अथ
शृङ्गारप्रकाशे पञ्चदशः प्रकाशः
रत्यालम्बनविभावप्रकाशः
यदुक्तं१ ‘तैः सविभावानुभावैः प्रकाशमानः शृङ्गारो विशेषतः स्वदते’, तत्र प्रायेण रतिप्रीत्यै विभावादीन् उदाहरणतो वक्ष्यामः।
द्विविधो विभावः — आलम्बनविभाव उद्दीपनविभावश्च।
यमालम्ब्य रत्यादय उत्पद्यन्ते स आलम्बनविभावो नायकादिः। तत्र—
(१. नायकः)
नायकश्चतुर्धा धीरोदात्त—धीरोद्धत—धीरललित—धीरप्रशान्तभेदात्।
(धैर्यम्)
धैर्यं हि नाम नायकव्यपदेशहेतुरिन्द्रियाविकारकारणं चित्तधर्मः, येन सतां
सत्यपि गर्वादिहेतौ गुणसमूहे नोत्सेकादयो जायन्ते॥ १॥
(१. धीरोदात्तः)
तद्(धैर्यं) यत्र गुणसन्निवेशचारुत्वादुदात्तं स धीरोदात्तः। यथा—
कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतशालिनी॥ २॥
(पृ. १००५) (२. धीरोद्धतः)
यत्र गुणानां हीनाधिकयोगादुपहतं (धैर्यं) स धीरोद्धतः। यथा— (उराच. ६.१९)
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद् गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एषः॥ ३॥
(३. धीरललितः)
यत्र तु सन्निवेशसौकुमार्याद् विलासमसृणं (धैर्यं) स धीरललितः। यथा—(कुसं.२.६४)
अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्ज्य कण्ठे।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमुखमुपतस्थे प्राञ्जलिः पुष्पधन्वा॥ ४॥
(४. धीरप्रशान्तः)
तत्र त्वमीषामेव शास्त्रार्थावगमपरिणत्या तदतिसत्त्वोत्तरं स धीरप्रशान्तः। यथा—
१. अत्रैव ६१६ पृष्ठे प्रथमपङ्क्तौ।
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना॥ ५॥
(रघु. १.२३) त एते गुणप्रकृतिप्रवृत्तिपरिग्रहभेदाद् यथासम्भवं द्वादशधा भवन्ति।
१. गुणतः उत्तमः, मध्यमः, कनिष्ठ इति।
२. प्रकृतेः सात्त्विको राजसस्तामस इति।
३. प्रवृत्तेरनुकूलो दक्षिणः शठो धृष्ट इति।
४. परिग्रहादसाधारणः साधारण इति। तेषु—
(१. गुणतः)
महाकुलीनतादिचतुर्विंशतिगुणयोगादुत्तमः; यथा—
रामोऽसौ जगतीह विक्रमगुणैर्यातः प्रसिद्धिं परा— मस्मद्भाग्यविपर्ययाद् यदि परं देवो न जानाति तम्।
वन्दीवैष यशांसि गायति मरुद् यस्यैकबाणाहति— श्रेणीभूतविशालसालविवरोद्गीर्णैः स्वरैः सप्तभिः॥ ६॥
पादोनगुणसम्पद्योगान्मध्यमः यथा—(वेसं. ५.२७)
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः।
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वा मध्यमः पाण्डवोऽयम्॥ ७॥
अर्धगुणसम्पद्योगात् कनिष्ठः; यथा—
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः॥ ८॥
(६४४) (२. प्रकृतेः)
सत्त्वोत्कर्षात् सात्त्विकः; यथा—(उरा. ६.१३)
शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे विद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशो द्विषि।
मा भैष्टेति निरुन्धतः कपिबलान्यस्योद्भटभ्रूस्थिते— र्मर्मच्छेदविंसस्थुलाक्षरपदा वाचस्त्वया न श्रुताः॥ ९॥
रजउत्कर्षाद् राजसः; यथा—(रघु. १९.१३)
अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे।
वल्लकी च हृदयङ्गमस्वना मञ्जुवागपि च वामलोचना॥ १०॥
तमोऽतिशयात् तामसः; यथा—
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां॰॥ ११॥
(पृ.५१४) (३. प्रवृत्तेः)
हृदयङ्गमप्रवृत्तिरनुकूलः; यथा—
किमिति कबरी यादृक्तादृग् ? दृशौ किमकज्जले ? न खलु लिखिताः पात्राङ्गुल्यः पत्रावल्यः किमद्य कपोलयोः।
अयमयमयं किञ्च क्लाम्यत्यसंस्मरणेन ते शशिमुखि ! सखीहस्तन्यस्तो विलासपरिच्छदः॥ १२॥
औपरोधिकप्रवृत्तिर्दक्षिणः; यथा—(रत्नाव. १.२५)
देवि ! त्वन्मुखपङ्कजेन शशिनश्छायातिरस्कारिणा पश्याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम्।
श्रुत्वा ते परिवारवारवनितागीतानि भृङ्गाङ्गना लीयन्ते कमलोदरेषु शनकैः सञ्जातलज्जा इव॥ १३॥
प्रातिकूलिकप्रवृत्तिः शठः; यथा—(मुरा. १.१)
धन्या केयं स्थिता ते शिरसि ? शशिकला; किं नु नामैतदस्याः ? नामैवास्यास्तदेतत् परिचितमपि ते विस्मृतं कस्य हेतोः ?।
नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु— र्देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्यात् प्रभोर्वः॥ १४॥
निरपत्रपप्रवृत्तिर्धृष्टः; यथा—
वाचो भामिनि ! किं तवाद्य परुषाः सुभ्रु ! भ्रुवोर्विभ्रमो विश्रान्तः कुत एष लोलनयने ! किं लोहिते लोचने।
स्वेदः किं नु घनस्तनि ! स्तनतटे मुक्ताफलालीतुलां धत्ते, मुञ्च रुषं ममात्र दयिते ! लेशोऽपि नास्त्यागसः॥ १५॥
(४. परिग्रहात्)
अनन्यजानिरसाधारणः; यथा—(उराच. १.३७)
आविवाहसमयाद् गृहे वने शैशवे तदनु यौवने पुनः।
स्वापहेतुरनुपासितोऽन्यया रामबाहुरुपधानमेष ते॥ १६॥
अनेकजानिः साधारणः; यथा—(शाकु. ६.१२)
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम्।
तावत् प्रिये ! मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति॥ १७॥
अथैषामेव त्रिधा व्यतिकरे चतुरुत्तरं शतम्। तत्र—
(धीरोदात्तः —८)
धीरोदात्तः सात्त्विकः; स तूत्तम एव; अनुकूलदक्षिणाऽसाधारणसाधारणभेद— व्यतिकरादष्टप्रकारः। तत्र
१. धीरोदात्तानुकूलो यथा—
आतङ्कश्रमसाध्वसव्यतिकरोत्कम्पः कथं सहृताम्॥ १८॥
(पृ.८३४) २. धीरोदात्तदक्षिणो यथा—(शाकु. ६.५)
रम्यं द्वेष्टि, यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्योपान्तविवर्तनैर्विगमयत्युन्निद एव क्षपाः।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलतिस्तदा भवति च व्रीडावनम्रश्चिरम्॥ १९॥
३. धीरोदात्तासाधारणो यथा—(मवीच. २.२७)
मुनिरयमथ वीरस्तादृशस्तत्प्रियं मे विरमतु परिकम्पः कातरे ! क्षत्रियाऽसि।
जगति विततकीर्त्तेर्दर्पकण्डूलदोष्णः परिसरणसमर्थो राघवः क्षत्रियोऽहम्॥ २०॥
४. धीरोदात्तसाधारणो यथा—(रघु. १.६५)
किन्तु वध्वां तवैतस्यामदृष्टसदृशप्रजम्।
न मामवति सद्वीपा रत्नसूरपि मोदिनी॥ २१॥
५. धीरोदात्तानुकूलासाधारणो यथा—(उरा. २.१४)
विचित्रमणिसङ्करस्फुरदुरुप्रभाभासुरं निमेषविमुखी दृशं मम मुहुः समापादयन्।
कुरङ्गतिलकानने तव तदेणचर्मांशुकं करिष्यति पयोधरे सुरधनुर्विलासोदयम्॥
६. धीरोदात्तानुकूलसाधारणो यथा—(शाकु. ३.१७)
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे।
समुद्ररशना चोर्वी सखी च युवयोरियम्॥ २३॥
७. धीरोदात्तदक्षिणासाधारणो यथा—
देवि ! त्वद्वदनारविन्दसुहृदामेषां सरोजन्मनां पश्य व्योमनि लोहितायति रवावेषा दशा वर्तते।
इत्थं सङ्कुचदम्बुजानुकरणव्योजपनीताञ्जलेः शम्भोर्वञ्चितपार्वतीकमुचितं सन्ध्यार्चितं पातु वः॥ २४॥
८. धीरोदात्तदक्षिणसाधारणो यथा—(विक्र. ३.१३)
अनेन कल्याणि ! मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम्।
प्रसादमाकाङ्क्षति यस्तवोत्सुकः स किं त्वया दासजनः प्रसाद्यते॥ २५॥
(धीरोद्धतः —४४)
धीरोद्धतस्तु तामसः मध्यमकनिष्ठकानुकूलदक्षिणशठधृष्टासाधारणसाधारण— व्यतिकरात् चतुश्चत्वारिंशत्प्रकारः।
१. धीरोद्धतमध्यमो यथा—(मामा. ५.६१)
प्रणयिसखीसलीलपरिहासरसाधिगतै— लैलितशिरिषपुष्पहननैरपि ताम्यति यत्।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पतति शिरस्यकाण्डयमदण्ड इवैष भुजः॥ २६॥
२. धीरोद्धतकनिष्ठो यथा—(जाह. १०.८६)
एकस्मिञ्छयनें मया मयसुतामालिङ्ग्य निद्रालसा— मुन्निदं शयितेन मे चरणयोः संवाहनव्यापृता।
पादाग्रेण तिलोत्तमा स्तनतटे सस्नेहमापीडिता हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुञ्चति॥ २७॥
३. धीरोद्धतानुकूलो यथा—(मामा. ५.२७)
त्वत्पाणिपङ्कजपरिग्रहधन्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः।
भ्राम्यन् नृमांसपणनाय परेतभूमौ आकर्ण्य भीरु ! रुदितानि तवागतोऽस्मि॥ २८॥
४. धीरोद्धतदक्षिणो यथा—
अत्रान्तरे रणित/ललितहारलतानितम्ब॥ २९॥
(पृ. ६४८, ८८४) ५. धीरोद्धतशठो यथा—
चंदो वि राइं आहिंडिऊण गोसम्मि होइ विच्छाओ।
तुं पुण जाआपरिमलपसाहणो सोहसि भमंतो॥ ३०॥
(चन्द्रोऽपि रात्रिमाहिण्ड्य प्रभाते भवति विच्छायः।
त्वं पुनर्जायापरिमलप्रसाधनः शोभसे भ्रमन्॥)
६. धीरोद्धतधृष्टो यथा—(माघ. ११.३४)
नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम्।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन् नवपरिमलगन्धः केन शक्यो वरीतुम् ?॥ ३१॥
७. धीरोद्धतासाधारणो यथा—(मामा.५.३२)
धैर्यं निधेहि हृदये हत एष पापः किंवा कदाचिदपि केनचिदन्वभावि।
सारङ्गसंहृतिविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः॥ ३२॥
८. धीरोद्धतसाधारणो यथा—
लाक्षागृहानलविषान्नसभाप्रवेशैः॥ ३३॥
(पृ. ३५९) ९. धीरोद्धतासाधारणानुकूलो यथा—(मामा. ७.४)
अद्योर्जितं विजितमेव मया किमन्यदद्योत्सवः फलवतो मम यौवनस्य।
यस्य प्रसादसुमुखेन समुद्यतेयं देवेन बान्धवधुरा मकरध्वजेन॥ ३४॥
१०. धीरोद्धतसाधारणानुकूलो यथा—(वेसं. १.२०)
चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य।
स्त्यानावबद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि ! भीमः॥ ३५॥
११. धीरोद्धतासाधारणदक्षिणो यथा—(मामा. ६.२०)
आमूलकण्टकितकोमलबाहुनालमार्द्राङ्गुलीदलमनङ्गनिदाघतप्तः।
अस्याः करेण करमाकलयामि कान्तमारक्तपङ्कजमिव द्विरदः सरस्याः॥ ३६॥
१२. धीरोद्धतदक्षिणसाधारणो यथा—
आकृष्टां नटरावणेन सहसा दृष्ट्वा पुरो जानकीं— मन्तः—क्षोभ—विजृम्भमाण—भयद—भ्रूभङ्ग—भीमाकृतेः ।
शार्ङ्गास्फालकृतोद्यमे भयकरस्पृष्टाग्रभूमेः क्रुधा राधां/मां वीक्ष्य हरेः प्रकान्ति जयति व्रीडावनम्रं मुखम्॥ ३७॥१
१३. धीरोद्धतासाधारणशठो यथा—
वनभुवि सह पत्या प्रस्थितां वीक्ष्य सीतां गृहिणमनुयियासुर्जानकी शोकनिष्ठा।
गुरु—गुरुजन—लज्जाऽऽनम्र—वक्त्राऽम्बुजेन भ्रुकुटिपुटनिबन्धाद् वारिता लक्ष्मणेन॥ ३८॥२
१४. धीरोद्धतसाधारणशठो यथा—
तं तिअसकुसुमदामं हरिणा णिग्गहिअ—सुरहि—गंधामोअं।
अप्पपिणइअं पि दूमिअ—पणइणि—हिअएण रुप्पिणीअ विइण्णं॥ ३९॥
(तत् त्रिदशकुसुमदाम हरिणा निर्गतसुरभिगन्धामोदम्।
आत्मना नीतमपि दून—प्रणयिनी—हृदयेन रुक्मिण्यै वितीर्णम्॥)
१५. धीरोद्धतासाधारणधृष्टो यथा—(वेसं. २.२०)
न्यस्ता न भ्रुकुटिर्न वाष्पसिलेलनाच्छदिते लोचने नीतं नाननमन्यतः सशपथं नाहं स्पृशन् वारितः।
तन्व्या मग्नपयोधरं भयवशादाविद्धमालिङ्गितं भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम॥ ४०॥
१६. धीरोद्धतसाधारणधृष्टो यथा—
शौरे ! कस्माद् पिधत्से दशनपदमिदं चारुकेश्याहितं ते चारुत्वं कीदृगस्य श्रितपशुवपुषा केशिना निर्मितस्य।
१. ‘सीताहरणप्रसङ्गः प्रयुज्यते। उपस्थितश्च प्रेक्षकेषु रामोऽपि। नासहिष्टासौ दृश्यमिदम्। क्रुद्धः स भीमाकृतिर्जातः। विष्णुत्वसंस्कारस्तु तत्र जजागार अस्मरच्च शार्ङ्गस्फालनायाः सः। उपस्थिता तु तस्याग्रे सीता। तां वीक्ष्य स्वीये विभ्रमे सव्रीडो रामो मुखं ननामे’—ति घटनाजातं मनसि कृत्वा निष्क्रष्टव्योत्र तात्पर्यार्थः। (नट = नथ। शार्ङ्गा = अङ्गा।) २. सीता राममनुगता। लक्ष्मणोऽपि गृहिणमग्रजमनुयियासाञ्चकार। स्वेऽध्यवसाये सीता लज्जितु— मारब्धा गुरवः पश्यन्तीति ध्यात्वा। तामेनां नम्रवक्त्राम्बुजो लक्ष्मणो वारयामास भ्रुकुटिपुटबन्धद्वारा। अयमत्राधारभूतोऽर्थः। द्रष्टव्याऽत्र पद्यसूची। संपूर्णे शृङ्गारप्रकाशे श्लोक एष वारत्रयमुद्धृतः—८६६ पृष्ठे, ९६५ पृष्ठे, १४०८ पृष्ठे च। ९६५ पृष्ठे राघवग्रन्थे प्रतीकमात्रम्। अत्र पाठभेदाः—‘जानकी शोकनिष्ठा रा. (पृ.१५५१), जानकीं चाकरिष्टा(?)जो.(पृ.६०२),रा.(पृ.९९४), जानकी सा कनिष्ठा जो (पृ.६७६)। अहो सेवां सरस्वत्याः। नैवं धृष्ट ! ब्रवीमि व्रजयुवतिमहं बाढमेष व्रजामी— त्येवं गोप्याऽवताद् वः क्षणकपटगिरा प्रीणितः कैटभारिः॥ ४१॥
१७. धीरोद्धतानुकूलमध्यमो यथा—(मामा.५.२६)
मरणसमये त्यक्ताशङ्कं प्रलापनिरर्गल— प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते।
सुतनु ! विसृजोत्कम्पं सम्प्रत्यसाविह पाप्मनः फलमनुभवत्युग्रं पापं प्रतीपविपाकिनः॥ ४२॥
१८. धीरोद्धतदक्षिणमध्यमो यथा—
जं च अलिओवआरं, जणस्स दक्खिण्णआएॅ घेप्पइ हिअअं।
जइ सो वि सिणेहो च्चिअ, ण णाम सब्भावकेअवाण विसेसो॥ ४३॥
(यच्च अलीकोपचारं जनस्य दक्षिणतया गृह्यते हृदयम्।
यदि सोऽपि स्नेह एव न नाम सद्भावकैतवयोर्विशेषः॥)
१९. धीरोद्धतशठमध्यमो यथा—(माघ. ३.१६)
यां यां प्रियः प्रैक्षत कातराक्षीं सा सा ह्रिया नम्रमुखी बभूव।
निश्शङ्कमन्याः सममाहितेर्ष्यास्तत्रान्तरे जघ्नुरमुं कटाक्षैः॥ ४४॥
२०. धीरोद्धतधृष्टमध्यमो यथा—
सुरकुसुमेहिं कलुसिअं जइ तेहिं चिअ पुणो पसाएमि तुमं।
तो पेम्मस्स किसोअरि ! अवराहस्स अ ण मे खमं होइ कअं॥ ४५॥
(सुरकुसुमैः कलुषितां यदि तैरेव पुनः प्रसादयामि त्वाम्।
ततः प्रेम्णः कृशोदरि ! अपराधस्य च न मे क्षमं भवति कृतम्॥)
२१. धीरोद्धतासाधारणमध्यमो यथा—यथा—(रघु. ७.७०)
इति स शिरसि वामं पादमाधाय राज्ञामुदवहदनवद्यां तामवद्यादपेतः।
तुरगखुररजोभिस्तस्य रुक्षालकान्ता समरविजयलक्ष्मीः सैव मूर्ता बभूव॥ ४६॥
२२. धीरोद्धतसाधारणमध्यमो यथा—(वेसं. १.२१)
मन्थायस्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः।
कृष्णाक्रोधाग्रदूतः कुरुशतनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम्॥ ४७॥
२३. धोराद्धतासाधरणानुकूलमध्यमो यथा—(वेसं. २.१७)
किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं किं द्रोणेन ? किमङ्गराजविशिखैरेवं यदि क्लाम्यसि।
भीरु ! भ्रातृशतस्य मे भुजवनच्छायां सुखोपस्थिता त्वं दुर्योधनकेसरीन्द्रगृहीणी, शङ्कास्पदं किं तव ?॥ ४८॥
२४. धीरोद्धतसाधारणानुकूलमध्यमो यथा—(वेसं. १.२४)
चत्वारो वयमृत्विजः, स भगवान् कर्मोपदेष्टा हरिः संग्रामाध्वरदीक्षितो नरपतिः, पत्नी गृहीतव्रता।
कौरव्याः पशवः, प्रियापरिभवक्लेशोपशान्तिः फलं राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः॥ ४९॥
२५. धीरोद्धतासाधारणदक्षिणमध्यमो यथा—(रघु. ७.६७)
इतः परानर्भकहार्यशास्त्रान् वैदर्भि ! पश्यानुमता मयाऽसि।
एवम्विधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः॥ ५०॥
२६. धीरोद्धतसाधारणदक्षिणमध्यमो यथा—(वेसं. १.१०)
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः।
विराटस्यावासे स्थितमनिभृता/नुचिता—रम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ?॥ ५१॥
