अथ
श्रृङ्गारप्रकाशे द्वाविंशः प्रकाशः
अनुरागस्थापनप्रकाशः
इह खलु सकलसत्त्वोपकारक्षमद्वितीयाश्रमनिवासिभिश्चतुर्भिरपि वर्णैर्ब्राह्मणा— दिभिरुभयलोकसिद्धये सेव्यमानो धर्मार्थकामलक्षणस्त्रिवर्णः पुरुषार्थः।
एवमर्थं च कामं च धर्मं चाप्याचरन् नरः।
इहामुत्र च निश्शल्यमत्यन्तसुखमश्नुते॥ १॥
(कामसू. १.२.४९) यथा च—
यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति॥ २॥
तत्रापि धर्मार्थश्रृङ्गारयोर्हेतुभूतत्वात् कामश्रृङ्गार एव फलभूतत्वात् प्रधानम्। कामस्तु सामान्यरूपो विशेषरूपो वा सुखमेवाभिधीयते, इत्युक्तं १पुरस्तात्, इह तु उपचारात्—
सङ्कल्परमणीयस्य प्रीतिसम्भोगशोभिनः।
कुमारस्या/रुचिरस्याभिलाषस्य नाम काम इति स्मृतम्॥ ३॥
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति॥ ४॥
(उराच. २.१७) उक्तं च— (उराच. ६.१२, मामा. १.२७)
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु— र्न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते।
विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥ ५॥
तं च अनुराग इत्याचक्षते। ततश्च—(उराच. २.१९, ६.५)
अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥ ६॥
१. द्र. अत्रैव पृ. १०४९
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ ७॥
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे॥ ८॥
(किराता. ११.२७)
तदा रम्याण्यरम्याणि प्रियाः शल्यं तदाऽसवः।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा॥ ९॥
(किराता. ११.२८) (अनुरागः –६४)
तमभिलाषादिभेदात् चतुष्षष्टिप्रकारं व्याहरन्ति। तद् यथा—
१. अभिलाषः १७. आशा ३३. मोहः ४९. दाक्षिण्यम्
२. आकाङ्क्षा १८. आशीः ३४. आकूतम् ५०. अनुग्रहः
३. अपेक्षा १९. आशंसा ३५. कुतूहलम् ५१. वात्सल्यम्
४. उत्कण्ठा २०. मनोरथः ३६. विस्मयः ५२. अनुक्रोशः
५. ईप्सा २१. आस्था ३७. रागः ५३. विश्वासः
६. लिप्सा २२. अभिनिवेशः ३८. वेगः ५४. विस्त्रम्भः
७. इच्छा २३. अनुबन्धः ३९. अध्यवसायः ५५. वशीकारः
८. वाञ्छा २४. आग्रहः ४०. व्यवसायः ५६. प्रणयः
९. तृष्णा २५. विमर्शः ४१. कामना ५७. प्राप्तिः
१०. लालसा २६. मनीषा ४२. वासना ५८. पर्याप्तिः
११. स्पृहा २७. अभिप्रायः ४३. स्मरणम् ५९. समाप्तिः
१२. लौल्यम् २८. पक्षपातः ४४. सङ्कल्पः ६०. अभिमानाप्तिः
१३. गर्धः २९. लोभः ४५. भावः ६१. स्नेहः
१४. श्रद्धा ३०. आसङ्गः ४६. हासः ६२. प्रेमा/प्रेम
१५. रुचिः ३१. अभिष्वङ्गः ४७. रतिः ६३. आह्लादः
१६. दोहदम् ३२. सक्तिः ४८. प्रीतिः ६४. निर्वृतिः, इति।
एते भेदाश्चतुष्षष्टिरनुरागस्य नामतः।
उदाहरणमालैषां रूपव्यक्त्यै निदर्श्यते॥ १०॥
१. तत्र कृताभिलाषा यथा—(शाकु. २.२०)
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैः अनाविद्धं/मुक्तं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमपि च तद्रूपमनघं न जाने भोक्तारं कमिह/व समुपस्थास्यति विधिः॥ ११॥
२. आकाङ्क्षा यथा—(गास. ४.४२)
एक्कक्कम—संदेसाणुराअ—वड्ढंत—कोउहल्लाइं।
दुक्खं असमत्तमणोरहाइँ अच्छंति मिहुणाइँ॥ १२॥
(अन्योन्यसन्देशानुरागवर्धमानकौतूहलानि ।
दुःखमसमाप्तमनोरथानि तिष्ठन्ति मिथुनानि॥)
३. अपेक्षा यथा—(गास. २.१००)
भद्द! पुलोअअ इमं विहसिअवअणा पइस्स ओप्पेइ।
जाआ सुअपढमुब्भिण्णदंतजुअलंकिअं बोरं॥ १३॥
(भद्रं! प्रलोकय इमं विहसितवदना पत्युरर्पयति।
जाया सुतप्रथमोद्भिन्नदन्तयुगलाङ्कितं बदरम्॥)
४. उत्कण्ठा यथा—(गास. १.७३)
जं जं सो णिज्झाअइ अंगोआसं महं अणिमिसच्छो।
पच्छाएमि अ तं तं इच्छामि अ तेण दीसंतं॥ १४॥
(यं यं स निध्यायति अङ्गावकाशं ममानिमिषाक्षः।
प्रच्छादयामि च तं तम् इच्छामि च तेन दृश्यमानम्॥)
५–७. न लब्धानि . . . . . . . . . . . .।
. . . . . . . . . . . . . . . . .. . . . . . . . .. .॥
७. वाञ्छा यथा—(गास. ३.२१)
ता किं करेउ जं जइसि तीअ वइवेढवेलिलअथणीए।
पाअंगुट्ठद्धक्खित्तणीसहंगीए वि ण इ दिट्ठो॥ १५॥
(तत् किं करोतु यदि त्वं असि तया वृतिवेष्टनप्रेरितस्तनया।
पादाङ्गुष्ठार्धक्षिप्तनिस्सहाङ्गयाऽपि न दृष्टः॥)
९. तृष्णा यथा—(गास. १.९३)
अविअण्हपेच्छणिज्जेण तक्खणं मामि! तेण दिट्ठेण।
सिविणअपीएण व पाणिएण तण्ह च्चिअ ण फिट्ठा॥ १६॥
(अवितृष्णप्रेक्षणीयेन तत्क्षणं मातुलानि! तेन दृष्टेन।
स्वप्नपीतेनेव पानीयेन तृष्णैव न मृष्टा॥)
१०. लालसा यथा—
घडिऊरुसंपुडं णववहूए जहणं वरो पुलोएइ।
संदट्ठ—णव—कपाडं दारं पिव सग्ग—णअरस्स॥ १७॥
(घटितोरुसंपुटं नववध्वा जघनं वरः प्रलोकयति।
सन्दष्टनवकवाटं द्वारमिव स्वर्गनगरस्य॥)
११. स्पृहा यथा—(गास. ६.७५)
कस्स करो बहुपुण्णप्फलेक्कतरुणो तुहं विसंमिहइ।
थणपरिणाहे वंमह—णिहाण—कलसे व्व पारोहो॥ १८॥
(कस्य करो बहुपुण्यफलैकतरोस्तव विश्रमिष्यति।
स्तनपरिणाहे मन्मथनिधानकलश इव प्ररोहः॥)
१२. लौल्यं यथा—
वंचिअपिआणणा विअअमस्स लोलइ सहिमुहे दिट्ठी।
लीलं रहस्सबहुलं सहो/सा हु विआरेइ कामस्स॥ १९॥
(वञ्चितप्रियानना प्रियतमस्य लोलति सखीमुखे दृष्टिः।
लीलां रहस्यबहुलां सा खलु विकारयति कामस्य॥)
१३. गर्धा यथा—
धरिउं कह णु तीरइ हअदिट्टी वल्लहेसु णिवडंती।
गाइ व्व हारहाई सरसे जववल्लरे लुद्धा॥ २०॥
{धर्तुं कथमपि न पार्यते हतदृष्टिर्वल्लभेषु निपतन्ती।
गौरिव भारहारी सरसे यववल्लरे लुब्धा॥}
१४. श्रद्धा यथा—(गास. ७.५०वे)
सद्धो मे तुज्झ पिअत्तणस्स कह तं ति णेअ आणामो।
दे पसिअ तुमं चिअ सिक्खवेसु जह ते पिआ होमि॥ २१॥
{श्रद्धा मे तव प्रियत्वस्य कथं तदिति नैव जानीमः।
प्रार्थये प्रसीद त्वमेव शिक्षय यथा ते प्रिया भवामि॥}
१५. रुचिर्यथा—(कर्पूरम. २.४९)
बालाओ होंति कोऊहलेण एमेअ चबलचित्ताओ।
दरल्हसिअथणीसु पुणो णिवसइ मअरद्धअ—रहस्सो॥ २२॥
(बाला भवन्ति कौतूहलेन एवमेव चपलचित्ताः।
दरलसितस्तनीषु पुनः निवसति मकरध्वजरहस्यम्॥)
१६. दोहदो (दोहदम्) यथा—(गास. १.१५)
किं किं दे पडिहासइ? सहीहिं इअ पुच्छिआएँ मुद्धाए।
पडमुल्ल/ग्गअदोहलिणिए णवरं दइअं गआ दिट्ठी॥ २३॥
(किं किं ते प्रतिभासते? सखीभिरिति पृष्टाया मुगधायाः।
प्रथमोद्गतदोहदिन्याः केवलं दयितं गता दृष्टिः॥)
१७. आशा यथा—(गास. ४.२८)
णीआइँ अज्ज णिक्कव! पिणद्धणवरंगएँ वराईए।
घरपरिपाडीअ पहेणआइ तुह दंसणासाए॥ २४॥
(नीतानि अद्य निष्कृप! पिनद्धनवरङ्गकया वराक्या।
गृहपरिपाट्या प्रहेणकानि तव दर्शनाशया॥)
१८. आशीर्यथा—
जनः पुण्यैर्यायाज्जलधिजलभावं जलमुच— स्तथावस्थं चैनं निदधतु शुभैः शुक्तिवदने।
ततस्तां श्रेयोभिः परिणतिमसौ विन्दति यया रुचिं तन्वन् पीनस्तनि! हृदि तवायं विलुठति॥ २५॥
१९. आशंसा यथा—
होज्ज वणे, सो दिअहो! जत्थ वि आमलिअकुसुमधम्मिल्ला।
पत्ते रआवसाणे पुच्छिज्ज पवासदुक्खाइं॥ २६॥
(भवतु वने, स दिवसो यत्राऽप्यामृदितकुसुमधम्मिल्ला।
प्राप्ते रतावसाने पृच्छेयं प्रवासदुःखानि॥)
२०. मनोरथो यथा—(कुसं. ५.६४)
यथा श्रुतं वेदविदां वर! जनोऽयमुच्चैः—पदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥ २७॥
२१. आस्था यथा—(किराता. ९.३४)
सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम्।
सन्निकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीष्टे॥ २८॥
२२. अभिनिवेशो यथा—(गास. ६.३०)
लोओ जूरइ जूरउ वअणिज्जं होइ होउ तं णाम।
एहि णिमज्जसु पासे पुप्फवइ! ण एइ मे णिद्दा॥ २९॥
(लोकः खिद्यति खिद्यतु वचनीयं भवति भवतु तन्नाम।
एहि निषीद पार्श्वे पुष्पवति! नैति मे निद्रा॥)
२३. अनुबन्धो यथा—
ग/गेण्हइ कंठम्मि, बला चुंबइ णअणाइ, हरइ मे सिअअं।
पढमसुरअम्मि रअणी वरस्स एमेअ बोलेइ॥ ३०॥
(गुह्णाति कण्ठे, बलाच्चुम्बति नयने, हरति मे सिचयम्।
प्रथमसुरते रजनी वरस्य एवमेव व्यवलीयते॥)
२४. आग्रहो यथा—(गास. ३.४९)
अज्ज मए गंतव्वं घणंधआरे वि तस्स सुहअस्स।
अज्जा णिमीलिअच्छी पअपरिवाडिं घरे कुणइ॥ ३१॥
(अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।
आर्या निमीलिताक्षी पदपरिपाटीं गृहे कुरुते॥)
२५. विमर्शो यथा—(शाकु. ५.१३)
कास्विदवकुण्ठनवती नातिपरिस्फुटशरीरलावण्या।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥ ३२॥
२६. मनीषा यथा—(शाकु. १.१९)
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥ ३३॥
२७. अभिप्रायो यथा—
बालअ रे! वंचिज्जसि लोलिर-महु-आण-सद्धपसराओ।
पुफ्फवई—मुहचुंबण—सहास—कंठग्गह—सुहाओ ॥ ३४॥
(बालक! रे वञ्च्यसे लोलितमधुपानश्रद्धाप्रसरात्।
पुष्पवती—मुखचुंबन—सहास—कण्ठग्रह—सुखात्॥)
२८. पक्षपातो यथा—(सेब. १२.१३)
वीसंभ वड्ढिअरसं रइ/अइराउ-क्खलिअ-सेस-संठिअ-रसणं।
विअलिअमअपत्त/त्तुट्ठं पच्चूसरअं पओसदूरब्भहिअं॥ ३५॥
{विस्रम्भवर्धितरसं रति/अतिरागोत्खलितशेषसंस्थितरशनम्।
विगलितमदेन निपुणं मदप्राप्ततुष्टिं प्रत्यूषरतं प्रदोषदूराभ्यधिकम्॥}
२९. लोभो यथा—
हुं हुं दे भणसु पुणो ण मुअं ति करेइ कालविक्खेवं।
घरिणी हिअअसुहाइं पइणो कण्णे भणंतस्स॥ ३६॥
(हुं/हुं हे भण पुनः न श्रुत/ज्ञातमिति करोति कालविक्षेपम्।
गृहिणी हृदयसुखानि पत्युः कर्णे भणतः॥)
३०. आसङ्गो यथा—(मामा. १.२६)
सन्तापसन्ततिमहाव्यसनाय तस्या— माधत्त मे तदनपेक्षितहेतु चेतः।
प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वंकषा भगवती भवितव्यतैव॥ ३७॥
३१. अभिष्वङ्गो यथा—(गास. २७६ वे.)
दढमूढबद्धगंठि व्व मोइआ कह वि तेण मे बाहू।
अम्हेहि वि तस्स उरे खुत्त व्व समुख्खआ थणआ॥ ३८॥
(दृढमूढबद्धग्रन्थी इव मोचितौ कथमपि तेन मे बाहू।
अस्माभिरपि तस्योरसि खात इव समुत्खातौ स्तनौ॥)
३२. सक्तिर्यथा—(गास. ८७८ वे.)
