१७ अनुभावप्रकाशः

अथ

शृङ्गारप्रकाशे सप्‍तदशः प्रकाशः

अनुभावप्रकाशः

इदानीमनुभावं व्याख्यास्यामः। तत्र विभावैः प्रबुद्धसंस्कारस्य नायकादेर्ये स्मृतीच्छाद्वेषप्रयत्‍नजन्मानो मनोवाग्बुद्धिशरीरारम्भाः तेऽनुभूयमानत्वाद् रत्यादीना— मनन्तरभवनाच्‍च अनुभावाः। तत्र—

१. (मन)—आरम्भो यथा—(मामा. १.२१)

तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य चेतः कथं कथमपि व्यपवर्तते मे।
लज्जां विजित्य विनयं विनिवार्य धैर्यमुन्मथ्य मन्थरविवेकमकाण्ड एव॥ १॥

यथा वा—

आश्चर्यमुत्पलदृशो वदनामालेन्दु॰॥ २॥

(द्र. ११.८४) २. वागारम्भो यथा—(मामा. ४.३)

चिरादाशातन्तुस्‍त्रुटतु बीसिनीसूत्रभिदुरो महानाधिर्व्याधिर्निरवधिरिदानीं प्रसरतु।
प्रतिष्ठामव्याजं व्रजतु मयि पारिप्लवधुरा विधिः स्वास्थ्यं धत्तां, भवतु कृतकृत्यश्च मदनः॥ ३॥

यथा वा—(मामा. ४.४)

समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः।
तथाऽप्यस्मिन् दानश्रवणसमयेऽस्याः प्रविगल— त्प्रभं प्रातश्चन्द्रद्युति वदनमन्तर्दहति माम्॥ ४॥

३. बुद्ध‍यारम्भो यथा—

प्रम्लानोत्पलकोमले सखि ! दृशौ नीलाञ्जनेनाञ्चिते॰॥ ५॥

(द्र. १०.४६७) यथा वा—(अमरु. १८)

एकत्रासनसंस्थितिः परिहृता प्रत्युद्रमाद् दूरत— स्ताम्बूलानयनच्छलेन रसभाश्लेषोऽपि संविघ्‍नितः।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्याऽन्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः॥ ६॥

४. शरीरारम्भो यथा—

कृत्वा वामकरं नितम्बफलके लीलावलन्मध्यया व्यावृत्तस्तनम (ञ्चितास्यकमलं कृ—)त्वा तया मां प्रति।
प्रा(तर्मुग्ध—)नवेन्द्रनीलमणिमन्मुक्तावीभ्रमाः सप्रेमप्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः॥ ७॥

यथा वा—

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै— र्यत्‍नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद्‍ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाऽश्रुपूर्णां दृशं तामाशां पथिकस्तथाऽपि किमपि ध्यायन् मुहुर्वीक्षते॥ ८॥

(एते च प्रत्येकं) द्वादशप्रकारा भवन्ति। तत्र

(१) (मन)—आरम्भाः— भावः, हावः, हेला, शोभा, कान्तिः, उद्‍दीप्‍तिः, माधुर्यं, धैर्यं, प्रागल्भ्यम्, औदार्यं, स्थैर्यं, गाम्भीर्यमिति।

(२) वागारम्भाः— आलापः, प्रलापः, विलापः, अनुलापः, संलापः, अपलापः, सन्देशः, अतिदेशः, निर्देशः, उपदेशः, अपदेशः, व्यपदेश इति।

(३) बुद्ध‍यारम्भाः— रीतिः, वृत्तिः, प्रवृत्तिरिति। तत्र च

१. (चतस्रो) रीतयः — पाञ्चाली, गौडीया, वैदर्भी, लाटीया चेति।

२. चतस्रो वृत्तयः — भारती, आरभटी, कैशिकी, सात्त्वती चेति।

३. चतस्रः प्रवृत्तयः —पौरस्त्या, उढ्र(औढ्र)मागधी,दाक्षिणात्या,आवन्त्या चेति।

(४) शरीरारम्भाः— लीला, विलासः, विच्छित्तिः, विभ्रमः, किलकिञ्चितम्, मोट्टायितम्, कुट्टमितम्, बिब्बोकः, ललितम्, विहृतं, क्रीडितम्, केलिरिति।

अथैतेषां लक्षणोदाहरणानि।

(१. (मन)आरम्भाः —१२)

मनोऽभिलाषे हावः/भावः। स यथा—

अत्रान्तरे किमपि वाग्विभवातिरिक्त………(द्र.पृ. ६२५)

(सूच्यम्—(मन)आरम्भस्य ‘हावतः’ वागारम्भस्य ‘संदेशं’ यावद् ग्रन्थः खण्डितोऽत्र।—)

(२. वागारम्भाः —१२)

(७. संदेशः)

कालिन्दीतटभूमयोऽपि तव रे! नो यान्ति चिन्तास्पदम्॥ ९॥

८. तदुक्तमित्यतदुक्तमित्यतिदेशः। यथा—(कुसं. ६.७८)

स ते दुहितरं साक्षात् साक्षी विश्वस्य कर्मणाम्।
वृणुते वरदः शम्भुरस्मत्संक्रामितैः पदैः॥ १०॥

९. सोऽयमहमित्यादिर्निर्देशः। यथा—(कुसं. ६.६३)

एते वयममी दाराः कन्येयं कुलजीवितम्।
ब्रूत येनात्र वः कृत्यमनास्था बाह्यवस्तुषु॥ ११॥

१०. शिक्षाहेतुरुपदेशः। यथा—(शाकु. ४.१८)

शुश्रूषस्व गुरून्, कुरु प्रियसखीकृत्यं सपत्नीजने भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥ १२॥

११. अन्यार्थकथनमपदेशः। यथा—

आसाइअं अव्णाएण॰॥ १३॥ (पृ. १२४८)

१२. व्याजान्तरेण व्यपदेशः। यथा—

महुएहि किं वि बालअं (पंथिअ)॥ १४॥ (गास. ८७७, वज्जा ४९१ पृ.३७०) इति वागारम्भा द्वादश।

(३. बुद्ध‍यारम्भाः —१२)

बुद्धयारम्भेषु

(३.१. रीतिः) वचनविन्यासक्रमो रीतिः।

सा चतुर्धा— पाञ्चाल्यादिभेदात्।

१. पञ्चालादिषु भवा पाञ्चाली। यदनतिदीर्घसमासम् अनतिस्फुटबन्धमुपचारवृत्तिमत् पादानुप्रासप्रायं योगरूढिमद् वचः, सा पाञ्चाली।

नातिदीर्घसमासा यथा—

धीरास्त एव धवलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरिलसत्त्रिवलीलतानां दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम्॥ १५॥

अनतिस्फुटबन्धा यथा—

विलासमसृणोल्लसन्मुसललोलदोःकन्दली॰॥ १६॥ (पृ.४५७)

उपचारवृत्तिमती यथा—(रत्ना २.१३)