२७. धीरोद्धतासाधारणशठमध्यमो यथा—(कुसं. ३.७४)
तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावरुध्य।
स्त्रीसन्निकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः॥ ५२॥
२८. धीरोद्धतसाधारणशठमध्यमो यथा—
राधा रोधसि यामुने परिसरे राधा लतावेश्मनां राधा तासु निशासु दत्तसमया राधा ध्वजस्योत्सवे।
इत्येवं समया श्रियं विलुठितः कण्ठोदरे शार्ङ्गिणो गीर्गुम्फः श्वसितानुमेयमहिमा राघामयः पातु वः॥ ५३॥
२९. धीरोद्धतासाधारणधृष्टमध्यमो यथा—(कुसं. ५.८३)
निर्वायतामालि ! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्॥ ५४॥
३०. धीरोद्धतसाधारणधृष्टमध्यमो यथा—
त्वया क्षान्तं क्षान्तं कुरु मुखमितो मां प्रति कृतं निधेहीमं पृष्ठे मम करमयं कान्तनिहितः।
सखीनां निर्बन्धान्मम च धृतपाणेः। प्रणमतः प्रिये ! का रुट् प्रीते मयि परमगूढास्तव रुषः॥ ५५॥
३१. धीरोद्धतानुकूलकनिष्ठो यथा—
स एष भुवनत्रयप्रथितसंयमः शङ्करः॥ ५६॥
(पृ. ५४०) ३२. धीरोद्धतदक्षिणकनिष्ठो यथा—(अमरुक. ८१)
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतशून्यो(हृद्यो)ऽधररसः।
मुहुर्लग्नः कण्ठे तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम्॥ ५७॥
३३. धीरोद्धतशठकनिष्ठो यथा—
आः सीते पतिगर्वविभ्रमभरभ्रान्तभ्रमद्बान्धव॰॥ ५८॥
(पृ. ६४०) ३४. धीरोद्धतधृष्टकनिष्ठो यथा—(राच. १९.६७)
जागर्षि जानकि ! विषीदसि किं विशेषा— दद्यापि तापसि ! न तं (तद्) न (वि)जहासि वाम्यम्।
धिग् दैवमेव मयि नाम वशंवदस्य विश्वप्रभोर्मम पुरः परिशोषमेषि॥ ५९॥
३५. धीरोद्धतासाधारणकनिष्ठो यथा—(वेसं. २.११)
तद् भीरुत्वं तव मम पुरः साहसानीदृशानि श्लाघा साऽस्मद््वपुषि विनयव्युत्क्रमेऽयेष रागः।
तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः ख्याते तस्मिन् वितमसि कुले जन्म कौलीनमेतत्॥ ६०॥
३६. धीरोद्धतसाधारणकनिष्ठो यथा—
जातं मे परुषेण भस्मरजसा तच्चन्दनोद्धूलनं॰॥ ६१॥
(पृ. ७०३) ३७. धीरोद्धतासाधारणानुकूलकनिष्ठो यथा—(मामा. ७.२)
रम्भोरु! संहर भयं क्षमते विकारमुत्कम्पिनः स्तनभरस्य न मध्यभागः।
इत्थं त्वयैव रचितः प्रणयप्रसादः सङ्कल्पनिर्वृतिषु संस्तुत एष दासः॥ ६२॥
३८. धीरोद्धतसाधारणानुकूलकनिष्ठो यथा—(उरा. २.२७)
वदत वदत सत्यं रूपमीदृक् कदाचिद् यदि पुनरबलाया दृष्टपूर्वं मुखादि।
जगति जितसमस्तारातिचक्रे यथेष्टं ननु किमिव न दृष्टं मत्प्रसादाद् भवद्भिः॥ ६३॥
३९. धीरोद्धतासाधारणदक्षिणकनिष्ठो यथा—(मेघ. १०८)
भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां लब्ध्वा किमपि रुदती सस्वरं विप्रबुद्धा।
सान्तर्हासं कथितमभवत् पृच्छातश्च त्वया मे दृष्टः स्वप्ने कितव! रमयन् कामापि त्वं मयेति॥ ६४॥
४०. धीरोद्धतसाधारणदक्षिणकनिष्ठो यथा—(गास. १.२२)
णववहुप्पेम्म—तणुइओ पणअं पढमघरिणीए रक्खंतो।
अलिहिअदुप्परिअल्लं पि णेइ रण्णं धणुं वाहो॥ ६५॥
(नववधूप्रेम तनूकृतः प्रणयं प्रथमगृहिण्या रक्षन्।
अलिखित/अतनूकृतं दुष्परिपाल्यदुराकर्षंमपि नयत्यरण्यं धनुर्व्याधः॥)
४१. धीरोद्धतासाधारणशठकनिष्ठो यथा—(वेसं. २.१३)
दिष्ट्याऽर्धश्रुतविप्रलब्धवचनक्रोधादहं नो गतो दिष्ट्या नो परुषं रुषार्धकथिते किञ्चिन्मया व्याहृतम्।
मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथान्तं गता मिथ्यादूषितयाऽनया विरहितं दिष्ट्या न जातं जगत्॥ ६६॥
४२. क्षीरोद्धतसाधारणशठकनिष्ठो यथा—(अमरु. ६०)
लाक्षालक्ष्म ललाटपट्टमभितः कोयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसः क्रीडातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः॥ ६७॥
४३. धीरोद्धतासाधारणधृष्टकनिष्ठो यथा—(वेसं. २.१६)
वितर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपथवर्तिन्यत्र किं संभ्रमेण?।
स्मितमधुरमुदारं देवि! मामालपोच्चैः प्रभवति मम पाण्योरञ्जलिस्त्वं स्पृशास्मान्॥ ६८॥
४४. धीरोद्धतसाधारणधृष्टकनिष्ठो यथा—(राच. १९.८६)
एतर्हि मामवनिपुत्रि! भजैकनाथं रत्नाकरं शशधरप्रभवा नदीव।
तस्मिन् निरोजसि न राजसि मर्त्यमात्रे मुक्तावली मृतशरीर इवावनद्धा॥ ६९॥
(धीरललितः —४४)
धीरललितस्तु राजसः। सोऽप्युत्तममध्यमानुकूलदक्षिणशठधृष्टासाधारण— साधारणादिभेदात् चतुश्चत्वारिंशत्प्रकार एव। तत्र—
१. धीरललितोत्तमो यथा—(कुसं. ८.२०)
एवमिन्द्रियसुखस्य वर्त्मनः सेवानादनुगृहीतमन्मथः।
शैलराजभवने सहोमया मासमात्रमवसद् वृषध्वजः॥ ७०॥
२. धीरललितमध्यमो यथा—(विक्र. ३.१९)
सामन्तमौलिमणिरञ्जितशासनाङ्कमेकातपत्रमवनेर्न तथा प्रभुत्वम्।
अस्याः सखे! चरणयोरधिगम्य कान्तमाज्ञाकरत्वमहमद्य यथा कृतार्थः॥ ७१॥
३. धीरललितानुकूलो यथा—(र. ३.५)
न मे ह्निया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।
इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः॥ ७२॥
४. धीरललितदक्षिणो यथा—(रत्ना. १.२२)
अनङ्गोऽयमनङ्गत्वमद्य निन्दिष्यति ध्रुवम्।
यदा तेन तु संप्राप्तः पाणिस्पर्शोत्सवस्तव॥ ७३॥
५. धीरललितशठो यथा—
वासः सम्प्रति केशव! क्व भवतो मुग्धेक्षणे! नन्विदं वासं ब्रूहि शठ! प्रकामसुभगे त्वद्गत्रसंश्लेषतः।
यामिन्यामुषितः क्व धूर्त! वितनुर्मुष्णाति किं यामिनी? शौरिर्गोपवधूं छलैः परिहसन्नेवंविधैः पातु वः॥ ७४॥
६. धीरललितधृष्टो यथा—(रत्ना. २.१७)
दृष्टिं रुषा क्षिपसि भामिनि! यद्यपीमां स्निग्धेयमेष्यति तथाऽपि न रूक्षभावम्।
त्यक्त्वा त्वरां व्रज तव स्खलितैरयं हि खेदं करष्यिति गुरुर्नियतं नितम्बः॥ ७५॥
७. धीरललितासाधारणो यथा—(कुसं. ३.२३)
स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः।
प्रान्तेषु संसक्तनमेरुशाखं स्थाण्वाश्रमं हैमवतं जगाम॥ ७६॥
८. धीरललितसाधारणो यथा—(रत्ना. २.८)
दुर्वारां मदनशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम्।
तद् भूयः शिशुशुकशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति॥ ७७॥
९. धीरललितासाधारणानुकूलो यथा—(मामा. १.३९)
जगति जयिनस्तेते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ ७८॥
१०. धीरललितसाधारणानुकूलो यथा—(विक्र. १.२०)
एषा मनो मे प्रसभं शरीरात् पितुः पदं मध्यममुत्पतन्ती।
सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी॥ ७९॥
११. धीरललितासाधारणदक्षिणो यथा—(कुसं. ८.४८)
तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मां प्रति।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि! विनोदयिष्यति॥ ८०॥
१२. धीरललितसाधारणदक्षिणो यथा—
वाचो भामिनि! किं तवाद्य परुषाः सुभ्रु! भ्रुवोर्विभ्रमः॥ ८१॥ (पृ. ८६३)
१३. धीरललितासाधारणशठो यथा—(उराच. १.४६)
अपूर्वकर्मचण्डालमयि मुग्धे! विमुञ्च माम्।
श्रिताऽसि चन्दन भ्रान्त्या दुर्विपाकं विषद्रुमम्॥ ८२॥
१४. धीरललितसाधारणशठो यथा—
दूरादेव विलोक्य दुग्धधवलां राधामुखेन्दुद्युतिं मुग्धे मोहिनि! मुञ्च मां हलधरस्यैषा प्रभा दृश्यते।
इत्थं व्याजविसर्जितव्रजवधूहर्षप्रसन्नाननः कृष्णो वाञ्छितसङ्गमद्विगुणितप्रेमोत्सवः पातु वः॥ ८३॥
१५. धीरललितासाधारणधृष्टो यथा—
क्लाम्यन्ती यदुपेक्षितासि पुरतः कामो यदग्रे हतः क्लिष्टं यत् तपसा वपुर्यदपि च प्रोक्ता वटुच्छाद्मना।
तत् सर्वं प्रणतस्य मेऽद्य दयिते दाक्षायाणि! क्षम्यता— मित्युक्त्वा चरणाब्जयोर्विजयते लुण्ठन् शिवायाः शिवः॥ ८४॥
१६. धीरललितसाधारणधृष्टो यथा—(रत्ना. २.२०)
प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः।
न मे दोषोऽस्तीति त्वमिदमपि विज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे!॥ ८५॥
१७. धीरललितानुकूलोत्तमो यथा—(विक्र. १.११)
यदृच्छया त्वं सकृदप्यवन्ध्ययोः पथि स्थिता सुन्दरि! यस्य नेत्रयोः।
त्वया विना सोऽपि समुत्सुको भवेत् सखीजनस्ते किमुतार्द्रसौहृदः॥ ८६॥
१८. धीरललितदक्षिणोत्तमो यथा—
प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मा मा गोत्रस्खलितादुपैतु च दिवा राधेति भीरोरिति।
रात्रावस्वपतो दिवा च विजने लक्ष्मीति चाभ्यस्यतो राधां संस्मरतः श्रियं रमयतः खेदो हरेः पातु वः॥ ८७॥
१९. धीरललितशठोत्तमो यथा—
केयं मू्र्ध्न्यन्धकारे तिमिरमिह कुतः सुभ्रु! कान्तेन्दुयुक्ते॥ ८८॥ (पृ. ५५५)
२०. धीरललितधृष्टोत्तमो यथा—(रत्ना. ४.१)
सव्याजैः शपथैः प्रियेण वचसा चित्तानुवृत्त्याऽधिकं वैलक्ष्येण परेण पादपतनैर्वाक्यैः सखीनां पुनः।
प्रत्यापत्तिमुपागता मयि तथा देवी रुदत्या यथा प्रक्षाल्येव तयैव बाष्पसलिलैः कोपोऽपनीतः स्वयम्॥ ८९॥
२१. धीरललितासाधारणोत्तमो यथा—
आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चित्स्खलद्वाससो रेवत्यंसनिषण्णनिस्सहभुजस्याताम्रनेत्रद्युतेः ।
श्वासामोदमदान्धषट्पदकुलव्यालुप्तकण्ठस्त्रजः पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः॥ ९०॥
२२. धीरललितसाधारणोत्तमो यथा—
कालिन्दीजलकुञ्जवञ्जुलवनच्छायानिषण्णात्मनो राधाबद्धनवानुरागरसिकस्योत्कण्ठया गायतः।
तत् पायादुपलस्खलज्जलभवज्झङ्कारसंमूर्छितं गीतं लम्बितकर्णतर्णककुलैराकर्ण्य़मानं हरेः॥ ९१॥
२३. धीरललितासाधारणानुकूलोत्तमो यथा—(कुसं. ८.५१)
मुञ्च कोपमनिमित्तकोपने! सन्ध्यया प्रणमितोऽहमन्यया।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः॥ ९२॥
२४. धीरललितसाधारणानुकूलोत्तमो यथा—(विक्र. १.६)
गतं भयं मीरु! सुरारिसम्भवं त्रिलोकरक्षी महिमा हि वज्रिणः।
तदेतदुन्मीलय चक्षुरायतं निशावसाने नलिनीव पङ्कजम्॥ ९३॥
२५. धीरललितासाधारणदक्षिणोत्तमो यथा—(कुसं. ८.५२)
निर्मितेंषु पितृषु स्वयंभुवा या तनुः सुतनु! पूर्वमुज्झिता।
सेयमस्तमुदयं च सेवते तेन मानिनि! ममात्र गौरवम्॥ ९४॥
२६. धीरललितसाधारणदक्षिणोत्तमो यथा—(रत्ना. १.२०)
प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरगरुचिरस्फुरदंशुकान्ता।
विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटापिप्रभवा लतेव॥ ९५॥
२७. धीरललितासाधारणशठोत्तमो यथा—(कुसं. ५.६१)
न वेद्मि संप्रार्थितदुर्लभः कदा सखीभिरास्त्रान्तरवीक्षितामिमाम्।
तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम्॥ ९६॥
२८. धीरललितसाधारणशठोत्तमो यथा—
निर्मग्नेन मयाम्भसि स्मरभरात् पाली(आली) समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे! मुधा ताम्यसि।
इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः॥ ९७॥
२९. धीरललितासाधारणधृष्टोत्तमो यथा—(कुसं. ५.८४)
इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभीन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितः समाललम्वे वृषराजकेतनः॥ ९८॥
३०. धीरललितसाधारणधृष्टोत्तमो यथा—(रत्ना. ३.१४)
आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि! मूर्ध्ना।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणा मयि स्यात्॥ ९९॥
३१. धीरललितानुकूलमध्ययो यथा—(वेसं. २.९)
किं कण्ठे शिथीलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तष्वभिमुखं नाद्यापि सम्भाविता।
अन्यस्त्रीजनसङ्कथालघुरहं स्वप्ने त्वया लक्षितो दोषं पश्यसि किं प्रिये! परिजनोपालम्भयोग्ये मयि॥ १००॥
३२. धीरललितदक्षिणमध्यमो यथा—
गच्छाम्यच्युत! दर्शनेन भवतः किं तृप्तिरुत्पद्यते ? किंत्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा— माश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः॥ १०१॥
३३. धीरललितशठमध्यमो यथा—
सत्यान्यस्तकरस्य वारिधितटे संपश्यतो वीरुधः स्मृत्वा यामुनकूलकम्पितलतावेश्मान्तरक्रीडितम्।
गोपीनामहठोपचारमधुरप्रेमार्द्रभावश्रिया— मुत्कण्ठाभरमन्थरं मधुरिपोर्गीतं शिवायास्तु वः॥ १०२॥
३४. धीरललितधृष्टमध्यमो यथा—
कण्ठे हारलतायोग्ये येन पाशस्तवार्पितः।
गृहीतः सापराधोऽयं मुच्यते स कथं करः॥ १०३॥
३५. धीरललितासाधारणमध्यमो यथा—(मेघ. १००)
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात्।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृश्य— स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह॥ १०४॥
३६. धीरललितसाधारणमध्यमो यथा—
दूरे गोकुलनाथ! गोकुलमितः सञ्चारशून्या दिश— स्त्यक्त्वा मां धनिकादयोऽपि हि गता मासातिखेदालसाः।
विस्तीर्णा वनराजिकेयमपराऽजानां पुरो निर्गमात् खिन्नाऽस्मि प्रतिपालयेत्यभिहितो गोप्या हरिः पातु वः॥ १०५॥१
३७. धीरललितासाधारणानुकूलमध्यमो यथा—(मामा. ८.२)
निश्च्योतन्ते सुतनु! कबरीबिन्दवो यावदेते यावन्मध्यः स्तनमुकुलयोर्नार्द्रभावं जहाति।
यावत् सान्द्रप्रतनुपुलकोद्भेदवत्यङ्गयष्टि— स्तावद् गाढं वितर सकृदप्यङ्गपालीं प्रसीद॥ १०६॥
३८. धीरललितसाधारणानुकूलमध्यमो यथा—(वेसं. १.२)
कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम्।
तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गते— रक्षुण्णोऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः॥ १०७॥
३९. धीरललितासाधारणदक्षिणमध्यमो यथा—
व्रीडायोगान्नतवदनया सन्निधाने गुरूणां वद्धोत्कम्प्रस्तनकलशयोर्मन्युमन्तर्नियम्य ।
तिष्ठेत्युक्तं किमिव न तया यत् समुत्सृज्य बाष्पं मय्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः॥ १०८॥
१. श्रीकृष्णो गा इव महिषीरप्यजाश्चापि चारयति स्मेति श्रीभागवतात् प्रसिद्धम्। ४०. धीरललितसाधारणदक्षिणमध्यमो यथा—
स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु— र्द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याऽद्य च।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः॥ १०९॥
४१. धीरललितासाधारणशठमध्यमो यथा—(कुसं. ५.५८)
यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थामिमं कथं जनम्।
इति स्वहस्तालिखिश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः॥ ११०॥
४२. धीरललितसाधारणशठमध्यमो यथा—(अमरु. १९)
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा— देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः।
ईषद्वर्तितकन्धरः सपुलकस्वेदोल्लसन्मानसा— मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥ १११॥
४३. धीरललितासाधारणधृष्टमध्यमो यथा—(सूमु. २३)
