१४ हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

अथ

श्रृङ्गारप्रकाशे चतुर्दशः प्रकाशः

हर्षादिभावप्रपञ्चपञ्चकप्रकाशः

(३. हर्षः)*

मनोरथावाप्‍तौ मनः प्रसादो हर्षः। स जन्मनि यथा—(मवीच १.१३)

रक्षोघ्‍नानि च मङ्गलानि सुदिने कल्प्यानि दारक्रिया वैदेह्याश्च रघूद्‌वहस्य च कुले दीक्षाप्रवेशश्च नः।
आस्थाप्यानि च तानि तानि जगतां क्षेमाय रामात्मनो दैत्यारेश्चरिताद्भुतान्यथ खलु व्यग्राः प्रमोदामहे॥ १॥

अनुबन्धे यथा—(रघु. ३.१६)

जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसम्मिताक्षरम्।
अदेयमासीद् द्वयमेव भूपतेः शशिप्रभं छत्त्रमुभे च चामरे॥ २॥

प्रकर्षे यथा—(उराच. ५.२४)

जातस्य ते पितुरपीन्द्रजितो निहन्तु— र्वत्सस्य वत्स! कति नाम दिनान्यमूनि।
तस्याप्यपत्यमनुतिष्ठति वीरधर्मं दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम्॥ ३॥

संपृक्ते यथा—(विक्रमो. ५.१६)

आश्वासितस्य मम नाम सुतोपलब्ध्या सद्यस्त्वया सह कृशोदरि! विप्रयोगः।
व्यावर्तितातपरुजः प्रथमाब्भ्रवृष्ट्या वृक्षस्य वैद्युत इवाग्‍निरुपस्थितोऽयम्॥ ४॥

अनुवृत्तौ यथा—(रत्‍ना. ४.१३)

विवृद्धिं कम्पस्य प्रथयतितरां साध्वसवशा— दविस्पष्टां दृष्टिं तिरयति मुहुर्बाष्पसलिलैः।
*६१४ पृष्ठगतमुद्‌देशक्रममनुसृत्य भावा अत्र नोपस्थाप्यन्ते मुद्रितेषु संस्करणेषु व्युत्क्रमेणोपस्थापितत्वात्। स्खलद्वर्णां वाणीं जडयतितरां गद्गदितया
जरायाः साहाय्यं मम हि परितोषोऽद्य कुरुते॥ ५॥

(४. रोमाञ्चः)

आत्मनो विक्षोभजन्मा अन्तश्शरीरोच्छ्‌वासो रोमाञ्चः। तस्य जन्मनि यथा—(शाकु. ३.१२)

उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन॥ ६॥

अनुबन्धे यथा—(रघु. ६.८१)

सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्‍तुम्।
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रमदरालकेश्‍याः॥ ७॥

प्रकर्षे यथा—(कुसं. ३.६८)

विवृण्वती शैलसुताऽपि भावमङ्गैः क्‍वचित्/स्फुरद्‌बालकदम्बकल्पैः।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन॥

सम्पर्के यथा—(उराच. ३.४२)

सस्वेदरोमाञ्चितकम्पिता सा जाता प्रियस्पर्शसुखेन वत्सा।
मरुन्नवाम्भःप्रविधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव॥ ९॥

अनुबन्धे यथा—(जाह. १०.८६)

एकस्मिन् शयने मया मयसुतामालिङ्गय निद्रालसा— मुन्निद्रं शयितेन मच्चरणयोः संवाहनव्यापृता।
पादाग्रेण तिलोत्तमा स्तनतटे सस्‍नेहमापीडिता हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुञ्चति॥ ९०॥

(५. धृतिः)

अभीष्टप्राप्‍तेरधिकाऽस्पृहा धृतिः।

तज्जन्मनि यथा—(किराता. ६.१८)

अनुसानु पुष्यितलताविततिः फलितोरुभूरुहविविक्तवनः।
धृतिमाततान तनयस्य हरेस्तपसेऽधिवस्तुमचलामचलः॥ ११॥

अनुबन्धे यथा—

विषयपतिरलब्धो धेनुभिर्धातुपूतं कतिचिदभिमतायां सीम्‍नि सीरा वहन्ति।
शिथिलयति न भार्यां चातिथेयीं सपर्या— मिति सुकृतमनेन व्यञ्जितं नः फलेन॥ १२॥ (?)

प्रकर्षे यथा—(रत्‍ना‍. ४. १९)

यातो विक्रमबाहुरात्मसमतां प्राप्‍तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्‍त्येकहेतुः प्रिया।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम्॥ १३॥

संपर्के यथा—(मामा. २.३)

निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिश्शशिन इव नेत्रोत्सवकरी।
अवस्थामापन्ना मदनदहनोद्दाहविधुरा— मियं नः कल्याणी रमयति मनो मोहयति च॥ १४॥

अनुगमे यथा—

अभ्युष्णात् सघृतादन्नादच्छिद्राद् वाससः सितात्।
अपरप्रेष्यभावाच्च भूरि वाञ्छन् विनश्‍यति॥ १५॥

(६. हासः)

हर्षादिभिर्मनोविकासविशेषो हासः।

तज्जन्म यथा—

एतत् किं शिरसि स्थितं मम पितुः? खण्डः सुधादीधितेः ललाटं किमिदं? विलोचनमिदं; हस्तेऽस्य किं? पन्नगः।
इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः प्रश्‍ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः॥ १६॥

अनुबन्धे यथा—

मातर्जीव! किमेतदञ्जलिगतं तातेन गोपाय्यते? वत्स! स्वादु फलं; प्रयच्छति न मे; गत्वा गृहाण स्वयम्।
गौर्येत्थं गदिते गुहे विघटयत्याकृष्य सन्ध्याञ्जलिं शम्भोर्भिन्नसमाधिरुद्धरभसो हासोद्‍गमः पातु वः॥ १७॥

प्रकर्षो यथा—

स एष भुवनत्रयप्रथितसंयमः शङ्करो बिभर्ति वपुषाऽधुना विरहकातरः कामिनीम्।
अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः॥ १८॥

संपर्को यथा—(खण्डयशास्तिः ३०)

वपुर्दलनसम्भ्रमात् स्वनखरं प्रन/विष्टे रिपौ क्‍व यात इति विस्मयात् प्रहितलोचनः सर्वतः।
वृथेति करधूतिभिर्निपतितं पुनर्दानवं निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः॥ १९॥

अनुगमो यथा—(रत्‍ना. १.२)

औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्निया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताऽऽभिमुख्यं पुनः।
पश्‍यन्ती परमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसताऽऽश्लिष्टा शिवायास्तु वः॥ २०॥

(७. गर्वः)

आत्मोत्कर्षसम्भावनया परावज्ञानं गर्वः।

तज्जन्म यथा—(उराच. २.३९)

यः प्रापत् प्रसभं पुराऽमृतहृतौ वह्निप्रभाभासुरैः पक्षालीकलिता परप्रहरणैर्धेर्योचितं मण्डनम्।
तेनास्मद्भ‌‍ुजपञ्जरेऽत्र विफलोत्फालान् मुहुः कुर्वता व्यालोलेन गरुत्मताऽपि सुचिरं क्रीडाशकुन्तायितम्॥ २१॥

अनुबन्धो यथा—(वेसं. ३.७)

अस्त्रज्वालावलीढप्रतिबलजलधेंरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन् मम पितरि गुरौ सर्वधन्वीश्वराणाम्।
कर्णालं सम्भ्रमेण, व्रज कृप! समरं, मुञ्च हार्दिक्य! शङ्कां ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ?॥ २२॥

प्रकर्षो यथा—(वेसं. ३.४६)

धृतायुधो यावदहं तावदन्यैः किमायुधैः।
यद्वा न सिद्धमस्त्रेण मम तत् केन सेत्स्यति॥ २३॥

संपर्को यथा—

चक्रं वा मधुहा कृतान्तगृहिणीदत्ताग्रपञ्चाङ्गुलं वज्रं भूधरपक्षशोणितसुरापानोन्मदं वा वृषा।
शूलं वाऽन्धकरक्तबिन्दुनिचितं गृह्‍णातु शूलायुधो धृष्टद्युम्‍नमहं निहन्मि समरे कश्चित् परित्रायताम्॥ २४॥

अनुगमो यथा—(उराच. २.३१)

मैनाकः किमयं रुणाद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः? स वज्रपतनाद् भीतो महेन्द्रदापि।
तार्क्ष्यः? सोऽपि समं निजने विभुना जानाति मां रावणम् आः; ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति॥ २५॥

(८. मदः)

मदिराद्युपयोगान्मनस्सम्मोहानन्दसंभेदो मदः।

तज्जन्म यथा—(कुसं. ८.७८)

पार्वती तदुपयोगसम्भवां विक्रियां गतवती मनोहराम्।
अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ॥ २६॥

अनुबन्धो यथा—(कुसं. ८.८०)

घूर्णमाननयनं स्खलत्पदं स्वेदबिन्दुम—दकारणस्मितम्।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ॥ २७॥

संपर्को यथा—(किराता. ९.७३)

शीधुपानविधुरेषु वधूनां निघ्‍नतामुपगतेषु वपुष्षु।
ईहितं रतिरसाहितभावं वीतलक्ष्यमपि कामिषु रेजे॥ २८॥

अनुगमो यथा—(किराता. ९.७७)

आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु।
व्यामृष्टपत्रलतिकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदस्य शेषाः॥ २१॥

(९. उत्साहः)

पुरुषार्थेष्वापरिसमाप्‍तेः प्रयत्‍नविशेष उत्साहः।

तज्जन्म यथा—(राच. १५.६७)

मूर्ध्‍ना जाम्‍बवतोऽभिवाद्य चरणावापृच्छ्‌य सेनापतीन् आश्वास्याश्रुमुखान् मुहुः प्रियसखान् प्रेष्यान् समादिश्य च।
आरम्भं जगृहे महेन्द्रसिखरादम्भोनिधेर्लङ्घने रंहस्वी रधुनाथपादरजसामुच्चैः स्मरन् मारुतिः॥ ३०॥

अनुबन्धो यथा—(रघु. ६.७६)

पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता।
चतुर्दिगावर्जितसम्भृतां यो मृत्पात्रशेषामकरेद् विभूतिम्॥ ३१॥

प्रकर्षो यथा—

दिड्यातङ्गघटाविभक्तचतुराघाटा मही साध्यते; सिद्धा सापि; वदन्त एव हि वयं रोमाञ्चिताः पश्यत।
विप्राय प्रतिपाद्यते; किमपरं; रामाय तस्मै नमो यस्मादाविरभूत् कथाद्ध‍ुतमिदं यत्रैव चास्तं गतम्॥ ३२॥

सम्पर्को यथा—(रघु. ५.२८)

अथाधिशिश्‍ये प्रयतः प्रदोषे रथं रघुः कल्पितमस्त्रगर्भम्।
सामन्तसम्भावनयैव धीरः कैलासनाथं तरसा जिगीषुः॥ ३३॥

अनुगमो यथा—(उराच. ६.१३)

शक्‍त्या वक्षसि मग्‍नया सह मया मूढे प्लवङ्गाधिपे विद्राणेषु च विद्रवत्सु कपिषु प्राप्‍तावकाशे द्विषि।
मा भैष्टेति निरुन्धतः कपिबलान् यस्योद्भटभ्रूस्थिते मर्मच्छेदविसंस्थुलाक्षरजडा वाचस्त्वया न श्रुताः॥ ३४॥

(१०. मतिः)

शास्त्रपरिभावनयाऽर्थनिर्धारणं मतिः। तस्या

जन्म यथा—(शाकु. ५.२)

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुको भवति यत् सुखितोऽपि जन्तुः।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थितानि/स्थिराणि जननान्तरसौहृदानि॥ ३५॥

अनुबन्धो यथा—(उराच. ६.१२, मामा. १.२७)

व्यतिषजति पदार्थानान्तरः कोऽपि हेतु— र्न खलु बहिरुपाधीन् प्रतीयः संश्रयन्ते।
विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥ ३६॥

प्रकर्षो यथा—(उराच. ३.४७)

एको रसः करुण एव निमित्तभेदाद् भिन्नः पृथक् पृथगिव श्रयते विवर्तान्।
आवर्तबुद्बुदतरङ्गमयान् विकारा— नम्भो यथा सलिलमेव हि तत् समग्रम्॥ ३७॥

सम्पर्को यथा— (मामा. ८.१४)

याता नु तद् भगवती भवनं सखी नो जीवन्त्युपैष्यति न वेत्यथ शङ्कितोऽस्मि।
प्रायेण बान्धवसुहृत्प्रियसङ्गमादि सौदामनीस्फुरणचञ्चलमेष सौख्यम्॥ ३८॥

अनुगमो यथा—

तदेतत् तर्काणामपथमपदं विश्ववचसा— मनाधारं बुद्धेर्नियतकरणग्रामसुहृदः।
यदालोके यूनां कनकफलकस्फारजघना घना लोका तन्वी किमपि कमनीयं जनयति॥ ३९॥

(११. वितर्कः)

अर्थेषु यथामति ऊहो वितर्कः। तस्य

जन्म यथा—(कुसं. १.४१)

शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः।
पराजितेनापि कृतौ हरस्य यौ कण्ठपाशो मकरध्वजेन॥ ४०॥

अनुबन्धो यथा—(शाकु. २.९)

चित्र निवेश्‍य परिकल्पितसत्त्वयोगा रूपोच्चयेन विधिना मनसा कृता नु।
स्त्रीरत्‍नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्या॥ ४१॥

प्रकर्षो यथा—(विक्रमो. १.१०)

अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः श्रृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः।
वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥ ४२॥

संपर्को यथा—(कुसं. ७.६७)

न नूनमारूढरुषा शरीरमनेन दग्धं कुसुमायुधस्य।
व्रीडादमुं देवमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः॥ ४३॥

अनुगमो यथा—(शाकु. १.१९)

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
संता हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः॥ ४४॥

(१२. विस्मयः)

अतिशयितपदार्थदर्शनाच्चित्तविस्तारो विस्मयः। तस्य

जन्म यथा—

इमौ रम्भास्तम्भावुपरि विपरीतौ कमलयो— स्तदूर्ध्वं रत्‍नाश्‍मस्थलमथ दुरूहं किमपि तत्।
ततः कुम्भौ पश्चाद् बिसकिसलये कन्दलमथो तदन्विन्दाविन्दीवरमधुकराः; किं पुनरिदम्?॥ ४५॥

अनुबन्धो यथा—(नीति. ६७)

इतो वसति केशवः कुलमितस्तदीयद्विषाम् इतश्च शरणार्थिनः शिखरिणां गणाः शेरते।
इतोऽपि बडबानलः सह समस्तसंवर्तकै— रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः॥ ४६॥

प्रकर्षो यथा—

कृष्णोनाद्य/म्ब! गतेन रन्तुमधुना मृद् भक्षिता स्वेच्छया सत्यं कृष्ण! क एवमाह? मुसली, मिथ्याऽम्ब! पश्‍याननम्।
व्यादेहीति विदारितेऽथ वदने दृष्ट्वा समग्रं जगद् माता यस्य जगाम विस्मयपदं पायात् स वः केशवः॥ ४७॥

संपर्को यथा—(उराच. ६.३१, मामा. ९. १२)

दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्॥ ४८॥

अनुगमो यथा—

वीचीव्याप्‍तवियन्निरुद्धवसुधं क्‍वागाधरन्ध्रं पयो गोलाङ्गूलसलीलपाणितुलिताः क्षुद्राः क्‍व ते क्ष्माभृतः।
बद्ध्वा दाशरथिस्तथापि जलधिं प्रत्याजहार प्रियां ग्रावाणोऽपि तरन्ति वारिणि यदा पुंसोऽनुकूलो विधिः॥ ४९॥

(१३. वैक्लब्यम्)

रौद्रादिदर्शनान्मनसो वैक्लब्यं भयम्।

तज्जन्म यथा—

मन्त्राम् मृत्युजितो जपद्भिरसकृद् ध्यायद्भिरिष्टान् सुरान् शुष्यत्तालुभिराकुलाकुलपदैर्निर्वाग्भिरुत्काम्पिभिः ।
अध्वन्यैरिह जीवितेशमहिषव्याध्रूम्रधूमाविला लङ्घयन्ते करिमांसघस्मररणत्कौलेयकाः पल्लयः॥ ५०॥

अनुबन्धो यथा—(मवीच. २.२०)

सत्त्वभ्रंशविषादिभिः कथमपि त्रस्तैः क्षणं वेत्रिभि— र्दृष्टो दृष्टिविघातजिह्मितमुखैरव्याहतप्रक्रमः।
रामान्वेषणतत्परः परिजनैरुन्मुक्तहाहारवः कन्यान्तःपुरमेव हा प्रविशति क्रुद्धो मुनिर्भार्गवः॥ ५१॥

प्रकर्षो यथा—

वराहः कल्याणं वितरतु स वो यस्य शशभृ— त्कलाकोटीकान्तं क्रमविगलदभ्युद्ध‍ृतिभया।
मिथस्संमूर्च्छद्भिश्चतुरुदधिकल्लोलपटलै— रनामृष्टं दंष्ट्राशिखरमधिशेते वसुमती॥ ५२॥

(१४. त्रासः)

रौद्रादिजन्मा चित्तचमत्कारः त्रासः। तस्य

जन्म यथा—(किराता. ८.४५)

परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम्॥ ५३॥

अनुबन्धो यथा—

किं मुग्धे! शुकपञ्जरेण रसिके! किं शारिकान्वेषणे स्वच्छे! मुञ्चसि किं न चित्रफलकं किं वीणया रागिणि!।
नायं भूषणसंग्रहस्य समयो लीलावति! त्वर्यता— मित्यासन् पुरविद्रवे भवदरिस्त्रीणां वयस्यागिरः॥ ५४॥

प्रकर्षो यथा—(ध्व.लो. २.५/६)

स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु।
लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु॥ ५५॥

संपर्को यथा—(तिम. ४६)

श्रुत्वा यं सहसा गतं निजपुरात् त्रासेन निर्गच्छतां शत्रूणामवरोधनैर्जललवप्रस्यन्दताम्यत्पुटाः ।
शुभ्रे वेश्‍मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडाद्रौ च मुहुर्मुहुर्विवलितग्रीवैर्विमुक्ता दृशः॥ ५६॥