परिम्लानं पीनस्तनघनसङ्गदुभयतः॰॥ १७॥ (द्र. ७.१०७)

पादानुप्रासवती यथा—(काव्याद. १.५६)

चन्द्रे शरन्निशोत्तंसे कुन्दस्तबकविभ्रमे।
इन्द्रनीलनिभं लक्ष्म संदधात्यलिनः श्रियः॥ १८॥

योगरूढिमती यथा—(कुसं. ८.३३)

स्थानमाह्निकमापास्य दन्तिनः सल्लकीविटपभङ्गवासितम्।
आविभातचरणाय गृह्‍णते वारि वारिरुहरुद्धषट्‍पदम्॥ १९॥

२. गौडादिषु भवा गौडीया। यदतिदीर्घसमासं परिस्फुटबन्धं नात्युपचारवृत्तिमत् पादानुप्रासयोगि योगरूढिपरम्परागर्भं वचः, सा गौडीया।

अतिदीर्घसमासा यथा—

शून्य—ग्रामटिकोपकण्ठ-रचित-क्षुद्रैक-कूपीपयः— पर्यायाहित-सेक-शाकिक-हरित्कच्छ-प्रदेशोद्भवाः ।
अस्मिन् हन्त! हरन्ति हालिककरक्रीडाविमर्दस्फुट— त्वक्कोर्वारुकगन्धगन्धितजरद्‍गोमायवो वायवः॥ २०॥

परिस्फुटबन्धा यथा—

गुञ्जत्क्रौञ्च-निकुञ्जर‍‌-कुञ्जर-घटानिस्तीर्णकर्णज्वराः प्राक्प्रत्यग्धरणीध्र-कन्दर-जरत्पारीन्द्र-निद्राद्रुहः।
लङ्काङ्कत्रि—ककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजये यस्या भ्रेमुरमन्ददुन्दुभिरवैराशारुधो घोषणाः॥ २१॥

नात्युपचारवती यथा—

लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्‍लवन्ते।
उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः॥ २२॥

पादानुप्रासयोगिनी यथा—

लोलल्लाङ्गूलवल्लीवलयितवकुलानोकहस्कन्धगोलै— र्गोलाङ्गूलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु।
षण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेला— मालम्ब्योत्तालताल—स्फुटितपुटकिनीबन्धवो गन्धवाहाः॥ २३॥

योगरूढिपरम्परागर्भा यथा—(माघ. ३. ३३)

मध्येसमुद्रं ककुभः पिशङ्गीर्व्याकुर्वती काञ्चनभित्तिभासा।
तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास॥ २४॥

३. विदर्भादिषु भवा वैदर्भी। यदसमस्तम् अतिसुकुमारबन्धम् अनुपचारवृत्तिमत्, स्थानानुप्रासयोगि, योगवृत्तिमद् वचः, सा वैदर्भी। तत्र—

असमस्ता यथा—(कुसं. ५.४)

मनीषिताः सन्ति गृहेषु देवताः तपः क्व वत्से! क्व च तावकं वपुः।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं, न पुनः पतत्त्रिणः॥ २५॥

अतिसुकुमारबन्धा यथा—(विसा. १.१८)

कथय किमिह बाले! का त्वमित्युल्लपंस्तां झटिति किल दुकूलस्याञ्चले धारयामि।
अगमदथ निकेतं क्वाप्यसौ शारयन्ती नव—कुवलय—माला—मांसलैर्दृष्टिपातैः ॥ २६॥

अनुपचारवृत्तिमती यथा—(मेघ. ७९)

श्‍यामास्वङ्गं, चकितहरिणीप्रेक्षिते दृष्टिपातं वक्त्रच्छायां शशिनि, शिखिनां बर्हभारेषु केशान्।
उत्पश्‍यामि प्रतनुषु नदीविचिषु भ्रूविलासान् हन्तैकस्थं क्वचिदपि न ते चण्डि! सादृश्‍यमस्ति॥ २७॥

स्थानानुप्रासयोगिनी यथा—

शिथिलशिथिलं न्यस्य स्वैरं धनुश्शिखरे शिरो नयनसलिलैः कुर्वन् मौर्वीलतामपरामिव।
अहह विकलः श्रुत्वा श्रुत्वा घनस्तनितध्वनिं किमपि किमपि ध्यायन्नार्यो न याति, न तिष्ठति॥ २८॥

योगवृत्तिमती यथा—(कुसं. ५. ५८)

यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थामिमं कथं? जनम्।
इति स्वहस्तालिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः॥ २९॥

४. लाटादिषु भवा लाटीया। यदीषत्समस्तम्, अनतिसुकुमारबन्धं, नात्युपचारवत्, लाटीयानुप्रासवत् यौगिक(योग) रूढिमद् वचः, सा लटीया।

ईषत्समस्ता यथा—

एतानि निस्सहतनोरसमञ्जसानि॰॥ ३०॥ (पृ. ५६५),

अनतिसुकुमारबन्धा यथा—(काव्याद. १. ७०)

मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि॥ ३१॥

नात्युपचारवती यथा—(शाकु. २.१०)

अनाघ्रातं पुष्पं, किसलयमलूनं कररुहै— रनाविद्धं रत्नं, मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमपि च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ ३२॥

लाटीयानुप्रासो यथा—(मेघ. ९९)

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्‍तेन तप्‍तं सास्त्रेणास्त्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ‌्वासं समधिकतरोच्छ्‌वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥ ३३॥

योगरूढिमती यथा—(रा. च. १.१८)

तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि।
स्मितार्द्रमुकुलोद्भेदाः कदम्बवनराजयः॥ ३४॥

(३.२. वृत्तिः)

चेष्टाविशेषविन्यासक्रमो वृत्तिः। साऽपि चतुर्धा — भारती,आरभटी, कैशिकी, सात्त्वती चेति।

(१. भारती)

या वाक्प्रधाना नृवरप्रयोज्या स्त्रीवर्जिता संस्कृतपाठ‌्यक्ता।
स्वनामधेयैर्भरतैः प्रयोज्या सा भारती नाम भवेत्तु वृत्तिः॥ ३५॥

(ना. शा. २०.२६)

तस्या अङ्गानि चत्वारि— प्ररोचना, प्रस्तावना, वीथी, प्रहसनमिति। (तत्र)

१. वक्तव्यार्थप्रशंसापरं वचः प्ररोचना; यथा—(मवीच. १.७)

प्राचेतसो मुनिवृषा प्रथमः कवीनां यत् पावनं रघुपतेः प्रणिनाय वृत्तम्।
भक्तस्य तत्र समरन्त ममापि वाचस्ताः सुप्रसन्नवचसः कृतिनो भजन्ताम्॥

२. प्रस्तुतवस्तूपपादनावसरसूचकं वचः प्रस्तावना; यथा—(रत्ना. १.६)

