२३ सम्भोग-विप्रलम्भप्रकाशः

अथ

शृङ्गारप्रकाशे त्रयोविंशः प्रकाशः

सम्भोग—विप्रलम्भप्रकाशः

१सोऽवस्थाद्वितयभेदाद् द्विप्रकारः — १. सम्भोगशृङ्गारः, २. विप्रलम्भशृङ्गारश्च।

१. अभिलषणीयालिङ्गनादीनामवाप्‍तौ सम्भोगः। स चतुर्धा—

१.१. प्रथमानुरागानन्तरः

१.२. मानानन्तरः

१.३. प्रवासानन्तरः

१.४. करुणानन्तरः, इति।

२. तेषामेवानवाप्‍तौ विप्रलम्भः। सोऽपि चतुर्धा—

२.१. प्रथमानुरागः

२.२. मानः

२.३. प्रवासः

२.४. करुणः, इति। तत्र—

२.१. स्त्रीपुंसयोः परस्परमपूर्वादिदर्शनश्रवणजन्मा रुपगुणवयस्सम्पदुकारोपेक्षः तदनपेक्षो वा मनःपक्षपातविशेषः प्रथीयान् प्रथमानुरागो विप्रलम्भः।

१.१. सति चैतस्मिन् तयोरेव प्रथमसङ्गमादौ अभिलषणीयालिङ्गनादिलाभः प्रथमानुरागानन्तरः सम्भोगः।

(१.२, २.२ लुप्‍ताविव)

२.३. सत्यनुरागे देवदुर्विपाकादिजन्मा तयोः विदूरदेशवासो विप्रलम्भः।

१.३. तदभिवृद्धौ प्रवृद्धोत्कण्ठयोरेव भूयस्समागमे अभिलाषादिनिष्पत्तिः प्रवासा— नन्तरः सम्भोगः।

२.४. प्ररूढस्‍नेहयोरेकविनिपाते अन्यस्य दुःखातिरेको हृदयदारुणः करुणः विप्रलम्भः।

१.४. तयोरेवादृष्टविशेषादिसम्पदा तदुन्मज्जनजन्मा मनःप्रमोदातिशयो विशेषवान् करुणानन्तरः सम्भोगः, इति। १. कामशृङ्गारः द्र. पृ. १०५२। प्रथमानुरागादीनां विप्रलम्भानां तदनन्तराणां च सम्भोगानां पृथक्पृथक् चतुर्णाँ समवाये पूर्वः पूर्वो विचित्रः, परः परो रागवर्धनः, इति।

वैचिञ्ये रागवर्धनत्वे वाऽपि विप्रलम्भः सम्भोगात् सर्वतः सर्वो बलीयान् इति।

एवं नित्यान् नैमित्तिकः, सामान्याद् विशेषः, प्रकाशात् प्रच्छन्नः, कृत्रिमादकृत्रिमः,रावर्धनत्वे;

वैचिञ्ये तु अकृत्रिमात् कृत्रिमः, प्रच्छन्नात् प्रकाशः, विशेषात् सामान्यः, नित्यान्नैमित्तिको बलीयान् इति (द्र. पृ. ११६१)।

नित्यसामान्यप्रकाशकृत्रिमाणां पूर्वः रागवर्धनः, परः परो विचित्रः इति।

नैमित्तिकविशेषप्रच्छन्नाकृत्रिमाणां पूर्वः पूर्वो विचित्रः, परः परो रागवर्धनः इति।

एवं मृदोश्चाटुः, समीचोऽतिशायी, वासन्ताद् वार्षिकः, प्रासादिकान्मदजः, समयजन्मनः सम्बन्धजन्मा, (सामान्याद्) गुणगोचरः, साधारणादसाधारणः,सांसर्गिका— न्नैसर्गिकः, प्रौढाविषयाद् नवोढाविषयः, प्रोषितपतिकाविषयाद् विरहोत्कण्ठिताविषयः, स्वाङ्गनाविषयात् पराङ्गनाविषयः, सुलभाद् दुर्लभः, आहार्याद् विस्त्रम्भजः, नित्यानुकारिणो नैमित्तिकानुकारी, प्रकाशानुकारिणः, प्रच्छन्नानुतारी बलीयान् इत्यादिप्रभेदेषु क्रमेण रागवर्धनत्वेऽपि, अतिक्रमेण तु वैचिञ्ये इत्यत्रापि यथायथं योजनीयामिति।

प्राक्‍प्रपञ्चितानुरागानुरूपाश्च प्रथमानुरागमानप्रवासकरुणविप्रलम्भाः। तदानन्तर्यानुकारिणश्च तदनन्तराः सम्भोगाः, भावजन्मानुबन्धप्रकर्षानुरूपास्तदवस्थाः समृद्धयः, नायकप्रकृत्यनुरूपास्तदनुभावसम्पदः१, उत्तमत्वमुग्धत्वाद्यनुरूपाणि तेषां रामणीयकादीनि२, बलाबलानुरूपाः सम्पर्कानुगमभक्तयः३, संविधानकानुरूपास्तेषां संविदः४, सन्निकर्षविप्रकर्षप्रकर्षापकर्षवत्यो व्यतिकरप्रक्लृप्‍तयः५ इति। तत्र सम्भोगः—

(१. सम्भोगः)

१. स्वाङ्गनाविषयः ५. मध्यमाविषयः ९. प्रगल्भाविषयः

२. पराङ्गनाविषयः ६. कनिष्ठाविषयः १०. सर्व/र्वाविषयः

३. सामान्याविषयः ७. मुग्धाविषयः ११. सर्वकालविषयः

४. उत्तमाविषयः ८. मध्याविषयः १२. सर्वर्तुचर्याविषयः

इत्येवमादिरनेकप्रकारः। तत्प्रत्यनीकतया विप्रलम्भोऽपि तावत्प्रकार एव। केवलमस्य प्रथमानुरागादिषु पूर्वकालभाविता, सम्भोगस्य तु अनन्तरकालभावितेति विशेषः। १. द्र. पृ. ११६३, २. द्र. पृ. ११६५, ३. द्र. पृ. ११६७, ४. द्र. पृ. ११६८, ५. द्र. पृ. ११७१ १.१. तत्र सम्भोगः स्वाङ्गनाविषयो यथा—(गास. १.२३)

आणासआइँ देंती, तुह सुरए हरिस-विअसिअ-कवोला।
गोसे वि ओणअमुही, अह! सेत्ति पिआं ण सद्धहिमो॥ १॥

(आज्ञाशतानि ददती तथा सुरते हर्षविकसितकपोला।
गोसर्गे/ प्रभातेऽप्यवनतमुखी अहो! सेति प्रियां न श्रद्दध्मः॥)

१.२. पराङ्गनाविषयो यथा—(गास. ४.३३)

मुह-विज्झविअ-पईवं ऊससिअ-णिरुद्ध-संकिउल्लावं।
सवह-सअ-रक्खिओ चोरिअरमिअं सुहावेइ॥ २॥

(मुखविध्मापितप्रदीपं उच्छसितनिरुद्धशङ्कितोल्लापम्।
शपथशतरक्षितोष्ठं चौरीरतं सुखयति॥)

१.३. सामान्याविषयो यथा—(किराता. ८.२)

यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्धासितशौलवीरुधः।
वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपताम्॥ ३॥

१.४. उत्तमाविषयो यथा—

हरिसुल्लावा कुलपालिआण लज्जाकडच्छिए सुरए।
कंठब्भंतरभमिआ अहरे च्चिअ हुरुहुराअंति॥ ४॥

