१९ अर्थशृङ्गारप्रकाशः

अथ

शृङ्गारप्रकाशे एकोनविंशः प्रकाशः

अर्थशृङ्गारप्रकाशः

(अर्थः)

अर्थो नाम आत्मनः सुखसाधनानां कलत्रमित्रादीनामर्जनम्।

स त्रेधा नवः, भूतपूर्वः, पित्र्यश्च। तत्र—

(१) स्ववीर्यार्जितो नवः;

(२) प्रनष्टानीतो भूतपूर्वः;

(३) कुलक्रमागतः पित्र्यः।

(१. नवः —१०)

तत्राद्यो दशधा— ‘विद्या, भूमिः, पशवः, धान्यं, हिरण्यं, भाण्डम्, उपस्करः, कलत्रं, पुत्रः, मित्रमि’ति।

शेषौ तु कलत्रपुत्रवर्जमष्टधा। तत्र—

विद्या— ‘आन्वीक्षिक्यादयः। भूमिः — कृष्या चाकृष्या च। पशवो— हस्त्यश्‍वगोमहिषादयः। धान्यं ‘शमीधान्यं, शूकधान्यं’ च। हिरण्यं — सुवर्णरजतादि। भाण्डं — रत्‍नाजिनवस्त्र—कस्तूरिकादि। उपस्करो — गृहोपवनशयनासनादिः। कलत्रं— रत्यर्थमपत्यार्थं च……। पुत्राः औरसादयः। मित्रं सहजादिः। तेषु—

१. विद्या यथा—(सूमु. ६)

दत्तं समस्तमपि तिष्ठति यत् तथैव ज्ञातिर्न यद‍् विभजते, ह्रियते न चोरैः।
जन्मान्तरेऽपि यदुपैति, यदत्र पूज्यं विद्याधनं यदि तदस्ति, धनैः किमन्यैः?॥ १॥

२. भूमिर्यथा—

माषैर्मांसलितां तिलैस्तिलकितामुद्ध‍ूसरां धूसरैः वल्लैर्वल्लिमतीममीलदवटां वाटैर्वृतां व्रीहिभिः।
कार्पासोद‍्धुषितामुदारकवनोदारां कुलुत्थाकुला— मस्तोपद्रवकोद्रवामिह महीं दृष्ट्‍वा जनो नन्दति॥ २॥

३. पशुप्रशंसा यथा—

भयेषु दुर्गाणि, जलेषु सेतवो, गृहाणि मार्गेषु, रणेषु राक्षसाः।
मनःप्रसादेषु विनोदहेतवो गजा इवान्यत् किमिहास्ति वाहनम्?॥ ३॥

यथा वा—

वस्तुं (वप्‍तुं?) प्रोत्सहमानपामरकरक्षिप्‍तेक्षुकाण्डैः सह द्वेधाकृत्य नितम्ब! (पावनव)नक्षेत्रं विशन्त्यां हलौ।
हेलोदस्तहलीषमीषदलसं रोमन्थमभ्यस्यतो धन्या धूर्धुरपुङ्गवस्य वहतः पश्‍यन्ति लीलायितम्॥ ४॥

४. धान्यप्रशंसा यथा—

दुर्लभा यस्य निष्पत्तिर्व्ययो यस्य दिनेदिने।
धर्मकामार्थमूलस्य धान्यस्य कुशलं गृहे॥ ५॥

५. हिरण्यप्रशंसा यथा—

बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते।
न विद्यया केनचिदुद्‍धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः॥ ६॥

६. भाण्डप्रशंसा यथा—(माघ. ३.७६)

विक्रीय दिश्‍यानि धनान्युरूणि द्वैप्यानसावुत्तमलाभभाजः।
तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दन्॥ ७॥

७. उपस्करणप्रशंसा यथा—

गृहेण शयनीयेन भोजनेन जनेन च।
चतुर्भिरेव जानीयान्नरो जीवति वा न वा॥ ८॥

८. कलत्रप्रशंसा यथा—(सूमु. १)

प्रोषितायां व्रजन्त्यस्तं प्रजा धर्मो यशः सुखम्।
निवर्तन्ते निवृत्तायामहो बन्धुः कुलाङ्गना॥ ९॥

९. पुत्रप्रशंसा यथा—

न वाससां न रामाणां नवा स्पर्शस्तथा सुखम्।
शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथासुखम्॥ १०॥

१०. मित्रप्रशंसा यथा—(किराता. १३.५२)

लभ्यमेकसुकृतेन दुर्लभा रक्षितारमसुरक्षभूतयः।
स्वन्तमन्तविरसा जडीयतां मित्रलाभमनु लाभसंपदः॥ ११॥

त(स्यार्थ)स्यार्जनमलब्धलाभः; यथा— लब्धपरिरक्षणं, रक्षितविवर्धनं, रक्षितोपयोगश्च। तत्रोपयोग्यो दशधा— देश—काल—शक्ति—साधन—कार्यानर्थप्रतिघात— वैरनिवृत्ति—वृत्ति—मान—ख्याति—निमित्तः। तत्र—

देशनिमित्तः ऐहिक आमुष्मिकश्च।

कालनिमित्तः (तदा—)त्वार्थ आयत्यर्थश्च।

शक्तिनिमित्तः शक्तित्रयोपचयार्थः।

साधननिमित्तः सेनासन्नाहयन्त्रायुधनिचयभेषजार्थः।

कार्यनिमित्तस्त्रिवर्गार्थः।

अनर्थप्रतिघातनिमित्तो दुर्गाद्यर्थः।

वैरनिवृत्तिनिमित्तः शत्रूच्छेदार्थः।

वृत्तिनिमित्तः पशुपाल्यकृषिवाणिज्यार्थः।

माननिमित्तः पूजार्थः।

ख्यातिनिमित्तः कीर्त्त्यर्थ इति॥

अत्रार्जने तु प्रवर्तमानस्य विनयादय उपायस्कन्धाः — ‘विनयस्कन्धः, वार्तास्कन्धः, व्यवहारस्कन्धः, रक्षास्कन्धः, मन्त्रस्कन्धः, उपायस्कन्धः, विक्रमस्कन्धः, युद्धस्कन्धः, उपनिषत्क्सन्धः, प्रशमस्कन्ध’ इति। तेषु—

१. शुश्रूषाश्रवणादिभिर्यथावद् विद्योपविद्याग्रहणं तदभ्यासश्च, दुर्गसेतुवणिक्पथ— शून्यनिवेशगृहनिर्माणव्ययहस्तिवनवाणिज्यपाशुपाल्यकृष्यादिभिः विनयस्कन्धः।

२. स्वप्रवृत्तिचिन्तनं वार्तास्कन्धः।

३. व्यवहारस्थापनाविवादपदनिबन्धनादिभिर्लोकानां मात्स्यन्यायनिवारणं व्यवहारस्कन्धः।

४. बाह्येभ्य आन्तरेभ्यश्च कण्टकेभ्यः प्रजाप्रकृत्यात्मरक्षणं रक्षास्कन्धः।

५. रहसि षाड्गुण्यचिन्ता मन्त्रस्कन्धः। अनुपलब्धस्य ज्ञानम्, उपलब्धस्य निश्चयबलाधा(न)मर्थद्वैधस्य संशयच्छेदनमेकदेशदृष्टस्याशेषोपलब्धिर्विपर्यय— चिकित्सा चेति मन्त्रकर्माणि। कर्मणामारम्भोपायः, पुरुषद्रव्यसंपत्, देशकालप्रविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेति तत्राङ्गानि।

६. उद्ध‍ृतमन्त्रस्य सामभेदप्रदानदण्डप्रयोग उपायस्कन्धः।

७. चतुर्थोपायसाध्ये तु अव्यसनारिसंपद्योगात् परस्य तदभिमुखप्रयाणं विक्रमस्कन्धः. ……..(युद्धस्कन्धांशस्त्रुटितः)।

९. युद्धासिद्धौ दुर्बलस्य बलवतो वा जिगीषोरौषधमणिमन्त्रादिप्रयोग उपनिष्स्कन्धः।

१०. परस्मादवाप्‍तानामदातु…….मिकाणामात्मसात्कृत्य भयादिप्रशमनं प्रशमनस्कन्धः। सोऽयं विद्यादिरर्जितो रक्षितो, वर्धित उपयुक्तश्चार्थः। यथोच्यते—

यदनर्थावहं/यनं द्रव्यं त्रिवर्गावाप्‍तिसाधकम्।
(दीनानाथपरित्राण)क्षमं सोऽर्थोऽपदिश्‍यते॥ १२॥

(अर्थशृश्रृङ्गारः)

उपायतः प्रवृत्तौ तदवाप्त्यभिमानोऽर्थश्रृङ्गारः; यथा—(मवीच. १.३०)

कन्यारत्नमयोनिजन्म भवतामास्ते; वयं चार्थिनो रत्नं यत् क्वचिदस्ति तत् परिणमत्यस्मासु शक्रादपि।
कन्यायाश्च परार्थतैव हि मता; तस्याः प्रदानादहं बन्धुर्वो भविता; पुलस्त्यपुलहप्रष्ठाश्च संबन्धिनः॥ १३॥

आरभटी वृत्तिः, अनु(उ)ढ्रमागधी प्रवृत्तिः, गौडीया रीतिः, सर्वा नायिकाः, धीरोद्धतो नायक इति। तत्र—

