अथ
श्रृङ्गारप्रकाशे अष्टादशः प्रकाशः
धर्मश्रृङ्गारप्रकाशः
धर्मश्रृङ्गारः, अर्थश्रृङ्गारः, कामश्रृङ्गारः, मोक्षश्रृङ्गारः इति यदुक्तं१, तदिदानीं व्याख्यायते। तत्र —
(धर्मः)
धर्मो नाम श्रुतिस्मृतिविहितः आचारः प्रवृत्तिनिवृत्तिनियमनरूपः।
(१. प्रवृत्तिरूपः —१०)
प्रवृत्तिरूपो दशधा, वाङ्मनःकायक्रियाभेदात्। तत्र—
वा(चा)……हितं, प्रियं,…..(सत्य)माप्तं च ब्रूते।
मनसा च आस्तिक्यं, दयाम्, अनीप्सां च भावयति।
कायेन गुरुदेवतोपास्तिं, दानं, आर्तत्राणं च करोति। तत्र
(वाचा)
१. हितं यथा—
यदि सर्वस्य सर्वत्र नोपकाराय जायते।
तदनेन सुगुप्तेन जिह्वामांसेन को गुणः?॥ १॥
२. प्रियं यथा—(मवीच. ४.३५)
वीरेण ते विजयमाङ्गलिकेन पत्या वृत्रद्रुहः प्रशमितेषु महाभयेषु।
क्षत्रप्रकाण्डगृहिणीबहुमानपूजामूर्जस्वलां त्वयि शची मनसा करोतु॥ २॥
३. सत्यं यथा—(उराच. ५.२२)
एष सांग्रामिको न्याय एष धर्मः सनातनः।
इयं हि रघुसिंहानां वीरचारित्रपद्धतिः॥ ३॥
४. आप्तं यथा—(शाकु. ७.३२)
शापादसि प्रतिहता स्मृतिकोपरूक्षे भर्तर्यपेततमसि प्रभुता तवैव।
छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा॥ ४॥
१. त्रयोदशप्रकाशारम्भे ७९४ पृष्ठे (मनसा)
५. आस्तिक्यं यथा—
किं बीजं श्रेयसां? धर्मः; सतां किं भूषणं? यशः।
लक्ष्म्याः को बन्धुरुत्साहः; सिद्धेः किं साधनं? नयः॥ ५॥
६. दया यथा—(नागा. ४.१०)
आर्तं कण्ठगतप्राणं परित्यक्तं स्वबान्धवैः।
त्राये नैनं यदि ततः कः शरीरेण मे गुणः?॥ ६॥
७. परस्वानीप्सा यथा—(शाकु. ६.२६)
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना।
स स पापादृते तासां दुष्यन्त इति घुष्यताम्॥ ७॥
८.(कायेन गुरुदेवतोपासना यथा)
नन्दिग्रामे जटां बिभ्रदभिषिचार्यपादुके।
पृथिवीं पालयिष्यामि यावदार्यो निवर्तते॥ ८॥
(मवीच. ४.५४)
(महती त्रुटिरत्र) . . . . .।
. . . . . . . . . . . .॥
. . . . . . . . . . . .॥
सन्दिग्धेऽपि परे लोके त्याज्यमेवाशुभं बुधैः॥ ९॥
(२. निवृत्तिरूपः —५)
१. नृशंसतानिवृत्तिः यथा—
का नीतिरतिसन्धानं; को धर्मः ? प्राणिनां वधः।
यदि क्षत्रियधर्मोऽयम्? अधर्मो वद कीदृशः?॥ १०॥
२. परस्वाभिध्यानिवृत्तिः यथा—(रघु. १६.८)
का त्वं शुभे! कस्य परिग्रहो वा? किं वा मदभ्यागमकारणं ते?।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति॥ ११॥
३. निषिद्धसेवानिवृत्तिः यथा—(शाकु. ५.२९)
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः॥ १२॥
४. स्तेयनिवृत्तिः यथा—(माघ. २.४०)
आलप्यालमिदं बभ्रोर्यत् स दारानपाहरत्।
कथाऽपि खलु पापानामलमश्रेयसे यतः॥ १३॥
५. हिंसानिवृत्तिः यथा—
सोऽस्ति यद् यच्च तन्मांसमुभयोः पश्र्यतान्तरम्।
एकास्य क्षणिका प्रीतिः प्राणैरन्यो वियुज्यते ॥ १४॥
(३. नियमरूपः —१०)
अथ नियमरूपः। सोऽपि दशधा, वाङ्मनःकायक्रियादिभिः। तद्यथा नित्य— नैमित्तिकयोरत्यागः, स्वजातिधर्मा/स्वधर्मादविचलनं, सदृशैरेव संबन्धः, लोकागमविरुद्धैरसंसर्गः, न्यायतोऽर्थाधिगमः, गुर्वाज्ञानतिक्रमः, अप्रार्थनाभङ्गः, प्रतिज्ञानिर्वाहः, समरादपलायनं, गोब्राह्मणार्थे प्राणादिपरित्यागः, इति। तत्र—
१. नित्यापरित्यागो यथा—(कुसं. ८.४८)
तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि! विनोदयिष्यति॥ १५॥
नैमित्तिकात्यागो यथा—(मवीच. १.१५)
अयं च यजमानेन यक्ष्यमाणस्य मे गृहात्।
प्रेषितस्तेन वात्सल्यादनुजन्मा कुशध्वजः ॥ १६॥
२. स्वजातिधर्मादविचलनं यथा—
तैरेव सह योद्धव्यं क्रीडाऽऽसीद् यैः सहैव नः।
अहो! निसर्गहिंस्त्रस्य पश्य क्षत्त्रस्य रौद्रता॥ १७॥
३. सदृशैः सम्बन्धो यथा—(मवीच. १.५७)
जनकानां रघूणां च सम्बन्धः कस्य न प्रियः?।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः॥ १८॥
४. लोकागमविरुद्धैरसंसर्गो यथा—(किराता. १४.२२)
वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः।
सभा/हावकृष्टैर्महतामसङ्गतं भवन्ति गोमायुसखा न दन्तिनः॥ १९॥
आगमविरुद्धैरसंसर्गौ यथा—(किराता. १४.२१)
सखा स युक्तः कथितः त्वया यदृच्छयाऽसूयति यस्तपस्यते।
गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतामसाधवः॥ २०॥
५. न्यायतोऽर्थाधिगमो यथा—(रघु. ७.७०)
