीनामन्वर्थतायां प्रकृत्युपसर्गार्थप्रत्ययार्थविभागः?।
उच्यते। ‘रञ्ज रागे’ इत्यस्मात् ‘राजृ दीप्तौ’ इत्येतस्माद् वा भावकरणयोर्घञि राग इति रूपं भवति। ततश्च
१. अनुगतोऽनुरूपो वा रागः अनुरागः इति करणसाधनप्रत्ययोत्पत्तिपक्षेऽनुना समासः।
२. अनु=पश्चात् सह वा रागः अनुरागः इति भावसाधनप्रत्ययोत्पत्तिपक्षेऽनुना समासः। रञ्जयतिश्चेहानुषक्तिवचनो वर्णान्तरापत्तिवचनश्च गृह्यते। यथा अनुरक्तो भोजने, कषायेण रक्तं वस्त्रम् (काशिका ४.२.१) इति।
कथं तर्हि रक्तो वर्णः, पार्थिवं रज इति ?।
उपचाराद् रक्त इव रक्तः। तत्र प्राधान्येन कुसुम्भलाक्षादिना च रक्तं रक्तमुच्यते। यथा— ‘रक्तं वस्त्रमविधवा स्त्री धारयेत्’ (काशिका ४.२.१) इति; तद्वत् स्वभावतोऽपि यो भवेत् सोऽपि रक्त इत्युच्यते। यथा क/काषायो /यौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पादौ’ (काशिका ४.२.१) इति।
एवं रज इव रजः। यथा रजो नाम गुणविशेषः प्रत्यात्ममनुषज्यते, एवं पृथ्वीपरागः यः सर्वत्रानुषङ्गी स एवमुच्यते।
राजतिः पुनरिह शोभावचनः समृद्धिवचनश्च॥
यथा—(मामा. १०.४)
उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते।
मलीमसमुखी वर्तिः प्रदीपशिखयेव सा॥ ४८॥
यथा च—
येनेष्टं राजसूयेन सर्वभूमीश्वरश्च यः।
शास्ति यश्चाज्ञया राज्ञः स सम्राट् कथ्यते बुधैः॥ ४९॥
अस्माद् भावकरणयोरन्यत्र घञुत्पत्तिरिष्यते, रञ्जेस्तु भावकरणयोरेव घञि नलोपः; ततश्चायमर्थः सङ्गच्छते।
रज्यति अनुषज्यते विषयेष्वनेनेति रागः रूपलावण्यादिर्विषयधर्मः, प्रकृत्यादिराश्रयधर्मो वा।
राजत्यनेन प्रतियोगिनमात्मानं वा रागः रूपलावण्यादिराश्रयधर्मो विषयधर्मो वा।
राज्यते = स्वेदरोमाञ्चवैवर्ण्यादिभिर्वर्णान्तरमापद्यते विषय आश्रयो वा येन स राग उच्यते।
उभयोर्वक्त्रवीक्षितादिभिश्चेष्टाविशेषः प्रमोदविशेषो राजते शोभतेऽनेन समानशीलगुणवयोविद्याव्यसनेष्विति रागः। उत्तमप्रार्थनीयतादिभिरनुरूपुप्रार्थनादिभिर्वा उभयगतो विशेषः।
राजते = दीप्यते समुद्यते परं प्रकर्षमापद्यते रतिरतेनेति रागः — उभयगत इङ्गिताकारादिविशेषः, कालयापननेपथ्यविलेपनादिरुद्दीपनविशेषो वा।
भावसाधनपक्षे तु रतिरेका एवंप्रकारा रागशब्देनाभिधीयते। तस्य च यदनुना सहार्थेन सह समासस्तदा स्त्रियाः पुरुषस्य च तुल्यकाल एव रत्युत्पत्तावुत्तमः। यथा— (रघु. ७.२२)
अभूद् वरः कण्टकितप्रकोष्ठः॥ ५०॥
इत्यादि यदा अनुरागशब्दस्य पश्चादर्थेन अनुना समासस्तदा पुंसः पश्चादुत्पत्तौ मध्यमः।
यथा— (कुसं. ५.८६)
अद्यप्रभृत्यनवमङ्गि! तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ।
अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते॥ ५१॥
