अथ शृङ्गारप्रकाशे विंशः प्रकाशः कामशृङ्गारप्रकाशः
(कामः)
कामो नाम आत्मनः सुखाभिधानो विशेषगुणः।
स द्वेधा, सामान्यरूपो विशेषरूपश्च। तत्र—
(१) सामान्यरूपो मनःषष्ठानामिन्द्रियाणां स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तावात्मनः सुखबुद्धिः।
(२) विशेषरूपः प्रियतमादौ तदनुरागाविद्धेषु विषयसङ्कल्पादिषु सदा सङ्गातिशयः। सोऽपि द्वेधा, प्रधानमप्रधानं च। तत्र—
अप्रधानं तद्विलासस्मरणलावण्यवद्रूपनिर्वर्णनादिषु तदभिमानानुबन्धिनी सुखास्वादबुद्धिः।
प्रधानं तु स्पर्शविशेषाभिमानिकसुखानुविद्धा फलवतः सुखप्रतीतिः।
सुखं काम इति वक्तव्येऽभिधानग्रहणम् — उपचारादरादिना मनश्शरीरेन्द्रियविषय- सन्निकर्षानुकूल्ये सति जन्मान्तरानुभवसंस्कारप्रबोधात्। सुखार्थतायामिन्द्रियप्रवृत्ति- विषयसंप्रयोग-तत्संप्रत्यय-सुखोत्पाद-तदनुभव-संस्कार-स्मरण-तदभिलाष-मनःप्रवृत्ति- सङ्कल्पानां सुखरूपाणामिव दुःखरूपाणामप्युपसंग्रहार्थम्। तेनेन्द्रियप्रवृत्त्यादयोऽपि कामव्यपदेशभाजो भवन्ति। तत्र—
१. इन्द्रियप्रवृत्तौ कामव्यपदेशो यथा—
‘श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामात्मसंयुक्तेन मनसाऽधिष्ठितानां स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः’ (कासू. १.२.१२)।
२. विषयसंप्रयोगे यथा— ‘स्पर्शविशेषविषयान्धस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः प्राधान्यात् कामः’ (कासू. १.२.१३)।
३. तत्संप्रत्यये यथा—
या त्वया सुखसंवित्तिः स्मरणीयाऽधुनातनी।
इति स्वप्नोपमान् मत्वा कामान् मा गास्तदङ्गताम्॥ १॥
३. संस्कारो यथा—(कासू.जयमङ्गला १.२.१८)
विनोपदेशं सिद्धो हि कामोऽनाख्यातशिक्षितः।
स्वकान्तारमणोपाये को गुरुर्मृगपक्षिणाम्॥ २॥
४. स्मरणे यथा—
काम! जानामि ते मूलं सङ्कल्पात् किल जायसे।
सङ्कल्पं न करिष्यामि तेन मे न भविष्यसि॥ ३॥
५. तदभिलाषे यथा—
सङ्कल्परमणीयस्य प्रीतिसम्भोगशोभिनः।
रुचिरस्याभिलाषस्य नाम काम इति स्मृतम्॥ ४॥
६. मनःप्रवृत्तौ यथा—(उरा. २.१४)
इयं सा लोलक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वयमुपकृतं येन मम तत्।
इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कुतो(कृतो) वेषश्चायं कथमिति मम भ्राम्यति मनः॥ ५॥
७. सङ्कल्पे यथा—(शाकु. २.२)
स्निग्धं वीक्षितमन्यतोऽपि नयने यत् प्रेषयन्त्याऽनया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव।
मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी सर्वं तत् किल मत्परायणमहो कामी स्वतां पश्यति॥ ६॥
स द्विरूपो द्विधा, हेतुभूतः फलभूतश्च॥ तत्र—
हेतुभूतः जन्मान्तरानुभवसंस्कारप्रबोधादात्मनो विषयोपभोगेच्छानुबन्धिनी गन्धादिषु यथास्वमिन्द्रियाणां प्रवृत्तिविषयसंभोगः तत्संप्रत्ययश्च।
फलभूतस्तु सुखोत्पादस्तनुभवसंस्कारस्मरणं तदभिलाषः मनःप्रवृत्ति— तत्सङ्कल्पश्च।
तेऽपि प्रवृत्त्यादयो द्वेधा, अधिष्ठानसंयोगाद्यर्था अङ्गसंप्रयोगाद्यर्थाश्च। तत्र— अधिष्ठानमङ्गनादि।
अङ्गानि स्रक्चन्दनादिनी। यथोच्यते—(कासू. जयमङ्गला १.२.१८)
सुखं कामस्तदङ्गानि भूषणालेपनस्रजः।
तथोपवनहर्म्याग्रवल्लकीमदिरादयः ॥ ७॥
तस्यायतनमुद्दामरूपयौवनविभ्रमाः।
रमण्यश्चाटुदाक्षिण्यैराकृष्टजनमानसाः॥ ८॥ इति॥
तत्र—
आयतनसंप्रयोगाद्यर्थप्रवृत्त्यादयो विशेषकामस्यैव हेतवो भवन्ति।
अङ्गसंप्रयोगाद्यर्थास्तु विशेषकामसामान्यकामयोः। केवलं विशेषकामे प्राधान्याप्राधान्यकृतो विशेषः।
संप्रयोगस्तु द्विरूपो द्विविधः। तत्र—
(१. आयतनसंप्रयोगः)
आयतनसंप्रयोगस्तावदुच्यते। स बाह्य आभ्यन्तरश्च।
बाह्यः समागमलक्षणोऽलब्धलाभार्थः।
आभ्यन्तरो रताख्यः, स लब्धपरिरक्षणार्थः।
तत्र समागमलक्षणः परतन्त्रयोरन्यतरानिच्छायां लज्जया भयाद् वा न घटते।
आन्तरोऽप्यान्तरचतुष्षष्टिप्रयोगानभिज्ञयोर्न स्यादित्युभयरूपोऽप्युपायमपेक्षते।
तत्र—
अलब्धलाभार्थम् आवाप उपायः। स ‘कन्यासंप्रयुक्त—भार्याधिकारिक— पारदारिक—वैशेषिकेषु चरणाद् विधानम्’ इत्यादिभिरुपदिष्टः (कासू. १.१.१०)। लब्धपरिरक्षणार्थं तु तन्त्रम्, तत् सांप्रयोगिके ‘प्रमाणभावकालेभ्यो रतावस्थापनम् (कासू.जयमङ्गला २.१.१)’ इत्यादिभिः प्रकाशितम्। औपनिषदिकं तु तन्त्रावापाभ्यामसिद्धेऽर्थे व्याप्रियते; तदिह नेष्टम्, अभिमानाभावात्।
(२. अङ्गसंप्रयोगः)
अङ्गसंप्रयोगस्तु सामान्यकामस्यापि निमित्तम् (कासू. जयमङ्गला १.२.१८)।
सोऽपि द्विरूपः — समाहरणलक्षण उपभोगलक्षणश्च। तत्र लब्धलाभार्थः समाहरणलक्षणः। स उपायापेक्षायां साधारणाधिकरणोक्तं नित्यनैमित्तिकानुष्ठानमपेक्षते, ‘स प्रातरुत्थाय कृतनियतकृत्यः’ (कासू. १.४.५) इत्यादि। सोऽयमुभयरूपोऽपि कामः संप्रयोगपराधीनत्वादुपायापेक्षी। उपायप्रमापकं तु कामसूत्रम्।
(कामशृङ्गारः)
तत्र सामान्यविशेषकामार्थिनो धीरललितादेर्नायकस्य तदनुकूलायां प्रवृत्तौ तदुपायानतिक्रमेणैतदनुभवाभिमानः कामशृङ्गारः। तत्र—
कैशिकी वृत्तिः, (पौरस्त्या प्रवृत्तिः), र्वैदर्भी रीतिः सर्वा नायिका धीरललितश्च नायक इति। तेषु—
कैशिकी वृत्तिस्तदनुरूपस्वरूपाङ्गत्वात्। तथाहि शृङ्गारप्राया कैशिकी। यथोच्यते—
या श्लक्ष्णनैपथ्यविशेषचित्रा स्त्रीपुंसयुक्ता बहुगीतनृत्ता।
कामोपचारप्रभवोपयोग्या/ भोगप्रभवप्रचारा तां कैशिकीं वृत्तिमुदाहरन्ति॥ ९॥
तदङ्गानि नर्म, नर्मस्फुञ्जः, नर्मस्फोटः, नर्मगर्भ इति (नाशा. २०.४५)। सा तु शृङ्गारप्रायेत्यनेन उत्तमयुवप्रकृतितां प्रतिपादयति।
श्लक्ष्णनैपथ्यविशेषचित्रेत्यनेन सम्भोगयोग्यान् आभिगामिकवैहारिकादिविशेषान् उपदिशति।
स्त्रीपुंसयुक्तेत्यनेनायतनसंप्रयोगस्य प्राधान्यं निगमयति। . . .