इति शिरसि स वामं पादमाधाय राज्ञामुदवहदनवद्यां तामवद्यादपेतः।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलक्ष्मीः सैव मूर्ता बभूव॥ २१॥
६. गुर्वाज्ञानतिक्रमो यथा—(उरा. १.१३)
निधाय शिरसीच्छया समुचितं पितुः शासनं प्रयातुमभि काननं व्यवसितस्य मे त्वं किल।
तदर्थपरिपन्थिनी वशितयेव मा भूरिति प्रणन्तुमपि नागतो यदहमम्ब! तत् क्षम्यताम्॥ २२॥
७. अप्रार्थनाभङ्गो यथा—(रघु. ११.२)
कृच्छ्रलब्धमपि लब्धवर्णभाक् तं दिदेश मुनये सलक्ष्मणम्।
अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता॥ २३॥
८. प्रतिज्ञानिर्वाहो यथा—(बारा. ६.११)
मया मूर्ध्नि प्रह्वे पितुरिति कृतं/धृतं शासनमिदं स रक्षो यक्षो वा भवतु स भवान् वा रघुपतिः।
निवर्तिष्ये सोऽयं भरतकृतरक्षां निजपुरीं समाः सम्यङ् नीत्वा वनभुवि चतस्त्रश्च दश च॥ २४॥
९. समरादपलायनं यथा—
वृद्धत्वदोषात् प्रशमाद् भयाद् वा यत्सत्यमिष्टं मम नैव युद्धम्।
रक्षोव्रणाष्टापददन्तुरन्तु यन्मे वपुः क्षत्रियताऽत्र हेतुः॥ २५॥१
१०. गोब्राह्मणार्थे प्राणादिपरित्यागः स/गवार्थो यथा—(रघु. २.४५)
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षैः॥ २६॥
१. पक्षो वृणाष्टापददन्ततन्तु यन्मे कृते — राघवः HOS. वृणीयनाष्टापदमात्रकं तु यन्मे कुतः — जोशेरः। मूलं त्वस्मत्कल्पितम्। ब्राह्मणार्थे यथा—(रघु. २.४४)
मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः।
गुरोरपीदं धनमाहिताग्नेर्नश्यत् पुरस्तादनुपेक्षणीयम्॥ २७॥
सोऽयं प्रवृत्तिनिवृत्तिनियमरूपः श्रुतिस्मृतिविहित आचारो धर्मः। यथोच्यते—
प्रेत्य चेह च यत् कर्म क्रियमाणं गुणावहम्।
वाङ्मनःकायनिष्पन्नं स धर्म इति कीर्त्यते॥ २८॥
(धर्मश्रृङ्गारः)
तत्र प्रवर्तमानस्य रत्यादावनतिमानो धर्मश्रृङ्गारः। तत्र—
प्रवृत्तिरूपे यथा—(शाकु. १.२०)
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥ २९॥
यथा च निवृत्तिरूपे—(शाकु. ५.२८)
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव।
वशिनां हि परपरिग्रहसंपर्कपराङ्मुखी वृत्तिः॥ ३०॥
यथा वा नियमरूपे—(नीति. ७४)
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्येव वा मरणमस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः॥ ३१॥
तत्र भारती वृत्तिः, पौरस्त्या प्रवृत्तिः, पाञ्चाली रीतिः, स्वकीया नायिका, धीरोदात्तश्च नायक इति। तत्र—
भारती वृत्तिः; तदनुरूपस्वरूपाङ्गत्वात्। तथा हि— (नाशा. २२.२५)
या वाक्प्रधाना नृवरप्रयोज्या स्त्रीवर्जिता संस्कृतपाठ्ययुक्ता।
स्वनामाधेयैर्भरतैः, प्रयोज्या सा भारती नाम भवेत् तु वृत्तिः॥ ३२॥
तदङ्गानि प्ररोचना, प्रस्तावना, वीथी, प्रहसनमिति। सा तु—
‘वाक्प्रधाना’ इत्यनेन श्रुतिस्मृत्युक्तविधिवाक्यानामवश्यविधेयतां प्रतिपादयति।
‘नृवरप्रयोज्या’ इत्यनेन अधिकारिणो निर्दिशति।
‘स्त्रीवर्जिता’ इत्यनेन अनधिकारिणो निरस्यति।
‘संस्कृतापाठ्ययुक्ता’ इत्यनेन ‘अन्तर्वेद्यां न म्लेच्छितव्यम्’ इत्यभिधत्ते॥
अङ्गेषु प्ररोचनया अर्थवादं द्योतयति। वक्तव्यार्थे प्रशंसापरं हि वचः प्ररोचना।
प्रस्तावनया इतिकर्तव्यताक्रमं बोधयति। प्रस्तुतवस्तूपपादनावसरसूचकं हि वाक्यं प्रस्तावना।
वीथ्याऽपि परिप्रश्नोत्तरप्रत्युत्तरादिभिरनुवादविधानात् विपर्ययज्ञानसंशयादीन् अपनयति। उद्घात्यकादीनामङ्गानां प्रवृत्तिपरिपाटी वीथी।
प्रहसनेन तु स्वधर्मान्न चलितव्यमिति नियमयति। स्वधर्मचलितानां हि तापसादीनामुपहासपरं वचः प्रहसनम्।
सेयं भारती वृत्तिः चतुरङ्गाऽपि धर्मश्रृङ्गारस्य अङ्गम्॥
पौरस्त्या प्रवृत्तिः; तस्या एव (पूज्यजना)द्यविरुद्धानुद्धतनेपथ्यरूपत्वात्, कुलवधूविधेयत्वाच्च। यथोच्यते— (रघु. १७.२५)
आमुक्ताभरणः स्त्रग्वी हंसचिह्नदुकूलवान्।
आसीदतिशयप्रेक्ष्यः स राजश्रीवधूवरः॥ ३३॥१
सा तु पौरस्त्यैः प्रवर्तितेति तेषु च प्रायो नाचारविप्लव इति। सा पौरस्त्येऽपि धर्मश्रृङ्गाराङ्गम्॥
