अथ
श्रृङ्गारप्रकाशे एकविंशः प्रकाशः
मोक्षश्रृङ्गारप्रकाशः
(मोक्षः)
तत्त्वज्ञानान्निःश्रेयसाधिगमो मोक्षः।
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावात्। तथाहि तत्त्वज्ञानान्मिथ्याज्ञानापाये दोषा अपयान्ति। दोषापाये प्रवृत्तिरपैति। प्रवृत्त्यपाये दुःखमपैति। सेयमात्यन्तिकी दुखप्रहाणिः। तत्त्वज्ञानान्निश्चितश्रेयसः तदुपायात् तु तदधिगमो मोक्ष इति।
दुःखं तु षडिन्द्रियाणि विषया बुद्धयश्चः दुःखहेतुत्वात्। शरीरं दुःखायतनत्वात्। दुःखं तु स्वरूपाऽस्वरूपमिति। भावयतः क्वचिदपि मनस्सङ्गः स्यात्। अनासङ्गाच्चायमपूर्वं नार्जयति। पूर्वार्जितं च इच्छाभोगैः क्षपयति। सर्वकर्मोद्भूतानि फलानि च जगद्गुरौ महेश्वरे संन्यस्यति प्रत्यवायपरिहारार्थं च नित्यनैमित्तिकानुष्ठानमाद्रियते। उक्तं च,
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्।
ज्ञानं च निर्मलीकुर्वन्नभ्यासेन विपाचयेत्॥ १॥
अभ्यासात् पक्वविज्ञावः कैवल्यं लभते नरः।
आनन्दं ब्रह्मणो रूपं कैवल्ये तत् प्रकाशते॥ २॥
योगश्च धर्ममर्जयन् समाधिना सर्वकर्माणि दहति। उक्तं च, ‘योगी खलु बुद्धौ प्रादुर्भूतायाम् अधिकरणधर्मं विनिर्माय सोन्द्रियाणि शरीराणि युगपद् भोगान् भुङ्क्ते’ इति।
‘तत्त्वज्ञानान्निःश्रेयसाधिगमः’ (न्या. सू. १.१) इति यदुक्तं तद् व्याख्यायते। तत्र यथावस्थितपदार्थाधिगतिस्तत्त्वज्ञानम्। तस्मिन् सति यथावस्थितपदार्थानधिगतिः, अयथावस्थितपदार्थाधिगतिर्वा मिथ्याज्ञानं न स्यात्; ज्ञानस्य ज्ञानान्तरविरोधित्वात्। मिथ्याज्ञानविनाशे रागद्वेषादयो दोषा न भवन्ति। इदं सुखसाधकम् इदं दुःखसाधकम्, एतन्मदीयम् अदः परकीयम्, इति हि मिथ्याज्ञानं रागद्वेषहेतुः। यथा तु निवृत्तौ दुःखरूपतया जगत्स्वरूपमवगच्छतः स्वशरीरादावपि सर्वं दुःखमिति तत्त्वज्ञानं स्यात्, तदा औदासीन्याद् रागद्वेषादयः स्वयमेव प्रलीयन्ते। उक्तं च,
भयं भावयतः सम्यग्ज्ञानाद् दोषसमाकुलम्।
अवश्यं रागिणोऽप्याशु विराग उपजायते॥ ३॥
विरागात् क्षीयतेऽविद्या विद्या चान्तः प्रबुध्यते।
ततः प्रकाशते ज्ञानं ततो निर्वाणमृच्छति॥ ४॥
दोषाभावे तु धर्मप्रवृत्तिरधर्मप्रवृत्तिर्वा न स्यात्। सर्वोऽपि सुखार्थमेव प्रवर्तते। दुःखार्थं तु न प्रवर्तत इति। यदा तु ‘सर्वं दुःखं विवेकिनः’ (योगसू. २.१५) इति ज्ञानात् सुखमेव नास्तीति जानीयात्, तदा किमर्थं प्रवर्त्स्यति? किमर्थं वा न प्रवर्त्स्यतीति, प्रवृत्त्यभावेऽपि जन्मापि न स्यात्। धर्माधर्मोपभोगार्थं हि प्राणिनां जन्म। धर्माधर्मौ तु प्रवृत्तिमन्तरेण न स्तः। धर्माधर्मानुप्रवृत्तिः पृथक्पृथग् दशधा। सा तु अभिहिता पुरस्तात् प्रवृत्तिरूपधर्मप्रस्ताव१ इति नेहोच्यते।
जन्माभावे तु दुःखमपि न भवति। यतः ‘षडिन्द्रियाणि’ इत्याद्येकविंशतिप्रभेदं दुःखं, तच्च जन्माभावे शरीरादिविरहात् निराश्रयं निरुपलम्भं निर्हेतुकं कस्य स्यादिति, येयमपुनर्भावादात्यन्तिकी दुःखप्रहाणिर्निःश्रेयसं तदधिगमश्च ज्ञानान्मोक्ष इति। तच्च तत् ज्ञानं निःश्रेयसं च यथाविद्यमधिगन्तव्यम्।
मोक्षविद्याविदां हि तत्त्वज्ञाने निःश्रेयसे च विप्रतिपत्तिः। तत्र—
तत्त्वज्ञाने एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, षोडश च तत्त्वानीति। तत्र—
एकं यथा— ‘एकमक्षरमुपासीत’ इति (छान्दोग्ये), ‘आत्मैवेदं सर्वम्’ (बृहदारण्यके), ‘सर्वं खल्विदं ब्रह्म’ इति (शाण्डिल्यविद्या),‘न तु द्वयमस्ति’ इति, ‘वेदोऽखिलो धर्ममूलम्’ इति (मनुस्मृ. २.६)।
द्वे यथा— द्वे वाव ब्रह्मणो रूपे विद्या चाविद्या च, सम्भूतिर्विनाशश्च, (लोलीभावः?)२ पक्वावबोधश्च, सामान्यं विशेषश्च, प्रकृतिः पुरुषश्च इति।
त्रीणि यथा— व्यक्तिराकृतिर्जातिरिति, व्यक्तमव्यक्तं व्यक्ताव्यक्तमिति, हेयमुपादेयमुपेक्षणीयमिति, तत्त्वमात्मा शरीरमिति, ज्ञानं क्रिया दैवतमिति, शिवः शक्तिः पुरुष इति। १. पुरस्तात्— अष्टादशे प्रकाशे धर्मश्रृङ्गारप्रस्तावे। पृ॰ ९९४। २. अस्मत्कृता पूर्तिरियम्। चत्वारि यथा— प्रमाणं, प्रमेयं, प्रमाता, प्रमितिरिति। जातिर्गुणः, क्रिया, द्रव्यं (माभा. १.१.३) चेति। वैखरी, मध्यमा, पश्यन्ती, सूक्ष्मेति। बहिःप्रज्ञा, अन्तःप्रज्ञा, सुषुप्तं, तुरीयमिति। पिण्डः, पदं, रूपं, रूपातीतमिति। तत्त्वं, भावो, भूतं, संवननमिति। दीक्षा, ज्ञानं, क्रिया, चर्येति। योगः, साधनं, विभूतिः, कैवल्यमिति। पृथिव्यापस्तेजो वायुरिति।