कालक्खरदूसिक्खिअ बालअ! रे एहि लग्ग कंठंमि।
दोण्ह वि णरअणिवासो सामअॅ जइ होइ ता उ॥ ३९॥
(कालाक्षरदुश्शिक्षित बालक! रे एहि लगस्व कण्ठे।
द्वयोरपि नरक/निरयनिवासो समकं यदि भवति तद् भवतु॥)
३३. मोहो यथा—(गास. ३६१वे)
णीसासुक्कंपपुलोइएहि जाणंति पेच्चिउं धण्णा।
अंहारिसाण दिठ्ठे पिअंमि अप्पा वि पम्हसइ॥ ४०॥
(निःश्वासोत्कम्पितप्रलोकितैर्जानन्ति प्रेक्षितुं धन्याः।
अस्मादृशां दृष्टे प्रिये आत्माऽपि प्रस्मर्यते॥)
३४. आकूतं यथा—
ताव छिवइ, ता णिअच्छइ, ता कुणइ रअं पि ताव चुंबेई।
अंगेहि कीरइ पई कामोत्तत्तसीअलो तिस्सा(यावत्)॥ ४१॥
(तावत् स्पृशति तावन्नियच्छति, तावत् करोति, रतमपि, तावच्चुम्बति।
अङ्गैः क्रियते पतिः कामोत्तप्तशीतलस्तस्याः(लो यावत्)॥)
३५. कुतूहलं यथा—(गास. १.२१)
असमत्तमंडण च्चिअ वच्च घरं से सकोउहल्लस्स।
बोलाविअ—हलहलअस्स पुत्ति! चित्ते ण लग्गिहिसि॥ ४२॥
{असमाप्तमण्डनैव व्रज गृहं तस्य सकौतूहलस्य।
व्यवलीनौत्सुक्यस्य पुत्रि! चित्ते न लगिषयसि॥}
३६. विस्मयो यथा—(सूमु. १६)
कमलमनम्भसि कमले च कुवलयमेतानि कनकलतिकायाम्।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्?॥ ४३॥
३७. रागो यथा—(गास. ६.६१)
घरिणिघणत्थणपेल्लणसुहेल्लिपडिअस्स होंतपहिअस्स।
अवसउणं—गारअ—वारविठ्ठि—दिअहा सुहावेंति॥ ४४॥
{गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशकुनाङ्गारकवारविष्टिदिवसाः सुखयन्ति॥)}
३८. वेगौ यथा—
जाणामि जणो णिउणो गुरुअणमज्झम्मि संठिआ अ अहं।
ता किं करेमि पिअसहि! धरिआवि बला वलइ दिट्ठी॥ ४५॥
(जानामि जनो निपुणो गुरुजनमध्ये संस्थिता चाहम्।
तत् किं करोमि प्रियसखि! धृताऽपि बलाद् वलते दृष्टिः॥)
३९. अध्यवसायो यथा—(मामा. ४.४)
समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः।
तथाऽप्येवं निन्दाश्रवणसमयेऽस्याः प्रविगलत्— प्रभं प्रातश्चन्द्रद्युति वदनमन्तर्दहति माम्॥ ४६॥
४०. व्यवसायो यथा—(गास. ३.३१)
तस्स/तुज्झ अ सोहग्गगुणं अमहिलसरिसं च साहसं मज्झ।
जाणइ गोलाऊरो वासारत्तद्धरत्तो अ॥ ४७॥
{तस्य(तव) च सौभाग्यगुणम् अमहिलासदृशं च साहसं मम।
जानाति गोदापूरो वर्षारात्रार्धरात्रञ्च॥}
४१. कामना यथा—(लीलावती. १२५८)
अच्छीहिं चिअ सा तेण पिअअमा णेह-णिब्भर-मणेण।
आहासिअ व ऊहिअ व्व रभिअ/रमिअ/रते व्व पीअ व्व॥ ४८॥
(अक्षिभ्यामेव सा तेन प्रियतमा स्नेहनिर्भरमनसा।
आभाषितेव उपगूढेव रतेव पीतेव॥)
४२. वासना यथा—
आणिअपुलउब्भेओ सवत्तिपणअपडिपूरणंमि/परिधूसरम्मि वि गरुए।
पिअदंसणे पवट्ट/ड्ढइ मंतुट्ठाणे वि रुप्पिणीए पहरिसो॥ ४९॥
{आनीतपुलकोद्भेदः सपत्नीप्रणयप्रतिपूरणेऽपि/परिधूसरेऽपि गुरुके।
प्रियदर्शने प्रवर्त/र्धते मन्तु/न्युस्थानेऽपि रुक्मिण्याः प्रहर्षः॥}
४३. स्मरणं यथा—(गास. ४.६८)
भरिमो से सअणपरंमुहीए विअलंतमाणपसराए।
कइअव-सुत्तु-व्वत्तण-थण-कलसु हरु/भर—प्पेल्लणसुहेल्लिं॥ ५०॥
(स्मरामस्तस्याः शयनपराङ्मुख्या विगलन्मानप्रसरायाः।
कैतव—सुप्तोद्वर्तन—स्तनभर—कलस—प्रेरण—सुखकेलिम्॥)
४४. सङ्कल्पो यथा—
पिहिते कारावासागारे मनसि स च सूचीमुखाग्रनिर्भेद्यम्/द्ये।
अपिच निमीलितनयने तथाऽपि कान्ताननं व्यक्तम्॥ ५१॥
४५. भावो यथा—
दिट्ठे जं पुलइज्जसि ध/थरहरसि पिअंमि जं समासण्णे।
तह/तुह संभासणसेउल्लिफंसणे किं विलिज्जिहिसि॥ ५२॥
{दृष्टे यत् प्रलोकिष्यसि धरधरसि प्रिये यत्समासन्ने।
तथा/तव संभाषणस्वेदार्द्रस्पर्शने किं विलज्जिष्यसे॥}
४६. रागो (हासः) यथा—
तह तीए सुहरसो पहरिसो अ मुहपंकअंमि पप्फुरिओ।
समअं जह विअसिअ—मउलिआइ ज—आइ अच्छीइ॥ ५३॥
(तथा तस्याः सुखरसः प्रहर्षश्च मुखपङ्कजे प्रस्फुरितः।
समकं यथा विकसितमुकुलिते जाते अक्षिणी॥)
४७. रतिर्यथा—(गास. २.२५)
अच्छेरं व णिहि व्विअ सग्गे रज्जं व अमअपाणं व।
आसि म्ह तं मुहुत्तं विणिअंसण—दंसणं तिस्सा/तीए॥ ५४॥
(आश्चर्यमिव निधिरिव स्वर्गो राज्यमिव अमृतपानमिव।
आसीन्मम तन्मुहूर्तं विनिवसनदर्शनं तस्याः॥)
४८. प्रीतिर्यथा—
अविहाविअक्खरवआ चिरेण अणुबंधपुच्छिअपलत्ता।
णववहुपढमुल्लावा वरस्स हिअए ण माएंति॥ ५५॥
{अविभाविताक्षरवचसः/पदाः चिरेण अनुबन्धपृष्टप्रलपिताः/प्रवृत्ताः।
नववधूप्रथमोल्लापा वरस्य हृदये न मान्ति॥}
४९. दाक्षिण्यं यथा—(गास. २.२२)
णववहुपेंमतणुइओ पणअं पढमब/घरिणीएॅ रक्खन्तो।
अलिहिअ—दुप्परिअल्लं पि णेइ रण्णं धणुं वाहो॥ ५६॥
(नववधूप्रेमतनूकृतः प्रणयं प्रथमगृहिण्या रक्षन्।
अलिखितदुराकर्षमपि नयत्यरण्यं धनुर्व्याधः॥)
५०. अनुग्रहो यथा—(गास. ३.९९)
खिण्णस्स उरे पइणो ठवेइ गिम्हावरण्हरमिअस्स।
ओल्लं गलंतपु/उप्फं ण्हाणसुअंधं चिहुरभारं॥ ५७॥
(खिन्नस्योरसि पत्युः स्थापयति ग्रीष्मापराण्हरमितस्य।
आर्द्रं गलत्पुष्पं स्नानसुगन्धं चिकुरभारम्॥)
५१. वात्सल्यं यथा—
झत्ति समुट्ठिअ-मणहर-सिरि-वअण-विलास-संभमाउलिअं।
भुअ-जुअल-गहिअ-णिप्पंदमंदरं णमह महुमहणं॥ ५८॥
(झटिति समुत्थितमनोहारिश्रीवदनविलाससंभ्रमाकुलितम्।
भुजयुगलगृहीतनिस्सपन्दमन्दरं नमत मधुमथनम्॥)
५२. अनुक्रोशो यथा—(गास. ६.६६)
गज्ज महं च्चिअ उअरिं सव्वत्थामेण लोहहिअअस्स।
जलहर! लंबालइअं मा रे मारेहिसि वराइं॥ ५९॥
(गर्ज ममैवोपरि सर्वस्थाम्ना लोहहृदयस्य।
जलधर! लम्बालकां मा रे मारयिष्यसि वराकीम्॥)
५३. विश्वासो यथा—(गास. ९६७ वे.)
केलीगोत्तक्खलणे/लिए वरस्स पफ्फुडुंडुल्लइ दिहिं देइ।
बहुवासअवासघरे वहूए वाहुल्लिआ दिट्ठी॥ ६०॥
{केलीगोत्रस्खलने वरस्य हिन्दोलितं धृतिं दधाति।
वधूवासकवासगृहे वध्वा बाष्पार्द्रिता दृष्टिः॥}
५४. विस्रम्भो यथा—
समअण-णअणालोअण-सच्चविअण्णोण्ण-मणहराआ/लावो।
पच्चूस-रअ-विलासो वीसंभं कहइ मिहुणाण॥ ६१॥
(समदननयनालोकनसत्यापितान्योन्यमनोहरालापः।
प्रत्यूषरतविलासो विस्रंभं कथयति मिथुनानाम्॥)
५५. वशीकारो यथा—(गास. २.३०)
सालोए च्चिअ सूरे घरिणी घरसामिअस्स घेत्तूण।
णेच्छंतस्स वि पाए धुअइ हसंती हसंतस्स॥ ६२॥
(सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा।
अनिच्छतोऽपि पादौ धावति हसन्ती हसतः॥)
५६. प्रणयो यथा—(गास. १.८६)
एक्कं पहरुव्विण्णं हत्थं मुहमारुएण वीअंतो।
सो वि हसंतीएँ मएँ गहिओ बीएण कंठम्मि॥ ६३॥
(एकं प्रहारोद्विग्नं हस्तं मुखमारुतेन वीजयन्।
सोऽपि हसन्त्या मया गृहीतो द्वितीयेन कंठे॥)
५७. प्राप्तिर्यथा—
हंहो कण्णुल्लीणा भणामि रे सुहअ! किं पि मा तूर।
णिज्जणपाणट्ठी/द्धीसु/तु कहं पि पुण्णेहि लद्धो सि॥ ६४॥
(हंहो कर्णोल्लीना भणामि रे सुभग! किमपि मा त्वर।
निर्जनपानगोष्ठीसु रथ्यासु कथमपि पुण्यैर्लब्धोऽसि॥)
५८. पर्याप्तिर्यथा—(रा.कु. असमर्थौ)
एएण च्चिअ पिअसहि! पज्जत्तं किं ण माणुसे लोए?।
जं तस्स कए एसा किस त्ति सव्वो जणो भणइ॥ ६५॥
(एतेनैव प्रियसखि ! पर्याप्तं किं न मानुषे लोके?।
यत् तस्य कृते एषा कृशेति सर्वो जनो भणति॥)
५९. समाप्तिर्यथा—
असमत्तचित्तल…………….वपाउवो ससिमुहीए।
मुहुअंदो पज्जंतरहमहूसवविडत्तमुहमउलि अच्छिजुओ॥ ६६॥
(असमाप्तचित्त……………………… शशिमुख्याः।
मुखचन्द्रः पर्यन्तरथमहोत्सवार्जितमुखमुकुलितमक्षियुगम्॥)
६०. अभिमानाप्तिर्यथा—(गास. ३.२९)
सव्वस्सम्मि वि दड्ढे गहवइधूआए णिव्वुदि च्चेअ।
जं तेण गामडाहे हत्थाहत्थिं कुडो गहिओ॥ ६७॥
(सर्वस्वेऽपि दग्धे गृहपतिदुहितुर्निर्वृतिरेव।
यत् तेन ग्रामदाहे हस्ताहस्तिकया कुटो/घटो गृहीतः॥)
६१. स्नेहो यथा—
हिअअब्भंतरपसरंतणेहरसविसरपूरिआ पुरओ।
पिअदंसणंमि दिट्ठी मंचइ/मज्झ वि णवकंदलाइ व्व॥ ६८॥
(हृदयाभ्यन्तरप्रसरत्स्नेहरसविसरपूरिता पुरतः।
प्रियदर्शन दृष्टिर्ममापि नवकन्दले इव॥)
६२. प्रेम यथा—
माए! कज्जारंभा फलसंपत्तीए होंति विणिअत्ता।
ण समप्पंति समत्ता वि दड्ढपेम्मस्स वावारा॥ ६९॥
(मातः! कार्यारम्भाः फलसंपत्त्या भवन्ति विनिवृत्ताः।
न समाप्यन्ते समस्ता अपि दग्धप्रेम्णो व्यापाराः॥)
६३. आह्लादो यथा—(गास. २.६८)
अच्छउ ताव मणहरं पिआइ मुहदंसणं अइमहग्घं।
तग्गामच्छे/क्खेत्तसीमा वि झत्ति दिठ्ठा सुहावेइ॥ ७०॥
(अस्तु तावन्मनोहरं प्रियाया मुखदर्शनमतिमहार्घम्।
तद्ग्रामक्षेत्रसीमाऽपि झटिति दृष्टा सुखयति॥)
६४. निर्वृतिर्यथा—(गास. १.८५)
दक्खिण्णेण वि एंतो सुहअ! सुहावेसि अम्ह हिअआइं।
णिक्कइअवाणुरत्तो सि जाण का णिव्वुई ताणं?॥ ७१॥
(दाक्षिण्येनाप्यायन् सुभग! सुखयस्यस्माकं हृदयानि।
निष्कैतवानुरक्तोऽसि यासां का निर्वृतिस्तासाम्?॥)
सोऽयमनुरागचतुष्षष्टिप्रकारोऽपि प्रतिप्रकारं अष्टधा संभवति—
१.१ नित्यानुरागः.