पा़ञ्चाली रीतिः; श्रुतिस्मृतिवाक्यानुरूपसन्दर्भत्वात्। यतो यदनतिसमासम्, अनतिस्फुटबन्धम्, उपचारवृत्तिमत्, पादानुप्रासप्रायं, योगरूढिमद् वचः, सा पाञ्चाली। सा च श्रुतिस्मृतिवाक्येषु प्रायो दृश्यत इति धर्मश्रृङ्गाराङ्गम्। यतः श्रुतौ, ‘विश्वाहारः२’ ‘विश्वतश्चक्षुः'३ इति नातिदीर्घः समासः। ‘४ समिधाऽग्निम्’, ‘अग्निमीले५’ इति नातिश्लथः अकठोरश्च बन्धः। ‘आदित्यो वै यूपः६’, ‘सुपर्णोऽसि गरुत्मन्७’ इत्यादौ पदे भूयान् उपचारः। ‘शं नः८’ ‘इन्द्राग्निं, ‘द्रविणोदोः९’ इत्यादौ प्रकाश एव पादानुप्रासः। ‘आदित्या रुद्रा वसवः१०’ इत्यादौ तु ब्राह्मणव्याकरणनिरुक्तयुक्तिभिः न क्वचिन्न योगरूढिः। एवं स्मृतिवाक्येष्वपि॥ तत्र १. आकरो मृग्यः इति HOS राघवः २. मूलं मृग्यम् ३. तै. नारायणानुवाके ४. तै. व्रा. अष्टके ५. ऋक्. १.१.१ ६. अष्टके २.६६ ७. तै.सं. ४.१.१० ८. तै. उप. १.१ ९. तै. उप. १०. तै.सं. ७.३.१३ नातिदीर्घसमासो यथा—
बलिकर्म स्वधा होमः स्वाध्यायोऽतिथिसत्क्रिया।
पितृभूतपरब्रह्ममनुष्याणां महामखाः॥ ३४॥
नातिस्फुटबन्धो यथा—
शूद्रेषु दासगोपालकुलमित्रार्धसीरिणिः।
भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत्॥ ३५॥
उपचारवृत्तिमद् (यथा)—
राजाऽस्य जगतो माता पिता भ्राता सुहृद् गुरुः।
सखाऽधिदैवतं धाम स्थाम जीवितमुच्यते॥ ३६॥
(खण्डितम्)
धर्म एव द्रुतो/हतो हन्ति धर्मो रक्षति रक्षितः।
तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत्॥ ३७॥
(मनुस्मृ. ८.१५) (खण्डितम्) . . . . यथा—(मनु. ९.१३८)
पुन्नाम्नो नरकादस्मात् त्रायते पितरं सुतः।
तेन पुत्त्र इति प्राप्तो/प्रोक्तो मनुः स्वायम्भुवोऽब्रवीत्॥ ३८॥
स्वकीया नायिका। सा त्रिधा ॰ ॰ ॰ ॰ चोत्तमा। तत्रोढा धर्मकर्मोपयोगित्वात् (॰ ॰ ॰ ॰) सा भेदौ (?) चरतां धर्ममिति च ॰ ॰ ॰ ॰ तात् उत्तमा च तदधिक ॰ ॰ ॰गहेतु ॰ ॰ ॰ ात्। परस्परानुरागो हि दारकर्मणि परार्ध्य (॰ ॰ ॰ ) मङ्गलं गीतश्च। अयमर्थः ॰ ॰ ॰ तिनमात्मानं मन्येत तां, तथाऽपि ॰ ॰ येत्ं ‘यस्यां वाङ्मनश्र्चक्षुषोरनुबन्धः तस्यामृद्धिः, नेतरामाश्रयेत’ इति तस्या क्रियां अनन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्र्ञः संबन्धः, शुद्धिः, अनु ॰ ॰ क्षता, रतिः। न तु परतयासुरभूपुनर्भूवेश्यासु। यथोच्यते, ‘धर्मविरुद्धः कामः परस्त्रीषु। अर्थविरुद्धो वेश्यासु पुनर्भूषु च। तस्मात् कुलस्त्रीष्वेव कामं कामयेतेति न ॰ ॰ यथा कामसेवा (?) हरन्ति ॰ ॰। स्वकीयैव नायिका धर्मश्रृङ्गारम्। यथोच्यते—
प्रोषितायां व्रजन्त्यस्तं प्रजा धर्मो यशः सुखम्।
निवर्तन्ते निवृत्तायमहो! बन्धुः कुलङ्गना॥ ३९॥
…….धीरोदात्तश्च नायक इति। १प्राक्प्रतिपादितप्रवृत्तिनिवृत्तिनियमरूप— १. द्र. पृ. ९९८ धर्मकर्मत्रैविध्ये तस्यैव श्रुतिस्मृतिवाक्यानतिक्रमाभिमान ॰ ॰ प्रवृत्तिपरिग्रहप्रस्तारात् अष्टप्रकपरिग्रहादसाधारणसाधारणश्च। तदेतत् वृत्तिप्रवृत्तिरीतिनायिकानायकप्रभेद— जातमेतल्लक्षणोदाहरणैः पूर्वमेव१ निर्णीतम्।
अथेदानीं नायकपदे व्यपदेशहेतुः विचार्यते। तद्धि इन्द्रियाविकारकारणं चित्तधर्मः, येन सता सत्यपि गर्वदिहेतौ जात्यादिगुणसमूहे नायकस्य नोत्सेकादयो जायन्ते। तच्चतुर्धा, उदात्तम्, उद्धतं, ललितं शान्तं च।
(उदात्तधैर्यम्)
तत्र धर्मशृङ्गाराधिकारिणो धीरोदात्तस्य उदात्तः; यत्प्रभावात् अभ्युदयादिभिर्नोत्सेकः, शोकादिभिर्न वैक्लव्यम्, व्यसनादिभिर्न दीनत्वम्, रागादिभिर्न धर्मबाधा। चरितेषु उत्तमस्पर्धा, नीचेष्वर्थेषु जुगुप्सा, शक्तिसद्भावे क्षान्तिः, प्रमादस्खलितेष्वनुशयः, सदाचारिष्वादरः, परगुणेष्वमात्सर्यम, परव्यसनेषु न प्रहर्षः, परापवादेषु न प्रवृत्तिः, अस्थानेषु न क्रोधः, प्रारम्भेषु नानिर्वाहः, कर्मतिशयैर्न विस्मयः, जात्यादिभिर्नाभिमानः, इति॥ तत्र
१. अभ्युदयादिभिर्नोत्सेको यथा—(रघु. १५.२७)
तस्य संस्तूयमानस्य चरितार्थैस्तपरिस्विभिः।
शुशुभे विक्रमोदग्रं व्रीडयाऽवनतं शिरः॥ ४०॥
यथा वा—(मवीच. ४.२९)
का ते स्तुतिः स्तुतिपथादतिरिक्तधाम्नः किं दीयतामविकलक्षितिदायिनो वा।
शान्तस्य किं परिजनेन मुनेस्तथापि पुत्रैः समं दशरथोऽद्यं वशंवदस्ते॥ ४१॥
२. शोकादिभिर्न वैक्लव्यं; यथा—(उराच. ३.३०)
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुमामिव घर्मो ग्लपयति।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ— स्तदद्याप्युच्छ्वासो भवति; ननु लाभो हि रुदितम्॥ ४२॥
यथा वा—(उराच. ६.३३)
क्व तावानानन्दो निरतिशयविस्रम्भबहुलः क्व तेऽन्योन्यं यत्र क्वचन गहनाः कौतुकरसाः।