द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः॥ ३७॥

३. उद्‍घात्यकादीनामङ्गानां प्रवृत्तिर्वीथी। तानि — उद्‍घात्यकः, कथोद्‍घातः, प्रयोगातिशयः, प्रवृत्तकः, वल्गित/अवलगितमित्यादीनि त्रयोदश। तेषु — उद्‌घात्यको यथा—

को विसमो संसारे॰॥ ३८॥ (पृ. ७०८)

एवं कथोद्‍घातादयोऽपि दशरूपकादेरुदाहार्याः।

४. स्वधर्मचलितानां तापसादीनामुपहासपरं वचः प्रहसनम्; यथा—

श्रमणः श्रावकवध्वा सुरतविधौ दशति नाधरं दत्तम्।
मदिराक्षि! मांसभक्षणमस्मत्समये निषिद्धमिति॥ ३९॥

(२. आरभटी)

आविद्धगतिरारभटी; यथा— (नाशा. २०.६५)

पुस्तावपातप्लुतलङ्घितानि छेद्यानि मायाकृतमिन्द्रजालम्।
चित्राणि युद्धानि च यत्र वृत्तिं तां तादृशीमारभटीं वदन्ति॥ ४०॥

तस्या अपि चत्वार्येवाङ्गानि— संक्षिप्‍तकः, अवपातः, वस्तूत्थापनं, सम्फेटः इति।

१. मायेन्द्रजालनेपथ्यादिभिः वस्तुसंक्षेपः संक्षिप्‍तकः; यथा—

रक्षसा मृगरूपेण॰॥ ४१॥ (रघु. १२.५३ द्र.१२.१२०)

२. भयादिभिर्विद्रवादिकर्मसु प्रवेशनिर्गमनमवपातः; यथा—

मृगरूपं परित्यज्य॰॥ ४२॥ (उरा. २.२२; द्र. १२.१२१)

३. अविद्रवः सविद्रवो वा सर्वरसभावसमासो वस्तूत्थापनं; यथा—

राहोश्चन्द्रकलाम्॰॥ ४३॥ (मामा. ५.२८; द्र १०.९७)

४. नानास्त्रयुद्धनियुद्धादिभिः ससंरम्भसंप्रहारः सम्फेटः यथा—

कृष्टा येन शिरोरुहेषु॥ ४४॥ (वेसं. ३.४२; द्र.१४.१३३)

(३. कैशिकी)

श्रृङ्गारप्राया कैशिकी।

या श्‍लक्ष्णनेपथ्यविशेषयुक्ता॥ ४५॥ (नाशा. २०.५३; द्र.१२.३४)

तस्या अपि चत्वार्येवाङ्गानि— नर्म, नर्मस्फञ्जः, नर्मस्फोटः, नर्मगर्भ इति।

१. आस्थापितश्रृङ्गारं वचो विचेष्टितं वाऽपि सपरिहासं नर्म। यथा—

वयं तथा नाम यथाऽऽत्थ॥ ४६॥ (मामा. ७.१; द्र.७.९६)

२. प्रथमसङ्गमे भयावसानं सम्भोगाश्रयं वाक्यादिकर्म नर्मस्फञ्जः। यथा—

प्राप्‍ताऽसौ वृषपर्वणः प्रियसुता सङ्केतषण्डं सखे!॥ ४७॥ (द्र.१२.१२५)

३. आविर्भूताभिलाषानुभावभावयोरकाण्ड एव सम्भोगभङ्गो नर्मस्फोटः। यथा—

कथय किमिह बाले! का त्वमित्युल्लपंस्तां॥ ४८॥ (पृ. ९७३)

४. कार्यहेतोः स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्भः। यथा—

अथाजिनाषाढधरः॥ ४९॥ (कुसं. ५.३०; पृ.७१८)

(४. सात्त्वती)

सत्त्वप्रधाना सात्त्वती।

या सात्त्वतेनेह गुणेन युक्ता॥ ५०॥ (नाशा. २०.३६, श्रृ.१२.३५, पृ.६९९) तस्या अपि चत्वार्येवाङ्गानि—उत्थापकः, परिवर्तकः, संलापकः, सङ्घात्यक इति।

१. परस्परासूयया अर्थेषूत्थानमुत्थापकः। यथा—

प्रहर नमतु चापं प्राक्प्रहारप्रियोऽहं॥ ५१॥ (मवीच. २.४९, श्रृ.१२.१२८, पृ.७१८)

२. प्रस्तुतार्थत्यागादन्यार्थभजनं परिवर्तकः। यथा—

मुनिमभिमुखतां निनीषवो याः॥ ५२॥ (किराता. १०.४० पृ.७१९)

३. सदसि नानावाक्यैर्मिथोऽधिक्षेपः संलापकः। यथा—(वेसं. ३.४०)

कथमपि न निषिद्धो दुःखिना भीरुणा वा॥ ५३॥ (पृ. ७१९)

४. कार्यमन्त्रार्थप्रभावदैवादिभिः सङ्घातभेदः सङ्घात्यकः। यथा—

अपश्‍यद्भिरिवेशानं॥ ५४॥ (किराता. १५.२, पृ.७१९)

(३.३. प्रवृत्तिः)

वेषविन्यासक्रमः प्रवृत्तिः।

सा चतुर्धा पौरस्त्यौढ्रमागधी—दाक्षिणात्या—आवन्त्यादिभेदात्। तत्र—

१. पौरस्त्यैः प्रवर्तितत्वात् पौरस्त्या। यथा—

ताटङ्कवल्गनतरङ्गितगण्डलेखम्॥ ५५॥ (पृ. ७००)

यथा वा—(रत्ना. १.२०)

प्रत्यग्रमज्जनविशेषविभक्तमूर्तिः॥ ५६॥ (पृ. ७०२)

२. उढ्र/औढ्रमागधी यथा—

आर्द्रार्द्रचन्दनकुचार्पितसूत्रहारः सीमन्तचुम्बिसिचयः स्फुटबाहुमूलः।
दूर्वाप्रकाण्डरुचिरास्वगुरूपभोगाद् गौडाङ्गनासु चिरमेष चकास्तु वेषः॥ ५७॥

यथा वा— (X X X X खण्डितम्)

३. दाक्षिणात्या यथा—

आमूलतो वलितकुन्तलचारुचूडश्‍चूर्णालकप्रचयलाञ्छितफालभागः।
कक्षानिवेशनिबिडीकृतनीविरेष वेषश्चिरं जयतु कुन्तल/केरलकामिनीनाम्॥ ५८॥

यथा वा—

केशाः सुपुष्पगण्डूषा जघने मणिमेखला।
हारो रक्तांशुकं भद्रं वेषः स्यादान्ध्रयोषिताम्॥ ५९॥

४. आवन्त्या यथा—

पाञ्चालनेपथ्यविधिर्नराणां स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः।
वन्दामहे वन्द्यतमं पुनस्तमन्योन्यसम्भिन्नमवन्तिदेशे॥ ६०॥

यथा वा—(विक्र. ३.१२)