प्रसादे वर्तस्व, प्रकटय मुदं, संहर रुषं प्रिये! शुष्यत्यङ्गान्यमृतमिव ते सिञ्चतु वचः।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे! प्रत्येतुं प्रभवति गतः कालहरिणः॥ ११२॥
४४. धीरललितसाधारणधृष्टमध्यमो यथा—
आधातुं विनयं निरागसि जने कुप्यन्तु नामेश्वरा— स्तेन स्मारय/स्वाशय शुद्धिरेव सुवचा प्रायः प्रभूणां पुरः।
मिथ्या मानिनि! मन्यसे यदि तदा नित्यं मनोवर्तिनी वाच्या तामरसाक्षि! साक्षिपदके का वा त्वदन्या मया॥ ११३॥
(धीरप्रशान्तः—८)
धीरप्रशान्तोऽपि धीरोदात्तवदष्टधैव। तस्य तु धीरप्रशान्तानुकूलप्रतिभेदा यद्यपि विद्यन्ते; तथापि सत्त्वातिरेकादगाढसम्भोगत्वेन नोपलक्ष्यन्ते। तथा ह्येतद्विषये सुभाषितानीत्थमध्यगीष्महि—
तत् पाण्डित्यं न पतति पुनर्येन संसारचक्रे सा सन्मैत्री न चलति पुनर्या सुखे चासुखे च।
सम्भोगास्ते म/र—तिषु विदुषां ये न वाच्याः परेषां तच्चैश्वर्यं जगति महतां यत् परेषां सुखाय॥ ११४॥
पुरुषार्थान्तरे पुनरस्य धीरोदात्तादिभ्योऽपि महान् विशेष इव लभ्यते। तद्यथा—
किमप्यहिंस्यस्तव चेन्मतोऽहं यशश्शरीरे भव मे दयालुः।
एकान्ताविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु॥ (रघु. २.५७)
यथा वा—(किराता. २.३०)
सहसा विदधीत न क्रियामाविवेकः परमापदां पदम्।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥ ११६॥
अथैषामपि मिथस्संसर्गभेदा भवन्ति। ते तु यद्यपि बहुत्वात् संख्यातुमशक्यास्तथापि लेशतः कथ्यन्ते। तेषु —
धीरोदात्तप्रशान्तो यथा—
अतिथिभिर्गतमेव गृहागतैरपथिकागमना च निशीथिनी।
तदधुना प्रतिजागृहि पुत्रकान् प्रविश वेश्म कुटुम्बिनि! शेमहे॥ ११७॥
धीरोद्धतप्रशान्तो यथा—(बारा. २.६३)
अतिथिरसि किमन्यद् देवदेवो गुरुस्ते वयमपि च सदाराः साग्नयोऽस्मिन् वसामः।
तदनु/पसर गृहान्नस्त्वं भृगोः पुत्रभाण्डं वटुपरिषदभीष्टास्सन्त्वनध्यायचेष्टाः॥ ११८॥
धीरप्रशान्तमध्यमो यथा—
विषयपतिरलुब्धो धेनुभिर्धाम पूतं कतिचिदभिमतायां सीम्नि सीरा वहन्ति।
शिथिलयति न भार्या चातिथेयीं सपर्यामिति सुकृतमनेन व्यञ्जितं नः फलेन॥ ११९॥
धीरललितकनिष्ठो यथा—
शतं वारानुक्तः प्रियसखि! वचोभिः सुपरुषैः सहस्त्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः।
कियत्कृत्वो बद्धाः पुनरिह न वेद्मि भ्रुकुटय— स्तथाऽपि क्लिष्टात्मा क्षणमपि न धृष्टो विरमति॥ १२०॥
एवमन्येऽपि विज्ञेया भेदाः संभेदतो मिथः।
चतुर्णामपि लक्ष्येषु नायकानां मनीषिभिः॥ १२१॥
धीरोदात्तादिभेदेन चतुरश्चतुरोऽपि च।
चतुश्शतविधावन् वेत्ति नायकान् स कविः कविः॥ १२२॥
परिग्रहप्रवृत्तिभ्यां गुणप्रकृतियोगतः।
चातुर्विध्याच्च धैर्यस्य नायकत्वं नियम्यते॥ १२३॥
इति निगदित एष नायकानामसदृशभङ्गिमनोहरः प्रपञ्चः।
निजनिजपटुभङ्गिमङ्गनानां बहुबिधभेदवतीमतोऽभिधास्ये॥ १२४॥१
(२. नायिकाः)
तत्र नायिका अपि चतस्त्रः स्वकीया, परकीया, पुनर्भूः, सामान्या च। तत्र स्वकीया यथा—
अतिथिभिर्गतमेव गृहागतैः॰ (पृ. ८७९)
परकीया यथा—(रघु. १६.८)
का त्वं शुभे! कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति॥ १२५॥
पुनर्भूर्यथा—(माघ. १६.८१)
यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः।
तेनोह्यते साम्प्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः॥ १२६॥
सामान्या यथा—
मदोदयान्दोलितताम्रलोचनाः सुराङ्गानास्तूर्णमितोऽपसर्पत।
इयं पुनश्चित्रशिखण्डिमण्डली क्व पण्यनार्यः? क्व च नाम तापसाः?॥ १२७॥
तत्र स्वकीया परकीया च उत्तमा, मध्यमा, कनिष्ठा, ऊढा, अनूढा, धीरा, अधीरा, मुग्धा, मध्या, प्रगल्भा च।
उत्तमा यथा—(कुसं. १.४९)
सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदे/वेशं विनिवेशितेन।
सा निर्मिता विश्वसृजा प्रयत्नादेकत्र सौन्दर्यदिदृक्षयेव॥ १२८॥
१. ‘इति महाराजाधिराजश्रीभोजदेवकृतौ श्रृङ्गारप्रकाशे रत्यालम्बनप्रकाशनो नाम पञ्चदशः प्रकाशः॥ १५॥’ इति त्वत्र योजयितुमुचितम्। मध्यमा यथा—(काव्याद. २.३२५)
न देवकन्यका नापि गन्धर्वकुलसम्भवा।
तथाऽप्येषा मनोभङ्गं विधातुं वेधसोऽप्यलम्॥ १२९॥
कनिष्ठा यथा—(गास. २.१९)
अज्ज कइमो हु दिअहो वाहवहू रूवजोव्वणुम्मत्ता।
सोहग्गं धणुरुंपच्छलेण रच्छासु विक्खिरइ॥ १३०॥
(अद्य कतमोऽपि दिवसो व्याधवधू रूपयौवनोन्मत्ता।
सौभाग्यं धनुस्तष्टत्वक्छलेन रथ्यासु विकिरति॥)
ऊढा यथा—(कुसं. ७.९५)
नवपरिणयलज्जाभूषणां तत्र गौरीं वदनमपहरन्तीमब्जसङ्काशमीशः ।
अपि शयनसखीभ्यो दत्तवाचं कथंचित् प्रथममुखविकासैर्हासयामास गूढम्॥ १३१॥
अनूढा यथा—(कुसं. १.५०)
तां नारदः कामचरः कदाचित् कन्यां किल प्रेक्ष्य पितुः समीपे।
समादिदेशौकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य॥ १३२॥
धीरा यथा—(मामा. ६.६)
इयमवयवैः पाण्डुक्षामैरलङ्कृतमण्डना कलितकुसुमा वल्लीवान्तर्लता परिशोषिणी।
वहति च वरारोहा रम्यां विवाहमहोत्सव— श्रियमुदयिनीमत्यर्थं च व्यनक्ति मनोरुजम्॥ १३३॥
अधीरा यथा—
झिज्जंति वलंति समूससंति सिज्जंति कंटइज्जंति।
अंगाइ तस्स पुरओ ण आणिमो कह हु विज्जंति॥ १३४॥
(जीर्यन्ते वलन्ति समुच्छ्वसन्ति स्विद्यन्ति कण्टकीयन्ति।
अङ्गानि तस्य पुरतो न जानीमः कथं खलु विद्यन्ते॥)
मुग्धा यथा—(काव्याद. २.१४३)
मानयोग्यां करोमीति प्रियस्थाने कृतां सखीम्।
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा॥ १३५॥
मध्या यथा—(गास. ९.८१)
दंतक्खअं कओले कअग्गहुव्वेल्लिअं च धम्मिल्लं।
णिद्दालसं च दिट्ठिं, बहुएॅ बहुमण्णइ अणंगो॥ १३६॥
(दन्तक्षतं कपोले कचग्रहोद्वेल्लितं च धम्मिल्लम्।
निद्रालसां च दृष्टिं वध्वा बहुमन्यते अनङ्गः॥)
प्रगल्भा यथा—(काव्याद. २.२६१)
कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम्।
अवेत्य कान्तमबला लीलापद्मं न्यमीलयत्॥ १३७॥
पुनर्भूरक्षता, क्षता, यातायाता यायावरा च।
अक्षता यथा—
अवाप्तकन्यातुलया सत्यवत्या समागतः।
विमुक्तचिन्तया रेजे राजा राजीवलोचनः॥ १३८॥
क्षता यथा—
मयेन निर्मितां लङ्कां लब्ध्वा मन्दोदरीमपि।
रेमे मूर्तो दशाग्रीवलक्ष्मीमिव विभीषणः॥ १३९॥
यातायाता यथा—
सावज्ञाः पतिपादयोर्धृतगुरुव्रीडा गुरूणां ततौ ? सोन्माथा ममतामुखे स्थित/स्मित—कृतावज्ञा सखीसंसदि।
शक्राभ्यर्थनया कथञ्चन पुनः प्रत्यागताया गृहे तारायास्तरलं स्खलन्ति गगने गर्भालसा दृष्टयः॥ १४०॥
यायावरा यथा—
क्रमेण सद्भर्तृचतुष्टयादिति प्रसूय साऽष्टौ तनयांस्तनूदरी।
दरीषु विन्ध्याद्रिवरस्य माधवी महत् तपस्तप्तुमथोपचक्रमे॥ १४१॥
सामान्या ऊढा, अनूढा, स्वयंवरा, स्वैरिणी, वेश्या च।
ऊढा यथा—(किराता. ३.३६)
तुषारलेशाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः।
अगूढभावाऽपि विलोकने सा न लोचने मीलयितुं विषेहे॥ १४२॥
अनूढा यथा—(मवीच. १.३०)
कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्नं यत् क्वचिदस्ति तत् परिणमत्यस्मासु शक्रादपि।
कन्यायाश्च परार्थतैव हि मता, तस्याः प्रदानादहं बन्धुर्वो भविता, पुलस्त्यपुलहप्रष्ठाश्च सम्बन्धिनः॥ १४३॥
स्वयंवरा यथा—(रघु. ६.६७)
सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ १४४॥
स्वैरिणी यथा—(सूमु. १०)
आद्ये जग्मुषि ताम्रचूडरहि/सिते श्रोत्रं प्रबुद्धा दरात्/जवात् किञ्चिद् वासवदिङ्मुखं प्रविकसद् दृष्ट्वा गवाक्षाध्वना।
सन्त्रासेन समीरिता प्रियतमप्रेम्णा निरुद्धा शनै— रुत्थानोपनिवेशनानि कुरुते कल्पे/तल्पे मुहुः स्वैरिणी॥ १४५॥
वेश्या तु गणिका, विलासिनी रूपाजीवा च।
गणिका यथा—
ततजातिषु तुम्बुरुर्गरुर्गुरुकल्पः सुषिरेषु नारदः।
विततेषु विशेषहेतवो मम विश्वावसुपादपांसवः॥ १४६॥
विलासिनी यथा—(मेघ. ३५)
पादन्यासक्वणितशनास्तत्र लीलावधूतैः रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः।
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दू— नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्॥ १४७॥
रूपाजीवा यथा—(कुट्टनी. ४४)
अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः।
चिकुरभरस्तव सुन्दरि ! कामिजनं किङ्करीकुरुते॥ १४८॥
(१. स्वकीया)
अथ स्वकीयानामुत्तमादिभेदे व्यतिकरप्रस्तारे त्रिचत्वारिंशच्छतम्। तत्र— स्वकीया उत्तमा यथा—(शाकु. १.१७)
सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥ १४९॥
उत्तमा धीरा यथा—(गास. १.८८)
जाणइ जाणावेउं अणुणअ—विद्दविअ—माणपरिसेसं।
पइरिक्कम्मि वि विणआवलंबणं स च्चिअ कुणंती॥ १५०॥
(जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम्।
परिक्रमेऽपि विनयावलम्बनं सत्यमिव कुर्वती॥)
उत्तमाऽधीरा यथा—(गास. ४.२३)
पिअदंसण—सुहरसमउलिआइँ जइ से ण होंति अच्छीइं।
ता केण कण्णरइअं लक्खिज्जइ कुवलअं तिस्सा॥ १५१॥
(प्रियदर्शनसुखरसमुकुलिते यदि तस्या न भवतो अक्षिणीं।
तदा केन कर्णरचितं लक्ष्यते कुवलयं तस्याः॥)
उत्तमा ऊढा यथा—(रघु. ७.२५)
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ॥ १५२॥
उत्तमानूढा यथा—(शाकु. २.१०)
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै— रनाविद्धं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमपि/मिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ १५३॥
उत्तमा धीरोढा यथा—(चौप. ११)
अद्यापि तन्मनसि संपरिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या।
जीवेति मङ्गलविधिं परिहृत्य कोपात् कर्णे कृतं कनकपत्रमनालपन्त्या॥ १५४॥
उत्तमा धीरानूढा यथा—(कुसं. ६.१)
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम्।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति॥ १५५॥
उत्तमाऽधीरोढा यथा—
सस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन वत्सा।
मरुन्नवाम्भःप्रविधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव॥ १५६॥
उत्तमाऽधीराऽनूढा यथा—(मामा. १.२९)
अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममुत्पलक्ष्याः।
तद् भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं किमपि मान्मथ़/?/माविरासीत्॥ १५७॥
उत्तमा मुग्धा यथा—(गास. ७.७८)
मुद्धे अपत्तिअंती, पवाल—अंकुरअ—वण्ण—लोहिअए।
णिद्धोअ—धाउराए कीस सहत्थे पुणो धुअसि॥ १५८॥
(मुग्धे ! अप्रत्ययन्ती प्रवालाङ्कुरसवर्णलोहितौ।
निर्धौतधातुरागौ कस्मात् स्वहस्तौ पुनर्धावयसि॥)
उत्तमाधीरा मुग्धा यथा—(जाह. १०.५०)
द्वित्राण्यथ रथाद् भूमौ पदान्याधाय निस्सहा।
येयमत्र कियद् दूरमिति पप्रच्छ मैथिली॥ १५९॥
उत्तमा धीरा मुग्धा यथा—(वज्जाल. पृ.३७९)
कइआ गओ पिओ अज्ज पुत्ति ! अज्जेण कइ दिणा होंति ?।
एक्को, एद्दहमेत्तो भणिउं मोहं गआ बाला॥ १६०॥
{कदा गतः प्रियः ? अद्य पुत्रि ! अद्येति कति दिनानि भवन्ति ?।
एकः, एतावन्मात्रे भणिते मोहं गता बाला॥}
उत्तमा ऊढा मुग्धा यथा—(गास. १.१५)
किं किं दे पडिहासइ ? सहीहिं हअ पुच्छिआएँ मुद्धाए।
पढमुग्गअ—दोहलिणीए णवरं दइअं गआ दिट्ठी॥ १६१॥
(किं किं ते प्रतिभासते ? सखीभिरिति पृष्टाया मुग्धायाः।
प्रथमोद्गतदोहदिन्याः केवलं दयितं गता दृष्टिः॥)
उत्तमाऽनूढा मुग्धा यथा—
जाव ण उट्ठंति वाचिअ/वलिअ—थणआ से दुद्धगंधिअमुहीए।
ताव च्चिअ थुत्थुक्कारिआइ मअणेण अंगाइ॥ १६२॥
(यावन्न उत्तिष्ठतः वलित/पीन—स्तनौ दुग्धगन्धिमुख्याः।
तावदेव १थूथू—कृतानि मदनेन अङ्गानि॥)
उत्तमा धीरोढा मुग्धा यथा—(गास.७.४७)
पुच्छिज्जंती ण भणइ गहिआ पिप्फुरइ चुंबिआ रुअइ।
तुण्हिक्का णववहुआ कआवराहेण दइएण उवऊढा॥ १६३॥
(पृच्छ्यमाना न भणति, गृहीता प्रस्फुरति, चुम्बिता रोदिति।
तूष्णीका नववधूः कृतापराधेन दयितेनोपगूढा॥)
उत्तमा धीराऽनूढा मुग्धा यथा—
तह मुद्धाए पुलाइओ पिअवरो पक्खुमेणए/वसुमेलए कह वि।
जह से पढमं हिअए पच्छा हत्थम्मि वि वलग्गो॥ १६४॥
(तथा मुग्धया प्रलोकितः प्रियवरः पक्ष्मणैकेनापि।
यथा तस्य प्रथमं हृदये पश्चात् हस्तेऽपि विलग्ना॥)
उत्तमा धीराऽनूढा मुग्धा यथा—
बालत्तणदुल्ललिआए अज्ज अणज्जं कअं णववहूए।
भाआमि घरे एआइणि त्ति णिंतो पई रुद्धो॥ १६५॥
(बालत्वदुर्ललितयाऽद्य अनार्यं कृतं नववध्वा।
बिभेमि गृहे एकाकिनीति निर्यन् पती रुद्धः॥)
उत्तमा अधीराऽनूढा मुग्धा यथा—(द्र. छाया परिशिष्ट—४)
णिसुणइ अहोमुहं तंस—वलिअ—सेआसअंत—गंडअला।
हिअइच्छिअ—वर—वारेज्ज—हअह(?) संकित्तणं कुमारी॥ १६६॥
उत्तमा मध्या यथा—
अंतरअंति समुण्णअ—पओहरा पिअअमाए मुहअंदं।
मा रइविआसिणी चिअ कमलच्छाआ विसंवअइ॥ १६७॥
(अन्तरयतः समुन्नतययोधरौ प्रियतमाया मुखचन्द्रम्।
मा रविविकासिन्येव कमलच्छाया विसम्वदति॥)
उत्तमा धीरा मध्यमा यथा—(अमरु.)
दुरादुत्सुकमागते विवलितं, संभाषिणि स्फारितं, संश्लिष्यत्यरुणं, गृहीतवसने कोपाञ्चितभ्रूलतम्।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूरेक्षणात् चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि॥ १६८॥
उत्तमा धीरा मध्यमा यथा—
आतङ्कश्रमसाध्वसव्यतिकरोत्कम्पः कथं सह्यताम्॥ १६९॥
(पृ.८३४) उत्तमा ऊढा मध्यमां यथा—
कह मा झिज्जउ मज्झो इमाएॅ कंदोट्टदलसरिच्छेहिं।
णअणेहिं जो ण दीसइ घण—थण—हर—रुद्ध—पसरेहिं॥ १७०॥
(कथं मा क्षीयतां मध्योऽस्याः कुवलयदलसदृक्षाभ़्या/?/म्।
नयनाभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम्॥)
उत्तमा अनूढा मध्या यथा—(मामा. ४.८)
तन्मे मनः क्षिपति यत् सरसप्रहारमालोक्य मामगणितस्खलदुत्तरीया।
त्रस्तैकहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥ १७१॥
उत्तमा धीरोढा मध्या यथा—
निश्च्योतन्ते सुतनु ! कबरीबिन्दवो यावदेते॥ १७२॥
(८७७) उत्तमा धीराऽनूढा मध्या यथा—(मामा. २.२)
ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यतः।
मम तु दयितस्तातः श्लाघ्यो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्॥ १७३॥
उत्तमा अधीरोढा मध्या यथा—(कुसं. ८.५)
एवमालि ! निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति।
सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये॥ १७४॥
उत्तमाऽधीराऽनूढा मध्या यथा—(गास ३.७८)
सेअच्छलेण पेच्छह तणुए अंगम्मि से अमाअंतं।
लावण्णं ओसरइ व्व तिवलि—सोवाण—पंतीए॥ १७५॥
(स्वेदच्छलेन प्रेक्षध्वं तनुकेऽङ्गे तस्या अमात्।
लावण्यमपसरतीव त्रिवलीसोपानपङ्क्तिभिः॥)
उत्तमा प्रगल्भा यथा—