अनुगमो यथा—

अज्ज वि हरी चमक्कइ कह कह वि ण मंदरेण दलिआइं।
चन्दकलाकंदलकोमलाइ लच्छीए अंगाइ॥ ५७॥

(अद्यापि हरिश्चमत्कृतः कथं कथमपि न मन्दरेण दलितानि।
चन्द्रकलाकन्दलकोमलानि लक्ष्म्या अङ्गानि॥)

(१५. शङ्का)

अनिष्टागमोत्प्रेक्षणं शङ्का। तस्या

जन्म यथा—(मवीच. २.१)

दूराद्दवीयो धरणीधराभं यस्ताटकेयं तृणवद् व्यधूनोत्।
हन्ता सुबाहोरपि ताटकारिः स राजपुत्रो हृदि बाधते माम्॥ ५८॥

अनुबन्धो यथा—(मामा. ८.१३)

किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद् विरमतु परिहासश्चण्डि! पर्युत्सुकोऽस्मि।
कलयसि परि/कलितोषं वल्लभे! देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयाऽसि॥ ५९॥

प्रकर्षो यथा—(मामा. ८.१२)

मम हि कुवलयाक्षीं प्रत्यनिष्टैकबुद्धे— रविरतमनुबन्धोत्कम्प एवान्तरात्मा।
स्फुरति च खलु चक्षुर्वाममेतच्च कष्टं वचनमिह भवत्योः सर्वथा हा हतोऽस्मि॥ ६०॥

संपर्को यथा—(मवीच. ४.११)

हा वत्साः! खरदूषणत्रिशिरसो वध्यास्स्थ पापस्य मे हा हा वत्स विभीषण! त्वमपि मे कार्येण हेयः स्थितः।
हा मद्वत्सल वत्स रावण! महत् पश्‍यामि ते सङ्कटं वत्से केकसि! हा हताऽसि नचिरात् त्रीन् पुत्रकान् द्रक्ष्यसि॥ ६१॥

अनुगमो यथा—(बारा. ९.५५)

हेलाखण्डितचण्डहेमहरिणैर्बाणैः कुलं विद्विषां शेषीभूतविभीषणं गुणनिधौ कृत्वा तु रामे स्थिते।
प्रत्युज्जीवनशङ्कया यदचितो लङ्कापतेः कातरै— र्नो मुक्‍ताः कुसुमस्त्रजो न च सुरैरास्फालितो दुन्दुभिः॥ ६२॥

(१६. स्तम्भः)

भयानुरागादिजन्मा चेष्टाप्रतिघातः स्तम्भः। तस्य

जन्म यथा—(रघु. २.३१)

वामेतरस्तम्य भुजः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे।
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे॥ ६३॥

अनुबन्धो यथा—(सेब. २.४२)

साअरदंसणहित्था अक्खित्तोवसरिअवेवमाणसरीरा।
सहसा लिहिअ व्व ठिआ णिप्पंदणिराअलोअणा कइणिवहा॥ ६४॥

(सागरदर्शनत्रस्ताः आक्षिप्‍तापसृतवेपमानशरीराः।
सहसा लिखिता इव स्थिताः निस्स्पन्दनिरायतलोचनाः कपिनिवहाः॥)

प्रकर्षो यथा—(उराच. ५.१३)

व्यतिकर इव भीमस्तामसो वैद्युतश्च प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति।
अथ लिखितमिवैतत् सैन्यमस्पन्दमास्ते नियतमजितवीर्ये जृम्भते जृम्भकास्त्रम्॥ ६५॥

संपर्को यथा—(कुसं. ५.८५)

तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेप एव पदमुद्ध‍ृतमुद्वहन्ती।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ॥

अनुगमो यथा—(रघु. २.३२)

बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः।
राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रप्रतिबद्धवीर्यः॥ ६७॥

(१७. स्वेदः)

श्रमानुरागाद्यपेक्षमनःक्षोभजन्मा वपुर्जलोद्भेदः स्वेदः। तस्य

जन्म यथा—(कुसं. ३.३६)

हिमव्यपायाद् विशदाधराणामापाण्डरीभूतमुखच्छवीनाम्।
स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु॥ ६८॥

अनुबन्धो यथा—(किराता. १७.८)

तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य।
निर्वापयिष्यन्निव रोषतस्तं प्रस्‍नापयामास मुखं निदाघः॥ ६९॥

प्रकर्षो यथा—(सूमु. १०)

करस्पर्शानन्दात् पुलकितपृथूरोजकलशे श्रमाम्भो वामार्धे वमति मदनाकूतसुलभम्।
विभोर्वारं वारं कृतसमाधिकोद्ध‍ूलनविधिः/धे— स्तनौ भस्मस्‍नानं कथमपि समाप्‍तं विजयते॥ ७०॥

सम्पर्को यथा—(माघ. १०.८०)

प्राप्य मन्मथमदादतिभूमिं दुर्वहस्तनभराः सुरतस्य।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्‍यः॥ ७१॥

अनुगमो यथा—(रघु. ८.५१)

सुरतश्रमवारिबिन्दवो न तु तावद् विरमन्ति ते मुखे।
स्वयमस्तमितास्यहो! बत क्षयिणां देहभृतामसारता॥ ७२॥

(१८. स्वरभेदः)

हर्षादिजन्मा वाग्भङ्गः स्वरभेदः। तस्य

जन्म यथा—

वासिष्ठैः सुकृतोद्भवोऽध्वरशतैरस्त्यग्‍निकुण्डोद्भवो भूपालः परमार इत्यधिपतिः सप्‍ताब्धिकाञ्चेर्भुवः।
अद्याप्युद्गतहर्षगद्गदगिरो गायन्ति यस्यार्बुदे विश्वामित्रजयोज्झितस्य भुजयोर्विस्फूर्जितं गुर्जराः॥ ७३॥

(तिम.) अनुबन्धो यथा—(रघु. ८.४३)

विलकाप स बाष्पगद्गदः सहजामप्यवधूय धीरताम्।
अभितप्‍तमयोऽपि मार्दवं भजते; कैव कथा शरीरिषु॥ ७४॥

प्रकर्षो यथा—(उराच. १.१२)

आनन्दाश्रुतरङ्गलोचनयुगं मार्गार्पितं बिभ्रती हर्षाद् गद्गदया गिरा परिजनं व्यापारयन्ती मुहुः।
सैषा स्वाशयनिर्विकल्पहृदया सौख्याच्चिरप्रार्थिता— दम्बा निष्करुणेन दग्धविधिना दूरं विसंवादिता॥ ७५॥

संपर्को यथा—(सूमु. ३)

पि पि प्रिय स स स्वयं मु मु मुखासवं देहि मे त त त्यज दु दु द्रुतं भ भ भ भाजनं काञ्चनम्।
इति स्खलितजल्पितं मदवशात् कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्यैयत॥ ७६॥

अनुगमो यथा—(किराता. ९.५०)

पाणिपल्लवविधूननमन्तस्सीत्कृतानि नयनार्धनिमेषाः।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य॥ ७७॥

(१९. वेपथुः)

भयानुरागाद्यपेक्षचित्तविक्षोभजः कम्पो वेपथुः।

तज्जन्म यथा—(दअ. २.२३)

मा गर्वमुद्‌वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति।
अन्याऽपि किं सखि! न भाजनमीदृशानां वैरी न चेद् भवतु वेपथुरन्तरायः॥ ७८॥

अनुबन्धो यथा—(मामा. ७.२)

रम्भोरु! संहर भयं क्षमते विकारमुत्कम्पितस्स्तनभरस्य न मध्यभागः।
इत्थं त्वयैव कथितप्रणयप्रसादः सङ्कल्पनिर्वृतिषु संस्तुत एष दासः॥ ७९॥

प्रकर्षो यथा—(मवीच. २.२१)

आतङ्कश्रमसाध्वसव्यतिकंरोत्कम्पः कथं सह्यता— मङ्गैर्मुग्धमधूकपुष्परुचिभिर्लावण्यसारैरयम्।
उन्नद्धस्तनकुम्भकुङ्‌मलगुरुश्वासावभुग्‍नस्य ते मध्यस्य त्रिवलीतरङ्गकजुषो भङ्गः प्रिये! मा च भूत्॥ ८०॥

सम्पर्को यथा—(मामा. १.३८)

वारंवारं तिरयति दृशावुद्गतो बाष्पपूर— स्तत्सङ्कल्पोपहितजडिम स्तम्भमभ्येति गात्रम्।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधुषु नितरां वर्तते; किं करोमि॥ ८१॥

अनुगमो यथा—

पप्फुरिअ उट्ठदलअं (अत्रैव पृ. १०.३६५)

(२०. व्रीडा)

वर्णनानुरागादिजन्मा मनस्सङ्कोचो व्रीडा। तस्या

जन्म यथा—(रघु. ७.२३, कुंस. ७.७५)

तयोरपाङ्गप्रतिसारितानि किञ्चिद् व्यवस्थापितसंहृतानि।
ह्नीयन्त्रणामानशिरे मनोज्ञामन्योलोलानि विलोचनानि॥ ८२॥

अनुबन्धो यथा—(वेसं. ४.१५)

अद्यौवावां रणमुपगतौ तातमम्बां च दृष्ट्वा घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुश्शासनश्च।
तस्मिन् बाले प्रसभमरिणा प्रापिते तामवस्थां पार्श्वं पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा॥ ८३॥

प्रकर्षो यथा—(उराच. ५.६)