बहुगीतनृत्तेत्यनेन गोष्ठीसमवायसभा—पान—प्रदोषसङ्गीतकादीन् निर्दिशति।
कामोपचारप्रभवोपयोग्येत्यनेन समस्तसांप्रयोगिकाधिकरणोक्तचातुष्षष्टिक— प्रयोगान् अनुबध्नाति॥ अङ्गेषु
नर्मणा रहःपरिहासविस्रन्भादिभिः शृङ्गारावस्थामवस्थापयति।
नर्मस्फञ्जेन प्रथमानुरागे दूतीसंप्रेषणाभिसरणप्रेमातिरेकानुभावव्यभिचारि— सात्त्विकानां पुष्टिमभिधत्ते। नर्मगर्भेण दक्षिणेशधृष्टचेष्टितं व्याचष्टे। तल्लक्षणानां तथाविधार्थविशेषयोगात्। तथा हि—
आस्थापितशृङ्गारं वचो विचेष्टितं वा सपरिहासं नर्म। (नाशा. २०.४६–४८)
प्रथमसङ्गमे भयावसानं सम्भोगवेषवाक्यादिकर्म नर्मस्फञ्जः।(नाशा.२०.४९)
आविर्भूताभिलाषो नर्मस्फोटः।
तस्य कार्यहेतोः स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्भ इति। (नाशा.२०.५१)
दाक्षिणात्या प्रवृत्तिः; शृङ्गारोपयोगिविदग्धादृतमहार्हविलेपाभरणपेशलविशेष— योगित्वात्। यथा—(रघु. ६.६०)
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ १०॥
वैदर्भी रीतिः; शृङ्गारानुरूपसंदर्भत्वात्। यतो यदसमस्तमतिसुकुमार— बन्धमनुपचारवृत्तिमत् स्थानानुप्रासयोगि योगवृत्तिगर्भं वचः सा वैदर्भी।
असमस्तमित्यनेन सुखबोधनत्वात् विलासिनीचित्तमावर्जयति।
अतिसुकुमारबन्धमित्यनेन श्रुतिरमणीयतां कथयति।
अनुपचारवृत्तिमदित्यनेन (सुखावबोध्यतां ब्रुते)।
स्थानानुप्रासयोगीत्यनेन सुखोदाहरणीयतामाह।
योगवृत्तिगर्भमित्यनेन ग्राम्यतां प्रत्याचष्टे। तच्च सर्वनाटकाख्यायिकादिषु सप्रबन्धेषु प्रायो दृश्यत इति साऽपि धर्मशृङ्गारङ्गम्॥
सर्वा नायिका इत्यनेन एतदधिकारिणो धीरललितनायकस्य कामसेवायामिति अभियोगं नियमयति।
धीरललितश्च नायकस्तत्कृत्यस्यैव धर्मार्थानपेक्षया कामशृङ्गारे कामसूत्रप्रतिपादितोपायपूर्विकायां प्रवृत्तौ तस्यैव तदनुभावाभिमानात्। स गुणप्रकृतिप्रवृत्तिपरिग्रहप्रस्तारभेदाच्चतुश्चत्वारिंशत्प्रकारः।
तत्र गुणतः समस्तजात्यादिगुणसंपद्योगात् पादेनगुणसंपद्योगाच्च उत्तमो मध्यमश्च। प्रकृते रजउद्रेकाद् राजसः। प्रवृत्तेरनुकूलो दक्षिणः शठो धृष्टश्च। परिग्रहादसाधारणः साधारणश्च। तदेतद् वृत्तिः प्रवृत्तिरित्यादिकमेतल्लक्षणोदाहरणैः पूर्वमेव निर्णीतम्।
(ललितधैर्यम)
अथेदानीं नायकव्यपदेशहेतुर्धैर्यं विचार्यते। तद्धीन्द्रियविकारकारणं चित्तधर्मः। तद्धीरललितस्य ललितं भवति। यत्प्रभावादभ्युदयादिभिः प्रमोदः, शोकादिभिः वैक्लव्यं, व्यसनादिभिर्दीनत्वं, विलासेषु व्यसनम्, व्यसनेष्वभिनिवेशः, विषयेष्वत्यासङ्गः, धर्मार्थयोर्नात्यादरः, अनर्थजनैः संसर्गः, हासेषु/साहसेषु प्रवृत्तिः, शरीरेऽपि नापेक्षा, सर्वनाशेऽपि नानुशयः, सुलभेष्ववमानः, दुर्लभेष्वाकाङ्क्षा, स्ववर्णनासूत्कर्षः, चादूक्तिषु प्रागल्भ्यं, जात्यादिभिश्चाभिमान इति। तत्र—
१. अभ्युदयादिभिः प्रमोदो यथा—(रघु . १९.५)
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु।
ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः॥ ११॥
यथा वा—(मामा. १.३६)
जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोकनचन्द्रिका नयनविषयं जन्मन्येकं स एव महोत्सवः॥ १२॥
२. शोकादिभिर्वैक्लव्यं यथा—(रघु. ८.४३)
विललाप स बाष्पगद्गदं सहजामप्यवधूय धीरताम्।
अभितप्तमयोऽपि मार्दवं भजते, कैव कथा शरीरिषु?॥ १३॥
यथा वा—(मामा. ९.१८)
तरुणतमालनीलबहुलोन्नमदम्बुधराः शिशिरसमीरणावधुतनूतनवारिकणाः।
कथमवलोकयेयमधुना हरिमतीर्मदकलनीलकण्ठकलहैर्मुखराः हरितः॥ १४॥
३. व्यसनादिभिर्दीनत्वं, यथा—(मेघ. ६)
जातं वंशो भुवनविदिते पुष्कलावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं याञ्चा मोघा वरमधिगुणे; नाधमे लब्धकामा॥ १५॥
यथा वा—(मामा. ९.३०)
केकाभिर्नीलकण्ठस्तिरयति वचनात् ताण्डवादुच्छिखण्डः कान्तामन्तःप्रमोदादनुसरति मदभ्रान्ततारश्चकोरः।
गोलाङ्गूलः क(पो)लं छुरयति रजसा कौसुमेन प्रियायाः कं याचे यत्र तत्र ध्रुवमनवसरग्रस्त एवार्थिभागः॥ १६॥
४. विलासेषु व्यसनं यथा—(रघु. १९.४४)
ताः स्वमङ्कमधिरोप्य दोलया प्रेङ्खयन् परिजनप्रवृद्ध/बद्धया।
मुक्तरज्जु निबिडं भयच्छलात् कण्ठबन्धनमवाप बाहुभिः॥ १७॥
यथा वा—(कुसं. ८.२४)
रावण/वारणध्वनितभीतया तया कण्ठसक्तमृदुबाहुबन्धनम्।
एकपिङ्गलगिरौ जगद्गुरुः निर्विवेश विशदाः शशिप्रभाः॥ १८॥
५. व्यसनेष्वभिनिवेशो यथा—(रघु. १९.१२)
सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः।
ताभिरप्युपहितं मुखासवं सोऽपिबद् वकुलतुल्यदोहदः॥ १९॥
यथा वा—(रघु. ९.६९)
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धराधिपम्।
परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी॥ २०॥
६. विषयेष्वत्यासङ्गो यथा—(रघु. १९.६)
इन्द्रियार्थपरिशून्यमक्षमः सोढुमेकमपि न क्षणान्तरम्।
अन्तरेव विहरन् दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः॥ २१॥