(हर्षोल्लापाः कुलबालिकानां लज्जाकदर्थिते सुरते।
कण्ठाभ्यन्तरभ्रमिता अधर एव हुरुहुरायन्ते॥)

१.५. मध्यमाविषयो यथा—

सुरआवसाणवलिओणआओ सेउल्लवअण—कमलाओ।
अद्धच्छिपेच्छिरीओ पिआओ धण्णा पुलोअंति॥ ५॥

(सुरतावसानवलितावनताः स्वेदार्द्रवदनकमलाः।
अर्धाक्षिप्रेक्षणशीलाः प्रियाः धन्याः प्रलोकयन्ति॥)

१.६. कनिष्ठाविषयो यथा—

पज्जत्तंमि वि सुरए विअलिअबंधं अ संजमंतीए।
विब्भमहसिएहि कओ पुणो वि मअणाउरो दइओ॥ ६॥

(पर्याप्‍तेऽपि सुरते विगलितबन्धं च संयमयन्त्याः।
विभ्रमहसितैः कृतः पुनरपि मदनातुरो दयितः॥)

१.७. मुग्धाविषयो यथा—(सक. ३.५७, ५. २२४)

पोढमहिलाण जं जं सुसिक्खिअं तं रए सुहावेइ।
जं जं असिक्खिअं णववहूणं तं तं रइं देइ॥ ७॥

(प्रौढमहिलानां यधत् सुशिक्षितं तद् रते सुखयति।
यधदशिक्षितं नववधुनां ततद् धृतिं ददाति॥)

१. ८. मध्याविषयो यथा—

परिओसिअ ह्यि सहि! तम्मि गाढपरिरंभमामुअंतंमि।
अणुमग्ग—समूससणा—णुबंध—फंसेहिं थणएहिं॥ ८॥

(परितोषिताऽस्मि सखि! तस्मिन् गाढपरिरम्भमामुञ्चति।
अनुमार्गसमु‍च्छ्‌वसनानुबन्धस्पर्शाभ्यां स्तनाभ्याम्॥)

१. ९. प्रगल्भाविषयो यथा—

सब्भावगब्भिणं पाअडंति तह किं वि वम्महरहस्सं।
रमणीओ जह ण विरमंति पत्त—सोक्खाइ वि रआइं॥ ९॥

(सद्भावगर्भितं प्रकटयन्ति तथा किमपि मन्मथरहस्यम्।
रमण्यो यथा न विरमन्ति प्राप्‍तसौख्यान्यपि रतानि॥)

१.१०. सर्वा विषयो यथा—

घेत्तुं मुच्चइ अहरो अण्णत्तो वलइ पोच्छिउं दिट्ठी।
घडिउं विहडंति भुआ रअम्मि सुरआअ वीसासो॥ १०॥

(ग्रहीतुं मुच्यते अधरः अन्यत्रोद‌्वलति प्रेक्षितुं दृष्टिः।
घटितुं विघटेते भुजौ रते सुरताय विश्वासः॥)

१.११. सर्वकालविषयेषु प्रभातविषयो यथा—(किराता. ९.७५)

निद्राविनोदितनितान्तरतक्लमानामायामिमङ्गलनिनादविबोधितानाम्।
रामासु भाविविरहाकुलितासु यूनां तत्पूर्वतामिव समादधिरे रतानिन॥ ११॥

१. १२ (क) सर्वर्तुचर्याविषयेषु वसन्तचर्याविषयो यथा—(गास. ६.४५)

दइअ—कअग्गह—लुलिओ धम्मिल्लो सीहुगंधिअं वअणं।
सअणम्मि एत्तिअं चिअ पसाहणं सहइ तरुणीणं॥ १२॥

(दयितकचग्रहलुलितो धम्मिल्लः शीधुगन्धि वदनम्।
शयन एतावदेव प्रसाधनं सहते तरुणीनाम्॥)

१.१२. (ख) ग्रीष्मविषयो यथा—

दइअस्स गिम्हवम्महसंदावे दो वि झति अवणेइ।
मज्जणजलद्दचंदणसिसिरा आलिंगणेण वहू॥ १३॥

(दयितस्य ग्रीष्ममन्मथसन्तापौ द्वावपि झटित्यपनयति।
मज्जनजलार्द्रचन्दनशिशिरा आलिङ्गनेन वधूः॥)

१.१२. (ग) वर्षर्तुविषयो यथा—

धारानिपातरवबोधितपञ्जरस्थदात्यूहडम्बरकरम्बितकण्ठकूजाः।
अट्टेषु काण्डपटवारितशीकरेषु धन्याः पिबन्ति मुखातामरसं तरुण्याः॥ १४॥

१.१२. (घ) शरच्चर्याविषयो यथा—

कलहोउज्जलगोरं कलहोअसिआसु सरअराईसु।
चुंबंति विअसिअच्छं विअद्धजुवईमुहं धण्णा॥ १५॥

(कलधौतोज्ज्वलगौरं कलधौतसितासु शरदरात्रिषु।
चुम्बन्ति विकसिताक्षं विदग्धयुवतीमुखं धन्याः॥)

१.१२. (ङ) हेमन्तविषयो यथा—(गारको. ६७२)

हेमंते दढ—पीलण—थणपुड—संकंतकुंकुम—प्फंसो।
मिहुणाण गलइ सेओ रुहिरुग्गारो व्व सीअस्स॥ १६॥

(हेमन्ते दृढपीडनस्तनपुटसङ्क्रान्तकुङ्कुमस्पर्शः।
मिथुनानां गलति स्वेदो रुधिरोद्रार इव शीतस्य॥)

१.१२ (च) शिशिरचर्याविषयो यथा—(गास. ७७२वे.)

किं तस्स पावरेएणं? किमग्गिणा? किं व गब्बघरएण?।
जस्स उरम्मि णिसम्मइ उम्हाअंतत्थणी जाआ॥ १७॥

(किं तस्य प्रावारेण? किमग्निना ? किं वा गर्भगृहेण?।
यस्योरसि निषीदति ऊष्मायमाणस्तनी जाया॥)

१.१२. (छ) आदिग्रहणात् प्रकीर्णाविषयो यथा—(सूमु. ६)

मधु च विकसितोत्पलावतंसं शशिकरपल्लवितं च सौधपृष्ठम्।
मदनजनितविभ्रमा च कान्ता सुखमिदमर्थवतां विभूतयोऽन्याः॥ १८॥

(२. विप्रलम्भः)

अथ विप्रलम्भः। सोऽपि सम्भोगवदेव।

तत्र—

२.१. स्वाङ्गनाविषयो यथा—

पिआ अद्दाअं देइ (णिअ)-गहवइं पुलअसेअसंवलिआ।
अज्जेव तस्स दिट्ठी पडिपलिहिइ एत्थ बिंबम्मि॥ १९॥

(प्रिया आदर्शँ ददा(धा)ति गृहपतिपुलकस्वेदसंवलिता।
अद्यैव तस्य दृष्टिः प्रतिफलिष्यत्यत्र बिम्बे॥)

२.२. परकीयाविषयो यथा—

अप्पत्तदंससउत्तम्मिरीए बालअ! तुमंमि बोलीणे।
पइपुरओ च्चिअ सासेहि खंडखंडेहि णीससिअं॥ २०॥