सितांशुका मङ्गलसूत्रभूषणा विविक्तदूर्वाङ्‍कुरलाञ्छितालका।
व्रतोपवासोज्झितगर्ववृत्तिका मम प्रसन्ना वपुषैव लक्ष्यते॥ ६०a॥

मनोवाग्बुद्धिजारम्भाः क्रमेणैते प्रदर्शिताः।
अतः शरीरजारम्भप्रकारोऽयं प्रपञ्च्यते॥ ६१॥

मनोवाग्बुद्धिजन्मान आरम्भास्तु सहस्त्रशः।
भरतादिप्रणीतत्वात् किं त्विहैते न दर्शिताः॥ ६२॥

लीलादयोऽधर—कपोल—विकल्प—१हासै— र्भ्रूतारकापुटविचेष्टितवीक्षितानि ।
षट्‍‌त्रिंदेव च दृशो भरतप्रणीताः काव्यक्रियोपकरणार्थमथोद्ध‌्रियन्ते ॥ ६३॥

(शरीरारम्भाः —१२)

तत्र —

१. शरीरारम्भेषु इष्टजनानुकृतिर्लीला; यथा— (गास. ४.७८)

जं जं करेसि जं जं, च जंपसे जह तुमं णिअच्छेसि।
तं तं अणुसिक्खिरीए दीहो दिअहो ण संपडइ॥ ६४॥

(यद्यत् करोषि यद् यज्जल्पसि यथा त्वं निरीक्षसे।
तत्तदनुशिक्षणशीलाया दीर्घो दिवसो न संपद्यते॥)

१. वासैः जो॰, रा॰ २. नेत्रभ्रूवक्त्रकर्मणां विशेषेण लसनं विलासः; यथा—(मामा. १.२८)

सभ्रूविलासमथ सोऽयमितीव नाम सप्रत्यभिज्ञमिव मामवलोक्य तस्याः।
अन्योन्यमेव चतुरेण सखीजनेन मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः॥ ६५॥

३. विभूषणादिनामनादरविन्यासो विच्छित्तिः; यथा—

अङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरागसुभगोऽधरपल्लवश्च।
अच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं; विभवस्तु शेषः॥ ६६॥

४. भूषणादीनामस्थानप्रयोगो विभ्रमः; यथा—

चकार काचित् सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे।
प्रियं प्रति प्रेषितचित्तवृत्तिर्नितम्बबिम्बे च बबन्ध हारम्॥ ६७॥

५. स्मितरुदितहसितादीनां हर्षादसकृदेकीकरणं किलकिञ्चितम्; यथा—

पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्द्धनिमेषाः।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य॥ ६८॥ (किराता. ९.५०)

६. इष्टजनकथायां तद्भावभावनोत्थितो विकारो मोट्टायितम्; यथा— (माघ. ९.६४)

तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः।
घनतां ध्रुवं नयति तेन भवद्‌गुणपूगपूरितमतृप्‍ततया॥ ६९॥

७. केशस्तनाधरादिग्रहणाद् दुःखेऽपि सुखबुद्धिचेष्टा कुट्टमितम्; यथा— (किराता. ९.४९)

आदृता नखपदैः परिरम्भाश्‍चुम्बितानि घनदन्तनिपातैः।
सौकुमार्यगुणसम्भृतकीर्त्तिर्वाम एव सुरतेष्वपि कामः॥ ७०॥

८. अभीष्टप्राप्‍तावमानगर्वसम्भावनादरकृतो विकारो बिब्बोकः; यथा—

निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा।
शैलराजतनया समीपगामाललाप विजयामहेतुकम्॥ ७१॥

(कुसं. ८. ४९) ९. सुकुमारतया करचरणाङ्गन्यासो ललितम्; यथा—(माघ. ७.१९)

गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा।
इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम॥ ७२॥

१०. वक्तव्यसमयेऽपि वचसाऽनभिभाष्य क्रियानुष्ठानं विहृतम्; यथा—

पत्युः शिरश्चन्द्रकलामनेन॥ ७३॥ (कुसं. ७.१९, पृ॰ ८८८)

११. वाल्यकौमारयौवनसाधारणो विहारविशेषः क्रीडितम्; यथा—(कुसं. १.२९)

मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च।
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये॥ ७४॥

१२. क्रिडितमेव प्रियतमविषयं केलिः; यथा—(कुसं. ५.७४)

इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया।
निवर्तितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते॥ ७५॥**

विनिष्क्रमो विसर्गः; यथा—(शाकु. ३.२२)

मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम्।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं, न चुम्बितं तु॥ ७६॥

प्रवेशो विनिगूहनम् (नाशा. ८.१४३); यथा—

मज्झिमरेभागअगाढज्झसुरसीमंतिओ सुभावेइ।
इज्जाणित्थामुब्भिण्णहासथे ओ हुरो अहरो(?)॥ ७७॥

दन्तैर्ग्रहणं सन्दष्टकम् (नाशा. ८.१४३); यथा— (माघ. १७.२)

सरागया स्त्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया।
मुहुर्मुहुर्दशनविघट्टितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे॥ ७८॥

संहितोद्गमः समुद्रः (नाशा. ८.१४३); यथा— (गास. १. २२)

आअरपणामिओट्ठं अघडिअणासं असंगअणिडालं।
वण्णघअलिप्पमुहीएँ तीएँ परिचुंबणं भरिमो॥ ७९॥

{आदरप्रणामितोष्ठम् अघटितनासम् असंगतनिटिलम्।
वर्णघृतलिप्‍तमुख्यास्तस्याः परिचुम्बनं स्मरामः॥}

** इत आरभ्य विसर्गात् पूर्वं यावन्महान् ग्रन्थपातः। लीलादीनामनन्तरमधरकर्माणि, तेषां लक्षणोदाहरणानि, तत्र अवतारिका, षण्णामधरकर्मणां नामत उद्देशः, विवर्तनकम्पनयोः प्रथमद्वितीययोर्लक्षणोदाहरणानि च त्रुटितानि। दृश्‍यतां ना. शा. ८.१४२—५। (कपोलारम्भाः —६)

अथ कपोलारम्भाः — क्षामं, फुल्लम्, पूर्णं(घूर्णं), कम्पितं, कुञ्चितं, समं (नाशा. १३६–१४१) चेति। तत्र—

१. अवनतं क्षामं ; यथा—

परिक्षामकपोलेषु पुलकोद्भेदचारुषु।
कान्तावक्त्रेषु काऽम्भोजेष्ववर्धत तदा धृतिः॥ ८०॥

२. विकसितं फुल्लं ; यथा (पृ॰ १०५९) —

कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम्।
मुहुः पश्‍यञ् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः॥ ८१॥

३. उन्नतं पूर्णं/घूर्णं ; यथा—(गास. १.९६)

णासं व सा कओले अज्ज वि तुह दंतमंडणं/लं बाला।
उब्भिण्णपुलअवइ—वेढपरिगअं रक्खइ वराई॥ ८२॥