यथा वा—(रघु. १९.१३)
अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे।
वल्लकी च हृदयङ्गमस्वना मञ्जुवागपि च वामलोचना॥ २२॥
७. धर्मार्थयोर्नात्यादरो यथा—(गास. ६.२९)
लोओ ज्झूरइ ज्झूरइ वअणिज्जं होइ होउ तं णाम।
एहि णिमज्जसु पासे पुंप्पवइ! ण एइ मे णिद्दा॥ २३॥
{लोकः खिद्यते खिद्यतु वचनीयं भवति भवतु तन्नाम।
एहि निमज्ज/निषीद पार्श्वे पुष्पवति! नैति मे निद्रा॥}
यथा वा—(गास. ३.६१)
घरणिघणत्थणपेल्लणसुहेल्लिपडिअस्स होंतपहिअस्स।
अवसउणंगारअवारविट्ठिदिअहा सुहावेंति॥ २४॥
(गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशकुनाङ्गारकवारविष्टिदिवसाः सुखयन्ति॥)
८. अनर्थजनैः संसर्गो यथा—(राच. ३.२८)
न सूरयो न स्थविरा न धीराः पुरस्स्थिताः प्राश्निकतां भजन्ते।
स तिष्ठते संसदि संशयानः पुष्पोपविष्टासु विलासिनीषु॥ २५॥
यथा वा—(वैश. ५६)
न नटा न विटा न गायना न च सभ्येतरवादचुञ्चवः।१
नृप! वीक्षितुमत्र के वयं स्तनभारानमिता न योषितः॥ २६॥
९ . साहसेषु प्रवृत्तिर्यथा—(मामा. ५.५)
कुवलयदलश्यामोऽप्यङ्गं दधत् परिधूसरं ललितविकटन्यासः श्रीमान् मृगाङ्कनिभाननः।
हरति विनयं वामो यस्य प्रकाशितसाहसः प्रविगलदसृक्पङ्कः पाणिर्ललन्नरजाङ्गलः॥ २७॥
यथा वा—(मामा. ५.२७)
त्वत्पादपङ्कजपरिग्रहपुण्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः।
भ्राम्यन् नृमांसपणनाय परेतभूमावाकर्ण्य भीरु! रुदितानि तवागतोऽस्मि॥ २८॥
१० . शरीरेऽपि नापेक्षा यथा—(मामा. ३.१२)
धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति वकुलामोदगर्भस्य वायोः।
दावप्रेम्णा सरसबिसिनीपत्रमात्रान्तरीया ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान्॥ २९॥
यथा वा—(रत्ना. ४.१६)
विरम विरम वह्ने! मुञ्च संरम्भमेनं विरचयसि किमुच्चैरर्चिषां चक्रवालम्।
विरहहुतभुजाऽहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं त्वं करोषि॥ ३०॥
११. सर्वनाशेऽपि नानुशयो यथा—(गास. ३.२९ )
सव्वस्संमि वि दड्ढे तह वि हु हिअअस्स णिव्वुदि च्चेअ।
जं तीए गामडाहे हत्थाहत्थी कुडो गहिओ॥ ३१॥
{सर्वस्वेऽपि दग्धे तथाऽपि खलु हृदयस्य निर्वृत्तिरेव।
यत् तया ग्रामदाहे हस्ताहस्ति (कया) कुण्डो गृहीतः॥ }
१. प्रसिद्धस्तु पाठः ‘न गायनाः, न परद्रोहनिबद्धबुद्धयः। नृपसद्मनि नाम के वय’—मिति। यथा वा—(रघु. ८.९३)
तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद।
प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमनत्वरया स मेने॥ ३२॥
१२. सुदुर्लभेष्ववमानो यथा—(रघु. १९.२१)
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः।
प्राञ्जलिः प्रणयिनीः प्रसादयन् सोऽदुनोद् ग्रहणमन्थरः पुनः॥ ३३॥
यथा वा—(किराता. ८.४)
घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान/न्यपहाय शाखिनः।
पुरोऽभिसस्त्रे सुरसुन्दरीजनैः यथोत्तरेच्छाऽपि/वि गुणेषु कामिनः॥ ३४॥
१३. दुर्लभेष्वाकाङ्क्षा यथा—(रघु. १९.२९)
लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः।
वर्तते स्म स कथञ्चिदालिखन्नङ्गुलिक्षरणसन्नवर्तिकः॥ ३५॥
यथा वा—
अपेतव्याहारं धुतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम्।
मुहुर्बद्धोत्कम्पं दिशिदिशि मुहुः प्रेरितदृशो— रहल्यासुत्राम्णोः क्षणिकमिह तत् सङ्गतमभूत्॥ ३६॥
१४. स्ववर्णनासूत्कर्षो यथा—(विक्रमो. २.१६)
मया नाम स्थितं(जितं) यस्य त्वयाऽयं समुदीर्यते।
जयशब्दः सहस्राक्षादा/दगतः पुरुषान्तरम्॥ ३७॥
यथा वा—(मामा. ५.२६)
मरणसमये त्यक्ताशङ्कं प्रलापनिरर्गल— प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते।
सुतनु! विसृजोत्कम्पं संप्रत्यसावपि पाप्मनः फलमनुभवत्युग्रं पापः प्रतीपविपाकिनः॥ ३८॥
१५. चाटूक्तिषु प्रागल्भ्यं यथा—(कुसं. ५.८६)
अद्यप्रभृत्यनवमाङ्गि! तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ।
अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते॥ ३९॥
यथा वा—(कुसं. ८.७६)
आर्द्रकेसरसुगन्धि ते मुखं मत्तमत्तनयनं स्वभावतः।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि! मदः करिष्यति॥ ४०॥
१६. ‘जात्यादिभिरभिमानः’ इति यदुक्तं१ तद् विभज्यते। धीरललितस्य हि द्वौ भेदौ— मध्यमः उत्तमश्च। तत्र— मध्यमस्य जात्यभिमानादयो धीरोद्धतेनैव व्याख्याताः, पादगुणसम्बन्धीद्धताया उभयत्र तुल्यत्वात्।
उत्तमस्य प्रज्ञाप्रभावदेशकालावबोधेङ्गिताकारज्ञानमहारम्भतासौहार्दाभिमानाः षडपरेऽपि संभवन्ति। स हि समस्तगुणसंपद्योगादुत्तम इत्युच्यते। तत्र—
प्रज्ञाभिमानो यथा—(मामा. ४.९)
प्रमथ्य क्रव्यादं मरणसमये रक्षितवतः परिष्वङ्गं लब्ध्वा तव कथमिवान्यत्र रमताम्।
तथाऽभुद् व्यापारः कमलनयनाया नयनयो— स्त्वयि व्यक्तस्नेहः स्तिमितरमणीयश्चिरमभूत्॥ ४१॥
प्रभावाभिमानो यथा—(शाकु. ६.४)
