अथ
श्रृङ्गरप्रकाशे षोडशः प्रकाशः
रत्युद्दीपनविभावप्रकाशः
इदानीमुद्दीपनविभावान् व्याख्यास्यामः। तत्र रत्यादि(कम्) उत्पन्नानुत्पन्न— (उत्पन्नानुत्पन्नविभावा)दि त्रिविधम्। तत्र—
(उद्दीपनविभावाः—१२)
रत्यादेः उद्दीपनविभावाः—ऋतूपकरणेतिहासश्रवण—देश—काल—कलाविचार— वयो—वयस्योपदेश—सन्देशोपचार—दैवसम्पदुपकार—स्मरणादयः। तत्र—
(१. ऋतुः)
ऋतुः षोढा वसन्तो, ग्रीष्मो, वर्षाः, शरत्, हेमन्तः, शिशिर इति। ते च प्रत्येकतश्चतुर्धा सन्धिरुत्पत्तिः प्रौढिरवसितिश्चेति। तत्र—
(१.१ वसन्तः) शिशिरवसन्तसन्धिर्यथा—
यत् पत्रं श्लथमूलनालमनवं पातोन्मुखं वर्तते यद् भङ्गाङ्कुरजन्मभिः क्षितिरुहां स्निग्धोन्नता ग्रन्थयः।
यच्छेदं हलिनीकुचोष्मसु हिमं स्वादु प्रवृत्तं ततः शीतार्तोश्च मधोश्च (कञ्चन मिथःसन्धिः परावर्त्तते)॥ १॥
यथा वा—
च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं ग्रन्थन्तीमे किरन्ति न कोकिलाः।
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम्॥ २॥
वसन्तोत्पत्तिर्यथा—(विक्र. २. ७)
अग्रे स्त्रीनखपाटलं कुरवकं श्यमां द्वयोर्भागयोर् बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति।
ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे! मध्ये मधुश्रीः स्थिता॥ ३॥
यथा वा—(विसा. १. ३२)
गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः।
किंच त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनु॥ ४॥
वसन्तप्रौढिर्यथा—(विसा. १. २५)
साम्यं संप्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैः कान्तिं कर्षति काञ्चनारकुसुमं माञ्जिष्ठधौतात् पटात्।
हूणीनां कुरुते मधूककुसुमं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरम्॥ ५॥
यथा वा—(बारा. ५. ४०)
सूते/साम्यं संप्रति दुग्धमुग्धसुभगं पुष्पोद्गमं मल्लिका बाह्लीकीदशनव्रणारुणदलैः पुष्पै/पत्रैरशोकोऽञ्चितः/ऽर्चितः।
भृङी्गलङ्घितकोटिकिंशुकमिदं किञ्चिद् विवृन्तायते माञ्जिष्ठैर्मुकुलैश्च पाटलितरोरन्यैव काचिल्लिपिः॥ ६॥
वसन्तावसितिर्यथा—
उपसरति वसन्तस्यावसानं मधूकद्रुमकुसुमकडारच्छायविश्रान्तकान्तम्।
ददति मुदमिदानीं भूमयः पामराणामविरलखलधानक्षोदकोलाहलिन्यः॥
यथा—(रघु. १६. ५०)
स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्त—सायन्तनमल्लिकेषु।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे पदमङ्गनानाम्॥ ८॥
(१. २ ग्रीष्मः)
वसन्तग्रीष्मसन्धिर्यथा—
(ग्लाना रात्रिर्निदाघे बत विरच)१—यति द्राघिमानं दिनानां२ वध्नन्त्यस्थि प्रगल्भं विफलसुमनसः संप्रतीमे मधूकाः।
किञ्चान्यत् पान्थयूनां हृदयधृतिमुषो भग्नकर्पूरगौरा राजन्ते लूनसस्याः सपदि कृषिभुवां सम्पदो नालशोषाः॥ ९॥
१. पूर्तिरस्मत्कृता २. द्राघिमा नन्दिनीनां जो॰ रा॰ यथा वा—(कामी. पृ. ११० दसं.)
गेहे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरा— नुन्मादः पामरीणां मरुति मरुवकामोदिनि व्यक्तिमेति।
सद्योभङ्गनुसारस्त्रुतसुरभिसिराशीकरः साहकारः सर्पन्नम्भश्शरावे रचयति च रसो रेचकीचन्द्रकाणि१॥ १०॥
ग्रीष्मोत्पत्तिर्यथा—
कर्णोत्तंसः शिशुशुकवधूपिञ्छनीलं शिरीषं सान्तस्सूत्राः परिमलमुचो मल्लिकानां च हाराः।
मुक्तागौरैर्वलयरचना कन्दलाग्रौर्विसानां ग्रीष्मारम्भे रमयति नवं मण्डनं कामिनीनाम्॥ ११॥
यथा वा—(सूमु. २२)
सा/सौहित्य—स्तिमितैरुदञ्चेदलसग्रीवाभिरामं मुहु— र्मध्येऽह्नः स्फुरदर्ककर्कशरुचि—प्रान्तस्थलीवर्तिभिः।
दत्ताः सिन्धुषु माहिषैः क्रमकृशस्त्रोतस्सु पङ्कोदरे निद्रामीलितपक्ष्मपत्रविवरव्यक्तारुणा दृष्टयः॥ १२॥
ग्रीष्मे प्रौढिर्यथा—
अपां मूले लीनं मृदु परिचितं चन्दनरसे मृणालीहारादौ कृतलघुपदं चन्द्रमसि च।
मुहूर्तं विश्रान्तं सरसकदलीकाननतले प्रियागाढाश्लेषे निवसति परं शैत्यमधुना॥ १३॥
यथा वा—
एतस्मिन् घनचन्द्रनार्द्रवपुषो निद्राकषायेक्षणा लीढा/लीला—लोलमृदूल्लसद्भुजलतं व्याजृम्भमाणा मुहुः।
निर्गच्छन्ति शनैरहःपरिणतौ सुप्ता लतामन्दिरात् स्वेदाम्भःकणदन्तुरस्तनतटाभोगाः कुरङ्गीदृशः॥ १४॥
१. रेचकी श्रृङ्गी पिचकारीपदवाच्या हिन्द्याम्। चन्द्रकाणि चक्राकाराणि चिह्नानि। रसो वर्णद्रव्यचित्रितो द्रवः रंगपदवाच्यः। ग्रीष्मावसितिर्यथा—
शुचे/शुचौ तप्ताङ्गीनां बहुलमकरन्दद्रवमुचः कदम्बप्रालम्बाः स्तनपरिसरे पक्ष्मलदृशाम्।
हठाल्लूनोष्माणः कमपि महिमानं विदधते जलक्रीडोत्तीर्णाप्रियतमभुजाबद्ध—शिशिराः॥ १५॥
यथा वा—(रघु. १६. ४६)
दिनेदिने शैवलवन्त्यधस्तात् सोपानपर्वाणि विमुञ्चदम्भः।
उद्दण्डपद्मं गृहगीर्धिकाणां नारिनितम्बद्वयसं बभूव॥ १६॥
(१.३ वर्षा)
ग्रीष्मवर्षासन्धिर्यथा—(मामा. ९. १७)
उत्फुल्लार्जुनसर्जवासित—वहत्पौरस्त्यझञ्झामरु— त्प्रेङ्खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः।
धारासिक्तवसुन्धरासुरभयः प्राप्तास्त एतेऽधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः॥ १७॥
यथा वा—
वातप्रोत्क्षिप्तधूलीपरिमलनसमुद्धूलिताङ्गः समन्ताद् दन्तोद्वेल्लद्वलाकाऽऽवलिकुणपशिरोनद्धलीलाब्भ्रकेशी(शः)।
प्रेङ्खद्विद्युत्पताकारुचिरसुरधनुः खङ्गखट्वाङ्गधारी संप्राप्तः प्रोषितस्त्रीप्रतिभयजननः कालकापालिकोऽयम्॥ १८॥
वर्षोत्पत्तिर्यथा—(सूमु. १४)
किञ्चिन्मुद्रितपांसवः शिखिकुलैः सानन्दमालोकिता भग्नाऽऽवासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः ।
एते ते निपतन्ति नूतनघनप्रावृट्दरारम्भिणो विञ्छायीकृतविप्रयुक्तवनितावक्त्रेन्दवो बिन्दवः॥ १९॥
यथा वा—
दूरोदञ्चित—पक्व—तालसरलैः षड्जस्वरस्वादुभिः संप्रत्युन्मदकेकिनां कलरवैरासूत्रितस्वागताः।
सद्यस्तापभरं हरन्ति भरितं प्रह्लादयन्तो हरे— रेकाकारनिवृत्तपांसुपटलस्वच्छाः समीरागमाः॥ २०॥
वर्षाप्रौढिर्यथा—
एतास्ताः सुरचापचित्रवपुषो विद्युल्लतालाञ्छिताः कान्तारद्विपकान्तिकान्तपृथुला पीना घनानां घटाः।
यद्गर्जामुरजाः शिखीण्डिवयसां दिङ्मण्डलीमञ्चके— षूद्दण्डाण्डजचण्डताण्डवरसैः कुर्वन्ति नृत्तोत्सवम्॥ २१॥
यथा वा—
सञ्छन्ने जलवामनैर्जलधरैर्व्योम्नि प्रसुप्ते जने देवे गर्जति दिङ्मुखेषु चरति स्वैरं कदम्बानिले।