आरभटी वृत्तिरर्थार्जनानुरूपाङ्गत्वात्। तथाहि आविद्धगतिरारभटी; यतः— (नाशा. २०.६५)

पुस्तावपातप्लुतलङ्घितानि छेद्यानि मायाकृतमिन्द्रजालम्।
चित्राणि युद्धानि च यत्र वृत्तिं/नित्यं तां तादृशीमारभटीं वदन्ति॥ १४॥

संक्षिप्‍तकः, अवपातः, वस्तूत्थापनं, संफेट इति तदङ्गानि।
आविद्धगतिरारभटीत्यनेनार्थश्रृङ्गारे धीरोद्धतव्यापारं नियमयति।

पुस्तावपाताभ्यां स्वसैन्यदुर्गादिरक्षामुपलक्षयति। विचित्राणां हि शिलामृद्विदलदारुचर्म—(श)ण?) सूत्रायोमयसन्नहता/स्त्रंशस्त्रादीनां पुस्तसंज्ञा१, परिखाकूपवृधावितिकादीनां चाऽवपातसंज्ञेति।

प्लुतलङ्घिताभ्यां परदुर्गोपरोधेषु तदभियोगचेष्टामाचष्टे। प्लुतैर्हि प्राकारादयो विलङ्घयन्ते। लङ्घनैश्च प्राकारादय इति।

छेद्यानि। ‘कूटयुद्धचतुर्विंशतिश्चित्रयुद्धानि’ इति ब्रुवते। १. नाट्यशास्त्रे २१ अध्याये पुस्तविधानं सविस्तरं दर्शितम् द्र. २१.५–२११ पर्यन्तम्। मायाकृतमिन्द्रजालमिति। (अनेन?) एभ्यः स्वसैन्यप्रोत्साहनपरबलस्तम्भनादिभिः कार्यसिद्धयेऽवस्कन्दकालन् सूचयति। . . . . . . . . . .

संक्षिप्‍तकेन मायादिभिः परात्र(स्त्र?)संधानादनायाससिद्ध(द्धिं) कार्यशरीरस्य ब्रूते। अवपातेनाकस्मिकेषु भयाद्युपनिपातेषु तदपसर्पणोपसर्पणाप्रकारं प्रकटयति।

वस्तूत्थापनेन स्वास्थ्यास्वास्थ्ययोर्विरुद्धकार्योपनिपाते मन्त्रचिन्तामाद्रियते।

संफेटेन बुद्ध(युद्ध?)—कालेऽवश्योच्छेद्यारिनिग्रहं प्रतिपादयति, तल्लक्षणानां तथाविधार्थयोगात्। तथाहि—

१. मायेन्द्रजालशिल्पनेपथ्यादिभिः कार्यवस्तुसंक्षेपः संक्षिप्‍तकः।

२. भयादिभिः विद्रवादिकर्मसु प्रवेशनिर्गमोऽवपातः।

३. अविद्रवः सविद्रवो वा सर्वरसभावसमासो वस्तूत्थापनम्।

४. नानास्त्रयुद्धनिद्धादिभिः ससंरम्भसंप्रहारः संफेट इति।

उढ्रमागधी प्रवृत्तिः। धीरोद्धतचेष्टानुरूपविलेपनमाल्यभूषणोल्बणविशेष— वेषत्वादर्थश्रृङ्गारः। यथा—

आर्द्राः स्त्रजो मलयजोदकमच्छमेकं वासश्च वासवरिपुर्ममृषेऽलसाङ्गः।
सञ्चिक्लिशे कलितरुद्रनिकेतनाद्रिभरिण तत्क्षणमसौ मणिभूषणानाम्॥ १५॥

गौडीया रीतिः, दीर्घविद्धोद्धतस्वरूपवाक्यत्वात्। यतो यदतिदीर्घसमासम्, अनतिस्फुटारक्षरबन्धं, नात्युपचारवृत्तिमत्, पादानुप्रासयोगि, योगवृत्तिपरम्परागर्भवचः, सा गौडीया। सा च प्रायोऽर्थशास्त्रेषु धीरोद्धतचेष्टासु चावलोक्या, इत्यर्थश्रृङा्गराङ्गम्।

सर्वा नायिकाः; अर्थश्रृङ्गाराधिकारिणो धीरोद्धतनायकस्यानवस्थितचित्तत्वात् धर्मार्थबाधेन कामसेवाभ्युपगमात्। क्रियामिथ्यायोगाच्च नैका नायिकेत्यतः सर्वा अर्थश्रृङ्गाराङ्गम्।

धीरोद्धतश्च नायक इति। यत्र हि त्रयोऽधिकारिणः (धीरोदात्तो), धीरोद्धतो धीरललितश्च, तत्र यथोक्तानां विद्याद्यर्थानामधर्मकामबाधया यथा वा अर्जुनो धीरोदात्तः प्रवर्तत इत्यनुपदेश्‍यः धीरप्रशान्तोऽपि तुल्यत्वादनुपदेश्यः। धीरललितस्तु धर्मार्थावभिभूय काम एव प्रवर्तते। सोऽप्यनुपदेश्‍यः। धीरोद्धतस्तु धर्मकामावनपेक्षमाणः सर्वदाऽर्थमेवानुरुध्यत इत्यर्थश्रृङ्गारे तदधिकारित्वेनास्य व्यपदेशः। प्रागुक्तविद्याद्यार्जने तदुपायपूर्विकायां प्रवृत्तौ तस्यैव तदनतिक्रमाभिमानात् सगुणप्रकृतिप्रवृत्तिपरिग्रह— भेदाच्चतुश्चत्वारिंशत्प्रकारः।

तत्र गुणभोग/भेदजात्यादिगुणसंपदपादाऽर्धहान्या मध्यमः, कनिष्ठश्च। प्रकृतितस्तामसः, प्रवृत्तितः अनुकूलो, दक्षिणश्शठो धृष्टश्च; परिग्रहादसाधारणः साधारणश्च। तदेतत्प्रवृत्तिर्वृत्तिरित्यादिकमेतल्लक्षणोदाहरणैः पूर्वमेव निर्णीतम्।१ इदानीं नायकव्यपदेशहेतुर्धैर्यं विचार्यते।

(उद्धत—धैर्यम्)

तत्र धीरोद्धतस्य धैर्यमुद्धतं भवति। यत्प्रभावादभ्युदयादिभिरुत्सेकः, शोकादिभिर्वैक्लव्यं, व्यसनादिभिर्दीनत्वं, रागादिभिर्धर्मबाधा, चरितेष्वसदृशस्पर्धा, नीचार्थेष्वप्यजुगुप्सा, अशक्तावेव क्षान्तिः, स्खलितेषु नानुशयः, सदाचारेष्वनादरः, परगुणेषु मात्सर्यं, परव्यसनेषु प्रहर्षः, परापवादेषु प्रीतिः, अस्थानेषु क्रोधः, प्रारब्धेष्वनिर्वाहः कर्मातिशये विस्मयः, स्वजात्यादिभिश्चाभिमान इति। तत्र—

१. अभ्युदयादिभिरुत्सेको यथा—(रघु. ७.६७)

इतः परानर्भकहार्यशस्त्रान् वैदर्भि! पश्‍यानुमता मयाऽसि।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः॥ १६॥

यथा वा—(बारा. ८.७४)

किं शच्यां परतो रतिर्धनपतेर्दूरे भवन्तु स्त्रिय— श्चन्द्रान्तःपुरमेतदस्तु परतः को वैरिणीषूत्सवः।
साकं शक्रजितः कलत्रनिवहैः सर्धं च दारैर्मम प्रीत्युल्लासितपाणिपल्लयुगं मन्दोदरी नृत्यति॥ १७॥

२. शोकादिभिर्वैक्लव्यं यथा—(मवीच. ४.५५)

प्राणाः प्रयान्ति परितस्तमसा वृतोऽस्मि मर्मच्छिदो मम रुजः प्रसरन्त्यपूर्वाः।
अक्ष्णोर्मुखेन्दुमुपधेहि गिरं च देहि हा वत्स! मय्यकरुणो सहसैव मा भूः॥ १८॥

यथा वा—(मामा. ९.२०)

मातर्मातर्दलचति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्‍्मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ १९॥

१. पञ्चदशे प्रकाशे पृ. ८६१–८७८। ३. व्यसनादिभिर्दैन्यं यथा—(मवीच. ५.३०)

विश्लिष्टभागधेयानां द्वयी नः परमा गतिः।
धर्मः प्रकृष्यमाणो वा गोप्‍ता धर्मस्य वा भवान्॥ २०॥

यथा वा—(मवीच. ४.२२)

पुण्या ब्राह्मणजातिरन्वयगुणः शास्त्रं/श्लाघ्यं चरित्रं च मे येनैकेन हृतान्यमूनि हरता चैतन्यमात्रां मयि।
एकः सन्नपि भूरिदोषगहनः सोऽयं त्वया प्रेयसा वत्स! ब्राह्मणवत्सलेन शमितः क्षेमाय दर्पामयः॥ २१॥

४. रागादिभिर्धर्मबाधा यथा—(रघु. ९.७४)

नृपतेः प्रतिषिद्धमेव तत् कृतवान् पङ्क्तिरथो विलङ्घय यत्।
अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः॥ २२॥

यथा वा—(वेसं. ३.११)

अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा।
तच्छुरुत्वाऽसौ दयिततनयः प्रत्ययात् तस्य राज्ञः शस्त्राण्याजौ नयनसलिलं चेति तुल्यं मुमोच॥ २३॥

५. चरितेषु तेष्वसदृशस्पर्धा यथा—(हनुमन्ना. १२.२)

क्षुद्राः! सन्त्रासमेनं विजहितहरयो भिन्नशक्रेभकुम्भा युष्माद्गात्रेषु लज्जां दधति परममी सायकाः संपतन्तः।
सौमित्रे! तिष्ठ पात्रं त्वमसि न हि रुषां, नन्वहं मेघनादः किञ्चित्संरम्भलीलानियमितजलधिं राममन्वेषयामि॥ २४॥

यथा वा—

तदुन्नतं शार्ङ्गधरस्य रुक्मिणीस्तनाभिघातप्रविलुप्‍तचन्दनम्।
उपैतु तावद् युधि गृध्रकामिनीनिरत्ययाश्लेषविधेयतामुरः॥ २५॥

६. नीचार्थेष्वप्यजुगुप्सा यथा—(उरा. २.४)

पत्नीं क्षत्रियपुङ्गवस्य शमिनः स्वीकर्तुमिच्छन् गुणै— राकृष्टो दशकन्धरः स्वसृधिया धीस्तावदेषा मम।
सत्यं नाम तदस्तु तत्र बलवद् विद्वेषिणः किं क्षमं मायासाध्यमिदं विहाय सहजं वीरक्रमं विक्रमम्॥ २६॥

यथा वा—(भट्टि. १४.१)

ततो दशास्यः स्मरविह्वलात्मा चारप्रकाशीकृतशत्रुशक्तिः।
विमोह्य मायामयराममूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्॥ २७॥

७. अशक्तावेव क्षान्तिर्यथा—(मवीच. ३.२७)

भृगोर्वंशे जातस्तपसि च किलायं स्थित इति द्विषत्यप्यस्माभिश्चिरमिह तितिक्षैव हि कृता।
यदा भूयोभूयस्तृणवदवधूनोत्यनिभृत— स्तदा विप्रेऽप्यस्मिन् नमतु धनुरन्याऽस्ति न गतिः॥ २८॥

यथा वा—(मवीच. ३.२०)

राजानो मुनयश्चैते महिम्नैव महाक्षमाः।
क्षमन्तां नाम, न त्वेव शतानन्दः क्षमिष्यते॥ २९॥

८. स्खलितेषु नानुशयो यथा—

क्रीडतां मृगवनेषु धन्विनां रूपकोटिकदनेऽप्यकम्पिनाम्।
(का प्रिया भवति का च विप्रिया सुन्दरीषु बत कामकामिनाम्॥ ३०॥१)

यथा वा—(वेसं. २.२)

आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने— स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः।
प्रौढानेकधनुर्धरादिविजयश्रान्तस्य चैकाकिनो बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात्॥ ३१॥

९. सदाचारेष्वनादरो यथा—(किराता. ३.१४)

जहातु नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः।
असाधुयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि॥ ३२॥

यथा वा—

न सूरयो न स्थविरा न धीराः, पुरः स्थिताः प्राश्निकतां प्रयान्ति।
स२ तिष्ठते संसदि संशयानः पृष्ठोपविष्टासु विलासिनीषु॥ ३३॥

१. उत्तरार्धन्त्वस्माभिर्निर्मितम्। २. सन्तिष्ठत इति यावत्। १०. परगुणेषु मात्सर्यं यथा—(उराच. ५.३२)

सिद्धं ह्येतद् वाचि वीर्यं द्विजानां बाह्वोर्वीर्यं यत्तु तत् क्षत्रियाणाम्।
शस्त्रग्राही ब्राह्मणो जामदग्न्य— स्तस्मिन् दान्ते का स्तुतिस्तस्य राज्ञः॥ ३४॥

यथा वा—(उराच. ५.३४)

वन्या/वन्द्यास्ते ह्यविचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दीस्त्रीदमनेऽप्यकुण्ठयशसो लोके महान्तो हि ये।
यानि त्रीणि/ण्यकुतोमुखान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः॥ ३५॥

११. परव्यसनेषु प्रहर्षो यथा—

उपतास्तु शत्रूणां स्वयमन्येन वा कृतः।
रतिं करोति महतीमपकारोऽपकारिणाम्॥ ३६॥

यथा वा—(वेसं. ५. २८)

चूर्णिताशेषकौरव्यः क्षीबो दुश्शासनासृजा।
भङ्क्ता सुयोधनस्योर्वोर्भीमोऽयं शिरसाऽञ्चति॥ ३७॥

१२. परापवादेषु प्रीतिर्यथा—(मवीच. ३.१९)

मातुरेव शिरश्छेदो गर्भाणां चावकर्तनम्।
राज्ञां च सवनस्थानां ब्रह्महत्यासमो वधः॥ ३८॥

यथा वा—(मवीच. ३.४४)

त्वं ब्रह्मवर्चसधनो यदि वर्तमाने यद्वा स्वजातिसमयेन धनुर्धरस्य।
उग्रेण भोस्तव तपस्तपसा दहामि पक्वान्तरस्य सदृशः परशुः करोति॥ ३९॥

१३. अस्थानेषु क्रोधो यथा—(वेसं. ३.४४)

यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा।
यो यस्तत्कर्मसाक्षी चरति मयि रणे, यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम्॥ ४०॥

यथा वा—(वेसं. १.१८)

लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः॥ ४१॥

१४. प्रारब्धेष्वनिर्वाहो यथा—(बारा. ३.३०)

दोर्दण्डचरितोच्चण्डो हरचिन्ताचमत्कृतः।
कार्मुकारोपणायैष समुत्थाय पुनः स्थितः॥ ४२॥

यथा वा—(बारा. ३.३३)

रभसादयमादाय कोदण्डं मदनद्विषः।
व्रीडामयोऽपि योऽस्त्रं वो वन्दिता पुनरुज्झति॥ ४३॥

१५. कर्मातिशयैर्विस्मयो यथा—(सेब. २.४३)

पेच्छंताण समुद्दं चडुलो वि अउव्वविम्हअरसत्थिमिओ।
हणुमंतंमि णिवडिओ सगोरवं वाणराणँ लोअणणिवहो॥ ४४॥

(प्रेक्षमाणानां समुद्रं चटुलेऽपि अपूर्वविस्मयरसस्तिमितः।
हनूमति निपतितः सगौरवं वानराणां लोचननिवहः॥)

यथा वा—(सेब. २.४४)

उअहिं अलंबहि/घणिज्जं दंठूण गआगअं च मारुअतणअं।
विम्हअपरअसे संमुद्‌धो/मोहंधनारिएसु वि मूढो/गूढो भमइ हिअएसु सिं उच्छाहो॥ ४५॥

(उदधिमलङ्घनीयं दृष्टवा गतागतं च मारुततनयम्।
विस्मयपरवशेषु संमुग्धो/मोहान्धकारितेषु अपि मूढो/गूढो भ्रमति हृदयेषु तेषामुत्साहः॥)

१६. स्वजात्यादिभिश्चाभिमान इति। तत्र जात्यादयो गुणाश्चतुर्विंशतिः। चतुर्णामपि नायकानामुत्तमत्वादिहेतव इत्यभिहितं पुरस्तात्१। तत्र— १. पृ. १००१, १००५। धीरोद्धतः पादगुणसंपदा अर्धगुणसंपदा च हीनो मध्यमः कनिष्ठश्च स्यात्। तत्र— मध्यमस्य प्रभावभावदेशकालज्ञानमहारम्भतासौहार्दानि स्युः।

कनिष्ठस्य तु अष्टादशभ्यो यदृच्छयाऽन्येऽपि जात्यादयः षड् न भवन्ति। तेषु—

१. जात्यभिमानो यथा—(किराता. १४.२२)

वयं क्व वर्णाश्रमरक्षणोचिताः? क्व जातिहीना मृगजीवितच्छिदः?।
सहापकृष्टैर्महतामसङ्गतं भवन्ति गोमायुसखा न दन्तिनः॥ ४६॥

२. अन्वयाभिमानो यथा—(मवीच. ३.११)

ब्रह्मैकतानमनसोऽपि वसिष्ठमुख्यास्त्वं ब्रूहि वीरचरितेषु गुरुः पुराणः।
वंशे विशुद्धिमति येन भृगोर्जनित्वा शस्त्रं गृहीतमथ तस्य यदत्र युक्तम्॥ ४७॥

३. अभिजनाभिमानो यथा—(बारा. १.३)

अहमेष हरिष्यामि परिणेतुः पुरेऽपि ताम्।
नारीपरिभवं सोढुं दाक्षिणात्या न शिक्षिताः॥ ४८॥

४. निवासाभिमानो यथा—(रघु. ५.६०)

एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु।
एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान्॥ ४९॥

५. आस्पदाभिमानो यथा—(बारा. ८.२)

त्वत्काङ्ककारविजये तव राम लङ्का सीता च ते पुनरियं भवतोऽस्तु दाराः।
मत्काङ्ककारविजये तु ममाधिपत्यं तस्यां च ते पुरि कलत्रजने च तत्र॥ ५०॥

६. पदाभिमानो यथा—(रघु. ४.१)

स राज्यं गुरुणां दत्तं प्रतिपद्याधिकं वभौ।
दिनान्ते निहितं तेजस्सवित्रेव हुताशनः॥ ५१॥