चूतानां चिरनिर्मि/र्गताऽपि कलिका बध्नाति न स्वं रजः सन्नद्धं यदपि स्थितं कुरवकं तत् कोरकावस्थया।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम्॥ ४२॥
देशकालावबोधनाभिमानो यथा—
तं तिअसकुसुमदामं हरिणा णिम्महिअसुरहिबहलपरिमलं।
अम्प—णइअं पि दूमिअपणइणिहिअएण रुप्पिणीए विइण्णं॥ ४३॥
(तत् त्रिदशकुसुमदाम हरिणा निर्गच्छत्सुरभिबहुलपरिमलम्।
आत्मन आनीत/आत्मीयमपि दूनितप्रणयिनीहृदयेन रुक्मिण्यै वितीर्णम्॥ )
१. एतस्यैव रूपान्तरमिदं जात्यादिभिश्चाभिमान इति यदुक्तं, तद्विभज्यते’—इति। पृ॰ १०२३ पं. १ इङ्गिताकारज्ञानाभिमानो यथा—(शाकु. २.११)
अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम्।
विनयवारितवृत्तिरतोऽनया न विवृतो मदनो न च संवृतः॥ ४४॥
महारम्भताभिमानो यथा—(हवि.)
अइरा आणेमि तुहं अमआसव-लोल-भमर-लंघिअ-कुसुमं।
तिअस-गअ-दास-सीअर-तुसार-तण्णाअ-पल्लवं सग्गदुमं॥ ४५॥
(अचिरादानयामि तवामृतासवलोलभ्रमरलङ्घितकुसुमम्।
त्रिदशगजदानशीकरतुषारार्द्रितपल्लवं स्वर्गद्रुमम्॥ )
सौहार्दाभिमानो यथा—(मामा. ९.२८)
सुहृदि गुणनिवासे प्रेयसि प्राणनाथे कथमिव सहपांसुक्रीडितप्रौढसख्ये।
प्रियजनविरहाधिव्याधिखेदं दधाने हतहृदय! विदीर्य त्वं द्विधात्वं न यासि॥ ४६॥
धैर्यलालित्यहेतवश्चाभिनयेऽष्टौ विशेषगुणाः — सुवेषता, संप्रियता, यौवनं, स्थूललक्षता, प्रियंवदत्वं; लालित्यं, माधुर्यं, दृढभक्तिता। तेषु —
१. उदारनैपथ्यप्रयोगः सुवेषता; यथा—(रघु. ६.६०)
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।
आभाति बालातपलिप्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ ४७॥
यथा वा—(रघु. १७.२५)
आसीदभिमुखप्रेक्ष्यः स राज्यश्रीवधूवरः१॥ ४८॥
२. सर्वजनमनोहारित्वं सम्प्रियता; यथा—(मामा. २.१०)
तत उदयगिरेरिवैक एव स्फुरितगुणद्युतिसुन्दरः कलावान्।
इह जगति महोत्सवस्य हेतुर्नयनवतामुदियाय बालचन्द्रः॥ ४९॥
यथा वा—(मामा. २.११)
असौ विद्याधारः शिशुरपि विनिर्गत्य भवना— दिहायातः सम्प्रत्यविकलशरच्चन्द्रमधुरः।
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव॥ ५०॥
१. ‘आकरो मृग्यः; मातृकासु उत्तरार्धं न लक्ष्यते नापि त्रुटिसूचकं चिह्नं वर्तते।’ इति राघवः HOS. ‘आमुक्ता॰’ इत्यस्य पूर्वार्धस्येदमेव तूत्तरार्धम्। ३. तारुण्यावतारो यौवनम्; यथा—(रघु. ३.३२)
महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव।
रघुः क्रमाद् यौवनभिन्नशैशवं/वः पुपोष गाम्भीर्यमनोहरं वपुः॥ ५१॥
यथा वा—(रघु. ३.३४)
युवा युगव्यायतबाहुरंसलः कवाटवक्षाः परिणद्धकन्धरः।
वपुः—प्रकर्षादजयद् गुरुं रघुस्तथाऽपि नीचैर्विनयाददृश्यत॥ ५२॥
४. अनल्पदातृत्वं स्थूललक्षता; यथा—(रघु. ५.३०)
तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात्।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम्॥ ५३॥
यथा वा—
श्लोकोऽयं १हरिषाभिधानकविना देवस्य तस्याग्रतो यावद्यावदुदीरितः शकवधूवैधव्यदीक्षागुरोः।
तावत्तावदुपोढसान्द्रपुलकोद्भेदः स तस्मै ददौ लक्षं लक्षमखण्डितं मदजलप्रक्लिन्नगण्डं गजम्॥ ५४॥
५. मनोज्ञभाषिता प्रियंवदत्वम्; यथा—(मामा. ४.१)
यद्व्यालप्रहितसुहृत्प्रमोहदग्धं सौजन्याद् विहितवती गतव्यथं माम्।
तत्कामं प्रभवति पूर्णपात्रवृत्त्या स्वीकर्तुं मम हृदयं च जीवितं च॥ ५५॥
यथा वा—(शाकु. ३.१८)
किं शीतलैः क्लमविनोदिभिरार्द्रवातं सञ्चालयामि नलिनीदलतालवृन्तैः।
अङ्के निधाय करभोरु! यथासुख ते संवाहयामि चरणावुत पद्मताम्रौ॥ ५६॥
६. अबुद्धिकृता शृङ्गाराकारचेष्टा लालित्यम्; यथा—(कुसं. २.६४)
अथ स ललितयोषिद्भ्रूलताचापशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा॥ ५७॥
यथा वा—(किराता. १२.२०)
ककुदे वृषस्य कृतबाहुमकृशपरिणाहशालिनि।
स्पर्शसुखमनुभवन्तमुमाकुचयुग्मण्डल इवार्द्रचन्दने॥ ५८॥
१. लौकिकी स्वरभक्तिरियं हर्षपदे यथा ‘त्रियम्बकं संयमिनं ददर्शे’—ति कुसं. ३.४४। ७. सर्वावस्थास्वनुग्रता माधुर्यं; यथा—(किराता. १.२१)
न तेन सज्यं क्वचिदुद्धृतं धनुः कृतं न वा कोपविजिह्ममाननम्।
गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम्॥ ५९॥
यथा वा—
यो हि दिर्घासिताक्षस्य विलासललित/वलितभ्रुवः/णः।
कान्तामुखस्यावशगस्तस्मै नृपशवे नमः॥ ६०॥
८. स्थिरानुरागत्वं दृढभक्तिता; यथा—(रघु. १४.८७)
सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां तस्या एव प्रचिकृतिसखो यत् क्रतूनाजहार।
वृत्तान्तेन श्रवणविषयव्यापिना तेन भर्तुः सा दुर्वारं कथमपि परित्यागदुःखं विषेहे॥ ६१॥
यथा वा—(कुसं. १.५३)
यदैव पूर्वं ज्वलने शरीरं सा दक्षरोषात् सुदती ससर्ज।
तदाप्रभृत्येव विमुक्तचन्द्रः/सङ्गः पतिः पशूनामपरिग्रहोऽभूत्॥ ६२॥
(धीरललितस्य भावाः)
१सोऽयमनयोर्विशेषगुणयोगस्वाभाविकयोर्निरतिशय आन्तरो नित्यश्र्चात्मनः संस्कारः, यत्प्रभावान्निरतिशया (रतिः) प्रीतिः।