१. आलम्बनविभावप्रकाशे द्र. पृ. ८६१। सुखे वा दुःखे वा क्व नु खलु तदैक्यं हृदययो— स्तथाऽप्येष प्राणः, स्फुरति; न तु पापो विरमति॥ ४३॥
३. व्यसनादिभिर्न दीनत्वं ; यथा—(नीति. ८९)
विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे विरम विरमायासादस्माद् दुरध्यवसायतः।
अयि हतविधे! कल्पापायेऽप्यपेतनिजक्रमाः कुलशिखरिणः क्षुद्रा नैते नवा जलराशयः॥ ४४॥
यथा वा—
असावनागतः श्रेयानागच्छन् वत्स! वार्यताम्।
प्रवेशयन्ति सुहृदं न धीराः स्वार्थसंङ्कटे॥ ४५॥
४. रागादिभिर्न धर्मबाधा ; यथा—
पितुः शासनमत्येतुं न शशाक स राघवः।
यो रावणशिरश्छेदकार्येऽभवदविक्लबः॥ ४६॥
यथा वा—(उरा. १.१५)
कैकेय्या मम विप्रियं विहितमित्येतत् कुतस्ते हृदि स्नेहार्दं च मनो मयीव भरतेऽप्यस्त्येव किं प्रार्थ्यसे।
श्रुत्वाऽस्मानपि कानने निवसतः शोकेन पर्याकुला ताताज्ञां प्रति मा कृथाः शिथिलतामेतद् भुवि ज्ञाप्यसे॥ ४७॥
५. चरितेषु उत्तमस्पर्धा ; यथा—(उरा. ६.३)
प्रागेवार्यविचिन्तिनात् सुकृतिना बद्धास्तथाऽग्रे जटाः तच्छेषैः फलमूलकन्दशकलैः श्लाघ्या स्थितिः कल्पिता।
निर्व्याजं रणदुर्मदेन च गुरुः प्राणैः समाराधितो भ्रातृत्वेन किमन्यथा मम यथा सौमित्रिणा नाप्यते/वाप्यते॥ ४८॥
यथा वा—(उरा. ६.८)
पाद/पापस्तवाम्ब! निजजीवविसर्जनाय विज्ञापयाम्यशरणः शरणागतस्त्वाम्।
मातस्थता कुरु यथाऽन्य/द्यभवान्तरेऽपि सौमित्रिणा मम करोति जनस्समत्वम्॥ ४९॥
६. नीचेष्वर्थेषु जुगुप्सा ; यथा—(मवीच. १.३७)
उत्तालताटकोत्पातदर्शनेऽप्यप्रकम्पितः ।
नियुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति॥ ५०॥
यथा वा—(बारा. ३.४)
स्त्री राक्षसी; कथमिवात्र पतन्तु बाणा ? भक्तस्य ते कुशिकनन्दन! तत् प्रसीद।
आदिश्यतामिह हि कोऽपि तपस्विवर्गे मन्त्राक्षरैः करिपयैर्य इमामपास्येत्॥ ५१॥
७. शक्तिसद्भावेऽनुत्सेकः क्षान्तिः ; यथा—
वोढा तन्नो दशामन्त्यां ज्यायानेव गुणप्रियः।
सुलभो विद्विषां भङ्गो दुर्लभा सत्स्ववाच्यता॥ ५२॥
यथा वा—
अभिलषत उपायं विक्रमं कीर्त्तिलक्ष्म्योरनुयुगमरिसैन्यैरङ्कमभ्यागतस्य।
जनक इव शिशुत्वे संप्रियस्यैकसूनोर्न विनयमुपसेहे पाण्डवस्य स्मरामि॥ ५३॥
८. प्रमादस्खलितेष्वनुशयो यथा—
ततोऽपि च दहत्युच्चैस्रपाज्वाला तु मां परा।
यद् वनौकसि निर्वैरे मुक्तो वालिनि मार्गणः॥ ५४॥
यथा वा—
कर्तव्योपकृतिः सद्भिर्यत्र तत्र विपद्गते।
अविमृश्य कृतोऽस्माभिः स पुनः कृपणः सदा॥ ५५॥
९. सदाचारे(/ रि)ष्वादरो यथा—(उराच. २.२)
प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः।
पुरो वा पश्चाद् वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते॥ ५६॥
यथा वा—(नीति. ६६)
असन्तो नाभ्यर्थ्याः, सुहृदपि न याच्यस्तनुधनः प्रिया वृत्तिर्न्याय्या, मलिनमसुभङ्गेऽप्यसुकरम्।
विपद्युच्चैः स्थेयं, पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्॥ ५७॥
१०. परगुणेष्वमात्सर्यं यथा—
रथस्थमालोक्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभ्यनन्दत्।
वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः॥ ५८॥
. . (यथा वा)—(मवीच. १.३३)
यद् विद्वानपि तादृशोऽप्यभिजने धर्म्यात् पथो विच्युतः किं ब्रूमोऽत्र तदन्यदेव न वसन्त्येकत्र सर्वे गुणाः।
हेलानिर्जितषण्मुखाद् भगवतः श्रीजामदग्न्यादृते निर्विघ्नप्रतिपन्नविश्वविजयो वीरस्तु कस्तादृशः?॥ ५९॥
११. परव्यसनेषु अप्रहर्षः ; यथा—(मवीच. ५.५६)
अप्राकृताभिजनवीर्ययशश्चरित्रान् प्रत्यक्छ्रियः कुलमहीधरभूरिसारान्।
एवंविधानपि निपात्य कटुर्विपाके सर्वङ्कषः कषति ही विषमः कृतान्तः॥ ६०॥
यथा वा—(मामा. ९.२८)
सुहृदि गुणनिवासे प्रेयसि प्राणनाथे कथमिव सहपांसुक्रीडनप्रौढसख्ये।
प्रियजनविरहाधिव्याधिवेगं दधाने हतहदय! विशीर्य त्वं द्विधा न प्रयासि॥ ६१॥
१२. . . . . परापवादेषु न प्रवृत्तिः ; यथा—
दैवात् प्रसूते न हिमेतरांशोरूर्जस्वलैस्तैः सखिभिर्वृतेन।
उदारदेहद्युतिनाऽस्मदर्थे निरत्ययं तेन तमः प्रपन्नम्॥ ६२॥
यथा वा—(मवीच. ५.४८)
प्रिये हा हा क्वासि प्रकिर मधुरां वाचमथवा पराभूतैरित्थं विलपनविनोदोऽप्यसुलभः।
अनिन्द्यः पौलस्त्यो व्रजतु परिवादो मयि जरां यतो रूढे वैरे बहुगुणमनेन प्रतिकृतम्॥ ६३॥