७. पित्रभिमानो यथा—(विक्र. ४.१९)

सूर्याचन्द्रमसौ यस्य मातामहपितामहौ।
स्वयंवृतः पतिर्द्वाभ्यामूर्वश्‍या च भुवा च यः॥ ५२॥

८. शास्त्राभिमानो यथा—

पच्चक्खा हि परोक्खं कहवि तुग्ग(ज्झ)/तुलग्गघडिआहि आगमसुद्‌धं।
संचालिअणिक्कप्पं अणुहूआहि वि महं सुअं मिपि तुलाग्रचअ गरुअं॥ ५३॥

(प्रत्यक्षत‍्‍द्धिं परोक्षं कथं वा तव घटिताद्धि आगमशुद्धम्।
सञ्चालिता निष्कम्पमनुभूताद्धि अपि मम श्रुतमेव गुरुकम्॥)

९. वाग्ग्मिताभिमानो यथा—(किराता. १४.३)

विविक्तवर्णाऽभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम्।
प्रवर्तते नाऽकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती॥ ५४॥

१०. कलावैदग्ध्याभिमानो यथा—(कुसं. ३.१०)

तव प्रसादात् कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा।
कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं, के मम धन्विनोऽन्ये?॥ ५५॥

११. चतुरताभिमानो यथा—(हरिविजये)

बहुमण्णसि हरिप्पणअं संदाणेसि तिअसेस पाअअवअणं।
ओजह मुद्‌धसभावं संभावेसु सुरणाह! जाअवलोअं॥ ५६॥

(बहुमन्यसे हरिप्रणयं सन्दानयसि त्रिदशेशपादपरत्नम्।
अपजहिहि मुग्धस्वभावं सम्भावय सुरनाथ! यादवलोकम्॥)

१२. रूपसंपदभिमानो यथा—(राच. ११.८७/८८)

म्लानाकृती मलिनचीरधरौ नरौ तौ नीराजनार्थमिव यस्य कृतौ/मे विहितौ विधात्रा।
देवद्रुमस्तबकबद्धजयावतंस— स्त्वां देवरो नमतु मैथिलि! कुम्भकर्णः॥ ५७॥

१३. सौभाग्याभिमानो यथा—

एकस्मिञ् शयने मया मयसुतामालिङ्ग्य निद्रालसा— मुन्निदं शयितेन मच्चरणयोः संवाहनव्यापृताम्/ता।
पादाग्रेण तिलोत्तमा स्तनतटे सस्नेहमापीडिता हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुञ्चति॥ ५८॥

१४. त्यागाभिमानो यथा—

केत्तिअमेत्त व्व धरा, मह बलिणो तुंत्थ/तुज्झ? पत्थमाणस्स/मग्गमाणस्स।
अप्पा ण केवलं चिअ अहं वि लहुईकओ कण्ह!॥ ५९॥

{कियन्मात्रेव धरा महाबलिनः(तः) तव प्रार्थयमानस्य (मृग्यमाणस्य)।
आत्मा न केवलमेव अहमपि लघुकीकृतः कृष्ण!॥}

१५. शौर्याभिमानो यथा—(मामा. ५.३२)

धैर्यं निधेहि हृदये हत एष पापः किं वा कदाचिदपि केनचिदन्वभावि।
सारङ्गसङ्गरविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः॥ ६०॥

१६. अदीनवाक्यताभिमानो यथा—(वेसं. ५.३)

मातः! किमप्यसदृशं विकृतं वचस्ते सुक्षत्रिया क्व भवती? क्व च दीनतैषा?।
निर्वत्सले! सुतशतस्य विपत्तिमेतां त्वं नानुचिन्तयसि रक्षसि मामयोग्यम्॥ ६१॥

१७. शक्त्यभिमानो यथा—(बारा. १.४४)

सार्धं हरेण हरवल्लभया च देव्या हेरम्बषणमुखवृषप्रमथावकीर्णम्।
कैलासमुद्धतवतो दशकन्धरस्य केयं जरद्धनुषि दुर्दम/दुर्मद—दोःपरीक्षा॥ ६२॥

१८. दक्षताभिमानो यथा—(बाभा. १.८३)

कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवव्रताय च्छन्नाभ्यासः कुरुपतिरयं श्रीसमुत्थैर्विलासैः।
भोः कर्णाद्याः! श्रृणुत तदिमां ब्राह्मणस्यास्य वाणीं राधायन्त्रं रचयत पुनर्विद्धमप्यस्त्वविद्धम्॥ ६३॥

धैर्योद्धत्यहेतवश्चास्याष्टौ विशेषगुणाः — मानः, तेजः, शौण्डीर्यं, विलासः, विकत्थना, अस्थिरत्वम्, अगम्भीरता, साहसमिति। तत्र—

१. परिभवासहिष्णुत्वं मानः; यथा—(हनुमन्नाटके १४.६)

धिग्धिक्छक्रजितं, प्रबोधितवता किं कुम्भकर्णेन वा? स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः?।
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसभटान्; जीवत्यहो रावणः॥ ६४॥

यथा वा—

व्यसनं तात! सा लक्ष्मीर्वर्जनीयैव सा नृभिः।
प्राप्यते विषमं कृत्वा या दैन्यध्वजमञ्जलिम्॥ ६५॥

२. अधिक्षेपादनल्पोद्गारविशेषस्तेजः ; यथा—(किराता. १५.४६)

विफलीकृतयत्‍नस्य क्षतबाणस्य शम्भुना।
गाण्डीवधनुषः खेभ्यो निश्चचार हुताशनः॥ ६६॥

यथा वा—(किराता. १५.४७)

स पिशङ्गजटावलिः किरन्नुरुतेजाः परमेण मन्युना।
ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते॥ ६७॥

३. गर्वप्रकर्षः शौण्डीर्यम्; यथा—(राच. १९.८७–८८)

चक्रं वा मधुहा कृतान्तगृहिणीदत्ताश्रपञ्चाङ्गुलं वज्रं भूधरपक्षशोणितसुरापानोन्मदं वा वृषा।
शूलं वाऽन्धकरक्तबिन्दुनिचितं गृह्‍णातु शूलायुधो धृष्टद्युम्‍नमहं निहन्मि समरे, कश्चित् परित्रायताम्॥ ६८॥

यथा वा—(मवीच. ३.२४)

तपो वा शस्त्रं वा व्यपदिशति यः कश्चिदिह वः स दर्पाद् दुर्नामं द्विषमसहमानः स्खलयतु।
अरामां निस्सीरध्वजदशरथीकृत्य वसुधा— मतृप्‍तस्तत्कुल्यानपि परशुरामः शमयति॥ ६९॥

४. गर्वजनिता दृष्ट्यादिचेष्टा विलासः ; यथा—(उराच. ६.१९)

दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद् गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव॥ ७०॥

यथा वा—(महानाटके १२.२)

क्षुद्राः! सन्त्रासमेनं विजहित हरयो भिन्नशक्रेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायकाः संपतन्तः।
सौमित्रे! तिष्ठ, पात्रं त्वमसि नहि रुषां, नन्वहं मेघनादः किञ्चित्संरम्भलीलानियमितजलधिं राममन्वेषयामि॥ ७१॥

५. स्वगुणश्लाघा विकत्थना ; यथा—(वेसं. ३.३३)

देशः सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः क्षत्त्रादेव तथाविधः परिभवस्तातस्य केशग्रहात्।
तान्येवाहितशस्त्रघस्मरगुण्यस्त्राणि भास्वन्ति मे यद् रामेण कृतं तदेव कुरुते द्रौणायनः क्रोधनः॥ ७२॥

यथा वा—(वेसं. ५.२७)

सकलरिपुजायाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः।
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम्॥ ७३॥

६. प्रारम्भेष्वकालप्रतीक्षाऽस्थिरत्वं ; यथा—(वेसं. ६.१)

तीर्णे भीष्ममोदधौ, कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते, शल्य़े च याते दिवम्।
भीमेन प्रियसाहसेन रभसादल्पावशेषे जये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः॥ ७४॥

यथा वा—(८३७–३८ पृ.)