णिहुअं खु णीससिज्जइ रुव्वइ राईसु तं पि णीसद्दं।
वहुआ पइम्मि कआवराहे हिअइच्छिआणिण्हुविज्जंति॥ १७६॥
(निभृतं खलु निःश्वस्यते रुद्यते रात्रिषु तदपि निश्शब्दम्।
पत्यौ कृतापराधे हृदयेप्सितानि ह्नूयन्ते॥)
उत्तमा धीरा प्रगल्भा यथा—(गास. १.४८)
अण्णदइआ/महिलापसंगं दे देव करेसु अम्ह दइअस्स।
पुरिसा एक्कंत—रसा ण हु दोस—गुणे विआणंति॥ १७७॥
(अन्यदयिता/महिला—प्रसङ्गं हे देव ! कुर्वस्माकं दयितस्य।
पुरुषा एकान्तरसा न खलु दोषगुणौ विजानन्ति॥)
उत्तमाऽधीरा प्रगल्भा यथा—(गास. २.४७)
ण मुअंति दीहसासं ण रुअंति चिरं, ण होंति किसिआओ।
धण्णाओ ताओ जाणं बहुवल्लह वल्लहो ण तुमं॥ १७८॥
(न मुञ्चन्ति दीर्घश्वासं न रुदन्ति चिरं न भवन्ति कृशाः।
धन्यास्ता यासां बहुवल्लभ ! वल्लभो न त्वम्॥)
उत्तमा ऊढा प्रगल्भा यथा—(गास. १.२३)
आणासआइँ देंती तह सुरए हरिस—विअसिअ—कवोला।
गोसे वि ओणअ—मुही, अह सेत्ति पिअं ण सद्दहिमो॥ १७९॥
(आज्ञाशतानि ददती तथा सुरते हर्षविकसितकपोला।
प्रातरप्यवनतमुखी इयं सेति प्रियां न श्रद्दध्मः॥)
उत्तमाऽनूढा प्रगल्भा यथा—(कुसं. ७.१९)
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान॥ १८०॥
उत्तमा धीरोढा प्रगल्भा यथा—(रत्ना. २.२१)
भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः॥ १८१॥
उत्तमा धीरोढा प्रगल्भा यथा—(कुसं. ५.८३)
निर्वायतामालि ! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः।
न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पापभाक्॥ १८२॥
उत्तमाऽधीरोढा प्रगल्भा यथा—(अमरु. ७५)
कथमपि कृतप्रत्यासक्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम्।
असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छवसितं ततः॥ १८३॥
उत्तमाऽधीराऽनूढा प्रगल्भा यथा—(शाकु. ३.७)
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥ १८४॥
मध्यमा यथा—
नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्धयाऽधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः।
लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः; कियन्ति तरुण ! स्थानानि रक्षिष्यसि ?॥ १८५॥
मध्यमा धीरा यथा—(अमरु. ८१)
कपोले पत्रालीकरतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम्॥ १८६॥
मध्यमा अधीरा यथा—(गास. ३.२२)
पिअ—संभरण—पलोट्टंत—वाह—धार—णिवाअ—भीआए।
दिज्जइ वंकग्गीवाए दीवओ पहिअ—जाआए॥ १८७॥
(प्रियसंस्मरणप्रलुठद्बाष्पधारानिपातभीतया।
दीयते वक्रग्रीवया दीपकः पथिकजायया॥)
मध्यमोढा यथा—(गास. १.१३)
घरिणीएँ महाणस—कम्म—लग्ग—मसिमलिइ/मइलिएण हत्थेण।
छित्तं मुहं हसिज्जइ, चंदावत्थं गअं पइणा॥ १८८॥
(गृहिण्या महानसकर्मलग्नमसीमलिनेतेन/नेन हस्तेन।
स्पृष्टं मुखं हस्यते चन्द्रावस्थं गतं पत्या॥)
मध्यमाऽनूढा यथा—(गास. ६.७५)
कस्स करो बहुपुण्णप्फलेक्कतरुणो तुहं विसम्मिहइ।
थणपरिणाहे वम्महणिहाणकलसे व्व पारोहो॥ १८९॥
(कस्य करो बहुपुण्यफलैकतरोस्तव विश्रमिष्यति।
स्तनपरिणाहे मन्मथनिधानकलश इव प्ररोहः॥)
मध्यमा धीरोढा यथा—(गास. ४. ८४)
पिसअ पिए ! का कुविआ सुअणु ! तुमं परअणम्मि को कोवो।
का हु परो णाह ! तुमं कीस अप्पुण्णाण मे सत्ती॥ १९०॥
(प्रसीद प्रिये ! का कुपिता सुतनु ! त्वं परजने कः कोपः।
कः खलु परो, नाथ ! त्वं किमित्यपुण्यानां मे शक्तिः॥)
मध्यमा धीराऽनूढा यथा—(रत्ना २.१)
दुल्लहजणाणुराओ, लज्जा गुरुई परव्वसो अप्पा।
पिअसहि ! विसमं पेम्मं, मरणं सरणं णवरमेक्कं॥ १९१॥
(दुर्लभजनानुरागः लज्जा गुर्वी परवश आत्मा।
प्रयसखि ! विषमं प्रेम मरणं शरणं केवलमेकम्॥)
मध्यमा अधीरोढा यथा—(गास. १.७४)
दिढमण्णुदूमिआएँ वि गहिओ दइअम्मि पेच्छह इमाए।
ओसरइ वालुआमुठ्ठिउ व्व माणो सुरसुरंतो॥ १९२॥
(दृढमन्युदूतनयाऽपि गृहीतो दयिते पश्यतानया। अपसरति वालुकामुष्टिरिव मानः सुरसुरायमाणः॥)
मध्यमा अधीराऽनूढा यथा—(लीलावती ४२३)
तस्स मअलंछणस्स व करफंससमुग्गएण सेएण। ससिमणिघडिआ वाओल्लिअ व्व वारीमई जाआ॥ १९३॥
(तस्य मृगलाञ्छनस्येव करस्पऱ्शसमुद्रतेन स्वेदेन। शशिमणिघटिता पुत्तलिकेव वारिमयी जाता॥)
मध्यमा मुग्धा यथा—(गास. ४. ७)
हत्थेसु अ पाएसु अ अंगुलिगणणाए ववगआ/अइगआ दिअहा। एण्हिं उण केण गणिज्जउ त्ति भणिउं मोहं गआ/रुअइ मुद्धा॥ १९४॥
(हस्तयोश्च पादयोश्चाङ्गूलिगणनया व्यपगता दिवसाः। इदानीं पुनः केन गण्यतामिति भणित्वा मोहं गता/रोदिति मुग्धा॥)
मध्यमा धीरा मुग्धा यथा—(गास. २. ७०)
झंझावाउत्तिण्णिअघरविवर/पलोट्ठ—सलिल—धाराहिं। कुडु—लिहिओहि—दिअहं रक्खइ मुद्धा/अज्जा करअलेहिं॥ १९५॥
(झञ्झावातोत्तृणीकृतगृहविवरप्रपतत्(?)—सलिलधाराभिः। कु़ड्यलिखितावधिदिवसं रक्षति मुग्धा/आर्या करतलैः॥)
मध्यमाऽधीरा मुग़्धा यथा—
केलिगोत्तक्खलिए/क्खलणे वरस्स पप्फुल्लइं(?) दिहिं देइ। बहु—वासअ—वासहरे वहुए वाहोल्लिआ दिट्ठी॥ १९६॥
(केलिगोत्रस्खलिते/स्खलने वरस्य प्रफुल्लां धृतिं ददाति। बहुवासकवासगृहे वध्वा बाष्पान्द्रिता दृष्टिः॥)
मध्यमोढा मुग्धा यथा—(५. १६, द्र. २७. १५)
वाहित्ता पडिवअणं ण देइ, रूसेइ एक्कमेक्कस्स। वलिइ परिचुंविआ तह वि हरइ हिअअं णवरं सा॥ १९७॥
(व्याहृता प्रतिवचनं न ददाति रुष्यत्येकैकस्य। असती कार्येण विना प्रदीप्यमाने नदी—कच्छे॥)
मध्यमाऽनूढा मुग्धा यथा—(गास. ४.५२)
मा णं पुच्छह दिण्णा, जस्स तुमं सो पिओ त्ति सहिआओ।
सिट्ठं चिअ घणपुलएहिं होंतवहूएँ अंगेहिं॥ ११८॥
(मैनं पृच्छत दत्ता यस्य त्वं स प्रिय इति सख्यः।
शिष्टमेव घनपुलकैर्भविष्यद्वध्वा अङ्गैः॥)
मध्यमा धीरोढा मुग्धा यथा—(HOS संस्करणे गाथेयं नास्ति)
चुंबणबिलिअणमिल्ले सीसो अप्प ण विइण्णपडिवेअणेण।
. . . . पवहु कइओमोच्छीसी पइणो रावअं मउणी॥ १९९॥
मध्यमा धीराऽनूढा मुग्धा यथा—
हिअअ—दइअम्मि वि पिए गुरुपुरओ लज्जिआए मुद्धाए।
सहि सव्वो अरघडिओ/ठ्ठिओ वि होइ विरलंगुली हत्थो॥ २००॥
(हृदयदयितेऽपि गुरुपुरत ईप्सिताया मुग्धायाः।
सखि! सर्वोऽधरघटितोऽपि/स्थितोऽपि भवति विरलाङ्गुलिर्हस्तः॥)
मध्यमाऽधीरोढा मुग्धा यथा—(गास. ४.५२)
कंडुज्जुआ वराई अज्ज तए सा कआवराहेण।
अलसाइअ—रुण्ण—विअंभिआइ दिअहेण सिख्खविआ॥ २०१॥
(काण्डर्जुका वराकी अद्य त्वया सा कृतापराधेन।
अलसायितरुदितविजृम्भितानि दिवसेन शिक्षिता॥)
मध्यमाऽधीराऽनूढा मुग्धा यथा—
वर—फंस—मुउलिअच्छी सिण्णूसलिअहिं बाहुलइआहिं।
लज्जालसा किलम्मइ मुद्धवहू गुरुअणसमक्खं॥ २०२॥
(वरस्पर्शमुकुलिताक्षी खिन्नरोमाञ्चिताभ्यां बाहुलतिकाभ्याम्।
लज्जालसा किलम्यति मुग्धवधूर्गुरुजनसमक्षम्॥)
मध्यमा मध्या यथा—(गास. २.५०)
अज्जाए णवणहक्खअ—णिरिक्खणे गुरुअ—जोव्वणुत्तुंगं।
पडिमागअ—णिअ—णअणुप्पलच्चिअं होइ थणवठ्ठं॥ २०३॥
(आर्याया नवनखक्षितनिरीक्षणे गुरुकयौवनोत्तुङ्गम्।
प्रतिमागतनिजनयनोत्पलार्चितं भवति स्तनपृष्ठम्॥)
मध्यमा धीरा मध्या यथा—(गास. ४.२७)
इंसं जणेंति वड्ढेंति वम्महं विप्पिअं सहावेंति।
विरहे ण देंति मरिउं अहो गुणा तस्स बहुमग्गा॥ २०४॥
(ईर्ष्यां जनयन्ति वर्धयन्ति मन्मथं विप्रियं साहयन्ति।
विरहे न ददति मर्तुमहो गुणास्तस्य बहुमार्गाः॥)
मध्यमा अधीरमध्या यथा—(गौडवहो ६९०, गास. ९३३)
उव्वहइ दइअ-गहिआहरोठ्ठ-झिज्जंत-रोस-पडिराअं।
पाणोसरंतमइरं व पडिहचसअं मुहं बाला॥ २०५॥
(उद्वहति दयितगृहीताधरोष्ठक्षीयमाणरोषप्रतिरागम्।
पानापसरन्मदिरमिव स्फटिकचषकं मुखं बाला॥)
मध्यमोढा मध्या यथा—
णिद्दालस—परिघुम्मिर—तंसवलंतद्ध—तारओलाओ।
कामस्य वि दुव्विसहा दिठ्ठिणिवाआ ससिमुहीए॥ २०६॥
(निद्रालसपरिघूर्णनशीलत्र्यश्रवलदर्धतारकालोकाः।
कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुख्याः॥)
मध्यमाऽनूढा मध्या यथा—(लीलावती ४८९)
तं सिद्धकुमारं पेच्छिऊण एएहि सहि ! अणज्जेहिं।
अविणअमग्गं हअ—लोअणेहिं णीअह्मि, किं भणिमो?॥ २०७॥
(तं सिद्धकुमारं प्रेक्ष्य एताभ्यां सखि ! अनार्याभ्याम्।
अविनयमार्गं हतलोचनाभ्यां नीताऽस्मि, किं भणामि॥)
मध्यमा धीरोढा मध्या यथा— (गास. २.६०)
अच्छोडिअ—वत्थद्धंत—पत्थिए! मंथरं तुमं वच्च।
चिंतेसि थणहराआसिअस्स मज्झस्स वि ण भंगं॥ २०८॥
(बलादाकृष्टवस्त्रार्धान्तप्रस्थिते! मन्थरं त्वं व्रज।
चिन्तयसि स्तनभरायासितस्य मध्यस्यापि न भङ्गम्?॥)
मध्यमा धीराऽनूढा मध्या यथा—(लीलावती ३२३)
ता किं बहुएहि वि चिंचिएहि णलकूवरो वरो होउ।
वित्ताहिवस्स तणओ गअमुह! तुह पसाएण॥ २०९॥
(तत् किं बहुभिरपि चिन्तितैः नलकूबरो वरो भवतु।
वित्ताधिपस्य तनयो गजमुख! तव प्रसादेन॥)
मध्यमाऽधीरोढा मध्या यथा—(गास. ६.२)
अज्जं पि ताव एक्कं मा मं वारेहि पिअसहि! रुअंतिं।
कल्लिं उण तम्मि गए जइ ण मुआ ता ण रोदिस्सं॥ २१०॥
(अद्यापि तावदेकं मा मां वारय प्रियसखि! रुदतीम्।
कल्ये पुनस्तस्मिन् गते यदि न मृता रोदिष्ये॥)
मध्यमाऽधीराऽनूढा मध्या यथा—(मामा. ७.२)
रम्भोरु! संहर भयं क्षमते विकारमुत्कम्पिनः स्तनभरस्य न मध्यभागः।
इत्थं त्वयैव कथितप्रणयप्रसादः सङ्कल्पनिर्वृतिषु संस्तुत एष दासः॥ २११॥
मध्यमा प्रगल्भा यथा—(गास. १.२४)
पिअविरहो अप्पिअदंसणं गरुआइं दो वि दुक्खाइं।
जीए तुमं कारिज्जेसि तीए णमो आहिजाईए॥ २१२॥
(प्रियविरहोऽप्रियदर्शनं च गुरुके द्वे अपि दुःखे।
यया त्वं कार्यसे तस्यै नम आभिजात्यै॥)
मध्यमा धीरा प्रगल्भा यथा—(अमरुक. ६९)
पुराऽभूदस्माकं तनुरियमभिन्नैव नियतं ततो नु त्वं प्रेयान् वयमपि हताशा प्रियतमाः।
इदानीं नाथस्त्वं वयमपि कलत्रं; किमपरं मयाऽऽप्तं प्राणानां कुलिशकठिनानां फलमिदम्॥ २१३॥
मध्यमा अधीरा प्रगल्भा यथा—(गास. १.४३)
विरहाणलो सहिज्जइ आसाबंधेण वल्लहजणस्स।
एक्कग्गामपवासो हु माए! मरणं विसेसेइ॥ २१४॥
(विरहानलः सह्यत आशाबन्धेन बल्लभजनस्य।
एकग्रामप्रवासः खलु मातर्मरणं विशेषयति॥)
मध्यमोढा प्रगल्भा यथा—
पहवंति च्चिअ पुरिसा महिलाणं सुहअ! किं थ वि/लिओ सि।
अणुराअणोल्लिआए को दोसो आहिआईए॥ २९५॥
(प्रभवन्त्येव पुरुषा महिलानां सुभग! किमत्र व्रीडितोऽसि।
अनुरागनोदितायाः को दोष आभिजात्याः?॥)
मध्यमाऽनूढा प्रगल्भा यथा—(गाधारत्नकोशे. ३९५)
जिअउ त्ति पअसणाहं वरगोत्तं वरपरिअणाहि सोउमणा।
छिक्का, कएण णमिउस्साणुरसूरं पलोएइ॥ २१६॥
(‘जयतु’ इति पदसनाथं वरगोत्रं परिजनैः श्रोतुमनाः।
छिक्का कृतेन नमितुं सा सूर्यं प्रलोकयति॥)
मध्यमा धीरोढा प्रगल्भा यथा—(गास. ९४५)
अणुवत्तंतो अम्हारिसं जणं सुहअ! आहिजाईए।
चिंतेसि वि णो हिअए अणाहिजाई सुहं जिअइ॥ २१७॥
(अनुवर्तमानोऽस्मादृशं जनं सुभग! आभिजात्या।
चिन्तयसि पुनर्हृदये अनाभिजातिः सुखं जीवति॥)
मध्यमा धीराऽनूढा प्रगल्भा यथा—
X X X X सि एण्णिं तूमति घूमेइ।
अलिअकुविएहि कुमरीहिं रिसं विणिउहि उप्परिअं॥ २१८॥
मध्यमाऽधीरोढा प्रगल्भा यथा—(गास. २.९५)
केलीअ वि रूसेउं ण तीरए तम्मि चुक्कविणअम्मि।
जाइअएहिं व माए! इमेहिं अवसेहिं अंगेहिं॥ २९९॥
(केल्याऽपि रोषितुं न शक्यते तस्मिंश्च्युतविनये।
याचितकैरिव मातरेभिरवशैरङ्गैः॥)
मध्यमाऽधीराऽनूढा प्रगल्भा यथा—(लीलीवती ५६७)
ण सहइ कालक्खेवं हिअअं मअण—हुअवह—पलित्तं।
तस्स वि संदेहगअं जीअं ण सुअं विअ तए॥ २२०॥
(न सहते कालक्षेपं हृदयं मदनहुतवहप्रदीप्तम्।
तस्य च सन्देहगतं जीवितं न श्रुतमिव तया॥)
कनिष्ठा यथा—(गास. ३.४०)
अंध—अर—वोर—पत्तं व माउआ! मह पइं विलुप्पंति।
ईसाअंति महं विअ च्छेप्पाहिंतो फणो जाओ॥ २२१॥
(अन्धकरबदरपात्रमिव मातरः! मम पतिं विलुम्पन्ति।
ईर्ष्यन्ति मह्यमेव लाङ्गूलेभ्यः/शेफोभ्यः फणो जातः॥)
कनिष्ठा धीरा यथा—(गास. १.३३)
उण्हाइ णीससन्तो किं ति मह परम्मुहीएँ सअणद्धे।
हिअअं पलीविअ वि अणुसएण पुट्ठिं पलीवेसि॥ २२२॥
(उष्णानि निश्श्वसन् किमिति मम पराङ्मुख्याः शयनार्धे।
हृदयं प्रदीप्याप्यनुशयेन पृष्ठं प्रदीपयसि॥)
कनिष्ठा अधीरा यथा—(गास. २.४६)
उम्मूलेंति व हिअअं इमाइ रे! तुह विरज्जमाणस्स।
अवहीरण-वस-विसंठुल-वलंत-णअणद्ध-दिट्ठाइं॥ २२३॥
(उन्मूलयन्तीव हृदयमिमानि रे! तव विरज्यमानस्य।
अवधीरण—वश—विसंष्ठुल—वलन्नयनार्धदृष्टानि॥)
कनिष्ठोढा यथा—(गास. ६.४४)
दइअ—कअग्गह—लुलिओ धम्मिल्लो सीहुगंधिअं वअणं।
स/मअणम्मि एत्तिअं चिअ पसाहणं हरइ जुवईणं॥ २२४॥
(दयितकरग्रहलुलितो धम्मिल्लः सीधुगन्धितं वदनम्।
शयने/मदने एतावदेव प्रसाधनं हरति युवतीनाम्॥)
कनिष्ठाऽनूढा यथा—(गास. २.९६)
उप्फुल्लिआइ खेल्लउ मा णं वारेह होउ परिखामा।
मा जहणभारगरुई पुरुसाअंती किलिम्मिहिइ॥ २२५॥
(उत्फुल्लिकया खेलतु मैनां वारयत भवतु परिक्षामा।
मा जघनभारगुर्वी पुरुषायन्ती क्लमिष्यति॥)
कनिष्ठा धीरोढा यथा—(गास. ४.७५)
तेण ण मरामि मण्णूहिं पूरिआ अज्ज, जेण, रे सुहअ!।
तोग्गअमणा मरंती मा तुज्झ पुणो वि लग्गिस्सं॥ २२६॥
(तेन न म्रिये मन्तुभिः पूरिताऽद्य येन रे सुभग!।
त्वद्गतमना म्रियमाणा मा तव पुनरपि लगिष्यामि॥)
कनिष्ठा धीराऽनूढा यथा—
तह पूरिअमोड्ढणअं वर-सउणग्गहण-गंठि-बंधेहिं।
भग्गमरणग्गहाए जह रक्खाकंडअं जाअं॥ २२७॥
(तथा पूरितमुत्तरीयं वरशकुनं गहनग्रन्थिबन्धैः।
भग्नमरणग्रहायाः यथा रक्षाकाण्डकं जातः॥)
कनिष्ठाऽधीरोढा यथा—(गास. २५५)
णिव्वुत्तरआ वि वहू सुरअविरामट्ठिइं अआणंती।
अविरअहिअआ अण्णं पि किं पि अत्थि त्ति चिंतेइ॥ २२८॥
(निर्वृत्तरताऽपि वधूः सुरतविरामस्थितिजानती।
अविरतहृदयाऽन्यदपि किमप्यस्तीति चिन्तयति॥)
कनिष्ठा अधीरा मुग्धा यथा—(गास. १.४७)
होंतपहिअस्स जाआ १आउच्छण—जीअधारणरहस्सं।
पुच्छंती भमइ घरं घरेण पिअविरहसहिरीओ॥ २२९॥
(भविष्यत्पथिकस्य जाया आपृच्छन—जीवधारणारहस्यम्।
पृच्छन्ती भ्रमति गृहं गृहेण प्रियविरहसहनशीलाः॥)
कनिष्ठोढा मुग्धा यथा—(गास. ५.३३)
पुसइ खणं, धुवइ खणं पफ्फोडइ तक्खणं अआणंती।
मुद्धवहू थणवट्टे दिण्णं दइएण णक्खपअं॥ २३०॥
(प्रोञ्छति क्षणं धुनोति क्षणं प्रस्फोटति तत्क्षणमजानती।
मुग्धवधूः स्तनपृष्ठे दत्तं दयितेन नखपदम्॥)
कनिष्ठा अनूढा मुग्धा यथा—(गास. २.९४)
सा तुह सहत्थदिण्णं फग्गुच्छवकद्दमं थणुच्छंगे।
परिकुविआ इव साहइ सलाहिरी गामकुमरीणं॥ २३१॥
(सा त्वया स्वहस्तदत्तं फल्गूत्सवकर्दमं स्तनोत्सङ्गे।
परिकुपितेव साधयति श्लाघनशीला ग्रामकुमारीणाम्॥)
१. आपृच्छनं विरहः। प्रवासस्यापृच्छापूर्वकत्वात्। तथा च मेघे ‘आपृच्छस्व प्रियसखे’ ति कालिदासः। कनिष्ठा धीरोढा मुग्धा यथा—