स्त्रिया पश्चादुत्पत्तौ कनिष्ठः। यथा— (गास. ३.४६)
मामि! हिअअं पीअं तेण जुआणेण मज्जमाणाए।
ण्हाणहलिद्दाकडुअं अणुसोत्तजलं पिअंतेण॥ ५२॥
(मातुलानि! हृदयमिव पीतं तेन यूना मज्जन्त्याः।
स्नानहरिद्राकटुकं अनुस्रोतोजलं पिबता॥)
करणसाधनप्रत्ययोत्पत्तिपक्षे तु यदाऽनुरूपो रागः अनुराग इत्यनुरूपार्थेनानुना समासः, तदा तदुद्गतस्य लावण्यादेः प्रसिद्धादेर्वा सिद्धमुत्तमत्वम्।
यथोच्यते— (गास. १.१२)
सच्चं जाणइ दट्ठुं सरिसम्मि जणम्मि जुज्जए राओ।
मरउ, ण तुमं भणिस्सं, मरणं वि सलाहणिज्जं से॥ ५३॥
(सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयमस्याः॥)
यदा पुनरनुगतार्थोऽनुना समासस्तदा स्त्रियाः पुरुषेच्छानुवृत्तौ मध्यमः।
यथा— (कुसं. ७.६५)
स्थाने तपो दुश्चरमेतदर्थमपर्णया कोमलयाऽपि तप्तम्।
या दास्यमप्यस्य लभेत नारी सा स्यात् कृतार्था, किमुताङ्कशय्याम्?॥ ५४॥
पुरुषस्य स्त्रीच्छानुवृत्तौ कनिष्ठः। यथा— (गास. १.८४)
सो तुह कएण सुंदरि! तह झीणो सुमहिलो हलिअउत्तो।
जह से मच्चरिणीएँ वि दोच्चं जाआएँ पडिवण्णं॥ ५५॥
(स तव कृते सुन्दरि! तथा क्षीणः सुमहिलो हालिकपुत्रः।
यथाऽस्य मत्सरिण्या अपि दूत्यं जायया प्रतिपन्नम्॥)
एतेन अन्यतरानिच्छायामनुरागाभासेऽप्यानुरूप्यं व्याख्यातम्। तत्र पुरुषस्यानिच्छायाम् उत्तमः। यथा—(किराता. १०.५०)
तदनघ! तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे।
पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः॥ ५६॥
स्त्रिया अनिच्छायां मध्यमः। यथा—(रघु. ६.६७)
सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ ५७॥
स्त्रिया एवात्या/न्यानुरागतस्तद्द्वेषे कनिष्ठः। यथा—(उरा. ५.२१)
श्वासालिङ्गनधूसरेण सुमुखी बिम्बाधरेणामुना पर्यन्तारुणतां दृशोर्विदधतो(ती) बाष्पैरविच्छेदिभिः।
क्षामक्षामकपोलमण्डलपतद्व्यालोललम्बालकै— रङ्गैरुज्झितभूषणैः कथमियं धत्ते नवं मण्डनम्?॥ ५८॥
(प्रथमानुरागः)
एवमवस्थितेऽत्यर्थवत्यनुरागशब्दे प्रथमशब्देन समासः — प्रतमश्चासावनुरागश्च प्रथमानुरागः, प्रथमं वाऽनुरागः प्रथमानुराग इति भावसाधनपक्षे। यथोच्यते— (मामा. ३.११/१२)
तदेवं प्रकृत्या सुकुमारः कदाचिदन्यत्रापरिक्लिष्टपूर्वस्तपस्वी, यतोऽधुनाऽशक्यमनेन मरणमप्यभवितुम् इति।
करणसाधनप्रत्ययोत्पत्तिपक्षे तु प्रथमायामन्यस्यामत्युरागः प्रथमानुरागः, प्रथमे उत्कृष्टेऽद्वितीये वाऽनुरागः प्रथमानुरागः। यथोच्यते—(कासू. ५.१९)
“एक एव सार्ववर्णिको नायकः, प्रच्छन्नश्च द्वितीयो विशेषलाभात्” इति।
(मानः)
सोऽयमनुरागः प्रेमगतेः स्वभावकुटिलत्वात् कुटिलतामालम्बमानो मान इत्युच्यते। का पुनर्माने निरुक्तिः ?