१३. अस्थानेषु न क्रोधो यथा—(उराच. ४.२४–२५)
एतद् वैशसघोरवज्रपतनं शश्वन्ममाऽभ्यस्यतः/ममोत्पश्यतः क्रोधस्य ज्वलितुं धगित्यवसरश्चापेन शापेन वा।
शान्तं वा रघुनन्दने तदुभयं तत्पुत्रभाण्डं हि मे भूयिष्ठं द्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः॥ ६४॥
यथा वा—(मवीच. ३.४२)
कामं हि नः स्वजन एष तथाऽपि दर्पा— च्चापं व्यवस्यति कथं न भवेदवख्या।
सन्दूषितेन च मया मुहुरीक्षितस्य क्रुद्धश्च/मुग्धश्च भार्गवशिशुर्दुरितं हि तत् स्यात्॥ ६५॥
१४. आरम्भेषु नानिर्वाहः ; यथा—(सेब. ३.२५)
णिज्जंति चिरपअत्ता समुद्दगहिरा वि पडिवहं णइसोत्ता।
तीरंति णिअत्तेउं असमाविअपेसणा ण उण सप्पुरिसा॥ ६६॥
(नीयन्ते चिरप्रवृत्तानि समुद्रगभीराणि अपि प्रतिपथं नदीस्रोतांसि।
तीर्यन्ते निवर्तयितुं असमापितप्रेषणा न पुनः सत्पुरुषाः॥)
यथा वा—(सेब. ३.१८)
अव्वोच्छिण्णपसरिओ अहिअं उद्धाइ फुरिअसूरच्छाओ।
उच्छाओ सुह/भडाणं विसमक्खलिओ महाणईण व सोत्तो॥ ६७॥
(अव्यवच्छिन्नप्रसृतोऽधिकमुद्धावयति स्फुरितसूरच्छायः।
उत्साहः सुभटानां विषमस्खलितो महानदीनामिव स्त्रोतः॥)
१५. कर्मातिशयैर्न विस्मयः ; यथा—(बारा. ३.८३)
भग्नं निरीक्ष्य हरकार्मुकमित्यथैते रोमाञ्चकञ्चुकमिमं वपुरुद्वहामः।
आर्यस्तु कण्ठधृतपाणिविलक्षभावान्नासानिषण्णनयनं वदनं बिभर्ति॥ ६८॥
यथा वा—
पात्रे पुरोवर्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलये च देये।
व्रीडास्मितं तस्य तदा तदासीत् चमत्कृतो येन स एव देवः॥ ६९॥
१६. जात्यादिभिर्नाभिमानः ; यथा—
कुलममलिनं, भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं, स्फीता लक्ष्मीः, प्रभुत्वमखण्डितम्।
प्रकृतिसुभगा ह्येते भावा मदस्य च हेतवो व्रजति पुरुषो यैरुन्मादं त एव तवाङ्कुशाः॥ ७०॥
यथा वा—(मवीच. ४.२०)
वीरश्रिया च विनयेन च रोचमानो मान्ये मुनाववनतश्च गुणोन्नतश्च।
लज्जां वहन् भृगुपतौ हतवीरदर्पे शिष्यो गुराविव कृतप्रथमापचारः॥ ७१॥
(धैर्योदात्तत्वहेतवो विशेषगुणाः —८)
धैर्योदात्तत्वहेतवो विशेषगुणाः — शीलं, दाक्षिण्यं, स्थैर्यं, गाम्भीर्यं, प्रागल्भ्यम्, शोभा, कृतज्ञता, अविकत्थनता इति। तेषु
१. सुस्वभावता शीलम्; यथा—(रघु. १.२३)
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः।
तस्य धर्मरतेरासीद् वृ(द्धत्वं जर)सा विना॥ ७२॥
यथा वा—
विक्रमाभरणां कीर्तिं विनयाभरणां श्रियम्।
बभार शीलाभरणो यः सत्याभरणां गिरम्॥ ७३॥
२. दाक्षिण्यम् ; यथा (वा)—(मवीच.५.३४)
प्रार्थ्य माल्यवता वाली युष्मद्घाते नियोक्ष्यते।
तेनापि रावणे मैत्रीमनुरुध्य ह्युपेक्ष्यते॥ ७४॥
यथा वा—(उराच.७.१)
राज्याश्रमनिवासेऽपि प्राप्तकष्टमुनित्रतः।
वाल्मीकेर्गौरवादार्य इत एवाभिवर्तते॥ ७५॥
३. अ(विचलितत्वम्) स्थैर्यम्; यथा—(हनुमन्ना०)
कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम्।
मुहुः पश्यन् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिबृढः॥ ७६॥
यथा वा—
अङ्के न्यस्योत्तमाङ्गं प्लवगकुलपतेः पादमक्षस्य हन्तुः कृत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गशेषं निधाय।
बाणं रक्षःकुलग्नं प्रगुणितम् अनुजेनादरात् तीक्ष्णमक्ष्णः कोणोनोद्वीक्षमाणस्त्वदनुजवदचने दत्तकर्णोऽयमास्ते॥ ७७॥
४. इङ्गिताकारगुप्तिः गाम्भीर्यम्; यथा—(रघु. १२.९ समानार्थम्)
आहूतस्याभिषेकाय विसृष्टस्य वनाय च।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः॥ ७८॥
यथा वा—(रघु. १.२०)
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव॥ ७९॥
५. प्रयोगनिस्साध्वसता प्रागल्भ्यम् ; यथा—(रघु. ३.५१)
अथापहस्याह पुनः पुरन्दरं व्यपेतभीर्भूमिपुरन्दरात्मजः।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान्॥ ८०॥
यथा वा—(मवीच. ५.४९)
आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यं तु कुतोऽस्य संप्रति मम त्वद्दर्शने चक्षुषः।
त्वत्साङ्गत्यसुखस्य नास्मि विषयस्तत् किं वृथा व्याहृते— रस्मिन् विश्रुतजामदग्न्यविजये बाहौ धनुर्जम्भताम्॥ ८१॥
६. औचित्यापरित्यागः शोभा; यथा—(मवीच. ५.५०)
दिष्ट्या यदद्य दृष्टोऽसि सर्वमेतच्च युज्यते।
किं न शस्त्रेषु युष्मासु वा सामान्यं महात्मना॥ ८२॥
. . . . तेन परिगणनस्थिनः(?)