१.२ नैमित्तिकानुरागः,
१.३ सामान्यानुरागः,
१.४ विशेषानुरागः,
१.५. प्रकाशानुरागः,
१.६. प्रच्छन्नानुरागः,
१.७. अकृत्रिमानुरागः,
१.८. कृत्रिमानुरागः, इति।
तेषु —
कालादिकारणविशेषानपेक्षो नित्यः,
तद्विपरीतो नैमित्तिकः,
जातिविषयः सामान्यः,
व्यक्तिविषयो विशेषः,
स्वाङ्गनादिगोचरः प्रकाशः,
पराङ्गनादिविषयः प्रच्छन्नः,
प्रयोजननिरपेक्षोऽकृत्रिमः,
तद्विपरीतः प्रयत्ननिर्वर्त्यः कृत्रिमः।
(१.१ नित्यानुरागः —२४)
तत्र — नित्यः विषय—आश्रय—आलम्बन—उद्दीपन—स्थान—संस्थान—रूप—स्वरूपाणां पृथक् त्रैविध्यात् चतुर्विंशतिधा।
१.१.१ तत्र अनुरागो यस्मिन्नुपजायते स विषयः।
१.१.२ यस्य जायते स आश्रयः।
१.१.३ यदालम्बते तदालम्बनम्।
१.१.४ यदुद्दीपयति तदुद्दीपनम्।
१.१.५. यत्र अवतिष्ठते तत् स्थानम्।
१.१.६ येन सुश्लिष्टो भवति(?) तत् संस्थानम्।१
१.१.७ येन शोभते तत् रूपम्।
१.१.८ येन निरूप्यते तत् स्वरूपम्। तेषु— १. जो. पाठ एषः। रा. पाठस्तु ‘ष्टे……पतित पतति(?) तत्’ १.१.१ विषयानुरागः— (क) उच्चः, (ख) निम्नः, (ग) समः इति,
१.१.२ आश्रयानुरागः— (क) उत्तमः, (ख) मध्यमः, (ग) कनीयान् इति,
१.१.३ आलम्बनानुरागः— (क) शीघ्रः, (ख) मध्यमः, (ग) चिरः इति,
१.१.४ उद्दीपनानुरागः— (क) मृदुः, (ख) मध्यः, (ग) चण्डः इति,
१.१.५ स्थानानुरागः— (क) सदृक्, (ख) विसदृशः, (ग) असदृक्षः/शः इति,
१.१.६ संस्थानानुरागः— (क) सम्यक्, (ख) मिथ्या, (ग) अतिशायी इति,
१.१.७ रूपानुरागः— (क) चारुः, (ख) अचारुः (ग) उभयात्मा इति,
१.१.८ स्वरूपानुरागः— (क) गभीरः, (ख)(अनु)उत्कटः, (ग) प्रकटः इति,
तत्र—
१.१.१ (क) उच्चजातौ य उपजायते स उच्चः ; यथा—
कअलीगब्भसरिच्छे ऊरू दट्ठूण हलिअसोण्हाए।
उल्लसइ णहरंजणं चंडि/डुलस्स१ सेओल्लिअकरस्स॥ ७२॥
(कदलीगर्भसदृक्षे ऊरू दृष्ट्वा हालिकस्नुषायाः।
उल्लसति नखरञ्जनं नापितस्य स्वेदार्द्रकरस्य॥)
१.१.१ (ख) निम्नजातौ निम्नः ; यथा—
गोलाणईण तूहे मोहं विअ कुरुकुराअमाणभट्टस्स।
सोद्ध/ज्झअ-धूआमुहपेच्छिरस्स ण समप्पए संज्झा॥ ७३॥
(गोदानद्यास्तीर्थे मोघमेव कुरुकुरायमाणभट्टस्य।
रजकदुहितृमुखप्रेक्षणशीलस्य न समाप्यते संध्या॥)
१.१.१ (ग) समजातौ समः ; यथा—
संकेअ-ऊसुअ-मणो गहवइ-धूआ-कडक्ख-सच्चविओ।
तंबं गअं ण वेअइ वीडारो/गोवालो अंबरं दुहइ॥ ७४॥
(संकेतोत्सुकमना गृहपतिदुहितृकटाक्षसत्यापितः।
गां गतां न वेत्ति व्रीडालुरम्बरं दोग्धि॥)
१.१.२ (क) स्त्रीपुंसयोः परस्परानुरागे उत्तमः ; यथा—(गास. १.९८)
रमिऊण पअं वि/पि गओ जाहे उवऊहिउं पडिणिउत्तो।
अहअं पउत्थपइ/अ व्व तक्खणं सो पवासि व्व॥ ७५॥
१. चण्डिलो नापित इति देशीनाममालाव्याख्या।
(रन्त्वा पदमपि गतो यदोपगूहितुं प्रतिनिवृत्तः।
अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव॥)
१.१.२ (ख) योषिदनुरागे मध्यमः ; यथा—(गासः २.९४)
सा तुइ सहत्थदिण्णं अज्ज वि ओ सुहअ! गंधरहिअं पि।
उव्वसिअ—णअरघरदेवअ व्व णो/ओमालिअं वहइ॥ ७६॥
(सा तां स्वहस्तदत्तामद्यापि रे सुभग! गन्धरहितामपि।
उद्वासितनगरगृगदेवतेव अवमालिकां वहति॥)
१.१.२ (ग) पुरुषानुरागे कनीयान् ; यथा—(गास. १.८४)
सो तुह कएण सुंदरि! तह झीणो सुमहिलो हलिअउत्तो।
जह से मच्छरिणीए वि दोच्चं जाआएँ पडिवण्णं॥ ७७॥
(स तव कृतेन सुन्दरि! तथा क्षीणः सुमहिलो हालिकपुत्रः।
यथा तस्य मत्सरिण्याऽपि दूत्यं जायया प्रतिपन्नम्॥)
१.१.३. (क) प्रकृतिवशाज्जने शीघ्रं कालमालम्बमानः शीघ्रः ; यथा—(गास.५.६२)
हत्थप्फंसेण जरग्गई/वी वि पण्हवइ दोहअगुणेण।
अवलोइअ—पण्हुइरिं पुत्तअ दुक्खेहि पाविहिसि॥ ७८॥
(हस्तस्पर्शेन जरद्गव्यपि प्रस्नौति दोहदगुणेन।
अवलोकितप्रस्नवशीलां पुत्रक! दुःखैः प्राप्स्यसि॥)
१.१.३ (ख) मध्यकालालम्बनो मध्यः ; यथा—(शाकु. १.२०)
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः।
करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर! हतास्त्वं खलु कृती॥ ७९॥
१.१.३ (ग) चिरकालालम्बनश्चिरः ; स यथा—(कुसं. ५.६१)
न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रान्तरवीक्षितामिमाम्।
तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम्॥ ८०॥
१.१.४ (क) रागानुगुण्यान्मृदूपक्रमो मृदुः ; स यथा—(माघ. १०.१७)
मन्दमन्दविगलत्त्रपमीषच्चक्षुरुल्लसितपक्ष्म दधत्या।
वीक्ष्यते स्म शनकैर्नववध्वा कामिनो मुखमधोमुखयैव॥ ८१॥
१.१.४ (ख) मध्योपक्रमो मध्यः ; स यथा—(किराता. ९.४७)
लोलदृष्टि वदनं दयितायाश्चुम्बति प्रियतमे रभसेन।
व्रीलया सह विनीवि नितम्बादंशुकं शिथिलतामुपपेदे॥ ८२॥
१.१.४ (ग) चण्डोपक्रमः चण्डः ; यथा—(सूमु. १५)
धन्याः स्थयाः कथयथ प्रियसङ्गमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु।
नीवीं प्रति प्रणिहितश्च करः प्रियेण सख्यः! शपामि यदि किञ्चिदपि स्मरामि॥ ८३॥
१.१.५ (क) गुणाधिके पुंसि योषिति वा समुपजायमानः सदृक् ; यथा—
स्थाने तपो दुश्चरमेतदर्थमपर्णया कोमलयाऽपि तप्तम्।
या दास्यमप्यस्य लभेत नारी सा स्यात् कृतार्था किमुताङ्कशय्याम्॥ ८४॥
(कुसं. ७.६५)
१.१.५ (ख) तद्विपरीतो विसदृशः ; यथा—(रामचरिते १२.७९)
परवत्यपरिच्छदे कपौ कृपणेऽस्मिन् मयि कोऽयमादरः ?।
मृगयस्व मृगेक्षणे! कमप्यनुरूपं विसदृङ् न शोभते॥ ८५॥
१.१.५ (ग) गुणानामेकस्य भूयस्त्वे परस्य च अल्पीयस्त्वे तत् असदृशः ;
यथा—(मामा—२.६)
इदमिह मदनस्य जैत्रमस्त्रं सहजविलासनिबन्धनं शरीरम्।
असदृशवरसम्प्रयोगशोच्यं विफलगुणातिशयं भविष्यतीति॥ ८६॥
१.१.६ (क) परस्परस्यानुरागादिसाम्ये सम्यक् ; यथा—(बा.रा. ५.१७)
समपेम्मरसं समरूपजौवणं समविलासवेअड्ढिं।
समसुहदुक्खं अ जणं समपुण्णो जइ जणो लहइ॥ ८७॥
(समप्रेमरसं समरूपयौवनं समविलासवैदग्ध्यम्।
समसुखदुःखं च जनं समपुण्यो यदि जनो लभते॥)
१.१.६ (ख) एकस्य प्रातिकूल्ये मिथ्या; यथा—(सेब. ११.२७)
अब्भत्थणं ण गेण्हइ तीरइ तिहुअणसिरीअ वि ण लोहेउं।
ण गणेइ सरीरभअं कह मण्णे होज्ज जाणई साणुणआ॥ ८८॥
(अभ्यर्थनां न गृह्णाति शक्यते त्रिभुवनश्रियाऽपि न लोभयितुम्।
न गणयति शरीरभयं कथं मन्ये भवेज्जानकी सानुनया॥)
१.१.६ (ग) एकस्यातिशयाधिक्ये अतिशायी ; यथा—
दिठ्ठा कुविआणुणआ पिआ सहस्सजणपेल्लणं पि विसहिअं।
जस्स णिसण्णाए उरे सिरीए पेम्मेण लहइओ अप्पाणो॥ ८९॥
(दृष्टा कुपितानुनया प्रिया सहस्रजनप्रेरणमपि विसोढम्।
यस्य निषण्णया उरसि श्रियः प्रेम्णा लघूकृत आत्मा॥)
१.१.७ (क) वयोरूपजात्यादीनां परभागे चारुः ; यथा—(रघु. ६.६५)
इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः।
अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु॥ ९०॥
१.१.७ (ख) तद्विपर्यये अचारुः ; यथा—(मामा. २.८)
राज्ञः प्रियाय सुहृदे सचिवाय कार्याद् दत्त्वाऽऽत्मजां भवति/तु निर्वृतिमानमात्यः।
दुर्दर्शनेन घटतामियमप्यनेन धूमग्रहेण विमला शशिनः कलेव॥ ९१॥
१.१.७ (ग) गुणदोषयोः सद्भावे उभयात्मा ; यथा—(बारा. १.३६)
आज्ञा शक्रशिखामणिप्रणयिनी, शास्त्राणि चक्षुर्नवं, भक्तिर्भूतपतौ पिनाकिनि, पदं लङ्केति दिव्या पुरी।
उत्पत्तिर्द्रुहिणान्वये च, तदहो नेदृग् वरो लभ्यते स्याच्चेदेष न रावणः, क्व नु पुनः सर्वत्र सर्वे गुणाः ?॥ ९२॥
१.१.८ (क) अप्रकाशो गभीरः ; यथा—(गास. ६.१०)
तुह दंसणसंजणिओ वहूएँ/इमीएँ लज्जालुईएँ अणुराओ।
दुग्गअमणोरहो विअ हिअए च्चिअ जाइ परिणामं॥ ९३॥
(तव दर्शनसंजनितोऽस्या लज्जालोरनुरागः।
दुर्गतमनोरथ इव हृदय एव याति परिणामम्॥)
१.१.८ (ख) नातिप्रकाशोऽनुत्कटः ; यथा—शाकु. २.११
अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम्।
विनयवारितवृत्तिरितस्तया न विवृतो मदनो न च संवृतः॥ ९४॥
इत्यादि। १.१.८ (ग) अतिप्रकाशः प्रकटः ; यथा—
इअरो जणो ण आणइ धण्णाण संजमिआइ पेम्माइं।
अम्हं मणोरहा दुक्खआण रच्छासु गिज्जंति॥ ९५॥
(इतरो जनो न जानाति धन्यानां सुसज्जितानि प्रेमाणि।
अमृत/तं मनोरथा दुःखगा न रथ्यासु गीयन्ते/कीर्यन्ते॥
(१.२ नैमित्तिकानुरागः —२४)
अथ नैमित्तिकानुरागः। सोऽपि चतुर्विंशतिधा, काल—समय— वेलोपाधि—साधन—समावेश—देश—प्रकीर्णक—त्रैविध्यात्। तेषु —
१.२.१. कालः—हेमन्त—वसन्त—वर्षादिः। तन्निमित्तः—
१.२.१. (क) हैमन्तिकः,
१.२.१. (ख) वासन्तिकः,
१.२.१. (ग) वार्षिकः इति।
१.२.२. समयः—प्रवासारम्भः, प्रत्यागम; प्रथमसङ्गमादिः। तन्निमित्तः—
१.२.२. (क) प्रावासिकः,
१.२.२. (ख) प्रात्यागमिकः,
१.२.२. (ग) प्राथमसङ्गमिकः इति।
१.२.३. वेला—प्रदोषः, निशीथः, प्रभातम्, इति। तन्निमित्तः—
१.२.३. (क) प्रादोषिकः,
१.२.३. (ख) नैशीथः,
१.२.३. (ग) प्राभातिकः इति।
१.२.४. उपाधिः—तमः, चन्द्रोदयः, ज्योत्स्ना, इति। तन्निमित्तः—
१.२.४. (क) तामसः,
१.२.४. (ख) चान्द्रोदयः,
१.२.४. (ग) ज्यौत्स्नः इति।
१.२.५. साधनम्—स्नानम्, विलेपनम्, माल्यम्, इति। तन्निमित्तः—
१.२.५. (क) स्नानीयः,
१.२.५. (ख) विलेपनीयः,
१.२.५. (ग) मालीयः इति।
१.२.६. सक्ति(?) समावेशः—उपसरः, प्रासादः, मदः, इति। तन्निमित्तः—
१.२.६. (क) औपसरः,
१.२.६. (ख) प्रासादिकः,
१.२.६. (ग) मदजः इति।
१.२.७. देशः—विविक्तः, गहनः, सेव्यः, इति। तन्निमित्तः—
१.२.७. (क) विविक्तनिमित्तः,
१.२.७. (ख) गहननिमित्तः,
१.२.७. (ग) सेव्यनिमित्तः इति।
१.२.८. गीतनिमित्तम्, उत्सवः, चूतादयः इति प्रकीर्णकानि। तन्निमित्तः—
१.२.८. (क) गीतनिमित्तः,
१.२.८. (ख) औत्सवः,
१.२.८. (ग) क्षणप्रभवः (चूतादिनिमित्तः ?) इति।
१.२.१ (क) हैमन्तिको यथा—(गास. ७४५ वे)
कस्स ण सद्धा गरुअत्तणंमि पइणा पसज्जमाणस्स।
जइ माणभंजणीओ ण होंति हेमंतराईओ॥ ९६॥
(कस्य न श्रद्धा गुरुत्वे पत्या प्रसाद्यमानस्य।
यदि मानभञ्जिन्यो न भवन्ति हेमन्तरात्र्यः॥)
१.२.१. (ख) वासन्तिको यथा—(गास. ५४३ वे.)