उच्यते। मान पूजायाम् मन ज्ञाने, ‘मनु (अव)बोधने’ माङ्माने इत्येतेभ्यो भावकरणादिष्वेव घञ्ल्युटोर्मान इति रूपं भवति। तथा हि—
१. मान्यते पूज्यतेऽनेनेति मानं(नः)। यथोच्यते—(गास. ५.६५)
पाअपडणाण मुद्धे! रहसबलामोडिचुंबिअव्वाणं।
दंसणमेत्तपसिज्जिरि! चुक्का बहुआण सोक्खाणं॥ ५९॥
(पादपतनानां मुग्धे! रभसबलात्कारचुम्बितव्यानाम्।
दर्शनमात्रप्रसन्ने वञ्चिता बहूनां सौख्यानाम्॥)
२. मन्यते दुःखैकहेतुमपि सुखसाधनमेवैनमिति मानः। यथोच्यते—(माघ. १०.२१)
मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचेताः।
योषिदित्यभिललाष न हालां दुस्त्यजः खलु सुखदभि/ पि मानः॥ ६०॥
३. मनुते बुध्यतेऽस्मात् प्रेमास्तित्वमिति मानः। यथा—(गास. ८२९)
जत्थ ण उज्जागरओ जत्थ ण ईसा विसूरणं माणं।
सब्भावचाडुअं जत्थ णत्थि णेहो तहिं णत्थि॥ ६१॥
{यत्र नोज्जागरो यत्र नेर्ष्या विसूरणं मानः।
सद्भावचाटुकं यत्र नास्ति स्नेहस्तत्र नास्ति॥}
४. मिमीते परि(च्छि)नत्ति प्रेम्णः प्रमाणमसाविति मानः। यथा—(हवि.)
कुविआ अ सच्चभामा समे वि वहुआँण णवर माणक्खलणे।
पाअडिअहिअअसारो पेमासंघसरिसो पअट्टइ मण्णू॥ ६२॥
(कुपिता च सत्यभामा समेऽपि वधूनां केवलं मानस्खलने।
प्रकटितहृदयसारः प्रेमाशंसासदृशः प्रवर्तते मन्युः॥)
कथं पुनर्मान इति ल्युडन्तस्य पुंसि प्रयोगः ?
शिष्टप्रयोगदर्शनात्।
यथाऽऽह महाभाष्यकारः — (मभा. १.३.१)
अस्ति क्रिया, किं तु साधनेभ्यः पृथागाख्यातुमशक्यम्, अनिर्लुठितगर्भवत्।
“साऽसावनुमानगम्या।
कोऽसावनुमानः?
यत् सर्वेषु साधनेषु सन्निहितेषु कदाचित् पचतीत्येतद् भवति, कदाचिन्न भवति (मभा. १.३.१)।” इति।
(प्रवासः)
अथानुराग एव देशान्तरव्यवधाने प्रवासाख्यां लभते।
का पुनः प्रवासे निरुक्तिः?
वस निवासे, वस आच्छादने इत्येतयोः प्रपूर्वयोर्भावकरणादिष्वेव घञि प्रवास इति रूपं भवति। तत्र —
१. वसेः प्रपूर्वस्य तद्विपरीतार्थवाचित्वे प्रवसनं प्रवासः। यथा—(मेघ. १.१)
कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः॥ ६३॥
इत्यादि २. प्रकर्षेण वासयति अनुरञ्जयति तन्मयतां नयति कामिनश्चित्तमिति वा प्रवासः।
यथा—(मेघ. १००)
अङ्गेनाङ्गं प्रतनु तनुना गाढं॥ ६४॥
इत्यादि ३. यदि वा प्रपूर्वो वसिर्णिजन्तः प्रमापणे वर्तते; यथा तूष्णीमेनं प्रवासयेत् इति।
ततश्च प्रवास्यन्ते हन्यन्ते वियोगिन इति प्रवासः। यथा—(अमरु. १३१)
ग्रामेऽस्मिन् पथिकाय पान्थ! वसतिर्नैवाधुना दीयते रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्तो युवा।
तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत् कृतं येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति॥ ६५॥
एते त्रयोऽपि वतस्यर्थाः।
४. अथ वस्तेरर्थः। आवसते आच्छादयन्त्यस्मिन् वियोगिन्यो विशेषवेषादिकमिति प्रवासः। यथा—(शाकु. ७.२१)
वसने परिधूसरे वसाना नियमक्षामतनुः कृशैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घां विरहव्यथां बिभर्ति॥ ६६॥
(करुणः)
अनुराग एवान्यतरविनाशे दुःखानुभवादिभिः करुणसंज्ञो भवति।
का पुनः करुणे निरुक्तिः?