उत्कण्ठायति च प्रवर्षति घने दाशान् धरा मूर्च्छति प्रोन्मथ्नन्ति मनांसि मांसलमिलद्दीर्घान्धकाराः क्षपाः॥ २२॥
वर्षावसितिर्यथा—
मूले लोलकरीरकन्दलघनाः काण्डे ततः पाण्डवः किञ्चिन्मेदुरमण्डले परुषि च प्रौढास्थिरूढत्वचः।
अग्रे सूच्छ्रितपत्रषण्डगहनाः संप्रत्यमी प्रावृषि क्षीणायां हरितो हरन्ति हलिनां चक्षूंषि बालेक्षवः॥ २३॥
यथा वा—(किराता. ४. २४)
विपाण्डुभिर्ग्लानतया पयोधरैशच्युताचिराभागुणहेमदामभिः।
इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते॥ २४॥
(१.४ शरत्)
(शरत्)सन्धिर्यथा—
उन्मग्नवञ्जुलहतानि वनापगानामाश्यानशैवलतरङ्गितसैकतानि।
निम्नावशेषसलिलानि मनो हरन्ति रोधांसि हंसपदमुद्रितकर्दमानि॥ २५॥
यथा वा—
नद्यो वहन्ति कुटिलक्रमयुक्तशुक्तिरेखाङ्कबालपुलिनोदरसुप्तकृष्टाः/कूर्माः।
एतास्तरङ्गि—तनु—तोयपलायमानमीनानुसारिवकदन्तकरालपा/फालाः॥
शरत्प्रवृत्तिर्यथा—
अवतरति घनात्ययः किमन्यद् विकसितकञ्जमकेसरावतंसः।
परिसरपुलिनेषु निम्नगानां सपदि समागतराजहंसयूथः॥ २७॥
यथा वा—(ध्व. ४७)
हंसानां निनदेषु यैः कबलितैरासज्यते कूजता— मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो निस्वनः।
ते संप्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः॥ २८॥
शरत्प्रौढिर्यथा—(ध्व. १. १३ लोचने)
ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधनाऽऽर्द्रनखक्षताभम्।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार॥ २९॥
यथा वा—
तीव्रं रविस्तपति नीच इवाचिरढ्यः श्रृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः।
तोयं प्रसीदति मुनेरिव चित्तवृत्तिः कामं दरिद्र इव शोषमुपैति पङ्कः॥ ३०॥
शरदवसितिर्यथा—
केदार एव कलमाः परिणामनग्राः प्राचीनमामलकमर्घति पाकनीलम्।
ऊर्वारुकं स्फुटति निर्गतगर्भगन्धमम्लीभवन्ति च जरत्त्रीपुषीफलानि॥ ३१॥
यथा वा—
तिक्ताधिवासान्यधुना पुराणमाञ्जिष्ठचेलच्छविधूसराणि।
अलम्बुसायाः कुसुमानि सीम्नि लोलन्ति मन्दं मरुदाहृतानि॥ ३२॥
(१. ५ हेमन्तः)
शरद्धेमन्तसन्धिर्यथा—
माषैर्मांसलितां तिलैस्तिलकितां स्त्रग्धूसरां धूसरै— र्वल्लीं दूरतरं निमीलदवटां वाटैर्वृतां व्रीहिभिः।
कार्पासोद्धृषितामुदारकवनोदारां कुलुत्थाकुला— मस्तोपद्रवकोद्रवामिह महीं दृष्ट्वा जनो नन्दति॥ ३३॥
यथा वा—
क्वापि प्रत्यग्रपाकक्रमकपिशनमन्मञ्जरीभारभुग्न— व्रिहिस्तम्बाभिरामाः, क्वचिदरुणगुणश्रेणिभिः, शोणभासः।
एताश्चेतांसि संप्रत्यधिवसति भुवः क्वापि नीरन्ध्रनीलं प्रोद्यद्गोधूमसूचीचयहरितरुचः काममुत्कण्ठयन्ति॥ ३४॥
हेमन्तोत्पत्तिर्यथा—
द्वित्रमुचुकुन्दमुकुलस्त्रिचतुरकुसुमः क्रमेण लवलीषु।
पञ्चषफलिनीकलिको जयति हिमर्तुर्नवावतरः॥ ३५॥
यथा वा—
प्रविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः।
गुणमसमजयं चिराय लेभे विरलतुषारकणस्तुषारकालः॥ ३६॥
हेमन्तप्रौढिर्यथा—
तिरयति तरणिं स्वःशर्कराली कराली सरति सरलयामाः संप्रतीमास्त्रियामाः।
नवनिबिडकुचोष्मोपासनाभिर्युवान— स्तरुणतरनिमज्जज्जानयो मानयन्ति॥ ३७॥
यथा वा—
विरहविधुरमुत्कं लोकमुत्कम्पयन्ती नवनिबिडजडिम्ना हैमनीयं हिमानी।
जयति परममस्त्रं जैत्रमेकं भवारेरधिरजनि जनीनां पूज्यकर्मा कुचोष्मा॥ ३८॥
हेमन्तावसितिर्यथा—
इह हि वहति कामं कामकोदण्डयष्टिर्द्रमिडयुवतिगण्डश्यामिकां कोशकारः।
चिरचितदलरक्ता बर्हिकण्ठीपलाण्डुः स्फुरति च रुचिमत्ता पर्वणां पुण्ड्रकस्य॥ ३९॥
यथा वा—
शालिच्छेदसमृद्धहालिकगृहा संमृष्टनीलोत्पल— स्निग्धश्यामयवप्ररोहनिवहव्यादीर्घसीमोदराः ।
मोदन्ते परिवृत्तधेन्वनडुहच्छाया पलालैर्नवैः संसिक्तध्वनदिक्षुयन्त्रमुखरा ग्रामा गुडामोदिनः॥ ४०॥
(६. शिशिरः)
हेमन्तशिशिरसन्धिर्यथा—
अज्ञ/अङ्ग—स्थौल्यश्वयथुभिषजः सौरभेयप्रजानां वान्ति स्वैरं सरसिजवनव्याधयो गन्धवाहाः।
ये तन्वन्ति प्रशिथिलभुजालिङ्गितप्रेयसीनां सद्यो यूनां सुरतविरतावर्धनारीश्वरत्वम्॥ ४१॥
यथा वा—
कम्पन्ते कपयो भृशं कृशजडं गोऽजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति।
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत् स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति॥ ४२॥
शिशिरोत्पत्तिर्यथा—
भासाऽर्कस्य हतप्रभं विकिरणाद् धूमायमानं मनाङ् निर्वाणैः स्वजनाञ्चनाद् वलयितं स्वैर्भस्मनां राशिभिः।
किञ्चिच्छेषनिशातुषारमधुरस्पर्शं गृहार्धाङ्गणे शय्योत्थायमिह व्रजन्ति हलिनां बालाः कुकूलानलम्॥ ४३॥
यथा वा—
अभिनववधूरोषस्वादुः करीषतनूनपादसरलजनाश्लेषक्रूरस्तुषारसमीरणः।
गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवेर्विरहवनितावक्त्रक्लैब्यं बिभर्ति निशाकरः॥
शिशिरप्रोढिर्यथा—
दैर्घ्यादत्र निशां हिमैकसुहृदां सीमानमासेदुषो— र्मानग्रन्थिरभीष्टयोर्विघटते गाढोऽपि सायन्तनः।
प्रातः किञ्च रतश्रमार्पिततृषः सीत्कारकारं पयः पायं पायमुपानमन्ति ललनाः प्रक्रान्तदन्तग्रहम्॥ ४५॥
यथा वा—
रात्रिर्विचित्रसुरतोचितयामदैर्घ्या चण्डो मरुद् वहति कुङ्कुमपङ्कसाध्यः।
कल्यस्थितिर्द्विगुणतूलपटा किमन्यदर्हन्ति चात्र विततागरुधूपधूमाः॥ ४६॥
शिशिरावसितिर्यथा—
पानेऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न चात्र।
नो दुर्भगासुभगयोः परिरम्भणे च नो सेवने च शशिभास्करयोर्विशेषः॥ ४७॥
यथा वा—
आश्लेषिणः पृथुतरक्लमशीतशीतामायामिनीं घनमुदो रजनीं युवानः।
ऊर्वोर्मुहुर्वलनबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ ४८॥
(२. उपकरणम्)
उपकरणान्यनन्तानि, माल्याङ्गरागानुलेपन—चन्दन—वस्त्रताम्बूलाभरणमदिरा— मन्दिरतल्पदीपधूपादिभेदात्। तत्र
माल्यं यथा—(कुसं. ३.५३)
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युति कर्णिकारम्।
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती॥ ४९॥
यथा वा—(कुसं. ३.५५)
स्रस्तां नितम्बादवलम्बमाना पदे पदे केसरदामकाञ्चीम्।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य॥ ५०॥
अङ्गरागो यथा—(कुसं. ७.९)
तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम्।
वासो वसानाभिषेकयोग्यं नार्यश्चतुष्काभिमुखीमनैषुः॥ ५१॥
यथा वा—(रघु. ६.६०)