दीसइ ण चूअमुउलं अत्ता! ण अ वाइ मलअगंधवहो।
एंतं वसंतमासं साहइ उक्कंठिआ चेअं॥ ९७॥
(दृश्यते न चूतमुकुलं श्वश्रूः! न च वाति मलयगन्धवहः।
एष्यन्तं वसन्तमासं कथ/साधयत्युत्कण्ठितं चेतः॥)
१.२.१. (ग) वार्षिको यथा—(गास. ७०६, ७११वे)
जं मुच्छिआए ण सुदं/मुअं कलंबगंधेण तग्गुणे पडिअं।
इहरा गज्जिअसद्दो जीएण विणा ण बोलंतो॥ ९८॥
{यन्मूर्च्छितया नं श्रुतं/ज्ञातं कदम्बगन्धेन तद्गुणे पतितम्।
इतरथा गर्जितशब्दो जीवेन विना नापक्रा/मति॥}
१.२.२. (क) प्रावासिको यथा—(गास. १.४६)
कल्लं किर खरहिअओ पवसिहइ पिओ त्ति सुव्वइ जणंमि।
तह वड्ढ भअवइ णिसे! जह से कल्लं चिअ ण होइ॥ ९९॥
(कल्यं किल खरहृदयः प्रवत्स्यति प्रिय इति श्रूयते जने।
तथा वर्धस्व भगवति निशे! यथा तस्य कल्यमेव न भवति॥)
१.२.२. (ख) प्रात्यागमिको यथा—
सहसा मा साहिव्वइ पिआगमो तीएँ विरहकिसिआए।
अच्चतपहरिसेण वि जा अ मआ सा मअ च्चेअ॥ १००॥
(सहसा मा साध्यतां प्रियागमस्तस्या विरहकृशायाः।
अत्यन्तप्रहर्षेणापि या च मृता सा मृतैव॥)
१.२.२. (ग) प्राथमसङ्गमिको यथा—
थरहरइ ऊरुजुअलं झिज्जइ वअणं ससज्झसं हिअअं।
बालाए पढमसुरए किं किं ण कुणंति अंगाइं॥ १०१॥
(थरथरायते ऊरुयुगलं क्षीयते वदनं ससाध्वसं हृदयम्।
बालायाः प्रथमसुरते किं किं न कुर्वन्त्यङ्गानि॥)
१.२.३. (क) प्रादोषिको यथा—
पत्तपओसो पडिवण्णमंडलो/णो घडिअदूइसंचारो।
थोआवसेसघोलिरमणोरहो होइ जुअइजणो॥ १०२॥
(प्राप्तप्रदोषः प्रतिपन्नमण्डनो घटितदूतीसञ्चारः।
स्तोकावशेषघूर्णशीलमनोरथो भवति युवतिजनः॥)
१.२.३. (ख) नैशीथो यथा—(अमरुक. ७१)
क्व प्रस्थिताऽसि करभोरु! घने निशीथे प्राणेश्वरो वसति यत्र मनःप्रियो मे।
एकाकिनी वद कथं न बिभेषि बाले! नन्वस्ति पुङ्खितशरो मदनः सहायः॥ १०३॥
इत्यादि। १.२.३. (ग) प्राभातिको यथा—(सेब. १२.१२)
पिअलंभेण पओसो जाओ दिण्णप्फलो रइसुहेण णिसा।
आणिअविरहुक्कंठो गलइ अणिव्विण्णवम्महो पच्चूसो॥ १०४॥
(प्रियलम्भेन प्रदोषो जातो दत्तफलो रतिसुखेन निशा।
आनीतविरहोत्कण्ठो गलत्यनिर्विण्णमन्मथः प्रत्यूषः॥)
१.२.४. (क) तामसो यथा—(गास. ५.१५)
चोरिअरअसद्धालुइ मा पुत्ति! भमसु अन्धआरम्मि।
अहिअअरं लक्खिज्जसि तमहरिए दीवअसिहे व्व॥ १०५॥
(चौर्यरतश्रद्धालो मा पुत्रि! भ्रमान्धकारे।
अधिकतरं लक्षिष्यसे तमोभृते दीपकशिखेव॥)
१.२.४. (ख) चान्द्रोदयो यथा—(सेब. १०.८१)
चंदुज्जोएण मओ मएण चंदाअवो अ वड्ढिअप्पसरो।
दोहिं वि तेहिं णु मअणो मअणेण णु दो वि ते णिआ अइभूमिं॥ १०६॥
(चन्द्रोद्द्योतेन मदो मदेन चन्द्रातपश्च वर्धितप्रसरः।
द्वाभ्यामपि ताभ्यां नु मदनो मदनेन नु द्वावपि तौ नीतावतिभूमिम्॥)
१.२.४. (ग) ज्यौत्स्नो यथा—
अणुणअ-सुहं ण पत्तं पिआहि दइएसु खिज्जओ व्वि ण चलअं/चलणो।
ओसारिअंमि पढमं दूईए व्व दोसिणाए माणग्गहणे॥ १०७॥
(अनुनयसुखं न प्राप्तं प्रियाभिर्दयितेषु खिद्येते अपि न चरणौ।
अपसारिते प्रथमं दूत्येव ज्योत्स्नया मानग्रहणे॥)
१.२.५. (क) स्नानीयो यथा—(गास. ७.८३)
अवरण्हाअअजामाउअस्स विउणेइ मोहणुक्कंठं।
वहुआए घरपरोहडमज्जणमुहलो वलअसद्दो॥ १०८॥
(अपराह्णागतजामातुर्द्विगुणयति मोहनोत्कण्ठाम्।
वध्वा गृहपश्चाद्भागमज्जनमुखरो वलयशब्दः॥)
१.२.५. (ख) विलेपनीयो यथा—
बोहेव/इ व्व पसुत्तं मअणं मिहुणाण परिअणकरेहिं।
वज्जंतसुसिण(सुण्ह)-घोलिरबाहुलआ-वलअ-णिग्घोसो॥ १०९॥
(बोधयति/तीव प्रसुप्तं मदनं मिथुनानां परिजनकरैः।
वाद्यमानसुस्वर(सुण्ह) घूर्णशीलबाहुलतावलयनिर्घोषः॥)
१.२.५. (ग) मालीयो यथा—(गास. ७८३ वे)
कारणगहिअं पि इमा माणं मोएइ माणिणिअजणस्स।
सहआरमंजरी पिअसहि व्व कण्णे समुल्लीणा॥ ११०॥
(कारणगृहीतमप्येषा मानं मोचयति मानिनीजनस्य।
सहकारमञ्जरी प्रियसखीव कर्णे/कर्णो समाश्रिता/समुल्लीना॥)
१.२.६. (क) औपसरो यथा—
पिअलंभज—विहलंघल—साहुलिपंडराए जहणभरमंदगमणाए।
अहिधाविऊण छिफ्फं पुप्फप्फलआए धण्णो सि॥ १११॥
(प्रियलम्भजसाध्वसविह्वलाङ्गवस्त्रपाण्डरया जघनभरमन्दगमनया।
अभिधाव्य स्पृष्टं पुष्पफलकया धन्योऽसि॥)
१.२.६. (ख) प्रासादिको यथा—
णिम्मविअसंधिअंमा ताव अ दूरपडिबद्धवम्महपसरा।
गरुअं सुरउच्छाहं दाऊण सहि व्व जामिणी गआ तीए॥ ११२॥
(निर्मापितसन्धिकर्मा तावच्च दूरप्रतिबद्धमन्मथप्रसरा।
गुरुकं सुरतोत्साहं दत्त्वा सखीव यामिनी गता तस्याः॥)
१.२.६. (ग) मदजो यथा—
ओलोइअंमि तुलिआं पिआहि गहिअम्मि संभमेण वलइअं।
पडिचक्खिअम्मि कअं च प/पिए सुसंधिअ—सरं अणंगेण धणुं॥ ११३॥
(अवलोकने तुलितं प्रियाभिर्गृहीते सम्भ्रमेण वलयितम्।
आस्वादिते/प्रत्याख्याते कृतं च संहितशरमनङ्गेन धनुः॥)
१.२.७. (क) विविक्तो यथा—
निर्यता परिजनेन बोधितः पूर्यमाण/स्फूर्जमान—रुचिरुल्लसद्दशः/ न् दृशः।
द्वारसंवलनमांसलोऽधिकं दीपकश्च मदनश्च दिश्यते/दिद्युते॥ ११४॥
१.२.७ (ख) गहननिमित्तो यथा—
झिण्णंति झडंतेहिं पल्लविआ होंति पल्लवंतेहिं।
गामासण्णपलासेहिं पंसुली—हिअअ—सब्भावा॥ ११५॥
(क्षीणाः क्षीयमाणैः पल्लविता भवन्ति पल्लवद्भिः।
ग्रामासन्नपलाशैः पांसुला—हृदय—सद्भावाः॥)
१.२.७ (ग) सेव्यनिमित्तो यथा—
पु/फुल्लंतणिरंतर—तरुण—वीजुला—वण—सिणिद्धकूलाए।
गोलाणई णिअड—वसिरि सइ त्ति मा पुत्ति! पत्तिअसु॥ ११६॥
(फुल्लन्निरन्तरतरुणवञ्जुलवनस्निग्धकूलायाः ।
गोदानद्या निकटवासिनी सतीति मा पुत्रि! प्रतीहि॥)
१.२.८ (क) गीतनिमित्तो यथा—
केणावि अज्ज गोसे कंपि/अंबवणे वल्लहं म्हरंतेण।
दूसह—मअण—सराहअ—हिअअवण—प्फोडणं गीअं॥ ११७॥
(केनाप्यद्य प्रभाते कामापि वने वल्लभां स्मरता।
अहो मदनशराहतहृदयव्रणस्फोटनं गीतम्॥)
१.२.८ (ख) उत्सवनिमित्तो यथा—(गास. १.३९)
साहिणे पि पिअअमे पत्ते वि छणे ण मंडिओ अप्पा।
दुग्गअ—पउत्थ—वइअं—सअज्झिअं संठवंतीए॥ ११८॥
(स्वाधीनेऽपि प्रियतमे प्राप्तेऽपि क्षणे न मण्डित आत्मा।
दुर्गतप्रोषितपतिकां प्रतिवेशिनीं संस्थापयन्त्या॥)
१.२.८ (ग) चूतनिमित्तो यथा—(सूमु.२०)
किं द्वारि दैवहतिके! सहकारकेण संवर्धितेन विषपादप एष पापः।
अस्मिन् मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः॥ ११९॥
(१.३ सामान्यानुरागः —२४)
सामान्यानुरागोऽपि चतुर्विंशतिप्रकारः—
१. द्रव्यगोचरः ७. व्यस्तः १३. अल्पविषयः १९. सम्बन्धजन्मा
२. गुणगोचरः ८. शुद्धः १४. देशहेतुः २०. प्राकृतः
३. कर्मगोचरः ९. सङ्कीर्णः १५. कालहेतुः २१. वैकृतः
४. संक्षिप्तः १०. साधर्म्यकृतः १६. धर्मविषयः २२. वयःकृतः
५. विक्षिप्तः ११. वैधर्म्यकृतः १७. धर्मिविषयः २३. वैदग्ध्यकृतः
६. समस्तः १२. महाविषयः १८. समयजन्मा २४. सौभाग्यकृतः, इति।
स तु —
१.३.१ द्रव्यगोचरो यथा—(गास. ३.५८)
करि-कलभ-कुंभ-सण्णिह-थणभर-भज्जंत-तणुअ-मज्झाओ।
संसारंमि असारे सारं सारंगणअणाओ॥ १२०॥
(करिकलभ-कुम्भसन्निभ-स्तनभर-भज्यमान-तनुकमध्याः।
संसारे असारे सारं सारङ्गनयनाः॥)
१.३.२गुणगोचरो यथा—(गास. ३.८८)
तावं अवणेइ ण तहा चंदणपंको वि कामिमिहुणस्स।
जह दूसहे वि गिम्हे अण्णुण्णालिंगणसुहेल्ली॥ १२१॥
(तापमपनयति न तथा चन्दनपङ्कोऽपि कामिमिथुनस्य।
यथा दुस्सहेऽपि ग्रीष्मे अन्योन्यालिङ्गनसुखकेलिः॥)
१.३.३. कर्मगोचरो यथा—(गास.३.७४)
ण वि तह छेअरआइँ वि हरंति पुणरुत्तराअरसिआइं।
जह जद्ध व तद्ध व, जह व तह व, सब्भावरमिआइं॥ १२२॥
(नापि तथा च्छेकरतान्यपि हरन्ति पुनरुक्तरागरसितानि।
यथा यत्र वा तत्र वा, यथा वा सद्भावरतानि॥)
१.३.४संक्षिप्तो यथा—
जं तं रूवं जं तं पअंपिअं जं पि तं पि णेवच्छं।
तरुणीअणसंबद्धं अण्णं विअ किं पि तं होइ॥ १२३॥
(यत् तद् रूपं, यत् तत् प्रजल्पितं यदपि तदपि नेपथ्यम्।
तरुणीजनसंबद्धं अन्यदिव किमपि तद् भवति॥)
१.३.५ विक्षिप्तो यथा—
अंगाइ/ हसिआइ समालस/ समंसल—कोमलाइ वीसंभकोमलं भणिअं।
सब्भावकोमलं पुलइअं अ णमिमो सुमहिलाणं॥ १२४॥
(अङ्गानि/हसितानि श्रमालससमांसल—कोमलानि विस्त्रंभकोमलं भणितम्।
सद्भावकोमलं प्रलोकितं च नमामः सुमहिलानाम्॥)
१.३.६ समस्तो यथा—(गास. ५.७३)
आअं/तंबलोअणाणं ओल्लंसुअपाअडोरु—जहणाणं।
अवरण्हमज्जरीणं कए ण कामो वहइ चावं॥ १२५॥
(आताम्रलोचनानाम् आर्द्रांशुकप्रकटोरुजघनानाम्।
अपराह्णमज्जनशीलानां कस्यै न कामो वहति चापम्॥)
१.३.७ व्यस्तो यथा—
लीला—वेलक्ख—विलास—मसिण—बंधुर—मुहारविंदाइं।
रअओच्छअंमि विलासिणीण सोहग्गहसिआइं॥ १२६॥
(लीलावैलक्ष्यविलासमसृणबन्धुरमुखारविन्दानि।
रतओच्छिअम्मि विलासिनीनां सौभाग्यहसितानि॥)
१.३.८ शुद्धो यथा—
ताउ/व गुणिउं उ मरिउं उ बहुहि जम्मेहि जीवेइं।
जाव जणेण सिक्खिअं पिअविओए वि संसरणं॥ १२७॥
{तावद् गुणायितुं च मर्तुं च बहुभिर्जन्मभिर्जीवैः।
यावज्जनेन शिक्षितं प्रियवियोगेऽपि संसरणम्॥}
१.३.९ संकीर्णो यथा—
वण्णोल्लिरअ/ रहसद्धो वोसरिअणिभु/हुवं णिअंतीण।
कोऊहलंमि कुलवालिआण इह इच्चिअ विसेसं॥ १२८॥
{प्रणोदितरहश्श्रद्धः अपसृतनिभृतं पश्र्यन्तीनाम्।
कौतूहले कुलप/बालिकानां इह इष्टविशेषम्॥}
१.३.१० साधर्म्यकृतो यथा—
परिमलिअसुंदराइं दूरपहुप्पंतकोउहल्लाइं।
पुणरुत्तरमिअव्वाइ होंति मुद्धाण सुरआईं॥ १२९॥
{परिमृदितसुन्दराणि दूरप्रभवत्कौतूहलानि।
पुनरुक्त—रन्तव्यानि भवन्ति मुग्धानां सुरतानि॥}
१.३.११ वैधर्म्यकृतो यथा—
पोढमलिलाणँ जं जं सुसिक्खिअं तं रए सुहावेइ।
जं जं असिक्खिअं णववहूणँ तं तं रइं देइ॥ १३०॥
(प्रौढमहिलानां यद् यत् सुशिक्षितं तद् रते सुखयति।
यद् यदशिक्षितं नववधूनां तत्तद् रतिं ददाति॥)
१.३.१२ महाविषयो यथा—
कुविआओ पसण्णाओ ओरुण्णमुहीओ विहसमाणाओ।
जह गहिआ तह हिअअं हरंति उच्छिण्णमहिलाओ॥ १३१॥
(कुपिताः प्रसन्नाः अवरुदितमुख्यो विहसमानाः।
यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो/उत्सन्न—महिलाः॥)
१.३.१३अल्पविषयो यथा—(गास. ६.४५)
गामतरुणीओं हिअअं हरंति छेआणॅथणहरिल्लीओ।
मअणे कुसुंभराइल्लकंचु/इआभरणमेत्ताओ॥ १३२॥
(ग्रामतरुण्यो हृदयं हरन्ति छेकानां स्तनभारवत्यः।
मदने कुसुम्भरञ्जितकञ्चुकिताभरणमात्राः॥)
१.३.१४देशहेतुर्यथा—
णिद्दा—विराम—माणुव्वलिए मुह—बाहु—कंठ—णमिराणं।
तिवली—विहाए मुरलीण विंभिओ को ण पुलएइ?॥ १३३॥
(निद्रा—विराममानोद्वलिते मुख—बाहु—कण्ठनमन्तीनाम्।
त्रिवलिविभागे मरलीनां विस्मितो कः न पुलकयति॥)
१.३.१५ कालहेतुर्यथा—
दिण्णतणुअंजणाइं जुअइजणस्स दररत्ततंबओट्ठाइं।
आसण्णरइसुहाइं अहिवासिज्जंति वम्महेण मुहाइं॥ १३४॥
{दत्ततन्वञ्जनानि युवतिजनस्य . . . दयितताम्रोष्ठानि।
आसन्नरतिसुखानि अधिवास्यन्ते मन्मथेन मुखानि॥}
१.३.१६ धर्मविषयो यथा—(गास. ८९१वे, गउडवहो ९५९)
सामण्णसुंदरीणं विब्भममावहइ अविणओ च्चेअ।
धूमो च्चिअ पज्जलिआणं बहुमओ सुरहिदारूणं॥ १३५॥
(सामान्यसुन्दरीणां विभ्रममा वहत्यविनय एव।
धूम एव प्रज्वलितानां बहुमतः सुरभि—दारूणाम्॥)
१.३.१७ धर्मिविषयो यथा—(गास. ८९१वे.)