उच्यते। करोतेः किरतेर्वा ‘कॄवृतृदारिभ्य उनन्’ इत्यौणादिके कर्तर्युनन्प्रत्यये करुण इति रूपं भवति। तत्रायं करोतिरभूतप्रादुर्भावोच्चारणनिक्षेपाभ्यङ्गेषु वर्तते। यथा—घटं करोति, पटं करोति; अभूतमुत्पादयतीति गम्यते। चोरंकारमाक्रोशति, दस्युङ्कारमाक्रोशति; चोरोऽसि दस्युरसीत्युच्चार्य क्रोशतीति गम्यते।
घटे कुरु, वृतः, घटे/कटे कुरु, कृतानं/उत्तानं, अश्मानमितः कुरु निक्षिपेति गम्यते। पादौ कुरु, पृष्ठं, कुरुः घृतेन तैलेन वा उन्मृदानेति गम्यते॥
किरतिस्तु विक्षेपे पठ्यते। विशिष्टस्य क्षेपो विक्षेपः; विशेषास्तु अस्य वैविध्यं विरुद्धता, व्याविद्धत्वम्, प्रतिषेध इति। तत्र
१. यदा किरतेः करुण इति रूपं, तदा विविधो व्याविद्धो विप्रतिषिद्धश्च दीर्घशोक एव करुणशब्देनोच्यते। स हि प्राणिनं सांसारिकेभ्यः सुखेभ्यो विक्षिपति।
यथा— (बारा.)
हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे।
वत्स राम! गतोऽसीति सन्तापादनुमीयसे॥ ६७॥
प्राणाः प्रयान्ति परितस्तमसाऽऽवृतोऽस्मि मर्मच्छिदो मम रुजः प्रतरन्त्यपूर्वाः।
अक्ष्णोर्मुखेन्दुमुपधेहि, गिरं च देहि हा पुत्र! मय्यकरुणः सहसैव मा भूः॥ ६८॥
(मवीच. ४.५५) २. यदा तु करोतेरभूतप्रादुर्भावनाद्यर्थवाचिनः करुण इति रूपं, तदा स्त्रीपुंसविषय आयोजितकामसूत्रः पुनस्समागमफलोऽनुराग एव करुणशब्देनोच्यते। तद् यथा— दुःखातिरेकान् भूतान् करोति प्रादुर्भावयतीति करुणः। यथा—(मामा. ९.२०)
मातर्मातर्दलति हृदयं, ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्मोहः स्थगयति, कथं मन्दभाग्यः करोमि?॥ ६९॥
३. करोति उच्चारयति विलापादिभिस्तद्गुणमिति करुणः। यथा—(कुसं. ४.४)
अथ सा पुनरेव विह्वला॥ ७०॥
इत्यादि ४. करोति स्थापयत्यनेन मरणजीवितयोरेकत्रेति करुणः। यथा—(कुसं. ४.४६)
इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार॥ ७१॥
इत्यादि ५. करोति अभ्यञ्जयति बहिरन्तश्च व्याप्नोति विस्रम्भोत्पत्त्या स्त्रीपुंसयोरन्यतरस्यायं हृदयमिति करुणः। यथा—(उराच. ३.२३)
विलुलितमपि पूरैर्बाष्षमानन्दशोक— प्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा।
स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते धवलमधूरमुग्धा दुग्धकुल्येव दृष्टिः॥ ७२॥
सोऽयं विप्रलम्भादिषूपसर्जनीकृतप्रत्ययार्थः प्रकृत्यर्थ उपवर्णितः।
(विप्रलम्भस्य प्रत्ययार्थः)
अथोपसर्जनीकृतप्रकृत्यर्थः प्रत्ययार्थो वर्ण्यते। तत्र भावः, कर्म, करणं सम्प्रदानं, अपादानं, अधिकरणं, कर्ता, हेतुकर्ता, भावकर्ता, कर्मकर्ता, कर्तृकर्म, भावकर्मेति प्रत्ययार्थाः। तेषु —