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।
आभाति बालातपलिप्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ ५२॥
अनुलेपनं यथा—(मामा. १.४०)
घर्माम्भोविसरविवर्तनैरिदानीं मुग्धाक्ष्याः परिजनचारु/वार—सुन्दरीणाम्।
तत्प्रातिर्विहितविचित्रपत्रलेखावैदग्ध्यं जहति कपोलकुङ्कुमानि॥ ५३॥
यथा वा—(कुसं. ७.१५)
विन्यस्तशुक्लागुरु चक्रुरङ्गं गोरोचनापत्रविभक्तमस्याः।
सा चक्रवाकाङ्कितसैकतायाः त्रिस्रोतसः कान्तिमतीत्य तस्थौ॥ ५४॥
वस्त्रं यथा—(कुसं. ३.५४)
आवर्जिता किञ्चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम्।
प्रकीर्णपुष्पस्तबकावनम्रा सञ्चारिणी पल्लविनी लतेव॥ ५५॥
यथा वा—(कुसं. ७.११)
सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा।
निर्वृत्तपर्जन्यजलाभिषेका प्रवृत्त/प्रफुल्ल—काशा वसुधेव रेजे॥ ५६॥
ताम्बूलं यथा—
आर्द्रक्रमुकमापाण्डु पत्रं नागरखण्डकम्।
द्राविडीवक्त्रमित्येव जैत्रं तत्र मनोभुवः॥ ५७॥
यथा वा—
पत्रं नागरखण्डमार्द्रसुभगं पूगीफलं फालयः कर्पूरस्य च यत्र कोऽपि चतुरस्ताम्बूलयोगक्रमः।
देशः केरल एष केलिसदनं देवस्य चेतोभुवः— स्तं दृष्ट््वा कुरु कोमलाङ्गि ! सफले द्राघीयसी लोचने॥ ५८॥
अभारणं यथा—(कुसं. १.४२)
कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य।
अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः॥ ५९॥
यथा वा—(माघ. ३.५)
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा।
अवाप बाल्योचितनीलकण्ठपिञ्छावचूडाकलनामिवोरः॥ ६०॥
मदिरा यथा—(माघ. १०.३)
क्रान्तकान्तवदनप्रतिबिम्वे भग्नबालसहकारसुगन्धौ।
स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥ ६१॥
यथा वा—(किराता. ९.५५)
स्वादितः स्वयमथैधितमानं लम्भितः प्रियतमैः सह पीतः।
आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे॥ ६२॥
मन्दिरं यथा—(मेघ. ७३)
तत्रागारं धनपतिगृहादु/नुरेणास्मदीयं दूराल्लक्ष्यं सरपतिधनुश्चारुणा तोरणेन।
यस्योद्याने कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः॥ ६३॥
यथा वा—(मेघ. ६३)
विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः सङ्गीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम्।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः॥ ६४॥
तल्पं यथा—(कुसं. ८.८२)
तत्र हंसधवलोत्तरच्छेदं जाह्नवीपुलिनचारुदर्शनम्।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः॥ ६५॥
यथा वा—(माघ. १०.३९)
स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय।
सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च॥ ६६॥
दीपो यथा—
निर्यता परिजनेन बोधितः पूर्यमाण/स्फूर्जमानरुचिरुल्लसद्दशः।
द्रावसंवलनमांसलोऽधिकं दीपकश्च मदनश्च दिद्युते॥ ६७॥
यथा वा—(कुसं. १.१०)
वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः॥ ६८॥
धूपो यथा—(कुसं. ७.१४)
धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम्।
पर्याक्षिपत् काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना॥ ६९॥
यथा वा—(माघ. ९.५२)
निजपाणिपल्लवतलस्खलनादभिनासिकाविवरमुत्पतितैः।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसितैः॥ ७०॥
(३. इतिहासश्रवणम्)
इतिहासश्रवणं यथा—(किराता. ५.३३)
अस्मिन्नगृह्यत पिनाकभृता सलीलमाबद्धवेपथुरधीरविलोचनायाः।
विन्यस्तमङ्गलमहौषाधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः॥ ७१॥
यथा वा—
अपेतव्याहारं धुतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् ।
मुहुर्बद्धोत्कम्पं दिशि दिशि मुहुः प्रेरितदृशो— रहल्यासुत्राम्णोः क्षणिकमिह तत्सङ्गतमभूत्॥ ७२॥
(४. देशः)
देशस्त्वनेकधा, ग्रामपत्तनोपवनकान्तारपर्वतसरसीसरित्सरस्समुद्रवापीदीर्घिका— दिभेदात्। तत्र ग्रामरमणीयता यथा—
आभोगिनः किमपि संप्रति वासरान्ते सम्पन्नशालिखलपल्लवितोपशल्याः।
ग्रामास्तुषारभरबन्धुरगोमयाग्निधूमावलीवलयमेखलिनो हरन्ति॥ ७३॥
यथा वा—
इह हि सजलकुल्यालीनचिल्लीप्रफुल्ल— स्तबक—शबलितोरुस्तम्बकुस्तुम्बुरूणि।
उपवन नवनीलीवास्तुक — श्यामलानि क्लममुपरमयन्ति ग्रामकच्छस्थलानि॥ ७४॥
पत्तनरमणीयता यथा—
श्रियः पदं द्वारवतीति नाम्ना पुरी परीता लवणार्णवेन।
अस्त्यावृतेवामरराजधानी निस्त्रिंशनीलेन नभस्स्थलेन॥ ७५॥
यथा वा—
त्रिदिवपुरसमृद्धिस्पर्धया भान्ति यस्यां सुरसदनशिखाग्रेष्वाग्रहग्रन्थिनद्धाः।
नभसि पवनवेल्लत्पल्लवैरुल्लसद्भिः परममभिवहन्त्यो वैभवं वैजयन्त्यः॥ ७६॥
उपवनरमणीयता यथा—(मामा. ६.१९)
गाढोत्कण्ठकठोरकेरलवधूगण्डावपाण्डुच्छदै— स्ताम्बूलीपटलैः पिनद्धफलितव्यानम्रपूगद्रुमाः।
तक्कोलीफलजग्धमुग्धविकिरव्याहारिणस्तभ्दुवो भागाः प्रोङ्खितमातुलुङ्गवृतयः प्रेयो विधास्यन्ति वाम्॥ ७७॥
यथा वा—
ताम्बूलीनद्धमुग्धक्रमुकतरुतलप्रस्तरे सानुगाभिः पायंपायं कलाचीकृतकदलदलं नारिकेलीफलाम्भः।
सेंव्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि— र्दात्यूहव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः॥ ७८॥
कान्ताररमणीयता यथा—(नच. ५.३९)
माद्यद्दन्तिकपोलयुग्मविगलद्दानाम्बुसिक्तद्रुमाः क्रीडत्क्रोडकुलार्धचर्वित—पतन्मुस्ता—रसामोदिनः ।
अन्तस्सुस्थितपान्थमन्थरमरुल्लोलल्लतामण्डपाः कस्यैता न हरन्ति हन्त हृदयं विन्ध्यस्थलीभूमयः॥ ७९॥
यथा वा—
इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघनाः भुवः क्रीडालोलद्विरदवदनारुग्णतरवः।
लताकुञ्जे यासामुपनदि रतक्लान्तशबरी— कपोलस्वेदाम्भःपरिचयनुदो वान्ति मरुतः॥ ८०॥
पर्वतरमणीयता यथा—(मामा. ९.५)
अयमभिनवमेघश्यामलोत्तुङ्गसानुर्मदमुखमयूरीमुक्तसंसक्तकेकः।
शकुनिशबलनीडानोकहस्निग्धवर्ष्मा विकिरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः॥ ८१॥
यथा वा—
ये लीलाविधसाक्षिणो मुरजितः कालार्जितश्यामिकै— र्वृष्णीनां निनदन्ति रुक्मचषकैरद्यापि वातो/पानोत्सवम्।
दृष्टा रैवतकस्य कौतुकरसात् ते यस्य सेनाचरैः प्रत्यक्—सिन्धु—समीर—ताडन—रणत्तालीवनास्सानव॥ ८२॥
सरसीरमणीयता यथा—(माघ. ४.५९)