१. उत्तमस्य (रतिः) प्रतीर्यथा— (उराच. १.३८)
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो— रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदिपरमसह्यस्तु विरहः॥ ६३॥
मध्यमस्य यथा—(मामा. ५.७)
प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया— स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि।
यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा— दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः॥ ६४॥
१. पङ्क्तिद्वयमिदं त्रुटितभूयिष्ठहस्तलेखमिति राघवः HOS. मूलं जोशेरक्लृप्तम्। २. उत्तमस्य प्रीतिर्यथा—
ते केचिन्निजकान्तिसुन्दरतया चेतश्चमत्कारिणो दृश्यन्ते परमोत्सवं नयनयोः सम्पादयन्तो जनाः।
अन्तर्ये मनसः प्रविश्य मनसा तैस्तैः स्वकीयैर्गुणैः (स्मृत्यारूढवपुर्भिरेव जनयन्त्याह्लादनामुत्कटाम्)॥ ६५॥१
मध्यमस्य यथा—
नाधन्यैः क्षणदाविराममधुराः किञ्चिद्विनिद्रालस— श्रोत्रैः सव्रणमुग्धचारणवधूदन्तच्छदायासिनः।
श्रूयन्ते मृदुपीतवक्त्रमरुतः पौरालिरीतिक्रम— व्यालोलाङ्गुलिरुद्धमुक्तसुषिरश्रेणीरवा वेणवः॥ ६६॥
३. उत्तमस्योत्कण्ठा यथा—
कालक्रमं प्रत्यकथैव तावत् (खण्डितम्)।
हि ॰ ॰ ॰ ॰ विघ्न ॰ ॰ ॰ एव॥ ६७॥
मध्यमस्य यथा—(मामा. ५.९)
सम्भूयेव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्रस्तैति नेत्रोत्सवः।
यद् बालेन्दुकलोच्चयादविचलैः सारैरिवोत्पादितं तत् पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्॥ ६८॥
४. उत्तमस्य चिन्ता यथा—(गास. २.८३)
खणमेत्तं पि ण फिट्टइ अणुदिअह—विदिण्णगरुअ—संतावा।
पच्छण्णपावसंक व्व सामली मज्झ हिअआओ॥ ६९॥
(क्षणमात्रमपि नापगच्छत्यनुदिवसमपि दत्तगुरुकंसतापा।
प्रच्छन्नपापशङ्केव श्यामलाङ्गी मम हृदयात्॥)
मध्यमस्य यथा—(मामा. ५.१०)
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि— श्चिन्तासन्ततितन्तुजालनिबिडस्त्रस्तेव लग्ना प्रिया॥ ७०॥
१. चतुर्थश्चरणोऽस्माभिरुपकल्पितः। ५. उत्तमस्य मतिः यथा—(सूमु. ६)
मधु च विकसितोत्पलावतंसं शशिकरपल्लवितं च सौधपृष्ठम्।
मदनजनितविभ्रमा च कान्ता सुखमिदमर्थवतां; विभूतयोऽन्याः॥ ७१॥
मध्यमस्य यथा—
यदेतद् धन्यानामुरसि रमणीसङ्गसमये समुद्भूतं किञ्चित् पुलकमिदमाहुः किल जनाः।
मतिस्त्वेषाऽस्माकं कुचयुगतटीचुम्बकशिला— निवेशादाकृष्टस्मरशरशलाकोत्कर इति॥ ७२॥
६. उत्तमस्य स्मृतिर्यथा—
तथा गृहीतस्तन्वङ्गया विजयोपार्जितः पणः।
यथा धन्याधरोष्ठेन हारितेऽपि जितं मया॥ ७३॥
मध्यमस्य यथा—(मामा. ९.४८)
आनन्दमिश्रमदनज्वरदीपनानि गाढानुरागरसवन्ति तदा तदा च।
स्नेहाङ्कनानि मम मुग्धदृशस्तु कण्ठे कष्टं स्मरामि तव तानि गतागतानि॥ ७४॥
७. उत्तमस्य वितर्को यथा—(शाकु. २.१०)
चित्रे निवेश्य परिकल्पितसत्त्वयोगा रूपोच्चयेन विधिना मनसा कृता नु।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः॥ ७५॥
मध्यमस्य यथा—(विक्रमो. १.१०)
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः श्रृङ्गारो नु रसः स्वयं नु मदनो मासो नु पुष्पाकरः।
वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥ ७६॥
८. उत्तमस्य शङ्का यथा—(मामा. ८.१४)
याता नु तद्भगवतीभवनं सखी नो जीवन्त्युपेष्यति तवेत्यभिशङ्कितोऽस्मि।
प्रायेण बान्धवसुहृत्प्रियसङ्गमादि सौदामनीस्फुरणचञ्चलमेव सौख्यम्॥ ७७॥
मध्यमस्य यथा—(मामा. ८.१३)
किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद् विरमतु परिहासश्चण्डि! पर्युत्सुकोऽस्मि।
कलयसि कलितोऽहं वल्लभे! देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयाऽसि॥ ७८॥
९. उत्तमस्य निद्रा यथा—(रघु. ५.६४)
तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमजस्य लिप्सोः।
भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव॥ ७९॥
मध्यमस्य यथा—
ऊष्मायमाणस्तनमण्डलीभिर्वराङ्गनाभिः स्फुटविभ्रमाभिः।
आलिङ्गिता रात्रिषु शैशिरीषु ते शेरते यैः प्रणतो वृषाङ्कः॥ ८०॥
१०. उत्तमस्य सुप्तं यथा—(कुसं. ८.८४)
केवलं प्रियतमादयालुना ज्योतिषामवनातासु पङ्क्तिषु।
तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम्॥ ८१॥
मध्यमस्य यथा—(सक. ५.४७०)
आश्लेषिणः पृथुरतक्लमपीतशीतमायामिनीं घनमुदो रजनीर्युवानः।
ऊर्वोर्मुहुर्वलनबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ ८२॥
११. उत्तमस्य प्रबोधो यथा—(कुसं. ८.८५)
स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम्।
मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः॥ ८३॥
मध्यमस्य यथा—
उन्निद्रितोऽस्मि विगलन्मधुवारहारि— व्याकोशकोकनदगन्धिसमीरणेन ।
१(आन्दोलितासु लतिकास्वमुना तुषार— संघात एष विलुठन् विकिरॅश्च भाति)॥ ८४॥
१२. उत्तमस्य व्रीडा यथा—(सूमु. ३१)
कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरच्छायामात्मद्युतिं प्रतिबिम्बिताम्।
असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ् जयति जनितव्रीडाहासः प्रियाहसितो हरिः॥ ८५॥
१. उत्तरार्धमिदमत्र योजितमस्माभिः। मध्यमस्य यथा—(गास. ४.५१)
जाओ सो वि विलक्खो मए वि हसिऊण गाढमुवऊढो।
पढमोसरिअस्स णिअंसणस्स गंठिं विमग्गंतो॥ ८६॥
(जातः सोऽपि विलक्षो मयाऽपि हसित्वा गाढमुपगूढः।
प्रथमापसृतस्य निवसनस्य ग्रन्थिं विमार्गयमाणः॥)
१३. उत्तमस्यावहित्थं यथा—(शाकु. २.१९)
क्व वयं? क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः।
परिहासविजल्पितं सखे! परमार्थेन न गृह्यतां वचः॥ ८७॥
मध्यमस्य यथा—(काव्याद. २.२६४)
राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः।
अवगच्छेयुराज्ञातमहो शीतानिलं वनम्॥ ८८॥
१४. उत्तमस्य धृतिः यथा—(रत्ना. ४.२०)
नीतो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मै करोमि स्पृहाम्॥ ८९॥
मध्यमस्य यथा—(मामा. १.३९)
जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकं स एव महोत्सवः॥ ९०॥
१५. उत्तमस्य हर्षो यथा—(रघु. ३.११)
सुरेन्द्रमात्राश्रित/यितगर्भगौरवात् प्रयत्नमुक्तासनया गृहागतः।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः॥ ९१॥
मध्यमस्य यथा—(मामा. ६.८)
म्लानस्य जीवकुसुमस्य विकासनानि सन्तर्पणानि सकलेन्द्रियमोहनानि।
आनन्दनानि हृदयैकरसायनानि दिष्टया मयाऽप्यधि/परिगतानि वचोऽमृतानि॥ ९२॥
१६. उत्तमस्य रोमाञ्चो यथा—(रघु. ७.२२)
अभूद् वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी।
अस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन॥ ९३॥
मध्यमस्य यथा—(मामा. ३.७)
प्रथमप्रियावचनसंश्रवस्फुरत्पुलकेन सम्प्रति मयाऽवलम्ब्यते।
घनराजिनूतनपयस्समुक्षणक्षणबद्धकुट्मलकदम्बडम्बरः ॥ ९४॥
१७. उत्तमस्य हासो यथा—(रघु. १९.२८)
दर्पणेषु परिभोगवासि/दर्शि—नीं नर्मपूर्वमनुपृष्ठसंश्रयः।
छायया स्मितमनोज्ञया वधूं ह्नीनिमीलितमुखीं चकार सः॥ ९५॥
मध्यमस्य यथा—(सुमो. २६)
स एष भुवनत्रयप्रथितसंयमः शङ्करो बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम्।
अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः॥ ९६॥
१८. उत्तमस्योत्साहो यथा—(कुसं. ३.९)
प्रसीद विश्राम्यतु वीर वज्रं शरैर्मदीयैः कतमः सुरारिः।
बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः॥ ९७॥
मध्यमस्य यथा—(मामा. ५.२६)
मरणसमये त्यक्ताशङ्कं प्रलापनिरर्गल— प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते।
सुतनु विसृजोत्कम्पं सम्प्रत्यसाविह पाप्मनः फलमनुभवत्युग्रं पापः प्रतीपविपाकिनः॥ ९८॥
१९. उत्तमस्य ग्लानिर्यथा—(पृ. ॰ १०१२)
प्रकृत्या रमणीयोऽपि क्षीयमाणः प्रतिक्षणम्/क्षपम्।
दुःखमावहति प्रातः शशीवापाण्डुरच्छविः॥ ९९॥
मध्यमस्य यथा—(मामा. ३.९)
यदिन्दावानन्दं प्रणयिनि जने वा न भजने व्यनक्त्यन्तस्तापं तदयमतिवीरोऽपि विषमम्।
प्रियङ्गुश्यामाङ्गप्रकृतिरपि चापाण्डुमधुरं वपुः क्षामं क्षामं वहति, रमणीयश्च भवति॥ १००॥
२०. उत्तमस्य क्रोधो यथा—(शाकु. १.२१)
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु॥ १०१॥
मध्यमस्य यथा—(शाकु. ६.२०)
अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु।
बिम्बाधरं दशसि चेद् भ्रमर! प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थम्॥ १०२॥
२१. उत्तमस्य शोको यथा—
अङ्गेषु चन्दनरसे मध(?)स्त्वदासीत् (सैर्मधुरत्वमासीत्) तन्व्या म्रदीयसि वपुष्युपगूहिते यत्।
(उद्धृत्य) कामकमनीयमकाण्ड एव(/एतत्)१ कालेन जीवितमिवोद्धरता हतोऽस्मि॥ १०३॥
मध्यमस्य यथा—(उराच. ३.३१, मामा. ९.१२)
दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्॥ १०४॥
२२. उत्तमस्याश्रु यथा—(सक. ५.२१२)
सीतावेश्म यतो निरीक्ष्य हरते दृष्टिं झटित्याकुला— मन्योन्यार्पितचञ्चुलग्नकबलैः पारावतैर्दूयते।
इन्दोर्दूरत एव नश्यति विशत्यन्तर्गृहं दुःखितः प्रच्छाद्याननमञ्चलेन रजनीष्वस्तत्रपं रोदिति॥ १०५॥
१. त्रुट्यां द्वितीयतृतीयपादैकदेशो लुप्तः रा.। जोशेरे तु नास्त्यस्य गन्धोऽपि। कोष्ठकपूर्त्तयस्त्वस्मत्कृता। मध्यमस्य यथा—(मेघ. १०३)
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया— मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।
अस्त्रैस्तावन्मुहुरुपचितैर्दृष्टिरालिप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः॥ १०६॥
२३. उत्तमस्य स्वेदो यथा—(कुसं. ७.७७)
रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत्।
तस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन॥ १०७॥
मध्यमस्य यथा—(शाकु. ६.१५)
स्विन्नाङ्गुलिविनिवेशो रेखोपान्तेषु दृश्यते मलिनः।
अश्रु च कपोलपतितं लक्ष्यमिदं वर्णिकोच्छ्वासात्॥ १०८॥
२४. उत्तमस्य श्रमो यथा—(रघु. ७.६६)