द्विषन्निहतरक्षसां सुतसुहृद्वधूबान्धव— प्रलापमतिदुस्सहं प्रथितखेदमाकर्णयन्।
निजान्यपि मुखान्यहो नमितकन्धरो दुर्मना न संप्रति दशाननः सुचिरमीक्षते लज्जया॥ ८४॥

सम्पर्को यथा—(सूमु. १६)

प्रत्यग्रारिकृताभिमन्युनिधनप्रोद्ध‍ूततीव्रक्रुधः कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयः।
पार्थस्याकृतशात्रवप्रतिकृतरेन्तश्शुचा मुह्यतो हा वत्सेति गिरस्स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद् बहिः॥ ८५॥

अनुगमो यथा—(सूमु. १०)

केयूरीकृतकङ्कणावलिरसौ कर्णावतंसीकृत— व्यालोलालकपद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति।
यावत् किञ्चिदुदन्तमात्मकमितुस्तावत् स एवेत्यथ व्रीडावक्रितकण्ठनालमबला कैः कैर्न भिन्ना रसैः॥ ८६॥

(२१. अवहित्थम्)

इङ्गिताकारगोपनमवहित्थम्। तस्य

जन्म यथा—(शाकु. २.१८)

क्‍व वयं क्‍व परोक्षमन्मथो मृगशावैः सममेधितो जनः।
परिहासविजल्पितं सखे! परमार्थेन न गृह्यतां वचः॥ ८७॥

अनुबन्धो यथा—(कुसं. ६.८४)

एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी।
लीलाकमलपत्राणि गणयामास पार्वती॥ ८८॥

प्रकर्षो यथा—(गास. २.९९)

पाअडिअ—सणेहसब्भाव—विब्भमं तीए जह तुमं दिठ्ठो।
संवरण—वावडाए अण्णो वि जणो तह च्चेअ॥ ८९॥

(प्रकटितस्नेहसद्भावविभ्रमं तया यथा त्वं दृष्टः।
संवरणव्यापृतयाऽन्योऽपि जनस्तथैव॥)

संपर्को यथा—(शाकु. २.११)

अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम्।
विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः॥ ९०॥

अनुगमो यथा—

प्रम्लानोत्पलकोमले सखि! दृशौ नीलाञ्जनेनाञ्चिते कर्पूरच्छुरणाच्च गण्डफलके संवर्धितः पाण्डिमा।
श्वासाः सन्तु च कन्दुकभ्रमिभुवः किं तु प्रभा—वाहिना— मङ्गानां क्रशिमानमुत्कटममुं को नाम नोत्प्रेक्षते॥ ९१॥

(२२. चपलता)

मनसोऽस्थैर्यं चपलता। तस्या

जन्म यथा—(रघु. ७.६, कुसं. ७.५७)

आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्‍वेष्टनवान्तमाल्यः।
बन्धुं न सम्भावित एव तावत् करेण रुद्धोऽपि च केशपाशः॥ ९२॥

अनुबन्धो यथा—(रघु. ७.७, कुसं. ७.५८)

प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद् द्रवरागमेव।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान॥ ९३॥

प्रकर्षो यथा—(रघु. ७.८, कुसं. ७.५९)

विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा।
तथैव वातायनसन्निकर्षं ययौ शलाकामपरा वहन्ती॥ ९४॥

संपर्को यथा—(रघु. ७.९, कुसं. ७.६०)

जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम्।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः॥ ९५॥

अनुगमो यथा—(रघु. ७.११, कुसं. ७.६२)

तासां मुखैरासवगन्धगर्भैर्व्याप्‍तान्तराः सान्द्रकुतूहलानाम्।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्त्रपत्राभरणा इवासन्॥ ९६॥

(२३. आलस्यम्)

श्रृङ्गारादिभिर्मानसः क्रियाविद्वेष आलस्यम्। तस्य

जन्म यथा—(गास. २.४८)

णिद्दालस—परिघुम्मिर—तंस—वलंतद्ध—तारआलोआ।
कामस्स वि दुव्विसहा दिट्ठि—णिवाआ ससिमुहीए॥ ९७॥

(निद्रालस—परिघूर्णन—शील—तिर्यग्‌वलदर्धतारकालोकाः।
कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुख्याः॥)

अनुबन्धो यथा—

आर्द्राः स्रजो मलयजोदकमच्छमेकं वासश्च वासवरिपुर्ममृषेऽलसाङ्गः।
सञ्चिक्लिशे कलितरुद्रनिकेतनाद्रिभरिण तत्क्षणमसौ मणिभूषणानाम्॥ ९८॥

प्रकर्षो यथा—(गास. ३.६१)

घरिणि—घणत्थण—पेळळण—सुहेल्लि—पडिअस्स होंतपहिअस्स।
अवसउणंगारअ—वारविढि्ढदिअहा सुहावेन्ति॥ ९९॥

(गृहीणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य।
अपशाकुनाङ्गारकवारविष्टिदिवसाः सुखापयन्ति॥)

सम्पर्को यथा—(मामा. १.३१)

अलसलुलितमुग्धस्निग्धनिस्स्पन्दमन्दैरधिक—विकसदन्तर्विस्मयस्मेरतारैः।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च॥ १००॥

अनुगमो यथा— उत्तिष्ठन्त्या रतान्ते॰ (अत्रैव १०.२१, १३.६२)

(२४. निद्रा)

इन्द्रियाणां निमीलनं निद्रा। तस्या

जन्म यथा—

पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयना— न्निद्रालोः कमठाकृतेर्भगवतः श्वासानिलः पातु वः।
यत्संस्कारकलानुवर्तनवशाद् वेलाच्छलेनाम्भसां यातायातमहर्निशं जलनिधेर्नाद्यापि विश्राम्यति॥ १०१॥

अनुबन्धो यथा—(किराता. १६.२७)

आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती।
सहे/भेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य॥ १०२॥

प्रकर्षो यथा—(रघु. ७.६२)

ततो धनुष्कर्षणमूढस्तमेकान्तपर्यस्तशिरस्त्रजालम्।
तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम्॥ १०३॥

सम्पर्को यथा—(किराता. १६.३०)

अंसस्थलैः केचिदभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम्।
मदेन मीलन्नयनाः सलीलं नागा इव स्त्रस्तकरा निषेदुः॥ १०४॥

अनुगमो यथा—(माघ. ११.४)

प्रहरकमपनीय स्वं निनिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति ।
मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः॥ १०५॥

(२५. सुप्‍तम्)

निद्रादिकार्यं सुप्‍तम्। तस्य

जन्म यथा—

आश्लेषिणः पृथुतरक्लमपीतशीतमायामिनीं घनमदो रजनीर्युवानः।
ऊर्वोर्मुहुर्वलनबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ १०६॥

अनुगमो यथा—(गास. ७.१७)

ओसुअइ दिण्णपडिवक्खवेअणं पसिढिलेहि अंगेहिं।
णिव्वत्तिअ-सुरअ-रसाणुबंधसुहणिब्भरं सुण्हा॥ १०७॥

(अवस्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः।
निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं स्नुषा॥)

प्रकर्षो यथा—(सूमु. १५)

लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्त्रस्तरे सोपधाने।
परिहरति सुषुप्‍तिं हालिकद्वन्द्वमारात् कुचकलशमहोष्माबद्धरेखस्तुषारः॥ १०८॥

सम्पर्को यथा—(कुसं. ५.५७)

त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसाऽप्यबुध्यत।
क्‍व नीलकण्ठ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना॥ १०९॥

अनुगमो यथा—(गास. १.२६)

ण कुणंचो चिअ माणं णिसासु सुह-सुत्त-दर-विबुद्धाणं।
सुण्णइअ-पास-परिमूसण-वेअणं जइ सि जाणंतो॥ ११०॥

(नाकरिष्य एव मानं निशासु सुखसुप्‍तदरविबुद्धानाम्।
शून्योकृतपार्श्वपरिमोषणवेदनां यद्यज्ञास्यः॥)

(२६. प्रबोधः)

निद्रात्ययेषु चेतनालाभः प्रबोधः। तस्यष

जन्म यथा—(कुसं. ८.८५)

स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम्।
मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः॥ १११॥

अनुबन्धो यथा—(मुरा. ३.२१)

प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्‍न/कल्यदीपप्रभाणा— मात्मव्यापारगुर्वी जनितजललवा जृम्भितैः स्वाङ्गभङ्गैः।
नागाङ्कं मोक्तुमिच्छोः शयनमुरुफणाचक्रवाळोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः॥ ११२॥

प्रकर्षो यथा—(माघ. ११.६)

क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगान् उदधिमहति राज्ये काव्यवद् दुर्विगाहे।
गहनमपररात्रप्राप्‍तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम्॥ ११३॥

सम्पर्को यथा—(रघु. ९.७१)

उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विधूतनिद्रः।
अरमत मधुरस्वराणि श्रृण्वन् विहगविकूजितवन्दिमङ्गलानि॥ ११४॥

अनुगमो यथा—

विस्त्रम्भादुपसृज्य पीडन—नमत्प्रोत्तुङ्गपीनस्तने श्वासावेग विकम्पिना स्तनयुगेनापीडिते वक्षसि।
ईषन्मीलितनेत्रया श्लथभुजापाशं चिरादागतो नाधन्यः परिरभ्यते दयितया जाग्रत्स्वपत्या निशि॥ ११५॥