(अप्राप्‍तदर्शनोत्ताम्यन्त्या बालक! त्वयि व्यपक्रान्ते।
पतिपुरत एव श्वासैः खण्डखण्डैः विनिःश्वसितम्॥)

२.३. सामान्याविषयो यथा—

मण्णुब्भरिआ ण रुअइ संदिसइ ण णेहणिब्भतिसिअंति।
(खण्डित) मन्यूद‌्भरिता न रोदिति सन्दिशति न स्नेहनिर्भरिता॥ २१॥

(२.४) (२.५) खण्डितौ।

२. ६ कनिष्ठाविषयो यथा—(गास. ३.७५)

उज्झसि पिआइ समअं तह वि हु रे भणसि कीस किसिअत्ति।
उअरि भरेण अ अण्णुअ मुअइ वइल्लो वि अंगाइँ॥ २२॥

(उह्यसे प्रियया समं तथापि खल रे भणसि कस्मात् कृशेति।
उपरि भरेण तु अज्ञ! मुञ्चति बलीवर्दोऽप्यङ्गनि॥)

२.७. मुग्धाविषयो यथा—(वल. ३७९)

कइआ गओ पिओ? अज्ज पुत्ति! अज्जेण कइ दिणा होंति?।
एक्को, एद्दहमेत्तो भणिउं मोहं गआ बाला॥ २३॥

(कदा गतः प्रियः? अद्य, पुत्रि! अद्येति कति दिनानि भवन्ति ?।
एकः, एतावन्मात्रं भणित्वा मोहं गता बाला॥)

२. ८. मध्यमाविषयो यथा—(गास. ९२९ वे.)

तणुआइआ वराई दिअहेदिअहे मिअंकलेह व्व।
बहुलपओसेण व तुए णिसंस अंधारिअमुहेण॥ २४॥

(तनुकायिता वराकी दिवसेदिवसे मृगाङ्कलेखेव।
बहुलप्रदोषेणेव त्वया नृशंस! अन्धकारितमुखेन॥)

२.९. प्रगल्भाविषयो यथा—(गास. २.३३)

सअणे चिंतामइअं काऊण पिअं णिमीलिअच्छीए।
अप्पाणो उवऊढो पसिढिलवलआहिं वाहाहिं॥ २५॥

{शयने चिन्तामयं/मलिनं कृत्वा प्रियं निमीलिताक्ष्या।
आत्मा उपगूढः प्रसिथिलवलयाभ्यां बाहु्भ्याम्॥}

२.१०. सर्वविषयो यथा—

अंगाइ किलामिज्जंति विब्भलिज्जंति णिज्झविज्जंति।
कल्लोलिज्जंति जणस्स विअ दुल्लहे जणे दिट्ठे॥ २६॥

{अङ्गानि क्लाम्यन्ति विरज्यन्ते नित्यं पीयन्ते(?)।
कल्लोलन्ति जनस्येव दुर्लभे जने दृष्टे॥}

२.११ प्रभातविषयो यथा—(किराता. ९.७८)

गतवति नखलेखालक्ष्यतामङ्गरागे समददयितपीताताम्रबिम्बाधरोष्ठ्याः।
विरहविधुरमिष्टा सत्सखीवाङ्गनायाः हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः॥ २७॥

२.१२. (क) वसन्तचर्या यथा—(गास. ५.९९)

खेमं? कत्तो खेमं? जो सो खुज्जंबओ घरद्दारे।
तस्स इर मत्थआओ को वि अणत्थो समुप्पण्णो॥ २८॥

(क्षेमं? कुतः क्षेमं? योऽसौ कुब्जाम्रको गृहद्वारे।
तस्य किल मस्तकात् कोऽप्यनर्थः समुत्पन्नः॥)

२.१२. (ख) ग्रीष्मचर्याविषयो यथा—

गिह्मं गमेइ कहकहवि विरह—सिहि—ताविआ वि पहिअवहू।
अविरल—पडंत—णिब्भर—वाह—जलोल्लो—वरिल्लेण॥ २९॥

(ग्रीष्मं गमयति कथं कथमपि विरहशिखितापिताऽपि पथिकवधूः। अविरल—पतन्निर्भर—बाष्पजलार्द्रौ—परितनेन वस्त्रेण॥)

२.१२. (ग) वर्षतुचर्याविषयो यथा—(गास. १. २९)

अज्ज मए तेण विणा अणुहूअसुहाइँ संभरतीए।
अहिणवमेहाणँ रवो णिसामिओ वज्झपडहो व्व॥ ३०॥

(अद्य मया तेन विना अनुभूतसुखानि संस्मरन्त्या।
अभिनवमेघानां रवो निशमितो वध्यपटह इव॥)

२.१२. (घ) शरच्चर्याविषयो यथा—(गास. ५.१२)

सुप्पउ तइओ वि गओ जामो त्ति सहीओं! कीस मं भणह?।
सेहालिआण गंधो ण देइ सोत्तुं, सुअह तुम्हे॥ ३९॥

(स्वप तृतीयोऽपि गतो याम इति सख्यः! कस्मान्मां भणथ?।
शेफालिकानां गन्धो न ददाति स्वप्‍तुं, स्वपत यूयम्॥)

२.१२. (ङ) हेमन्तचर्याविषयो यथा—(गास. ७७४वे.)

हेमंते हिमरअधूसरस्स ओ असरणस्स पहिअस्स।
सुमरिअ—जाआ—मुह—सिज्जिरस्स सीअं चिअ पणट्ठंय़॥ ३२॥

(हेमन्ते हिमरजोधूसरस्य अहो अशरणस्य/ अप्रावरणस्य पथिकस्य।
स्मृतजायामुखस्वेदशीलस्य शीतमेव प्रनष्टम्॥)

२.१२. (च) शिशिरचर्याविषयो यथा—(गास. ९.२५वे.)

चरलच्छि! चंदवअणे! पीणत्थणि! करिकरोरु! तणुमज्झे!।
दीहा वि समप्पइ सिसिरजामिणी, कह णु दे माणो?॥ ३३॥

(तरलाक्षि! चन्द्रवदने! पीनस्तनि! करिकरोरु! तनुमध्ये!।
दीर्घाऽपि समाप्यते शिशिरयामीनि, कथं नु ते मानः?॥)

२.१२. (छ) आदिग्रहणात् प्रकीर्णविषयो यथा—

विलिम्पत्येतस्मिन् मलयजरसार्द्रेण महसा दिशां चक्रं चन्द्रे सुकृतमथ तस्या मृगदृशः।
दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं ह्नीः पृष्ठे वचसि च गुणा एव भवतः॥ ३४॥

प्रथमानुरागादीनामनन्तराणां च विस्तरतः प्रपञ्चमग्रतः१ क्रमेण वर्णयिष्यामः। इह तु दिङ‌‌्मात्रमुपलक्षणार्थमुदाह्नियते। तत्र—

१. प्रथमानुरागो यथा—(गास. १. ९३)

अविअण्हपेच्छणिज्जेण तक्खणं मामि! तेण दिट्ठेण।
सिविणअ—पीएण व पाणिएण तण्हा चिअ ण फिट्टा॥ ३५॥

(अवितृष्णप्रेक्षणीयेन तत्क्षणं मातुलानि! तेन दृष्टेन।
स्वप्नपीतेनेव पानीयेन तृष्णैव न भ्रष्टा॥)

१.१. प्रथमानुरागानन्तरो यथा—(कुसं. ८.१)