एतस्मिन्नधिकपयश्श्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः।
वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः॥ ८३॥
यथा वा—
बकोटाः(?) पञ्चा/ पान्थानामिह हि सरसीसीम्नि सरसा/ता— ममी नेत्रानन्दं दधति चरणाचोदितमुखाः।
धुनाना मूर्धानं गलबिल—लसत्स्फारशफर— स्फुरत्पुच्छानच्छ—व्यतिकर—सबाष्पारुणदृशः ॥ ८४॥
सरिद्रमणीयं(यता) यथा—(उराच. २.२१)
इह समदशकुन्ताक्रान्तवानीरवीरुत्प्रसवसुरभिशीतस्वच्छतोया वहन्ति।
फलभरपरिणामश्यामजम्बूनिकुञ्जस्खलनमुखरभूरिस्रोतसो निर्झरिण्यः॥ ८५॥
यथा वा—
इह बहुलविसर्पद्वालुकालङ्घिवल्ली— वलयहरितकी/तीरक्षेत्रलेखा वहन्ति।
दिनपरिणतिमज्जत्पामरीपीनतुङ्ग — स्तनतरलितबद्धाः(न्धाऽऽ)सन्नतोयास्स्रवन्त्यः॥ ८६॥
सरोरमणीयता यथा—
तृषा किमिति ताम्यसि व्रज मनागिदानीमितः स्थितः पथिकसीमनि त्वमसि मारवीणां भुवाम्।
न पश्यसि पुरः स्फुरच्छफरजालहेलावल— त्तरङ्गरिमार्चि(र्जि)तत्रिदशमार्गमग्रे सरः॥ ८७॥
यथा वा—(उराच. १.३१)
एतस्मिन् मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः।
बाष्पाम्भःपरिपतनोद्गमान्तराले संदृष्टाः कुवलयिनो मया विभागाः॥ ८८॥
समुद्ररमणीयता यथा—
निःश्वासैरधिवासिता मधुरिपोः कल्पान्तनिद्रासु ये यैर्मन्थश्रममन्थराः फणिपतेर्धौताः फणाभित्तयः।
तेऽमी कुञ्जरकुम्भपीठलुठनक्षोभोच्चलच्छीकराः कल्लोलाः कुलशैलकोटिविकटाः स्त्रोतःपतेः पातु वः॥ ८९॥
यथा वा—
मीलत्तालीतमालस्तबकतरुतलस्रस्तरस्रस्तचञ्चद्— गुञ्जाकाञ्चीकलापप्रकटीतशबरीमोहनस्पष्टधार्ष्ट्या ।
येनामुच्यन्त मोचा—लिकुच—कवचिताः प्राञ्चटा(?) प्रत्युदीचीं कृच्छ्रादुच्छ्रायकूजत्कुररपरभूताः पश्चिमाम्भोधिकच्छाः॥ ९०॥
वापीरमणीयता यथा—(मेघ. ७४)
वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा हैमैः स्फीता विकचकमलैदींर्घवैडूर्यनालैः।
यस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥ ९१॥
यथा वा—
आपातमात्ररसिके ! सरसीरुहस्य किं बीजमर्पयसि मन्दिरवापिकायाम्।
कालः कलिर्जगदिदं न कृतज्ञमज्ञे ! स्थित्वा हरिष्यति तवैव मुखस्य लक्ष्मीम्॥ ९२॥
दीर्घिकारमणीयता यथा—(रघु. १६.४६)
दिने दिने शैवलवन्त्यधस्तात् सोपानपर्वाणि विमुञ्चदम्भः।
उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव॥ ९३॥
यथा वा—(कासूवृ. ३.२.१३)
पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलक्तकलोहिनीभिः।
गोरोचनाहरितबभ्रुबहिःपलाशम् आमोदते कुमुदमम्भसि दीर्घिकायाः॥ ९४॥
(५. कालः)
कालोऽप्यनेकधा, रात्रिदिवार्कोदयपूर्वाह्णमध्यंदिनापराह्णसायाह्नास्तमयसन्ध्या— निशामुख—तमः—प्रदोषचन्द्रोदयचन्द्रिकानिशीथापररात्ररात्रिपरावृत्तिप्रभातादिभेदात्।
तत्र रात्रिर्यथा—
नीयन्ते दिवसप्रतप्तकटकग्रावोष्मगाढक्वथ— त्प्रारम्भाः पथिकैः क्लमव्युपरमत्तापा गिरिग्रामके।
नैदाघ्ये कमलाग्रकुड्मलभिदः पश्चार्धशीतानिल— प्रत्याश्वस्तमयूरनादसुभगा दण्डोदरा रात्रयः॥ ९५॥
यथा वा—
विष्वग्वातविकीर्णशीकरकणासाराः स्फुरद्—विद्युत्— स्तत्कालप्रतिबुद्धकेतकशिखागण्डो/गन्धोपदिग्धाम्बराः।
दात्यूहप्रसरप्रणादितदिशः पान्थप्रियाणाममू— रुन्मथ्नन्ति मनांसि मांसलघनध्वानोत्तरा रात्रयः॥ ९६॥
दिवसो यथा—
तान्येतानि शिखण्डिताण्डवगुरूनम्भोधराम्बरे तन्वानानि दिनानि नूनममृतस्यन्दीनि वन्दामहे।
उद्गाढा नवनीलनीरजदृशामत्यन्तमायासिनो भिद्यन्ते स्वयमेव येषु विषमा मानग्रहग्रन्थयः॥ ९७॥
यथा वा—(शाकु. १.३)
सुभगसलिलावगाहाः पाटलसंसर्गिसुरभिवनवाताः।
प्रच्छायसुलभनिद्राः दिवसाः परिणामरमणीयाः॥ ९८॥
अर्कोदयो यथा—
अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम्।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपित—कपिकपोल—क्रोडताम्रस्तमांसि॥ ९९॥
यथा वा—
समदतरुणहुणीगण्डशोणस्य पूष्णस्तरलिततिमिराणां तेजसामुद्गमेन।
अतिजरठकुसुम्भीकेसरोद्गाढरागस्नपित इव तदानीमुज्ज्वलो जीवलोकः॥ १००॥
पूर्वाह्णो यथा—
आदौ पार्ष्णिप्रहारद्विगुणिततरसस्तिर्यगुत्क्षिप्ततुण्डान् पश्चात् कृष्टैः खलीनैर्लघुललितपदं नर्तयन्तस्तुरङ्गान्।
त्वत्सेवोत्कर्षतर्षादहमहमिकया सम्पतन्त्यश्ववाराः कार्पासैर्वारवाणैः परिवृतवपुषो वाहयोग्या महीषु॥ १०१॥
यथा वा—
निर्याति प्रथमप्रचारचलितस्फारध्वनड्डिण्डिम— त्रस्ताधोरणदूरनाशितगजेनायं नभोवर्त्मना।
अभ्रद्वाज(र)घनान्तदोलितकरः स्वर्वाहिनीं गाहितुं रोधस्ताडन—केलि—रुग्ण—रदन—ग्रामाऽश्रिरैरावणः॥ १०२॥
मध्याह्नो यथा—
मध्ये पङ्किनि पल्वलस्य विलुठन् पोत्री नयत्यातपा— नुष्णालुर्निभृतं हृदेषु महिषः शैवालमभ्यस्यति।
आकीर्णोषधिमूल—शीत—सुरभिश्वासानिलान्दोलन— प्रक्षीणोष्मणि लीयते वनगिरिश्वभ्रोदरे शल्यकः॥ १०३॥
यथा वा—(विक्र. २.२२)
उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्योपरि कर्णिकारकुसुमान्यासेवते षट्पदः।
तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते॥ १०४॥
अपराह्णो यथा—(कुसं. ८.३३)
स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम्।
आविभातचरणाय गृह्णते वारि वारिरुहरुद्धषट्पदम्॥ १०५॥
यथा वा—(कुसं. ८.३५)
उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः।
दंष्ट्रिणो वनवराहयूथया दष्टभङ्गुरबिसाङ्कुरा इव॥ १०६॥
सायाह्नो यथा—
भर्ताऽसौ महसां विकासरभसोत्तानाङ्कपङ्केरुह— प्रस्थानारुणमण्डलं शिखरिणं प्रत्यञ्चमभ्यस्यति।
आनिम्नोन्नतभागपुञ्जितघनच्छायातपच्छेदभृत् प्रौढद्वीपि—नवीन—चर्मजरठं पृष्ठं च जातं भुवः॥ १०७॥
यथा वा—(किराता. ९.६)
कान्तदूत्य इव कुङ्कुमताम्राः सायवर्णनमभित्वरयन्त्यः।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः॥ १०८॥
सूर्या(स्तमयो) यथा—(बारा. ३.१०)
माञ्जिष्ठीकृतपट्टसूत्रसदृशः पादानयं पुञ्जय— न्नध्यस्ताचललम्बिनीं परिणतिं स्वैरं ग्रहग्रामणीः।
वात्याचक्रविवर्तिताम्बुजरजश्छत्रायमाणः क्षणं क्षीणज्योतिरितोऽप्ययं स भगवानम्भोनिधौ मज्जति॥ १०९॥
यथा वा—
वेदयत् पदमवेदयद् वधूर्बोधयत् कुमुदमब्जमर्दयत्।
रात्रिमानयदहर्नयद् बलाद् बिम्बमम्बरमणेरवाञ्चति॥ ११०॥
सन्ध्या यथा—
घर्मत्विषि स्फुरितरत्नशिखा/लाक्रमेण मोरेर्नितम्बकटकानवगाहमाने।