(न्यासमिव सा कपोले अद्यापि तव दन्तमण्डनं बाला।
उद्भिन्नपुलकपरिवृतिवेष्टनपरिगतं रक्षति वराकी॥)

४. स्फुरितं कम्पितं ; यथा—

एकत्रासनसंस्थिते प्रियतमे पश्चादुपेत्यादरात्॰॥ ८३॥

(पृ.९५९) ५. संकुचितं कुञ्चितं ; यथा—

मा अद्दलसाअडिरीए संकुइअगंडपासाए।
हसितं(अं)अधोमुहीए किं वरअं संभरन्तीए॥ ८४॥

(मा आर्द्रालसादराया सङ्‍कुचितगण्डपाशायाः।
हसितमधोमुख्याः किं वरकं संस्मरन्त्याः॥)

६. प्रकृतिस्थं समं ; यथा—(सूमु. ९६/९७)

पायात् पयोधिदुहितुः कपोलामलचन्द्रमाः।
यत्र संक्रान्तबिम्बेन हरिणा हरिणायितम्॥ ८५॥

(हासारम्भाः —६)

अथ हासारम्भाः — स्मितं, हसितं, विहसितम्, उपहसितम्, अपहसितम्, अतिहसितं चेति।

१. ईषद्धसितं स्मितं; यथा— (कुसं. १.४४)

पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्।
ततोऽनुकुर्याद् विशदस्य तस्यास्ताम्रोष्ठपर्यस्तरुचः स्मितस्य॥ ८६॥

२. दृष्टदशनकान्ति हसितं ; यथा—

तिमिरनिरुद्धभीमरजनीमुखचन्द्रिकया गणपतिताण्डवाभिनयदर्शनदीपिकया।
अभिभवसि त्वमद्य शशिनः श्रियमुत्कटया दशनमयूखमञ्जरितया हसितप्रभया॥ ८७॥

३. तदेव किञ्चित्सविशेषं विहसितं; यथा—

च्युतामिन्दोर्लेखां रतिकलहमग्‍नं च वलयं समं चक्रीकृत्य प्रहसितवती शैलतनया।
अवोचद् यं पश्‍येत्यवतु स शिवः, सा च गिरिजा, स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः॥ ८८॥

४. तदेव सोत्प्रासमुपहसितं; यथा—

स एष भुवनत्रयप्रथितसंयमः शङ्करः॰॥ ८९॥

(पृ. ५४०) ५. तदेव सावज्ञमपहसितं; यथा—

घुणप्रघुणभङ्गु(रं) पशुपतेः पुराणजा(?)(/पुराणास्‍त्रक)१ निरीक्ष्य भुजमण्डलीबलमदाद् विकीर्णं मया।
स एष न तितिक्षते समरसीम्‍नि सीरध्वजः समं हसत हे मुखान्यसममेतदुद्‍घट्टकम्॥ ९०॥

६. हासप्रकर्षोऽतिहसितम्; यथा—(सेब. १.७)

जस्स विलग्गंति णहप्फुडपडिसद्दा दिसा—अड—पडिक्खलिआ।
जोण्हकल्लोला विअ ससिधअलासु रअणीसु हसिअच्छेआ॥ ९१॥

१. खट्‍वाङ्गसंज्ञमस्‍त्रम्। (यस्य विलगन्ति नभः—स्फुटप्रतिशब्दाः दिक्‍तटपरिस्खलिताः।
ज्योत्‍स्‍नाकल्लोला इव शशिधवलासु रजनीषु हसितच्छेदाः॥)

(भ्रूकर्म —७)

अथ भ्रूकर्माणि— उत्क्षेपः,पातनं, भ्रूकुटिः, चतुरं, (नि)कुञ्चितं, रेचितं, सहजमिति।

१. भ्रुवोरुद्गतरुत्क्षेपः सममेकैकशोऽपि वा (नाशा. ८.११९)। यथा—(रत्‍ना. २.२०)

भ्रूभङ्गे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया, मुक्तश्च न प्रश्रयः॥ ९२॥

२. सममेकैकशो वापि पातनं स्यादधोगतिः। यथा—(कुसं. ३.६०)

तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम्।
प्रवेश्‍यामास च भर्तुरेनां भ्रूक्षेपमात्रानुमतप्रवेशाम्॥ ९३॥

३. भ्रुवोर्मूलसमुत्क्षेपो भ्रुकुटिः (नाशा. ८.१२१), यथा—(शाकु. ५.२३)

मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने।
भेदाद् भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्‍नं शरसनमिवातिरुषा स्मरस्य॥ ९४॥

४. किञ्चिदुच्छ्वासाद् भ्रुवोर्मधुरायतता चतुरं (नाशा. ८.१२२) यथा—

स्तिमितविकसितानामुल्लसद्‍भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम्।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम्॥ ९५॥

५. एकस्या उभयोर्वाऽपि मृदुभङ्गे निकुञ्चितं (नाशा. ८.१२३) यथा—

मानयोग्यां करोमीति प्रियस्थाने स्थितां सखीम्।
बाला भ्रूभङ्गजिह्याक्षी पश्‍यति स्फुरिताधरा॥ ९६॥

६. एकस्या एव ललितादुत्क्षेपादेरुद्रेचितं भ्रुवः। (नाशा.८.१२३)यथा—(शाकु. ३.१२)

उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन॥ ९७॥

७. स्वाभाविकं सहजं (नाशा. ८.१२४) यथा—

अस्या स्मेरमिवाननं मधुरया कान्त्या कपोलस्थले मध्यस्थेऽपि जने विलोलवलितभ्रूलेखमालोकितम्।
यातं मन्दपदं घनस्य जघनस्यैवापारधेन यत् तत् साम्यप्रियमन्यथा मम मनोजातानि मा(सा) शङ्कते॥ ९८॥

(ताराकर्म —९)

अथ ताराकर्माणि(नाशा. ८.९६)— भ्रमणं, वलनं(गमनं), पातनं, चलनं, संप्रवेशनं(प्रवेशः), विवर्तनं, समुद्‍वृतं, निष्क्र/ष्क्रामः, प्राकृतं चेति।

१. तारयो(श्‍चक्षुः) पुटान्तर्मण्डलाऽऽवृत्तिः भ्रमणं; यथा—(नाशा. ८.१०२)

भ्रमिषु कृतपुटान्तर्मण्डलावर्ति चक्षुः प्रचलितचतुरभ्रूताण्डवैर्मण्डयन्त्या ।
करकिसलयतालैर्मुग्धया नर्त्यमानं सुतमिव मनसा त्वां वत्सलेन स्मरामि॥ ९९॥

२. त्र्यश्रं गमनं(वलनं) (नाशा. ८.९९); यथा—

मिथ्यामीलदारलपक्ष्मणि वलन्त्यन्तः कुरङ्गीदृशो दीर्घापाङ्गसरित्तरङ्गतरले तल्पोन्मुखं चक्षुषि।
पत्युः केलिमतः कथां विरमयन्नन्योन्यकण्डूयनैः कोऽयं व्याहरतीत्युदीर्य निरगात् सव्याजमालीजनः॥ १००॥