८. स्वगुणाग्रहणम् अविकत्थनम्; यथा—
उक्तेऽप्युद्धवरामाभ्यां वक्तुं सदसि न स्पृहा।
किं चन्द्रार्कसनाथा द्यौः खद्योतेनावगाह्यते॥ ८३॥१
यथा वा—(माघ. २.७५)
विशेषविदुषः शास्त्रं यत् तवोद्ग्राह्यते पुरः।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा॥ ८४॥
१. न स्पृहा जोशेरः, मे स्पृहा राघवः। ‘मे—‘पाठे ‘खद्योतैर्ना ॰’ इति वृथाबहुवचनः पाठः परिकल्प्यः’ निषेधस्य विवक्षितत्वात्। (धीरोदात्तस्य भावाः —२५)
सोऽयमस्य विशेषगुणयोगः स्वाभाविको निरतिशयः आन्तरो नित्यश्चालङ्कारः यत्प्रभावादस्य अनुकूलेषु रतिः, अनवगीतेषु प्रीतिः, उत्तमेषूत्कण्ठा, धर्मार्थकामेषु चिन्ता, उत्तरपक्षे मतिः, अव्याहतक्रमा स्मृतिः, तत्त्वानुवादी/पाती वितर्कः, फलानुसारिणी शङ्का, विविक्तेषु निद्रा, निशीथे स्वापः, अपररात्रे प्रबोधः, स्वश्लाघादिषु व्रीडा, सर्वत्रैवावहित्थम्, संभवाधिक्ये धृतिः, परार्थसिद्धौ हर्षः, परापदाने रोमाञ्चः, स्मितमात्रकारी हासः, महारम्भेषूत्साहः, त्रतातिशयादिषु न ग्लानिः, स्वशक्तिधर्षणेषु क्रोधः, महादुःखेषु शोकः, दुःखाद्यतिशययोगे अश्रूद्गमः, प्रारम्भातिरेके स्वेदः, आयासातिशययोगे श्रमः, प्रहारातियोगे मूर्च्छा इति। न चैतेऽस्योत्पन्ना अविज्ञायन्ते। नचायमेतैरभिभूयते, गम्भीराशयतया महासत्त्वतया च। यथोच्यते—
वज्रादपि कठेराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ?॥ ८५॥
(उराच. २.१) १. अनुकूलेषु रतिर्यथा— (शाकु. २.१)
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनायासि।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते॥ ८६॥
यथा वा—(विक्र. २.२)
आदर्शनात् प्रविष्टा सा मे सुरलोकसुन्दरी हृदयम्।
बाणेन मकरकेतोः कृतमार्गमवन्ध्यपातेन॥ ८७॥
२. अनवगीतेषु प्रीतिः; यथा—(मवीच. १.२१)
उत्पत्तिर्देवयजनाद् ब्रह्मवादी नृपः पिता।
सुप्रसन्नोज्ज्वला मूर्तिरस्याः स्नेहं करोति मे॥ ८८॥
यथा वा—(उराच. ६.१७)
अथ कोऽयमिन्द्रमणिमेचकच्छविर्ध्वनिनैव बद्धपुलकं करोति माम्।
नव-नील-नीरधर-धीरगर्जित-क्षणबद्ध-कुड्मल-कदम्ब-डम्बरम्॥ ८९॥
३. उत्तमेषूत्कण्ठा; यथा—(उराच. ६.२१)
अमृताध्मातजीमूतस्निग्धसंहननस्य ते।
परीरम्भाय वात्सल्यादयमुत्कण्ठते जनः॥ ९०॥
यथा वा—(विक्र. १.२०)
एषा मनो मे प्रसभं शरीरात् पितुः पदं मध्यममुत्पतन्ती।
सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी॥ ९१॥
४. धर्मार्थकामेषु चिन्ता; यथा—(शाकु. ३.२)
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम्।
अलमस्मि ततो हृदयं तथाऽपि नेदं निवर्तयितुम्॥ ९२॥
यथा वा—(शाकु. ६.२१)
दर्शनपथमायाता साक्षादिव तन्मयेन हृदयेन।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता॥ ९३॥
५. उत्तरपक्षे मतिर्यथा —(शाकु. ३.१२)
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन॥ ९४॥
यथा वा—(विक्र. २.३)
आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः।
उपमानस्यापि सखे! प्रत्युपमानं वपुस्तस्याः॥ ९५॥
६. अव्याहतक्रमा स्मृतिर्यथा—(उराच. १.२१)
इङ्गुदीपादपः सोऽयं शृङ्गिवेरपुरे मया।
निषादपतिना यत्र स्निग्धेनासीत् समागमः॥ ९६॥
यथा वा—
कटु क्षिपन्तो वयमत्र दृष्टास्तातेन पृष्ठे निहितः करो मे।
अस्मिंस्त्वकस्मादपि तोषितेन विचुम्बितस्त्वं बहुशः कपोले॥ ९७॥
७. तत्त्वानुपाती वितर्को यथा—(किराता. १६.१९)
पुंसः पदं मध्यममुत्तमस्य द्विधैव कुर्वन् धनुषः प्रणादैः।
नूनं तथा नैष यथाऽस्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा॥ ९८॥
यथा वा—(किराता. १३.६)
न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र तथा भृशं मनो मे।
विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा॥ ९९॥
८. फलानुसारिणी शङ्का; यथा—(शाकु. ३.९)
पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम्।
दृष्टो विवृत्य बहुशोऽप्यनया सतृष्णमत्रान्तरे श्रवणकातरतां गतोऽस्मि॥ १००॥
यथा वा—
(कथयतितरां सेयं काचिद्) धनुर्गुरुता (मम) न खलु विषमः पन्था यातं तथा (प्र)विसंस्थुलम्।
अयमपि हि (यो) बाष्षापीडो रुणद्धि विलोचने स्फुरति च यथा वामं चक्षुस्तथैव शठो रिपुः॥ १०१॥१
९. विविक्तेषु निद्रा ; यथा—(रघु. १३.६)
नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः पुरुषेण धात्रा।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषोऽधिशेते॥ १०२॥
यथा वा—(रघु. १३.३५)
अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तिम्॥ १०३॥
१०. निशीथे स्वापो यथा—(कुसं. ८.८४)
केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु।
तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम्॥ १०४॥
यथा वा—(रघु. ५.६४)
तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमजस्य लिप्सोः।
भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव॥ १०५॥
११. अपररात्रे प्रबोधो यथा—(कुसं. ८.८५)
स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम्।
मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गितमङ्गलः॥ १०६॥
यथा वा—(रघु. ९.७१)
उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विधूतनिद्रः।
अरमत मधुरस्वराणि शृण्वन् विहगविकूजितवन्दिमङ्गलानि॥ १०७॥
१. जोशेरेऽस्य गन्धोऽपि नास्ति। अश्वत्थाम्न इवेयमाशङ्का। १२. स्वश्लाघादिषु व्रीडा; यथा—(मवीच. ४.२०)