वल्गत्तुरङ्गखुरचूर्णितपद्मरागधूलीव पात—ललितोल्लसति स्म सन्ध्या॥ १११॥
यथा वा—
दिक्कामिनीवदनकुङ्कुमपङ्कचर्चा चक्राङ्गनाहृदयदाहदवानलर्चिः।
सन्ध्या रराज गगनान्तरतोयराशिवालप्रवालमुकुराङ्कुरकोमलश्रीः॥ ११२॥
निशामुखं यथा—
सन्ध्यांशुकन्दलितपाटलपुष्पकोशबालेन्दुसूचिकुटिलोदरकेसरं च।
संन्यस्तमस्तबकमांसलमूलभागमाकाशकिंशुकमकाशत वासरान्ते॥ ११३॥
यथा वा—
क्वाप्यस्ताद्रिदरीषु पूष्णि पतिते सान्ध्ये च धाम्नि क्रमात् किञ्चित्किञ्चिदुदञ्चति प्रतिकलं मन्दासु दृक्छक्तिषु।
एताः पक्व—परूषक—च्छविमुषः पूर्वं ततस्त्वायता जायन्ते तमसा दिशः परिणमज्जम्बूफलश्यामलाः॥ ११४॥
तमो यथा—
ज्योतिषां पथि च दिङ्मुखेषु च क्ष्मातले च गिरिकन्दरासु च।
पश्य केनचिदिव प्रसार्यते कामिनीचिकुरमेचकं तमः॥ ११५॥
यथा वा—
सङ्केतबन्धुर्विटनर्तकीनां निःष्यन्दसन्दर्भ इवाम्बरस्य।
पुरन्ध्रिम्मिल्लविनीत/लवर्णो निशान्धकारः पिबतीव विश्वम्॥ ११६॥
प्रदोषो यथा—
अयं लीलागारेष्वधिकबहुलो धूमवलयः शनैः श्यामारम्भे प्रतनु तिमिरं मांसलयति।
इहैते दीपाश्च प्रसृतसरलांशुप्रतिसराः क्रमादुच्छिद्यन्ते द्रुतकनककान्तिप्रतिभुवः॥ ११७॥
यथा वा—(विक्र. ३.२)
उत्कीर्णां इव वासयष्टिषु निशालिद्रालसा बर्हिणो धूपैर्जालविनिर्गतैर्वलभयः संदिग्धपारावताः।
आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः सन्ध्यामङ्गलवर्तिका विभजते शुद्धान्तवृद्धो जनः॥ ११८॥
चन्द्रोदयो यथा—(किराता. ९.२३)
दीपयन्नथ नभः किरणौघेः कुङ्कुमारुणपयोधरगौरः।
हेमकुम्भ इव पूर्वपयोधेरुन्ममज्ज शनकैस्तुहिनांशुः॥ ११९॥
यथा वा—
उद्गर्भहूणतरुणीरमणोपमर्दभुग्नोन्नतस्तननिवेशनिभं हिमांशोः।
बिम्बं कठोरबिसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति॥ १२०॥
चन्द्रिका यथा—
स्तनभुवि नवभा/हारतारकान्तिर्मलयजपत्रलतारुचिः कपोलो।
विचकिलकलिकाकलापकल्पः शिरसि विराजति चन्द्रिका वधूनाम्॥ १२१॥
यथा वा—
दिक्कामिनीवदनचन्दनचूर्णमुष्टिस्त्रैलोक्यमन्दिरमनोहरसौधभित्तिः ।
हृष्यन्मनोहरविपाण्डरहासकान्तिर्ज्योत्स्ना शशाङ्कसितकीर्त्तिरिवोल्लास॥ १२२॥
निशीथो यथा—
कपाले मार्जारः पय इति॰॥ १२३॥
(पृ. ५८२) यथा वा—(पृ. ६२७)
सखि ! स विजितो वीणाद्यूते कयाऽपि परस्त्रिया पणितमभवत् ताभ्यां तस्मिन् निशाललितं ध्रुवम्।
कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि स्थितवति नभोमध्येऽपीन्दौ प्रियेण विलम्व्यते॥ १२४॥
अपररात्रो यथा—(माघ. ११.६)
क्षणशयिताविबुद्धाः कल्पयन्तः प्रयोगा— नुदधिमहति राज्ये काव्यवद् दुर्विभागे/ दुर्विगाहे।
गहनमपरात्र—प्राप्त—बुद्धि—प्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम्॥ १२५॥
यथा वा—(माघ. ११.४)
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति।
मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः॥ १२६॥
रात्रिपरावृत्तिर्यथा—(माघ. १०.९१)
इति मदमदनाभ्यां रागिणः स्पष्टरागादनवरतरतश्रीसङ्गिनस्तानवेक्ष्य।
अभजत परिवृत्तिं साऽथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाऽधोमुखीव॥ १२७॥
यथा वा—(माघ. ११.९)
अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्ये।
कथमपि परिवृत्ता निद्रयाऽन्धा किल स्त्री मुकुलितनयनैवाश्लिष्यति प्राणनाथम्॥ १२८॥
प्रभातं यथा—(बारा. ७.१)
ताराणां तगरत्विषां परिकरः संख्येयशेषः स्थितः स्पर्धन्तेऽस्तरुचः प्रदीपकशिखाः सार्द्धं हरिद्राङ्कुरैः।
तन्त्रस्तम्भितपारदद्रवजडो जातः प्रगे चन्द्रमाः पौरस्त्यं च पुराणशीधुमधुरच्छायं नभो वर्तते॥ १२९॥
यथा वा—
स्तोकस्तोकममूभिरम्बरतले ताराभिरस्तं गतं॰॥ १३०॥
(पृ. ६४६)
ऋतूपकरणैरेभिरितिहासोपवर्णनैः ।
देशकालोसेवाभिश्चित्तजन्मा प्रदीप्यते॥ १३१॥
नातः परतरं पुष्पधनुषस्तीक्ष्णमायुधम्।
ऋतूपकरणादीनां यदेतद् रामणीयकम्॥ १३२॥
ऋतुरुपकरणं तथेतिहासः कथितमिदं सह देशकालभेदैः।
पृथगनभिहितं कलाविचारप्रभृतिकमल्पमथोपदर्शयामः॥ १३३॥
(६. कलाविचारः —६४)
तत्र चतुष्षष्टिर्मूलकलाः। तासु
कर्माश्रयाश्चतुर्विंशतिः २४
द्यूताश्रयाः विंशतिः २०
ततो निर्जीवाः (१५)
सजीवाः (५)
शयनोपचारिक्यः षोडश १६
चतस्र उत्तरकला ०४
६४ इति चतुष्षष्टिः।
आस्वेव अवान्तरकलानां शतानि पञ्चाष्टादशोत्तराणि स्वशास्त्रविहितप्रपञ्चात् तानीह न प्रतन्यन्ते, गौरवभयात्। मूलकलास्तु संक्षेपत उदाह्रियन्ते।
(मूलकलाः चतुष्षष्टिः)
तत्र —
६.१. कर्माश्रयास्तावद्— गीतं, वादित्रं, नृत्तं, नाट्यं, चित्रं, पुस्तकर्म, पत्रच्छेद्यं, लिपिज्ञानं, वचनकौशलं, वैचक्षण्यं, माल्यविधिः, गन्धयुक्तिः, आस्वाद्य— विधानं, रञ्जनज्ञानं, रत्नपरीक्षा, सीव्यम्, उपकरणक्रिया, आजीवज्ञानं, तिर्यग्योनिचिकित्सितं, मायाकृतं, पाषण्डसमयज्ञानं, क्रीडाकौशलं, संवाहनं, शरीरसंस्कारकौशलमिति। अथ—
(६.२ द्युताश्रयाः)
निर्जिवद्यूताश्रयाः — आयप्राप्तिः, (रक्षा/) अक्षविधानं, रूपसङ्ख्या, क्रियामार्गः, जीवग्रहणं, नयज्ञानं, करणज्ञानं, चित्राचित्रविधिः, गूढराशिः, तुल्याभिघारः, क्षिप्रग्रहणम्, अनुप्राप्तिः, लेखास्मृत्यनुक्रमः, छलव्यामोहनं, ग्रहणा/ ग्लहादानमिति।
(सजीवद्यूताश्रयाः) सजीवः अनाश्रयस्तु — उपस्थापनविधिः बुद्धं, ततं, गतं, नृत्तमिति।
६.३ अथ शयनोपचारिक्यः — स्त्रीपुरुषभावग्रहणम्, (स्वराग/) अनुरागप्रकाशनं, प्रत्यङ्गदानं, नखदन्तयोर्विचारौ, नीवीस्रंसनं, गुह्यस्पर्शानुलोम्यं, परमार्थकौशलं, हर्षणं, समानार्थता, कृतार्थप्रोत्साहनं, मृदुक्रोधप्रवर्तनं, क्रुद्धप्रसादनं, सुप्तापरित्यागः, चरमस्वापविधिः, गुह्यगूहनमिति।
(६.४ उत्तरकलाः)
उत्तरकलाः — साश्रुपातं रमणस्य वीक्षणं, स्वयं शपथक्रिया, प्रस्थितानुगमनं, पुनर्निरीक्षणमिति।
अथैतासामुदाहारणानि। तत्र—
(६.१ कर्माश्रयसासु —२४)
१. गीतं यथा— विलासमसृणोल्लसन्मुललोलदोःकन्दली॰॥ १३४॥ (पृ. ४५७)
२. वादित्रं यथा—
नाधन्यैः क्षणदाविराममधुराः किञ्चिद्विनिद्रालस— श्रोत्रैः सव्रणमुग्धचारणवधूदन्तच्छदायसिनः।
श्रूयन्ते मृदुपीतवक्त्रमरुतः पौराणगीतिक्रम— स्यालोलाङ्गुलिरुद्धमुक्तसुषिरश्रेणीरवा वेणवः॥ १३५॥
३. नृत्तं यथा—
सद्यस्ताण्डवितभ्रु विभ्रमवलद् व्यालोलदोःकन्दली— हेलोदञ्चितपीवररस्तनयुगं प्रेंखत्कटाक्षच्छदम्।