चतुर्विंशतिरित्येते भावा हर्षादिसंज्ञकाः!
(संप्रयोगाश्रयाः प्रोक्‍तास्तैस्तैर्युक्‍तैर्निदर्शनैः)॥१

अतः परं प्रवक्ष्यन्ते विप्रलम्भसमाश्रयाः।
चतुर्विंशतिरुत्कण्ठाचिन्तास्मृत्यादयोऽपरे॥ ११६॥

(२७. उत्कण्ठा)

तत्र प्रायेण विप्रलम्भाश्रयभावचतुर्विंशादिकं उदाह्नियन्ते। तत्र मनसोऽशान्तिरुत्कण्ठा। तस्या

जन्म यथा—(अमरु. ९९)

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै— र्यत्‍नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद्‍ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाऽश्रुपूर्णे दृशौ तामाशां पथिकस्तथाऽपि किमपि ध्यायन् मुहुर्वीक्षते॥ ११७॥

अनुबन्धो यथा—(कुसं. ६.९५)

पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः॥ ११८॥

१. इदमस्माभिरपूरि प्रकर्षो यथा—(मामा. ९.४६)

प्रयान्तीव प्राणाः सुतनु ! हृदयं ध्वंसत इव जवलन्तीवाङ्गानि प्रसरति समन्तादिव तमः।
त्वराप्रस्तावोऽयं न खलु परिहासस्य विषय— स्तदक्ष्णोरानन्दं वितर मयि मा भूरकरुणा॥ ११९॥

सम्पर्को यथा—(मामा.१.१८)

भूयो भूयस्सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था।
साक्षात् कामं नवमिव रतिर्मालती माधवं यद् गाढोत्कण्ठा लुलितलुलितैरङ्गकैस्ताम्यतीति॥ १२०॥

अनुगमो यथा—(शाकु. ४.६)

यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृष्टिकलुषश्चिन्ताजडं दर्शनम्।
वैक्लब्यं मम तावदीदृशमहो स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः॥ १२१॥

(२८. चिन्ता)

दृष्टश्रुतानुमितेषु प्राप्‍तिपरिहारार्थमुपायपरिभावना मनसश्चिन्ता। तस्या जन्म यथा—

सन्ध्या रागवती स्वभावकुटिला गङ्गा द्विजिह्वः फणी वक्रोऽन्तर्मलिनः शशी च सततं जात्यैव मूर्खो वृषा।
इत्थं दुर्जनसङ्कुले पतिगृहे वासः कथं सह्यतां देव्याः पाणिनिविष्टमास्यमसकृच्‍चिन्तान्वितं पातु वः॥ १२२॥

अनुबन्धो यथा—(मेघ. १००)

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्‍तेन तप्‍तं सास्रेणास्रद्रवम् अविरतोत्कण्ठमुत्कण्ठितेन।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥ १२३॥

प्रकर्षो यथा—(मामा. ५.१०)

लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्‍तेव च वज्रलेपघटितेवान्तर्निखातेव च।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि— श्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्‍ना प्रिया॥ १२४॥

संपर्को यथा—(महानाटकं ३.२४)

हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे।
वत्स राम ! गतोऽसीति सन्तापादनुमीयसे॥ १२५॥

अनुगमो यथा—

व्रीहिः स्तम्बकरिः प्रभूतपयसः प्रत्यागता धेनवः प्रत्युज्जीवितमिक्षुणा भृशमिति ध्यायन्नपेतान्यधीः।
सान्द्रोशीरकुटुम्बिनीस्तनभरव्यालुप्‍तघर्मक्लमो देवे नीरमुदारमुज्झति सुखं शेते निशि ग्रामणीः॥ १२६॥

(२९. स्मृतिः)

मनसि अनुभूतार्थप्रतिबिम्बनं स्मृतिः। तस्या

जन्म यथा—(रघु. १३.३५)

अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्‍तिम्/सुप्‍तः॥ १२७॥

अनुबन्धो यथा—(रघु. १३.२८)

पूर्वानुभूतं स्मरता च रात्रौ कम्पोत्तरं भीरु तवोपगूढम्।
गुहाविसारीण्यतिवाहितानि मया कथञ्चिद् घनगर्जितानि॥ १२८॥

प्रकर्षो यथा—(उराच. १.१८)

समयस्स वर्तत इहैष मां समनन्दयत् सुमुखि ! गौतमार्पितः।
अयमागृहीतकमनीयकङ्कणस्तव मूर्तिमानिव महोत्सवः करः॥ १२९॥

संपर्को यथा—(उराच. २.२७)

पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।
बहोर्दृष्टं कालादपरिमिव मन्ये वनमिदं निवेशश्शैलानां तदिदमिति बुद्धिं द्रढयति॥ १३०॥

अनुगमो यथा—(शाकु. ६.९)

इतः प्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता गृहे तिष्ठेत्युच्‍चैर्वदति गुरुशिष्ये गुरुसमे।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत् सविषमिव शल्यं दहति माम्॥ १३१॥

(३०. क्रोधः)

मनःप्रतिकूलेषु तैक्ष्ण्यप्रतिबन्धः(प्रबोधः) क्रोधः। तस्य

जन्म यथा—(कुसं. ३.७१)

तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्य/क्षमुखस्य तस्य।
स्फुरन्‍नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात॥ १३२॥

अनुबन्धो यथा—(वेसं. ३.३२)

यो यश्शस्र बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्‍च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम्॥ १३३॥

प्रकर्षो यथा—(वेसं. ३.४७)

कृष्टा येन विलोलकेशनिवहा पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः।
यस्योरस्स्थलशोणितासवमहं पातुं प्रतिज्ञातवान् सोऽयं मद्भ‍ुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः॥ १३४॥

सम्पर्को यथा—(उराच. २.१३)

इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत्।
इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः॥ १३५॥

अनुगमो यथा—(मवीच. २.४६)

अमृताध्मातजीमूतस्‍निग्धसंहननस्य ते।
कुठारः कम्बुकण्ठस्य कष्टं कण्ठे लुठिष्यते॥ १३६॥

(३१. अमर्षः)

कृतापराधेषु क्रोधाप्रशान्तिरमर्षः। तस्य

जन्म यथा—(मवीच. २.९)

अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्‍तिः प्रभोः प्रत्युत दुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया।
उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्‍नं च जगत्पतिर्दशमुखो दृप्‍तः कथं मृष्यते॥ १३७॥

अनुबन्धो यथा—(ध्वन्यालोक ३)

न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः।
धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनपरैः पीनैः किमेभिर्भुजैः॥ १३८॥

प्रकर्षो यथा—(वेसं. ३.२३)

तातं शस्त्रग्रहणविमुखं निश्चयेनोपलभ्य त्यक्त्वा शङ्कां खलु निदधतः पाणिमस्योत्तमाङ्गे।
अश्वत्थामा करधृतधनुः पाण्डुपाञ्चालसेना— तूलोत्क्षेपप्रलयपवनः किं न यातः स्मृतिं ते॥ १३९॥

सम्पर्को यथा—(मवीच. २.२९)

यत्क्षत्रियेष्वपि पुनस्स्थितमाधिपत्यं तैरेव संप्रति धृतानि पुनर्धनूंषि।
उन्माद्यतां भुजमदेन मयाऽपि तेषामुच्छृङ्खलानि चरितानि पुनश्श्रुतानि॥ १४०॥

अनुगमो यथा—(वेसं. १.८)

लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्ति/न्तु मयि जीवति धार्तराष्ट्राः॥ १४१॥

(३२. असूया)

परर्द्ध‍यसहनमसूया। तस्या

जन्म यथा—(रघु. ९.६४)

निर्घातोग्रैः कुञ्जलीनान् जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान्।
नूनं तेषामभ्यसूयापरोऽभूद् वीर्योदग्रे राजशब्दे मृगाणाम्॥ १४२॥

अनुबन्धो यथा—(रघु. ३.४९)

हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः।
तथा विदुर्मां मुनयश्शतक्रतुं द्वितीयगामी न हि शब्द एष नः॥ १४३॥

प्रकर्षो यथा—(रघु. ७.३४)

प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः।
ततो नृपाश्चक्षमिरे समेताः स्त्रीरत्‍नलाभं न तदात्मजस्य॥ १४४॥

संपर्को यथा—(उराच. ५.३४)

वन्द्यास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यकुण्ठयशसो लोके महान्तो हि ते।
यानि त्रीणि कुतोमुखान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः॥ १४५॥

अनुगमो यथा—(रघु. ३.६३)

असक्तमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम्।
अवेहि मां प्रीतमृते तुरङ्गमाद् वरं वृणीष्वेति तमाह वासवः॥ १४६॥

(३३. ईर्ष्या)

समानेषु दानमानाद्यमर्षणमीर्ष्या। तस्या

जन्म यथा—

गोत्राद् गोत्रमुपैति या चलतया, या पादमूलात् प्रभो— र्भ्रष्टा, या च पितुर्ममैव कटके दृष्टा वहन्ती ज(ड)लम्।
सेयं सागरिका त्वया पशुपते ! मूर्धानमारोपिते— त्युक्तः कोपकषायपाटलदृशा गौर्या हरः पातु वः॥ १४७॥