घरमंधण-वण्णअ-लग्गविंदुचित्तलिअ-पह्मल-कवोलं ।
इअ णअंगि मुहम्मि णं ते लिहिद व्व पई पुलोएइ॥ २३२॥
(गृहमन्थन-वर्णक-लग्न-बिन्दु-चित्रित-पक्ष्मल-कपोलम्।
हे नताङ्गि! मुखे ननु ते लिखित इव पतिः प्रलोकयति॥)
कनिष्ठा धीराऽनूढा मुग्धा यथा—
उव्वासिअं खु गामं, गहवइ—धूआएं कस्स पुक्करिमो।
अणुमग्ग-लग्ग-वोद्रह—क्किंसुअ-कलिअं हरंतीए॥ २३३॥१
(उद्वासितं खलु ग्रामं गृहपतिदुहित्रा कस्य कथयाम।
अनुमार्गलग्न—तरुण—किंशुक—कलिकां हरन्त्या ॥)
कनिष्ठाऽधीरोढा मुग्धा यथा—(गास. ४.१४)
अच्छीइं ता थइस्सं दोहिं वि हत्थेहिं तम्मि दिट्ठम्मि।
अंगं कलंबकुसुमं व पुलइअं कहं णु ढक्किस्सं॥ २३४॥
(अक्षिणी तावत् स्थगयिष्यामि द्वाभ्यामपि हस्ताभ्यां तस्मिन् दृष्टे।
अङ्गं कदम्बकुसुममिव पुलकितं कथं नु स्थगयिष्ये?॥)
कनिष्ठा अधीराऽनूढा मुग्धा यथा—(गास. ७.४२)
गिज्जंते मंगलगाइआहि वरगोत्त-दिण्णअण्णाए।
सोउं व्व णिग्गओ उवह होंतबहूआएं रोमंचो॥ २३५॥
(गीयमाने मङ्गलगायिकाभिर्वरगोत्रदत्तकर्णायाः।
श्रोतुमिव निर्गतः पश्यत भविष्यद्वधूकाया रोमाञ्चः॥)
कनिष्ठा मध्या यथा—
दुक्खं देंतो वि सुहं॥ २३६॥ (पृ. ६१३ द्र.—प.४)
कनिष्ठा धीरा मध्या यथा—(गास. २.९२)
आअंबंत—कवोलं खलिअक्खरजंपिरिं फुरंतोट्ठिं।
मा छिवसु त्ति भणंतीं/सरुसं समोसरंतिं पिअं भरिमो॥ २३७॥
(आताम्रान्तः कपोलां स्खलिताक्षरजल्पनशीलां स्फुरदोष्ठीम्।
मा स्पृशेति भणन्तीं/सरोषं समपसर्पन्तीं प्रियां स्मरामः॥)
१. जो.रा. छायां न ददतः। कनिष्ठा अधीरा मध्या यथा—(गास. १.२६)
अ/णकुणंतो च्चिअ माणं णिसासु सुह-सुत्त-दर-विबुद्धाणं।
सुण्णइअ-पास-परिमूसण-वेअणं जइ सि जाणंतो॥ २६८॥
(नाकरिष्य एवं मानं निशासु सुखसुप्तदरविबुद्धानाम्।
शून्यीकृतपार्श्वपरिमोषणवेदनां यदि तेषां अज्ञास्यः॥)
कनिष्ठोढा मध्या यथा—(गास. ४.६)
अव्वो अणुणअ—सह—कंखिरीअ अकअं कुणंतीए।
सरलसहाओ वि पिओ अविणअमग्गं बला णीओ॥ २३९॥
(कष्टम् अहो अनुनयसुखकाङ्क्षणशीलया अकृतं कुर्वत्या।
सरलस्वभावोऽपि प्रियोऽविनयमार्गं बलान्नीतः॥)
कनिष्ठा अनूढा मध्या यथा—
अत्ता! वुड्ढकुमारी, पेच्छह, उप्फुल्लिआए खेलंती।
विवरीअ—सुरअ—ऊसव—विलासिणीणं जोग्गं पि करेइ॥ २४०॥
(श्वश्र्वः! वृद्धकुमारी प्रेक्षध्वमुत्फुल्लिकया खेलन्ती।
विपरीतसुरतोत्सवविलासिनीनां योग्य/यामिव करोति॥)
कनिष्ठा धीरोढा मध्या यथा—(गास. १.९०)
किं दाव कआ अहवा करेसि कारिस्सि सुहअ! एत्ताहे।
अवराहाणं अलज्जिर! साहसु कअरे खमिज्जंतु॥ २४१॥
(किं तावत् कृता अथवा करोषि करिष्यसि सुभगेदानीम्।
अपराधानामलज्जालो! कथय कतरे क्षम्यन्ताम्॥)
कनिष्ठा धीराऽनूढा मध्या यथा—
केलिपसरो विअंभइ लज्जा तणुआइ गामकुमरीणं।
एस सहाओ/वो सहि! किं इमाण महुमासदिअहाणं॥ २४२॥
(केलिप्रसरो विजृम्भते, लज्जा तनुकायते, ग्रामकुमारीणाम्।
एष स्वभावः सखि! किमेषां मधुमास—दिवसानाम्॥)
कनिष्ठाऽधीरोढा मध्या यथा—(गास. ७८६)
आउच्छणोवऊहणकंठेसमोसरिअवाहुलहआए।
वलआइ पहिअचलणे वहूएं णिअला विअ पडंति॥ २४३॥
(आपृच्छनोपगूहकण्ठसम/पसृतबाहुलतिकायाः। वलयानि पथिकचरणयोर्वध्वाः निगडा इव पतन्ति॥)
कनिष्ठा अधीराऽनूढा मध्या यथा—
णववरतूरा अण्णाण—रहसविसप्पंतपुलइअंगीए।
होंतवहुआए पेच्छह ण माइ सेओ इमो अंगे॥ २४४॥
(नववरतूर्याकर्णन—रभसविसर्पणपुलकिताङ्ग्याः ।
भविष्यद्वध्वाः प्रेक्षत न माति स्वेदोऽयमङ्गे॥)
कनिष्ठा प्रगल्भा यथा—(गास. २. ८४)
अण्णुअ! णाहं कुविआ अवऊहसु किं मुहा पसाएसि ?।
तुह मण्णुसमुप्पाअएण मज्झ माणेण वि ण कज्जं॥ २४५॥
(अज्ञ! नाहं कुपिता उपगूह किं मुधा प्रसादयसि ?।
तव मन्युसमुत्पादकेन मम मानेनापि न कार्यम्॥)
कनिष्ठा धीरा प्रगल्भा यथा—(गास. ३.७५)
उज्झसि पिआए समअं, तह वि हु रे! भणसि कीस किसिअ त्ति।
उवरि भरेण अ अण्णुअ! मुअइ वइल्लो वि अंगाइं॥ २४६॥
(उह्यसे प्रियया समग्रस्तथाऽपि खलु रे! भणसि किमिति कृशेति।
उपरि भरेण च अज्ञ! मुञ्चति बलीवर्दोऽप्यङ्गानि॥)
कनिष्ठा अधीरा प्रगल्भा यथा—(गास. ४.६१)
णीसासुक्कंपिअपुलएहि जाणंति णच्चिउं धण्णा।
अम्हारिसीहिं दिट्ठे पिअंमि अप्पा वि वीसरिओ॥ २४७॥
(निःश्वासोत्कम्पितपुलकितैर्जानन्ति नर्तितुं धन्याः।
अस्मादृशीभिर्दृष्टे प्रिये आत्माऽपि विस्मृतः॥)
कनिष्ठोढा प्रगल्भा यथा—
सालोए व्विअ सूरे॰॥ २४८॥ (पृ. ५६९)
कनिष्ठाऽनूढा प्रगल्भा यथा—(गास. ४.५)
दुक्खेहि लब्भइ पिओ लद्धो दुक्खेहि होइ साहीणो।
लद्धो वि अलद्धो व्विअ/च्चिअ जइ जह हिअअं तह ण होइ॥ २४९॥
(दुःखैर्लभ्यते प्रियो लब्धो दुःखैर्भवति स्वाधीनः।
लब्धोऽप्यलब्ध एव यदि हृदयं तथा न भवति॥)
कनिष्ठा धीरोढा प्रगल्भा यथा—(गास. ७०६)
अवसर रोत्तुं चिअ णिम्मिआइं मा पुससु मे हअच्छीणि।
दंसणमेत्तुंमइएहिं जेहिं सीलं/हिअअं तुह ण णाअं॥ २५०॥
(अपसर रोदितुमेव निर्मिते मा प्रोञ्छ मे हताक्षिणी।
दर्शनमात्रोन्मत्ताभ्यां याभ्यां शीलं/हृदयं तव न ज्ञातम्॥)
कनिष्ठा धीराऽनूढा प्रगल्भा यथा—
छेअवरो परिआणइ परिणअणे च्चेअ/वंचणसीलसंपत्ती।
अणिकुपच्चिअ—वंकिल—थोअ—थिमिय—सुहआण/भुमआएँ दिठ्ठीए॥ २५१॥
(छेकवरः परिजानाति परिणयने एव शीलसम्पत्तिः।
अनिकुञ्चित/तिरश्चीनवक्रशीलस्थूलस्तिमितसुभगाया/भ्रुवा दृष्ट्या॥)
कनिष्ठा अधीरोढा प्रगल्भा यथा—(गास. ३.७३)
अव्वो दुक्करआरअ ! पुणो वि तत्तिं करेसि गमणस्स।
अज्ज वि ण होंति सरला वेणीए तरंगिणो चिउरा॥ २५२॥
(अहो दुष्करकारक ! पुनरपि चिन्तां करोषि गमनस्य।
अद्यापि न भवन्ति सरला वेण्यास्तरङ्गिणश्चिकुराः॥)
कनिष्ठा अधीराऽनूढा प्रगल्भा यथा—(वज्जाल. ४७२)
आसण्णकुडुंगे जुण्णदेउले बहुजुआणसंकिण्णे।
थेरो पइ त्ति मा रुअसु पुत्ति ! दिण्णा सि सुग्गामे॥ २५३॥
(आसन्ननिकुञ्जे जीर्णदेवकुले बहुयुवसंकीर्णे।
स्थविरः पतिरिति मा रुदिहि पुत्रि ! दत्ताऽसि सुग्रामे॥)
धीरा यथा—(अमरुक. ३८)
कोपो यत्र भ्रुकुटिरचना विग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि, न च मे मन्युमोक्षः खलायाः॥ २५४॥
धीरोढा यथा—(गास. २.२९)
तह माणो माणधएँ तीअ एमेअ दुरमणुबद्धो।
जह से अणुणीअ पिओ एक्कग्गाम व्वि/च्चिअ पउत्थो॥ २५५॥
(तथा मानो मानधनाया तया एवमेव दूरमनुबद्धः।
यथा तस्या अनुनीय प्रिय एकग्राम एव प्रोषितः॥)
धीराऽनूढा यथा—(गास. ४.६७)
धीरावलंबिरीए वि गुरुअणपुरओ तुमम्मि बोलीणे।
पडिओ से अच्छिणिमीलणेण पम्हट्ठिओ बाहो॥ २५६॥
(धैर्यावलम्बनशीलाया अपि गुरुजनपुरतस्त्वयि व्यतिक्रान्ते।
पतितस्तस्या अक्षिनिमीलनेन पक्ष्मस्थितो बाष्पः॥)
अधीरा यथा—
दिट्ठे जं पुलइज्जसि थरहरसि पिअम्मि जं समासण्णे।
तं संभासणसेओल्लिफंसणे किं वि लज्जिहिसि ?॥ २५७॥
(दृष्टे यत् पुलकायसे थरहरायसे प्रिये यत् समासन्ने।
तत् संभाषणस्वेदाद्रीकृतस्पर्शे किमिति लज्जिष्यसे ?॥)
अधीरोढा यथा—(गास. ४.१२)
घेत्तूण चुण्णमुठ्ठिं हरिसूससिआए हलिअजाआए।
फिसलेमि त्ति पिअअम—हत्थे गंधोअअं जाअं॥ २५८॥
{गृहीत्वा चूर्णमुष्टिं हर्षोच्छ्वसितायाः हलिकजायायाः।
स्खलामीति प्रियतम—हस्ते गन्धोदकं जातम्॥}
अधीराऽनूढा यथा—
वर—गोत्तुग्गीआ—अण्णणेण रोमांच—सेअ—सलिलेहिं।
विउडिज्जइ होंतवहूए उअ वारिज्जमंडणअं॥ २५९॥
{वरगोत्रोद्गीताकर्णनेन रोमाञ्चस्वेदसलिलैः।
विक्रियते भविष्यद्वध्वाः पश्य विवाहमण्डनकम्॥}
ऊढा यथा—(गास. ७.१७)
ओसुअइ/सुअइ दिण्णपडिवक्खवेअणं पसिढिलेहिं अंगेहिं।
णिव्वत्तिअ-सुरअ-रसाणुबंध-सुह-णिब्भरं सो/सुण्हा॥ २६०॥
(अवस्वपिति/स्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः।
निर्विर्त्तितसुरतसौभगानुबन्धसुखनिर्भरं स्नुषा।)
अनूढा यथा—(गास.६.७३)
रूअं सिट्ठं चिअ से असेसपुरिसे णिअत्तिअच्छेण।
बाहोल्लेण इमीए अजंप्पमाणेण वि मुहेण॥ २६१॥
(रूपं शिष्टमेव तस्याशेषपुरुषे निवर्तिताक्षेण।
बाष्पार्द्रेणास्या अजल्पताऽपि मुखेन॥)
धीरा मुग्धा यथा—(अमरुक. ४१)
पटालग्ने पत्यौ नमयति मुखं जातविनया हठाश्लेषं वाञ्छत्यपहरति गात्राणि शनकैः।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना ह्रिया क्लाम्यत्यन्तः प्रथमपरिहासे नववधूः॥ २६२॥
धीरोढा मुग्धा यथा—
अविआविअक्खरवआ चिरेण अणुबंधपुच्छिअ—पलत्ता।
णववहुपढमुल्लावा वरस्स हिअए ण दासंति/माएंति॥ २६३॥
(अविभाविताक्षरपदा चिरेण अनुबन्धपृष्टप्रलपिंताः।
नववधूप्रथमोल्लापा वरस्य हृदये न मान्ति॥)
धीराऽनूढा मुग्धा यथा—(गास. २.३७)
फुरिए वामच्छि ! तुए जइ एहिइ सो पिओ ज्ज सा सुइरं।
विणिमीलिअ दाहिणअं तुए अ एअं पलोइस्सं॥ २६४॥
(स्फुरिते वामक्षि ! त्वयि यद्येष्यति स प्रियोऽद्य तत् सुचरिम्।
विनिमील्य दक्षिणं त्वयैवैतं प्रलोकिष्ये॥)
अधीरा मुग्धा यथा—
पाअपडणाण मुद्धे ! रहस—बलामोडिचुंबिअव्वाणं।
दंसणमेत्तपसिज्जिरि ! चुक्का सि बहुआण सुहाण॥ २६५॥
(पादपतनानां मुग्धे ! रहसि बलात्कारचुम्बितव्यानाम्।
दर्शनमात्रप्रस्वेदनशीले ! वञ्चिताऽसि बहुकानां सुखानाम्॥)
अधीरोढा मुग्धा यथा—(अमरुक. १२)
प्रहरविरतौ मध्ये वाऽह्नस्ततोऽपि परेऽपि वा किमुत सकले याते वाऽह्नि प्रिय ! त्वमिहैष्यसि।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालाऽऽलापैस्सबाष्पझलज्झलैः॥ २६६॥
अधीराऽनूढा मुग्धा यथा—
हिअइच्छिअवरहूए सुअम्मि घणपुलअज्झंपिआ बाला।
सेअण्हविआ हूआ पच्छा सलिलेण सहिआहिं॥ २६७॥
(हृदयेप्सितवरहूते श्रुते घनपुलकच्छादिता बाला।
स्वेदस्नपिता भूता पश्चात् सलिलेन सखीभिः॥)
ऊढा मुग्धा यथा—(गास. ५५३)
सहि साहसु सब्भावेण पुच्छिमो किं असेसमहिलाणं।
वड्ढंति करट्ठिआ व्विअ वलआ दइए पउत्थम्मि॥ २६८॥
(सखि् साहस—सद्भावेन पृच्छामः किमशेषमहिलानाम्।
वर्धन्ते करस्थिता एव वलया दयिते प्रोषिते॥)
अनूढा मुग्धा यथा—
कस्स भरिसि त्ति भणिए॰॥ २६९॥
(पृ. ६३९) धीरा मध्या यथा—(गास. ४.९)
जं जं पिहुलं अंगं तं तं जाअं किसोअरि ! किसं ते।
जं जं तणुअं तं तं पि णिट्ठिअं, किं त्थ माणेण ?॥ २७०॥
(यद् यत् पृथुलमङ्ग तत्तत् जातं कृशोदरि ! कृशं ते।
यद्यत् तनुकं तत्तदपि निष्ठितं, किमत्र मानेन ?॥)
धीरोढा मध्या यथा—(गास. ५.९३)
अइकोवणा वि सासू रुआविआ गअवईअ सोण्हाए।
पाअपडणोणआए दोसु वि गलिएसु वलएसु॥ २७१॥
(अतिकोपनाऽपि श्वश्रू रोदिता गतपतिकया स्नुषया।
पादपतनावनतया द्वयोरपि गलितयोर्वलययोः॥)
धीराऽनूढा मध्या यथा—(गास. ३.९६)
पेच्छइ अलद्धलक्खं दीहं णीससइ सुण्णअं हसइ।
जह जंपहि अफुडत्थं तह से हिअअट्ठिअं किं पि॥ २७२॥
(पश्यत्यलब्धलक्ष्यं दीर्घं निःश्वसिति शून्यं हसति।
यथा जल्पत्यस्फुटार्थं तथा तस्या हृदयस्थितं किमपि॥)
अधीरा मध्या यथा—(गास. ७४३वे.)
भिउडीअ पुलोइस्सं णिब्भच्छिस्सं परम्मुही होस्सं।
जं भणह तं करिस्सं सहीओं ! जइ तं ण पच्छिस्सं॥ २७३॥
(भ्रुकुट्या प्रलोकयिष्ये निर्भर्त्सयिष्ये पराङ्मुखी भविष्यामि।
यद् भणत तत् करिष्ये सख्यः ! यदि तं न प्रेक्षिष्ये॥)
अधीरोढा मध्या यथा—
दृष्टे लोचनवर्त्मना॰॥ २७४॥
(पृ. ४७२) अधीराऽनूढा मध्या यथा—
जं अणुणअं कुमारीणं सुहअस्स जा दिक् पसाहिअकुलस्स।
कीस वि सेसं पिअसहि ! मह हअहिअएण पारद्धी॥ २७५॥
(यमनुनयं कुमारीणां सुभगस्य च या दृक् प्रसाधितकुलस्य।
कस्मादपि शेषं प्रियसखि ! मम हतहृदयेन प्रारब्धम्॥)
ऊढा मध्या यथा—(गास. ५.५९)
रइ—विरम—लज्जिआए अप्पत्त—णिअसणाए सहस व्व।
ढक्कंति पिअपरिरंभणेण जहणं कुलवहुए॥ २७६॥
(रतिविरामलज्जिता अप्राप्तनिवसनाः सहसैव।
स्थगयन्ति प्रियपरिम्भणेन जघनं कुलवध्वः॥)
अनूढा मध्या यथा—
वरकित्तण—बलिअ—परम्मुहीए सूएइ होंतवहुआए।
अणुराअं दूरदलंतसीवणो कंचुओ च्चेअ॥ २७७॥
(वरकीर्तनवलितपराङ्मुख्याः सूचयति भविष्यद्वध्वाः।
अनुरागं दूरदलत्सीवनः कञ्चुक एव॥)
धीरा प्रगल्भा यथा—(गास. ६.६४)
ण वि तह अणालवंती हिअअं दूमेइ माणिणी अहिअं।
जह दूर—विअंभिअ—गरुअ—रोस—मज्झत्थ—भणिएहिं॥ २७८॥
(नापि तथाऽनालपन्ती हृदयं दुनोति मानिन्यधिकम्।
यथा दूरविजृम्भितगुरुकरोषमध्यस्थभणितैः॥)
धीरोढा प्रगल्भा यथा—
पेक्खसि अणिमिसणअणो जंपसि करकमल—ढइअ—अहरोट्ठो।
पट्ठिं ण देसि सअणे तहावि दे सुहअ ! कुप्पामो॥ २७९॥
{प्रेक्षसेऽनिमिषनयनो जल्पसि करकमलस्थगिताधरोष्ठः।
पृष्ठं न ददासि शयने तथापि ते सुभग ! कुप्यामः॥}
धीराऽनूढा प्रगल्भा यथा—(गास. ५.७०)
अण्णाण वि होंति मुहे पंहलधवलाइ दीहकसणाइं।
लोअणाइ सुंदरीणं तह वि खु दट्ठुं ण जाणंति॥ २८०॥
(अन्यासामपि सन्ति मुखे पक्ष्मलधवलानि दीर्घकृष्णानि।
कुमारीणां लोचनानि तथाऽपि द्रष्टुं न जानन्ति॥)
अधीरा प्रगल्भा यथा—(गास. ३.४४)
वेविरसिण्णकरंगुलिपरिक्खलंतंमि/ग्गहक्खसिअ लेहणीमग्गे।
सोत्थि व्विअ ण समप्पइ पिअसहि ! लेहम्मि किं लिहिमो ?॥ २८१॥
(वेपनशीलस्विन्नकराङ्गुलिपरिस्खलिते/परिग्रहसवलिते लेखनीमार्गे।
स्वस्त्येव न समाप्यते प्रियसखि ! लेखे किं लिखामः ?॥)
अधीरोढा प्रगल्भा यथा—(गास. ४.६८)
भरिमो से सअणपरम्मुहीएॅ विअलंतमाणपसराए।
कइअवसुत्तुव्वत्तणत्थणकलसहरपेल्लणसुहेल्लिं ॥ २८२॥
(स्मरामस्तस्याः शयनपराङ्मुख्याः विगलन्मानप्रसरायाः।
कैतवसुप्तोद्वर्तनस्तनकलश/हरपीडनसुखकेलिम् ॥)
अधीराऽनूढा प्रगल्भा यथा—(लीलावती. ४९०)
जाणामि च्चिअ पिअसहि ! दूरविरुद्धं कुमारभावस्स।
तह वि हअवम्महेणं अलज्जिराणं धुरे जुत्ता॥ २८३॥
(जानाम्येव प्रियसखि ! दूरविरुद्धं कुमारभावस्य।
तथाऽपि हतमन्मथेनाहमलज्जावतीनां धुरि नियुक्ता॥}
ऊढा प्रगल्भा यथा—(गास. ३.९८)
हुं हुं दे ह/भणसु पुणो ण सुअं ति करेइ कालविक्खेअं।
घरिणी—हिअअसुहाइं पइणो कण्णे भणंतस्स॥ २८४॥
(हुं हुं तावद्/हे भण पुनर्न श्रुतमिति करोति कालविक्षेपम्।
गृहिणी हृदयसुखानि पत्युः कर्णे भणतः॥)
अनूढा प्रगल्भा यथा—
हिअइच्छि/ट्ठिअस्स दिज्जउ किसिआअत्तिं ण पेच्छह पिउच्छा !।
हिअइच्छिअ/हिअअट्ठिओ म्ह कत्तो भणिउं मोहं गआ कुमरी॥ २८५॥
(हृदयेप्सि/षस्थितस्य दयितां कृशायन्तीं न प्रेक्षसी पितृष्वसः !।
‘हृदयेप्सितोऽस्माकं कुतः’ भणित्वा मोहं गता कुमारी॥)
मुग्धा यथा—
मुद्धत्तणेण वहुआ जंते/चित्ते(णिते) वक्खारआहि सहिसत्थे।
अणुमग्गपअत्ता/ट्टा पिअअमेण हसिऊण पडिरुद्धा॥ २८६॥
(मुग्धत्वेन वधूः याति वासकगृहान् सखीसार्थे।
अनुमार्गप्रवृत्त—प्रियतमेन हसित्वा प्रतिरुद्धा॥}
मध्या यथा—(वज्जा. ३१८)
अंतोकु/कढंत—मअण—ग्गि—ताविअं वहइ कणअ—कंत्तिल्लं।
उप्फिणिअं लाअण्णस्स रसं घणथणहरं वाला॥ २८७॥
(अन्तःक्वथन्मदनाग्नितापितं वहति कनककान्तियुक्तम्।