भावो यथा—
अवचनं वचनं प्रियसन्निधावनवलोकनमेव विलोकनम्।
अवयवावरणं हि यदंशुकव्यतिकरेण तदङ्गसमर्पणम्॥ ७३॥
कर्म यथा—(मामा. १.४०)
पश्यामि तामित इतश्च पुरश्च पश्चा— दन्तर्बहिः परित एव च वर्तमानाम्।
उद्बुद्धमुग्धकनकाब्जनिभं वहन्ती— मासङ्गि तिर्यगपवर्तितदृष्टि वक्त्रम्॥ ७४॥
करणं यथा—(मामा. ३.१६)
अविरलमिव दाम्ना पौण्डरीकेण नद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण।
कबलित इव कृत्स्न चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः॥ ७५॥
सम्प्रदानं यथा—(कुसं. ४.७)
कृतवानसि विप्रियं न मे प्रतिकूलं च न ते मया कृतम्।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते॥ ७६॥
अपादानं यथा—(अमरु. ११८)
किञ्चिन्मुद्रितपांसवः शिखिकूलैः सानन्दमालोकिता भग्नावासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः ।
एते ते निपतन्ति नूतनघनात् प्रावृड्भरारम्भिणो विच्छायीकृतविप्रयुक्तवनितावक्त्रेन्दवो बिन्दवः॥ ७७॥
अधिकरणं यथा—(उराच. २.२८)
यस्यां ते दिवसास्त्वया सह तथा नीताः पुनः स्वे गृहे यत्सम्बद्धकथाभिरेव सुचिरं दीर्घाभिरस्थीयत।
एकः सम्प्रति नाशितप्रियतमस्तामेव पापः कथं रामः पञ्चवटीं विलोकयतु वा गच्छत्वसंभाव्य वा॥ ७८॥
कर्ता यथा—
यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं॥ ७९॥
इत्यादि (पृ. ११८१) हेतुकर्ता यथा—(उराच. २.२६)
चिराद् वेगारम्भी विकृत इव तीव्रो विषरसः कुतश्चित् संवेगात् प्रचल इव शल्यस्य शकलः।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः पुरा/परावृत्तः शोको विकलयति मां नूतन इव॥ ८०॥
भावकर्ता यथा—
कुचद्वन्द्वे तस्मिन् द्विपकलश/कलभ—कुम्भस्थलतुलां दधानेऽस्मिन् कस्या युवतिषु न चित्तस्य रुजति।
तथोर्वोर्युग्मे वा द्रुतरुचिरचामीकररुचि विकर्षत्यूष्माणं कमिव न युवानं ज्वरयति?॥ ८१॥
कर्मकर्ता यथा—
तान्येतानि शिखण्डिताण्डवगुरूनम्भोधरानम्बरे तन्वानानि दिनानि नूनममृतस्यन्दीनि वन्दामहे।
उद्गाढा नवनीलनीरजदृशामत्यन्तमायामिनो भिद्यन्ते स्वयमेव येषु विषमा मानग्रहग्रन्थयः॥ ८२॥
कर्मकर्तृ यथा—
गर्जन्तेऽभिनवं व्रणं विकिरते चूतेषु पत्रोत्करः पुष्पैर्भूषयतेऽपमानविटपीवाप्यां मनो रज्यति।
ब्रूते वाक् स्वयमेव कोकिलमुखे मानग्रहो मोक्षते सम्प्रत्येष यथा तथा प्रियसखि! प्रौढिर्मधोर्मूर्च्छति॥ ८३॥
भावकर्म यथा—(शाकु. २.११)
अभिमुखे मयि संहृतमीक्षितम्॥ ८४॥
(पृ. १११५) इत्यादि (प्रत्ययोत्पत्तिकालाः)
अथ प्रत्ययोत्पत्तिकालाः।
के पुनस्ते ?