पञ्च यथा— पृथिव्यापस्तेजो वायुराकाशमिति। प्रकृतिः, पुरुषो, मात्रा, शक्तिः, शिव इति। पञ्चब्रह्मार्थपरिज्ञानमिति। जाग्रत्, स्वप्नं, सुषुप्तं, तुर्यं, तुर्यातीतमिति। रूपं, वेदना, संज्ञा, संस्कारो, विज्ञानमिति।
षड् यथा— ब्रह्म खानिलतेजांसि जलं भूरिति। द्रव्यं, गुणाः कर्म, सामान्यं विशेषाः, समवाय इति। तत्त्वानि, पदानि, भुवनानि, वर्णा, मन्त्राः, काला इति। गुणा, गहनं, ग्रन्थिः, मूलं, शक्तिः, शिव इति। मूलजालमधिमोक्तृचेतना ज्ञानमेतदधिनायकाः (द्र. पृ. ४०३)१, ‘शक्तयः शक्तिनायकाः’ इति। पाशाः पशवो विद्या विद्येश्वराः शक्तिः शिव इति। जीवाः पु्द्गलाः काल आकाशो धर्मोऽधर्म इति।
षोडश यथा— प्रमाणानि, प्रमेयः, संशयः, प्रयोजनं, दृष्टान्तः, सिद्धान्तः, अवयवाः, (तर्कः) निर्णयः, वादः, जल्पो, वितण्डा, हेत्वाभासाः, छलं जातयः, निग्रहस्थानानानीति॥
अथ निःश्रेयसे—
१. ‘चिद्घनमानन्दं ब्रह्म’ इति,
२. ‘तदा दृष्टृस्वरूपेऽवस्थानम्’ इति,
३. ‘सर्वकर्मभिरसंस्पर्शादौदासीन्यम्’ इति,
४. ‘गुणपुरुषान्तरविवेकदर्शनात् प्रकृतेरनुपसर्पणम्’ इति,
५.‘बुद्ध्यादीनामात्यन्तिकः सन्तानोच्छेदः’ इति,
६. ‘तत्त्वज्ञानादात्यन्तिकी दुःखप्रहाणिः’ इति,
७.‘निवर्तकधर्मो’X X X ल्प X X X कैवल्यावाप्ति’ इति, १. मूलजालमधिभोक्तृचेतना शक्त्यस्त्वदभिभोक्तृसंहतिः। ज्ञानमेतदधिनायकव्रजस्त्वत्स्मृतौ युगपदेव भासते॥ ८. ‘मलपरिणतेस्तीव्रशक्तिनिर्मितशरीरादिविरहः’ इति,
९. ‘दीक्षितस्य नाधो निरीक्षणम्’ इति,
१०. ‘साऽक्रमेण निःश्रेणिक्रमेण वा शिवपदावाप्तौ शिवसमानता’ इति,
११. ‘क्रियायोगान्महेश्वरगुणसश्रङ्क्रान्तिः’ इति,
१२. ‘अविद्योच्छेदाद् विद्याप्रकाशः’ इति,
१३. ‘समलचित्तविनाशैर्निर्मलचित्तोत्पादः’ इति,
१४. ‘सम्यक्सन्दर्शनज्ञानचारित्रैः कृत्स्नकर्मप्रमोक्षः’ इति,
१५. ‘जलबुद्बुदवज्जीवाः मदशक्तिवद् विज्ञानम्’ इति,
१६. ‘ज्ञानमिति ज्ञानात् प्रेत्यापुनर्भा(र्भ)वः’ इति।
(मोक्षश्रृङ्गारः)
तदेतदुभयमप्युपायनमन्तरेण न प्राप्यत इत्युपायप्रदर्शकं शास्त्रं, शास्त्रस्य पुरुषश्रेयोऽभिधायकत्वात्। पुरुषस्य च शास्त्रोक्तैरुपायैस्तत्त्वज्ञानादिभिर्निःश्रेय— समीहमानस्य गार्हस्थ्येऽपि तदधिगतताभिमानो मोक्षश्रृङ्गारः। तथापि — अस्ति मे मोक्षाधिगमे योग्यता, अधीतानि मया मोक्षशास्त्राणि, निरन्तरा निवर्तकधर्मोत्पत्तिहेतवः क्रियाकलापाः, न पी/वीयते१ नित्यनैमित्तिकानि, प्रसीदन्ति चित्तवृत्तयः, प्राप्तो निरालम्बनः सालम्बनो वा योगः, स्वाधीनानि योगसाधनानि, स्थिरो हि बीजः निर्बीजः सबीजो वा समाधिलाभः, निवर्तन्ते योगविघ्नाः, प्रकाशते प्रत्यग्ज्योतिः, उन्मीलयन्ति तत्त्वसंवित्तयः प्रत्यासीदन्ति ज्योतिष्मत्यादयो योगावस्थाः, प्रादुर्भवन्ति च समस्ता योगर्द्धयः’— इत्यादियोग्यचेतसोऽभिमानः, स मोक्षश्रृङ्गारः इत्युच्यते। तन्निवृत्तौ च अस्याहङ्कारविरहान्मोक्ष एवेति, यावदहङ्कारवांस्तावदयं मोक्षश्रृङ्गारी, विरहिताहङ्कारस्तु मुक्त एवेति। यथा—
त्वामात्मानं वरद! परमानन्दबोधस्वरूपं ये बुध्यन्ते विगलितजगद्भेदमायाप्रपञ्चम्/ञ्चाः।
रागत्यागस्तिमितमनसो देव! जीवन्त एव त्रुट्यन्मायाविकटनिबिडग्रन्थयस्ते विमुक्ताः॥ ५॥
यथा च—
१. वीयते = वि + ईयते = नापगच्छन्ति।
मयि जीवत्यहङ्कारे पुरुषः पञ्चविंशकः।
तत्त्वज्ञानोपपन्नोऽपि न मोक्षं गन्तुमर्हति॥ ६॥
तत्र सात्त्वती वृत्तिः, आवन्त्या प्रवृत्तिः, लाटीया रीतिः, स्वकीया नायिका, धीरप्रशान्तश्च नायक इति। तेषु—
सात्त्वती व़ृत्तिस्तदनुरूपस्वरूपाङ्गत्वात्; तथाहि—(नाशा. २०.३६)
या सात्त्वतेनेह गुणेन युक्ता त्यागेन वृत्तेन समन्विता च।
हर्षोत्कटा संहृतशोकभावा सा सात्त्वती सत्त्ववतीहा वृत्तिः॥ ७॥
तदङ्गानि उत्थापकः, परिवर्तकः, संलापकः, सङ्घात्यक इति। सा तु ‘या सात्त्वतेनेह गुणेन युक्ता’ इत्यनेन सत्त्वतः = सत्कारवतो धीरप्रशान्तादेर्नायकस्य मोक्षश्रृङ्गाराधिकारिणो ये गुणास्तदुपलक्षितां चेष्टामाचष्टे। सत्त्ववन्तो हि सत्कारवन्तो मोक्षश्रृङ्गाराधिकारिण एवोच्यन्ते।
यथा— (मनुस्मृ. १.९६, ९७)
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः॥ ८॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः॥ ९॥ इति।
‘त्यागेन वृत्तेन समन्विता च’ इत्यनेन सात्त्वतेन त्यागेन सात्त्वतेन वृत्तेन च समन्वितेति व्याख्याम् अस्यैव द्रव्योत्सर्गसत्कारपूर्वकत्वफलनिरपेक्षमवृथादानं च सूचयति। सत्कारपूर्वकदानं हि त्यागः, स ॰ ॰ ॰ ॰ मि च(?) वृत्तमिति। चकारात् तु लौकिकाचारपरित्यागमपि कथयति।