उत्फालितं लावण्य/ण्यस्य—रसं घनस्तनभरं बाला॥)
प्रगल्भा यथा—(गास. ३.९९)
खिण्णस्स उरे पइणो ठवेइ गिम्हावरण्हरमिअस्स।
ओल्लं गलंतउप्फं ण्हाणसुअंधं चिहुरभारं॥ २८८॥
(खिन्नस्योरसि स्थापयति पत्युः ग्रीष्मापराह्णरमितस्य।
आर्द्रं गलत्पुष्पं स्नानसुगन्धं चिकुरभारम्॥)
शतमेतत् स्वकीयानां त्रिचत्वारिंशदुत्तरम्।
उत्तमादिविभेदेन नायिकानामुदाहृतम्॥ २८९॥
श्रुतिप्रवृत्तितो धर्मस्तथाऽर्थोऽपत्यलक्षणः।
प्रायो विस्रम्भजः कामः स्वकीयास्वेव तिष्ठति॥ २९०॥
गुणपरिणयधैर्यामौग्ध्यादियोगव्यतिकरपरिपाट्या विस्तृतोऽयं प्रकारः।
निजयुवतिषु सम्यग् धर्मकामार्थहेतोरमुमथ परकीयासूक्तवत् कीर्तयामः॥
(२. परकीया)
तत्र परकीया उत्तमा यथा—(गास. ४.१७)
सुहवु/ठच्छिआइ सुहओ मुहपंकअसुरभिपवणणिव्वविअं।
तह पिअइ पअइ/कडुअं पि ओसढं/ठं जह ण णिट्ठाइ॥ २९२॥
(सुखपृच्छिकायाः सुभगः मुखपङ्कजसुरभिपवननिर्वापितम्।
तथा पिबति प्रकृति/बहलकटुकमप्यौषधं यथा न नितिष्ठति॥)
उत्तमा धीरा यथा—(गास. ५.१५)
चोरिअ—रअ—सत्थालुए पुत्ति ! मा भमसु अंधआरम्मि।
अहिअअरं लक्खिज्जसि तम—णिवहे दीवअ—सिह व्व॥ २९३॥
(चौर्यरतश्रद्धालुके पुत्रि ! मा भ्रम अन्धकारे।
अधिकतरं लक्ष्यसे तमोनिवहे दीपकशिखेव॥)
उत्तमाऽधीरा यथा—
सुहअ ! तुह विरहहुअवह—पलित्त—हिअओण्ह/त्थदीह—ससिआए।
तंमंति/धूमेंति तीए पुरओ मुहापरिमलकाडि्ढआ भसला॥ २९४॥
(सुभग ! तव विरहहुतवहप्रदीप्तहृदयोष्ण/त्थदीर्घश्वसितायाः।
ताम्यन्ति/धूमायन्ते तस्याः पुरतो मुखपरिमलकृष्टा भ्रमराः॥)
उत्तमोढा यथा—(गास. ६.९२)
एक्क च्चिअ वहुआ गहवइस्स महिलत्तणं समुव्वहइ।
अणिमिस—णअणो सअलो वि जीए देवीकओ गामो॥ २९५॥
(एकैव वधूः गृहपतेः महिलात्वं समुद्वहति।
अनिमिषनयनः सकलोऽपि यया देवीकृतो ग्रामः॥)
उत्तमाऽनूढा यथा—(गास. ९५७वे)
पिअदंसणरहसुक्खित्त पहिअ ! अण्णेण वच्चसु पहेण।
गहवइधूआ दुल्लंघवाउरा इह हअग्गामे॥ २९६॥
(प्रियादर्शनरभसोत्सिक्त पथिक ! अन्येन व्रज पथा।
गृहपतिदुहिता दुर्लङ्घवागुरा इह हतग्रामे॥)
उत्तमा धीरोढा यथा—(गास. ५.१०)
तुह दंसणसंजणिओ वहुएँ लज्जालुईएँ अणुराओ।
दुग्गअमणोरहो विअ हिअअ व्विअ जाइ परिणामं॥ २९७॥
(तव दर्शनसंजनितो वध्वा लज्जालुकाया अनुरागः।
दुर्गतमनोरथ इव हृदय एव याति परिणामम्॥)
उत्तमा धीराऽनूढा यथा—(गास. ४.५६)
वअणेउ चलंत—सीस—सुण्णावहाण—हुंकारं।
सहि ! देंत्ती णीसासंतरेसु कीस म्ह दूमेसि ?॥ २९८॥
(वचनेषु चलच्छीर्षशून्यावधानहुङ्कारम्।
सखि ! ददती निःश्वासान्तरेषु किमिति/कस्मादस्मान् दुनोषि ?॥)
उत्तमाऽधीरोढा यथा—
णववरकरगहिअकराए सो मए माणिअअवारेज्जे।
विमअवअणो णिअंतो विलआए पेच्छिउं तिण्हो॥ २९९॥
(नववरकरगृहीतकराया स मया मानितः विवाहमण्टपे।
विमलवदनः पश्यन् वनितायाः प्रेक्षितुं सतृष्णः॥)
उत्तमाऽधीराऽनूढा यथा—
कत्तो मज्झ समासण्णदड्ढवारजिआए सहि ! जीअं।
गेहंगणवाणट्ठीए तम्मि विमणे अलक्कंते॥ ३००॥
(कुतो मम समासन्नदग्धवारजिताया सखि ! जीवितम्।
गेहाङ्गणावस्थितायास्तस्मिन् विमनसि अलक्ष्यमाणे॥)
उत्तमा मुग्धा यथा—(गास. ६.७२)
मअणग्गिणो व्व धूमं मोहणपिंच्छं व्व लोअदिठ्ठीए।
जोव्वणधअं व मुद्धे ! वहसि सुअंधं चिहुरभारं॥ ३०१॥
(मदनाग्नेरिव धूमं मोहनपिञ्छिकामिव लोकदृष्टेः।
यौवनध्वजमिव मुग्धे ! वहसि सुगन्धं चिकुरभारम्॥)
उत्तमा धीरा मुग्धा यथा—
सहि ! साहसु तेण समं अहं पि किं णिग्गआ ? पहाअम्मि।
अण्ण च्चिअ दीसइ जेण दप्पणे कावि सा सुमुही/साममुही॥ ३०२॥
(सखि ! साधय तेन सममहमपि किं निर्गता ? प्रभाते।
अन्येव दृश्यते येन दर्पणे काऽपि सा सुमुखी/श्याममुखी॥)
उत्तमाऽधीरा मुग्धा यथा—
लज्जाविसंठुलाए अरंहल्लअणच्चेलंतीए।
वाएइण पइ आ उअ एमेअ करे कालवहूए॥ ३०३॥
उत्तमोढा मुग्धा यथा—
दूसिअहिअओ/दूलिहहिइअ सोयं धरेइ वहुआए वण्णिअं दिअरो।
उण्णामिअ-मासल-बाहुमूल-णिव्वण्णण-सअण्हो ॥ ३०४॥
(दूषितहृदयः सोऽयं धारयति वध्वाः वर्णितं देवरः।
उन्नामितमांसलबाहुमूलनिर्वर्णनसतृष्णः ॥)
उत्तमाऽनूढा मुग्धा यथा—(गास. ५.१०)
एत्ताहे च्चिअ मोहं जणेइ बालत्तणे वि दीसंती/वट्टंती।
गहवइ/गामणिधूआ विसलआ व वढ्ढंती काहिइ अणद्धं॥ ३०५॥
(एतावत्येव मोहं जनयति बालत्वेऽपि दृश्यमाना।
गृहपति/ग्रामणीदुहिता विषलतेव वर्धमाना करिष्यत्यनर्थम्॥)
उत्तमा धीराढो मुग्धा यथा—
णिद्दावस-मअणुम्मीलतारआ-वंगघोलिरे णअणे।
गिम्हावरण्हसुत्तुठ्ठिआए दिअरो तुह णिअइ॥ ३०६॥
(निद्रावशमदनोन्मीलत्ताकापाङ्गघूर्णनशीले नयने।
ग्रीष्मापराह्णसुप्तोत्थिताया देवरस्तव पश्यति॥)
उत्तमा धीराऽनूढा मुग्धा यथा—
वहवल्लह ! वड्ढंती लअम्मि अंदोलमाणीँ ओरमसु।
परिपाडिपरिच्छणवावडाओ कुप्पंति कुमरीओ॥ ३०७॥
{बहुवल्लभ ! वर्तमानाः लतायामान्दोलमानोरस्काः।
परिपाटीपरीक्षणव्यापृताः कुप्यन्ति कुमार्यः॥}
उत्तमा अधीरोढा मुग्धा यथा—(गास. १.९६)
णासं व सा कओले अज्ज वि तुह दंतमंडलं बाला।
उब्भिब्ण-पुलअ-वइ-परिगअं रक्खइ वराई॥ ३०८॥
(न्यासमिव सा कपोले अद्यापि तव दन्तमण्डलं बाला।
उद्भिन्नपुलकवृतिवेष्टनपरिगतं रक्षति वराकी॥)
उत्तमा अधीराऽनूढा मुग्धा यथा—
णव—लअ—पहर—कुण्णिग्गाए तं कअं किं पि सुहअ! कमुरीए।
जं अज्ज वि जुअइजणो घरे घरे सिक्खिउं महइ॥ ३०९॥
(नवलताप्रहारोद्विग्नया तत्कृतं किमपि सुभग! कुमार्या।
यदद्यापि युवतिजनो गृहे गृहे शिक्षितुं काङ्क्षति॥)
उत्तमा मध्या यथा—(गास. २.४०)
रच्छा—पइण्ण—णअणुप्पला तुमं सा पडिच्छए एंतं।
दार—णिहिएहिं बालिअ मंगलकलसेहिं व थणेहिं॥ ३१०॥
(रथ्याप्रकीर्णनयनोत्पला त्वां सा प्रतीक्षते आयान्तम्।
द्वारनिहिताभ्यां बालक! मङ्गलकलशाभ्यामिव स्तनाभ्याम्॥)
उत्तमा धीरा मध्या यथा—(गास. ३.५६)
कं तुग्गथणुक्खित्तेण पुत्ति! दारठ्ठिआ पुलोएसि।
उण्णामिअकलसणिवेसिअग्घकमलेण व मुहेण॥ ३११॥
(कं तुड्गंस्तनोत्क्षिप्तेन पुत्रि! द्बारस्थिता प्रलोकयसि।
उन्नामितकलशनिवेशितार्घकमलेनेव मुखेन॥)
उत्तमा अधीरा मध्या यथा—(गास. ७.७)
गम्मिहिसि तस्स वासं मा तुरसु सुअणु! वड्ढउ मिअंको।
दुद्धे दुद्धं विव चंदिंमाए को पेच्छइ मुहं ते॥ ३१२॥
(गमिष्यसि तस्य पार्श्वं मा त्वरस्व सुतनु! वर्धतां मृगाङ्कः।
दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते॥)
उत्तमोढा मध्या यथा—(गास. ३.६०)
पडिवक्खमंतुपुंजे लाअण्णउडे अणंगगअकुंभे।
पुरिससअहिअअधरिए कीस थणंती थणे वहसि?॥ ३१३॥
(प्रतिपक्षमन्तुपुञ्जौ लावण्योटजावनङ्गगजकुम्भौ।
पुरुषशतहृदयधृतौ किमिति स्तनंती स्तनौ वहसि ?॥)
उत्तमाऽनूढा मध्या यथा—
अंदोलआइ भोइअधूआ जहणप्पवाणपीढाइ।
वज्झंति घरपरोहड—पंगणभाएसु तरुणेहिं॥ ३१४॥
(आन्दोलनानि ग्रामणीदुहितृ—जघन—प्रमाण—पीठानि।
वध्यन्ते गृहपश्चाद्भाग—प्राङ्गणभागेषु तरुणैः॥)
उत्तमा धीरोढा मध्या यथा—
संदट्ठाहरजुअलं कंपितकओलअक्खिअं सहइ।
लडह—वहुआएँ हसिअं पुणो वि दिअरे रइमणंमि॥ ३१५॥
(संदष्टाधरयुगलं कम्पितकपोललक्षितं राजते।
भट्टवध्वाः दारिकया? हसितं पुनरपि देवरे रतिमनसि॥)
उत्तमा धीराऽनूढा मध्या यथा—
पुण्णग्गि! वाउलमणो तह हअ—कुमरि तुए कओ गामो।
जह जाओ वाउलओ परिहरिअ—घरण्ण—वावारो॥ ३१६॥
(पुत्रि! व्याकुलमनास्तथाहत—कुमारि! त्वया कृतो ग्रामः।
यथा जातो व्याकुलकः परिहृतगृहान्यव्यापारः॥)
उत्तमा अधीरोढा मध्या यथा—(गास. ४.७१)
णअण्णब्भंतर—घोलंत—वाहभर—मंथराए दिट्ठीए।
पुणरुत्तपेच्छिरीए बालअ! किं जं ण भणिओ सि॥ ३१७॥
(नयनाभ्यन्तरघूर्णमानबाष्पभरमन्थरया दृष्ट्या।
पुनरुक्तप्रेक्षणशीलया बालक! किं यत्र भणितोऽसि॥)
उत्तमा अधीराऽनूढा मध्या यथा—
समुहपसारिअवाहे तुमंम्मि चित्ताणिए कुमारीए।
मुक्को अंदोलअणपीढआहि अप्पा मुहच्चेअ॥ ३१८॥
(संमुखप्रसारितबाहे त्वयि चित्तानीते कुमार्या।
मुक्त आन्दोलनपीठिकाभिः आत्मा मुधैव॥)
उत्तमा प्रगल्भा यथा—
छेआइ मुद्धदिअरस्स लआ तह वि लाणिअण्णविलासा।
संढोत्तिप X X षण्ढ इति प जह जणेण॥ ३१९॥
{छेकानि मुग्धदेवरस्य लता तथाऽपि लावण्यविलासाः।
षण्ढ ति प X X X यथा जनेन॥}
उत्तमा धीरा प्रगल्भा यथा—
एएण च्चिअ पिअसहि! पज्जतं किं ण माणुसे लोए?।
जं तस्स कवाए एसा किए त्ति सव्वो जणो भणइ॥ ३२०॥
(एतेनैव प्रियसखि! पर्याप्तं किं न मानुषे लोके?।
यत् तस्य कृते एषा कृताति सर्वो जनो भणति॥}
उत्तमा अधीरा प्रगल्भा यथा—
सच्चं जाणइ दट्ठं सरिसम्मि जणम्मि जुज्जए राओ।
मरउ ण तुमं भणिस्सं मरणं वि सलाहणिज्जं से॥ ३२१॥
(सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयं तस्याः॥)
उत्तमोढा प्रगल्भा यथा—(गास. ३.५)
फुट्टंतेण वि हिअएण सुहअ! कह णिव्वुइज्जिए तम्मि।
अद्दाए पडिबिबं व जंमि दुक्खं ण संकमइ॥ ३२२॥
(स्फुटताऽपि हृदयेन सुभग! कथं निवेद्यते तस्मिन्।
आर्द्रादर्शे प्रतिबिम्बमिव यस्मिन् दुःखं न संक्रामति॥)
उत्तमाऽनूढा प्रगल्भा यथा—
चक्कम्म़िउं अ सलीलं हसिउं अ सविब्भमं हअकुमारी।
वंकं च पुलोएउं अवि ए केण सिक्खविआ?॥ ३२३॥
(चङ्क्रमितुं सलीलं हसितुं च सविभ्रमं हतकुमारी।
वक्रं च प्रलोकितुं अपि ए केन शिक्षापिता?॥)
उत्तमा धीरोढा प्रगल्भा यथा—(गास. १.३५)
दिअरस्स असुत्थमणस्स कुलवहू णिअअकुङ्ङलिहिआइं।
दिहअं कहेइ रामाणुलग्गसोमित्तिचरिआइं॥ ३२४॥
(देवरस्याशुद्धमनसः कुलवधूर्निजक(निलय) कुड्यलिखितानि।
दिवसं कथयति रामानुलग्नसैमित्रिचरितानि॥)
उत्तमा धीरोढा प्रगल्भा यथा—
ओउच्छिआ सि कोमुइ! तुमं पि मामि! कोमुईचंददे।
रमिअम्ह जेण अज्जं सो चेअ परेज्ज सुहओ ग ग॥ ३२५॥
{आपृष्टाऽसि कौमुदि! त्वमपि मातुलानि! कौमुदीचन्द्र (चन्द्रे)।
रमिष्यामो येन अद्य स एव . . . सुभगः . . . .॥}
उत्तमाऽधीरोढा प्रगल्भा यथा—
पाठेइ कुलवहुए अह वम ग ग ग लइ(लि)असअला।
समुच्चइस्से तम्मि आवसिउं॥ ३२६॥
उत्तमा अधीराऽनूढा प्रगल्भा यथा—
णीसेसपसुत्तजणम्मि अद्धरत्ते व्व हिव्भगिम्हमज्झण्हे।
अहिसारेसि सउण्णं कुमारि! कं गामतरुणाणं ?॥ ३२७॥
(निःशेषप्रसुप्तजने अर्धरात्रे इव (हिब्भ)—ग्रीष्ममध्याह्ने।
अभिसारयसि सपुण्यं कुमारि! कं ग्रामतरुणानाम् ?॥)
मध्या यथा— (गास. १.८०)
ह्णण्हाणहलिद्दाभरिअंतराइ जालाइ जालवलअस्स।
सोहंती किलिंचअ—कंटएण कं काहिसि कअत्थं?॥ ३२८॥
(स्नानहरिद्राभृतान्तराणि जालानि जालवलयस्य।
शोधयन्ती क्षुद्रकण्टकेन कं करिष्यसि कृतार्थम्?॥)
मध्या धीरा यथा—(गास. १.७३)
जं जं सो णिज्झाअइ अंगोआसं महं अणिमिसच्छो।
पच्छाएमि अ तं तं इच्छामि अ तेण दीसंतं॥ ३२९॥
(यं यं स निध्यायत्यङ्गावकाशं ममानिमिषाक्षः।
प्रच्छादयामि च तं तमिच्छामि च तेन दृश्यमानम्॥)
मध्या अधीरा यथा—(गास. ३.४६)
मामि! हिअअं व पीअं तेण जुआणेण मज्जमाणाए।
ण्हाणहलिद्दाकडुअं अणुसोत्तजलं पिअंतेण॥ ३३०॥
(मातुलानि! हृदयमिव पीतं तेन यूना मज्जन्त्याः।
स्नानहरिद्राकटुकमनुस्त्रोतो जलं पिबता॥)
मध्या ऊढा यथा—(गास. ३.५४)
तह सुण्हाए पुलोइओ दरवलिअवंकतारअं पहिओ।
जह घाटि/तडिओ वि घरसामिएण ओणिच्चए/ओलिंदए वसिओ॥ ३३१॥
(तथा स्नुषया प्रलोकितो दरवलितवक्रतारकं पथिकः।
यथा घाति/ताडितोऽपि गृहस्वामिना अलिन्दके उषितः॥)
मध्या अनूढा यथा—
गिज्जंताइ सुणंतो को मंगलकाल/गाइआण गेआइं।
जइ तस्स णामसरिसं वरस्स गोत्तं ण हु हुवंतं॥ ३३२॥
(गर्जितानि श्रृण्वन् को मङ्गलकारकाणां गेयानि।
यदि तस्य नामसदृशं वरात्म—गोत्रं न खलु भवेदिति॥}
मध्या धीरोढा यथा—(गास. ७२०वे.)
दिट्ठाए जं ण दिट्ठो सुहसो सुण्हाए/आलविआए जं ण आलत्तो।
उवआरो जं ण कओ, तं विअ कलिअं छइल्लेहिं॥ ३३३॥
(दृष्ट्या यन्न दृष्टः सुभगः स्नुषया/आलपितया यन्नालापितः।
उपचारो यन्न कृतस्तदेव कलितं छेकैः॥)
मध्या धीराऽनूढा यथा—
(गाम)छलअणो विसूरइ. . . एण भु/हुतइ इर वि कहेउ।
कुमरीए तरुणसद्दे आणापरिसंकिरे जाए॥ ३३४॥
(ग्राम कामिजन खिद्यते अत्र तत्र किलापि कथयतु।
कुमार्या तरुणसार्धे आज्ञापरिसंक्रमशीले जाते॥)
मध्या अधीरोढा यथा—(गास. २.६५)
फलहीवाउअपुंण्णाहमंगलं लंगले कुणंतीए।
वहुआए मणोहरब्भगब्भिणीए हत्था थरहरंति॥ ३३५॥
(कार्पासीक्षेत्रकर्षणवापन/वाटक—पुण्याहमङ्गलं लाङ्गले कुर्वत्याः।
वध्वा मनोरथाभ्रगर्भिण्या हस्तौ थरथरायेते॥ }
मध्या अधीराऽनूढा यथा—(गास. ८१ ० वे.)
सा अण्णवरविवाहे साहारिज्जइ सहीहि णिउणाहि।
चंडालहत्थगअउणि व्व जीए णिरालंबा॥ ३३६॥
(सा अन्यवरविवाहे संधार्यते सखीभिर्निपुणाभिः।
चण्डालहस्तगतशकुनिरिव जीविते निरालम्बा॥)
मध्या मुग्धा यथा—(गास. ३.४९)
अज्ज मए गंतव्वं घणंधआरे वि तस्स सुहअस्स।
वाला/अज्जा णिमीलिअच्छी पअपरिपाडिं घरे कुणइ॥ ३३७॥
(अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।
बाला/आर्या निमीलिताक्षी पदपरिपाटीं गृहे करोति॥)
मध्या धीरा मुग्धा यथा—(गास. ६.४)
मारेसि कं ण मुद्धे! इमिणा रत्तंततिक्खविसमेण।
भूलअचावविणिग्गएण अद्धच्छिभल्लेण॥ ३३८॥
(मारयसि कं न मुग्धे! अनेन रक्तान्ततीक्ष्णविषमेण।
भ्रूलता—चाप—विनिर्गत—तीक्ष्णतरा/र्धाक्षि—भल्लेन॥)
मध्या अधीरा मुग्धा यथा—(गास. २.८७)
आअस्स किं णु काहं, किं वोच्छं, कह णु होहिइ इमंति।
पढमुल्लअ/गुग्गअसाहसआरिआए हिअअं थरहरेइ॥ ३३९॥
(आगतस्य किं नु करिष्यामि? किं वक्ष्यामि? कथं नु भविष्यतीदम्? इति।
प्रथमार्द्र/मोद्गत—साहसकारिकाया हृदयं थरथरायते॥)
मध्योढा मुग्धा यथा—
गह्णंतीए णवलअं जुज्झाओज्झिए दिअरहत्थाओ।
रोसणिकुंणिरज्जंतलोअणो विहसइ पई वि॥ ३४०॥
{गृह्णन्त्या नवलतां युध्वाऽऽच्छिद्य देवरहस्तात्।
रोषनिकूणितरज्यमानलोचनो विहसति पतिरपि॥}
मध्याऽनूढा मुग्धा यथा—
ओ दुद्धगंधमुहिए कुमारि! दे होउ/ देवि व्व वंदणिज्जा सि।
अण्णोण्णगहिअविसमो, गामोच्चिअ/भो/गामो च्चिअ कुओए/कुओ एवं॥ ३४१॥
{ओ दुग्धगन्धमुखि! कुमारि! पश्य भवतु देवीय/वन्दनीयाऽसि।
अन्योन्यग्रहविषमो मुक्त्वा ग्रामोचिते (भो)ग्राम एव कुयोगे/कुतो एवं॥}
मध्या धीरोढा मुग्धा यथा—
पुत्ति! भुअंगि व्व विमुक्ककंचुआ सिसिरपवणमलिणसिरी।
भूमिहरुग्गअवअणा पुलइज्जसि इअ भुअंगेहिं॥ ३४२॥
{पुत्रि! भुजङ्गीव विमुक्तकञ्चुका शिशिरपवनमलिनश्रीः।
भूमिभरो/धरोद्गतवदना प्रलोक्यसे इह भुजङ्गैः॥ }
मध्या धीराऽनूढा मुग्धा यथा—
तेण इर णवलआए दिण्णो पहरो इमीए थणवट्ठे।
गामकुमरीहि अज्ज वि दिअहं परिपालिआ भमइ॥ ३४३॥
(तेन किल नवलतया दत्तः प्रहार एतस्याः स्तनपृष्ठे।
ग्रामकुमार्याः(येयम्)अद्यापि दिवसं प्रतिपालिता भ्रमति॥)
मध्या अधीरोढा मुग्धा यथा—(गास. ७७१ वे.)