पाणिपीडनविधेरन्तरं शैलराजदुहितुर्हरं प्रति।
भावसाध्वसपरिग्रहादभूत् कामदोहदमनोहरं वपुः॥ ३६॥

२. मानो यथा—(अमरु. ८१)

कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुर्लग्नः कण्ठे तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे ननु वयम्॥ ३७॥

२.१. मानानन्तरो यथा—(उरा. १. १)

पौलस्त्यपीनमुजसम्पदुदस्यमानकैलाससम्भ्रमविलोलदृशः प्रियायाः।
श्रेयांसि वो दिशतु निर्हृतकोपचिह्नमालिङ्गनोत्पुलकमासितमिन्दुमौलेः॥ ३८॥

३. प्रवासो यथा—(अमरु. ९९)

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै—
र्यत्‍नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद‍्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाऽश्रुपूर्णे दृशौ
तामाशां पथिकस्तथाऽपि किमपि ध्यायन् मुहुर्वीक्षते॥ ३९॥

३.१. प्रवासानन्तरो यथा—(सूमु. ४)

आयाते दयिते मरुस्थलेभुवां सञ्चिन्त्य दुर्लङ्घतां गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे।
दत्त्वा पीलुशमीकरीरकबलान् स्वेनाञ्चलेनादरा— दुन्मृष्टं करभास्यकेसरसटाभाराग्रलग्नं रजः॥ ४०॥

१. चतुर्विँशः प्रकाशः द्र. पृ. ११५८ ४. करुणो यथा—(काव्याद. २.२८६)

यस्याः कुसुमशय्याऽपि कोमलाऽस्या रुजाकरी।
साऽधिशेते कथं देवी हुताशनवतीं चिताम्॥ ४१॥

४.१. करुणानन्तरो यथा—(मामा. १०.१५)

भवति विततश्वासोन्नाहप्रणुन्नपयोधरं हृदयमपि च स्निग्धं चक्षुर्निजप्रकृतौ स्थितम्।
वदनमदिकं मूर्च्छाच्छेदात् प्रसादि विराजते परिगतमिव प्रारम्भेऽह्नः श्रिया सरसीरुहम्॥ ४२॥

तेषां समवाये पूर्वः पूर्वो विचित्र इति करुणानन्तरत् प्रवासानन्तरो विचित्रः।

यथा—

दृष्टिर्वन्दनमालिका, स्तनयुगं लावण्यपूर्णौ घटौ शुभ्राणां प्रकरः स्मितं सुमनसां, वक्त्रप्रभा दर्पणः।
रोमाञ्चोद्गम एष सर्षपकणाः, पाणी तथा पल्लवः स्वाङ्गैरेव गृहं प्रियस्य विशतस्तन्व्या कृतं मङ्गलम्॥ ४३॥

(सक. ३.१०८) प्रवासानन्तराद् मानानन्तरः; स यथा—(सक. ५. २८५)

न स्पृष्टोऽपि त्रिदशसरिता दूरमीर्ष्यानुबन्धा— न्नाप्युन्मृष्टो भुजगपतिना तर्जनाभिर्जयायाः।
मानस्यान्ते नयनसलिलैः क्षालितः शैलपुञ्याः पत्युर्मौलौ नतिजुषि जयत्यात्मनः पादपांसुः॥ ४४॥

मानानन्तरात् प्रथमानुरागानन्तरः; स यथा—(नागा. ३.४)

दृष्टा दृष्टिमधो दधाति, कुरुते नालापमाभाषिता शय्यायां परिवृत्य तिष्ठति, बलादालिङ्गिता वेपते।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते जाता वामतयैव सम्प्रति मम प्रीत्यै नवोढा प्रिया॥ ४५।।

परः परो रागवर्धन’ इति प्रथमानुरागानन्तरान्मानानन्तरः; स यथा—

उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुं हु मुञ्च मममेति च मन्दं जल्पितं जयति मानवतीनाम्॥ ४६॥

मानानन्तरात् प्रवासानन्तरः; स यथा—(सक. ५.५४)

सहसा मा साहिज्जउ पिआगमो तीएँ विरहकिसिआए।
अच्चंतपहरिसेण वि जा अ मआ सा मअ च्चेअ॥ ४७॥

(सहसा मा कथ्यतां प्रियागमस्तस्या विरहकृशायाः।
अत्यन्तप्रहर्षेणापि या च मृता सा मृतैव॥)

प्रवासानन्तरात् करुणानन्तरः; स यथा—(उराच. ३. ३९)

आलिम्पन्नमृतमयैरिव प्रलेपैरन्तर्वा बहिरपि वा शरीरधातून्।
संस्पर्शः पुनरपि जीवयन्नकस्मादानन्दादपरविधं तनोति मोहम्॥ ४८॥

एवंविप्रलम्भेष्वपि करुणात् प्रवासो विचित्रः। स यथा—(मेघ. १००)

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्‍तेन तप्तं॥ ४९॥ इत्यादि।

प्रवासान्मानः स यथा—(अमरु. ९७)

भ्रुभेदोऽरुणितश्चिरं नयनयोरत्यन्तमीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः।
धैर्यँ धर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन्मया बद्धो मानपरिग्रहे परिकरः, सिद्धिस्तु दैवे स्थिता॥ ५०॥

मानात् प्रथमानुरागः स यथा—

क्वाकृत्यं? शशलक्ष्मणः क्व च कुलं ? भूयोऽपि दृश्‍येत सा रो(दो)षाणामुपशान्तये श्रुतमहो कोपोऽपि कान्तं मुखम्।
किं वक्ष्यन्त्यपकल्मषाः कृतधियो रेखैव साऽन्यादृशी चेतः! स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं पास्यति?॥ ५१॥

रागवर्धनत्वेन प्रथमानुरागान्मानः; स यथा—(गास. १.१९)

दूमेंति जे मुहुत्तं कुविअं दास व्व जे पसाअंति।
ते च्चिअ महिलाण पिआ सेसा सामि च्चिअ वराआ॥ ५२॥

(दूनयन्ति ये मुहुर्त्तँ कुपितं दासा इव ये प्रसादयन्ति।
त एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः॥)

मानात् प्रवासः ; स यथा—(गास. १.४६, वल. ३६५)

कल्लं किर खरहिअओ पवच्चसिहि दइओ त्ति सुव्वइ जणंमि।
तह वड्ढ भअवइ णिस! जह से कल्लं तिअ ण होइ॥ ५३॥

(कल्यं किल खरहृदयः प्रवत्स्यति दयित इति श्रूयते जने।
तथा वर्धस्व भगवति निशे! यथा तस्य कल्यमेव न भवति॥)

प्रवासात् करुणः ; स यथा—(गास. २.४२)

समदुक्खसोक्खपरिवड्‌ढिआण कालेण रूढपणआण।
मिहुणाण मरइ जं तं खु जीअइ, इअरं मअं होइ॥ ५४॥

(समदुःखसुखपरिवार्धितानां कालेन रूढप्रणयानाम्।
मिथुनानां म्रियते यत् तत् खलु जीवति, इतरन्मृतं भवति॥)

(विचित्ररागवर्धनः)

वैचित्र्ये रागवर्धनत्वे वा सम्भोगाद् विप्रलम्भो बलीयानिति। तत्र— वैचित्र्ये प्रथमानुरागानन्तरात् प्रथमानुरागः। स यथा—(सूमु. ४)