‘हर्षोत्कटा संहृतशोकभावा’ इत्यनेन ब्रह्मानन्दोपलम्भादशेषदुःख— क्षयमुपलक्षयति।
‘सा सात्त्वती सत्त्ववतीह वृत्तिः’ इत्यनेनान्वर्थसंज्ञायोगं विशुद्धसत्त्वानायकाश्रयं च द्योतयति।
अङ्गेषु — उत्थापकेन तत्त्वजिज्ञासुभिः सन्धाय सम्भाषया विवादं बोधयति। परस्परस्पर्धया अर्थेषूत्थापनं हि उत्थापकः।
परिवर्तकेन कुपथपरित्यागात् सन्मार्गग्रहणमभिधत्ते। प्रस्तुतार्थपरित्यागादन्यार्थ- भजनं हि परिवर्तकः।
संलापकेन विगृह्य परिभाषया जल्पकथायां परपक्षदूषणमुपदिशति। सदसि नाना वाक्यैर्मिथोऽधिक्षेपो हि संलापकः।
सङ्घात्यकेन साधकबाधकप्रमाणोपपत्तिभिः स्वपक्षस्थापनया परपक्षं प्रतिक्षिपति। कार्यमन्त्रार्थप्रभावदैवादिभिर्हि सङ्घातभेदः सङ्घात्यकः।
सेयं चतुरङ्गाऽपि सात्त्वती वृत्तिः लाटीयानुप्रासयोगियोगरूढिगर्भा तत्त्वज्ञाना(न्निश्रेयस)हेतुर्मोक्षशृङ्गारस्य अङ्गम्।
आवन्त्या प्रवृत्ति., शुचिव्रतस्तु शुद्धोज्ज्वलानुल्बणशान्तवेषरूपत्वान् मुमुक्षुभिरप्यादृतेति मोक्षशृङ्गाराधिकारिणो धीरप्रशान्तः(स्य प्रशमः)१ शृङ्गारस्याङ्गम्। यथा— (कुसं. ६.६)
मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः।
रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः॥ १०॥
लाटीया रीतिः, मोक्षशास्त्रानुरुपसंदर्भत्वात्। तथाहि— यदीषत्समस्तमनति— सुकुमारबद्धं नात्युपचारवृत्तिमल्लाटीयानुप्रासयोगि योगरूढिगर्भं वचः सा लाटीया। सा तु प्रायो मोक्षशास्त्रेषु दुश्यत इति मोक्षशृङ्गाराङ्गम्।
स्वकीया नायिका; मोक्षशृङ्गाराधिकारिणो धीरप्रशान्तनायकस्य लोकयात्रार्थं क्रियाप्रवृत्तिहेतुत्वात्। मुमुक्षूणामपि हि लोकयात्रानुयायिनां धर्मपत्न्यः श्रुत्यादिषु श्रूयन्ते, ‘याज्ञवल्क्यस्य हि द्वे पत्न्यौ बभूवतुः’ इति (बृहदारण्यके)।
तस्मिन् संयमिनां मान्ये जाते परिणयोन्मुखे।
जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः॥ ११॥
(कुसं. ६.३४) इति। अतः स्वकीयैव नायिका मोक्षशृङ्गाराङ्गम्।
धीरप्रशान्तश्च नायक इति। तस्यैव मोक्षे तदधिगमे योग्यताभिमानात्। स गुणप्रकृतिप्रवृत्तिपरिग्रहभेदाद् धीरोदात्तवद् अष्टप्रकारः तत्र गुणतः समस्तजात्यादि— गुणसम्पद्योगादुत्तमः, प्रवृत्तेरनुकूलो दक्षिणश्च, परिग्रहादसाधारणः साधारणश्च। तदेतद् वृत्तिः प्रवृत्तिरिति, नायिकानायकभेदः। इदमेतल्लक्षणोदाहरणैः पूर्वमेव२ निर्णीतम्॥ १. ‘चित्तधर्म’ इति शेषः। द्र. पृ. १००१। २. पृ. ८६१–८६३। (प्रशान्तधैर्यम्)
अथेदानीं नायकव्यपदेशहेतुर्धैर्यं विचार्यते। तद् धीरप्रशान्तस्य शान्तं भवति, यत्प्रभावात् सुखदुःखयोर्माध्यस्थ्यं, व्यसनोत्सवयोरविशेषः, इन्द्रियार्थेष्वनास्था, विलासेषूपहासः, शरीरादावनात्मबुद्धिः, प्रशंसासु नोत्कर्षः, निन्दास्वपि न कोपः, भव्यप्राणिषु प्रमोदः, सर्वभूतेष्वनुकम्पा, साधुजनेषु मैत्री, अधार्मिकेषूपेक्षा, सदाचारेष्वादरः, सर्वकर्मसु फलानीप्सा, रागादिभिर्न धर्मबाधा, कर्मातिशयैरविस्मयः, जात्यादिभिर्नाभिमान इति। तत्र—
१. सुखदुःखयोर्माध्यस्थं यथा—(किराता. ११.२६)
कृतवानन्यदेहेषु कर्ता च विधुरं मनः।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह॥ १२॥
२. व्यसनोत्सवयोरविशेषो यथा—(किराता. ११.२२)
या गम्याः सत्सहायानां यासु खेदो भयं यतः।
तासां कियन्न दुःखाय विपदामिव सम्पदाम्॥ १३॥
३. इन्द्रियार्थेष्वनास्था यथा—
एकैकशो विनिघ्नन्ति विषया विषसन्निभाः।
क्षेमी तु स कथं नु स्याद् यः समं पञ्च सेवते॥ १४॥
४. विलासेषूपहासो यथा—
एतत् तद् वक्त्रमत्र क्व तदधरमधु ? क्वायतास्ते कटाक्षाः ? क्वालापाः कोमलास्ते ? क्व स मदनधनुर्भङ्गुरो भ्रूविलासः ?।
इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जे समीरं रागान्धानामिवोच्चैरुपहसति महामोहजालं कपालम्॥ १५॥
५. शरीरादावनात्मबुद्धिर्यथा—
यदा शरीरस्य शरीरिणश्च पृथक्त्वमेकान्तत एव भावि।
आहार्ययोगेन विमुच्यमानः परेण को नाम भवेत् सशोकः॥ १६॥
६. प्रशंसासु नोत्कर्षो यथा—
अब्रुवन् कस्यचिन्निन्दामहृष्यन्नात्मनः स्तवे।
आत्मना गुणसम्पन्नः पुमान् नैर्गुण्यमर्हति॥ १७॥
७. निन्दास्वपि न कोपो यथा—
जाण असमेवि विहिआ जाअइ णिंदासमा सलाहा वि।
णिंदा वि तेहिं विहिआ ण तॉण मंणे किलामेइ॥ १८॥
(येषामसमेऽपि विहिता जायते निन्दासमाश्लाघाऽपि।
निन्दापि तैर्विहिता न तेषां मन्ये क्लाम्यति॥)
८. भव्यप्राणिषु प्रमोदो यथा—(किराता. ३.१२)