मोहेइ वीअंभण-णमिअ-पट्ठि-चल-वेणि।
आरोहिअवंमहधणुलअंवहणकण्णधवलच्छी॥ १३६॥
(मोहयति विजृम्भणनमितपृष्ठचलवेणी।
आरोपितमन्मथधनुर्लतावहनकर्णधवलाक्षी ॥)
१.३.१८ समयजन्मा यथा—(गास.७.१४)
दरवेविरोरुजुअलासु णीअलअच्छीसु लुलिअचिहुरासु।
पुरिसाइरीसु कामो पिआसु सज्जाउहो वसइ॥ १३७॥
(ईषद्वेपनशीलोरुयुगलासु नीचा/ नीलाक्षीषु लुलितचिकुरासु।
पुरुषायितशीलासु कामः प्रियासु सज्जायुधो वसति॥)
१.३.१९सम्बन्धजन्मा यथा—
तह उ/लज्जुअं वि रसिअं चडुपरिहीणं वि दिण्णसब्भावं।
वीसंभे वि ॰ ॰ ॰ घरिणीरअं ण संतरइ॥ १३८॥
(तथा ऋजुकं/लज्जाकं अपि रसितं चटुपरिहीनमपि दत्तसद्भावम्।
विस्त्रम्भेऽपि ॰ ॰ ॰ गृहिणीरतं न संतरति॥)
१.३.२०प्राकृतो यथा—(गास. ६.१३)
हसिएहिं उवालंभा अच्चुअआचारेहिं रअ/रुसिअव्वाइॅ/लज्जिअव्वाइॅ।
अंसूहि मं/ भडणाइं एसो माणो/ मग्गो सुमहिलाणं॥ १३९॥
(हसितैरुपालंभा अत्युपचारैर्लज्जितव्यानि।
अश्रुभिर्मण्डनानि एष मानः/मार्गः सुमहिलानाम्॥)
१.३.२१ वैकृतो यथा—(गास. ९४९वे)
मलिणवसणाण कअवेणिआण आपंडुगंडवासाणं/पालीणं।
पुप्फवइआण कामो अंगेसु कआउहो वसइ॥ १४०॥
(मलिनवसनानां कृतवेणिकानामापाण्डुगण्डपार्श्वानाम्/पालीनाम्।
पुष्पवतीनां कामः अङ्गेषु कृतायुधो वसति॥)
१.३.२२ वयःकृतो यथा—
जह जह वि कामिणीणं सुदोविहलआ अवाणसिरि अहिदे।
॰ ॰ ॰ अव्वमंडल तह विह तारुण्णअं ताओ॥ १४१॥
{यथा यथाऽपि कामिनीनां सु ॰ ॰ ॰ ॰ ॰।
॰ ॰ मण्डल तथाऽपि ह तारुण्यकं ता ॰ ॰॥}
१.३.२३ वैदग्ध्यकृतो यथा—
सब्भावगब्भिणं पाअडंति तह किं पि वम्महरहस्सं।
महिलाओ जह ण विरमंति पत्तसोक्खाइ वि रआइ॥ १४२॥
(सद्भावगर्भितं प्रकटयन्ति तथा किमपि मन्मथरहस्यम्।
महिलाः; यथा न विरमन्ति प्राप्तसौख्यान्यपि रतानि॥)
१.३.२४ सौभाग्यकृतो यथा—(गास. २.५६)
णंदंतु सुरअसरभसतण्हावहराइ सअल्लोअस्स।
बहुमग्गविणिम्मविआइ वेसविलआण हिअआइं/पेम्माइं॥ १४३॥
(नन्दन्तु सुरतसरभसतृष्णापहराणि सकललोकस्य।
बहुमार्गविनिर्मितानि वेश्यावनितानां हृदयानि/ प्रेमाणि॥)
(१.४. विशेषानुरागः —२४)
विशेषानुरागोऽपि चतुर्विंशतिप्रकारः—
१. जातिकृतः ७. प्रतीयमानः १३. स्वप्रकाशः १९. नैसर्गिकः
२. क्रियाकृतः ८. अभिधीयमानः १४. अन्याभिभावी २०. सांसर्गिकः
३. गुणकृतः ९. बाह्यः १५. उल्लेखवान् २१. स्वसंमतः
४. द्रव्यकृतः १०. आभ्यन्तरः १६. अनुल्लेखः २२. स्तोकसंमतः
५. साधारणः ११. सदृशः १७. अतिरिक्तः २३. बहुसंमतः
६. असाधारणः १२. असदृशः १८. अनतिरिक्तः २४. सर्वसंमतः इति।
तत्र —
१.४.१ जातिकृतो यथा—(शाकु. १.१३)
मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्॥ १४४॥
१. ४.२ क्रियाकृतो यथा—
तह वलिअं णअणजुअं गहवइधूआए रंगमज्झंमि।
जह ते वि णडा णडपेच्छआ वि/मुहपेच्छआ जाआ॥ १४५॥
(तथा वलितं नयनयुगं गृहपतिदुहितू रङ्गमध्ये।
यथा तेऽपि नटाः नटप्रेक्षका अपि /इव मुखप्रेक्षका जाताः॥)
१.४.३ गुणकृतो यथा—(गास. १.८८)
जाइण जाणावेउं अणुणअविद्द—विअ—माणपरिसेसं।
पइरिक्कंमि वि विणआवलंबणं स च्चिअ कुणंती॥ १४६॥
(जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम्।
विजनेऽपि विनयावलम्बनं सैव कुर्वती॥)
१.४.४ द्रव्यकृतो यथा—(गास. ८२६वे)
छणपिट्ठधूसरत्थणि महुमअतंबच्छि कुवलआहरणे।
कण्णर्इकअचूअमंजरि तरुणि! /पुत्ति तुए मंडिओ गामो॥ १४७॥
(क्षणपिष्टधूसरस्तनि मधुमदताम्राक्षि कुवलयाभरणे।
कर्णकीकृतचूतमञ्जरि तरुणि!/ पुत्रि त्वया मण्डितो ग्रामः॥)
१.४.५ साधारणो यथा—
णच्चिहिइ णडो पेच्छिहिइ जणवओ हो/भोइओ वि दूसिहिइ।
जइ रंगविहढणअरी गहवइधूआ ण दूषयिष्यति/वच्चिहिइ॥ १४८॥
(नर्तिष्यते नटः प्रेक्षिष्यते जनपदः भोगिकोऽपि।
यदि रङ्गविघटनकरी गृहपतिदुहिता न व्रजिष्यति॥)
१.४.६ असाधारणो यथा—(गास. २.८३)
खणमेत्तं वि ण फिट्टइ अणुदिअविइण्णगरुअसंतावा।
पच्छण्णपावसंक व्व सामली मज्झ हिअआहि॥ १४९॥
(क्षणमात्रमपि न भ्रश्यति अनुदिवसं दत्तगुरुकसंतापा।
प्रच्छन्नपापशङ्केव श्यामला मम हृदयात्॥)
१.४.७ प्रतीयमानो यथा—(गास. ७.४९)
जाइॅ वअणाइॅ अह्मे वि जम्पिमो जाइ जम्पइ जणो वि।
ताइ च्चिअ तेण पअजप्पिआइ हिअअं सुहावेंति॥ १५०॥
(यानि वचनानि वयमपि जल्पामो यानि जल्पति जनोऽपि।
तान्येव तेन प्रजल्पितानि हृदयं सुखापयन्ति॥)
१.४.८ अभिधीयमानो यथा—(गास. ५.७०)
अण्णाण वि अत्थि(होंति) मुहे पम्हलधवलाइ दीहकसणाइ।
णअणाइँ सुंदरीणं तहउण दट्ठुं ण आणंति॥ १५१॥
(अन्यासामापि स्तः मुखे पक्ष्मलधवले दीर्घकृष्णे।
नयने सुन्दरीणां तथा पुनर्द्रष्टुं न जानन्ति॥)
१.४.९ बाह्यो यथा—
दरसुंदरमहुरुल्लाविरीए हल्लंतथोरथणिआए।
सोत्थाए(सोज्झअ)सुआए क्खु कओ तित्थावासाओं जणो सव्वो॥ १५२॥
(ईषत्सुन्दरमधुरोल्लापनशीलया कम्पमानस्थूलस्तया।
रजक सोज्झारसुतया कृतस्तीर्थावासको जनः सर्वः॥)
१.४.१० आभ्यन्तरो यथा—(गास. ७.७७)
अइ उज्जुए! ण लज्जसि पुच्छन्ती मह पिअस्स चरिआइं।
सव्वंगसुरभिणो मरुअअस्स किं कुसुमरिद्धीए?॥ १५३॥
(अयि /ति ऋजुके! न लज्जसे पृच्छन्ती मम प्रियस्य चरितानि।
सर्वाङ्गसुरभेर्मरुवकस्य किं कुसुमर्द्धिभिः/द्धर्या॥)
१.४.११ सदृशो यथा—
रेहइ विअड-विअंभण-सालस-भुअ-जुअल-वलअ-मंडलिअं।
बालाए वअणकमलं कअ-परिवेसो मिअंको व्व॥ १५४॥
(राजते विकट-विजृम्भण-सालस-भुजयुगलवलयमण्डलितम्।
बालायाः वदनकमलं कृतः परिवेषो मृगाङ्क इव॥)
१.४.१२ असदृशो यथा—(गास. ४.३)
एद्दहमेत्तम्मि जए सुंदरमहिलासहस्समज्झम्मि।
अणुहरइ णवर तिस्सा वामद्धं दाहिणद्धस्स॥ १५५॥
(एतावन्मात्रे जगति सुन्दरमहिलासहस्त्रमध्ये।
अनुहरति केवलं तस्या वामार्धं दक्षिणार्धस्य॥)
१.४.१३ स्वप्रकाशो यथा—(मामा. १.३९)
जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ १५६॥
इत्यादि। १.४.१४ अन्याभिभावी यथा—
का अ ण रुण्णा जुअरी/ई को अ/उ जुआ धरहरेण णालिढो/लीढो।
आबद्धंमंडल च्चिअ गहवइधूआधअप्पंके॥ १५७॥
(का च न रुदिता युवतिः कश्च युवाऽधरभरेण नालीढः।
आबद्धमण्डलेव गृहपतिदुहितृध्वजपङ्के॥)
१.४.१५ उल्लेखवान् यथा—(विक्रमो. २.३)
आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः।
उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः॥ १५८॥
इत्यादि। १.४.१६ अनुल्लेखो यथा—(गास. ३.१३)
चंदसरिसं मुहं से अमअ—सरिच्छो— अ मुहरसो तिस्सा।
सकअ-ग्गह-रहसुज्जल-चुंबणअं कस्स सरिसं से?॥ १५९॥
{चन्द्रहरिद्रं मुखं तस्याः सदृशोऽमृतस्य मुखरसस्तस्याः।
सकचग्रहरभसोज्ज्वलचुंबनकं कस्य सदृशं तस्याः?॥}
१.४.१७अतिरिक्तो यथा—(गास. ९६९वे.)