ऊरू निपीड्य गदया यदि नाद्य तस्य पादेन रत्‍नमुकुटं शकलीकरोमि।
देहं निपीतनिजधूमविजृम्भमाणज्वालाजटालवपुषि ज्वलने जुहोमि॥ ७५॥

७. रागादिभिराशयप्रकाशनम् अगम्भीरता; यथा—(दअ. २.९)

एतां पश्‍य पुरः स्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः।
इत्याकर्ण्य कथाद्भ‍ुतं हिमनिधावद्रौ सुभद्रापते— र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम्॥ ७६॥

यथा वा—

तदुन्नतं शार्ङ्गधरस्य रुक्मिणीस्तनाभिघातप्रविलुप्‍तचन्द्रनम्।
उपैतु तावद् युधि गृध्रकामिनीनिरत्ययाश्लेषविधेयतामुरः॥ ७७॥

८. कार्येष्वविमृश्य प्रवृत्तिः साहसं ; यथा—

हद्ध‍ुं गाहिअमोलिं अद्‍धच्छिण्णसिधिलं अ मोंत्तूण सिरं।
कंठपडिआसधारो उव्वंतेऊण वाहिओ जेण असि॥ ७८॥

{हन्तुं गृहीचमौलिम् अर्धच्छिन्नशिथिलं च मुक्त्वा शिरः।
कण्ठपतितास्रधारो (रं नभस्थले) वाहितो येनासिः॥}

यथा वा—

आचार्यं किं निहन्मि प्रचलदसिलतापञ्जरप्रावृताशं नागानां वृन्दबन्धं किमुत घनघटाभोगभीमं भिनद्मि।
अस्मिन् नानास्त्रशस्त्रावलिशबलच्‍चापचक्रान्धकारे राज्ञां तावत् समाजे भयलुलितसितच्छत्रषण्डे पतामि॥ ७९॥

(धीरोद्धतस्य भावाः)

सोऽयमनयोर्विशेषगुणयोगः स्वाभाविको निरतिशयः आन्तरः, नित्यं चाल्पोपरागः, यत्प्रभावात् तदनुरूपा एव रत्यादयो१ जायन्ते। तत्र mdash;

१. मध्यमस्य रतिर्यथा—(किराता. ३.३७)

अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम्।
मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिनेन्द्रसूनुः॥ ८०॥

कनिष्ठस्य यथा—(बारा. १.४०)

निर्माल्यं नयनश्रियः कुवलयं, वक्त्रस्य दासः शशी कान्तिः प्रावरणं तनूर्मधुमुचो यस्याश्च वाचः किल।
विंशत्या रचिताञ्जलिः करतलैस्त्वां याचितो रावण— स्तां द्रष्टुं जनकात्मजां हृदयं! हे नेत्राणि मित्रीकुरु॥ ८१॥

२. मध्यमस्य रतिः (प्रीतिः); यथा—(उराच. ६.१९)

दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादामनो— र्दृप्‍तानां दहनाय दीपितनिजक्षात्रप्रतापाग्‍निभिः।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत् ततो दीप्‍ताग्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः॥ ८२॥

सैव कनिष्ठस्य यथा—(बारा. १.३०)

येनारोपणकर्मणाऽपि बहवो वीरव्रतं त्याजिताः कार्यं सज्जितबाणमीश्वरस्तुद्दोर्भिरेभिर्मा।
स्त्रीरत्‍नं तदगर्भसम्भवमितो लभ्यं च लीलायितं तेनैषा मम फुल्लपङ्कजवनच्छाया दृशां विंशतिः॥ ८३॥

१. द्र अत्रैव पृ. ६१४। ३. मध्यमस्येति (उत्कण्ठा) यथा—(विक्रमो. १.२०)

एषा मनो मे प्रसभं शरीरात् पितुः पदं मध्यममुत्पतन्ती।
सुरङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालदिव राजहंसी॥ ८४॥

कनिष्ठस्य यथा—(बारा. ३.९)

इन्दुः सीतावदनसदृशो, जानकीनेत्रहृद्यं लीलाम्भोजं, विसकिसलया मैथिलीहासभासः।
सम्यक् साम्यादिति हि बहवस्तस्य जाता जगत्यां लङ्काभर्तुर्जनकतनयाविप्रलम्भे विनोदाः॥ ८५॥

४. मध्यमस्य चिन्ता यथा—

तं णत्थि जं सहिअणो ण भणेज्ज पेच्छक्ख मन्तु दूमिअहिअअं।
अणुणेजअ जप्पंतो जइ णवरं वम्महो मिअंकोंवविअंओ॥ ८६॥

(तन्नास्ति यत् सखी सखिजनो न भणेत् प्रेक्षस्व क्षमतां मन्तुदूनहृदयम्।
अनुनयेत् जल्पन् यदि केवलं मन्मथो मृगाङ्कोपेतः॥)

कनिष्ठस्य यथा—(सेब. ११.२७)

अब्भत्थणं ण गेण्हइ तीरइ तिहुअणसिरीअ वि ण लोहेउं।
ण गणेइ सरीरभअं कह मंतेण/मण्णे होज्ज जाणई साणुणआ॥ ८७॥

(अभ्यर्थना न गृह्‍णाति शक्यते त्रिभुवनश्रियाऽपि लोभयितुम्।
न गणयति शरीरभयं कथं मन्त्रेण मन्ये भवेज्जानकी सानुनया॥)

५. मध्यमस्य स्मृतिर्यथा—(मामा. ४.८)

तन्मे मनः क्षिपति यत् सरसप्रहारमालोक्य मामगणितस्खलदुत्तरीया।
त्रस्तैकहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥ ८८॥

कनिष्ठस्य यथा—(उरा. ५.११)

गण्डूषाशोषिताब्धिप्रचलजलचरोत्फालजातस्मितानां हेलाकृष्टार्कचन्द्रद्विगुणकृतमहाकुण्डलाभोगभाजाम् ।
पीनांसस्थापिताशाद्विरदमदमषीमांसलांसस्थलानां दूरं यातस्य वत्स! स्मरति दशशिरास्त्वच्छिशुक्रीडितानाम्॥ ८९॥

६. मध्यमस्य मतिर्यथा—(मामा. १.३२)

मा मूमुहत् खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मरिर्भूत्।
इत्यादि नन्विह निरर्थकमेव यस्मिन् कामश्च जृम्भितगुणो नवयौवनं च॥ ९०॥

कनिष्ठस्य यथा—(सेब. ११.२८)

पइ-माहप्प-णिसण्णा अवमण्णिअ-सेस-पुरिससोंडीरा।
जइ णवरं होज्ज वसे लुअराहवसीसदंसणे जणअसुआ॥ ९१॥

(पतिमाहात्म्यनिषण्णाऽवसानित(मानित)शेषपुरुषशौण्डीर्या।
यदि केवलं भवेद् वशे लूनराघवशीर्षदर्शने जनकसुता॥)

७. मध्यमस्य वितर्को यथा—(शाकु. ६.१०)

स्वप्‍नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत् फलमेव पुण्यम्।
असन्निवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपातः॥ ९२॥

कनिष्ठस्य यथा—(किराता. १६.१८)

माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः।
गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते॥ ९३॥

८. मध्यमस्य शङ्का यथा—(वेसं. ३.९)

किं शिष्याद् गुरुदक्षिणां गुरुगदाद् भीमप्रियः प्राप्‍तवान् अन्तेवासिदयालुरुज्झितघृणेनासादितो जिष्णुना।
गोविन्देन सुदर्शनस्य निशितं धारापथं प्रापितः शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादहम्॥ ९४॥

कनिष्ठस्य यथा—(वेसं. २.९)

किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनेष्वभिमुखं नाद्यापि सम्भाविता।
अन्यस्त्रीजनसङ्कथालघुरहं स्वप्‍ने त्वया लक्षितो दोषं पश्‍यसि किं प्रिये! परिजनोपालम्भयोगे मयि॥ ९५॥

९. मध्यमस्य निद्रा यथा—(माघ. ११.१०)

गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकै(नै)र्बोधहेतोः।
असकृदनवगीतं गीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः॥ ९६॥

कनिष्ठस्य यथा—(पृ. ८९५)

व्रीहिः स्तम्बकरिः, प्रभूतपयसः प्रत्यागता धेनवः प्रत्युज्जीवितमिक्षुणा भृशमिति ध्यायन्नपेतान्यधीः।
सान्द्रोशीरकुटुम्बिनीस्तनभरव्यालुप्‍तघर्मक्लमो देवे नीरमुदारमुज्झति सुखं शेते निशि ग्रामणीः॥ ९७॥

१०. मध्यमस्य सुप्‍तं यथा—(उरा. १.२)

जृम्भाविजिह्मित/विजृम्भित-दृशः प्रथमप्रबुद्ध— लक्ष्मीकराम्बुरुहलालनलालसस्य ।
गात्राप्रवृत्ति/वर्तिभरसस्मित/खर्वित-शेषमव्या— दव्याहतं मुरजितः कृतकप्रसुप्‍तम्॥ ९८॥

कनिष्ठस्य यथा—(बारा. ८.२७)

निस्तन्द्रैर्दिग्द्विपेन्द्रैर्युगपदुपगते बोधनायाधिवक्षः प्रारब्धे द्वन्द्वयुद्धे प्रचुरमदचयोच्‍चण्डगण्डैश्चतुर्धा।
निद्रामुद्रां न मुञ्चत्यपि तु खुरुखुराघोषगर्भोरुघोणा— घूत्कारैर्घोरतारैः स्वपिति पिहितदृङ् निर्भरं कुम्भकर्णः॥ ९९॥

११. मध्यमस्य प्रबोधो यथा—(रघु. ९.७१)

उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विधूतनिन्द्रः।
अरमत मधुरस्वराणि शृण्वन् विहगविकूजितवन्दिमङ्गलानि॥ १००॥

कनिष्ठस्य यथा—(सेब. १२.४०)

ताव अ रक्खसणाहो पाआरंतरिअ—कडइअं कइसेण्णं।
रणमहिअं अगणेंतो णिअए णिद्दापरिक्खअंमि विउद्धो॥ १०१॥

(तावच्‍च राक्षसनाथः प्राकारान्तरितकटकितं कपिसैन्यम्।
रणमहितमगणयन् निजके निद्रापरिक्षये विबुद्धः॥)

१२. मध्यमस्य व्रीडा यथा—(बारा. २.२८)