स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः।
ललाटबद्धश्रमवारिपूर्णां भीतां प्रियामेत्य वचो बभाषे॥ १०९॥
मध्यमस्य यथा—(रघु. ९.६८)
तस्य कर्कशविहारसम्भवंम स्वेदमाननविलग्नजालकम्।
आचचाम सतुषारशीतलो भिन्नपल्लवपुटो वनानिलः॥ ११०॥
२५. उत्तमस्य मूर्च्छा यथा—(उराच. ३.९)१
अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः।
उत्पीड इव धूमस्य मोहः प्रागावृणोति माम्॥ १११॥
मध्यमस्य यथा—(मामा. ९.२१)
बन्धुता नयनकौमुदीमहो मालतीनयनमुग्धचन्द्रमाः।
सोऽयमद्य मकरन्दनन्दनो जीवलोकतिलकः प्रलीयते॥ ११२॥
१. अत्र राघवः—‘आकरो मृग्यः; पूर्णः श्लोको न ज्ञायते’ —इति। जोशेरः पुनर्न ह्येव स्पृशति पद्यमिदम्, तत एव च सैनी। राघवोऽपि मोहस्य स्थाने ‘लोह’—पदं पठति HOS.। २६. उत्तमस्य गर्वो यथा—(कुसं. ३.१०)
तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा।
कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं, के मम धन्विनोऽन्ये?॥ ११३॥
मध्यमस्य यथा—(मामा. ५.३२)
धैर्यं निधेहि हृदये, हत एष पापः, किं वा कदाचिदपि केनचिदन्वभावि।
सारङ्गसङ्गरविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः॥ ११४॥
२७. उत्तमस्य मदो यथा—(माघ. २.१६)
आघूर्णमन् मदिरास्वादमदपाटलितद्युती।
रेवतीदशनोच्छिष्टपरिपूतपुटे दृशौ॥ ११५॥
मध्यमस्य यथा—(रघु. १९.४६)
यत् स भग्नसहकारमासवं रक्तपाटलसमागमं पपौ।
तेन तस्य मधुनिर्गमात् कृशश्चित्तयोनिरभवत् पुनर्नवः॥ ११६॥
२८. उत्तमस्यामर्षो यथा—(बारा. ९.४५)
यन्मूलतो दशशिरांसि भवन्ति यच्च च्छेदेषु तानि शतशोऽथ सहस्स्त्रशश्च।
तत् साधु राक्षसपते! कथमन्यथाऽयमुत्सृज्यतां जनकजाहरणापरुद्धः॥ ११७॥
मध्यमस्य यथा—(मामा. ५.३४)
कठोरास्थिग्रन्थिव्यतिकरगणात्कारमुखरः खरस्नायुच्छेदक्षणविहितवेगव्युपरमः ।
निरातङ्कः पङ्केष्विव पिशितखण्डेषु विलास— न्नसिर्गात्रं गात्रं सपदि लवशस्ते विकिरतु॥ ११८॥
२९. उत्तमस्यासूया यथा— (रघु. ४.६१)
यवनीमुखपद्मानां सेहे मधुमदं न सः।
बालातपमिवाब्जानामकालजलदोदयः॥ ११९॥
मध्यमस्य यथा—(रघु. ७.२)
सेनानिवेशान् पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः।
भोज्यां प्रति व्यर्थमनोरथत्वाद् रूपेषु वेषेषु च साभ्यसूयाः॥ १२०॥
३०. उत्तमस्येर्ष्या यथा—(अमरु. ८१)
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुः कण्ठे लग्नस्तिरयति च बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे! न तु वयम्॥ १२१॥
मध्यमस्य यथा—(वेसं. २.११)
तद् भीरुत्वं तव मम पुरः साहसानीदृशानि श्लाघा साऽस्मदवपुषि विनयव्युत्क्रमेऽप्येष रागः।
तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः ख्याते तस्मिन् वितमसि कुले जन्म कौलीनमेतत्॥ १२२॥
३१. उत्तमस्योग्रता यथा—(विक्रमो. ५.१)
आत्मनो वधमाहर्ता क्वासौ विहगतस्करः।
येन तत् प्रथमं स्तेयं गोप्तुरेव गृहे कृतम्॥ १२३॥
मध्यमस्य यथा—(मामा. ५.३२)
प्रणयसखीसलीलपरिहासरसाधिगतौ— र्ललितशिरीषपुष्पहननैरपि ताम्यति यत्।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः॥ १२४॥
३२. उत्तमस्यानादरो यथा—(उराच. १.४६)
अपूर्वकर्मचण्डलमयि मुग्धे! विमुञ्च माम्।
श्रिताऽसि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम्॥ १२५॥
मध्यमस्य यथा—(मामा. ९.३५)
धिगुच्छ्वसितवैशसं मम यदित्थमेकाकिनो धिगेव रमणीयवस्त्वनुभवाद् वृथाभाविनः।
त्वया सह न यस्तया च दिवसः स विध्वंसतां प्रमोदमृगतृष्णिकां धिगपरत्र का मानुषे॥ १२६॥
३३. १उत्तमस्य विस्मयो यथा—
(अहो शरत्सिनीवाली तिरस्कारसुखं) मुखम्।
अहो/महो (मन्दतरं) मध्यमस्याः सारङ्गचक्षुषा/(षः)॥ १२७॥
मध्यमस्य यथा—(सूमु. १६)
कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम्।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्?॥ १२८॥
३४.उत्तमस्य चपलता यथा—(पृ. ८७६)
कण्ठे हारलतायोग्ये येन पाशस्तवार्पितः।
गृहीतः सापराधोऽयं मुच्यते स कथं करः?॥ १२९॥
३५. उत्तमस्य/मध्यमस्य? यथा—(रत्ना. ३.१७)
अलमलममुना ते साहसेनातिमात्रं चरितमयि! विमुञ्च त्वं लतापाशमेनम्।
चलितमिव निरोद्धुं जीविते जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि॥ १३०॥
३६. उत्तमस्य आलस्यं यथा—
जुज्जइ सव्वं सिरिपुत्तिसेण! जह भणिअं तह वि कंतं।
एसा रमणीआ णअणचंचरी तं च बोल्लेइ॥ १३१॥
{युज्यते सर्वं श्रीपुत्ति/बुद्धिसेन! यथा भणितं तथाऽपि कान्तम्।
एषा रमणीया नयनचञ्चरी तदेव कथयति॥}
मध्यमस्य यथा—(गास. ३. ६१)
घरिणिघणत्थणपेल्लणसुहेल्लिपडिअस्स होंतपहिअस्स।
अवसउणंगारअवारविठ्ठिदिअहा सुहावेंति॥ १३२॥
{गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशकुनाङ्गारकवारविष्टिदिवसाः सुखापयन्ति॥}
३७. उत्तमस्य भयं यथा—(मामा. ५.२०)
१. अंशमिमं जोशेरो नास्पृशत्। कोष्ठकांशपूर्त्तिस्त्वस्मत्कृता। तत्सर्वं खण्डितमिति रा.