अनुबन्धो यथा—

कुविआ अ सच्‍चहामा समे वि वहुआण णवर माणक्खलणे।
पाअडिअ-हिअअ-सारो पेमासंघसरिसो पअट्टर्ह मण्णू॥ १४८॥

(कुपिता च सत्यभामा समेऽपि वधूनां केवलं मानस्खलने।
प्रकटितहृदयसारः प्रेमाशंसासदृशः प्रवर्तते मन्युः॥)

प्रकर्षो यथा—(वेसं. ३.४५)

अयं यावत् पापो न निधनमुपेयादरिशरैः परित्यक्तं तावत् प्रियमपि मयाऽस्त्रं रणमुखे।
बलानां नाथेऽस्मिन् परिकुपितभीमार्जुनभये समुत्पन्ने राजा प्रियसखबलं वेत्तु समरे॥ १४९॥

संपर्को यथा—(अमरु. ६०)

लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसः क्रीडातामरसोदरे मृगदृशः श्वासाः समाप्‍तिं गताः॥ १५०॥

अनुगमो यथा—(कुसं. ८.४९)

निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा।
शैलराजतनया समीपगामाललाप विजयामहेतुकम्॥ १५१॥

(३४. उग्रता)

दोषतो वाग्दण्डपारुष्यमुग्रता। तस्या

जन्म यथा—(विक्रमो. ५.१)

आत्मनो वधमाहर्ता क्‍वासौ विहगतस्करः।
येन तत्प्रथमं स्तेयं गोप्‍तुरेव गृहे कृतम्॥ १५२॥

अनुबन्धो यथा—(राच. १९.८९)

तेनाथ नाथ दुरुदाहरणातपेन सौम्याऽपि नाम परुषत्वमभिप्रपन्ना।
जज्वाल तीक्ष्णविशदाः सहसोद्गिरन्ती वागार्चिषाषस्तपनकान्तशिलेव सीता॥ १५३॥

प्रकर्षो यथा—(वेसं. ३.२४)

कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिनाम् अयमहमसृङ्‍मेदोमांसैः करोमि बलिं दिशाम्॥ १५४॥

सम्पर्को यथा—(मामा. ५.३१)

प्रणयसखीसलीलपरिहासरसाधिगतै— र्ललितशिरीषपुष्पहननैरपि ताम्यति यत्।
वपुषि वधाय तत्र त्व शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः॥ १५५॥

अनुगमो यथा—(मामा. ८.८)

क्‍व त्वत्प्रियः क्‍व च तपस्विजनस्य हन्ता कन्याविटः पतिरसौ परिरक्षतु त्वाम्।
श्येनावपातचकिता वनवर्तिकेव किं चेष्टसे ननु चिरात् कबलीकृताऽसि॥ १५६॥

(३५. उन्मादः)

कामाद्यभिषङ्गातिशयादसम्बद्धप्रलाप उन्मादः। तस्य

जन्म यथा—(मवीच. १.५५)

एह्येहि वत्स रघुनन्दन ! पूर्णचन्द्र चुम्बामि मूर्धनि चिराय परिष्वजे त्वाम्।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते॥ १५७॥

अनुबन्धो यथा—(विक्रमो. ४.३३)

तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम्।
यदाविद्धं याति स्खलितमभिसन्धाय बहुशो नदीभावेनेयं ध्रुवमसहना सा परिणता॥ १५८॥

प्रकर्षो यथा—(मामा. ९.२७)

नवेषु लोध्रप्रसवेषु कान्तिर्दृशः कुरङ्गेषु गजेषु यातम्।
लतासु नम्रत्वमिति प्रमथ्य व्यक्तं विभक्ता विपिने प्रियाऽस्मिन्॥ १५९॥

संपर्को यथा—(विक्रमो. ४.३३)

हंस ! प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता।
सम्भावितैकदेशेन देयं यदभियुज्यते॥ १६०॥

अनुगमो यथा—(मामा. ९.४२)

भ्रमय जलदानम्भोगर्भान् प्रमोदय कोकिलान्/चातकान् कलय शिखिनः केकोत्कण्ठान् कठोरय केतकान्।
विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा— मकरुण ! पुनस्संज्ञाव्याधिं विहा/धाय किमीहसे॥ १६१॥

(३६. व्याधिः)

भयानुरागादिजन्मा मनश्शरीराभिषङ्गो व्याधिः। तस्य

जन्म यथा—(मामा. ३.९)

यदिन्दावानन्दं प्रणयिनि जने वा न भजते व्यनक्त्यन्तस्तापं (तदयमति)धीरोऽपि विषमम्।
प्रियङ्गुश्यामाङ्गप्रकृतिरपि वा (चा)पाण्डुमधुरं वपुः क्षामं क्षामं वहति रमणीयञ्च(श्च) भवति॥ १६२॥

अनुबन्धो यथा—(मामा. २.१)

मनोरोगस्तीव्रो विषमिव विसर्पन्नविरतं प्रमाथी निर्धूमं जवलति विधुतः पावक इव।
हिनस्ति प्रत्यङ्गं जवर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति, नचाऽम्बा, न भवती॥ १६३॥

प्रकर्षो यथा—(कुसं. ५.५५)

तदाप्रभृत्युन्मदना पितुर्गहे ललाटिकाचन्दनधूसरालका।
न जातु बाला लभते स्म निर्वृतिं तुषारसङ्घातशिलातलेष्वपि॥ १६४॥

संपर्को यथा—(रत्‍ना. २.१२)

स्थितमुरसि विशालं पद्मिनीपत्रमेतत् कथयति न तथाऽन्तर्मन्मथोत्थामवस्थाम्।
अतिशयपरितापम्लापिताभ्यां यथाऽस्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति॥ १६५॥

अनुगमो यथा—(मामा. ६.६)

इयमवयवैः पाण्डुक्षामैरलङ्कृतमण्डना कलितकुसुमा बालेवान्तर्लता परिशोषिणी।
वहति च वरारोहा रम्यां विवाहमहोत्सव— श्रियमुदयिनीमत्यर्थं च व्यनक्ति मनोरुजम्॥ १६६॥

(३७. ग्लानिः)

मनःपीडादिजन्मा शरीरावसादो ग्लानिः। अस्या

जन्म यथा—

प्रकृत्या रमणीयोऽपि क्षीयमाणः प्रतिक्षणम्।
दुःखमावहति प्रातः शशीवापाण्डुरच्छविः॥ १६७॥

अनुबन्धो यथा—(उराच. ३.५)

किसलयमिव मुग्धं बन्धनाद् विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्॥ १६८॥

प्रकर्षो यथा—(मामा. १.२५)

परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी— मभिनवकरिदन्तच्छेदकान्तः कपोलः॥ १६९॥

सम्पर्को यथा—(शाकु. ३.७)

क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्षामतरः प्रकामविनतावंसौ छविः पाण्डुरा।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥ १७०॥

अनुगमो यथा—(किराता. १८.६)

निपतितेऽधिशिरोधरमायते सममरन्नि(त्‍नि)युगेऽयुगचक्षुषः।
त्रिचतुरेषु पदेषु किरीटिना लुलितमौलि मदादिव चस्खले॥ १७१॥

(३८. श्रमः)

निरतिशयप्रयासजन्मा (म)नःशरीरायासाः श्रमः। तस्य

जन्म यथा—

तनुरियं तरलायतलोचने श्वसितकम्पितपीनघनस्तनी।
श्रममपास्य गता तपसे पुनः किमिति सम्भ्रमकारिणि खिद्यते॥ १७२॥

अनुबन्धो यथा—(मामा. ३.८)

स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं जनयति मुखचन्द्रोद्भासिनः स्वेदबिन्दून्।
मुकुलयति च नेत्रे सर्वथा सुभ्रु ! खेद— स्त्वयि विलसति तुल्यं वल्लभालोकनेन॥ १७३॥

प्रकर्षो यथा—(शाकु. १.२६)

स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणाद् अद्यापि स्तनवेपथुं न जहति श्वासः प्रमाणाधिकः।
बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयामिताः पर्याकुला मूर्धजाः॥ १७४॥

संपर्को यथा—(शाकु. ५.६)

औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नातिं लब्धपरिपालनवृत्तिरेव।
नैव श्रमापनयनाय न च श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम्॥ १७५॥

अनुगमो यथा—(किराता. ८.३)

निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तिनिर्ह्रादिविभूषणारवः।
नितम्बिनीनां भृशमादधे धृतिं नभःप्रायाणादवनौ परिक्रमः॥ १७६॥

(३९. विषादः)

दैवादिभिस्संरम्भविघातो विषादः। तस्य

जन्म यथा—

हेलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं यो यो यत्‍नः कथमपि समाधीयते तन्नमन्तः (तं तमन्तः ?)।
भित्त्वा भित्त्वा प्रसरति बलात् कोऽपि चेतोविकार— स्तोयस्येवाप्रतिहतरवः सैकतं सेतुमोघः॥ १७७॥

अनुबन्धो यथा—(उराच. ३.४५)

व्यर्थं यत्र कपीन्द्रसख्यमपि मे, क्लेशः कपीनां वृथा प्रज्ञा जाम्बवतो न यत्र, न गतिः पुत्रस्य वायोरपि।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषये तत्र प्रिया क्‍वापि मे॥ १७८॥

प्रकर्षो यथा—(वेसं. ५.१२)