इन्दुर्यत्र न निन्द्यते, न मधुरं दूतीवचः श्रूयते, नालापा निपतन्ति बाष्पकलुषाः, नोपैति कार्श्यं वपुः।
स्वाधीनामनुकूलितां स्वगृहिणीमालिङ्ग्य यत् सुप्यते किं तत् प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते॥ ५५॥

रागवर्धनत्वे स यथा—(कुसं. ६.९५)

पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः।
कमपरमवशं न विप्रकुयुर्विभुमपि तं यदमी स्पृशन्ति भावाः॥ ५६॥

वैचित्र्ये मानानन्तरमानः ; स यथा—(गास. ८२९वे., वज्जा. ३३३)

जत्थ ण उज्जागरओ जत्थ ण ईसा विसूरणं माणं।
सब्भावचाडुअं जत्थ णत्थि, णेहो तहिं णत्थि॥ ५७॥

(यत्र नोज्जागरकं यत्र नेर्ष्याखेदो मानः।
सद्भावचाटुकं यत्र नास्ति स्‍नेहस्तत्र नास्ति॥)

रागवर्धनत्वे स एव यथा—

अणवरअ—केलि—पसरंत—सोक्ख—पब्भार—ईसि—कुंठइअं।
माणणिसा—णअ—णिच्छिअं होइ पुणो अहिणवं पेम्मं॥ ५८॥

(अनवरतकेलिप्रसरत्सौख्यप्राग्भारेषत्कुण्ठितम्।
माननिशातमिव भवति पुनरभिनवं प्रेम॥)

प्रवासानन्तरात् प्रवासो बलीयान्। स वैचित्र्ये यथा—(रघु. १३.२८)

पूर्वानुभूतं स्मरता च रात्रौ कम्पोत्तरं भीरु! तवोपगूढम्।
गुहाविसारीण्यतिवाहितानि मया कथञ्चिद् घनगर्जितानि॥ ५९॥

स एव रागवर्धनत्वे यथा—(उराच. १.३३)

शैलः सोऽयं ककुभसुरभिर्माल्यवान् नाम यस्मिन् नीलः स्‍निग्धः श्रयति शिखरं नूतनस्तोयवाहः।
आर्येणास्मिन्; विरम विरमातः परं न क्षमोऽस्मि प्रत्यावृत्तः पुनरिव स मे जानकीविप्रयोगः॥ ६०॥

करुणानन्तरात् करुणो बलीयान्। स वैचित्र्ये यथा—(शाकु. ७.२५)

मोहान्मया सुतनु! पूर्वमुपेक्षितस्ते यो बद्धबिन्दुरधरं परिबाधमानः।
तं तावदाकुटिलपक्ष्मविलग्‍नमद्य बाष्पं प्रमृज्य विगतानुशयो भवामि॥ ६१॥

स एव रागवर्धनत्वे यथा—(शाकु. ७.२१)

वसने परिधूसरे वसाना नियमक्षामतनुः कृतैकवेणिः।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घां विरहव्यथां बिभर्ति॥ ६२॥

एवं मानानन्तरप्रवासानन्तरकरुणानन्तरेभ्यः प्रथमानुरागः, प्रथमानुरागानन्तर— प्रवासानन्तरकरुणानन्तरेभ्यो मानः, मानानन्तरकरुणानन्तरप्रथमानुरागानन्तरेभ्यः करुणो बलीयानिति, वैचित्र्ये रागवर्धनत्वे च यथादर्शनमुदाहरणीयम्। एवं नित्यान्नैमित्तिको बलीयान्। स—

रागवर्धनत्वे यथा—(गास. ४.५५)

मा वच्‍च पुप्फलाई/लाविर देवा उअअंजलीहिं तूसंति।
गोलाणईएॅ पुत्तअ! सीलुम्मूलाइँ कूलाइँ॥ ६३॥

{मा व्रज पुष्पलाविन्/लवनशील! देवा उदकाञ्जलिभिस्तुष्यन्ति।
गोदानद्याः प्रत्रक! शीलोन्मूलकानि कूलानि॥}

सामान्याद् विशेषः। सोऽपि रागवर्धनत्वे यथा—(रघु. ६.६९)

तं वीक्ष्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात् कुमारी।
न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली॥ ६४॥

प्रकाशात् प्रच्छन्नो बलीयान्। सोऽपि तत्रैव, यथा—

सव्वाआरमणहरं भणइ पइं अडअणा पुलोअंती।
जारत्तणेण विहिणा मह एसो किं ण णिंमविओ?॥ ६५॥

{सर्वाकारमनोहरं भणति पतिं! असती प्रलोकयन्ती।
जारत्वेन विधिना ममैष किं न निर्मापितः/निर्मितः॥}

कृत्रिमादकृत्रिमो बलीयान्। सोऽपि तत्रैव, यथा—

यदहमनया ग्रामायण्या झटित्यवलोकितो मधुर—मधुर—स्‍निग्धस्‍निग्धोज्ज्वलोज्ज्वलया दृशा।
कपटचटुल x x x x x x x x x x x x॥६६॥

यथा—(जाह. १०.८६)

एकस्मिन् शयने मया मयसुतामालिङ्गय निद्रालसाम्॥६७॥

इत्यादि। तमःप्रकृतेः कनिष्ठकनिष्ठस्य विप्रलम्भेऽनुभावसम्पद् यथा—(वेसं. २.१२)

यस्मिंश्चिरप्रणयनिर्भरबद्धभावमावेदितो रहसि मत्सुरतोपभोगः।
तत्रैव दुश्चरितमद्य निवेदयन्ती ह्रीताऽसि पापहृदये न सखीजनेऽस्मिन्॥ ६८॥

अस्यैव सम्भोगे यथा—(वेसं. २.१३)

दिष्टयाऽर्धश्रुतविप्रलम्भवचनः क्रोधादहं नोद्गतो दिष्टया नो परुषं रुषाऽर्धकथिते किञ्चिन्मया व्याहृतम्।
मां प्रत्याययितुं विमूढहृदयं दिष्ट्या गताऽन्तं कथा मिथ्या दूषितयाऽनया विरहितं दिष्ट्या न जातं जगत्॥ ६९॥

तत्र धीरोत्तमाया विप्रलम्भेऽनुभावसम्पद् यथा—

ण कओ वि वाह/राह—मोक्खो माणक्खलणे वि ण पडिओ च्‍चिअ बाहो।
तीएँ णवरं पिअअमो गत इति अइत्तलोअणं णीससिअं॥ ७०॥

(न कृतोऽपि राग/बाष्पमोक्षो मानस्खलनेऽपि न पतित एव बाष्पः।
तया केवलं प्रियतमे गत इति आयत्तलोचनं निःश्वसितम्॥)

तस्या एव सम्भोगे यथा—(कुसं. ६.१)

अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम्।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति॥ ७१॥

धीरमध्याया विप्रलम्भेऽनुभावसम्पद् यथा—(सक. ५.४९२).

धीरेण माणभंगो माणक्खलणेण गरुअधीरारंभे।
उल्ललइ तुलिज्जंते एकम्मि वि से थिरं ण लगइ हिअअं॥ ७२॥

(धैर्येण मानभङ्गो मानस्खलनेन गुरुकधैर्यारम्भः।
उल्ललति तोल्यमाने एकस्मिन्नप्यस्याः स्थिरं न लगति हृदयम्॥)

तस्या एव सम्भोगे यथा—(हवि.)