सेर्ष्यं पश्‍यति षण्मुखे भगवती कोदण्डशिक्षाश्लथं धम्मिल्लं विरचय्य चुम्बितवती यं वत्सला मूर्धनि।
सोढा सोऽपि हि भार्गवो गुरुतनुर्निर्भर्त्सनां रावणा— दित्याकर्ण्य गणैर्वृतः स्मितमुखैरीशोऽपि लज्जिष्यते॥ १०२॥

कनिष्ठस्य यथा—(वेसं. १.२६)

भूयः परिभवक्षान्तिलज्जाबन्धुरिताननम्।
अनिश्शेषितकौरव्यं न पश्‍यसि वृकोरदरम्॥ १०३॥

१३. मध्यमस्य हर्षो (/ धृतिः) यथा—(बारा. ५.९)

न प्रीते परमेश्वरेऽपि शिरसां छेदेन होमेन वा ज्यावल्लीनहनेन चामरपतौ द्वारार्गलासङ्गिनि।
संप्रत्यैलबिलात्१ तथा नच हृते विश्वातिथौ पुष्पके द्रष्टव्या जनकात्मजेत्यथ यथा लङ्केश्वरो मोदते॥ १०४॥

कनिष्ठस्य यथा—(वेसं. २.१३)

दिष्ट्याऽर्धश्रुतविप्रलब्धवचनक्रोधादहं नो गतो दिष्ट्या नो परुषं रुषाऽर्धकथिते किञ्चिन्मया व्याहृतम्।
मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथाऽन्तं गता मिथ्यादूषितयाऽनया विरहितं दिष्ट्या न जातं जगत्॥ १०५॥

१४. मध्यमस्य रोमाञ्चो यथा—(उराच. ५.१८)

एतस्मिन् मसृणितराजपट्टकान्ते मोक्तव्या कथमिव सायकाः शरीरे।
यत्प्राप्‍तौ मम परिरम्भणाभिलाषादुन्मीलत्पुलककदम्बमङ्गमास्ते॥ १०६॥

कनिष्ठस्य यथा—(सेब. १५.६६)

पुलअं जणेंति दहकंधरस्स राहवसरा सरीरम्मि अडंता।
जणअतणआपओहरप्फंसमहग्घा विअ करअलाअट्ठिअ विमुक्का॥ १०७॥

(पुलकं जनयन्ति दशकन्धरस्य राघवशराः शरीरे पतन्तः।
जनकतनयापयोधरस्पर्शमहार्घा इव करतलाकृष्टविमुक्ताः॥)

१५. मध्यमस्य हासो यथा—(उराच. ५.३३)

कोऽप्येष सम्प्रति नवः पुरुषावतारो वीरो न यस्य भगवान् भृगुनन्दनोऽपि।
पर्याप्‍तसप्‍तभुवनाभयदक्षिणानि पुण्यानि तातचरितानि च यो न वेद॥ १०८॥

कनिष्ठस्य यथा—(वेसं. २.२८)

दुश्शासनस्य हृदयक्षतजाम्बुपाने दुर्योधनस्य च यथा व्यथितोरुभङ्गे।
तेजस्विनां समरमूर्धनि पाण्डवानां ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा॥ १०९॥

१. ऐलबिलः कुबेरः। १६. मध्यमस्योत्साहो यथा—(उराच. ६.१६)

आयुष्मतः किल लवस्य नरेन्द्रसैन्यैरायोधनं ननु किमात्थ सखे! तथेति।
अद्यास्तमेतु भुवनेष्वपि राजशब्दः क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु॥ ११०॥

कनिष्ठस्य यथा—(बारा. ४.५८)

लूनक्षत्रियकण्ठकन्दलगलत्कीलालनिर्वापितः प्रत्युद‍्भूतशिखाकलापहुतभुग्झङ्कारिभिर्मार्गणैः ।
एतद् वै सुरवक्त्रकालकबलव्यापारमभ्यस्यतु क्रोशस्तम्बनिकुञ्जपुञ्जितघनज्याघोषमस्मद्धनुः ॥ १११॥

१७. मध्यमस्य ग्लानिर्यथा—(शाकु. २.४)

अनवरतधनुर्ज्यास्फालनादेव पूर्वं रविकरिणसहिष्णु स्वेदलेशैरभिन्नम्।
अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति॥ ११२॥

कनिष्ठस्य यथा—(किराता. १०.१०)

यमनियमकृशीकृतस्थिराङ्गः परिददृशो विधृतायुधः स ताभिः।
अनुपमशमदीप्‍ततागरीयान् प्लुतपदपङ्क्तिरथर्वणेव वेदः॥ ११३॥

१८. मध्यमस्य क्रोधो यथा—(मवीच. ३.४०)

अन्तर्धैर्यभरेण वृद्धवचसा संपण्ड्यि पिण्डीकृतो हृन्मर्मान्त्रितशल्यवत् परिदहन् मन्युश्चिरं यः स्थितः।
स्फूर्जत्येष स एव संप्रति मम न्यक्कारभिन्नस्थितिः कल्पापायमरुत्प्रकीर्णपयसः सिन्धोरिर्वौर्वानलः॥ ११४॥

कनिष्ठस्य यथा—

तृप्‍तिर्यस्य न वैरिमांसकबलैर्भक्ष्यैरिवोत्पद्यते येनास्थीनि न चर्वितानि सुचिरं कृत्वा मृणालस्पृहाम्।
येनासृक् परिमथ्य दोर्भिरमितं पीतं न शत्रोः क्षणाद् युक्तायुक्तविचारणाक्षमवतः षण्डस्य कोपेन किम् ?॥ ११५॥

१९. मध्यमस्य शोको यथा—(उराच. २.२६)

चिराद् वेगारम्भी प्रसृत इव तीव्रो विषरसः कुतश्चित् संवेगात् प्रचल इव शल्यस्य शकलः।
व्रणो रूढग्रन्थिः स्फुटित इव हन्मर्मणि पुनः पुरावृत्तः शोको विकलयति मां नूतन इव॥ ११६॥

कनिष्ठस्य यथा— (मामा. ९.१२)

दलति हृदयं गाढोद्वेगं, द्विधा न तु भिद्यते वहति विकलः कायो मोहं, न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाहः, करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी, न कृन्तति जीवितम्॥ ११७॥

२०. मध्यमस्याश्रु यथा—

ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः पुराणैरातङ्कग्लपितहृदयेन क्षितिभृता।
विना वाचं नैतत् क्षममिति निधायाननमधः पतद्‍्बाष्पाम्भोभिर्लिखितमिव दत्तं प्रतिवचः॥ ११८॥

कनिष्ठस्य यथा—(वेसं. ५.१०)

त्यक्तप्राजनरश्मिरङ्किततनुः पार्थाङ्कितैर्मार्गणै— र्बाह्यौः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः सनैः।
वार्तामङ्‍गपतेर्विलोचनजलैरावेदयन् पृच्छतां शून्येनेव रथेन याति शिबिरं शल्यः कुरून् शल्ययन्॥ ११९॥

२१. मध्यमस्य स्वेदो यथा—(रघु. ९.६८)

तस्य कर्कशविहारसम्भवं स्वेदमाननविलग्‍नजालकम्।
आचचाम सतुषारशीतलो भिन्नपल्लवपुटो वनानिलः॥ १२०॥

कनिष्ठस्य यथा—(माघ. २.१८)

दधत् सन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः।
द्विषद्‍द्वेषापरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः॥ १२१॥

२२. मध्यमस्य श्रमो यथा—

कदलतलनिषण्णं सद्मनि श्रान्तिहेतो— र्व्यजनि जनकपुत्रीवाससः पल्लवने।
अगणितनिजखेदः साधु संवाहनाभिः परिचरति च हृष्यन् लक्ष्मणो रामभद्रम्॥ १२२॥

कनिष्ठस्य यथा—(मवीच. ५.४)

विस्रंसयन्ती परिगृह्य पक्षौ जाता ममाप्युत्पतनश्रमार्तिः।
शक्तिर्हि कालस्य विभोर्जराख्या शक्त्यन्तराणां प्रतिबन्धहेतुः॥ १२३॥

२३. मध्यमस्य मूर्छा यथा—(मवीच. ४.५५)

प्राणाः प्रयान्ति परितस्तमसाऽऽवृतोऽस्मि मर्मच्छिदो मम रुजः प्रसरन्त्यपूर्वाः।
अक्ष्णोर्मुखेन्दुमुपधेहि गिरं च देहि हा वत्स ! मय्यकरउणः सहसैव मा भूः॥ १२४॥

कनिष्ठस्य यथा—(किराता. १३.३०)

अत दीर्घतरं तमः प्रवेक्ष्यन् सहसा रुग्णरयः स सम्भ्रमेण।
निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूतधनुर्धरां च मेने॥ १२५॥

२४. मध्यमस्य गर्वो यथा—(मवीच. ३.३७)

धर्म्ये कर्मणि/धर्मे ब्रह्मणि कार्मुके च भगवानीशो हि मे शासिता सर्वक्षत्रिनिबर्हणस्य विनयं कुर्युः कथं क्षत्रियाः ?।
सम्बन्धस्तु वसिष्ठमिश्रविषये मान्यो जरावानिति स्पर्धायामधिकः, समश्च धनुषि ज्ञाने च नास्त्येव मे॥ १२६॥

कनिष्ठस्य यथा—(बारा. १.६०)

परिषदियमृषीणामेष वृद्धो नरेन्द्रः कथमिव तदमुष्मिन् मैथिलीलालसोऽपि।
निजभुजबलदृप्यद्‍्वीरसर्गे समाजे हठहरणविनोदं राक्षसेन्द्रः करोतु॥ १२७॥