हते द्रोणे च भीष्मे च यदासीदवलम्बनम्।
वत्सस्य मे सुहृत् प्रेयान् राधेयः सोऽप्ययं हतः॥ १७९॥

संपर्को यथा—(वेसं. ६.१)

तीर्णे भीष्ममहोदधौ, कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते, शल्ये च याते दिवम्।
भीमेन प्रियसाहसेन रभसादल्पावशेषे जये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः॥ १८०॥

अनुगमो यथा—(मामा. ४.३)

चिरादाशातन्तुस्‍त्रुटतु (बिसिनीसूत्र)भिदुरो महान् आधिर्व्याधिर्निरवधिरिदानीं प्रसरतु।
प्रतिष्ठामव्याजं व्रजतु मयि परिप्लवधुरा विधिः स्वास्थ्यं धत्तां, भवतु कृतकृत्यश्च मदनः॥ १८१॥

(४०. मोहः)

इतिकर्तव्यतायामनालोको मोहः। तस्य

जन्म यथा—(मामा. ९.८)

न यत्र प्रत्याशामनुपतति नो वा रहयति प्रतिक्षिप्‍तं चेतः प्रविशति च मोहान्धतमसम्।
अकिञ्चित्कुर्वाणाः पशव इव तस्यां वयमहो विधातुर्वामत्वाद् विपदि परिवर्तामह इमे॥ १८२॥

अनुबन्धो यथा—(उराच. ३.१७)

पिहितनयनो बाष्पाम्भोभिर्मुहुस्त्वतिसम्भृतै— र्धनुषि विनमन्मध्ये स्विन्नां निधाय तनुं ततः।
शिथिलचरणोद्धारः कृच्छ्रात् पदात् पदमावहन् कथमयमहो ! चिन्ताशून्यो न याति न तिष्ठति॥ १८३॥

प्रकर्षो यथा—(उराच. १.३५)

विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमादो निद्रा वा किमु विषविसर्पः किमु मदः।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च संमीलयति च॥ १८४॥

सम्पर्को यथा—(उराच. २.२३)

वत्सस्याभयवारिधेः प्रतिभयं शङ्के कुतो राक्षसात् त्रस्तश्चैष मुनिर्विरौति मनसोऽप्यस्त्येव मे सम्भ्रमः।
मा हासीज्जनकात्मजामिति गुरुस्‍नेहान्मुहुर्याचते न स्थातुं न च गन्तुमाकुलतया मूढस्य मे निश्चयः॥ १८५॥

अनुगमो यथा—(रघु. ६.१२)

ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि।
तह हि सर्वेन्द्रियवृतिरासां सर्वात्मना चक्षुरिव प्रविष्टा॥ १८६॥

(४१. शोकः)

इष्टविरहादिभिर्मनोवैधुर्यं शोकः। तस्य

जन्म यथा—(उराच. ३.३८)

हा हा देवि ! स्फुटति हृदयं स्रंसते देहबन्धः शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्‍मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ १८७॥

अनुबन्धो यथा—(रघु. ८.५७)

नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गभर्पितम्।
तदिदं विसहिष्यते कथं तव वामोरु ! चिताधिरोहणम्॥ १८८॥

प्रकर्षो यथा—(मवीच. ४.५५)

प्राणाः प्रयान्ति परितस्तमसावृतेऽस्मिन् मर्मच्छिदो मम रुजः प्रसरन्त्यपपूर्वाः।
अक्ष्णोर्मुखेन्दुमुपधेहि गिरं च देहि हा पुत्र ! मय्यकरुणः सहसैव मा भूः॥ १८९॥

सम्पर्को यथा—(रघु. ९.८०)

शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयम्।
कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति॥ १९०॥

अनुगमो यथा—(रघु. ८.९३)

तस्य प्रसह्य हृदयं किल शोकशंकुः प्लक्षप्ररोह इह सौधतलं बबाधे।
प्राणन्तहेतुमपि तं भिषजामसाध्यं लाभं प्रियानुगमनत्वरया स मेने॥ १९१॥

(४२. दैन्यम्)

सत्त्वत्यागादनुत्कर्षो दैन्यम्। तस्य

जन्म यथा—(रघु. १४.६७)

नृपस्य वर्णाश्रमपालनं यत् स एव धर्मो मनुना प्रणीतः।
निर्वासिताऽप्येवमतस्त्वयाऽहं तपस्विसामान्यमवेक्षणीया॥ १९२॥

अनुबन्धो यथा—(शाकु. ४.१७)

अस्मान् साधु विचिन्त्य संयमधनानुच्‍चैःकुलं चात्मन— स्त्वय्यस्याः कथमप्यबान्धवकृतां स्‍नेहप्रवृत्तिं च ताम्।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्‍या त्वया भाग्यायत्तमतः परं न खलु तद् वाच्यं वधूबन्धूभिः॥ १९३॥

प्रकर्षो यथा—(वेसं. ५.५)

दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ कर्णस्यात्मजमग्रतः शमयतो भीतं जगत् फल्गुनात्।
वत्सानां निधनेन मे (रिपु)रसौ शेषप्रतिज्ञस्त्वया मानं वैरिषु मुञ्च तात ! पितरावन्धाविमौ पालय॥ १९४॥

सम्पर्कौ यथा—(वेसं. ५.१३)

अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः शोच्यां दशामुपगतः स तु भार्ययाऽहम्।
तस्मिन्नशेषितसुहृद्ग‍ुरुबन्धुवर्गे दुर्योधने(ऽपि हि कृतो) भवता निराशः॥

अनुगमो यथा—(भल्लटशतकं ७)

माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां हि मां स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते।
तृष्णे ! त्वामनुबध्‍नता फलमियत् प्राप्‍तं मया यावता यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते॥ १९६॥

(४३. वैवर्ण्यम्)

विषादादिजन्म कान्तेरन्यथात्वं वैवर्ण्यम्। तस्य

जन्म यथा—(मामा. १०.४)

उज्ज्वलालोकया स्‍निग्धा त्वया त्यक्ता न राजते।
मलीमसमुखी वर्तिः प्रदीपशिखया यथा॥ १९७॥

अनुबन्धो यथा—(रघु. ६.६७)

सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ १९८॥

प्रकर्षो यथा—

सहि ! साहसु तेण समं अहं पि किं णिग्गआ पहाअंमि।
अण्ण च्‍चिअ दीसइ जेण दप्पणे का वि सा सुमुही॥ १९९॥

(सखि ! साधय तेन सममहमपि किं निर्गता प्रभाते।
अन्यैव दृश्यते येन दर्पणे काऽपि सा सुमुखी॥)

सम्पर्को यथा—(मामा. ४.४)

समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः।
तथाऽप्यस्मिन् दानश्रवणसमयेऽस्याः प्रविगलत्— प्रभं प्रातश्चन्द्रद्युति वदनमन्तर्दहति माम्॥ २००॥

अनुगमो यथा—(किराता. १०.६३)

स्वयं संराध्येशं शतमखमखण्डेन तपसा परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते।
मनोभिः सावेगैः प्रणयविहतिध्वस्तरुचयः सगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः॥ २०१॥

(४४. आवेगः)

प्रतीकाराशया मनोव्याकुलताऽऽवेगः। तस्य

जन्म यथा—(माघ. १०.८२)

प्रेक्षणीयकमिव क्षणमासन् ह्रीतभङ्गुरविलोचनपाताः।
सम्भ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः॥ २०२॥

अनुबन्धो यथा—(माघ. १०.८३)

अप्रभूतमतनीयसि तन्वी काञ्चिधाम्‍नि पिहितैकरतोरु।
क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन॥ २०३॥

प्रकर्षो यथा—

शून्या दिशः सपदि वीक्ष्य शुचा वराकी मृत्योर्मुखं विशति वा शमयन्निराशाः।
एता मता श्वपचपातकदीपरोगा— दागच्छ X X X परंपरिक्षया वः॥ २०४॥

संपर्को यथा—(रत्‍ना. ३.१७)

अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि ! विमुञ्च त्वं लतापाशमेनम्।
चलितमिव निरोद्ध‍ुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि॥ २०५॥

अनुगमो यथा—(रघु. ५.४९)

स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्‍नाक्षपर्यस्तरथं क्षणेन।
रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार॥ २०६॥

(४५. अश्रु)*

दुःखक्रोधाननन्दजं नयनजलमश्रु। तस्य

जन्म यथा—(शाकु. ४.१५)

उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विहतानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति॥ २०७॥

अनुबन्धो यथा—(विक्रमो. ५.१५)

किं सुन्दरि ! प्ररुदितासि ममोपपन्ने वंशस्थितेरधिगमान्महति प्रमोदे।
पीनोन्नतस्तननिपातिभिरानयन्ती मुक्तावलीविरचनां पुनरुक्तमस्रै॥ २०८॥

प्रकर्षो यथा—

ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः पुराणैरातङ्कग्लपितहृदयेन क्षितिभृता।
*मोहः(/स्‍नेहः) द्विरुपात्तः उद्‍देशे (द्र. पृ. ६१४) विना वाचं नैतत् क्षममिति विधायाननमधः पतद्वाष्पाम्भोभिर्लिखितमिव दत्तं प्रतिवचः॥ २०९॥

सम्पर्को यथा—(उराच. १.२९)