तो से रुब्भंत च्‍चिअ हिअअविअंभंतहरिस—वेउच्छलिआ।
पाअपडिअस्स हरिणो पडिआ पुट्ठीए वाहसलिलत्थे॥ ७३॥

(ततस्तस्या रुध्यमाना एव हृदयविजृम्भमाणहर्षवेगोच्छलिताः।
पादपतितस्य हरेः पतिताः पृष्ठे बाष्पसलिलबिन्दवः॥)

अधीरोत्तमाया विप्रलम्भेऽनुभावसम्पद् यथा—

जाव अ ण देइ ओहिं परिरंभं जाव णेअ सिढिलेइ।
मरणेण पुणो अअं मह तावग्गरुआविओ अप्पा॥ ७४॥

(यावच्च न ददात्यवधिं परिरम्भं यावन्नैप शिथिलयति।
मरणेन पुनरयं मम तावद् गुरूकृत आत्मा॥)

तस्या एव सम्भोगे यथा—(सक. ५.१४८)

दिट्ठे जं पुलइज्जसि थरहरसि पिअम्मि जं समासण्णे।
तुह संभासण—सेउल्लि—फंसणे किं वि लज्जिहिसि॥ ७५॥

(दृष्टे यत् पुलकायसे थरहरायसे प्रिये यत् समासन्ने।
तथा संभाषणस्वेदार्द्रीकृतस्पर्शे किमिव लज्जिष्यसे?॥)

अधीरमध्यमाया विप्रलम्भेऽनुभावसम्पद् यथा—(गास. ७४३वे.)

भिउडीए पुलोहस्सं णिब्भच्छिस्सं परम्मुही होस्सं।
जं भणह तं करिस्सं सहिओ! जइ तं ण पेच्छिस्सं॥ ७६॥

{भ्रुकुट्या प्रलोकयिष्ये निर्भर्त्स्ये पराङ्मुखी भविष्यामि।
यद् भणत तत् करिष्ये सख्यो यदि तं न प्रेक्षिष्ये॥}

तस्या एव सम्भोगे यथा—(गास. ५.६५)

पाअ—पडणाणं मुद्धे! रहसबलामोडिचुंबिअव्वाणं।
दंसणमेत्तपसिज्जिरि चुक्का बहुआण सोक्खाण ॥ ७७॥

{पादपतनानां मुग्धे! रभसबलात्कारचुम्बितव्यानाम्।
दर्शनमात्रप्रसन्ने! च्युता बहूनां सौख्यानाम्॥}

अधीरकनिष्ठाया विप्रलम्भेऽनुभावसम्पद् यथा—(गास. ४.१४)

अच्छीइँ ता थइस्सं दोहिं पि हत्थेहिं तम्मि दिट्ठम्मि।
अगं कलंवकुसुमं व पुलइअं कहं णु ढक्‍किस्सं॥ ७८॥

(अक्षिणी तावत् स्थगयिष्यामि द्वाभ्यामपि हस्ताभ्यां तस्मिन् दृष्टे।
अङ्गं कदम्बकुसुममिव पुलकितं कथं नु छादयिष्यामि?॥)

तस्या एव सम्भोगे यथा—(गास. ४.६१)

णीसासुक्‍कंपपुलोइएहिँ जाणंति णच्‍चिउं धण्णा।
अम्हारिसीहिं दिट्ठे पिअम्मि अप्पा वि पम्मुसइ॥ ७९॥

(निःश्वासोत्कम्पप्रलोकितैर्जानन्ति नर्तितुं धन्याः।
अस्मादृशीनां/भिः दृष्टे प्रिये आत्माऽपि प्रमुष्यते॥)

उत्तमत्वमुग्धत्वानुरूपाणि रामणीयकानि। तत्रोत्तमत्वं मुग्धामध्याप्रगल्भासु, मुग्धत्वमुत्तमामध्याकनिष्ठासु रामणीयकहेतुरिति। तत्र—

मुग्धाया उत्तमत्वं सम्भोगे यथा—(सक. ५.३८५)

बालत्तणदुल्ललिआए अज्ज अणज्जं कअं णववहूए।
भाआमि घरे एआइणि ति णिंतो पई रुद्धो॥ ८०॥

(बालत्वदुर्ललितया अद्यानार्य कृतं नववध्वा।
बिभेमि गृहे एकाकिनीति निर्यन् पती रुद्धः॥)

विप्रलम्भे यथा—(गास. ९६७ वे.)

केलीगोत्तक्खलणे वरस्स डुंडुल्लइँ दिहिं देइ।
बहुवासअवासहरे बहुए वाहोल्लिआ दिट्ठी॥ ८१॥

(केलीगोत्रस्खलने वरस्य कम्पितां धृतिं ददा/धाति।
बहुवासकवासगृहे वध्वा बाष्पार्द्रिता दृष्टिः॥)

मध्याया उत्तमत्वं सम्भोगे यथा—

सुरआवसाणविलिओणआओ सेउल्लव—अण—कमलाओ।
अद्धच्छिपेच्छिरीओ पिआओ धण्णा पुलोअंति॥ ८२॥

(सुरतावसानवलितावनताः स्वेदार्द्रवदनकमलाः।
अर्धाक्षिप्रेक्षणशीलाः प्रियाः धन्याः प्रलोकयन्ति॥)

विप्रलम्भे यथा—(गास. १.८८)

जाणइ जाणावेउं अणुणअविद्दविअमाणपरिसेसं।
पवइरिक्कम्मि वि विणआवलंबणं स च्चिअ कुणंती॥ ८३॥

(जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम्।
विजने/व्यतिरिक्तेऽपि विनयावलंबनं सैव सत्यं कुर्वती॥)

प्रगल्भाया उत्तमत्वं सम्भोगे यथा—(अमरु. ७५)

कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहनसखीश्रोत्रप्राप्‍तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्‌वसितं पुनः॥ ८४॥

विप्रलम्भे यथा—(रत्‍ना. २.२१)

भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रताम्॥ ८५॥

इत्यादि। अथोत्तमामध्याकनिष्ठासु मुग्धत्वम्। तत्र—

उत्तमाया मुग्धत्वं सम्भोगे यथा—(गास. १.१५)

किं किं ते पडिभाअइ सहीहि इअ पुच्छिआए मुद्धाए।
पढमुल्लअदोहलिणिए णवरं दइअं गआ दिट्ठी॥ ८६॥

(किं किं ते प्रतिभासते/भाति सखीभिरिति पृष्टाया मुग्धायाः।
प्रथमार्द्र/प्रथमोद्गतदोहदिन्याः केवलं दयितं गता दृष्टिः॥)

विप्रलम्भे यथा—(वल. ३७९)

कइआ गओ पिओ? अज्ज पुत्ति! अज्जेणव कइ दिण होंति?।
एक्को, एद्दहमेत्तो भणिऊ मोहं गता बाला॥ ८७॥

(कदा गतः प्रियः? अद्य, पुत्रि! अद्येति कति दिनानि भवन्ति?।
एकं; एतावन्मात्रं भणित्वा मोहं गता बाला॥)

मध्यमाया मुग्धत्वं सम्भोगे यथा—(द्र. १५.२८६)

मुद्धत्तणेण बहुआ णंते वक्खारआहि सहिसद्धे।
अणुमग्गपअंत्ता/अट्टा पिअअमेण हसिऊण पडिरुद्धा॥ ८८॥