वीरश्रिया च विनयेन च रोचमानो मान्योऽमुना वचनतश्च गुणोन्नतश्च।
लज्जां वहन् भृगुपतौ हतधीरदर्पे शिष्यो गुराविव कृतप्रथमापराधः॥ १०८॥
यथा वा—
ते सर्वथा वज्रमया मनुष्याः संग्रामयज्ञे हृतभर्तृकाभिः।
सुहृद्वधूभिः कृपणास्समेतास्सुदुःखिता सन्ति हृताखिलार्थाः॥ १०९॥
१३. सर्वत्रैवावहित्थं यथा—(शाकु. २.१९)
क्व वयं? क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः।
परिहासविजल्पितं सखे! परमार्थेन न गृह्यतां वचः॥ ११०॥
यथा वा—(काव्याद. २.२६६)
राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः।
अवगच्छेयुराः ज्ञातमहो! शीतानिलं वनम्॥ १११॥
१४. सम्भवाधिक्ये धृतिर्यथा—
॰ ॰ ॰ ॰ ॰ ॰ परीक्षकैरहं युतः।
दृष्टः साक्षाद् भगवान् देवी प्राप्ता प्रियं किमतः॥ ११२॥१
यथा वा—(उरा. ४.२०)
सम्भावनातिरिक्ते कार्ये संपादिते त्रपावनतः।
हर्षाश्रुपूरितदृशा धन्यः परिरभ्यते प्रभुणा॥ ११३॥
१५. परार्थसिद्धौ हर्षो यथा—
तत्रैव गमनादेशो (यत्र मे वर्तते प्रिया।
शीघ्रं तत्र गमिष्यामि ह्यनुकूलो गलग्रहः)॥ ११४॥२
यथा वा—(मवीच. १.३३)
रक्षोघ्नानि च मङ्गलानि सुदिने कल्प्यानि दारक्रिया वैदेह्याश्च रघूद्वहस्य कुशलैर्दीक्षाप्रवेशश्च नः।
आस्थाप्यानि च तानि तानि जगतां क्षेमाय रामात्मनो दैत्यारेश्चरिताद्भुतान्यथ खलु व्यग्राः प्रमोदामहे॥ ११५॥
१–२. नैषां गन्धोऽपि जोशेरे। कोष्ठकपूर्त्तिरस्मत्कृता। १६. परापदाने रोमाञ्चो यथा—
(कामं प्रच्छादितात्माऽस्मि तं प्रति ग्रामसुन्दरम्।
हृष्टानि किन्तु रोमाणि सरागां गम)यन्ति माम्॥ ११६॥१
यथा वा—(उराच. ५.१८)
एतस्मिन् मसृणितराजपट्टकान्ते मोक्तव्याः कथमिव सायकाः शरीरे।
यत्प्राप्तौ मम परिरम्भणाभिलाषादुन्मीलत्पुलककदम्बमङ्गमास्ते॥ ११७॥
१७. स्मितमात्रकारी हासो यथा—
श्यामा भद्रा स्वपिषि न शिशो! नेति मामम्ब! निद्रा; निद्राहेतोस्तव शृणु कथां; कामपूर्वां वदस्व।
रामो नाम क्षितिपतिरभून्माननीयो रघूणा— मित्युक्त्यैव स्मितमवतु वो देवकीनन्दनस्य॥ ११८॥
यथा वा—(माघ. २.७)
द्योतितान्तस्सभैः कुन्दकुट्मलाग्रदतः स्मितः।
स्नपितेवाभवत् तस्य शुद्धवर्णा सरस्वती॥ ११९॥
१८. महारम्भेषूत्साहो यथा—(शाकु. ६.३२)
त्वन्मतिः केवला यावत् परिपालयतु प्रजाः।
अधिज्यमिदमन्यत्र कर्मणि व्यापृतं धनुः॥ १२०॥
यथा वा—(राच. १५.६७)
मूर्ध्ना जाम्ववतोऽभिवाद्य चरणावापृच्छ्य सेनापती— नाश्वास्याश्रुमुखान् मुहुः प्रियसखान् प्रेष्यान् समाभाष्य च।
आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन् मारुतिः॥ १२१॥
१९. व्रतातिशयादिषु न ग्लानिः; यथा—(रघु. २.७३)
तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम्।
नेत्रैः पपुस्तृप्तिमनश्नुवद्भिः नवोदयं नाथमिवौषधीनाम्॥ १२२॥
१. नैषां गन्धोऽपि जोशेरे। कोष्ठकपूर्त्तिरस्मत्कृता। यथा वा—
प्रकृत्या रमणीयोऽपि क्षीयमाणः प्रतिक्षपम्।
दुःखमावहति प्रातः शशीवापाण्डुरच्छविः॥ १२३॥
२०. स्वशक्तिधर्षणेषु क्रोधो यथा—
याञ्चां दैन्यपरिग्रहप्रणयिनीं नेक्ष्वाकवः शिक्षिताः सेवासंवलितः कदा रघुकुले मौलौ निबद्धोञ्जलिः।
तत् सर्वं विहितं; तथाऽप्युदधिना नैवोपरोधः कृतः पाणिः संप्रति मे हठात् किमपरं स्प्रष्टुं धनुर्वाञ्छति॥ १२४॥
यथा वा—(मवीच. ३.२७)
भृगोर्वंशो जातस्तपसि च किलायं स्थित इति द्विषत्स्वप्यस्माभिश्चिरमिह तितिक्षैव हि कृता।
यदा भूयोभूयस्तृणवदवधूनोत्यनिभृत— स्तदा विप्रेऽप्यस्मिन् नमतु धनुरन्याऽस्ति न गतिः॥ १२५॥
२१. महादुःखेषु शोको यथा—(उराच. ३.१)
अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः।
पुटपाकप्रतीकाशो रामस्य करुणो रसः॥ १२६॥
यथा वा—(उराच. ७.७)
दह्यमानेन मनसा दैवाद् वत्सां विहाय सः।
लोकोत्तरेण धैर्येण प्रजापुण्यैश्च जीवति॥ १२७॥
२२. दुःखाद्यतिशययोगे अश्रूद्गमो यथा—(उराच. ६.२९)
बाष्पवर्षेण वो नीतं जगन्मङ्गलमाननम्।
अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम्॥ १२८॥
यथा वा—(शाकु. ६.२२)
प्रजागरात् खिलीभूतस्तस्याः स्वप्ने समागमः।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि॥ १२९॥
२३. प्रारम्भातिरेके स्वेदो यथा—(किराता. १७.८)
तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य।
निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः॥ १३०॥
यथा वा—(रघु. ९.६८)
तस्य कर्कशविहारसम्भवं स्वेदमाननविलग्नजालकम्।
आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः॥ १३१॥
२४. आयासातिशययोगे श्रमः; यथा—
मन्थित्वा दूरचारश्रमशिथिलतनोश्चापमालम्ब्य मूर्ध— न्यूर्ध्वं यस्य स्थितस्य द्विरदमदजलासारसौरभ्यगर्भाः।
खड्गक्षुण्णावनीभृद्गलविगलदसृक्छीकरालीकरालाः कुर्वन्तो गात्रमैत्रीं समरजमरुजन् घर्मनीरं समीराः॥ १३२॥
यथा वा—(रघु. ७.६६)
स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः।
ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे॥ १३३॥
२५. महाप्रहारादिषु मूर्च्छागमः; यथा—(रघु. ३.६१)
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः।
मुहूर्तमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः॥ १३४॥
यथा वा—(किराता. १८.६)
निपतितेऽधिशिरोधरमायते सममरत्नियुगेऽयुगचक्षुषः।
त्रिचतुरेषु पदेषु किरीटिना लुलितमौलि मदादिव चस्खले॥ १३५॥