तथाऽपि निघ्नं नृप! तावकीनैः प्रह्वीकृतं मे हृदयं गुणोघैः।
वीतस्पृहाणामपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः॥ १९॥
९. सर्वभूतेष्वनुकम्पा यथा—
यत् कृत्वा भगवंस्तव स्तवमिमं भक्तया त्रिलोकीगुरोः पुण्यं किञ्चिदवाप्तवानहमिह क्लेशौघविध्वंसिनः।
तस्मात् (स्प्रष्टुमिमान् सहे न विषयान्)१ भोगात्मनो हारिणो निर्बाधस्थिति निर्वृतेः पदमथ प्राप्तं जगच्चेष्टताम् ?॥ २०॥
१०. साधुजनेषु मैत्री यथा—
यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि।
अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि॥ २१॥
११. अधार्मिकेषूपेक्षा यथा—(रामायणे २.२१.१४)
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्॥ २२॥
१२. सदाचारेष्वादरो यथा—(नीतिश. ५१)
माधुर्यं प्रमदाजनेषु ललितं, दाक्षिण्यमार्ये जने विद्यायां व्यसनं, स्वयोषिति रतिर्लोकापवादाद् भयम्।
भक्तिः शूलिनि, शक्तिरात्मदमने, संसक्तिमुक्तिः खले येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो२ नमः॥ २३॥
१. इयमस्मत्कृताऽऽपूर्त्तिः। २. नरेभ्यो रा., महद्भ्यो जो.। १३. सर्वकर्मसु१ फलानीप्सा ; यथा—
श्लाघ्यं यद् वै२ कृपणमनसां सप्तलोकाधिपत्यं या मृग्यन्ते तरलमतिभिः सिद्धयश्चाणिमाद्याः।
एतत् सर्वं मदनदहन! त्वत्पदप्राप्तिभाजां तत्त्वज्ञानामृतरसजुषां योगिनामन्तरायः॥ २४॥
१४. रागादिभिर्न धर्मबाधा; यथा—
न कामान्न च संरम्भान्नापि लोकाद् विभीषणात्।
न हेतुवादान्मोहाद् वा विद्वान् स्वं धर्ममुत्सृजेत्॥ २५॥
१५. कर्मातिशयैरविस्मयो यथा—(वैराग्यश॰ ६७) —
भुक्ताः श्रियः सकलकामदुघास्ततः किं ? सन्तर्पिताः प्रणयिनः स्वधनैस्ततः किम् ?।
दत्तं पदं शिरसि विद्विषतां ततः किं ? कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ?॥ २६॥
१६. जात्यादिभिर्नाभिमानः; यथा—
कुलाज्ज्ञानात् तथैश्वर्यान्मदः सञ्जायते नृणाम्।
एतैरेव विनीतानां दमः समुपजायते॥ २७॥
धैर्यप्रशमहेतवश्चाष्टौ विशेषणुणाः — ‘क्षमा, वशित्वं, सन्तोषः, प्रशमः, शौचम्, आर्जवं, वेशारद्यं, वैराग्यमि’ति।
१. अकोपनत्वं क्षमा ; यथा—
अतथ्येनोच्यमानस्य कः कोपो यन्न तत् तथा।
तथ्ये चाविहितः कोपो यदनुक्तेऽपि तत् तथा॥ २८॥
२. जितेन्द्रियता वशित्वं ; यथा—(किराता. ११.३२)
जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः।
जितेषु तेषु लोकोऽयं ननु कृत्स्नस्त्वया जितः॥ २९॥
३. अनाकाङ्क्षा सन्तोषः ; यथा—
सर्वाः सम्पत्तयस्तस्य विविक्तं यस्य मानसम्।
उपानद्गूढपादस्य ननु चर्मास्तृतैव भूः॥ ३०॥
१. सर्व = ‘……गा विधीय। सर्वकर्मसु’ — रा.। २. तत् रा. जो.। ४. विषयव्यावृत्तिः प्रशमः ; यथा—
यदाऽऽसीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदपि।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते॥ ३१॥
५. मलप्रमोषः शौचम् ; यथा—(कुसं. ६.५)
आप्लुतास्तीरमन्दारकुसुमोत्करवीचिषु ।
आकाशगङ्गास्रोतस्सु दिङ्नागमदगन्धिषु॥ ३२॥
६. अमायावित्वमार्जवम् ; यथा—
अन्यद् वाचि मनस्यन्यत् कर्मण्यन्यद् दुरात्मनाम्।
महात्मनां तु यद् वाचि तन्मनःकर्मणोरपि॥ ३३॥
७. विचारपरता वैशारद्यम् ; यथा—
उच्छ्वासावधयः प्राणाः स चोच्छ्वासः समीरणः।
समीरणाच्चलं नास्ति यज्जीवति तदद्भुतम्॥ ३४॥
८. भोगेष्वनीप्सा वैराग्यम्; यथा—(वैराग्यशतके ९३)
मातर्लक्ष्मि! भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भू— र्भोगेभ्यः स्पृहयालवस्तव वशे, का निःस्पृहाणामसि ?।
सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतै— र्भिक्षासक्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे॥ ३५॥
सोऽयमस्य स्वाभाविको निरतिशय आन्तरो नित्यश्चालङ्कारः, यत्प्रभावात् तदनुरूपा एव रत्यादयो जायन्ते। ते चास्य धीरोदात्तवत् सर्व एवावगन्तव्याः।
तदेतन्मोक्षशृङ्गारस्वरूपमुपवर्णितम्।
निःश्रेयसपरत्वेन तत्त्वज्ञानाभिमानिनाम्॥ ३६॥
इह प्रवृत्तिरावन्त्या, सात्त्वती वृत्तिरिष्यते।
लाटीया रीतिरात्मीया कान्ता, शान्तश्च नायकः॥ ३७॥
वृत्ते धीरप्रशान्तस्य मोक्षशृङ्गारगोचरे।
चरेयुः केऽपि तत्त्वज्ञाः सर्वज्ञस्याभ्यनुज्ञया॥ ३८॥
इति। (नायकभेदाः)
सोऽयं धर्मशृङ्गाराद्यधिकारभेदान्नायकप्रभेदश्चतुर्धा—
धीरोदात्तः, धीरोद्धतः, धीरललितः, धीरप्रशान्तश्चेति।
अथैष प्रत्येकमपि चतुर्धा भिद्यते—
नायकः, उपनायकः, अनुनायकः, प्रतिनायक इति।
(१. नायकः)
तत् त्रिधा (तत्र कथा ?)शरीरव्यापी यथोक्तगुणयुक्तो नायकः। स—