नादस्तावद् विकलकुररीकूजितस्निग्धतार— श्चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति।
अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं देहस्तम्भः स्खलयति गतिं, कः प्रकारः? किमेतत्?॥ १३३॥
मध्यमस्य यथा—(रघु. १९.२३)
क्लृप्ततुष्पशयनान् लतागृहानेत्य दूतिगृह/कृतमार्गदर्शनः।
अन्वभूत् परिजनाङ्गनारतं सोपरोध/सोऽवरोधभयजातवेपथुः॥ १३४॥
३८. उत्तमस्य त्रासो यथा—(पृ. १०४३)
अज्ज वि हरी चमक्कइ जं कह कह वि ण मंदरेण दलिआइं।
चंदकलाकंदल कोमलाइ लच्छीए अंगाइ॥ १३५॥
(अद्यापि हरिश्चमत्कृतो यत् कथमपि न मन्दरेण दलितानि।
चन्द्रकलाकन्दलकोमलानि लक्ष्म्या अङ्गानि॥)
मध्यमस्य यथा—(शाकु. ३.८)
पृष्टा जनेन समदुःखसुखेन बाला नैषा न वक्ष्यति मनोगतमाधिहेतुम्।
दृष्टो विवृत्य शतशोऽप्यनया सतृष्ण— मत्रान्तरे श्रवणकातरतां गतोऽस्मि॥ १३६॥
३९. उत्तमस्य कम्पो यथा—(उराच. ३.४१)
करपल्लवः स तस्याः सहसैव जडात्मनः परिभ्रष्टः।
उत्कम्पतः प्रकम्पी करान्मम स्विद्यतः स्विद्यन्॥ १३७॥
मध्यमस्य यथा—(सूमु. १४)
मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति।
अन्याऽपि किं सखि! न भाजनमीदृशानां वैरी न चेद् भवति वेपथुरन्तरायः॥ १३८॥
४०. उत्तमस्य स्तम्भो यथा—(मामा. १.३८)
वारं वारं तिरयति दृशावुद्वमद्बाष्पपूर— स्तत्सङ्कल्पोपहितजडिम स्तम्भमभ्येति गात्रम्।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते, किं करोमि?॥ १३९॥
मध्यमस्य यथा—(मामा. ५.२०)
नादस्तावद् विकलकुररीकूजितस्निग्धतार— श्चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति।
अन्तार्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं गात्रस्तम्भः स्खलयति गतिं, कः प्रकारः? किमेतत्?॥ १४०॥
४१. उत्तमस्य व्याधिर्यथा—(मामा. १.२३)
सन्तापसन्ततिमहाव्यसनाय तस्यामासक्तमेतदनपेक्षितहेतु चेतः।
प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वङ्कषा भगवती भवितव्यतैव॥ १४१॥
मध्यमस्य यथा—(रघु. ८.९३)
तस्य प्रसह्य हृदयं किल शोकशङ्कुः’ इत्यादि॥ १४२॥
४२. उत्तमस्योन्मादो यथा—(विक्रमो. ४.१७)
हंस! प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता।
सम्भावितैकदेशेन देयं यदभियुज्यते॥ १४३॥
मध्यमस्य यथा—(मामा. ९.२९)
भवद्भिः सर्वाङ्गप्रकृतिरमणीया कुलवधू— रिहस्थैर्दृष्टा वा विदितमिह वाऽस्या यदभवत्।
वयोऽवस्थां तस्याः श्रृणुत सृहृदो यत्र मदनः प्रगल्भव्यापारश्चरति हृदि, मुग्धश्च वपुषि॥ १४४॥
४३. उत्तमस्य विषादो यथा—(मामा. ४.७)
सुह्वदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम्।
पुनरकाण्डविवर्तनदारुणः परिशिनष्टि विधिर्मनसो रुजम्॥ १४५॥
मध्यमस्य यथा—(मामा. ८.१२)
मम हि कुवलयाक्षीं प्रत्यनिष्टैकबुद्धे— रविरतमनुबद्धोत्कम्प एवान्तरात्मा।
स्फुरति च खलु चक्षुर्वाममेतच्च कष्टं वचनमिह भवत्योः सर्वथा हा हतोऽस्मि॥ १४६॥
४४. उत्तमस्य वैवर्ण्यं यथा—(उराच. ३.२२)
नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं सततमपि ते स्वेच्छादृश्यो नवो नव एव यः।
विकलकरणः पाण्डुः सोऽयं शुचा परिदुर्बलः कथमपि स इत्युन्नेतव्यस्तथाऽपि दृशो प्रियः॥ १४७॥
मध्यमस्य यथा—(मामा. ५.५)
कुवलयदलश्यामोऽप्यङ्गं दधत् परिधूसरं ललितविकटन्यासलः श्रीमान् मृगाङ्कनिभाननः।
हरति विनयं वामो यस्य प्रकाशितसाहसः प्रविगलदसृक्पङ्कः पाणिर्ललन्नरजाङ्गलः॥ १४८॥
४५. उत्तमस्य दैन्यं यथा—(मेघ. ६)
‘जातं वंशे भुवनविदिते पुष्कलावर्तकानाम्’ इत्यादि॥ १४९॥
मध्यमस्य यथा—(मामा. ९.४५)
प्रयान्तीव प्राणाः सुतनु! हृदयं ध्वंसत इव जवलन्तीवाङ्गानि, प्रसरति समन्तादिव तमः।
त्वराप्रस्तावोऽयं न खलु परिहासस्य विषय— स्तदक्ष्णोरानन्दं वितर, मयि मा भूरकरुणः॥ १५०॥
४६. उत्तमस्य स्वरभेदो यथा—(रघु. ८.४३)
‘विललाप स बाष्पगद्गदम्’ इत्यादि॥ १५१॥
मध्यमस्य यथा—(रत्ना. ३.१७)
‘अलमलममुना ते साहसेनातिमात्रम्’ इत्यादि॥ १५२॥
४७. उत्तमस्य मोहो यथा—(उराच. १.३५)
‘विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा’ इत्यादि॥ १५३॥
मध्यमस्य यथा—(मामा. १.४४)
प्रसरति परिमाथी कोऽप्ययं देहभाज— स्तिरयति करणानां ग्राहकत्वं प्रमोहः।
रणरणकविवृद्धिं विभ्रमावर्तमानं ज्वलति हृदयमन्तस्तन्मयत्वं च धत्ते॥ १५४॥
४८. उत्तमस्य जाड्यं यथा—(पृ.॰ ८७७)
स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु— र्द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याऽद्य च।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थिता नाडिकाः॥ १५५॥
मध्यमस्य यथा—(मामा. १.३३)
परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते॥ १५६॥
स एष कामश्रृङ्गारस्तदेतत् काव्यदैवतम्।
तदेतद्, विश्वसर्वस्वं तदेतज्जन्मनः फलम्॥ १५७॥
ललितो नायकः, सर्वा योषिद्, वृत्तिस्तु कैशिकी।
प्रवृत्तिर्दाक्षिणात्येह वैदर्भी काव्यपद्धतिः॥ १५८॥
जन्मान्तरानुभववासनया सुखार्थमिच्छाप्रवृत्तिविषयेन्द्रियसम्प्रयोगैः।
सम्प्रत्ययानुभवनूतनवासनाभिमाना१/रात्माभिलाषसुखविस्मरणानि कामः॥ १५९॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे कामश्रृङ्गारप्रकाशो नाम
॥ विंशः प्रकाशः समाप्तः॥ २०॥
कामश्रृङ्गारमात्रस्य श्रृङ्गवत्वाद् यथार्थता।
धर्मार्थमोक्षश्रृङ्गारस्त्वश्रृङ्गा हि विषाणिनः॥
सनातनकवेरेषा लोकद्रष्टुः स्थिरा मतिः।
कामश्रृङ्गारमात्रे हि भोजराजमतिः शुकी॥
१. i. सम्प्रत्ययानुभवनूतनया सनाभिरात्माभिलाषसुखवि॰ जोशेरः। ii. सम्प्रत्ययानुभवनूतनया(?)सनाभिरात्माभिलाषसुखवि॰ राघवः HOS.। iii. मूलं त्वस्माभिरुपकल्पितम्।