(मुग्धत्वेन वधूः याति रतिगृहात् सखीसार्धे।
अनुमार्गप्रवृत्ता प्रियतमेन हसित्वा प्रतिरुद्धा॥)

विप्रलम्भे यथा—(गास. ५.५३)

सहि! साहसु सब्भावेण पुच्छिमो किं असेसमहिलाणँ।
वड्ढंति करत्थं/ट्ठिआ च्‍चिअ वलआ दइए पउत्थम्मि॥ ८९॥

(सखि! साधय/कथय सद्भावेन पृच्छामः किं अशेषमहिलानाम्।
वर्धन्ते करस्थिता एव वलया दयिते प्रोषिते॥)

कनिष्ठाया मुग्धत्वं सम्भोगे यथा—(गास. २.४५)

सहिआहिँ भण्णमाणा थणए लग्गं कुसुंभपुप्फं ति।
मुद्धवहुआ हसिज्जइ पप्फोडंती णहवआइं॥ ९०॥

(सखीभिर्भण्यमाना स्तनयोर्लग्‍नं कुसुम्भपुष्पमिति।
मुग्धवधूर्हास्यते प्रस्फोटयन्ती नखपदानि॥)

विप्रलम्भे यथा—

अंदोलण—लंघिअ—तट्टिआएँ दिट्ठे तुमम्मि मुद्धाए।
आसंघिज्जइ काउं करपेल्लणणिच्‍चला दोला॥ ९१॥

(आन्दोलनलङ्घितवृतिकया दृष्टे त्वयि मुग्धया।
आशंस्यते कर्तुं करप्रेरणनिश्चला डोला॥)

बलाबलानुरूपाः सम्पर्कानुगमभक्तय इति। तत्र तुल्यबलयोर्युगपद् उपनिपाते सम्पर्कः। स द्विधा— सजातीययोर्विजातीययोश्च।

तत्र . . . . . प्रकृतकारणता सजातीयत्वं; यथा—(मामा. ६.९)

नैराश्यकातरधियो हरिणेक्षणायाः श्रुत्वा निकामकरुणं च मनोहरं च।
वात्सल्यमोहपरिदेवितमुद्वहामि चिन्ताविषादविपदं च मनोहरं च॥ ९२॥

विरुद्धाप्रकृतकारणता विजातीयत्वं; यथा—(मामा. १०.१०)

किमयमसिपत्रचन्दनरसच्छटाधारयुगपदवपातः ।
अनलस्फुलिङ्गकलिलः किमयमनभ्रः सुधावर्षः॥ ९३॥

अतुल्यबलयोरनुगमः। सोऽपि द्विधा— स्थितानुगमे, आगन्त्वनुगमे च। तयोः

आगन्तोर्बलवतः स्थितानुगमः; यथा—(विक्रमो. ५.१६)

आश्वासितस्य मम नाम सुतोपलब्ध्या सद्यस्त्वया सह कृशोदरि! विप्रयोगः।
व्यावर्तितातपरुजः प्रथमाभ्रवृष्ट्या वृक्षस्य वैद्युत इवाग्‍निरुपस्थितोऽयम्॥ ९४॥

स्थिते बलवति आगन्त्वनुगमः ; यथा—(मामा. ५.३१)

प्रणयसखीसलीलपरिहासरसाधिगतैः ललितशिरीषपुष्पहननैरपि ताम्यति यत्।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः॥ ९५॥

एतेन बहूनामप्युपगमे निपाते सम्पर्कानुगमसंविधिर्व्याख्यातः। तत्र—

सजातीयसम्पर्को यथा—(मामा. ५.२८)

राहोश्चन्द्रकलामिव॥ ९६॥

इत्यादि विजातीयसम्पर्को यथा—(मवीच. ५.२२)

न्यक्कारो हृदि वज्रकील इव मे तीव्रः परिस्पन्दते घोरान्धे तमसीव मज्जति मनः संमीलितं लज्जया।
शोकस्तार्क्ष्यविपत्तिजो दहति मां नास्त्येव यस्मिन् क्रिया मर्माण्येव पुनश्छिनत्ति करुणा सीतां वराकीं प्रति॥ ९७॥

बह्वनुगमस्थिते बलवति यथा—

क्‍वाकृत्यं शशलक्ष्मणः॥ ९७॥

इत्यादि। आगन्तौ बलवति यथा—(रत्‍ना. ४.२१)

प्राप्‍तो विक्रमबाहुरात्मसमतां॥ ९८॥

इत्यादि। संविधानकानुरूपास्तत्संविधय इति।

यत्र संविधानके यावतां प्रथमानुरागादीनामस्तित्वं तावन्तस्तत्र संविधीयन्ते।

क्‍वचिदेक एव। यथा—प्रवासो मेघदूते।

क्‍वचिद् . . . . (द्वय) यथा—प्रथमानुराग—(प्रथमानुराग)/?/नन्तरौ उषाहरणे।

क्‍वचित् त्रयं; यथा— प्रथमानुरागप्रवासकरुणाः कादम्बरी—प्रथमखण्डे।

क्‍वचित् चत्वारः; यथा— मान—मानानन्तर—प्रवास—प्रवासानन्तराः हरिविजये।

क्‍वचित् पञ्च; यथा— प्रथमानुराग—प्रथमानुरागानन्तर—करुण—करुणानन्तर— प्रवासा नागानन्दे।

कवचित् षड्; यथा— प्रथमानुराग—प्रथमानुरागानन्तर—करुण—करुणानन्तर— प्रवास—प्रवासानन्तराः मालतीमाधवे।

क्‍वचित सप्‍त; यथा— प्रथमानुराग—प्रथमानुरागानन्तर—(मान—मनानन्तर) प्रवास—प्रवासानन्तर—करुणाः कुमारसम्भवे।

क्‍वचिदष्टौ; यथा— प्रथमानुरागप्रथमानुरागानन्तरमानमानानन्तर(प्रवास— प्रवासानन्तर)—करुण—करुणानन्तराः तापसवत्सराजे।

एवं संविधानकानुरूपाः सर्वत्र विप्रलम्भसम्भोगयोः प्रकारसंविधयो विधातव्याः। ते चैकशो विप्रलम्भानामेव चत्वारः। सम्भोगवर्गस्तु निर्विशेषेणानन्तरव्यपदेशं न लभते। द्वाभ्यां द्वाभ्यां दश। तत्र विप्रलम्भैः सानन्तरैश्चत्वारः प्रथमानुरागस्य। मानप्रवासकरुणैः मानस्य। प्रवासकरुणाभ्यां प्रवासस्य करुणेन सम्प्रयोगे षडिति त्रिभिस्त्रिभिः षोडश। तत्र सानन्तरद्विकानां चतुर्णामितर— विप्रलम्भैस्त्रिभिस्त्रिभिर्व्यस्तैर्योगे द्वादश। समस्तैस्तैरेव चत्वार इति चतुर्भिश्चतुर्भिरेकोनविंशतिः।