धीरोदात्तो यथा—
इक्ष्वाकुवंशतिलकः प्रथितः पृथिव्यामव्याहतप्रसरपौरुषदुर्निवारः।
रामः स एष नृपकण्ठकठोरधारः कुण्ठो मुनेरपि हि येन कृतः कुठारः॥ ३९॥
धीरोद्धतो यथा—(किराता. १४.२२)
वयं क्व वर्णाश्रमरक्षिणो नृपाः क्व जातिहीना मृगजीवितच्छिदः।
सहाव/पकृष्टैर्महतामसंगतं भवन्ति गोमायुसखा न दन्तिनः॥ ४०॥
धीरललितो यथा—(शाकु. ३.१८)
किं शीतलैः क्लमविनोदिभिरार्द्रवातैः सञ्चालयामि नलिनीदलतालवृन्तैः।
अङ्के निधाय करभोरु ! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ॥ ४१॥
धीरप्रशान्तो यथा—
अस्मान् नो नृवरान् वेत्थ वेत्थार्थान् वेत्थ भाषितुम्।
यद्यदस्मद्धितं कृष्ण ! तत्तद् वाच्यः सुयोधनः॥ ४२॥
(२. उपनायकः)
नायकाभ्यर्हणीयः सम उत्कृष्टो वाऽनवाप्तपद उपनायकः; तेषु—
धीरोदात्तो यथा—(मवीच. ५.५१)
ख्याता एव वयं जगत्सु चरितैर्वाग्भिः, किमाख्यायते संयत्तो भव, सत्त्वमस्ति भवतः, सत्यं मनुष्यो भवान्।
शस्त्रैरव्यवधीयमानविजयाः प्रायो वयं तेषु चेद् ग्राहस्ते सुखमाश्वसन्ति गिरयो यैर्वानराः शस्त्रिणः॥ ४३॥
धीरोद्धतो यथा—(माघ. १४.१६)
यस्तवेह सवने न भूपतिः कर्म कर्मकरवत् करिष्यति।
तस्य नेष्यति वपुः कबन्धतां बन्धुरेष जगतां सुदर्शनः॥ ४४॥
धीरललितो यथा—(माघ. २.१४)
ततः सपत्नापनयस्मरणानुशयस्फुरा।
ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना॥ ४५॥
यथा वा—(माघ. २.२१)
जगाद वदनच्छद्मपद्मपर्यन्तपातिनः।
नयन् मधुलिहः श्वैत्यमुदंशुदशनांशुभिः॥ ४६॥
धीरप्रशान्तो यथा—
सम्प्रत्येव हि गोग्रहे यदभवत् तत् तावदाकर्ण्यताम्॰॥ ४७॥
(पृ.६३२) इत्यादि। (३. अनुनायकः)
नायकात् किञ्चिदूनः कथाशरीरे विशेषोपयोगवान् अनुनायकः। तत्र— धीरोदात्तो यथा—(उरा. ६.१३)
शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे विद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशे द्विषि।
मा भैष्टेति निरुन्धतः कपिभटानस्योद्भटभ्रूस्थिते— र्मर्मच्छेदविसंस्थुलाक्षरजडा वाचस्त्वया न श्रुताः॥ ४८॥
धीरोद्धतो यथा—(वेसं. ५.३३)
शोकं स्रीवन्नयनसलिलैर्यत् परित्याजितोऽसि भ्रातुर्वक्षःस्थलविघटने यच्च साक्षीकृतोऽसि।
आसीदेतत् तव कुरुपते/कुनृपते ? कारणं जीवितस्य क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने॥ ४९॥
धीरललितो यथा—(मामा. १.३४)
या कौमुदी नयनयोर्भवतः सुजन्मा तस्या भवानपि मनोरथबन्धबन्धुः।
तत्सङ्गमं प्रति सखे! नहि संशयोऽस्ति यस्मिन् विधिश्च मदनश्च कृताभियोगः॥ ५०॥
धीरप्रशान्तो यथा—(काव्यादर्शे २.२७६)
अद्य या मम गोविन्द! जाता त्वयि गृहागते।
कालेनैषा भवेत् प्रीतिस्तवैवागमनात् पुनः॥ ५१॥
(४. प्रतिनायकः)
नायकप्रतिकूलवृत्तिस्तदुच्छेदार्हः प्रतापाभिमानार्थसाहसादिगुणोत्कर्षी धीरोद्धत— प्रायः प्रतिनायकः। तत्र—
धीरोदात्तो यथा—
पात्रे पुरावर्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलये च देये।
व्रीडास्मितं तस्य तदा तदासीच्चमत्कृतो येन स एव देवः॥ ५२॥
धीरोद्धतो यथा—(पृ. ८४३)
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः॰॥ ५३॥
इत्यादि। धीरललितो यथा—(वेसं. २.९)
किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया ? निद्राच्छेदविवर्तनेष्वभिमुखं नाद्यापि/सि सम्भाविता।
अन्यस्त्रीजनसङ्कथालघुरहं स्वप्ने त्वया लक्षितो दोषं पश्यसि किं प्रिये! परिजनोपालम्भयोग्ये मयि॥ ५४॥
धीरप्रशान्तो यथा—
रथस्थमारुह्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभ्यनन्दत्।
वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः॥ ५५॥
उत्तममध्यमकनिष्ठादिभेदाश्चैषामपि यथासम्भवमभ्यूहनीयाः।
(नायिकाभेदाः)
अथ नायिकाप्रभेदाः प्रदर्श्यन्ते। साऽपि नायिका चतुर्धा— उदात्ता, उद्धता, ललिता, शान्ता च। धैर्यमासामविवक्षितम्; अधीराणा(मनायिकात्वात्)।
ता अपि प्रत्येकं पुनश्चतुर्धा — नायिका, उपनायिका, अनुनायिका, प्रतिनायिका चेति। तत्र—
उदात्ता यथा—(गास. १.८८)
जाणइ जाणावेउं अणुणअ—विद्दविअमाण—परिसेसं।
पइरिक्कम्मि वि विणआवलंबणं स च्चिअ कुणंती॥ ५६॥
(जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम्।
विजनेऽपि विनयावलम्बनं सैव कुर्वन्ती॥)
उद्धता यथा—(गास. १.४८)
अण्णदइआपसंगं दे देव्व! कुणज्ज मज्झ दइअस्स।
पुलिसा एक्कंतरसा ण हु दोसगुणे विआणंति॥ ५७॥
(अन्यदयिताप्रसङ्गं हे देव! कुरुष्व मम दयितस्य।
पुरुषा एकान्तरसा न खलु दोषगुणौ विजानन्ति॥)
ललिता यथा—(गउडव. ६९०, गास. ९३३वे.)