२५. मध्यमस्य मदो यथा—

अंसस्रंसिगजेन्द्रकृत्तिवसनं सन्नद्धमेघप्रभं प्रभ्रष्टप्रणयोपनीतशशभृल्लेखावतंसं च तत्।
लोलल्लोहितलोचनाम्बुपिहितत्वद्‍्वक्त्रनिर्वर्णनं वन्देऽर्धासनसंस्थितं तव मधुक्षीबं महाभैरवम्॥ १२८॥

कनिष्ठस्य यथा—

आघूर्णद्‍्वपुषः स्खलन्मृदुगिर; किञ्चिल्लसद्‍वाससो रेवत्यंसनिषण्णनिस्सहभुजस्याताम्रनेत्रद्युतेः।
श्वासामोदमदान्धषट्‍्पदकुलव्यालुप्‍तकण्ठस्त्रजः पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः॥ १२९॥

२६. मध्यमस्यामर्षो यथा—(उराच. ४.३)

अपत्ये यत् तावद् दुरितमभवत् तेन महता विषक्तस्तीव्रेण व्रणितहृदयेन व्यथयता।
पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन् मर्माणि क्रकच इव मन्युर्विरमति॥ १३०॥

कनिष्ठस्य यथा—(बारा. ९.४३)

लङ्काधीशस्य मायाचयचतुरमतेर्मैथिलीनाथचाप— व्यापारोद्‍वान्तबाणव्रणनधृतरुषः स्वां प्रतिज्ञां विवक्षोः।
ग्रीवागर्भप्रणालीसरणिसमुदितैकैकवर्णक्रमेण च्छिन्नोद्भिन्नैर्मुखाब्जैः कथमपि हि गिरामेति पङ्‌क्तिः समाप्‍तिम्॥ १३१॥

२७. मध्यमस्यासूया यथा—(रघु. ९.६४)

निर्घातोग्रैः कुञ्जलीनान् जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान्।
नूनं तेषामभ्यसूयापरोऽभूद् वीर्योदग्रे राजशब्दे मृगाणाम्॥ १३२॥

कनिष्ठस्य यथा—(मवीच. २.२९)

यत् क्षत्रियेष्वपि पुनः स्थितमाधिपत्यं तैरेव सम्प्रति धृतानि पुनर्धनूंषि।
उन्माद्यतां भुजबलेन मयाऽपि तेषा— मुच्छृङ्खलानि चरितानि पुनः श्रुतानि॥ १३३॥

२८. मध्यमस्येर्ष्या यथा—(रघु. ३.४८)

यदात्थ राजन्यकुमार! तत् तथा यशस्तु रक्ष्यं परतो यशोधनैः।
जगत्प्रकाशं तदशेषमिज्यया भवद्‍्गुरुं लङ्घयितुं ममोद्यतः॥ १३४॥

कनिष्ठस्य यथा—(माघ. १५.१)

अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्॥ १३५॥

२९. मध्यमस्योग्रता यथा—(मवीच. ३.१६)

एकस्य राघवशिशोः कृतचापलस्य कृत्वा शिरो मयि वनाय पुनः प्रयाते।
स्वस्थाश्चिराय रघवो जनकाश्च सन्तु मा भूत् पुनर्बत कथञ्चिदतिप्रसङ्गः॥ १३६॥

कनिष्ठस्य यथा—(बारा. १.६१)

कुर्वन् मौर्वी—निवेश—क्रमनमदटनिष्ठ्यूत—टङ्कार—टङ्कं शम्भोः कोदण्डदण्डं डमरितभुवनं भूर्भुवस्स्वस्त्रयोऽपि।
यस्तामेनां वरीता रसयति तदसृक् चन्द्रहासो ममासिः कण्ठास्थि—ग्रन्थि—शुक्लीकरण—भव—रणत्कारवाचालधारः॥ १३७॥

३०. मध्यमस्य जुगुप्सा यथा—(बारा. २.३७)

चापाचार्यः पशुपतिरभूत् कार्त्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः॥ १३८॥

कनिष्ठस्य यथा—(वेस. २.२५)

हस्ताकृष्टविलोलकेशवसना दुश्शासनेनाज्ञया पाञ्चाली मम राजचक्रमभितो गौर्गौरिति व्याहृता।
तस्मिन्नम्ब! ततज्यकार्मुकधरो नासीत् पृथानन्दनो यूनः क्षत्रियवंशजस्य कृतिनः क्रोधास्पदं किं न तत्?॥ १३९॥

३१. मध्यमस्य विस्मयो यथा—(मवीच. २.३९)

अप्राकृतस्य चरितातिशयस्य भागैरत्यद्‍भुतैर्मम हृतस्य तथाऽप्यनास्था।
कोऽप्येष वीरशिशुकाकृतिरप्रमेयो माहात्म्यसारसमुदायमयः पदार्थः॥ १४०॥

कनिष्ठस्य यथा—(मवीच. १.५४)

दोर्लीलाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत— ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः।
प्राक्प्रत्युप्‍तकपालसम्पुटमितब्रह्माण्डभाण्डोदर— भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति॥ १४१॥

३२. मध्यमस्य चपलता यथा—(रघु. ६.१३)

कश्चित् कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम्।
रजोभिरन्तः—परिवेषबन्धि लीलारविन्दं भ्रमयाञ्चकार॥ १४२॥

कनिष्ठस्य यथा—

धावति तरुमारोहति कूपं लङ्घयति शकटमुत्क्षिपति।
तिनवति तिनवति गायति दृष्ट्वा परयोषितं षिङ्गः॥ १४३॥

३३. मध्यमस्यालस्यं यथा—(मामा. १.२०)

गमनमलसं रम्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किञ्चैतत् स्यात् किमन्यदतोऽथ वा।
भ्रमतु भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम्॥ १४४॥

कनिष्ठस्य यथा—(पृ. ८९१)

आर्द्राः स्रजो मलयजोदकमच्छमेकं वासश्च वासवरिपुर्ममृषेऽलसाङ्गः।
सञ्चिक्लिशे कलितरुद्रनिकेतनाद्रिर्भारेण तत्क्षणमसौ मणिभूषणानाम्॥ १४५॥

३४. मध्यमस्य भयं यथा—(मामा. ५.२०)

नादस्तावद् विकलकुररीकूजितस्‍निग्धतार— श्चित्ताकर्षी परिचित इव श्रोत्रसंवादमेति।
अन्तर्भिन्नं भ्रमति हृदयं विह्वलत्यङ्गमङ्गं देहस्तम्भः स्खलयति गतिं, कः प्रकारः? किमेतत्?॥ १४६॥

कनिष्ठस्य यथा—(कुसं. ३.५१)

स्मरस्तथाभूतमयुग्मनेत्रं पश्‍यन्नदूरान्मनसाऽप्यधृष्यम्।
नालक्षयत् साध्वससन्नहस्तः स्रस्तं शरं चापमपि स्वहस्तात्॥ १४७॥

३५. मध्यमस्य त्रासो यथा—

अज्ज वि हरी चमक्कइ जं कह कह वि ण मंदरेण दलिआइ।
चंदकलाकंदलकोमलाइ लच्छिए अंगाए॥ १४८॥

{अद्यापि हरिश्चमत्कृतो यत् कथं कथमपि न मन्दरेण दलितानि।
चन्द्रकलाकन्दलकोमलानि लक्षयित्वा लक्ष्म्या अङ्गानि॥}

कनिष्ठस्य यथा—(किराता. १.२४)

कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः।
तवाभिधानाद् व्यथते नताननः सुदुस्सहान्मन्त्रपदादिवोरगः॥ १४९॥

३६. मध्यमस्य कम्पो यथा—(उराच. ५.३५)

क्रोधेनोद्धतधूमसंकुलकरः सर्वाङ्गजो वेपथुः किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः।
वक्त्रे कान्तिमिदं च वक्त्रमनयोर्भङ्गेन भीमभ्रुवो— श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद‍्भ्रान्तभृङ्गस्य च॥ १५०॥

कनिष्ठस्य यथा—(मवीच. ३.४३)

ब्रह्मक्षत्त्रसमाजमाक्षिपसि यद् वत्से च घोराशय— स्तेनातिक्रमणेन दुःखयसि नः पाल्योऽपि सम्बन्धतः।
आतस्त्वां प्रति कोपकम्पतरलः शापोदकं दक्षिणः प्राक्संस्कारवशेन चापमितरः पाणिर्ममान्विष्यति॥ १५१॥

३७. मध्यमस्य स्तम्भो यथा—(रघु. २.३१)

सव्येतरस्तस्य भुजः प्रहर्तुर्नखप्रभारूषितकङ्कपत्त्रे।
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे॥ १५२॥

कनिष्ठस्य यथा—(मामा. १.३५)

वारं वारं तिरयति दृशावुद्‍वमन् बाष्पपूर— स्तत्सङ्कल्पोपहितजडिम स्तम्भमभ्येति गात्रम्।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते, किं करोमि?॥ १५३॥

३८. मध्यमस्य व्याधिर्यथा—(रघु. ८.९३)१

तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद।
प्राणान्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमने त्वरया स मेने॥ १५४॥

१. रघु. ६.९३ इति राघवः HOS. कनिष्ठस्य यथा—(मामा. १.४२)