तत्र सानन्तरद्विकानां चतुर्णामितरविप्रलम्भेभ्य एकैकहान्या द्वाभ्यां योगे प्राग्वदेव द्वादश। सानन्तरैश्च सानन्तराणां त्रिभिर्द्वाभ्यामेकेनेति योगे प्राग्वदेव षट्। चतुर्भिश्च विप्रलम्भैरेक इति, पञ्चभिः पञ्चभिः षोडश। तत्र सानन्तरद्विकानां त्रिभिस्त्रिभिरितरविप्रलम्भैर्योगे चतुर्णां चत्वारः सोऽसानन्तरद्विकद्वयीनां च षण्णामितरविप्रलम्भयोः पृथक्‌पृथगेकैकेन योगे द्वादशेति षड्भिः षड्भिर्दश। तत्रैकैः सानन्तरद्विकहान्या सानन्तरैश्चत्वारः। सानन्तरद्विकद्वयीनां च षण्णामितरविप्रलम्भा(नां) x x योगे षडिति सप्‍तभिः सप्‍तभिश्चत्वारः। तत्रैकैकमनन्तरं सम्भोगमेव जह्यात्। विप्रलम्भत्यागे सम्भोगस्य तदनन्तरव्यपदेशाभावात् अष्टक इत्येकत्वे(?) भेदा अशीतिः।

तेषां नित्यादिसम्भेदभेदः प्रत्येकमिष्यते।
द्विशती तत्प्रभेदानां पञ्चपञ्चाशदुत्तरम्॥ ९९॥

स्थितानामग्रिमैर्योगेऽनन्तराणामनन्तरैः ।
नित्यादिषु यथायोगं सम्भवे स्यादसंख्यता॥ १००॥

तथाहि, नित्यादयः पृथगवनतेऽनन्तरैर्योगे सप्‍त षट् पञ्च चत्वारः त्रयो द्वावेक इति द्विका अष्टाविंशतिः। एवं द्विकानामनन्तरैर्योगे चतुष्काः सप्‍ततिः। चतुष्काणां पञ्चकाः षट्पञ्चाशत्। पञ्चकानां षट्का अष्टविंशतिः। षट्काणां सप्‍तका अष्टौ। सप्‍तकानामष्टक एक एव। चतुरादिभ्योऽन्येषामसम्भवात् न प्रस्तारवृद्धिः।

तत्राष्टकयोगो यथा—(विक्रमो. २.१६)

मया नाम जितं यस्य त्वयाऽयं समुदीर्यते।
जयशब्दः सहस्राक्षादागतः पुरुषान्तरम्॥ १०१॥

सप्‍तकेषु नित्यनैमित्तिकसामान्यविशेषप्रकाशप्रच्छन्नाकृत्रिमाणां योगो यथा— (गास. २.९७. वल. ४७६)

पउर—जुआणो गामो महुमासो जोव्वणं पई ठेरो।
जुण्णसुरा साहीणा असई मा होउ, किं मरउ?॥ १०२॥

(प्रचुरयुवा युवको ग्रामो मधुमासो यौवनं पतिः स्थविरः।
जीर्णसुरा स्वाधीना असती मा भवतु, किं म्रियताम्?॥)

षट्‍केषु नित्यनैमित्तिकप्रकाशप्रच्छन्नविशेषाकृत्रिमाणां योगो यथा—(मामा. ६.६)

इयमवयवैः पाण्डुक्षामैरलङ्कृतमण्डना कलितकुसुमा वल्लीवान्तर्लता परिशोषिणी।
वहति च वरारोहा रम्यां विवाहमहोत्सव— श्रियमुदयिनीमत्यर्थं च व्यनक्ति मनोरुजम्॥ १०३॥

पञ्चकेषु नित्यनैमित्तिकविशेषप्रच्छन्नाकृत्रिमाणां योगो यथा—(विक्रमो. २.६)

इदमसुलभवस्तुप्रार्थनादुर्निवारं॥ १०४॥

इत्यादि। चतुष्केषु नित्यविशेषप्रच्छन्नाकृत्रिमाणां योगो यथा—(मामा. १.१५)

भूयोभूयः सविधनगरीरथ्यया॥ १०५॥

इत्यादि। त्रिकेषु नित्यनैमित्तिकाकृत्रिमाणां योगो यथा—(मामा. ३.१४)

प्रकृतिललितमेतत् सौकुमार्यैकसारं वपुरयमपि सत्यं दारुणः पञ्चबाणः।
चलितमलयवातोद्ध‍ूतचूतप्रसूनः कथमयमपि कालश्चारुचन्द्रावतंसः॥ १०६॥

द्विकेषु सामान्यविशेषयोर्योगो यथा—(शाकु. १.१५)

शान्तमिदमाश्रमपदम्॥ १०७॥ इत्यादि (पृ. १३०५)

केवलेषु नित्ययोगो यथा—(रघु. ७.२२)

अभूद् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी।
तुल्यं तयोस्तत्क्षणमात्मवृत्तिर्व्यक्तं विभक्तेव मनोभवेन॥ १०८॥

एवमन्येऽपि यावत्प्रभेदमुदाहर्तव्याः। तत्रैकशोऽष्टौ; द्विशोऽष्टाविंशतिः; त्रिशः षट्पञ्चाशत्; चतुर्भिश्चतुर्भिः सप्‍ततिः; पञ्चभिः षट्; षड्भिः षड्भिरष्टाविंशतिः; सप्‍तभिः सप्‍तभिरष्टौ; अष्टभिश्चैक इत्येकत्वे पञ्चपञ्चाशद् द्वे शते। अशीतिघातान् सहस्त्रैकान्नविंशतिः त्रिशती षष्टिश्च भवति।

सन्निकर्षविप्रकर्षप्रकर्षापकर्षवत्यो व्यतिकरप्रक्लृप्‍तय इति। तत्र— प्रत्यासन्नता सन्निकर्षः। विदूरता विप्रकर्षः। सन्निवेशचारुता प्रकर्षः। प्रकर्षविपर्ययो ह्यपकर्ष इति। तद्वत्यो नित्यादीनां प्रथमानुरागादीनां च व्यतिकरप्रकल्पना इति। तत्र नित्यादिषु सन्निकर्षवत्यः सजातीयानां, विप्रकर्षवत्यो विजातीयानां, प्रकर्षवत्यः अकृत्रिमादीनाम्। प्रथमानुरागादिषु सन्निकर्षवत्यो विप्रलम्भानां, विप्रकर्षवत्यः सम्भोगानां, प्रकर्षवत्यः सम्भोगान्तानां, अपकर्षवत्यो विप्रलम्भान्तानामिति।

स्वभावविपरामर्शैः सन्निकर्षादयो द्विधा।
अव्यवस्थाव्यवस्थाभिर्द्वेधा व्यतिकरक्रमः॥ १०९॥

(एवं) पूर्वानुरागादौ व्यवस्थानस्वभावयोः।
नित्यादावव्यवस्थानविपरामर्शयोः श्रुतिः॥ ११०॥

दिङ्‌मात्रमेतदुदितं प्रथमानुरागमानप्रवासकरुणैस्तदनन्तराणाम्।
भूयश्च रूपमखिलं खलु विप्रलम्भसम्भोगयोरनतिविस्तरतो वदामः॥ १११॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे विप्रलम्भसंभोगप्रकाशनो नाम

॥ त्रयोविंशः प्रकाशः॥ २३॥

भोजो राजा भोज एकोऽस्ति राजा साहित्याख्ये शास्त्रलोकेऽतिदीर्घे।
सूक्ष्मात् सूक्ष्मं तन्तुजातं य एष विश्‍लिष्याद्‍धोदाहरत्यञ्जसैव॥

भेदप्रभेदगणनाऽऽकलने नदीष्णा भोजा भवन्तु, वयमत्र तु भोगिनः स्मः।
भोगश्‍च भोग्यगणना च परस्परं किं दाम्पत्यसूत्रमुपगच्छति निर्विकारम्॥