मा मा मुअ परिहासं देअर! अणहोरणाए वरईए।
सीअम्मि वि पासिज्जइ पुणो वि पासे/तीसे कुणसु छाअं॥ ३४४॥
(मा मा मुञ्च परिहास देवर! अप्रावरणाया वराक्याः।
शीतेऽपि प्रस्विद्यते पुनरपि पार्श्वे/तस्याः कुरु च्छायाम्॥)
मध्या अधीराऽनूढा मुग्धा यथा—
तुह णवलअपहरपडिच्छणुद्धसच्चविअसमुहसिण्णकरं।
अज्ज वि रे! किं पुच्छसि कुमारीअं को तुह दइओ/पिओ त्ति॥ ३४५॥
(तव नवलताप्रहारप्रतीच्छनोर्ध्वसत्यापितसम्मुखस्विन्नकराम्।
अद्यापि रे! किं पृच्छासि कुमारीं कस्तव दयित/प्रिय इति॥)
मध्यमा मध्या यथा—
सहि! लुक्कविअ सरीरं णिरिंगिपोतपसिअच्छीए।
अद्दिट्ठाए उणपेच्छिरीएँ दीसंत धण्णो सि॥ ३४६॥
(सखि! प्रच्छाद्य शरीरं निरिङ्गिपोतं पश्य सिताक्ष्या।
अदृष्टया पुनःप्रेक्षणशीलया दृश्र्यमान धन्योऽसि॥)
मध्यमा धीरा मध्या यथा—(गास. ४.७०)
किं ण भणिओ सि बालअ! गामणिधूआएॅ गुरुअणसमक्खं।
अणिमिसवंकवलंतवअणणअणद्धदिट्ठेहिं ॥ ३४७॥
(किं न भणितोऽसि? बालक! ग्रामणीदुहित्रा गुरुजनसमक्षम्।
अनिमिष—वक्र—वलमान—वदन—नयनार्धदृष्टै ॥)
मध्यमा अधीरा मध्या यथा—(गास. ४.६९, द्र.३४.१३६)
फंगुच्छवणिद्दोसं केण वि कद्दमपसाहणं दिण्णं।
थणअलसमुहपलोड्ढंत/ट्टंतसेअधोअं किणो धुअसि॥ ३४८॥
(फाल्गुनोत्सवनिर्दोषं१ केनापि कर्दमप्रसाधनं दत्तम्।
स्तनकलशमुखप्रलुठत्स्वेदधौतं किमिति धावयसि?॥)
मध्यमा ऊढा मध्या यथा—(गास. ७.२०)
दोअंगुलअ—कप्पट/कवाड/कवालअपिणद्ध—सविसेस—णील—कंचुलिआ/इआ।
दावेइ थणत्थलवण्णिअं व सोण्हा/तरुणी जुअजणाणं॥ ३४९॥
{द्वयङ्गुवक—कर्पटक—पिनद्ध/कपाटापिनद्ध—सविशेष—नील—कञ्चुलिका/किका।
दर्शयति स्तनस्थलवर्णिकामिव स्नुषा/तरुणी युवजनानाम्॥ }
मध्यमा अनूढा मध्या यथा—
छणपिठ्ठधूसरत्थणि॰॥ ३४९a॥
(पृ.५६५) मध्यमा धीरोढा मध्या यथा—(गास. ७३५वे.)
आअंबच्छिं विअलंत—वाह—माबद्ध—थणहरुक्कंपं।
असमत्तं चिअ अच्छउ/चिट्ठउ सिहिणो अब्भुत्थणमिणं ते॥ ३५०॥
(आताम्राक्षं विगलद्वाष्पमाबद्धस्तनभरोत्कम्पम्।
असमाप्तमिव आस्तां/तिष्ठतु शिखिनोऽभ्युत्तेजनमिदं ते॥
मध्यमा धीराऽनूढा मध्या यथा—
उअ माहमासगोसग्गमज्जिरी जइ वि थरइ सीएण।
अज्जा तह वि ण इच्चइ पामरपज्जालिअं अग्गिं॥ ३५१॥
(पश्य माघमासगोसर्गमज्जनशीला यद्यपि कम्पते शीतेन।
आर्या तथाऽपि नेच्छति पामरप्रज्वालितमग्निम्॥}
मध्यमा अधीरोढा मध्या यथा—(गास. ३.२०)
एकक्कमवइवेढणविवरंतरदिण्णतरलणअणाए ।
तुइ वोलंते बालअ! पंजरसउणाइअं तीए॥ ३५२॥
(एकक्रमवृतिवेष्टनविवरान्तरदत्ततरलनयनया
त्वयि अपक्रान्ते/गच्छति बालक! पञ्जरशकुनायितं तया॥)
१. फाल्गुनोत्सवो ‘फाग’—पदवाच्यः। मध्यमा अधीराऽनूढा मध्या यथा—(गास. ५.४१)
जम्मंतरे वि चलणे जीएण खु मअण! तुज्झ अच्चिस्सं।
जइ तं पि तेण बाणेण विज्झसे जेण हं विद्धा॥ ३५३॥
(जन्मान्तरेऽपि चरणौ जीवने खलु मदन! तवार्चयिष्यामि।
यदि तमपि तेन बाणेन विध्यसि येनाहं विद्धा॥)
मध्यमा प्रगल्भा यथा—(गास. ३.१०)
जे समुहागअवोलंतवलिअपिअपेसिअच्छिविच्छोहा।
अम्हं ते मअणसरा जणस्स जे होंति ते होंतु॥ ३५४॥
(ये संमुखागत-व्यतिक्रान्त-वलित-प्रिय-प्रेषिताक्षि-विक्षोभाः।
अस्माकं ते मदनशरा जनस्य ये भवन्ति ते भवन्तु॥)
मध्यमा धीरा प्रगल्भा यथा—(गास. २.९८)
बहुसो वि कहिज्जंतं तुह वअणं मज्झ हत्थसंदिट्ठं।
ण सुअं ति जंपमाणा पुणरुत्तसअं कुणइ अज्जा॥ ३५५॥
(बहुशोऽपि कथ्यमानं तव वचनं मम हस्तसंदिष्टम्।
न श्रुतमिति जल्पन्ती पुनरुक्तशतं करोत्यार्या॥)
मध्यमा अधीरा प्रगल्भा यथा—(गास. २.९९)
पाआडिअ—णेह—सब्भाव—णिब्भरं तीए जह तुमं दिट्ठो।
संवरणवावडाए(ण) अण्णो वि जणो तह च्चेअ॥ ३५६॥
(प्रकटितस्नेहसद्भावनिर्भरं तया यथा त्वं दृष्टः।
संवरणव्यापृतया (न) अन्योऽपि जनस्तथैव॥)
मध्यमा ऊढा प्रगल्भा यथा—(गास. ४.३२)
कं सुअणु! सूर—णमणच्छलेण कुलअं/कुविअं जणं पसाएसि।
हास—कडक्खुम्मीसा न होंति देवाण जोक्कारा॥ ३५७॥
(कं सुतनु! सूर्यनमनच्छलेन कुलजं/कुपितं जनं प्रसादयसि।
हासकटाक्षोन्मिश्रा न भवन्ति देवानां जयकाराः॥)
मध्यमा अनूढा प्रगल्भा यथा—(गास. ८२५ वे.)
कइआ जाआ कइआ णु सिक्खिआ माउआ! हअकुमारी।
तं तं जाणइ सव्वं, जं जं महिलाओ जाणंति॥ ३५८॥
(कदा जाता ? कदा नु शिक्षिता? मातः! हतकुमारी।
तत्तज् जानाति सर्वं यद्यन्महिला जानन्ति॥)
मध्यमा धीरोढा प्रगल्भा यथा—(गास. ७३४ वे.)
कह दे/कडुए धूअंधारे अब्भुत्थणमग्गिणो समप्पिहिसि/हिइ।
मुहकमलचुंबणोल्लोलुअम्मि वासठ्ठिए/पासठ्ठिए दिअरे॥ ३५९॥
(कथं/कटुके हे/सखि धूमोद्गारे/धूमान्धकारे अभ्युत्था/तेजनमग्नेः समाप्स्यते।
मुखकमलचुम्बनोल्लोलुपे/ लम्पटे वासस्थिते/पार्श्वस्थिते देवरे॥)
मध्यमा धीराऽनूढा प्रगल्भा यथा—(गास. ७.४३)
मण्णे आअण्णंता, आसण्णविवाहमंगलुग्गीअं।
तेण जुआणेण समं, हसंति मं वेअसकुडुंगा॥ ३६०॥
(मन्ये आकर्णयन्त आसन्नविवाहमङ्गलोद्गीतम्।
तेन यूना समं हसन्ति मां वेतसनिकुञ्जाः॥)
मध्यमा अधीरोढा प्रगल्भा यथा(गास. १.९३)
अवितिण्हपेच्छणिज्जेण तक्खणं मामि! तेण दिट्ठेण।
सिविणअपीएण व पाणिएण तण्हं च्चिअ ण फिट्टा॥ ३६१॥
(अवितृष्णप्रेक्षणीयेन तत्क्षणं मातुलानि! तेन दृष्टेन।
स्वप्नपीतेनेव पानीयेन तृष्णैव न भ्रष्टा॥)
मध्यमाऽधीराऽनूढा प्रगल्भा यथा—(गास. ७.१७)
किं भणइ मं सहीओ! मा मर, दीसि/लक्खिहिइ सो जिअंतीए।
कज्जालाओ एसो, सिणेहमग्गो च्चिअ/उण ण होइ॥ ३६२॥
(किं भणथ मां सख्यः! मा म्रियस्व द्रक्ष्यते/लक्षिष्यते स जीवन्त्या।
कार्यालाप एष स्नेहमार्ग एव न/पुनर्न भवति॥)
कनिष्ठा यथा—(गास. ८६५ वे.)
एमेअ मंदपुण्णा अप्पत्तमणोरहा विवज्जिस्सं।
जणवाओ वि ण जाओ तेण समं हलिअउत्तेण॥ ३६३॥
(एवमेव मन्दपुण्याप्राप्तमनोरथा विपत्स्ये।
जनवादोऽपि न जातस्तेन समं हालिकपुत्रेण॥)
कनिष्ठा धीरा यथा—(गास. ३.३१)
तुज्झ अ सोहग्गगुणं अमहिलसरिसं अ साहसं मज्झ।
जाइण गोलाऊरो वासारत्तोद्धरत्तो अ॥ ३६४॥
(तव च सौभाग्यगुणममहिलासदृशं च साहसं मम।
जानाति गोदापूरो वर्षारात्रोऽर्धरात्रश्च॥)
कनिष्ठा अधीरा यथा—(गास. १.५७)
अगणिअसेसजुआणा वालअ! वोलीण—लोअ—मज्जाआ।
अह सा भमइ दिसामुहपसारिअच्छी तुह कएण॥ ३६५॥
(अगणितशेषयुवजना बालक! विलीन/व्यतिक्रान्त—लोकमर्यादा।
अथ सा भ्रमति दिशामुखप्रसारिताक्षी तव कृते॥)
कनिष्ठा ऊढा यथा—(गास. ७६९ वे.)
अणुसोअइ हलिअवहू रइकिरणोलुग्गपंडुरच्छाअं।
रण्णुंदूरु—दंतुक्खुत्त—विसम—विलअं तिलच्छेत्तं॥ ३६६॥
(अनुशोचति हलिकवधूः रविकिरणावरुग्णपाण्डरच्छायम्।
अरण्योन्दुरदन्तोत्कृत्तविषमवलितं तिलक्षेत्रम्॥)
कनिष्ठा अनूढा यथा—(गास. ४.२८)
णीआइ अज्ज णिक्किव! पिणद्ध—णव—रंगआए वरईए।
घरपरिवाडीए परिधाणाणि/पहेणआइँ तुह दंसणासाए॥ ३६७॥
(नीतान्यद्य निष्कृप! पिनद्धनवरङ्गकया वराक्या।
गृहपरिपाट्या प्रहेणकानि तव दर्शनाशया॥)
कनिष्ठा धीरोढा यथा—(गास. ३.२९)
सव्वस्सम्मि वि दड्ढे गहवइधूआअ णिव्वुइ च्चेअ।
जं तीए गामडाहे हत्थाहत्थिं कुडो गहिओ॥ ३६८॥
(सर्वस्मिन्नपि/सर्वस्वऽपि दग्धे गृहपतिदुहितुर्निर्वृतिरेव।
यत् तया ग्रामदाहे हस्ताहस्तिकया कुटो गृहीतः॥}
कनिष्ठा धीराऽनूढा यथा—
जणणी असंकमाणी जाए वारेज्जणाम्मलणे . . .।
णेच्छइ दुढ्ढकुमारी कुरओ ओपोंतिआ होउं(?)॥ ३६९॥
कनिष्ठा अधीरोढा यथा—(गास. ४.५९)
आहवइसुआच्चिएसु वि फलहीवेंटेसु उअह वहुआए।
मोहं भमइ पुलइओ विलग्गसेअं/सेअगलंतं—गुली हत्थो॥ ३७०॥
(गृहपतिसुतावचितेष्वपि कार्पासवृन्तेषु पश्यत वध्वाः।
मोघं भ्रमति पुलकितो विलग्न/गलत्—वेदाङ्गुलिर्हस्तः॥)
कनिष्ठा अधीराऽनूढा यथा—(गास. ५.५६)
धावइ पुरओ पासेसु भमइ दिट्ठीपहम्मि संठाइ।
णवलइआहत्थअ हलिअउत्त! दे हंमउ कुमारीं॥ ३७१॥
(धावति पुरतः पार्श्वयोर्भ्रमति दृष्टिपथे संतिष्ठते।
नवलतिकाहस्त हलिकपुत्र! दयस्व हन्यस्व कुमारीम्॥)
कनिष्ठा मुग्धा यथा—
गामे गइवइ णं भण साहसु तं अज्ज केण सुणइट्ठो।
फग्गुच्छणचिक्किल्ले तिए हसि (अ जदणुठ्ठिअं तुमए)॥ ३७२॥
कनिष्ठा धीरा मुग्धा यथा—(गास. ४.१३)
पुट्ठिं पुससु किसोअरि! पडोघअंकोल्ल—पत्तचित्तलिअं।
छेआहि दिअरजाआहिं उज्जुए! मा कलिज्जिहिसि॥ ३७३॥
{पृष्ठं प्रोञ्छ कृशोदरि! पश्चादृहाङ्कोटपत्रचित्रितम्।
(छेकाभिर्देवरजायाभी ऋजुके! मा ज्ञास्यसे/कलिष्यसे॥}
कनिष्ठा अधीरा मुग्धा यथा— (गास. ५.३८)
जो वि ण पुच्छइ तस्स वि कहेइ भग्गाइँ तेण वलआइँ।
अइउज्जुआ वराई अहव पिओ सो हआसाए॥ ३७४॥
(योऽपि न पृच्छति तस्यापि कथयति भग्नानि तेन वलयानि।
अतिऋजुका वराकी अथवा प्रियस्तस्या हताशायाः॥)
कनिष्ठा ऊढा मुग्धा यथा—
वेवाहिऊण वहुआ सासुरअं दोलिआए णिज्जंती।
रोअइ, दिअरो तं संठवेइ वअणम्मिं चुंबतो॥ ३७५॥
(विवाह्य वधूः श्वाशुरकं दोलिकया नीयमाना।
रोदिति, देवरस्तां संस्थापयति वदने चुम्बन्॥)
कनिष्ठा अनूढा मुग्धा यथा—
अज्ज मए माउच्छा! सोज्झअ/ सइज्भगेहे मणोरहब्भरिअं।
गहवइउत्तकडिल्लं, दिट्ठं णिअरूवलावणिअं॥ ३७६॥
(अद्य मया मातृष्वसः! (सखि) रजक/प्रतिवेशिकगेहे मनोहरं भ्रमितम्।
गृहपतिपुत्रकटीवस्त्रे दृष्टं निजरूपलावण्यम्॥}
कनिष्ठा धीरोढा मुग्धा यथा—
आरेसमुहं भरिओ च्चिरिड्डिहिल्लेणोतिडिंकाउं।
जइ तपडिहलअत्तेता छेत्ते जामि दिअरस्स॥ ३७७॥
कनिष्ठा धीराऽनूढा मुग्धा यथा—(गास. ७४१)
जइ वि खु दिल्लिंदिलिआ तह वे खु मा पुत्ति! णग्गिआ भमसु।
गहवइसुआण मज्झे सिलंपि ते पज्झरावेति॥
{यद्यपि खलु बाला तथाऽपि खलु मा पुत्रि! नग्निका भ्रम।
गृहपतिसुतानां मध्ये शीलमपि ते १पत्रशोषायते ?॥}
कनिष्ठा अधीरोढा मुग्धा यथा—
दिअरो परिणिहइ फुडं सुण्हा सुणिउं खु डुक्खिआ जाआ।
सेसिअघरवावारा ओरुण्णमुही परिब्भमइ॥ ३७९॥
(देवरः परिणेष्यति स्फुटं स्नुषा श्रुत्वा सुदुःखिता जाता।
शोषितगृहव्यापारा अवरुदितमुखी परिभ्रमति॥)
कनिष्ठा अधीरानूढा मुग्धा यथा—
भज्जंति जाइ मउआइ संकिओ भरइ ताइ वलआइं।
गहवइधूआ—सिक्कार—कलरवा—अणण—सइण्हो ॥ ३८०॥
{भज्यन्ते यानि मृदुकानि शङ्कितो भरति तानि वलयानि।
गृहपतिदुहितृ—सीत्कारकलरवकर्णनसतृष्णः ॥}
कनिष्ठा मध्या यथा—(गास. ७१४वे.)
जं असरणो व्व डड्ढो गामो साहीणबहुजुआणो वि।
संभविसंठुलाणं तं दुच्चरिअं तुह थणाणं॥ ३८९॥
(यदि अशरण इव दग्धो ग्रामः स्वाधीनबहुयुवाऽपि।
संभ्रमविसंस्थुलयोर्दृष्ट्वा चरितं तव स्तनयोः॥)
१. पत्रशोषः पतझड—पद—वेद्यो शिशिरवसन्त—सन्धिकालः। कनिष्ठा धीरा मध्या यथा—
थणवरजोव्वण्णुम्महणा गव्विरी/उम्मइअ भमइ तुज्झ रे! जाआ।
तेण तुमं कामिज्जसि रोसेणं ण मह असरेओ/णुराअओ॥ ३८२॥
{स्तनभरयौवनोन्मत्त—गर्विणी भ्रमति तव रे! जाया।
तेन त्वं कामयसे रोषेण न ममावसरः/ममानुरागतः॥}
कनिष्ठा अधीरा यथा—(गास. ४.७९)
रुढ्ढतीअ/भंडंतीए तणाइं सोउं दिण्णाइं जाइं पहिअस्स।
ताइं च्चेअ पहाए अज्जा आआड्ढइ कुअंती/रुअंती॥ ३८३॥
(रुष्यन्त्या तृणानि स्वपितुं दत्तानि यानि पथिकस्य।
तान्येव प्रभाते आर्या आकर्षति कुप्यन्ती/रुदती॥)
कनिष्ठा ऊढा मध्या यथा—(गास. ३.५७)
वइ—विवर—णिग्गअ—हलो एरंडो साहइ व्व तरुणाणं।
एत्थ घरे हलिअवहू एद्दहमेत्तत्थणी वसइ॥ ३८४॥
(वृतिविवरनिर्गतफल एरण्डः साधयतीव तरुणेभ्यः।
अत्र गृहे हलिकवधूः एतावन्मात्रस्तनी वसति॥)
कनिष्ठा अनूढा मध्या यथा—(गास. ६.४५)
गामकुमरीओ वि हिअअं हरंति/रई वेढालण/थणहराभोआ।
सा मे/सअणे कुसुंभराइल्लकंचुआहरणमेत्ता वि॥ ३८५॥
(ग्रामकुमार्यो हृदयं हरन्ति विदग्धानां स्तनभराभोगाः।
सा मे/शयने कुसुम्भरञ्जितकञ्चुकाभरणमात्रा अपि॥)
कनिष्ठा धीरोढा मध्या यथा—(गास. ६.४९)
वोढं/पोढसुणओ विव/अण्णो अण्णं/त्ता मत्ता पहेणअसुराए।
फलिहं अ मोडिअं महिसएण, को साहउ तस्स?/ को तस्स साहेउ॥ ३८६॥
{वृद्धशुनको विपन्नः अन्यो मत्तः पथि नवसुरया प्रहेण (उत्सव) सुरया।
कर्यासक्षेत्रं च मोटितं महिषकेण, कः साधयतु/कथयतु तस्य?॥}
कनिष्ठा धीराऽनूढा मध्या यथा—
सामाइ सामलीए॰ (पृ.५६७)
कनिष्ठा अधीरोढा मध्या यथा—(गास. ५.६१)
उअ संभमविक्खित्तं रमिअव्व—अलेहलाएॅ सुण्हाए।
णवरंगअं कुडुंगे, दिण्णं धअं व अविणअस्स॥ ३८७॥
(पश्र्य संभ्रमविक्षिप्तं रन्तव्यकलम्पटया स्नुषया।
नवरङ्गकं कुञ्जे दत्तं ध्वजमिवाविनयस्य॥)
कनिष्ठा अधीराऽनूढा मध्या यथा—
णव/रं वरो वि पइभाइ वोढकुमरीएँ विअसिअविला/सो।
गामजुआणं(दट्ठुं) णइअडकुडुंगभमरं भमति/भमंतीए॥ ३८८॥
(केवलं वरोऽपि, प्रतिभाति, प्रौढकुमार्या विकसितविलासम्।
ग्रामयूनां द्रष्टुं/वा नदीतटनिकुञ्जभ्रमरं, भ्रमति/भ्रमन्त्याः॥)
कनिष्ठा प्रगल्भा यथा—(गास. ४.३५)
बहलतमा हअराई॰॥ ३८९॥
(पृ.३६७) कनिष्ठा धीरा प्रगल्भा यथा—(गास. ८७७)
महुएहि किं व पंथिअ॰॥ ३९०॥
(पृ. ३६७) कनिष्ठा अधीरा प्रगल्भा यथा—(गास. ४.४८)
अंगाणं तणुआरअ! सिक्खावअ! दीहरोविअव्वाणं।
विणआइक्कमकारअ! मा मा णं पम्हसिज्जासु॥ ३९१॥
(अङ्गानां तनुकारक! शिक्षापक! दीर्घरोदितव्यानाम्।
विनयातिक्रमकारक! मा मा एनां प्रस्मरिष्यसि/विसमरेः॥)
कनिष्ठा ऊढा प्रगल्भा यथा—(गास. २.७)
गोलाअडट्ठिअं पोच्छिऊण गहवइसुअं हलिअसुण्हा।
आढत्ता उत्तरिउं, दुक्खुत्ताराएँ पअवीए॥ ३९२॥
(गोदावरीतटस्थितं प्रेक्ष्य गृहपतिसुतं हलिकस्नुषा।
आरब्धा उत्तरितुं दुःखोत्तारया पदव्या॥)
कनिष्ठानूढा प्रगल्भा यथा—
मम्मसुअक/फल्लिआजहणथणभरुप्पहणविब्भला कुमरी।
बहुसो हलासमम्मंणमम X X X X हइ॥ ३९३॥
{मर्मसुतस्फटिकाजघनस्तनभरोत्प्रघणविह्वला कुमारी।
बहुशो X X X X X X X ति॥}
कनिष्ठा धीरोढा प्रगल्भा यथा—
अव्वो मारिज्जामो इमिणा पापा/वासुअस्स पुत्तेण।
जं जं जे/पेच्छइ पहिअं तं तं पव्वो/बप्पो त्ति वाहरइ॥ ३९४॥
(अहो! मारिष्यामोऽनेन पापासुतस्य पुत्रेण।
यं यं प्रेक्षते पथिकं तं तं पितरिति व्याहरति॥)
कनिष्ठा धीराऽनूढा प्रगल्भा यथा—
अइ सहि! वकुल्लाविरि छुहिहिसि गोत्तस्स मत्थए छारं।
अत्थच्चंत्त/दंतदिठ्ठेण मारिवडिए सामिवलिएण/हसिएण॥ ३९५॥
(अयि सखि! वक्रोल्लापनशीले लेपिस्यसि गोत्रस्य मस्तके क्षारम्।
अत्यन्तदन्तदृष्टेन सामिवलितेन विहसितेन॥)
कनिष्ठा अधीरोढा प्रगल्भा यथा—
करसेअकद्दमाअ दुलिआपहुत्तथंससुहो।
सेअं सुएहिं कुलवहू एण्हसिअंसुओ थणसो॥ ३९६॥
कनिष्ठा अधीराऽनूढा प्रगल्भा यथा—
णवलअहत्थो/त्थे गामिणिसुअम्मि कुमरीएँ गामरच्छासु।
पुणरुत्तमसिख/त्तंभमिरिए चुल्लुचुलाअंति अंगाइ॥ ३९७॥
{नवलताहस्तो(स्ते) ग्रामणीसुते कुमार्या ग्रामरथ्यासु।
पुनरुक्तमशिक्ष भ्रमणशीलाया चुल्लुचुलायन्ति अङ्गानि॥}
धीरा यथा—गास. १.८४)
सो तुह कएण सुंदरि! तह झिण्णो सुमहिलो हलिअउत्तो।
जह से मच्छिरिणीएँ वि दोच्चं जाआए पडिवण्णं॥ ३९८॥
(स तव कृते सुन्दरि! तथा क्षीणः सुमहिलो हलिकपुत्रः।
यथा तस्य मत्सरिण्याऽपि दूत्यं जायया प्रतिपन्नम्॥)
धीरोढा यथा—(गास. ५.४५)
अकअण्णुअ! तुज्झ कए वा/पाउसराईसु जं मए खुण्णं।
उप्पेक्खिमो अलज्जिर! अज्ज वि तं गामचिक्खल्लं॥ ३९९॥
(अकृतज्ञ! तव कृते प्रावृड्रात्रिषु यो मया क्षुण्णः।
उत्पश्याम्य/उत्प्रेक्षामहे अलज्जाशील! अद्यापि तं ग्रामपङ्कम्॥)
धीराऽनूढा यथा—(गास. ७.४८)
तत्तो च्चिअ होंति कहा विअसंति तहिं तहिं समप्पंति।
किं मण्णे माउच्छा! एक्कजुवाणो इमो गामो ?॥ ४००॥
(तत एव भवन्ति कथा विकसन्ति तत्र तत्र समाप्यन्ते।
किं मन्ये मातृष्वसः! एकयुवकोऽयं ग्रामः ?॥)
अधीरा यथा—(गास. ५.४०)
सेउल्लिअसव्वंगी गोत्तग्गहणेण तस्स सुहअस्स।
दूइं अप्पाहंती/पत्थाएंती तस्सै अ घरंगणं पत्ता॥ ४०१॥
(स्वेदार्द्रीकृतसर्वाङ्गी गोत्रग्रहणेन तस्य सुभगस्य।
दूतीं सन्दिशन्ती/प्रस्थापयन्ती तस्यैव गृहाङ्गणं प्राप्ता॥)
अधीरोढा यथा—(गास. ३.२३)
तइ वोलंते वालअ! वहुएँ वलिआइ तह णु णअणाइ।
जह पुठ्ठ/पट्ठमज्झनिवडंतवाहधाराओं दीसंति॥ ४०२॥
(त्वयि व्यतिक्रामति बालक! वध्वा वलिते तथा नु नयने।
यथा पृष्ठमध्यनिपतद्बाष्पधारा दृश्यन्ते॥)
अधीराऽनूढा यथा—(गास. ७.९६)
एण्हिं वारेइ जणो, तइआ मूअल्ल/मअल्लिओ? ज(क)हिं/जहिं वि गओ ?।
जाहे विसं व जाअं/विसमं सव्वंगपहोलिरं पेम्मं॥ ४०३॥
(इदानीं वारयति जनस्तदा मूकीकृताः? कुत्रापि (वा) गतः ?।
यदा विषमिव जातं सर्वाङ्गघूर्णनशीलं प्रेम॥)
.