भूतो, भविष्यन्, वर्तमानोऽव्यक्त इति।
भूतः द्विधा— परोक्षभूतो, भूतानद्यतन इति।
भविष्यन् त्रिधा— भविष्यन्, भूतभविष्यन्, भविष्यदद्यतन इति।
वर्तमानस्त्रिधा— वर्तमानो भूतसामीप्यो भविष्यत्सामीप्य इति।
अव्यक्तस्त्रिधा— अव्यक्तः, अतिपन्नः, सङ्कीर्ण इति। तेषु
लुङादिवाच्यो भूतो यथा— (उराच. २.२२)
एतत् पुनर्वनमहो! कथमद्य दृष्टं यस्मिन्नभूम चिरमेव वयं वसन्तः।
आरण्यकाश्च गृहिणश्च रताः स्वधर्मे सांसारिकेषु च सुखेषु वयं रसज्ञाः॥ ८५॥
लिङादिवाच्यः परोक्षो यथा—(रघु. ८.४३)
विललाप स बाष्पगद्गदम्॥ ८६॥
(पृ. १०५४) इत्यादि लङादिवाच्यो भूतानद्यतनो यथा—(उराच. ३.२५)
करकमलविशी/तीर्णैरम्बुनीवारशष्पै— स्तरुशकुनिकुरङ्गान् मैथिली यानपुष्यत्।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्नवोद्भेदयोग्यः॥ ८७॥
लृङ्गादिवाच्यो भविष्यन् यथा—
प्रत्यागमिष्यसि भविष्यति सङ्गमोऽपि सम्पत्स्यते च हृदयाभिमतोऽभिलाषः।
एषा गता न पुनरेष्यति जीवितेश ! विद्युद्विलासतरला नवयौवनश्रीः॥ ८८॥
‘आशंसायां भूतवच्च’ (३.३.१३२) इति भूतभविष्यन् यथा—(रुद्रट. ७.६०)
अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः।
अयमायातः कालो हन्त हताः पथिकगोहिन्यः॥ ८९॥
लुङादिवाच्यो भविष्यदद्यतनो यथा—
भूमिः कण्टकिनी पुरो विटपिनः प्रायो बहूपद्रवा भूयः सैष दिवाकरो मृगयते सन्ध्यावधूसङ्गमम्।
का वा ते पथिक! त्वराऽद्य गमने ग्राम्ये विधेये जने प्रातः श्रान्तविनोदितेन मनसा स्थातासि गन्तासि वा॥ ९०॥
लङादिवाच्यो वर्तमानो यथा—(मामा. १.४४)
प्रसरति परिमाथी कोऽप्ययं देहदाह— स्तिरयति करणानां ग्राहकत्वं प्रमोहः।
रणरणकविवृद्धिं बिभ्रदावर्तमानं ज्वलति हृदयमन्तस्तन्मयत्वं च धत्ते॥ ९१॥
स एव भूतासन्नो भूतसामीप्यो यथा—(उराच. ६.३० )
विना सीतादेव्या किमिव हि न दुःखं रघुपतेः प्रियानाशे पुंसां जगदिदमरण्यं हि भवति।
स च स्नेहस्तावानयमपि वियोगो निरवधिः किमेवं त्वं पृच्छस्यनधिगतरामायण इव॥ ९२॥
भविष्यदासन्नो भविष्यत्सामीप्यो यथा—(कुसं. ४.२० )
इयमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयिनी भवामि ते।
चतुरैः सुरसुन्दरीजनैः प्रिय! यावन्न विलोभ्यसे दिवि॥ ९३॥
लिङादिवाच्योऽव्यक्तः। यथा—(रत्ना. २.१९ )
प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति, भवेदभ्युपगमः।
न मे दोषोऽस्तीति त्वमिदमपि विज्ञास्यसि मृषा किमेतन्मे वक्तुं क्षममिति न वेद्मि प्रियतमे!॥ ९४॥
लृङ्गादिवाच्योऽतिपन्नः। यथा— (मवीच. १.२७)
रामाय पुण्यमहसे सदृशाय सीता दत्तैव दाशरथिचन्द्रमसेऽभविष्यत्।
आरोपणेन पणमप्रतिकार्यमार्य— स्त्रैयम्बकस्य धनुषो यदि नाकरिष्यत्॥ ९५॥
धातुसम्बन्धोत्पन्नप्रत्ययवाच्यः सङ्कीर्णः। यथा—(कुसं. ५.१४)
अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्त्रवणैर्व्यवर्धयत्।
गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवाल्लभ्यमपाकरिष्यति॥ ९६॥
(क्रियापरिच्छेदिनः कालाः —१२)
त एते द्रव्यात्मानः क्रियात्मानो वा क्रियापरिच्छेदिनः कालाः।
अथापरे द्रव्यात्मानः क्रियासाधनरूपा विद्यन्ते।
के पुनस्ते ?