उव्वहइ दइअगहिआहरोट्ठझिज्जंतरोसपडिराअं।
पाणोसरंतमइरं व फलिहचसअं मुहं बाला॥ ५८॥
(उद्वहति दयितगृहीताधरोष्ठक्षीयमाणरोप्रतिरागम्।
पानापसरन्मदिरमिव स्फटिकचषकं मुखं बाला॥)
शान्ता यथा—(गास. ३.३)
अहवा गुण च्चिअ लहुआ अहवा गुणअण्णुओ ण सो लोओ।
अहव ह्मि णिग्गुणा वा बहुगुणो क्खु अण्णो जणो तस्स॥ ५९॥
(अथवा गुणा एव लघवोऽथवा गुणज्ञो न स लोकः।
अथवाऽस्मि निर्गुणा वा बहुगुणोपपन्नो जनस्तस्य॥)
(१. नायिका)
नायिकासु उदात्ता यथा—(जाह. १०.५०)
द्वित्राण्यथ रथाद् भूमौ पदान्याधाय निस्सहा।
येयमद्य कियद् दूरमिति पप्रच्छ मैथिली॥ ६०॥
उद्धता यथा—(वेसं. १.१६)
यद् वैद्युतमिव ज्योतिरार्ये क्रोधेन सम्भृतम्।
तत् प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यते॥ ६१॥
ललिता यथा—(रघु. ६.८०)
ततः सुनन्दावचनावसाने लज्जां मृदूकृत्य नरेन्द्रपुत्री।
दृष्ट्या प्रसादामलया कुमारं पर्यग्रहीत् संवरणस्रजेव॥ ६२॥
शान्ता यथा—(रघु. २.२)
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत्॥ ६३॥
(२. उपनायिका)
उपनायिकासु उदात्ता यथा—(रत्ना. २.२०)
भ्रूभङ्गे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया, मुक्तश्च न प्रश्रयः॥६४॥
उद्धता यथा—
शर्मिष्ठाया समालोक्य पत्युस्तत् प्रेमगौरवम्।
देवयानी भृशं क्रुद्धा जगाम पितुरन्तिकम्॥ ६५॥
ललिता यथा—(लीलाव. ४३३)
तो तस्स मअलंछणस्स करफंससमुग्गएण सेएण।
ससिमणिघडिआ वाबुल्लिअ व्व वारीमई जाआ॥ ६६॥
(ततस्तस्य मृगलाञ्छनस्य करस्पर्शसमुद्गतेन स्वेदेन।
शशिमणिघटिता पुत्तलिकेव/पुत्रिकेव वारीमयी जाता॥)
शान्ता यथा—(कादकसारे)
नवे च वयसि प्राप्तवैराग्याभ्यासवासना।
व्यालोकि कन्यका तेन धृतपाशुपतव्रता॥ ६७॥
(३. अनुनायिका)
अनुनायिकासु उदात्ता यथा—(मवीच. १.२०)
लाङ्गलोल्लिख्यमानाया यज्ञभूमेः समुद्गता।
सीतेयमूर्मिलेयं तद्द्वितीया जनकात्मजा॥ ६८॥
उद्धता यथा—(रघु. १२.४)
तस्याभिषेकसम्भारं कल्पितं क्रूरनिश्चया।
दूषयामास कैकेयी शोकोष्णैर्नयनाम्बुभिः॥ ६९॥
ललिता यथा—(मामा. ४.८)
तन्मे मनः क्षिपति यत् सरसप्रहारमालोक्य मामगणितस्खलदुत्तरीया।
त्रस्तैकहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥ ७०॥
शान्ता यथा—(रघु. १०.५७)
सा हि प्रणयवत्यासीत् सपत्न्योरुभयोरपि।
भ्रमरी वारणस्येव मदनिष्यन्दरेखयोः॥ ७१॥
(४. प्रतिनायिका)
प्रतिनायिकासु उदात्ता यथा—(हरिविजये)
आणिअपुलउब्भेओ सवत्तिपणअपरिधूसरम्मि वि गरुए।
पिअदंसणे पवड्ढइ मण्णुट्ठाणे वि रुप्पिणीअ पहरिसो॥ ७२॥
(आनीतपुलकोद्भेदः सपत्नीप्रणयपरिधूसरेऽपि गुरुके।
प्रियदर्शने प्रवर्धते मन्युस्थानेऽपि रुक्मिण्याः प्रहर्षः॥)
उद्धता यथा—(हरिवि.)