३. अधोऽवस्रंसनं पातनं (नाशा. ८.९८); यथा—(मेघ. ४६)

त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम्।
प्रेक्षिष्यन्ते गगनविषयाद् दूरमावर्ज्य दृष्टी— रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्॥ १०१॥

४. विलोलता चलनं; यथा—(कुसं. ३.५६)

सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं(र)द्विरेफम्।
प्रतिक्षणं संभ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती॥ १०२॥

५. अन्तःप्रवेशनं प्रवेशः (/संप्रवेशनम्) (नाशा. ८.९९); यथा—(हर्षच. १.२)

हरकण्ठग्रहानन्दमीलिताक्षीं नमाम्युमाम्।
कालकूटविषस्पर्शजातमूर्च्छागमामिव॥ १०३॥

६. कटाक्षो विवर्तनं (नाशा. ८.१०१); यथा—

श्रियः क्षीराम्भोधेर्निजविनयनम्रेण वपुषा शनैरुत्तिष्ठन्त्याः वलनलुलितेन्दीवरदृशः।
कटाक्षो मन्दाक्षस्तिमितवलितभ्रुर्हरिमनु प्रकीर्णः कालिन्दीलघुलहरिवृत्तिर्विजयते॥ १०४॥

७. समुन्नतिः समुद‍्वृत्तं (नाशा. ८.१०१); यथा— (रत्‍ना. २.१०)

कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्या नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निष्पन्दतामागता।
मद्‍दृष्टिः स्तिमितेव सम्प्रति शनैरारुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने॥ १०५॥

८. निर्गमो निष्क्रमः (/निष्क्रामः) (नाशा. ८.१०१); यथा— (कुसं. ३.७१)

तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य।
स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात॥ १०६॥

९. स्वाभाविकं प्राकृतं (नाशा. ८.१०१); यथा—(कुसं. ७.३६)

इत्यद्भ‍ुतैकप्रभवः प्रभावात् प्रसिद्धनेपथ्यविधेर्विधाता।
आत्मनमासन्नगणोपनीते खड्‍गे निषक्तप्रतिमं ददर्श॥ १०७॥

(अक्षिपुटकर्म —९)

अथाक्षिपुटकर्माणि — उन्मेषः, निमेषः, प्रसृतं, (सङ‍्)कुञ्चितं, समं, विवर्तितं, स्फुरितं, पिहितं, वितानि(/लि)तमिति (नाशा. ८.११२)।

१. पुटविश्लेष उन्मेषः (नाशा. ८.११३); यथा—(कुसं. ८.३)

कैतवेन शयिते कुतूहलात् पार्वती प्रति मुखं निपातितम्।
चक्षुरुन्मिषति सम्मितं प्रिये विद्युदाहतमिव न्यमीलयत्॥ १०८॥

२. पुटसमागमो निमेषः (नाशा. ८.११३); यथा—(कुसं. ८.८४)

केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्‍‌क्तिषु।
तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम्॥ १०९॥

तुषारलेशाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः।
अगूढभावाऽपि विलोकने सा न लोचने मीलयितुं विषेहे॥ ११०॥१

(किराता. ३.३६)

४. ईषत्सङ्कोचः सङ्‍कुचितं (नाशा. ८.११४); यथा—

यस्यारातिनितिम्बिनीभिरभितो वीक्ष्याम्बरं प्रावृषि स्फूर्जद्गर्जितनिर्जिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् ।
उत्सृष्टप्रसभाभिषेणनभयस्पष्ट—प्रमोदाश्रुभिः किञ्चित्कुञ्चितलोचनाभिरसकृत् प्राप्‍ताः/घ्राताः कदम्बानिलाः॥ १११॥

५. स्वाभाविकं समं (नाशा. ८.११४); यथा—(कुसं. ३.४७)

किञ्चित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः।
नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः॥ ११२॥

६. समुद‍्वृत्तं विवर्तितं (नाशा. ८.११४); यथा—(वेसं. ४.१०)

पर्याप्‍तनेत्रमचिरोद्गतचन्द्रकान्तमुद्भिद्यमाननवयौवनरम्यचिह्नम् ।
प्राणापहारपरिवर्तितदृष्टि दृष्टं कर्णेन तत् कथमिवाननपङ्कजं ते॥ ११३॥

७. स्पन्दितं स्फुरितं (नाशा. ८.११४); यथा—(मेघ. ९२)

रुद्धापाङ्गप्रसरमलकैरञ्जनस्‍नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाकुलकुवलयश्रीतुलामेष्यतीति॥ ११४॥

१. प्रसृतमित्यस्य तृतीयभेदस्योदाहरणं नोपलभ्यते। ८. स्थगितं पिहितं (नाशा. ८.११५); यथा—(किराता. ८.५०)

उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम्।
मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्‍नीवदनादिवाददे॥ ११५॥

९. अभिहतं वितालि(/नि)तं (नाशा. ८.११५); यथा—(गास. ५.६०)

पाअडिअं सोहग्गं तंवाए उअह गोट्ठमज्झम्मि।
दुट्ठ(च्‍च)वसहस्स सिंगे अक्खि(च्छ)उडं कंडुअतीए॥ ११६॥

(प्रकटितं सौभाग्यं गवा पश्यत गोष्ठमध्ये।
दृष्टवृषभस्य शृङ्गेऽक्षिपुटं कण्डूयन्त्या॥)

(अवलोकनप्रकाराः —९)

(नाशा. ८.१०७–११०) अवलोकनप्रकाराः — समं, साचि, परावृत्तम्, अनुवृत्तम्, विलोकितम्, आलोकितम्, प्रलोकितम्, उल्लोकितम्, अवलोकितं चेति।

१. सौम्यसमतारं समं; यथा—

देहस्था दर्पणे यस्य पश्‍यति प्रतिमामुमा।
अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम् ॥ ११७॥

२. पक्ष्मान्तर्गतत्र्यश्रतारं साचि (नाशा. ८.१०७); यथा— (गास. २.४८)

णिद्दालस—परिघुम्मिर—तंस—वलंतद्धतारआलोआ।
कामस्स वि दुव्विसहा, दिट्टिणिवाआ ससिमुहीणं॥ ११८॥

(निद्रालसपरिघूर्णनशीलत्र्यश्रवलदर्धतारकालोकाः ।
कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुखीताम्॥)

३. पश्चाद् वलितग्रीवं (नाशा. ८.३३) परावृत्तं; यथा—(मामा. १.३२)

यान्त्या मुहुर्वलितकन्धरमाननं तद् आवृत्तवृन्तशतपत्रनिभं वहन्त्या।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः॥ ११९॥

४. रूपवर्णनायुक्तमनुवृत्तं; यथा—

लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते।
उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलकाण्डमृणालदण्डाः॥ १२०॥

५. अग्रतो दृष्टं विलोकितं; यथा—(किराता. १३.३५)