नित्यो, नैमित्तिकः, स्वभाविको वैपरामर्शिक इति। तेषु —
१. नित्यः — शाश्वतिको, वैकल्पिको, नैयोगिकश्च।
२. नैमित्तिकः — औद्योगिक, औपभोगिकः, प्रायोगिकश्च।
३. स्वभाविकः — आगन्तुको, नैसर्गिकः, सांसर्गिकश्च।
४. वैपरामर्शः — सङ्कीर्णः, प्रकीर्णो, विप्रकीर्णश्च,
इति प्रत्येकं त्रैविध्याच्चत्वारोऽपि ते द्वादश भवन्ति। तेषु —
(१. नित्यः —३)
१. (१.१) लवकाष्ठाक्षणनिमेषनाडिकामुहूर्तप्रहराहोरात्ररूपः शाश्वतिकः।
स यथा—
क्षणे निमेषे नाड्यां वा मुहूर्ते प्रहरेऽपि वा।
गते त्वमेष्यसीत्युक्ते रुरोद पथिकप्रिया॥ ९७॥
२. (१.२) दिनरात्रिपक्षमासर्त्वयनरूपो वैकल्पिकः।
यथा—(मेघ. १० ७)
संक्षिप्येत क्षणमिव कथं दीर्घयामा त्रियामा सर्ववस्थास्वहरपि कथं मन्दमन्दातपं स्यात्।
इत्तं चेतश्चटुलनयने! दुर्लभप्रार्थनां मे गाढोष्णाभिः क्षतमशरणं त्वद्वियोगव्यथाभिः॥ ९८॥
३. (१.३) संवत्सरयुगकल्पमन्वन्तरप्रलयमहाप्रलयरूपो नैयोगिकः।
स यथा—(रघु. ८.९२)
तेनाष्टौ परिगमिताः समाः कथञ्चिद् बालत्वादवितथसूनृतेन सूनोः।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च॥ ९९॥
तेऽमी त्रयोऽपि नित्यभेदाः; नित्यरूपेणैवानिवारितप्रवृत्तित्वात्।
(२. नैमित्तिकः — ४)
४. (२.१) प्रातः प्रत्यूषप्राह्णमध्याह्नापराह्णसन्ध्यारूप औद्योगिकः।
यथा—(सक. ४.१७९) (पृ. २८३)
शय्यन्ते हतशायिकाः पथि तरुच्छायानिषण्णाध्वगैः श्रीकण्ठायतनेषु धार्मिकजनैरास्यन्त उष्ट्रासिकाः।
शून्ये तेऽत्र(तत्र?) निकुञ्जशायिनि सखि! ग्रीष्मस्य मध्यन्दिने सज्जानां दयिताभिसारणविधौ रम्यः क्षणो वर्तते॥ १००॥
५. (२.२) निशामुखप्रदोषनिशीथापररात्रचन्द्रोदयन्द्रास्तमयरूप औपभोगिकः।
यथा—(सक.५.१३७)
विलिम्पत्येतस्मिन् मलयजरसार्द्रेण महसा दिशां चक्रं चन्द्रे सुकृतमयि/मथ तस्या मृगदृशः।
दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं ह्रिः पृष्ठे वचसि च गुणा एव भवतः॥ १०१॥
६. (२.३) शरद्धेमन्तशिशिरवसन्तग्रीष्मवर्षारूपः) प्रायोगिकः।
यथा—(विक्र. २.६)
इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति।
किमुत मलयवातोन्मूलितापाण्डुपत्रै— रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु॥ १०२॥
तेऽमी त्रयोऽपि नैमित्तिकभेदाः।
(३. स्वभाविकः —४)
७. (३.१) नित्यत्वेऽप्येषामुपभोगादेर्निमित्तत्वाद् मदप्रमदाभ्युदयोत्सवव्यसनपरिहारादिरूप आगन्तुः। यथा—(अमरु. ४१)