कुविआ अ सच्चभा/हामा समेवि वहुआण णवर माणक्खलणे।
पाअडिअ—हिअअ—सारो पेम्मासंघसरिसो पवड्ढइ/ट्टइ मण्णू॥ ७३॥
(कुपिता च सत्यभामा समेऽपि वधूनां केवलं मानस्खलने।
प्रकटितहृदयसारः प्रेमाश्वाससदृशः प्रवर्त/र्धते मन्युः॥)
ललिता यथा—(रत्ना. २.१)
दुल्लहजणाणुराओ लज्जा गरुई परव्वसो अप्पा।
पिअसहि! विसमं पेम्मं मरणं सरणं णवरि एक्कं॥ ७४॥
(दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा।
प्रियसखि! विषमं प्रेम मरणं शरणं केवलमेकम्॥)
शान्ता यथा—(गास. २.३१)
वाहरउ मं सहीओ! तिस्सा गोत्तेण किं त्थ भणिएण?।
थिरपेंमो होउ जहिं तहिं पि, मा किं पि णं भणह॥ ७५॥
(व्याहरतु मां सख्यः! तस्या गोत्रेण किमत्र भणितेन?।
स्थिरप्रेमा भवतु यत्र तत्रापि, मा किमप्येनं भणत॥)
एवं नायिकाप्रकारः षोडशधा।
उत्तममध्यमकनिष्ठादिभेदाश्च सर्वासामपि यथासम्भवं प्राग्वदेवाभ्यूहनीयाः।
(नायकानुनायकगुणाः —२४)
उत्तमत्वादिहेतवश्च नायकानां सामान्यगुणा जात्यादयश्चतुर्विंशतिः, नायिकानां महाकुलीनतादयः षोडश।
अनुनायकगुणास्तावत् जातिः, अन्वयः, अभिजनः, निवासः, आस्पदं, पदं, पितरौ, प्रभावः, प्रज्ञा, शास्त्रज्ञानं, अदीनवाक्यता, वाग्ग्मित्वं, देशकालावबोधः, इङ्गिताकारज्ञता, दाक्ष्यं, कलावैदग्ध्यं, चतुरता, रूपसम्पत् सौभाग्यं, त्यागः, सौहार्दं, महारम्भता, शक्तिः, शौर्यम् इति। तेषु—
१. जातिर्यथा—
तस्मादजायत मनुर्नवराजबीजं यस्यान्वये स सगरश्च भगीरथश्च।
एकेन येन जलधिः परिखानितोऽयमन्येन सिन्धुसरिता परिपूरितश्च॥ ७६॥
२. अन्वयो यथा—(रघु. १.१२)
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।
दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव॥ ७७॥
३. अभिजनो यथा—(तिलकमञ्जरी ३९)
वासिष्ठैः स्म कृतोद्भवो वरशतैरस्त्यग्निकुण्डोद्भवो भूपालः परमार इत्यधिपतिः सप्ताब्धिकाञ्चेर्भुवः।
अद्याप्युद्गतहर्षगद्गदगिरो गायन्ति तस्यार्बुदे विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गूर्जराः॥ ७८॥
४. निवासो यथा—(रघु. ९.१)
पितुरनन्तरमुत्तरकोसलान् समधिगम्य समाधिजितेन्द्रियः।
दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः॥ ७९॥
५. आस्पदं यथा—
श्रियः पदं द्वारवतीति नाम्ना पुरी परीता लवणार्णवेन।
अस्त्यावृतेवामरराजधानी निस्त्रिंशनीलेन नभस्तलेन॥ ८०॥
६. पदं यथा—(रघु. ६.७६)
पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता।
चतुर्दिगावर्जितसम्भृतां यो मृत्पात्रशेषामकरोद् विभूतिम्॥ ८१॥
७. पितरौ यथा—
कृष्णागरुद्रुमतलेषु सुराङ्गनाभि— रामोदिगन्धमृगगन्धिषु गीतकीर्त्तिः।
शौरेर्वराहवपुषो जगतीकलत्रे प्राग्ज्योतिषाधिपतिरेष सुतः किलाभूत्॥ ८२॥
८. प्रभावो यथा—(रघु. २.१४)
शशाम वृष्टयाऽपि विना दवाग्निरासीद् विशेषा फलपुष्पवृद्धिः।
ऊनं न सत्त्वेष्वधिको बवाधे तस्मिन् वनं गोप्तरि गाहमाने॥ ८३॥
९. प्रज्ञा यथा—(बारा. ४.१५)
उपदिशति समानं कर्म कृत्स्नं पिनाकी सममपि च यतन्ते कर्ममार्गे समेते।
तदपि भृगुकुलेन्दुः काममुत्कृष्यतेऽसौ ननु भवति विनीतं द्रव्यमेव क्रियाभिः॥ ८४॥
१०. शास्त्रज्ञानं यथा—(रघु. ३.३०)
धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्त्रश्चतुरर्णवोपमाः।
ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः॥ ८५॥
११. अदीनवाक्यता यथा—(मवीच. ५.५१)
ख्याता एव वयं जगत्सु चरितैर्वाग्भिः किमाख्यायते? संयत्तो भव, सत्त्वमस्ति भवतः, सत्यं मनुष्यो भवान्।
शस्त्रैरव्यवधीयमानविजयाः प्रायो वयं तेषु चेद् ग्राहस्ते सुखमस्तु सन्ति गिरयो यैर्वानराः शस्त्रिणः॥ ८६॥
१२. वाग्ग्मित्वं यथा—(रघु. २.५६)
भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ।
स्थातुं नियोक्तुर्यदि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन॥ ८७॥
१३. देशकालावबोधो यथा—(किराता. २.४६)
अभियोग इमान् महीभुजो भवता तस्य कृतः कृतावधेः।
प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव॥ ८८॥
१४. इङ्गिताकारज्ञता यथा—(शाकु. १.२८)
वाचं न मिश्रयति यद्यपि मद्वचोभिः कर्णं ददात्यवहिता मयि भाषमाणे।
कामं न तिष्ठति मदाननसम्मुखीना भूयिष्ठमन्यविषया न तु दृष्टिरस्याः॥ ८९॥
१५. दाक्ष्यं यथा—(रामच. १.४७)
आततायी स विज्ञातो जीवत्यार्येति च श्रुतम्।
प्राप्तो यात्रासहः कालः कालक्षेपस्य को गुणः?॥ ९०॥
१६. कलावैदग्ध्यं यथा—(रघु. १९.१४)
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयोऽहरन्मनः।
नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलङ्घयत्॥ ९१॥
१७. चतुरता यथा—(किराता. १.१०)
सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः।
स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम्॥ ९२॥
१८. रूपसम्पद् यथा—(उराच. ६.२०)
अहो प्रासादिकं रूपमनुभावश्च पावनः।
स्थाने रामायणकविर्दैवीं वाचमदीदिशत्॥ ९३॥
१९. सौभाग्यं यथा—
धन्यास्ता गुणरत्नरोहणभुवो यास्वे—(तदा)—सादितं धात्रा विस्मयकारि चारु घटितो येनायमेको युवा।