विलोकनेनैव तवामुना मुने ! कृतः पवित्रोऽस्मि निवर्हितांहसा।
तथाऽपि शुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते ?॥ १२१॥

६. सहसा दृष्टमालोकितं यथा—(किराता. १३.३५)

तत्र कार्मुकधरं महाभुजं पश्‍यति स्म सहसा वनेचरम्।
सन्निकाशयितुमग्रतः स्थितं शासनं मकरकेतुविद्विषः॥ १२२॥

७. पार्श्वतो दृष्टं प्रलोकितं (नाशा. ८.१०९) यथा—(कुसं. ३.६९)

अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद् बलवन्निगृह्य।
हेतुं स्वचेतोविकृतेर्दिदृक्षुर्दिशामुपान्तेषु ससर्ज दृष्टिम्॥ १२३॥

८. ऊर्ध्वं दृष्टमुल्लोकितं; (नाशा. ८.१०९) यथा—(कुसं. ५.२०)

शुचौ चतुर्णां ज्वलतां शुचिस्मिता हविर्भुजां मध्यगता सुमध्यमा।
विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत॥ १२४॥

९. अधोदृष्टमवलोकितं (नाशा. ८.१०९); यथा—

आकाशयानतटकोटिकृतैकपादा स्तद्धेमदण्डयुगलान्यवलम्ब्य हस्तैः ।
कौतूहलात् तव तरङ्गविघट्टितानि पश्‍यन्ति देवि! मनुजाः स्वकलेवराणि॥ १२५॥

(दृष्टयः —३६)

अथ कान्ताद्याः दृष्टयः षट्‍‍त्रिंशत्। तत्र —

हर्षप्रसादजनितात्यर्थं (नाशा. ८.४७) कोपामर्षंसमन्मथा भ्रूविक्षेपकटाक्षा च कान्ता; यथा— (मामा. १.३०)

स्तिमितविकसितानामुल्लसद्‍भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।
प्रतिनयननिपाते किञ्चिदाकुञ्जितानां विविधमहमभूवं पात्रमालोकितानाम्॥ १२६॥

प्रोद‍्वृत्तनिष्टब्धपुटा स्फुरदुद्‍्वृत्ततारकाऽत्यर्थभीता भयानका; यथा—(सेबं. २.४२)

सअरदंसणहित्था आक्खित्तोसरिअवेवमाणसरीरा।
सहसा लिहिअ व्व ठिआ णिप्फंदणिराअअलोअणा कविणिवहा॥ १२७॥

(सागरदर्शनत्रस्ताः आक्षिप्‍तापसृतवेपमानशरीराः।
सहसा लिखिता इव स्थिता निस्स्पन्दनिरायतलोचनाः कपिनिवहाः॥)

हास्या यथा— (नाशा. ८.४९)

सरभसहरकण्ठग्राहसंमीलिताक्षी विषमविषवितापा मूर्च्छिता वेति सास्रे।
शरवणभववक्त्रे वीक्षितं लोलतारं जयति खलु भवान्याः सालसं सस्मितं च॥ १२८॥

पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारिका नासाग्रानुगता च करुणा (नाशा. ८.५०); यथा—

ताराप्रेङ्खणवीतबाष्पपयसो यत्‍नेन सञ्चारिताः सीतायाः सविधस्थितेषु च मृगद्वन्द्वेषु वीरुत्सु च।
बाले वल्कलचीरवासिनि जवादुल्लङ्घ्य गम्भीरतां सौमित्रौ त पतन्ति वत्सलतया पुत्रस्य ते दृष्टयः॥ १२९॥

(बारा.६.४४) साश्‍चर्योद्‍वृत्ततारका आकुलितपक्ष्माग्रा विकसिता समा अद्‍भुता (नाशा. ८.५१); यथा—

तदेतदसितोल्लसद्‍द्युतिशरीरमस्मिन्नभू— न्ममातिदृढपीडनैरमिततृप्‍तिरालिङ्गकैः ।
यदुल्लसति विस्मयाद् बत निपीतवत्यः पुरा नवप्रणयविभ्रमाकुलितमालतीदृष्टयः ॥ १३०॥

(मामा.९.३८) क्रूरतारका भ्रकुटिकुटिला च रौद्रा (ना.शा. ८.५१); यथा—(किरा. १४.४९)

पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्दुधूषतः।
सरोषमुल्केव पपात भीषणा बलेषु दृष्टिर्विनिपातशंसिनी॥ १३१॥

दीप्‍ता विकसिता क्षुब्धा गम्भीरा समतारकोत्फुल्लमध्या च वीरा (ना.शा.८.५३) ; यथा—

ता से चिर मज्झ थेणिहु अ कअं।
तह मआ पडि दिअ. . . . . . . अम्मि णिसण्णा॥ १३२॥

निकुञ्चितपुटापाङ्गा घृणोपप्लुततारका संश्लिष्टस्थिरपक्ष्मा च बीभत्सा (नाशा. ८.५३) यथा—

त्रिशूलभिन्नान्धकरक्तधारामास्वादयन्त्यां युधि कालरात्रौ।
हरार्धदेहे मृडतां मृडान्यां दृष्टिर्घृणाघूर्णिततारका वः॥ १३३॥

‘व्याकोशा स्‍नेहमधुरा स्मितताराभिलाषिणी’ सानन्दभ्रूक्षता च स्‍निग्धा (नाशा. ८.५६);

यथा—(उराच. ३.२३)

विलुलितमतिपुरैर्बाष्पमानन्दशोक— प्रभवमव/पसृजन्ती पक्ष्मलोत्तानि दीर्घा।
स्‍नपयति हृदयेशं स्‍नेहनिस्स्यन्दिनी ते धवलमधुरमुग्धा दुग्धकुल्येव दृष्टिः॥ १३४॥

चला हसितगर्भा विशत्तारा निर्निमेषा किञ्चिदाकुञ्चिता च हृष्टा (नाशा. ८.५५)।

यथा—(मामा. ८.११)

कथयति त्वयि सस्मितमालतीवलितलोलकटाक्षपराहतम्।
वरदपङ्कजमुल्लसितत्रपालिधुरदृष्टि सखी नमयिष्यति॥ १३५॥

किञ्चित्संरुद्धतारम्भा अर्धस्रस्तोत्तरपुटा सास्रमन्दसञ्चारिणी च दीना (ना. ८.५६);

यथा—(शाकु.६.९)

इतः प्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता गृहे तिष्ठेत्युच्‍चैर्वदति गुरुशिष्ये गुरुसमे।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्, तत् सविषमिव शल्यं दहति माम्॥ १३६॥

‘रूक्षा स्थिरोद‍्वृत्तपुटा निष्टब्धोद‍्वृत्ततारका’ भ्रुकुटीकुटिला च क्रुद्धा (नाशा. ८. ५७);

यथा—

एंतो वि ण सच्‍चविओ गोसे पसरंतपल्लवारुणच्छाओ।
मज्जणतंबेसु मओ, तह सम/मअतंबेसबु लोअणेसु अमरिसो॥ १३७॥