गर्वादयश्च सत्यपि गर्वादिहेतौ जात्यादिगुणसमूहे तस्य नोत्पद्यन्ते; धैर्याधारतायाः तत्प्रत्यनीकगुणयोगित्वात्। तत्र—
१. गर्वानुत्पत्तिः यथा— (शाकु. ५.१७)
भवन्ति नम्रास्तरवः फलोद्गमैर्नवाम्बुभिर्भूरिविलम्बिनो घनाः।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥ १३६॥
२. मदानुत्पत्तिर्मद्यपानप्रतिषेधेनैव सिद्धा।
३. अमर्षानुत्पत्तिर्यथा—(रघु. ४.६४)
अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः।
प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम्॥ १३७॥
४.असूयानुत्पत्तिर्यथा—
तस्य सन्धास्थ यदि वा रामो वा यदि वा प्रियः।
तत् प्रसीदतु माता नः पूर्णकामाऽस्तु मध्यमा॥ १३८॥
५. ईर्ष्यानुत्पत्तिर्यथा—(मवीच. १.३१)
साधारण्यान्निरातङ्कः कन्यामन्योऽपि याचते।
किं पुनर्जगतां जेता प्रपौत्रः परमेष्ठिनः॥ १३९॥
६. उग्रतानुत्पत्तिर्यथा—(किराता. १४.११)
यदि प्रमाणीकृतमार्यचेष्टितं किमित्यदोषेण तिरस्कृता वयम्।
अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणमेव भाषते॥ १४०॥
७. जुगुप्सानुत्पत्तिर्यथा—
अकार्यं च समस्तैस्तैरुपन्यस्तमिदं तथा।
परनिन्दां यथा कर्तुं वयमेतेऽद्य शिक्षिताः॥ १४१॥
८. विस्मयानुत्पत्तिर्यथा—(किराता. ६.२८)
महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः।
न जगाम विस्मयवशं, वशिनां न हि हन्ति धैर्यमनुभावगुणः॥ १४२॥
९. चपलतानुत्पत्तिर्यथा—(शाकु. १.२५)
अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः।
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः॥ १४३॥
१०. आलस्यानुत्पत्तिर्यथा—(रघु. २.६)
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत्॥ १४४॥
११. भयानुत्पत्तिर्यथा—(रघु. २.४)
व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः॥ १४५॥
१२. त्रासानुत्पत्तिर्यथा—
यस्येन्द्रेणोद्यते वज्रे निद्रालोक्ये वशे स्थिते।
लेभेऽवकाशं हृदये न सन्त्रासो न विस्मयः॥ १४६॥
१३.कम्पानुत्पत्तिर्यथा—(किराता. १५.४४)
विलङ्घ्य पत्रिणां पङ्क्तीर्भिन्नः शिवशिलीमुखैः।
ज्यायो वीर्यमुपाश्रित्य न चकम्पे कपिध्वजः॥ १४७॥
१४. स्तम्भानुत्पत्तिर्यथा—(रघु. २.४२)
प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः।
जडीकृतस्त्र्यम्बकवीक्षितेन वज्रं मुमुक्षन्निव वज्रपाणिः॥ १४८॥
१५. शोकानुत्पत्तिर्यथा—(मवीच. ५.७)
तस्य विद्यातपोवृद्धसंयोगः स्वा च धीरता।
न्याये रक्षाधिकारश्च दौर्मनस्यं व्यपोहति॥ १४९॥
१६. उन्मादानुत्पत्तिर्यथा—
शब्दं च माहात्म्यविशेषसूचकं वदन्ति चिह्नं महतां मनीषिणः।
मनो यदेषां सुखदुःखसम्प्लवे प्रयाति नोन्मादविषादवश्यताम्॥ १५०॥
१७. विषादानुत्पत्तिर्यथा—
यदि दहत्यनलोऽत्र किमद्भुतं? यदि च गौरवमद्रिषु किं ततः?।
कलिलमम्बु सदैव पयोनिधेः प्रकृतिरेव सतामविषादिता॥ १५१॥
१८. वैवर्ण्यानुत्पत्तिर्यथा—(शाकु. ६.६)
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठे श्लथं बिभ्रत् काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः।
चिन्ताजागरणप्रका/तान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते॥ १५२॥
१९. दैन्यानुत्पत्तिर्यथा—(नीति. ८९)
विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे विरम विरमायासादस्माद् दुरध्यवसायतः।
अयि हतविधे! कल्पापायव्यपेतनिजक्रमाः कुलशिखरिणः क्षुद्रा नैते नवा जलराशयः॥ १५३॥
२०. स्वरभेदानुत्पत्तिर्यथा—(रघु. ३.४३)
शतैस्तमक्ष्णामनिमेषवृत्तिभिः हरिं विदित्वा हरिभिश्च वाजिभिः।
अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव॥ १५४॥
२१. आवेगानुत्पत्तिर्यथा—(माघः २.७९)
आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च। महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः॥ १५५॥
२२. मोहानुत्पत्तिर्यथा—
मुह्यन्ति नापत्सु, वदन्ति सत्यं, पृच्छन्ति वृद्धान्, सुकृतं, स्मरन्ति।
भवन्त्यमायाकपटाः किलैते सन्तः सतोषा न तु दीर्घरोषाः॥ १५६॥
२३. जाड्यानुत्पत्तिर्यथा—(रघु. ९.६३)
व्याघ्रानभीरभिमुखोत्पत्तितान् गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान्। शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार शरपूरितवक्त्ररन्ध्रान्॥ १५७॥
२४. निर्वेदानुत्पत्तिर्यथा—(रघु. २.२४)
तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः।
क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरुदन्वतिष्ठत्॥ १५८॥
२५. श्रमानुत्पत्तिर्यथा—
वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम्।
निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः॥ १५९॥
तदेतद् धर्मशृङ्गारे धीरोदात्तस्य चेष्टितम्।
मनोवाक्कायचेष्टाभिः स्पष्टमेवोपवर्णितम्॥ १६०॥
पाञ्चाली भारती प्राच्या रीतिवृत्तिप्रवृत्तयः।
स्वकीया नायिका चास्मिन् धीरोदात्तश्च नायकः॥ १६१॥
स एष धर्मद्रुमबालपल्लवो लवोच्चयः सूनृतमुक्ति/सूक्तिसम्पदाम्।
पदं दधानः श्रुतिमार्गगोचरे चिराय या वाऽनभिसंमतं सताम्॥ १६२॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे धर्मशृङ्गारप्रकाशनो नाम
॥ अष्टादशः प्रकाशः॥ १८॥
छिन्नच्छिन्नतनुः प्रकाश उपदीचर्कर्त्त्ययं धीमतां वर्येभ्यो ननु धर्मतत्त्वमिह यत् सारः श्रुतीनां तु सः।
अस्मिन् दत्तदृशो भवन्तु कुशलाः स्वं चारितीसौभगं चित्रं वीक्षितुमात्मनैव विशदैश्चक्षुर्भिरुच्चैस्तराम्॥