अण्णं लडहत्तणअं अण्णं चिअ कावि वट्टणच्छाआ।
सामा/सा सामण्ण—पआवइस्स रेह च्चिअ ण होइ॥ १६०॥
(अन्यत् लटभत्वं अन्यैव कापि वर्तनच्छाया।
श्यामा सामान्यप्रजापतेः रेखैव न भवति॥)
१.४.१८ अनतिरिक्तो यथा—
पल्लविअं पिव करपल्लवेहिं पप्फुल्लिअं व णअणेहिं।
फलिअं विअ पीणपओहरेहिं अज्जाए लाअण्णं॥ १६१॥
(पल्लवितमिव करपल्लवाभ्यां प्रफुल्लित/ फुल्तमिव नयनाभ्याम्।
फलितमिव पीनपयोधराभ्यां आर्याया लावण्यम्॥)
१.४.१९ नैसर्गिको यथा—
अणवट्ठिएण विसमेण हारिणा दुण्णिवारपसरेण।
णवजोव्वणेण अज्जा णइ व्व पूरेण उच्छलिआ॥ १६२॥
{अनवस्थितेन विषमेण हारिणा दुर्निवारप्रसरेण।
नवयौवनेन आर्या नदीव पूरेण उच्छलिआ॥}
१.४.२० सांसर्गिको यथा—(गास. १.४४)
अक्खडइ पिआ हिअए अण्णं महिलाअणं णिअतंस्स।
दिट्ठे सरिसम्मि गुणे सरिसम्मि गुणे अ—ईसंते॥ १६३॥
(आस्खलति प्रिया हृदये अन्यं महिलाजनं पश्यतः।
दृष्टे सदृशे इव गुणे सदृशे इव गुणे अदृश्यमाने॥)
१.४.२१ स/स्वसम्मतो यथा—॰ ॰॥ १६४॥
१.४.२२ स्तोकसम्मतो यथा—
पीलेइ वलंतुं तुंह घोरघणअइसंणमिअतणुमज्झा।
वसथं होज्जइ/सोज्झअ धूआ हिअएहि समं जुआणाणं॥ १६५॥
{पीडयति वलमानान् युष्मान् स्थूलस्तनातिसन्नमिततनुमध्या।
॰ ॰ ॰ भविष्यति (?) दुहिता हृदयैः समं यूनाम्॥}
१.४.२३ बहुसंमतो यथा—
वाहोल्लविअलिएणँ गामणिधूआएँ उत्तरिज्जेण।
थण-दंसण-रहसोत्ताण-णिच्चलच्छो कओ गामो॥ १६६॥
(बाष्पार्द्रविगलितेन ग्रामणीदुहितुरुत्तरीयेण।
स्तनदर्शनरभसोत्ताननिश्चलाक्षः कृतोः ग्रामः॥)
१.४.२४ सर्वसंमतो यथा—(गास. ३.३४)
जस्स जहिं चिअ पढमं तिस्सा अंगम्मि णिवडिआ दिट्ठी।
तस्स तहिं चेअ ठिआ सव्वंगं केण वि ण दिट्ठ॥ १६७॥
(यस्य यत्रैव प्रथमं तस्या अङ्गे निपतिता दृष्टिः।
तस्य तेनैव स्थिता सर्वाङ्गं केनापि न दृष्टा॥)
(१. ५ प्रकाशानुरागः —२४)
अथ प्रकाशानुरागः। सोऽपि चतु्र्विंशतिप्रकारः—
१. स्वकीयाविषयः ९. स्वाधीनभर्तृकाविषयः १७. ज्येष्ठा(विषयः)
२. स्वयंवराविषयः १०. प्रोषितपतिकाविषयः १८. कनिष्ठा(विषयः)
३. कन्याविषयः ११. विरहोत्कण्ठिताविषयः १९. सुभगाविषयः
४. पुनर्भूविषयः १२. कलहान्तरिताविषयः २०. शुद्धान्तचारिणीप्रचारः
५. वेश्याविषयः १३. खण्डिताविषयः २१. धर्मानुबन्धः
६. सामान्योढाविषयः १४. वासकसज्जाविषयः २२. अर्थानुबन्धः
७. नवोढाविषयः १५. एकचारिणीविषयः २३. कामानुबन्धः
८. प्रौढाविषयः १६. सपत्नी(विषयः) २४. निरनुबन्धः, इति।
तत्र—
१.५.१ स्वकीयाविषयो यथा—(उराच. १.३८)
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो— रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः।
अयं बाहुः कण्टे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः॥ १६८॥
१.५.२. ‘स्वयंवरा’ — विषयो यथा—(रघु. ६. ८०)
ततः सुनन्दावचनावसाने लज्जां मृदूकृत्य नरेन्द्रपुत्री।
दृष्टया प्रसादामलया कुमारं प्रत्यग्रहीत् संवरणस्त्रजेव॥ १६९॥
१.५. ३ कन्याविषयो यथा—(मवीच. १. ३०)
कन्यारत्नमयोनिजन्म भवतामास्ते, वयं चार्थिनो रत्नं यत् क्वचिदस्ति तत् परिणमत्यस्मासु शक्रदपि।
कन्यायाश्च परार्थतैव हि मता, तस्याः प्रदानादहं बन्धुर्वो भविता, पुलस्त्यपुलहप्रष्ठाश्च सम्बन्धिनः॥ १७०॥
१.५.४ पूनर्भूविषयो यथा—(सूमु, ९२)
के वैकटनितम्बेन गिरां गुम्फेन रञ्जिताः।
निन्दन्ति निजकान्तानां न मौग्ध्यमधुरं वचः॥ १७१॥
१.५.५ वेश्याविषयो यथा—(गउडवहो ९५७, गास. ८९१ वो.)
समाण्णसुंदरीणं विबीममावहइ अविणओ च्चिअ।
धूमो च्चिअ पज्जलिआणं बहुमओ सुरभिदारूणं॥ १७२॥
(सामान्यसुन्दरीणां विभ्रममावहति अविनय एव।
धूम एव प्रज्वलितानां मधुरो भवति सुरभिदारूणाम्॥)
१.५.६ सामान्योढाविषयो यथा—
दिअरो परिणिहइ फुडं सुण्हा सुणिउँ खु दुक्खिआ जाआ।
सेसिअघरवावारा ओरुण्णमुही परिब्भमइ॥ १७३॥
{देवरः परिणेष्यति स्फुटं स्नुषा श्रुत्वा सुदुःखिता जाता।
शेषितगृहव्यापारा अवरुदितमुखी परिभ्रमति॥}
१.५.७ नवोढाविषयो यथा—(सूमु. २.)
दृष्टा दृष्टिमध्यो ददाति, कुरुते नालापमाभाषिता शय्यायां परिवृत्य तिष्ठति, बलादालिङ्गिता वेपते।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते जाता वामतयैव सम्प्रति मम प्रीत्यै नवोढा वधूः॥ १७४॥
१.५.८ प्रौढाविषयो यथा—(अमरु. १८)
एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरतः, ताम्बूलानयनच्छलेन रभसाश्र्लेषोऽपि संविघ्नितः।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्याऽन्तिके कान्तं प्रत्युपचारश्चतुरया कोपः कृतार्थीकृतः॥ १७५॥
इत्यादि। १.५. ९ स्वाधीनभर्तृकाविषयो यथा—(उराच. १.३५)
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः? किमु मदः?।
तव स्पर्शेस्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्र्चैतन्यं भ्रमयति च, सम्मोहयति च॥ १७६॥
इत्यादि। १.५.१० प्रोषितपतिकाविषयो यथा—(मेघ. १०१)
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्त्रेणास्त्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥ १७७॥
१.५.११ विरहोत्कण्ठिताविषयो यथा—(गास. १.२९)
अज्ज मए तेण विणा अणुहूअसुहाइँ संभरंतीए।
अहिणवमेहाणँ रवो णिसामिओ वज्झपडहो व्व॥ १७८॥
(अद्य मया तेन विना अनुभूतसुखानि संस्मरन्त्या।
अभिनवमेघानां रवो निशामितो वध्यपटह इव॥)
१.५.१२ कलहान्तरिताविषयो यथा—
मया तावद् गोत्रस्खलनहतकोपान्तरितया न रुद्धो निर्गच्छन्ननुनयविलक्षः प्रियतमः।
अयं त्वाकूतज्ञः परिणतिपरामर्शकुशलः सखीलोकोऽप्यासील्लिखित इव चित्रे; कथमिदम् ?॥ १७९॥
१.५.१३ खण्डिताविषयो यथा—(अमरु. ६०)
लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः॥ १८०॥
१.५.१४ वासकसज्जाविषयो यथा—(गास. ४.८५)
एहिसि तुमं/एहति पिओ त्ति णिमिसं व जग्गिअं जामिणीएँ पढमद्धं।
सेसं संतावपरव्वसाएँ वरिसं व बोलीणं॥ १८१॥
(एष्यति प्रिय इति निमिष इव जागरितं यामिन्याः प्रथमार्धम्।
शेषं सन्तापपरवशाया वर्ष इव व्यपलीनम्॥)
१.५.१५ एकचारिणीविषयो यथा—
अतिथिभिर्गतमेव दिवाऽऽगतैरपथिकागमना च निशीथिनी।
तदधुना प्रतिजागृहि पुत्रकान् प्रविश वेश्म कुटुम्बिनि! शेमहे॥ १८२॥
१.५.१६ सपत्नीविषयो यथा—(माघ. ३.१६)
यां यां प्रियः प्रैक्षत कातराक्षीं सा सा ह्निया नम्रमुखी बभूव।
निश्शङ्कमन्याः सममाहितेर्ष्याः तत्रान्तरे जघ्नुरमुं कटाक्षैः॥ १८३॥
१.५.१७ ज्येष्ठाविषयो यथा—(हवि.)
तं तिअसकुसुमदामं हरिणा णिंमहिअसुरभिगंधामोअं।
अप्पणइअं वि दूमिअपणइणिहिअएण रुप्पिणीअ विइण्णं॥ १८४॥
{तत् त्रिदशकुसुमदाम हरिणा निर्गत(निर्मथित)सुरभिगन्धमोदम्।
आत्मनाऽऽनीतमपि दुःखितप्रणयिनीहृदयेन रुक्मिण्यै वितीर्णम्॥}
१.५. १८ कनिष्ठाविषयो यथा—(हवि.)
कुविआ अ सच्चहामा समे वि बहुआण णवर माणक्खलणे।
पाअडिअहिअअसारो पेम्मासंघसरिसो पअट्टई मण्णू॥ १८५॥
(कुपिता च सत्यभामा समेऽपि वधूनां केवलं मानस्खलने।
प्रकटितहृदयसारः प्रेमाशंसासदृशः प्रवर्तते मन्युः॥)
१.५.१९ सुभगाविषयो यथा—(गास. २.२०)
उक्खिप्पइ मंडलिमारुएण गेहगंणाओ वाहीए।
सोहग्गधअपडाअ व्व उवह धणुरुंपरिंछोली॥ १८६॥
(उत्क्षिप्यते मारुतमण्डलेन गेहाङ्गणाद् व्याध्याः।
सौभाग्यध्वजपताकेव पश्यत धनुस्सूक्ष्मपङ्क्तिः॥)
१.५.२०. शुद्धान्तचारिणीप्रचारो यथा—(दअ. २. ७/८)
स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसुर्, द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याऽद्य च।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः॥ १८७॥
१.५.२१ धर्मानुबन्धो यथा—(कुसं. १. १८)
स मानसीं मेरुसखः पितृणां कन्यां कुलस्य स्थितये स्थितिज्ञः।
मेनां मुनीनामपि माननीयामात्मानुरूपां विधिनोपयेमे॥ १८८॥
१.५.२२ अर्थानुबन्धो यथा—(रत्ना. ४.२०)
यातो विक्रमबाहुरात्मसमतां, प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया।
देवी प्रीतिमुपागता च, भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे, यस्मिन्(यस्मै) करोमि स्पृहाम्॥ १८९॥
१.५.२३ कामानुबन्धो यथा—(मामा. ६.२०)
आमूलकण्टकितकोमलबाहुनालमार्द्राङ्गुलीदलमनङ्गनिदाघतप्तम् ।
अस्याः करेण करमाकलयामि कान्तमारक्तपङ्कजमिव द्विरदः सरस्याः॥ १९०॥
१.५. २४ निरनुबन्धो यथा—(हवि.)
णारअणो त्ति परिणअवआंहिँ सिरिवल्लहो त्ति तरुणीहिं।
बालाहिं उण कोऊहलेण एमेअ सच्चविओ॥ १९१॥
(नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः।
बालाभिः पुनः कौतूहलेन एवमेव सत्यापितः॥)
(१. ६ प्रच्छन्नानुरागः —२४)
प्रच्छन्नानुरागोऽपि चतुर्विंशतिप्रकारः—
१. पराङ्गनाविषयः २. स्वाङ्गनाविषयः ३. स्वैरिणीविषयः
४. कुमारीविषयः ५. धीराविषयः ६. अधीराविषयः
७. विप्रलब्धाविषयः ८. अभिसारिकाविषयः ९. सुलभः
१०. दुर्लभः ११. सन्निकृष्टः १२. विप्रकृष्टः
१३. संबद्धः १४. असंबद्धः १५. सापदेशः
१६. निरपदेशः १७. भयनिमित्तः १८. लज्जानिमित्तः
१९. कालानियतः २०. देशनियतः २१. नागरः
२२. उपनागरः २३. ग्राम्यः २४. प्रकीर्णः, इति।
तत्र—
१.६.१ पराङ्गनाविषयो यथा—(गास. ८६५ वे.)