{आगच्छन्नपि न दृष्टः प्रातः प्रसर—त्पल्लवारुणच्छायः।
मज्जनताम्रयोर्मदस्तथा मदताम्रयोर्लोचनयोरमर्षः॥}

संस्थिततारका विकसिता समत्त्वा च दृप्‍ता (ना.शा.८.६०), यथा— (उराच. ६.१९)

दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद् गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव॥ १३८॥

(भयाञ्चितदृष्टेर्लक्षणोदाहरणांशस्त्रुटितः) (ना.शा.८.६१)

विस्मयोद्‍वृत्ततारा नष्टोभयपुटाञ्चिता विकसिता च विस्मिता(नाशा. ८.६३); यथा— (मामा. १.२८)

अलसलुलितमुग्धस्निग्धनिस्स्पन्दमन्दैरधिकविकसदन्तर्विस्मयस्मेरतारैः।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च॥ १३९॥

समतारा समपुटा निष्कम्पा (शूनन्यदर्शिनी) बाह्यार्थाग्राहिणी (क्षामा/श्यामा) शून्या (ना.शा. ८.६५) यथा— (विसा. १.४१)

यद् भ्रूलते तरलिते यदुदङ्गुलीकः पाणिः पुरो यदपि चक्षुरलब्धलक्ष्यम्।
उत्सूत्रिताधरदलं च यदास्यमस्या— स्तत्कार्य/काव्यकर्मणि निषक्तमवैमि चेतः॥ १४०॥

प्रस्पन्दपक्ष्मा नात्यर्थमुकुला च मलिना (नाशा. ८.६४); यथा—

देव्याः सन्ततबाष्पवारिपटलच्छन्नेक्षणायाः करं चूडारत्नसमर्पणाय बहुशो यातं वृथैवान्यतः।
भ्राम्यन्तं पतदश्रुपूरितदृशो हस्तं ममाप्येकतो दृष्ट्‍वा तत्र निशाचरैरपि निजः स्वामी चिरं निन्दितः॥ १४१॥

श्रमप्रम्लापितपुटा क्षामाऽस्ताञ्चितलोचना सन्ना पतिततारका च श्रान्ता (नाशा. ८.६७); यथा—

क्लमोदयम्लापितपत्रसम्पुटा पुटान्तसं(पातित)—घर्मबिन्दवः।
दृशो भृशोन्मीलितरक्तराजयो (मधौ युवत्यो नु लता ल—)१ सन्ति॥ १४२॥

१. इदमस्माभिरपूरि। किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा त्रपाऽधोगततारा च सलज्जा (नाशा. ८.६८)। यथा— (रघु. ७.२३, कुसं. ७.७५)

तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिषु १कातराणि।
ह्नीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि॥ १४३॥

म्ला/ग्लानभ्रूपुटपक्ष्मा शिथिलसा क्लमप्रविष्टतारा मन्दसञ्चारिणी च ग्लाना (नाशा. ८.६७); यथा—

किं वर्तिर(?) परिम्लानरक्तोत्पलप X X X।
X X X X X X मा नेत्रपरम्परा॥ १४४॥

किञ्चिच्चलाऽस्थिरा किञ्चिदुन्नता तिर्यगायता।

मूढा चकिततारा च शङ्किता (नाशा. ८.६८)। यथा—

अपेतव्याहारं धुतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम्।
मुहुर्बद्धोत्कम्पं दिशि दिशि मुहुः प्रोरितदृशो— रहल्यासुत्राम्णोः क्षणिकमिह तत् सङ्गतमभूत्॥ १४५॥

विषादविस्तीर्णपुटा, पर्यस्तान्ता निमेषिणी, कि़ञ्चिन्निष्टब्धतारा च विषण्णा यथा— (उरा. ३.१६)

अभ्यासादनुगच्छति प्रियतमेत्याश्वासनप्रेरिता शून्यं मार्गमवेत्य/क्ष्य खेदविवशा दुःखं निवृत्तां ततः।
दृष्टिः संप्रति बाष्पपूरपतनैर्जिह्मीभवत्तारका सक्ता/शक्ता मे न पुरो निरीक्षितुमियं वत्स! क्षणं स्थीयताम्॥ १४६॥

(स्फुरदाशिलष्ट—)पक्ष्माग्र/र्धमुकुलोर्ध्वपुटाञ्चिता, सुखोन्मीलिततारा मुकुला (नाशा.८.७२); यथा—(कुसं. ८.६३)

अङ्गुलीभिरिव केशसञ्चयं सन्निगृह्य तिमिरं मरीचिभिः।
कुङ्‍मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥ १४७॥

१. तारकाणि जोशेरः, तारकाणि (निवर्त्तितानि)—राघवः। आनिकुञ्चितपक्ष्माग्रपुटतारा निकुञ्चिता (नाशा. ८.७९)

ईषत्तिर्यग्वलनविषमं कूणितप्रान्तमेतत् प्रेमोद्भेदस्तिमितचलनं किञ्चिदाकुञ्चितं च।
अन्तर्मोदानुभवमसृणस्त्रस्तनिष्कम्पपक्ष्म व्यक्तं शंसत्यचिरमनयोर्दृष्टिमाकेकराक्षम्॥ १४८॥

(मामा. ४.२) १ . . . . . . . . . . . . . .

मनोवाग्बुद्धिजा ये च ये चारम्भाः शरीरजाः।
अनुभावाः समेऽप्येते ते यथावत् प्रदर्शिताः॥ १४९॥

भावाः सञ्चारिणो ये च स्थायिनो ये च सात्त्विकाः।
सविभावानुभावास्ते श्रृङ्गारस्य प्रकाशकाः॥ १५०॥

प्रकृतिभवमितोऽभिमानसंज्ञं सममनुभावविभावसत्त्ववर्गः।
स्वमवसरमुपेयिवानुपास्ते नृपतिमिवाधिकृतोनुजीविवर्गः॥ १५१॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे अनुभावप्रकाशो नाम

॥ सप्‍तदशः प्रकाशः॥ १७॥

रेवाप्रसादेन सनातनेन च्छिन्नोऽप्यसौ यः समपादि कोषः।
अत्रापि पश्‍यन्तु बहूनि दिव्यदिव्यानि रत्नानि सुगोपितानि॥
असौ सप्‍तदशो भोजप्रकाशो भरतानुगान्।
दृष्टिभेदानुदाहृत्य नृत्यवेदायते तु नः॥

१. मातृकायां पुटद्वयपरिमिता त्रुटिरत्र, यत्र नाशा. ८. ७४–८४ निरूपिता ‘अभितप्‍ता, जिह्मा, ललिता, वितर्किता, अर्धमुकुला, विभ्रान्ता, विप्लुता, आकेकरा, विक्रोशा, स्त्र/त्रस्ता, मदिरा’ इति एकादश दृष्टिभेदा लुप्‍ताः।