किञ्चित्कुञ्चितपादापद्ममवतात् तल्लास्यलीलायितं पार्वत्याः पुरतः कलागमगुरोः खण्डेन्दुचूडामणेः॥ १३६॥
४. नाट्यं यथा—
बाहूत्क्षेपसमुल्लसत्कुचतटं प्रान्तस्फुटत्कञ्चुकं गम्भीरोदरनाभिमण्डलगलत्स्वेदावलीविभ्रमम् ।
रुद्राण्या महिषासुरव्यतिकरव्यायामरम्यं वपुः पर्यस्तावधि सन्धिबन्धुरलसत्केशोच्चयं पातु वः॥ १३७॥
५. चित्रं यथा—
त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णासुतमपि।
अथ स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं, मकरमुपरिष्टाच्च लिखति॥ १३८॥
६. पुस्तकर्म यथा—(माघ. ३.५१)
चिक्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम्।
मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने॥ १३९॥
७. पत्रच्छेद्यं यथा—
निष्पन्नस्तिलकोऽयमेणनयने ! प्रायेण (कास्तूरिका)— मेषा पत्रलतास्य तस्य सदृशी किं नाम नो निर्मिता ?।
यस्याशाविजये हिमाद्रिमभितः सैन्ये स X X थ X X ग ग ग प्रियैरिति भटी(?) लोकस्य भूर्जेः(?) त्वभूत्॥ १४०॥
८. लिपिज्ञानं यथा—
शर्वाणीशिवयोर्ललाटमभितः कस्तूरिकाः मूर्धजैः न्यस्ता मण्डनकौशलाद् विजयया वाणी पदैश्चाटुभिः।
अन्योन्यानुननयप्रपञ्चमधुरा दृश्यात्मदर्शोदरे वर्णाली विधिनिर्मिताक्षरततिच्छाया सुखायास्तु वः॥ १४१॥
९. वचनकौशलं यथा—
जनः पुण्यैर्यायाज्जलधिजलभावं जलमुच— स्तथाऽवस्थं चैनं निदधतु शुभैः शुक्तिवदने।
ततस्तां श्रेयोभिः परिणतिमसौ विन्दति यया रुचिं तन्वन् पीनस्तनि ! हृदि तवायं विलुठति॥ १४२॥
१०. वैचक्षण्यं यथा—
शुभे ! कोऽयं वृद्धो, गृहपरिवृढः, किं तव पिता ? न, मे भर्ता रात्रौ व्यवहितदृगत्यन्तबधिरः।
हु हुं हुं श्रान्तोऽहं शिशियिषुरिहौवापवरके क्व यामिन्यां यासि, स्वपिहि ननु निर्दंशमशके॥ १४३॥
११. माल्यविधिर्यथा—(किराता. ८.३७)
प्रियेण संगृह्य विपक्षसन्निधावुपाहितां वक्षसि पीवरस्तने।
स्रजं न काचिद् विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि॥ १४४॥
१२. गन्धयुक्तिर्यथा—(कुसं. १.९)
कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम्।
यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥ १४५॥
१३. आस्वाद्यविधानं यथा—
अनतितरलबन्धस्वेदमद्यादिगन्धश्चलनरटनलोलस्नेहसीमन्तिनीनाम्।
अदृढदहनपाकं स्थालिकानामुदञ्चन् मदयति हृदयान्तर्मांसलो मांसगन्धः॥ १४६॥
१४. रञ्जनविधानं(/ज्ञानं) यथा १—(राघवः)
१.
सहि णो पुहाइ परिपीडिअस्स मलमग्गणिपड्डिओ गहिओ।
कत्ते अणोविअ सुत्थो वहइ हसिरी पोपरा . . . स्स (?)॥ १४७॥
२.
सहिणोचुहाइहपरिपीडिआ सबलसंगणिमां गणियं।
एगह्यिकं ते अणो पिअद्धोवह इह सिरीसोमरा॰स॥ १४८॥
(जोशेरः) १. उदाहरणार्य्या राघवजोशेरयोर्विभिन्नपाठा। १५. रत्नपरीक्षा यथा—
द्वौ वज्रवर्णौं जगतीपतीनां सद्विप्रतिष्ठौ न तु सार्वजन्यौ।
यस्य . . . शोणो, यो वा . . . हरिद्रारससन्निकाशः ?॥ १४९॥१
१६. सीव्यं यथा—
बाहू बालविशालतार्धकरयोः कण्ठः स गोष्ठे मुखे पादार्धेषु झषाः फणोग्रवणयोः(?) पृष्ठं कटान्तर्भुवि(धि ?)।
कृत्यं तैरिति कञ्चुकं रचयता मन्ये महलक्षि(क्ष्मि ?) ते निक्षिप्तः कुचकुम्भयोर्भगवता भर्गेण कुम्भावपि(?)॥ १५०॥
१७. उपकरणक्रिया यथा—
उष्णीषो . . . . . . वक्षसि स्फारहारः काञ्चीगेहे(देशे ?) म(म्र ?) दीयः परिकरवसनं, जानुनोर्योगपट्टः।
डोलालीलासु देव्या सह गगन . . लङ्घने दीर्घरज्जु— र्जीयादे(वं ?) . . विनैकोपकरण . वासुकिः शङ्करस्य॥ १५१॥२
१८. आजीवज्ञानं यथा—(मामा. ३.११)
शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी।
कालावबोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु॥ १५२॥
१९. तिर्यग्योनिचिकित्सितं यथा—
यदिह यस्य नियामकमौषधे पवनपित्तकफेषु विषाणिनाम्।
तमिह तेन युतः शमयत्यसावमृततुल्यबलः खलु गुग्गुलुः॥ १५३॥
१. ‘सद््वि॰=यद्भिः प्र.’—HOS, जोशेर। सामुद्रिका अत्र ध्यानं दद्युः। चूर्णमिश्रणेन हरिद्रा रक्तायते। एवमिदं पठ्येत— द्वौ वज्रवर्णौ जगतीपतीनां भुवि प्रसिद्धौ न तु सार्वजन्यौ। यत्रोपमानं प्रथमस्य शोणश्चूर्णाहरिद्रारससन्निकाशः॥ १४९॥ २. एवमिवेदं पठ्येत— उष्णीषो मूर्ध्नि सार्धं शिशुशशिकलया वक्षसि स्फारहारः, काञ्चीदेशे म्रदीयः परिकरवसनं जानुनोर्योगपट्टः। दोलालीलासु देव्या सह गगनतलोल्लङ्घने दीर्घरज्जु— र्जीयादेको हि सर्वोपकरणकलनो वासुकिः शङ्करस्य॥ १५१॥ २०. मायाकृतं यथा—(भट्टि. १४.१)
ततो दशास्यः स्मरविह्वलात्मा चारप्रकाशीकृतशत्रुशक्तिः।
विमोह्य मायामयराममूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्॥ १५४॥
२१. पाषाण्डसमयज्ञानं यथा—(मामा. ५.१)
षडधिक—दशनाडीचक्रमध्य—स्थिता—त्मा हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः।
अविचलितमनोभिः साधकैर्मृग्यमाणः स जयति परिणद्धः शक्तिभिः शक्तिनाथः॥ १५५॥
२२. क्रीडाकौशलं यथा—(अमरु. १९)
एकत्रासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा— देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः।
तिर्यग्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा— मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥ १५६॥
२३. संवाहनं यथा—
कदलतलनिषण्णं वर्त्म — विश्रान्तिहेतो— र्व्रजति जनकपुत्रीत्याशया (पर्य्ययेण)१।
अगणितनिजखेदः साधुसंवाहनाभिः परिचरति च हृष्यन् लक्ष्मणो रामभद्रम्॥ १५७॥
२४. शरीरसंस्कारकौशलं यथा—(कुसं. ७.९)
तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम्।
वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः॥ १५८॥
(६.२ द्युताश्रयासु—२०)
(निर्जीवद्यूताश्रयाः —१५)
२५. आयप्राप्तिर्यथा—
द्यूतं देवि ! रमे, किमस्ति ? वृषभो, नाऽयं क्षमः क(व)र्षणे चन्द्रोऽयं, किमनेन ? भूषणमिदं, खण्डेन किं भूष्यते ?।
१. वाससः पल्लोवेनेति जो.रा. नागोऽयं शुभलोचने, ! पशुपते ! मृत्युः कथं गृह्यता— मित्थं शङ्करशैलराजतनयासञ्जल्पितं पातु वः॥ १५९॥
२६. रक्षा/अक्षविधानं यथा—
उत्सेवकं विघातं च X X X दन्वं(?) तथा।
राज्ञो दाये दाये विचित X X X कूपम्(?)॥ १६०॥
२७. (रूप ?)संख्या यथा—