अयं तावद् बाष्पस्‍त्रटित इव मुक्तामणिसरो विसर्पन् धाराभिर्लुठति धरणीं जर्झरकणः।
निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति च भराध्यातहृदयः॥ २१०॥

अनुगमो यथा—(सूमु. २)

अकृतकबलारम्भैर्वक्त्रैर्भयस्थगितेक्षणैः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्क्तयः।
गगनमसकृत् पश्यन्त्येतास्तथाश्रुघनैर्मुखैः— र्निपतति यथा शृङ्गाग्रेभ्यो भ्रमन्नयनोदकम्॥ २११॥

(४६. प्रलयः)

सर्वेन्द्रियास्तमयः प्रलयः। तस्य

जन्म यथा—(कुसं. ३.७३)

तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम्।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव॥ २१२॥

अनुबन्धो यथा—(रघु. १४.५४)

ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना।
स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम॥ २१३॥

प्रकर्षो यथा—(वेसं. ४.१०)

पर्याप्‍तनेत्रमचिरोद्गतचन्द्रकान्तमुद्भिद्यमाननवयौवनरम्यचिह्नम्।
प्राणापहारिपरिवर्तितदृष्टि दृष्टं कर्णेन तत् कथमिवाननपङ्कजं ते॥ २१४॥

सम्पर्को यथा—(रघु. ३.६१)

रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः।
मुहूर्तमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः॥ २१५॥

अनुगमो यथा—(विक्रमो. १.९)

आविर्भूते शशिनि तमसा मुच्यमानेव रात्रिः नैशस्यार्चिर्हुतभुज इव च्छिन्नभूयिष्ठधूमा।
मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्या गङ्गा रोधःप्रसरकलुषा गृह्‍णतीव प्रसादम्॥ २१६॥

(४७. जाड्यम्)

मनसः क्रियास्वपाटवं जाड्यम्। तस्य

जन्म यथा—(सूमु. ३८)

आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्‍चैकनिष्ठं मनः।
मौनं चेदमिदं च शून्यमखिलं यद् विश्वमाभाति ते तद् ब्रूयाः सखि ! योगिनी किमसि भोः किं वा वियोगिन्यसि॥ २१७॥

अनुबन्धो यथा—(महानाटक ५.३)

शिथिलशिथिलं न्यस्य स्वैरं धनुश्शिखरे शिरो नयनसलिलैः कुर्वन् मौर्वीलतामपरामिव।
अहह विकलः श्रुत्वा श्रुत्वा घनस्तनितध्वनिं किमपि किमपि ध्यायन्नार्यो न याति न तिष्ठति॥ २१८॥

प्रकर्षो यथा—(शाकु. ४.१)

विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मानुपस्थितम्।
स्मरिष्यति त्वां न स बोधितोऽपि सन् कथां प्रमत्तः प्रथमोदितामिव॥ २१९॥

सम्पर्को यथा—(मामा. १.३३)

परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
विवेक—प्रध्वंसादुपचित—महामोह—गहनो विकारः कोऽप्यन्तर्जडयति च तापं च तनुते॥ २२०॥

अनुगमो यथा—(मामा. ३.५)

आश्चर्यमुत्पलदृशो वदनामलेन्दुसान्निध्यतो मम मुहुर्जडिमानमेत्य।
जात्येन चन्द्रमणिनेव महीधरस्य सन्धार्यते द्रवमयो मनसो विकारः॥ २२१॥

(४८. जुगुप्सा)

पदार्थनिन्दनं जुगुप्‍सा। तस्या

जन्म यथा—(उराच. २.१०)

रे हस्त ! दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम्।
रामस्य गात्रमसि निर्भरगर्भखिन्नसीताविवासनपटोः करुणा कुतस्ते ?॥ २२२॥

अनुबन्धो यथा—(उराच. १.४९)

विस्रम्भादुरसि निपत्य जातनिद्रामुन्मुच्य प्रियगृहिणीं गृहस्य शोभाम्।
आतङ्कस्फुरितकठोरगर्भगुर्वीं क्रव्याद्भ‍यो बलिमिव दारुणः क्षिपामि॥ २२३॥

प्रकर्षो यथा—(उराच. ३.२६)

त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण॥ २२४॥

सम्पर्को यथा—(वेसं. ३.१३)

धिक् सानुजं कुरुपतिं धिगजातशत्रुं धिग् भूपतीन् विफलशस्त्रभृतो धिगस्मान्।
केशग्रहः खलु तदा द्रुपदात्मजायाः द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः॥ २२५॥

अनुगमो यथा—(मवीच. १.३८)

सर्वदोषानभिष्वङ्गदाम्‍नायसमतां गताः।
युष्माकमभ्युपगमाः प्रमाणं पुण्यपापयोः॥ २२६॥

(४९. निर्वेदः)

वैराग्यादिभिर्मनःखेदो निर्वेदः। तस्य

जन्म यथा—

शीतेनोद्ध‍ृषितस्य माषशिमिवच्‍चिन्तार्णवे मज्जतः शान्ताग्‍िंनस्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे।
निद्रा का(क्‍वा)ऽपि विमानितेव दयिता सन्त्यज्य दूरं गता सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी॥ २२७॥

अनुबन्धो यथा—(वैश. ९३)

मातर्लक्ष्मि ! भजस्व कंचिदपरं मत्काङ्‍‌क्षिणी मा स्म भू— र्भोगेभ्यः स्पृहयालवो तव वशे; का निस्स्पृहाणामसि।
सद्यस्स्यूतपलाशपत्रपुटिकापात्रीपवित्रीकृतैः भिक्षासक्‍तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे॥ २२८॥

प्रकर्षो यथा—(उराच. ६.३३)

क्‍व तावानानन्दो निरतिशयविस्रम्भबहुलः क्‍व तेऽन्योन्यं यत्र क्‍वचन गहनाः कौतुकरसाः।
सुखे वा दुःखे वा क्‍व नु खलु तदैक्यं हृदययो— स्तथाप्येष प्राणः स्फुरति न तु तापो विरमति॥ २२९॥

संपर्को यथा—(सूमु. ६)

अयं शून्यो ग्रामः सुरसदनमेतच्‍च पतितं पुरः शुष्का वापी तरुरयमितः शीर्णविटपः।
वयं चैते पान्थाः परिकृशदशाभाग्यगतयः समानैः संयोगः कटुरपि मनो मे रमयति॥ २३०॥

अनुगमो यथा—

जरामरणदौर्गत्यव्याधयस्तावदासताम्।
मन्ये जन्मैव धीराणां भूयोभूयस्‍त्रपाकरम्॥ २३१॥

(५०. शमः)

तत्त्वज्ञानादिभिर्मनःकषायोपरमश्शमः। तस्य

जन्म यथा—

स्थितिः पुण्येऽरण्ये सह परिचयो हन्त हरिणैः फलैर्मूलैर्वृत्तिः प्रतिनदि च तल्पानि दृषदः।
इतीयं सामग्री भवति विरतिं संस्पृहयतां नं वा गेहं वा सदृशमुपशान्तस्य मनसः॥ २३२॥

अनुबन्धो यथा—(वैश. १२)

अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः वियोगे को भेदस्त्यजति न जनो यत् स्वयभिमान्।
व्रजन्तः स्वातन्त्र्यात् परमपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति॥ २३३॥

प्रकर्षो यथा—(भल्लटशतकं ६९)

यदाऽऽसीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टिं नारीमयमिदमशेषं जगदपि।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्‍त्रिभुवनमपि ब्रह्म मनुते॥ २३४॥

संपर्को यथा—

अलमतिचपलत्वात् स्वप्‍नमायोपमत्वात् परिणतिविरसत्वात् सङ्गमेन प्रियायाः।
इति यदि शतकृत्वस्तत्त्वमालोचयाम— स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा॥ २३५॥

अनुगमो यथा—(बारा. १.३५)

यन्मीमांसयतः श्रुतीः शतपथाः साक्षात्कृतब्रह्मणो विश्वामित्रमहामुनेरपि च यद् वर्तामहे चेतसि।
अप्युल्लीढकषायपालनधियां सद्यः समाधिश्लथं तत् सङ्गीतकमन्तरेण हृदयं हर्षान्नरीनर्तितम्॥ २३६॥

एते रत्यादयो भावाः शृङ्गारव्यक्तिहेतवः।
कार्त्स्‍न्यादेकोनपञ्चाशद् भेदा एषां प्रकाशिताः॥ २३७॥

जन्मानुबन्धातिशयसम्पर्कानुगमा इति।
युञ्जीत सर्वभावेषु वर्गयोरुभयोरपि॥ २३८॥

यदपि च गदितं प्रकर्षगामी भवति रसो रतिविस्मयादिरेव।
तदपि न समञ्जसं प्रकृष्टाः प्रतिनिजभेदममी हि सर्व एव॥ २३९॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे हर्षादिभावप्रपञ्चको नाम

॥ चतुर्दशः प्रकाशः॥ १४॥

एतत्प्रकाशत्रितयं प्रकाशचतुष्टयात्मेति विभावनीयम्।
षट्‍‌त्रिंशता हन्त यतोऽत्र रक्षां प्रकाशचक्रे सुखमश्‍नुवीत॥

इति रेवाप्रसादस्य काश्यपस्य द्विवेदिनः।
सनातनस्य मे प्राज्ञवर्येषु प्रणयाञ्जलिः॥