एमेअ मंद—पु्ण्णा अप्पत्तमणोरहा विवज्जिस्सं।
जणवाओ वि ण जाओ तेण समं हलिअउत्तेण॥ १९२॥
(एवमेव मन्दपुण्या अप्राप्तमनोरथा विपत्स्ये।
जनवादोऽपि न जातस्तेन समं हालिकपुत्रेण॥)
१.६.२. स्वाङ्गनाविषयो यथा—(गास. २.९९)
पणअं पढमपिआए रक्खिउकामो वि मुहरमहुरेहिं।
छेअवरो वि णिणदज्जइ अहिणव—वहुआ—विलासेहिं॥ १९३॥
(प्रणयं प्रथमप्रियाया रक्षितुकामोऽपि मधुरमधुरैः।
छेकवरोऽपि व्याकुलीक्रियते अभिनववधूविलासैः॥)
१.६.३ स्वैरिणीविषयो यथा—(गास. २. ८७)
तह सा जाणइ जाआ लोए पच्छण्णमविणअं काउं।
जह पढमं चिअ लिक्खइ मज्झे चारित्तवत्तीण॥ १९४॥
{तथा सा जानाति जाया लोके प्रच्छन्नमविनयं कर्तुम्।
यथा प्रथममेव लिख्यते मध्ये चारित्रवतीनाम्॥}
१.६.४ कुमारीविषयो यथा—(गास. ४.१८)
अज्ज मए माउच्छा सोज्झअगेहे मणोरहब्भरिअं।
गहवइउत्तकडिल्लं दिट्ठं णिअरूवलावणिअं॥ १९५॥
{अद्य मया मातृष्वसः! उपाध्यायगेहे मनोरथं भ्रमितम्।
गृहपतिपुत्रकटिवस्त्रं दृष्टं निजरूपलावण्यम्॥
१.६.५ धीराविषयो यथा—(गास. २.९९)
पाअडिअ—सणेह—सब्भाव—विब्भमं तीअ जह तुमं/अहं दिट्ठो।
संवरण—वावडाए अण्णो वि जणो तह च्चेअ॥ १९६॥
(प्रकटितस्नेहसद्भावविभ्रमं तया यथाऽहं/त्वं दृष्टः।
संवरणव्यापृतया अन्योऽपि जनस्तथैव॥)
१.६.६ अधीराविषयो यथा—(गास. २.८७)
आअस्स किं णु काहं किं वोच्छं कह णु होहिइ इमं? ति।
पढमुग्गअ—साहस—आरिआएँ हिअअं थरहरेइ॥ १९७॥
(आगतस्य किं नु करिष्यामिः? किं वक्ष्यामि? कथं नु भविष्यतीदमिति।
प्रथमार्द्रितसाहसकारिकाया हृदयं थरथरायते॥)
१.६.७ विप्रलब्धाविषयो यथा—(गास. ४.१८)
अह सा तहिं तहिं च्चिअ वाणीरवणंमि चुक्कसंकेआ।
तुह दंसणं विमग्गइ पँहठ्ठ—णिहाण—ठाणं व॥ ११८॥
{अथ सा तत्र तत्रव वानीरवने विस्मृत/त्यक्तसंकेता।
तव दर्शनं विमार्गति प्रभ्रष्ट/विस्मृत—निधानस्थानमिव॥}
१. ६.८ अभिसारिकाविषयो यथा—(गास. ३.४९)
अज्ज मए गंतव्वं घणंधआरे वि तस्स सुहअस्स।
बाला/अज्जा णिमीलिअच्छी पअपरिपाडिं घरे कुणइ॥ १९९॥
(अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।
बाला/आर्या निमीलिताक्षी पदपारिपाटीं गृहे करोति॥)
१.६. ९ सुलभो यथा—
संकेअऊसुअमणो गहवइ—धूआ—कडक्ख—सण्णइओ/सच्चवओ।
तंबं गअं ण वेअइ गोवालो अंबरं दुहइ॥ २००॥
(सङ्केतोत्सुकमना गृहपतिदुहितृकटाक्षसंज्ञापितः/दृष्टः।
गां गतां न वेत्ति गोपालोऽम्बरं दोग्धि॥)
१.६. १० दुर्लभा यथा—
एक्कंगणदुलहे् माणुसम्मि उज्झइ/दथ्थइ जणो णिअंतो वि।
पुणरुत्तदंसआ सिक्किआ हि वरह/हिग्गि पु/चुडुलंहि॥ २०१॥
(एकाङ्गणदुर्लभे मानुषे उज्झति जनो निर्वृतोऽपि।
पुनरुक्त ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰॥)
१.६. ११ सन्निकृष्टो यथा—(गास. ४. ३५)
बहलअमा हअराई, अज्ज पउत्थो पई, घरं सुण्णं।
तह जग्गेज्ज सअज्झिअ! ण जहा अह्मे मुसिज्जामो॥ २०२॥
(बहलतमा हतरात्रिरद्य प्रोषितः पतिर्गृहं शून्यम्।
तथा जागृहि प्रतिवेशिन्! न यथा वयं मुष्यामहे॥)
१. ६.१२ विप्रकृष्टो यथा—(गास. ६. ४९)
पोढ/वोडसुणओ विअण्णो अत्ता मत्ता पहेणअ—सुराए।
फलिहं अ मोडिअं महिसएण को साहउ तस्स॥ २०३॥
{प्रौढवृद्धशुनको विपन्नः अत्ता/श्वश्रूर्मत्ता प्रफेनक—सुरया।
कर्पासक्षेत्रं च मोटितं महिषकेण, कस्तस्य कथयतु?॥}
१.६.१३ सम्बद्धो यथा—
रत्तिं णिद्दअरमिओ दिअरो वहुआएँ मलिअ—वो/पोत्तीए।
मा छिवसु त्ति पहाए भणिओ अंतोमुहं हसइ॥ २०४॥
{रात्रिं निर्दयरमितो देवरो वध्वा मलिनवस्त्रया।
मा स्पृशेति प्रभाते भणितोऽन्तर्मुखं हसति॥}
१.६.१४ असम्बद्धो यथा—(गास. ६.५७)
सुप्पं डड्ढं चणआ ण हुग्गिआ (भज्जिआ) पंथिओ अ वोलीणो।
अत्ता घरंमि कुविआ भूआण वाइओ वंसो॥ २०५॥
{शूर्पं दग्धं चणका न भर्जिताः पान्थश्च व्यति/व्यप—क्रान्तः।
श्वश्रूः गृहे कुपिता भूतामिव वादितो वंशः॥}
१.६. १५ सापदेशो यथा—(गास. ३.३७)
पइपुरओ च्चिअ णिज्जइ विच्छुअडट्ठ त्ति/ढक्केत्ति जारवेज्जहरं।
णिउणसही—करधरिआ भुअजुअलअं—दोलिणी बाला॥ २०६॥
(पतिपुरत एव नीयते वृश्चिकदष्टेति जारवैद्यगृहम्।
सहृदयसखीजनकरधारितभुजलतान्दोलनी बाला॥)
१.६. १६ निरपदेशो यथा—
उग्गाहिएक्कहुमअं तणु.हास.फुरंत. दसण. जोण्हालं।
कस्स ण हरेइ हिअअं चोरिअदिठ्ठं मअच्छीए॥ २०७॥
(उद्ग्राहितैकभ्रुकं, तनु—हास—स्फुरद्—दशन—ज्योत्स्नाकम्।
कस्य ण हरते हृदयं चौर्यदृष्टं मृगाक्षीणाम्॥)
१.६. १७ भयनिमित्तो यथा—
पणअ—क्खलणा—संकालुआणँ लोआववाअ—भीआणं।
लज्जालुआण कालो एव्वमेव अ गओ णिरवसेसो॥ २०८॥
{प्रणयस्खलनाशङ्कलूनां लोकापवादभीतानाम्(भीरुणाम्)।
लज्जालूनां कालः एवमेव हि गतो निरवशेषः॥}
१.६.१८ लज्जानिमित्तो यथा—
सलिलोल्लदारुआइँ व अंतो च्चिअ सिमिसिमाअमाणाइं।
मअणाणलेण लज्जालुआणँ डज्झंति हिअआइं॥ २०९॥
{सलिलार्द्रदारुकाणीव अन्तरेव सिमसिमायमानानि।
मदनानलेन लज्जालूनां दह्यन्ते हृदयानि॥}
१.६. १९ कालनियतो यथा—(गास. १.२२)
आअरपणामिओट्ठं अघडिअणासं असंहअ—णिडालं।
वण्णग्घिअ-तुप्प-मुहिएँ तीएँ परिउंबिअं भरिमो॥ २१०॥
(आदरप्रणामितोष्टमघटितनासमसंहतनिटालम् ।
वर्णघृतलिप्तमुख्यास्तस्या परिचुम्बितं स्मरामः॥)
१. ६.२० देशनियतो यथा—
जाणामि जणो णिउणो गुरुजणमज्झंम्मि संठिआ अ अहं।
ता किं करेमि पिअसहि! धरिआ वि बला वलइ दिट्ठी॥ २११॥
{जानामि जनो निपुणो गुरुजनमध्ये संस्थिता (चाहम्)।
तत् किं करोमि? प्रियसखि! धृताऽपि बलाद् वलते दृष्टिः॥}
१.६. २१ नागरो यथा—(गास. ४.७०)
किं ण भणिओ सि बालअ! गामणिधूआए गुरुअणसमक्खं।
अणिमिस-वंक्क-वलंतअ-आणण-णअणद्ध-दिट्टेहिं॥ २१२॥
{किं न ग/भणितोऽसि बालक! ग्रामणीदुहित्रा गुरुजनसमक्षम्।
अनिमिष—वक्र—वलमानानन—नयनाऽर्धदृष्टैः ॥}
१.६.२२ उपनागरो यथा—
गिहलुक्कविआसई असरीर णिरंगिवेरंतपेसिअच्चिजुअं।
अद्दिठ्ठाणडुंडणढपेच्छिरीए दीसंत धण्णो सि॥ २१३॥
{गृहलुक्कविआशरीर निरङ्गिपर्यन्तप्रेषिताक्षियुगम्।
अदृष्ट—डुंडणढ़(?) प्रेक्षणशीलया दृश्यमानो धन्योऽसि॥}
१.६. २३ ग्राम्यो यथा—(गास. ४०९ वे.)
दट्ठुं चिरं ण लद्धो मामि! पिओ दिट्ठिगोअरगओ पि।
दंडाहअ—वलिअ—हुअंग—वंक्क—रच्छे हअग्गामे॥ २१४॥
{द्रष्टुं चिरं न लब्धो मातुलानि! प्रियो दृष्टिगोचरगतोऽपि।
दण्डाहतवलितभुजङ्गवक्ररथ्ये हतग्रामे॥}
१.६.२४ प्रकीर्णो यथा—(गास. ३.९५)
चुंबइ वासिण्ण/वोसण्णमुही दइअकओलं व्व पंडुरच्छाअं।
असई णिहुवणवडपाअवस्स वाआणिअं पत्तं॥ २१५॥
{चुम्बति अवसन्नमुखी दयितकपोलमिव पाण्डुरच्छायम्।
असती निधुवनवटापादपस्य वातानीतं पत्रम्॥}
(१. ७. अकृत्त्रिमानुरागः — २४)
अथाकृत्रिमः। सोऽपि चतुर्विंशतिविधः, सहज—यौवनजाहार्यज—विस्त्रम्भजानां भेदोपभेदप्रभेदसम्भेदविभेदभेदात्। अनन्यजाने(स्त्वमी)१ तत्र भेदाः सहजा एव। तेषु— १.७.१ जन्मान्तरानुभवजन्मा निष्कारणमेव प्रवृत्तः प्रकर्षगामी सहजः; यथा—(कुसं. ५.५३)
इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी।
अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति॥ २१६॥
१.७.२ स उपभेदतो द्वेधा, एकविषयोऽनेकविषयश्च। तत्रैकविषयो यथा—(रघु. १५.६१)
श्र्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः।
अनन्यजानेर्यस्यासीत् सैव जाया हिरण्मयी॥ २१७॥
१.७.३. अनेकविषयो यथा—(गारको. ६९७)
असईण णमो ताणं दप्पणसरिसेसु जाण हिअएसु।
जो च्चेअ ठाइ पुरओ सहसा सो च्चेअ संकमइ॥ २१८॥
(असतीनां नमस्तासां दर्पणसदृशेषु य़ासां हृदयेषु।
य एव तिष्ठति पुरतः सहसा स एव सङ्क्रामति॥
१.७. ४. तारुण्योद्रेकादुपचितेषु उपचीयमानेषु शरीरधातुषु दर्पातिरेकाद् य उपजायते, स यौवनजः। यथा—(गास. ९५४ वे.)
अणुदिअहकआहोआ जह जह थणआ विणिंति कुमरीणं।
तह तह लद्धोआसो व्व वम्महो हिअअमाविसइ॥ २१९॥
१. ‘जानेव्या तत्र भेदाः सहजाः ? य एव’—जोः; ‘जाने(र)प्या(?) तत्र भेदा सहजा. . . . एव’—रा.
(अनुदिवसकृताभोगा यथा यथा स्तना विनिर्यान्ति कुमारीणाम्।
तथा तथा लब्धावकाश इव मन्मथो हृदयमाविशति॥)
१.७.५ सोऽपि द्विधा—शारीरो मानसश्च। तत्र
अद्यो यथा—
जं वहइ वीअकंडं मज्झ सुओ एक्कपहरविणिवाइँ।
तं कुलदूसणि सोण्हे ! थणाण तुह मत्थए पडइ/उ॥ २२०॥
{यद् वहति वीतकाण्डं मम सुतः एकप्रहारविनिपातम्।
तत् कुलदूषणि स्नुषे ! स्तनयोस्तव मस्तके पतति/तु॥}
१.७. ६. द्वितीयो यथा—
णअणाणँ इषवो णु अभिहंति उज्जुअपहं पवट्टंता।
इअ सिक्खंति व्व तंसाव लोअणं होंततरुणीओ॥ २२१॥
(नयनानीषवो न्वभिघ्नन्ति ऋजुकपथं प्रवर्तमानाः।
इति शिक्षमाणमिव त्र्यस्त्रावलोकनं भविष्यत्तरुण्यः॥)
१.७.७. चक्षुःप्रीतिमात्रे वा सति उपचारैः यः प्रकर्षमापद्यते स आहार्यजः; यथा—
घरिणीए अकइअव्वं चडुअंमं पिअअमे कुणंतंमि।
अकअत्थाए वि जाआइ झत्ति सिढिलाइ अंगाइ॥ २२२॥
(गृहिण्या अकैतवं चाटुकर्म प्रियतमे कुर्वति।
अकृतार्थाया अपि जातानि झटिति शिथिलानि अङ्गानि॥)
१.७.८. सोऽपि द्विधा—स्थिरो भङ्गुरश्च।
स्थिरो यथा—(गास. ३.४६)
मामि! हिअअं व पीअं तेण जुवाणेण मज्जमाणाए।
ण्हाणहलिद्दाकडुअं अणुसोत्तजलं पिअंतेण॥ २२३॥
(मातुलानि! हृदयमिव पीतं तेन यूना मज्जन्त्याः।
स्नानहरिद्राकटुकं अनुस्त्रोतोजलं पिबता॥)
१.७.९. भङ्गुरो यथा—(गास. ६.२४)
लज्जा छत्ता, सीलं च खंडिअ, अजसघोसणा दिण्णा।
जस्स कए णं पिअसहि! सो च्चेअ जणो जणो जाओ॥ २२४॥
(लज्जा त्यक्ता, शीलं च खण्डितम्, अयशोघोषणा दत्ता।
यस्य कृते ननु प्रियसखि! स एव जनो जनो जातः॥)
१.७.१०. कालक्रमेण प्ररूढविश्वासयोर्यः प्रकर्षमारहणोपचारादिनाद्रियते स विस्त्रम्भजः ; यथा— (उराच. १.३९)
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् विस्त्रम्भो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कानेनावरणात्ययात् परिणते यत् प्रेमसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत् प्रार्थ्यते॥ २२५॥
१.७.११. सोऽपि द्विधा— मुग्धः प्रगल्भश्च।
मुग्धो यथा—(गास. ३.९३)
जह जह जरापरिणओ होइ पई दुग्गओ विरूओ अ।
कुलवालिआण तह तह अहिअअरं वल्लहो होइ॥ २२६॥
(यथा यथा जरापरिणतो भवति पतिर्दुर्गतो विरूपश्च।
कुलपालिकानां तथा तथा अधिकतरं वल्लभो भवति॥)
१.७.१२. प्रगल्भो यथा— (हवि.)