सिअणुचंपणे कहं विढालिसंसअपासट्ठिजलरा अरंकहोमहुं निसिहिचउद्धहपालोसउत्तारिअ।
अंकहो ग ग तुहिंदण्डाहिपदसहिउजाण जाणहिमज्ज— णिट्ठअज्जवाकिक्कुरममिकरिंचंतीसपाइट्ठ(?) ॥ १६१॥
२८. क्रियामार्गो यथा—
कचटतपयशाख्यैः सप्तवर्गैः समेतं सुविनिहितपदार्थैः सप्तगं नाभिसंस्थैः।
सहृदयजनहृद्यं कूपशास्त्रं प्रवक्ष्ये विटपटुकपटानां योषितां क्रीडनाय॥
२९. जीवग्रहणं यथा—
मन्त्री कोणचतुष्कं तु नजः/गजः साग्रं तदेव तु।
रथो द्ण्डस्थितं हन्यात् बहिःकोणाष्टकं हयः॥ १६३॥
३०. नयज्ञानं यथा—
गजाश्वौ यदि लभ्येते दाहमेकां परित्यजेत्।
मन्त्रिणां वाजिसंयुक्तं केचिदिच्छन्ति नौकया॥ १६४॥
३१. करणज्ञानं यथा—
णचिआणाएलसच्चे अपेलयगार X X लतीए वीसत्थो।
अद्धि अवराविआइवअ तीए मएण सच्चविओ॥ १६५॥
३२. चित्राचित्रविधिर्यथा—
गमे नष्टे चरं कुर्याच्चरे नष्टे च साहसम्।
साहसस्य परिभ्रंशे कुर्याल्लुम्पचलुंपचः॥ १६६॥
३३. गूढराशिर्यथा—
ताम्रपर्णीतटे यस्य प्रावर्त्यत वधूजनैः।
द्यूतं मौक्तिकपुञ्जेषु विद्रुमा हारगोपनैः॥ १६७॥
३४. तुल्याभिघारो यथा—
मुष्ट्या मुद्गं क्षिपति भवतः सा समाजेऽपि यूनां स्विद्यत्पाणिः स्पृशाति कमलां मध्यमेत्यङ्गुलिं ते।
त्वां न ब्रूते विदितमपि सा यत् समानाभिघार— द्यूते तन्वी तदलममुना तच्चरित्राशया नः॥ १६८॥
३५. क्षिप्रग्रहणं यथा—
तथा गृहीतस्तन्वङ्ग्या विजयोपार्जितः पणः।
यथा धन्याधरोष्ठेन हरितेति जितं मया॥ १६९॥
३६. अनुप्राप्तिर्यथा—
आश्लेषे प्रथमं क्रमेण विजिते हृद्येऽधरस्यार्पणे केलीद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति।
सान्तर्हासनिरुद्धसंभृतरसोद्भेदस्फुरद्गण्डया स्वैरं शारविसारणाय निहितः स्वेदाम्बुगर्भः करः॥ १७०॥
३७. लेखास्मृत्यनुक्रमो यथा—
आरोपयसि मुधा किं नाहमभिज्ञा त्वदङगसङ्गस।
दिव्यं वर्षसहस्त्रं स्थित्वैवं युक्तमभिधातुम्॥ १७१॥
३८. छलव्यामोहनं यथा—
एकेनाभ्यधिकेन याम्यहमथ द्यूते चतुष्केऽश्मना (?) ज्ञातेनाभ्यधिकेऽपि वा तव जयो वाह्यां(?) गिरेर्नन्दिनि !।
अन्यूनानधिके पुनः पण इति व्यामोहयन् वाक्छलै— र्द्वावावामधिगन्तुमद्रितनयाद्यूते हरः पातु वः॥ १७२॥
३९. ग्रहणा/ग्लहादानं यथा—
कोऽयं भामिनि ! भूषणं, कितव ! ते शोणः कथं ? कुङ्कुमात्॰॥ १७३॥
(द्र.१०.११०) (सजीवद्यूताश्रयाः —५)
४०. उपस्थानविधिर्यथा—
त्वत्काङ्ककारविजये तव राम ! लङ्का सीता च ते पुनरियं भवतस्तु दाराः।
मत्काङ्ककारविजये तु ममाधिपत्यं तस्यां च ते पुरि कलत्रजने च तस्मिन्॥ १७४॥१
४१. बुद्धं यथा—(माघ. ८.३२)
मुग्धत्वादविदित—कैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः।
ताः कान्तैः सह करपुष्करेरिताम्बुव्यात्युक्षीमभिसरणग्लहामदीव्यन्॥ १७५॥
४२. ततं यथा—
सखि ! स विजितो वीणाद्यूते कयाऽप्यपरस्त्रिया॰॥ १७६॥
(पृ. ९५३) ४३. गतं यथा—
आघूर्णंश्च गतागतैः प्रतिरुधं क्रामन्नसौ ग्लाहते तिर्यात्ये च चतुष्ककोणगतयोर्मध्ये न यूनो युधा।
यावत्याजिमनुद्गतोऽयमपरैरिष्टग्लहावाप्तये पश्यैणाक्षि ! समाह्वयैरुपवधुग्राम्यो जनः क्रीडति॥ १७७॥ २
४४. नृत्तं यथा—(मेघ. ७३)
तस्योपान्ते स्फटिकफलका काञ्चनी वासयष्टि— र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः।
तालैः शिञ्जद्वलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः॥ १७८॥
(६.३ शयनोपचारिक्यः —१६)
४५. स्त्रीपुरुषभावग्रहणं यथा—(शाकु. २.११)
अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम्।
विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः॥ १७९॥
४६. स्वराग(/अनुराग)प्रकाशनं यथा— (गास. ३.५४)
तह सोण्हाए पुलइओ दरवलिआपंगतारअं पहिओ।
जह वारिओ वि घरसामिएण वसिओ उवणिव्वए॥ १८०॥
(तथा स्नुषया प्रलोकितो दरवलितापाङ्गतारकं पथिकः।
यथा वारितोऽपि गृहस्वामिना उषित अलिन्दके॥)
१. रामं रावणो वक्ति—त्वद्विजये सर्वं तव, मद्विजये पुनर्ममे’ति। अत्र त्वत्काङ्ककार—मत्काङ्ककार’—शब्दौ ‘तव—ममा’—र्थकौ ज्ञेयौ। २. अत्र द्यूतपरिभाषाः काश्चिदुपनिबद्धाः। ४७. प्रत्यङ्गदानं यथा—(कुसं. ८.१४)
सस्वजे प्रियमुरोनिपीडिता प्रार्थितं मुखमनेन नाहरत्।
मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा॥ १८१॥
४८–४९. नखदन्तयोर्विचारौ यथा—
इयमधरविलग्ना कान्तदन्तप्रणाली हऱति हृदयमास्तां किं श्रमेणापरेण ?।
अभिनवनखलेखालङ्कृतं बाहुमूलं कथयसि किमु बाले ! बालबन्धच्छलेन॥ १८२॥
५०. नीवीस्रंसनं यथा—(कुसं. ८.४)
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः।
तद्दुकूलमथ चाभवत् स्वयं दूरमुच्छ््वसितनीविबन्धनम्॥ १८३॥
५१. गुह्यस्पर्शानुलोम्यं यथा—(अमरु. १०१)
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणधृतं किञ्चिन्नितम्वे स्थितम्।
एतावत् सखि ! वेद्मि केवलमहं, तस्याङ्गसङ्गे पुनः कोऽसौ ? काऽस्मि ? रतं नु किं ? कथमिति स्वल्पाऽपि मे न स्मृतिः॥ १८४॥
५२. परमार्थकौशलं यथा—(गास. ५.५०)
मामि ! सरिसक्खराणं वि, अत्थ(अत्थि)विसेसो पअप्पिअव्वाणं।
णेहमइआण अण्णो अण्णो उवरोहभणि/मइआणं॥ १८५॥
(मातुलानि ! सदृशाक्षराणामप्यर्थ(अस्ति)विशेषः प्रजल्पितव्यानाम्।
स्नेहमयानामन्योऽन्य उपरोधभणिता/मयानाम्॥}
५३. हर्षणं यथा—
नान्दीपदानि रतिनाटकविघ्नशान्तावाज्ञाक्षराणि परमाण्यथवा स्मरस्य।
दष्टेऽधरे प्रणयिना विधुताग्रपाणेः सीत्कारशुष्करुदितानि जयन्ति नार्याः॥ १८६॥
५४. समानार्थता यथा—(गास. १.५)
ताव च्चिअ रइसमए मिहुणा/महिला—णं विब्भमा विराअंति।
जाव ण कुवलअदलसच्छअाइ मुउलेंति णअणाइं॥ १८७॥
(तावदेव रतिसमये मिथुनानां/महिलानां विभ्रमा विराजन्ते।
यावन्न कुवलयदलसदृशानि मुकुलन्ति/मुकुलीभवन्ति नयनानि॥)
५५. कृतार्थप्रोत्साहनं यथा—(माघ. १०.८८)
विश्रमार्थमुपगूढमजस्रं यत् प्रियैः प्रथमरत्यवसाने।
योषितामुदितमन्मथामादौ तद् द्वितीयसुरतस्य बभूव॥ १८८॥
५६. मृदुक्रोधप्रवर्तनं यथा—(गास. १.२७)
पणअकुविआणँ दोण्ह वि अलिअपसुत्ताणँ माणइल्लाणं।
णिच्चलणिरुद्धणीसासदिण्णकण्णाण को मल्लो॥ १८९॥
(प्रणयकुपितयोर्द्वयोरप्यदलीकप्रसुप्तयोर्मानवतोः।
निश्चलनिरुद्वनिःश्वासदत्तकर्णयोः को मल्लः॥)
५७. क्रुद्धप्रसादनं यथा—(उराच. ३.३७)
अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद् गोदावरीसैकते।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः॥ १९०॥
५८. सुप्तापरित्यागो यथा—(उरा. १.२)
जृम्भाविजृम्भितदृशः प्रथमप्रबुद्धलक्ष्मीकराम्बुरुहलालनलालसस्य।
गात्रापवृत्तिभरखर्वितशेषमव्यादव्याहतं मुरजितः कृतकप्रसुप्तम्॥ १९१॥
५९. चरमस्वापविधिर्यथा—(माघ. ११.१३)
अविरतरतखेदायासजातश्रमाणां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः।
अपरिचलितगात्रा कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः॥
६०. गुह्यगूहनं यथा—(माघ. १०.८२)
प्रेक्षणीयकमिव क्षणमासन् ह्रीतभङ्गुरविलोचनपाताः।
संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः॥ १९३॥
(६.४ उत्तरकलाः —४)
६१. साश्रुपातं रमणस्य वीक्षणं यथा—(किराता. ३.३६)
तुषारलेशाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः।
अगूढभावाऽपि विलोकने सा न लोचने मीलयितुं विषेहे॥ १९४॥
६२. स्वयं शपथक्रिया यथा—
धन्याः स्थ याः कथपथ प्रियसंगमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु।
नीवीं प्रति प्रणिहितश्च करः प्रियेण सख्यः ! शपामि यदि किञ्चिदपि स्मरामि॥ १९५॥
६३. प्रस्थितानुगमनं यथा—
वनभुवि सह पत्या प्रस्थितां वीक्ष्यं सीतां॰॥ १९६॥
(पृ. ८६६) ६४. पुनर्निरीक्षणं यथा—(शाकु. ६.९)
इतः प्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता गृहे तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे।
पुनर्दुष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्, तत् सविषमिव शल्यं दहति माम्॥ १९७॥
(७. वयः)
वयः अवस्था तच्चतुर्धा — सन्धिः, उत्पत्तिः, प्रौढिः अतिप्रौढिश्च। तत्र
१. सन्धिर्यथा—
णअणाण किर थणारुब्भिहतिउज्जरपहंअवडं।
ताइ असिक्खंतिपतीसावलेअवअणं होंततरुणीओ॥ १९८॥
(नयनयोः कि ! स्तनोरुहतिरुज्ज्वलप्रालम्बपटम्।
तदशिक्षितपतिसावलेपवचनं भविष्यत्तरुण्यः॥ ?)
यथा वा—(बारा. ३.२१)
समन्तात् साभोगं न तु कुचविभागाञ्चितमुरो नितम्बः स्वां लक्ष्मीमभिलषति नाद्यापि लभते।
दृशोर्लीलामुद्रा स्फुरति च न चातिस्थितिमती तदस्यास्तारुण्यं प्रथममवतीर्णं विजयते॥ १९९॥
२. उत्पत्तिर्यथा—(कुसं. १.३१)
असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात् परं साऽथ वयः प्रपेदे॥ २००॥
यथा वा—(उराच. ६.३५)
तथा किञ्चित् किञ्चित् कृतमिदमहोभिः कतिपयै— र्यतेतद् विस्तारिस्तनमुकुलमासीन्मृगदृशः।
वयस्स्नेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापारश्चलति हृदि मुग्धश्च वपुषि ॥ २०१॥
३. प्रौढिर्यथा—(कुसं. १.४०)
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम्।
मध्ये तथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यगम्यम्॥ २०२॥
यथा वा—(सूमु. ११)
स्मितपरिचिता वृत्तिर्वाचामपाङ्गतरङ्गितं नयनयुगलं पादन्यासो नितम्बभरालसः।
अहह सुतनोर्लीलासूत्रैः कृतं पदमङ्गके वहतु मदनः शोभामात्रं धनुर्ननु संप्रति॥ २०३॥
४. अतिप्रौढिर्यथा—
उदरमिदमनिन्द्यं मानिनीश्वासलाव्यं स्तनतटपरिणाहो दोर्लतालेह्यसीमा।
स्फुरति च वदनेन्दुर्दृक्प्रणालीनिपेय— स्तदिह सृदृशि ! कल्याः केलयो यौवनस्य॥ २०४॥
यथा वा—
वहतु धनुरसङ्गादैक्षवं वैणवं वा प्रहरतु च पृषत्कैः कौसुमैरायसैर्वा।
तदपि मकरकेतुर्मूर्ध्नि धन्वीश्वराणामियमिह युवभावं यावदङ्गीकरोति॥
(८. वयस्योपदेशः)
वयस्योपदेशो यथा—
वयं वक्तुं मिथ्या मधुरमविधेयात्मवचसो यथार्यं(र्थं) चेद् ब्रूयाः (भवति) स्यनुननय (तदमुष्याननुनयः)।
सुखा(—स्वादाभीष्टप्रिय—)रसिकया (मुग्धहृदये) त्वया मानः कस्मादयमबुधबोधाय विहितः॥ २०६॥१
१. पद्येऽत्र कोष्ठकेष्वस्मद्कृता पूर्त्तिः। यथा वा—(सूमु. १२)
प्रकारो मानस्य प्रियसखि ! यदीदृक् क्वचिदपि श्रुतो वा दृष्टो वा कथयतु तदाऽयं तव जनः।
प्रियं पादापान्तप्रणतमवधूय त्वमधुना वृतिच्छेद्रे पश्यस्पपहरसि हृष्यन्त्यसुहृदः॥ २०७॥
(९. सन्देशः)
सन्देशो यथा—(मेघ. १०९)
एतस्मान्मां कुशलिनमभिज्ञानदानाद् विदित्वा मा कैलीनादसितनयने ! मय्यविश्वासिनी भूः।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्तेऽप्यभोगा— दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति॥ २०८॥
यथा वा—(मेघ. १०७)
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ मासानन्यान् गमय चतुरो लोचने मीलयित्वा।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥ २०९॥
(१०. उपचारः)
उपचारो यथा—(शाकु. ३.१९)
किं शीतलैः क्लमविनोदिभिरार्द्रवातैः संचालयामि नलिनीदलतालवृन्तैः।
अङ्के निधाय करभोरु ! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ॥
यथा वा—
लोलांशुकस्य पवनाकुलितांशुकान्तं॰॥ २११॥
(वेसं. २.२३ पृ. ९६७) (११ दैवसंपद्)
दैवसंपद् यथा—(काव्याद. २.२९९)
मानमस्या निराकर्तुं पादयोर्मे/र्निपतिष्यतः।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्॥ २१२॥
यथा वा—
सेयमनभ्रा वृष्टिस्तदिदमवृष्टीह कन्दलीजन्म।
तदिदमकन्दलि कुसुमं तदिदमकुसुमं फलं चेति॥ २१३॥
(१२. उपकारस्मरण)
उपकारस्मरणं यथा—(मामा. ४.८)
तन्मे मनः क्षिपति यत् सरसप्रहारमालोक्य मामगणितस्खलदुत्तरीया।
त्रस्तैकहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसवलितैरिवाङैः ॥ २१४॥
यथा वा—(मामा. ९.१०)
सरसकुसुमक्षामैरङ्गैरनङ्गमहाज्वर— श्चिरमविरतोन्माथी सोढः प्रतिक्षणदारुणः।
तृणमिव ततः प्राणान् मोक्तुं मनो विधृतं तया किमपरमतो निर्व्यूढं यत् करार्पणसाहसम्॥ २१५॥
कलाविचारप्रमुखा अपीदानीं प्रकाशिताः।
आदिग्रहणतोऽन्येऽपि लक्षणीया विचक्षणैः॥ २१६॥
सञ्जीवनमनङ्गस्य सुखायतमात्मनः।
ऋत्वादीनामियं भङ्गिः शृङ्गारस्यापि जीवितम्॥ २१७॥
उपनिषदुपदिष्टा सेयमुद्दीपनानां त्रिभुवनविजयाप्तौ वैजयन्ती स्मरस्य।
तदुपहितविशेषाद्बोधसंस्कारजन्या ननुपदमनुभावानेव संभावयामः॥ २१८॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङगारप्रकाशे रत्युद्दीपनविभावप्रकाशो नाम
॥ षोडशः प्रकाशः॥ १६॥
अनाकलितमंशतोऽप्यभिनवादिभिः शारदा—मही—मतिमतांवरैर्यदपि शारदावैभवम्।
तदेतदुपदीकरोत्ययमिहेति संपश्यतां विदां भवति विस्मयो, निधिभृतोऽप्यहो दौर्विधी॥