पटालग्ने पत्यौ नमयति मुखं जातविनया हठाश्लेषं वाञ्छत्यपहरति गात्राणि शनकैः।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना ह्रिया ताम्यत्यन्तः प्रथमपरिहारा नववधूः॥ १०३॥
८. (३.२) बाल्यकौमारयौवमौग्ध्यमाध्यस्थ्यप्रागल्भ्यरूपो नैसर्गिकः।
यथा—(मामा. १.३५)
मा मूमुहत् खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत्।
इत्यादि नन्विह निरर्थकमेव यस्मात् कामश्च जृम्भितगुणो नवयौवनं च॥ १०४॥
९. (३.३) परापरयौगपद्यायौगपद्यचिरक्षिप्ररूपः सांसर्गिकः। यथा—
आदौ तावन्नयनगमनस्वागतादिक्रियास्ताः पश्चादीषत्प्रहसितकथाभावसम्प्रेषितानि ।
भावेनान्तर्मनसि घटितः प्रीतिविस्त्रम्भयोगो विस्त्रम्भात् तु प्रसरति शनैः सर्वगात्रेष्वनङ्गः॥ १०५॥
तेऽमी त्रयोऽपि स्वाभाविकभेदाः, स्वभावत एव प्रवर्तमानत्वात्।
(४. वैपरामर्शः —४)
१०. (४.१) देश्यक्रीडाकेलिद्यूतव्रतगोष्ठीप्रेक्षादिरूपः सङ्कीर्णः। यथा—
सखि ! स विजितो वीणाद्यूते कयाऽपि खलु स्त्रिया पणितमभवत् तस्यां तस्मिन् निशाललितं ध्रुवम्।
कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि स्थितवति नभोमध्येपीन्दौ प्रियेण विलम्ब्यते?॥ १०६॥
११. (४. २) विविक्तदीर्घिकोद्यानसौधक्रीडादिदर्शनादिरूपः प्रकीर्णः। यथा—
पान्थ! द्वारवतीं प्रयासि यदि हे! तद्देवकीनन्दनो वक्तव्यः स्मरमन्त्रमोहविवशा गोप्यो न नामोज्झिताः।
एताः केतकपुष्पधूलिपटलैरालोक्य रम्या दिशः कालिन्दीतटभूमयोऽपि तव रे! नो यान्ति चिन्तास्पदम्॥ १०७॥
१२. (४.३) अष्टमीचन्द्रकेन्द्रोत्सव—यक्षरात्रिक—कुन्दचतुर्थी—सुवसन्तक—मदनत्रयोदश्या— दिरूपो विप्रकीर्णः। स यथा—(सक. ५.४०६)
अस्मिन् वर्षमहे न वर्तत इदं यत् कामदेवोत्सवे स्थेयं पुत्रि! निरन्नया, तदधुना किञ्चिन्मुखे दीयताम्।
इत्युक्ते जरतीजनेन कथमप्यध्वन्यवध्वा ततः पर्यस्तेऽहनि कल्पितश्च कबलो धौतश्च धारश्रुभिः॥ १०८॥
४. तेऽमी त्रयोऽपि वैपरामर्शिकभेदाः, विपरामृश्य स्वेच्छया प्रवर्तमानत्वात्।
स एव कालः कार्त्स्येन द्विरूप उपदर्शितः।
क्रियापदैकवाच्योऽयं क्रियायाः साधनं च यः॥ १०९॥
प्रत्ययार्थो द्वयं चैतत् समवेतमुदाहृतम्।
प्रकृत्यर्थानुरोधेन विप्रलम्भे चतुर्विधे॥ ११०॥
यो विप्रलम्भः प्रथमानुरागो मानः प्रवासः करुणः स एव।
साधर्म्यवैधर्म्यवशेन चैषामभेदभेदावथ तौ वदामः॥ १११॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे विप्रलम्भान्वर्थप्रकाशनो नाम
॥ चतुर्विंशः प्रकाशः॥ २४॥
सनातनेनास्य नितान्तसूक्ष्मविमर्शरम्यस्य परिच्छिदैव।
व्यवधाय्यनुच्छेदपरिच्छिदाभिरशुद्धशुद्ध्या च नितान्तकाम्यैः॥