णाअरिआपेम्म विअण्हो वि सब्भावमेत्तसाराइ।
कण्हो राहाएँ सममुज्जुआइ भरइ च्चिअ रआइँ/ आलंइं॥ २२७॥
(नागरिकाप्रेम्णो वितृष्णोऽपि सद्भावमात्रसाराणि।
कृष्णो राधया समं स्मरत्येवाकालम्॥)
१.७.१३. प्रभेदतः —
सहजयौवनजः, सहजाहार्यजः, सहजविस्त्रम्भजः, यौवनजाहार्यजः, यौवनजविस्त्रम्भजः, आहार्यविस्त्रम्भजः इति। तत्र—
सहजयौवनजो यथा—(उराच. ६.३५)
तदा/यदा किञ्चित् किञ्चित् कृतपदमहोभिः कतिपयै— स्तदेतद् विस्तारि स्तनयुगलमासीन्मृगदृशः।
वयस्स्नेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापाराश्चरति हृदि, मुग्धश्च वपुषि॥ २२८॥
१.७.१४. सहजाहार्यजो यथा—(मामा. ४.८)
तन्मे मनः क्षिपति यत्सरसप्रहार— मालोक्य मामगणितस्खलदुत्तरीया।
त्रस्तैकहायनकुरङ्गविलोलदृष्टि— राश्लिष्टवत्यमृतसंवलितैरपाङ्गैः॥ २२९॥
इत्यादि। १.७.१५. सहजविस्त्रम्भजो यथा—(रघु. ७.६७)
इतः परानर्भकहार्यशस्त्रान् वैदर्भि! पश्यानुमता मयाऽसि।
एवं विधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः॥ २३०॥
१.७.१६. यौवनजाहार्यजो यथा—(गास. २.१९, वज्जा. २०६)
अज्ज कइमो वि दिअहो, वाहवहू गरुअ/रूवजोव्वणुम्मत्ता।
सोहग्गं धणुरुंपच्छलेण रच्छासु विक्खिरइ॥ २३१॥
(अद्य कतमोऽपि दिवसो व्याधवधूः गुरुक/रूपयौवनोन्मत्ता।
सौभाग्यं धनुस्तष्टत्वक्च्छलेन रथ्यासु विकिरति॥)
१.७.१७. यौवनजविस्त्रम्भजो यथा—(गास. ३.५४)
तह सोण्हाए पुलोइओ दरवलिआवंगतारअं पहिओ।
जह धाडिओ/वारिओ वि घरसामिएण ओलिंदए वसिओ॥ २३२॥
(तथा स्नुषया प्रलोकितो दरवलमानवक्रतारकं पथिकः।
यथा ताडितो/वारितोऽपि गृहस्वामिनाऽलिन्दके उषितः॥)
१.७.१८. आहार्यविस्त्रम्भजो यथा—(कुसं. ५.८६)
अद्य प्रभृत्यनुपमाङ्गि! तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ।
अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते॥ २३३॥
इत्यादि। १.७.१९. संभेदत्तः — निस्सहजः निर्यौवनजः निराहार्यजः निर्विस्त्रम्भज इति।
निस्सहजो यथा—(मामा. ७.२)
रम्भोरु! संहर भयं क्षमते विकारमुत्कम्पितस्तनभरस्य न मध्यभागः।
इत्थं त्वयैव कथितप्रणयप्रसादसङ्कल्पनिर्वृतिषु संस्तुत एष दासः॥ २३४॥
१.७.२०. निर्यौवनजो यथा—(कुसं. ८.७९)
तत्क्षणं विपरिवर्तितह्रियोर्निष्य/च्छतोः शयनमिद्धरागयोः।
सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च॥ २३५॥
१.७.२१. निराहार्यजो यथा—(सूमु. ४१)
मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति।
आद्य/अन्याऽपि किं सखि! न भाजनमीदृशानां वैरी न चेद् भवति वेपथुरन्तरायः॥ २३६॥
१.७.२२. निर्विस्त्रम्भजो यथा—(मामा. ७.४)
अद्योर्जितं विजितमेव मया किमन्यदस्योत्सवः फलवतो मम यौवनस्य।
यस्य प्रसादसुमुखेन समुद्धृतेयं देवेन बान्धवधुरा मकरध्वजेन॥ २३७॥
१.७.२३. विभेदः— सहजादिसमूहः सहजाविपर्ययज इति। तत्र
आद्यो यथा—(कुसं. ८.१५)
भावसूचितरहस्यविक्रियं चाटुमत् क्षणवियोगकातरम्।
कैश्चिदेव दिवसैस्तथा तयोः प्रेम रूढमितरेतराश्रयम्॥ २३८॥
१.७.२४. द्वितीयो यथा—(गास. ४.९०)
पाअपडिअं अहव्वे! किं दाणिं ण उट्ठवेसि भत्तारं।
एअं विअ अवसाणं दूरं पि गअस्स पेम्मस्स॥ २३९॥
(पादपतितमभव्ये! किमिदानीं नोत्थापयसि भर्तारम्।
एतदेवावसानं दूरमपि गतस्य प्रेम्णः॥)
(१.८ कृत्त्रिमानुरागः —२४)
अथ कृत्रिमः। पूर्वमविद्यमानः कार्यहेतोर्य उपायैः प्रवर्त्यते स कृत्रिमः; सोऽपि चतुर्विंशतिप्रकारः—
१. नित्यानुकारी २. नैमित्तिकानुकारी ३. सामान्यानुकारी
४. विशेषानुकारी ९. आहार्यानुकारी १०. विस्त्रम्भानुकारी
११. सालम्बनः १२. निरालम्बनः १७. सप्रयोजनः
१८. अन्यप्रयोजनः १९. सप्रतिभेदः २०. निष्प्रतिभेदः
५. प्रकाशानुकारी १३. प्रसिद्धविषयः २१. स्त्रीकृतः
६. प्रच्छन्नानुकारी १४. अप्रसिद्धविषयः २२. पुरुषकृतः
७. सहजानुकारी १५. सुप्रयुक्तः २३. उभयकृतः
८. यौवनजानुकारी १६. दुष्प्रयुक्तः २४. अनुभयकृतः, इति।
तत्र—
१.८.१. नित्यानुकारी यथा—
अज्ज सुरअम्मि पिअसहि! तस्स विलक्खत्तणं हरंतीए।
अकअत्थाएॅ कअत्थो पिओ मए उणिअं/णिउणं उवऊढो॥ २४०॥
{अद्य सुरते प्रियसखि! तस्य विलक्षत्वं हरन्त्या।
अकृतार्थया कृतार्थः प्रियो मया पुनरप्युप/निपुणमुपगूढः॥}
१.८.२. नैमित्तिकानुकारी यथा—(राच. १२.७८)
तमसौ सहकारमञ्जरीमवमन्वानमिवादरार्पिताम्।
अरुणाग्रदलैरताडयत् तरुणी स्तोकमशोकपल्लवैः॥ २४१॥
१.८.३. सामान्यानुकारी यथा—
माअंगी होज्ज वणे मा वेसा एद्ध माणुसे लोए।
सब्भावेण वि रमिओ तो वि जणो कत्तिमं भणइ॥ २४२॥
(माअंगी भूयासं/भवेयं वने मा वेश्या अत्र मानुषे लोके।
सद्भावेनापि रमितः, ततोऽपि जनः कृत्रिमं भणति॥
१.८.४. विशेषानुकारी यथा—(राच. १२.५४)
विकसत्कलिकानुकारिणीमनुलीलां ललितैर्लतेव सा।
विरराज विलासपल्लवैः प्लवगं तं प्रति निष्फलैरपि॥ २४३॥
१.८.५. प्रकाशानुकारी यथा—(सूमु. ७)
दृष्टिं हे प्रतिवेशिनि! क्षणमिहाप्यस्मिन् गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति।
एकाकिन्यपि यामि तद् वनमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः॥ २४४॥
१.८.६. प्रच्छन्नानुकारी यथा—
किं णीलकंठ! गज्ज/च्छसि किं वा सुत्तो सि जणमणाणंद।
तुज्झ कए इह आआ विद्धाहं मअणबाणेहिं॥ २४५॥
(किं नीलकण्ठ! गर्जसि/गच्छसि किं वा सुप्तोऽसि जनमन आनन्द।
तव कृते इह आगता, विद्धाऽहं मदनबाणैः॥)
१.८.७. सहजानुकारी यथा—(राच. १२.५९)
स्फुटनाभितला तलोदरी तनुच्छ्वासितनिर्मुखस्तनी।
वलितैकविलोचना बभौ तमभि व्याजविजृम्भितोद्भुजा॥ २४६॥
१.८.८. आहार्यानुकारी यथा—(राच. १२.६४)
विषसाद विशेषविह्वला मुमुदे मीलितलोचना मुहुः।
किलकिञ्चितकेलिपण्डिता किमकाण्डे न चकार तं प्रति॥ २४७॥
१.८.९. यौवनजानुकारी यथा—(राच. १२.५३)
वपुरप्रतिकर्मसुन्दरं प्रतिपन्नप्रतिकर्म बिभ्रती।
विततान विदग्धकामिनीजनयोग्यासु कलासु कौशलम्॥ २४८॥
१.८.१०. विस्रम्भजानुकारी यथा—(राच. १२.५७)
अवलम्ब्य लतां निरायतामथा सा संस्तवशालिनीव तम्।
अपचेतुमयाचताग्रतः कलिकामुत्कलिकाबलात्कृता॥ २४९॥
१.८.११. सालम्बनो यथा—
घरसामिअस्स राअं जणेइ सिज्जंतवेविरुल्लसिआ।
असई हिअअब्भंतरभाविअजारा णिहुवणम्मि॥ २५०॥
(गृहस्वामिनो रागं जनयति स्विद्यद्वेपितोद्वेपनशीलो—ल्लसिता।
असती हृदयाभ्यन्तरभावितजारा निधुवने॥)
१.८.१२. निरालम्बनो यथा—(राच. १२.६३)
निषसाद निशीथमल्लिकाशिथिलाश्रुस्तबकाञ्चितस्तनी।
तदनु क्रमशः कपोलयोरुपनीतोभयपाणिपल्लवा॥ २५१॥
१.८.१३. प्रसिद्धविषयो यथा—(गास. २.५६)
णंदंतु सुरअसरभसतण्हावहराइ सअललोअस्स।
बहुमग्गविणिम्मविआइ वेसविलआण हिअआइं॥ २५२॥
(नन्दन्तु सुरतरसभसतृष्णापहराणि सकललोकस्य।
बहुमार्गविनिर्मितानि वेशवनितानां हृदयानि॥)
१.८.१४. अप्रसिद्धविषयो यथा—(वज्जा. ४७५)
पेच्छह हला अणु चोज्जं/महाणुचोज्जं, काण—महिलाए जं कअं तीए।
सज्जक्खिचुंबणेणं झडत्ति णीसारिओ जारो॥ २५३॥
(प्रेक्षध्वं महदाश्चर्यं, काणमहिलया यत् कृतं तया।
सद्योऽक्षिचुम्बनेन झटिति निस्सारितो जारः॥)
१.८.१५. सुप्रयुक्तो यथा—
एएणं चेअ गुणेण किं ण वेसाण दिज्जए अप्पा।
वेसे व्व पिए व्व जणे जं मुहराओ समो च्चेअ॥ २५४॥
(एतेनैव गुणेन किं न वेश्यानां दृश्यते/दियते आत्मा।
द्वेष्य/वेष इव प्रिय इव जने यन्मुखरागः सम एव॥)
१.८.१६. दुष्प्रयुक्तो यथा—(किराता. १०.४०)
मुनिमभिमुखतां निनीषवो यं/याः समुपययुः कमनीयतागुणेन।
मदनमुपदधे स एव ताभ्यो दुरधिगमाधि/हि गतिः प्रयोजनानाम्॥ २५५॥
१.८.१७. सप्रयोजनो यथा—
वोढवरेण वि तह तेण रामिआ णिअअकज्जणिउणेण।
जह मुद्धाएॅ वि रमिओ मुद्धति वहूएँ णीसंकं॥ २५६॥
(प्रौढवरेणापि तथा तेन रमिता निजककार्यनिपुणेन।
यथा मुग्धयाऽपि रमितो मुग्ध इति वध्वा निश्शंकम्॥)
१.८.१८. अन्यप्रयोजनो यथा—(कुट्टनी. १३४)
माऽत्र करिष्यसि खेदं निष्ठुरमुक्तोऽसि यन्मया सुभग!।
यूनां हि रक्ततरुणीपरुषवचः प्रथममाभरणम्॥ २५७॥
१.८.१९. सप्रतिभेदो यथा—(गास. १.३३)
उण्हाइँ णीससंतो आलिंगसि कीस मं पराहुत्तिं।
हिअअं पलीविउं वि अणुसएण पुटठिं पलीवेसि॥ २५८॥
(उष्णानि निःश्वसन् आलिङ्गसि किमिति मां/कस्मान्मां पराङ्मुखीम्।
हृदयं प्रदीपितमपि अनुशयेन/प्रदीप्यानुशयेन पृष्ठं प्रदीपयसि॥)
१.८.२०. निष्प्रतिभेदो यथा—
अफडे/कवडे/लेण उपकप्पिएण/मउ—महुर जंपिएण कज्जस्स अंतगमणेण।
सुरअरहस्सेण हरंति जेण हिअआइ वेसाओ॥ २५९॥
(अफलेन उपकल्पितेन/मृदुमधुरजल्पितेन कार्यस्यान्तगमनेन।
सुरतरहस्येन हरन्ति येन हृदयानि वेश्याः॥)
१.८.२१. स्त्रीकृतो यथा—
काऊण थिर/धीर—जहणं, पज्जत्तरआएँ वेसविलआए।
तह कह वि पुलइअं जह पुणो वि मअणो उवट्ढविओ॥ २६०॥
(कृत्वा स्थिर/धीर—जघनं पर्याप्तरतया वेशवनितया।
तथा कथमपि प्रलोकितं यथा पुनरपि मदन उपस्थापितः॥)
१.८.२२. पुरुषकृतो यथा—
होंतवरो तह तह हे गोहिणीए चडुअंमवावडो होइ।
जह जह इअ सण्णोंइ हुवंति वारेज्ज दिअहाइं॥ २६१॥
(भविष्यद्वरो तथा तथा गोहिन्याश्चाटुकर्मव्यापृतो भवति।
यथा यथा इति सन्नो भवन्ति वारेऽद्य दिवसानि॥)
१.८.२३. उभयकृतो यथा—
धिंगडि धावइ सम्मुही धिंगु पसारइ वाह।
कुट्टिणि रोवइ अंसुअहिं धुत्त पमेल्लइ धाह॥ २६२॥
(धृष्टा तरुणी सम्मुखा धृष्टः तरुणः प्रसारयति बाहू।
कुट्टिनी रोदित्यश्रुभिर्धुर्ता प्रमुञ्चत्यार्तनादम्॥)
१.८.२४. अनुभयकृतो यथा—
उरपेल्लिअ—वइ—कारिल्लइआइँ उच्चेसि दइअ—वच्छलिए!।
कंटअ—विलिहिअपीणुण्णअ—थणि! उत्तम्म एत्ताहे॥ २६३॥
(उरःप्रेरितवृतिकारवेल्लीफलान्युच्चिनोषि दयितवत्सले!।
कण्टकविलिखितपीनोन्नतस्तनि! उत्ताम्य इदानीम्॥)
द्वादशैवं सहस्राणि साष्टाशीतिशतद्वयी।
भवन्ति कामशृङ्गारे मूलप्रकृतयः पृथक्॥ २६४॥
व्यतिषङ्गादमूषां तु साम्याधिक्याल्पताकृतः।
न पर्यान्तो विकल्पानामेकद्वित्र्यादियोगतः॥ २६५॥
चतुष्षष्टिं पश्याऽसमसमभिलाषप्रभृतिका— नथोऽष्टौ नित्यादीन् पृथगपि चतुर्विंशतिविधान्।
मिथोऽमीषामीषत् समधिकसमत्वानि विमृशन् कविः कुर्यात् स्रोतोऽनुगुणमनुरागव्यतिकरम्॥ २६६॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे अनुरागस्थापनो नाम
॥ द्वाविंशः प्रकाशः॥ २२॥
निविश्याऽन्तर्धातूनथ विषमतां वीक्ष्य पुरुष— स्त्रियोस्तत्तदभावान्तरगतवपुष्कां सहृदयः।
इमा या वै व्याख्यद् भिद इह कथं कश्चन भवे— न्न मग्नश्चित्राब्धौ निजमबुधतां संपरिहरन्॥
चतुष्षष्टिं पश्यन्नयमिह पदार्थेषु निखिले— ष्ववश्यं धारेशोऽप्यभवदिव तन्मात्रकवयाः।
सरस्वत्यै कण्ठाभरणमवधावत्र च ददौ प्रकाशं कृत्वा यो व्यवृणुत च साहित्यभुवनम्॥