ऊढा यथा—(गास. ५.५७)
करिमआणंदवटं भामिज्जंतं वहूएँ बधूहिं।
पेच्छइ कुमारिजारो हासुम्मिस्सेहि अच्छीहिं॥ ४०४॥
(कृत्रिममानन्दपटं भ्राम्यमाणं वध्वा वन्धुभिः।
प्रेक्षते कुमारीजारो हासोन्मिश्राभ्यामक्षिभ्याम्॥)
अनूढा यथा—
जइ/ह खेल्लसि पाप्पुल्लां/उप्फुल्लं मोट्टीणेहि/अम्मोधीरेण पत्तीहि ससिमुहि ! हसंती।
धण्णं कं पि रमीहिसि दोलाअंतेण जहणेण॥ ४०५॥
(यदि खेलसि उत्फुल्लिकामहो धैर्येण प्रतीहि शशिमुखि! हसन्ती।
धन्यं कमपि रमिष्यसि दोलायमानेन जघनेन॥)
धीरा मुग्धा यथा—
अंदोलणलंघिअ—तट्ठिआएं/वइसिहाएं दिट्ठे तुमम्मि मुद्धाए।
आसंखि/घिज्जइ काउं करपेल्लणणिच्चला दोला॥ ४०६॥
{आन्दोलनलङ्घितोत्थितया/वर्तिशिखया दृष्टे त्वयि मुग्धया।
आशास्यते कर्तुं करप्रेरणनिश्चला दोला॥}
धीरोढा मुग्धा यथा—(गासा. ४.१३)
पुट्ठं पुससु किसोअरि॰॥ ४०७॥
(द्र. १५.३७३) धीराऽनूढा मुग्धा यथा—(गास. २.८९)
तुज्झंगराअसेसेण सामली तह खरेण सोमाला।
सा इर गोलातूहे/ऊले णहाणू/ण्हाआ जंबुकसाएण॥ ४०८॥
(तवाङ्गरागशेषेण श्यामला तथा खरेण सुकुमारा।
सा किल गोदातटे स्नाता जम्बूकषायेण॥)
अधीरा मुग्धा यथा—(प्रकाश. ३४.१३१)
सुण्हाए/अ हिअअगुणिअं दीसइ/दावई दिअरस्सं छणपईवेण।
सज्झस—पअंपिअ—त्थण—णीसासंदोलिअ—सिहेण ॥ ४०९॥
(स्नुषाया हृदयगुणितं दृश्यते देवरस्य क्षणप्रदीपेन।
साध्वसप्रकम्पितस्तननिः श्वासान्दोलितशिखेन ॥)
अधीरोढा मुग्धा यथा—
तं किं/कं पि कअं उग्गिणपहरभअवेविरीए वहआए।
पडिआ वि जेण णाआ हत्थाहि लआण दिअरेण॥ ४१०॥
(तत् किमपि कृतमुद्गीर्णप्रहरभयवेपनशीलया वध्वा।
पतिताऽपि येन ज्ञाता हस्ताल्लता न देवरेण॥)
अधीराऽनूढा मुग्धा यथा—(गास. ५.८२)
उज्जग्गरअ—कसाइअ—गुरुअच्छी मोहमंडणविलक्खा।
लज्जइ लज्जाउइणी सा सुहअ! सहीण वि वराई॥ ४११॥
(उज्जागरककषायितगुर्वक्षी मोघमण्डनविलक्षा।
लज्जते लज्जालुतया सा सुभग! सखीभ्योऽपि वराकी॥)
ऊढा मुग्धा यथा—
जह णअणा सविआरा थणाण जह उग्गमो सुवेसो त्ति।
जइ लहइ जोव्वणसिरिं ता मुद्धा काहिइ अणत्थं॥ ४१२॥
(यथा ऩयने सविकारे स्तनयोर्यथा उद्गमः सुवेश इति।
यदि लभते यौवनश्रियं तर्हि मुग्धा करिष्यत्यनर्थम्॥)
अनूढा मुग्धा यथा—(गास. ४.७८)
जं जं करेसि जं जं च जंपसि/से जह तुमं णिअंसेसि/अच्छेसि।
तं तमणुसिक्खिरीए दीहो दिअहो ण संपल/डइ॥ ४१३॥
(यद् यत् करोषि यद् यच्च जल्पसि यथा त्वं निवस/निरीक्षसे।
तत्तदनुशिक्षणशीलया दीर्घो दिवसो न संपद्यते॥)
धीरा मध्या यथा—(गास. १.२१)
असमत्तमंडण विअ/च्चि वच्च घरं से सकोउहल्लस्स।
वोलाविअ—हलहलअस्स पुत्ति! चित्ते ण लग्गिहिसि॥ ४१४॥
(असमाप्तमण्डनैव व्रज गृहं तस्य सकौतूहलस्य।
व्यतिक्रान्तौत्सुंक्यस्य पुत्रि ! चित्ते न लगिष्यसि॥)
धीरोढा मध्या यथा—(गास. ४.९५)
अज्जाए णीलकंचुअभरिउव्वरिअं विहाइ थणवट्ठं।
जलभरिअजलहरंतदरुग्गअं चंदबिंबं व्व॥ ४१५॥
(आर्याया नीलकञ्चुकभृतोर्वरितं विभाति स्तनपृष्ठम्।
जलभृतजलधरान्तरदरोद्गतं चन्द्रबिम्बमिव॥)
धीराऽनूढा मध्या यथा—
फंगुच्छणदोहलिणा/आ भममाणा पुत्ति ! गामरच्छासु।
गूढक्खरदिण्णपहेलिअप्प/आ अ केणावि भंजिहिसि॥ ४१६॥
(फाल्गुनोत्सवदोहदिनी भ्रममाणा पु्त्रि ! ग्रामरथ्यासु।
गूढाक्षरदत्तप्रहेलिकात्मा/का च केनापि भङ्क्ष्यसे॥)
अधीरा मध्या यथा—(गास. ४.५१)
जाओ सो वि विलख्खो मए वि हसिऊण गाढमुवऊढो।
पडमोसरिअस्स णिअंसणस्स गंठिं विमग्गंतो॥ ४१७॥
(जातः सोऽपि विलक्षो मयाऽपि हसित्वा गाढमुपगूढः।
प्रथमापसृतस्य निवसनस्य ग्रन्थिं विमार्गयमाणः॥)
अधीरोढा मध्या यथा—(गास. १.२८)
णवलअपहरं अंगे जहिं जहिं महइ देवरो दाउं।
रोमंचदंढ/डराई तहिं तहिं दीसइ वहूए॥ ४१८॥
(नवलताप्रहारमंगे यत्र यत्रेच्छति देवरो दातुम्।
रोमाञ्चदण्डराजिस्तत्र तत्र दृश्यते वध्वाः॥)
अधीराऽनूढा मध्या यथा—(गास. २.१)
धरिओ धरिओ विअलइ उवएसो पिअसहीहिं दिज्जंतो।
मअरद्धअबाणपहारजज्जरे तीएँ हिअअम्मि॥ ४१९॥
(धृतो धृतो विगलत्युपदेशः प्रियसखीभिर्दीयमानः।
मकरध्वजबाणप्रहारजर्झरे तस्या हृदये॥)
ऊढा मध्यमा यथा—
तरुणेहि कअं/ ओं तोसं हसिअं(उण)धे/थेरेहि कुणम ईहिं/कअमईहि।
परिणअ—वआवचूडं बोढं कुमरिं णिए ऊण॥ ४२०॥
अनूढा मध्या यथा—
ता कुणह कालहरणं तुवरंतम्मि वि वरे विवाहस्स।
जा पंडुणहवआइं होंति कुमारीएॅ अंगाइं॥ ४२१॥
(तावत् कुरुत कालहरणं त्वरमाणोऽपि वरे विवाहस्य।
यावत् पाण्डुनखपदानि भवन्ति कुमार्या अङ्गानि॥)
धीरा प्रगल्भा यथा—(गास. ४.५७वे.)
सब्भावं पुच्छंती बालअ ! रोआविआ तुह पिआए।
णत्थि व्विअ कअसवहं हासुंमिस्सं भणंतीए॥ ४२२॥
(सद्भावं पृच्छन्ती बालक! रोदिता तव प्रियया।
नास्त्येव कृतशपथं हासोन्मिश्रं भणन्त्या॥)
धीरोढा प्रगल्भा यथा—(गास. ७.८)
जइ जूरउ णाम मामि! परलोअ—वसणिओ लोओ।
तह वि बला गामणिउत्तवअणकमले/णंदणस्स वलइ दिठ्ठी॥ ४२३॥
(यदि खिद्यते खिद्यतां नाम मातुलानि! परलोकव्यसनिको लोकः।
तथाऽपि बलाद् ग्रामणीपुत्रवदनकमले/नन्दनस्य वलते दृष्टिः॥)
धीराऽनूढा प्रगल्भा यथा—(गास. ८५७वे.)
कह णु गआ? कह दिट्ठो? किं भणिअं? किं व तेण पडिवण्णं?।
एअं च्चिअ ण समप्पइ पुणरुत्तं जंपमाणीए॥ ४२४॥
(कथं नु गता? कथं दृष्टः? किं भणितं? किं वा तेन प्रतिपन्नम्?।
एवमेव न समाप्यते पुनरुक्तं जल्पमानायाः॥)
ऊढा प्रगल्भा यथा—(गास. ३. ३७)
पइपुरओ व्विअ णिज्जइ विच्चुअदठ्ठ त्ति जारवेज्जघ/हरं।
सहिजण/णिउणसहीकरधरिआ भुअजुअलंदोलिणी बाला/अज्जा॥ ४२५॥
(पतिपुरत एव नीयते वृश्चिकदष्टेति जारवैद्यगृहम्।
सखीजनकरधृतभुजलतान्दोलनशीला बाला/आर्या॥)
अनूढा प्रगल्भा यथा—
जह सविलासं हासं, गरअंपा (जह साऊआ) अणुज्जुआ दिठ्ठी।
एसा वि जइ कुमारी ता अजुआणो इमो गामो॥ ४२६॥
{यथा सविलासो हासः यथा साकूता अनृजुका दृष्टिः।
एषाऽपि यदि कुमारी तर्हि अयुवाकोऽयं ग्रामः॥}
मुग्धा यथा—(गास. ७. ९७)
कह तं पि तुए, ण णाअं, जह सा आसंदिआणं बहुआणं।
काऊण अप्पुत्ति/पुंतिसिडिंउच्चवचिअं तुह दंसणलेहडा/ला पडिआ॥ ४२७॥
(कथं तदपि त्वया न ज्ञातं यथा सा आसन्दिकानां बहूनां/वधूनाम्।
कृत्वा आपूर्त्तिश्रेणीं/उच्चावाचिकां तव दर्शनलालसा पतिता॥}
मध्या यथा—(गास. ३. २१)
ता किं करेउ जइ तुं/तं सि तीए वइवेढपेल्लिअ—थणीए।
पाअंगुट्ठद्धखित्त/क्खिणीसहंगीएँ वि ण दिठ्ठो॥ ४२८॥
(तत् किं करोतु यदि त्वमसि तया वृतिवेष्टननिवेशितस्तनया।
पादाङ्गुष्ठार्धक्षिप्तनिस्सहाङ्गयाऽपि न दृष्टः॥)
प्रगल्भा यथा—(गास. २. ९३)
गोलाविसमोआरच्छलेण अप्पा उरम्मि से खित्तो/मुक्को।
अणुअंपाणिद्दोसं तेण वि सा आढमुवऊढा॥ ४२९॥
(गोदावरीविषमावतारच्छलेनात्मा उरसि तस्य क्षिप्तः।
अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा॥)
एवं पुनर्भूसामान्ययोः यथासंभवमुत्तमादिभेदोऽभ्यूहनीयः।
(अष्टौ नायिकाभेदाः)
आसु वासकसज्जा अभिसारिका, विप्रलब्धा, खण्डिता, कलहान्तरिता, प्रोषितपतिका, विरहोत्कण्ठिता, स्वाधीनभर्तृका चेति यथासंभवमभ्यूहनीयाः। तत्र—
१. वासकसज्जा यथा—(अमरुः?)
सखि! स विजितो वीणाद्यूते कयाऽप्यपरस्त्रिया पणितमभवत् ताभ्यां तस्मिन् निशाललितं ध्रुवम्।
कथमितरथा शोफालीषु स्खलत्कुसुमास्वपि स्थितवति नभोमध्येऽपीन्दौ प्रियेण विलब्यते?॥ ४३०॥
२. अभिसारिका यथा—(गास. ७.७)
गम्मिहिसि तस्स पासं मा तुरसु सुअणु वड्ढेउ मिअंको।
दुद्धे दुद्धं विअ चंदिमाएँ को पेच्छइ मुहं दे?॥ ४३१॥
(गमिष्यसि तस्य पार्श्वं मा त्वरस्व तरुणि! वर्धतां मृगाङ्कः।
दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते?॥)
३. विप्रलब्धा यथा—(गास. ४. १८)
अह सा तहिं तहिं च्चिअ वाणीरवणम्मि चुक्कसंकेआ।
तुह दंसणं विमग्गइ, पब्भट्ठणिहाणठाणं व॥ ४३२॥
{अथ सा तत्रतत्रैव वानीरवने विस्मृतच्युतसंकेता।
तव दर्शनं विमार्गति प्रभ्रष्टनिधानस्थानमिव॥}
४. खण्डिता यथा—(गास. ७. ५३)
पच्चूसागअ नवराअरत्त कअलोअणाणंद।
अण्णत्थ खविअसव्वरि णहभूसण दिणवइ णमो दे॥ ४३३॥
(प्रत्यूषागत! नवरागरक्त! कृतलोचनानन्द!।
अन्यत्र क्षपितशर्वरीक नभो/नखभूषण दिनपते नमस्ते॥)
५. कलहान्तरिता यथा—
मया तावद् गोत्रस्खलनहतकोपान्तरितया निरूढो निर्गच्छन् बहिरहतरोषः प्रियतमः।
अयं त्वाकूतज्ञः सकलसमयाचारनिपुणः सखीलोकोऽप्यसील्लिखित इव चित्रेऽद्य, किमिदम्?॥ ४३४॥
६. प्रोषितपतिका यथा—
भिअमेल/गिम्हं गमेइ कहकहवि कहउ/विकरहसिहि—ताविआ वि पहिअवहू।
अविरअपडि/डंत्तणिव्भरबाहजलोल्लोवरिल्लेण ॥ ४३५॥
(भीमिलिते! ग्रीष्मं गमयति कथं कथमपि कथं/विरहशिखितापितापि पथिकवधूः।
अविरतप्रदीप्तनि/अविरलपतन्निर्भरबाष्पजलोल्लापशीलेन ॥)
७. विरहोत्कण्ठिता यथा—
अस्मिन् वर्षमहे न वर्तत इदं यत् कामदेवोत्सवे स्थेयं पुत्रि! निरस्तया/निरन्नया, तदधुना किञ्चिन्मुखे दीयताम्।
इत्युक्ते जरतीजनेन सुतरामाविष्कृत्कण्ठया तन्वङ्गया परिकल्पितं कवलनं धौतञ्च धाराश्रुभिः॥ ४३६॥
८. स्वाधीनभर्तृका यथा—(गास. ३. ६१)
घरिणि—घणत्थण—पेल्लणसुहेल्लिपडिअस्स होंतपहिअस्स।
अवसउणंगारअवारविट्ठिदिअहा सुहाअं/वेंति॥ ४३७॥
(गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशकुनाङ्गारकवारविष्टिदिवसाः१ सुखापयन्ति॥)
१. अङ्गारको मङ्गलः। वारो दिवसः। मङ्गलवार इत्यर्थः। कप्रत्ययोऽप्राशस्त्याय। तथा च माघो ‘भौमदिवसमभिमन्वतेऽथवा भृशमप्रशस्तमपि मङ्गलं जनाः’।
स्वकीयसामान्यपुनर्भुवां च भिदां प्रपञ्चः स इवावबद्धः।
परस्परं प्रोषितभर्तृकादिभेदैर्विभिन्नोऽत्र निबन्धनीयः॥ ४३८॥
इति प्रपञ्चः कथितोऽङ्गनानां क्रमात् स्वकीयादिविभेदभिन्नः।
चतुष्प्रकारं तममुं निबन्धन् कविश्चतुर्वर्गफलं लभेत॥ ४३९॥
तदेतत् सर्वस्वं भुवनजयिनः पुष्पधनुषो मनुष्याणामेकं तदिदमसमं जीवितफलम् ।
इदं तत् सौख्यानां कुलभवनमाद्यं त्रिभुवने यदेतत् तारुण्योपहितमहिमानो मृगदृशः॥ ४४०॥
इति महाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे रत्यालम्बनविभावप्रकाशनो नाम । पञ्चदशः प्रकाशः॥ १५॥
प्राकृतबहलः सोऽयं प्रकाश आस्ते मनीषिणां निकषः। प्राकृतमपि खलु विविधस्वरूपमत्यन्तचिररूढम्॥