अभिहन्ति हन्त कथमेष माधवं सुकुमारकायमनवग्रहः स्मरः।
अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः॥ १५५॥१

३९. मध्यमस्योन्मादो यथा—(विक्रमो. ४.१)

नवजलधरः सन्नद्धोऽयं न दृप्‍तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम्।
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्‍निग्धा विद्युत् प्रिया न ममोर्वशी॥ १५६॥

कनिष्ठस्य यथा—(मामा. ९.२७)

नवेषु लोध्रप्रसवेषु कान्तिर्दृशः कुरङ्गेषु गतं गजेषु।
लतासु नम्रत्वमिति प्रमथ्य व्यक्तं विभक्ता विपिने प्रिया मे॥ १५७॥

४०. मध्यमस्य विषादो यथा—

यत् त्वन्नेत्रसमानकान्ति सलिले मग्‍नं तदिन्दीवरं मेघैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी।
येऽपि त्वद‍्गमनानुसारिगतयस्ते राजहंसा गता— स्त्वत्सादृश्‍यविनोदमात्रमपि मे दैवेन न क्षम्यते॥ १५८॥

कनिष्ठस्य यथा—(मामा. ४.३)

चिरादाशातन्तुस्त्रुटतु बिसिनीसूत्रभिदुरो महानाधिर्व्याधिर्निरवधिरिदानीं प्रसरतु।
प्रतिष्ठामव्याजां व्रजतु मयि पारिप्लवधुरा, विधिः स्वास्थ्यं धत्तां, भवतु कृतकृत्यश्च मदनः॥ १५९॥

४१. मध्यमस्य वैवर्ण्यं यथा—(रघु. ११. ८०)

तेन भूमिनिमितैककोटि तत् कार्मुकं च बलिनाऽधिरोपितम्।
प्राप वर्णविकृतिं च भार्गवो वृष्टिधौत इव वासवध्वजः॥ १६०॥

कनिष्ठस्य यथा—(रघु. ६.६७)

सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ १६१॥

१. कूटपाकलो हस्तिज्वरः। ४२. मध्यमस्य दैन्यं यथा—(मामा. ९.४२)

भ्रमय जलदानम्भोगर्भान्, प्रमोदय कोकिलान् कलय शिखिनः केकोत्कण्ठान् कठोरय केतकान्।
विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा— मकरुण! पुनः संज्ञाव्याधिं विधाय किमीहसे?॥ १६२॥

कनिष्ठस्य यथा—(मामा. ४.६)

दया वा स्‍नेहो वा भगवति! निजेऽस्मिन् शिशुजने भवत्याः संसाराद् विरतमपि चित्तं द्रवयति।
अतश्च प्रव्रज्या सुलभसमयाचारविमुखः प्रसक्तस्ते यत्‍नः प्रभवति पुनर्दैवमपरम्॥ १६३॥

४३. मध्यमस्य स्वरभेदो यथा—(रघु. ८.४३)

विललाप स बाष्पगद्गदं सहजामप्यवधूय धीरताम्।
अभितप्‍तमयोऽपि मार्दवं भजते, कैव कथा शरीरिषु?॥ १६४॥

कनिष्ठस्य यथा—(रघु. ९.७६)

तेनावतीर्य तुरगात् प्रथितान्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः।
तस्मै द्विजेतरतपस्विसुतं स्खलद्भिरात्मानमक्षरपदैः कथयांबभूव॥ १६५॥

४४. मध्यमस्यावेगो यथा—

सम्प्रत्येव हि गोग्रहे यदभवत् तत् तावदाकर्ण्यता— मेतत् ते हृदयं स्पृशामि यदि वा साक्षी तवैवात्मजः।
एकः पूर्वमुदायुधैः स बहुभिर्दृष्टस्ततोऽनन्तरं यावन्तो वयमाहवप्रणयिनस्तावन्त एवार्जुनाः॥ १६६॥

कनिष्ठस्य यथा—(उराच. ५.१)

नन्वेतत् त्वरितसुमन्त्रनुद्यमानप्रोद‍्वल्गत्प्रजवितवाजिना रथेन।
उत्खातप्रचलितकोविदारकेतुः श्रुत्वाऽथ प्रथनमुपैति चन्द्रकेतुः॥ १६७॥

४५. मध्यमस्य मोहो यथा—(उरा. २.२३)

वत्सस्याभयवारिधेः प्रतिभयं शङ्के कथं राक्षसात्? त्रस्तश्चैष मुनिर्विरौति; मनसोऽप्यस्त्येव मे सम्भ्रमः।
मा हासीर्जनकात्मजामिति गुरुस्‍नेहान्मुनेर्याचते प्रस्थातुं न च गन्तुमाकुलतया मूढस्य मे निश्चयः॥ १६८॥

कनिष्ठस्य यथा—(मामा. ९.८)

न यत्र प्रत्याशामनुपतति नो वा रहयति प्रतिक्षिप्‍तं चेतः प्रविशति च मोहान्धतमसम्।
अकिञ्चित् कुर्वाणाः पशव इव तस्यां वयमहो विधातुर्वामत्वाद् विपदि परिवर्तामह इमे॥ १६९॥

४६. मध्यमस्य जाड्यं यथा—(उराच. ३.४१)

करपल्लवः स तस्याः सहसैव जडात्मनः परिभ्रष्टः।
परिकम्पिनः प्रकम्पी करान्मम स्विद्यतः स्विद्यन्॥ १७०॥

कनिष्ठस्य यथा—(उरा. ३.२७)

पिहितनयनो बाष्पाम्भोभिर्मुहुः स्रुतिसंभृतै— र्धनुषि विनमन्मध्ये खिन्नां निधाय तनुं ततः।
शिथिलचरणोद्धारः कृच्छ्रात् पदात् पदमावहन् कथमयमहो चिन्ताशून्यो न याति न तिष्ठति॥ १७१॥

शमावहित्थधृतिनिर्वेदाश्चानयोर्नोत्पद्यन्ते।

४७. शमानुत्पादो मध्यमस्य यथा—(मवीच. ३.९)

यतो विमुक्तेरपि मानरक्षणं प्रियं विशेषेण तथा हि यस्य मे।
सनाभयो यूयमहं च कर्कशः शरासनज्याकिणलाञ्छनो भुजः॥ १७२॥

कनिष्ठस्य यथा—(किराता. ११.६९)

वंशलक्ष्मीमनुद्ध‍ृत्य समुच्छेदेन विद्विषाम्।
निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः॥ १७३॥

४८. अवहित्थानुत्पत्तिर्मध्यमस्य यथा—

कण्डूतिव्याजसाचीकृतगलसरणिर्येषु जातो गरुत्मा— नन्तर्माल्यं निलिल्ये किल दयितगुणादिच्छया/दित्सया येषु शेषः।
ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टा— स्ते लक्ष्मीर्नोदयन्तो निधुवनविधयः पान्तु वो माधवस्य॥ १७४॥

कनिष्ठस्य यथा—(सेब. ११.९)

पच्छाअंतस्स वि से बहुसो हिअअठ्ठिओ पिआण वि पुरओ।
समअं दससु वि मुहेसु सीआमइओ पअट्टइ समुल्लावो॥ १७५॥

(प्रच्छादयतोऽप्यस्य बहुशो हृदयस्थितः प्रियाणामपि पुरतः।
समकं दशस्वपि मुखेषु सीतमयः प्रवर्तते समुल्लापः॥)

४९. मध्यमस्य धृत्यनुत्पत्तिर्यथा—(काव्यादर्शे २.१६५)

चित्रमाक्रान्तविश्वोऽपि विक्रमस्ते न तृप्यति।
कुतो वा दृश्‍यते तृप्‍तिरुदीर्णस्य हविर्भुजः॥ १७६॥

कनिष्ठस्य यथा—(माघ. २.३२)

सम्पदा सुस्थितम्मन्यो भवति स्वल्पयाऽपि यः।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम्॥ १७७॥

धीरोद्धतस्य वृत्तेऽस्मिन्नर्थशृङ्गारसंश्रये।
मया लोकप्रसिद्धेऽपि दिङ‍्मात्रमुपदर्शितम्॥ १७८॥

उद्धतो नायकः, सर्वा स्त्री, प्रवृत्तिस्तु मागधी।
वृत्तिरारभटी चेह गौडीया गीयते गतिः॥ १७९॥

विद्यादीनामुपायैरधिगतिरवनं वर्धनं संप्रयोग— स्तीर्थेष्वर्थो य उक्तः समधिगतचरा पूर्वपूर्वागतानाम्।
तस्मिन् धीरोद्धतादेर्य इह विहरतो नायकस्याभिमानो— न्मानोच्छङ्कोऽपि मुख्यास्तमिह मतिमतामर्थशृङ्गारमाहुः॥ १८०॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे अर्थशृङ्गारप्रकाशनो नाम

॥ एकोनविंशः प्रकाशः॥ १९॥

तदिदमिह वितीर्णं सहितीकोषरत्‍नं विपुलति खलु यस्मिन् भारती भारतीया।
रहयति निजशोकं काव्यपाके प्ररूढं प्रविरलमिति रूढ्या मिथ्यया जायमानम्॥

रेवाप्रसादस्य ममास्ति भाग्यं वैपुल्ययोगेन दृढं पराम्बा।
ददौ यदेतं ननु मह्यमद्य साहित्यसेवाऽवसरं प्रशस्तम्॥