दृष्टे यत्र गलन्ति (मध्य)—रशनादामानि वामभ्रुवां सन्त्रासाद् द्विषतां धनूंषि विभवैरर्थव्यथाश्चार्थिनाम्॥ ९४॥
२०. त्यागो यथा—
पात्रं ते सर्व एवार्थी देयं स्वमपि जीवितम्।
दाता त्वमेको लोकेऽस्मिन् सर्वोऽद्य कृपणो जनः॥ ९५॥
२१. सौहार्दं यथा—
प्राणैरपि हिते वृत्तिरद्रोहो व्याजवर्जनम्।
आत्मनीव प्रियाधानमेतत् ते श्रीमहाव्रतम्॥ ९६॥
२२. महारम्भता यथा—(रघु. १२.८९)
जेतारं लोकपालानां ते मुखैरर्चितेश्वरम्।
रामस्तुलितकैलासमरातिं बह्वमन्यत॥ ९७॥
२३. शक्तिर्यथा—(शाकु. ३.१)
का कथा बाणसन्धाने ज्याशब्देनैव दूरतः।
हुङ्कारेणेव धनुषः स हि विघ्नान् व्यपोहति॥ ९८॥
२४. शौर्यं यथा—(रघु. ७.५५)
परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव।
धूमो निवर्त्येत समीरणेन यतो हि कक्षस्तत एव वह्निः॥ ९९॥
(नायिकागुणाः —१६)
अथ नायिकागुणाः षोडष— ‘महाकुलीनता, रूपसम्पत्तिः, यौवनं, सुवेषता, सौभाग्यं, शुचिता, शीलसम्पत्, प्रियंवदता, चातुर्यं, वाग्ग्मिता, शास्त्रज्ञानं, अदीनवाक्यता, अविकत्थनत्वं, मानिता, कृतज्ञता, दृढभक्तित्वम्’ इति। तत्र—
१. महाकुलीनता यथा—(शाकु. १.२१)
मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः?।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्॥ १००॥
२. रूपसम्पद् यथा—
तत्रानुदेवपरमाणुदलं विधातुरानन्दकारि यदभूदुपयोगि तस्याः।
यस्मान्न तादृशमसौ विहितश्रमोऽपि रूपं कदाचिदपरं घटयाञ्चकार॥ १०१॥
३. यौवनं यथा—(कुसं. १.३१)
असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात् परं साऽथ वयः प्रपेदे॥ १०२॥
४. सुवेषता यथा—(कुसं. ३.५३)
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्।
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती॥ १०३॥
५. सौभाग्यं यथा—(गास. १.६९)
पाणिग्गहणे च्चिअ पव्वईएँ णाअं सहीहिं सोहग्गं।
पसुवइणा वासुइकंकणम्मि ओसारिए दूरं॥ १०४॥
(पाणिग्रहणे एव पार्वत्याः ज्ञातं सखीभिः सौभाग्यम्।
पशुपतिना वासुकिकङ्कणेऽपसारिते दूरम्॥)
६. शुचिता यथा—
चच्चरघरिणी पिअदंसणा अ वाला पउत्थवइआ अ।
असई सअज्झिआ दुग्गआ अ ण हु खंडिअं सीलं॥ १०५॥
(चत्वरगृहिणी प्रियदर्शना च बाला प्रोषितपतिका च।
असती प्रातिवेश्मिका दुर्गता च न खलु खण्डितं शीलम्॥)
७. शीलसम्पद् यथा—(गास. ३.२६)
दिअहं खुडुंकिआए सअलं/तीए काऊण गेहवावारं।
गरुए वि मंतुदुक्खे भरिमो पाअंतसुत्तस्स॥ १०६॥
(दिवसं रोषमूकायाः सकलं कृत्वा गेहव्यापारम्।
गुरुकेऽपि मन्तुदुःखे स्मरामः पादान्तसुप्तस्य॥)
८. प्रियंवदता यथा—(कुसं. १.४५)
स्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना॥ १०७॥
९. चातुर्यं यथा—(पृ. ११३२)
एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरतः॥ १०८॥ इत्यादि।
१०. वाग्ग्मिता यथा—(कुसं. ५.७५)
उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम्।
अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम्॥ १०९॥
११. शास्त्रज्ञानं यथा—(कुसं. १.३०)
तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः।
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः॥ ११०॥
१२. अदीनवाक्यता यथा—
कारागृहे त्वमुषितश्चिरमेव यस्य निर्वापितः स विनयेन सहस्त्रबाहुः।
तस्यापि रे! पुरभिदाऽखिलमस्त्रवेदमध्यापितस्य विजयी मम जीवनाथः॥ १११॥
१३. अविकत्थनत्वं यथा—(कुसं. ५.६४)
यथा श्रुतं वेदविदां वर! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥ ११२॥
१४. मानिता यथा—(कुसं. ५.६)
कदाचिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी।
अयाचतारण्यनिकेतमात्मनः फलोदयान्ताय तपस्समाधये॥ ११३॥
१५. कृतज्ञता यथा—(गास. ३.४६)
मामि! हिअअं व पीअं तेण जुआणेण मज्जमाणीए।
ण्हाणहलिद्दाकडुअं अणुसोत्तजलं पिअंतेण॥ ११४॥
(मातुलानि! हृदयमिव पीतं तेन यूना मज्जन्त्याः।
स्नानहरिद्राकटुकमनुस्त्रोतो जलं पिबता॥)
१६. दृढभक्तित्वं यथा—(कुसं. ५.८२)
अलं विवादेन यथाश्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते॥ ११५॥
य एते षोडश प्रोक्ता नायका नायिकाश्च याः।
तेषां ये चोत्तमत्वादिहेतोर्जात्यादयो गुणाः॥ ११६॥
युक्तस्तैरुत्तमस्तेषां पादहान्या तु मध्यमः।
अर्धहान्या कनिष्ठः स्यात् नायिकास्वप्ययं विधिः॥ ११७॥
उदात्ता गूढमाना स्याद् विरुद्धा मानशालिनी।
ललिता साध्यमानेह शान्ता निर्मानमानसा॥ ११८॥
मनसिशयमहास्त्रं शास्त्रसर्वस्वमेतन्निरुपमरमणीयं चेष्टितं नायकानाम्।
कथितमथ यथावत् कामश्चङ्गारसारे पुनरपि तदवस्थावस्थितं वर्णयामः॥ ११९॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे मोक्षश्रृङ्गारप्रकाशनो नाम
॥ एकविंशः प्रकाशः॥ २१॥
मोक्षस्य सर्वविधलक्षणलेखयाढ्यमेकं सविंशमिममाढ्यतरं प्रकाशम्।
एकोनविंशयुतपद्यशतं प्रकाश्य साहित्यशास्त्रमसमं ह्यतनोन्नृपोऽसौ॥
अभिनव इति संज्ञया समृद्धः क इव बभूव यथार्थया स्वकाले।
इति वदत विविच्य विद्वरेण्या नृपतिरसावथवा स कोऽपि गुप्तः॥