अथ
श्रृङ्गारप्रकाशे त्रयोदशः प्रकाशः
रतिप्रकाशनो नाम
तत्त्वज्ञानान्निश्श्रेयसाधिगतौ मोक्षः१। तमीहमानस्य गार्हस्थ्येऽपि तदधिगमयोग्य— ताभिमानो मोक्षश्रृङ्गारः।
धर्मश्रृङ्गारे भारती वृत्तिः, पौरस्त्या प्रवृत्तिः, पाञ्चाली रीतिः, स्वकीया नायिका, धीरोदात्तश्च नायकः, इति।
अर्थश्रृङ्गारे गौडीया रीतिः, औढ्रमागधी प्रवृत्तिः, आरभटी वृत्तिः, सर्वा नायिका, धीरोद्धतश्च नायक इति।
कामश्रङ्गारे वैदर्भी रीतिः, दाक्षिणात्या प्रवृत्तिः, कैशिकी वृत्तिः सर्वा नायिका, धीरललितश्च नायक इति।
मोक्षश्रृङ्गारे लाटीया रीतिः, आवन्त्या प्रवृत्तिः, सात्त्वती वृत्तिः, स्वकीया नायिका, धीरशान्तश्च ‘नायकः इति।
एतेषामपि नायकविशेषाणां चतुर्णामपि च नायिकाविशेषाणां वक्ष्यमाणोत्तमादिस्वभेदोपभेदयोगिनां यथायोगमुत्पद्यते रत्यादिः, स च विभावानुभाव— व्यभिचारिसंयोगैरभिव्यज्यते॥ तत्र—
१. रतेरभीष्टजनोपवनवरमन्दिरादय आलम्बनविभावाः। ऋतुमाल्यविलेपनादयो— ऽनुभावाः। व्यभिचारिणस्तु सम्भोगे हर्षधृतिस्मृतिमतिस्वेदरोमाञ्चगद्गदहासादयः; विप्रलम्भे ग्लानिचिन्तौत्सुक्यावेगविस्मयदैन्यासूयादयो भवन्ति।
२. प्रीतेरभीष्टरूपरसगन्धस्पर्शशब्दपुत्रमित्रादय आलम्बनविभावाः। तदुपभोग— समागमसुखस्मरणादय उद्दीपनविभावाः। सर्वेन्द्रियाणां रोमाञ्चस्वेदस्वरभेदादयो व्यभिचारिणः॥
३. हर्षस्य मनोरथलाभेष्टजनसमागमदेवगुरुभर्तृराजप्रसादादय आलम्बनविभावाः। भोजनाच्छादनादय उद्दीपनविभावाः। नयनवदनप्रसादप्रियभाषणालिङ्गनललित— ताडनादयोऽनुभावाः। हासधृतिस्मृतिमतिगर्वौत्सुक्यावेगचपलतोत्साहजडतादयो व्यभिचारिणः॥ १. प्रकाश एष पदे पदे नष्टमातृकांश: राघवे। २. द्र. पृ. ६१४ एकादशप्रकाशारम्भः। ४. रोमाञ्चस्य स्पर्शभयशीतहर्षक्रोधरोगादयः आलम्बनविभावाः। प्रिया— लिङ्गनायादर्शनादयोऽभिषेकगुणकीर्तनोपकारस्मरणादय उद्दीपनविभावाः। प्रियागात्रस्पर्शनविलोकनादयोऽनुभावाः। हासत्रासविस्मयवितर्कावेगशङ्काऽबहित्थ— व्रीडास्तम्भस्वेदवेपथुस्वरभेदादयो व्यभिचारिणः॥
५. धृतेरष्टैश्वर्यकुलरूपयौवनविद्याबलादय आलम्बनविभावाः। श्रुतविज्ञान— शौचाचारदेवगुरुभक्त्यादयः उद्दीपनविभावाः। प्राप्तविषयोपभोगाप्राप्ताननुशोचना१— दयोऽनुभावः। तृप्तिहर्षादयो व्यभिचारिणः।
६. गर्वस्य२ ऐश्वर्यकुलरूपयौवनधनविद्याबलादय आलम्बनविभावाः। भर्तृसम्भावनोत्तमादरानुरूपनारीप्रार्थनागुणप्रशंसादय उद्दीपनविभावाः। . . . . . प्रश्नोत्तरादानाभाषणोपहसनवाक्पारुष्यधर्षणाधिक्षेपव्यतिक्रमादयोऽनुभावा:। हासोत्साहक्रोधचपलतामर्षादयो व्यभिचारिभावाः॥
७. हासस्य प्रतिज्ञासंप्रलापसौख्यधाष्टर्यकुहकपरचेष्टानुकरणपौरोभाग्यादय आलम्बनविभावाः। नायकसान्निध्यादय उद्दीपनविभावाः। भजनदर्शनसन्दर्शनास्य— रागपार्श्वग्रहणादयोऽनुभावाः। स्मितहसितविहसितोपहसितातिहसितापहसितादयोऽ— नुभावविशेषाः। प्रेमाश्रुचपलतादयो व्यभिचारिणः॥
८. मदस्य मद्योपभोगादय आलम्बनविभावाः। मनोरथावाप्तीष्टदर्शनगीतवाद्य— नृत्तवर्णनादय उद्दीपनविभावाः परुषाभिभाषणव्याकुलवचनमधुरमुखरागहृष्टतनुत्रास— सुकुमाराविष्ट/ललितस्खलितनयनघूर्णनादयोऽनुभावाः। अङ्गग्लान्यसूयाश्रममोहहर्ष— धृतिस्मृतिचपलताश्रुगर्वौत्सुक्यनिद्रामर्षस्तम्भवेपथुरोमाञ्चपुलकादयो व्यभिचारिणः॥
९. मोहस्य३ अवलोकनावस्थावधारणादय आलम्बनविभावाः। संस्कृ/स्तुतप्रदेश— दर्शनेष्टगुणाकर्णनर्तुमाल्यानुलेपनोपनतिप्रभृतय उद्दीपनविभावाः। गुणग्रहण— काकलीगीतादयोऽनुभावाः। निर्वेदग्लानिशङ्काऽऽवेगश्रमदैन्यचिन्तामतिस्मृति— चपलताव्रीडाऽवहित्थजडताविषादोन्मादादयो व्यभिचारिणः॥*
११. चिन्तायाः परद्रव्यापहारदारिद्रयेष्टजनवियोगादय आलम्बनविभावाः। प्रारब्धा— सिद्धिसमीहितानवाप्तिदेशभ्रमणादय उद्दीपनविभावाः। श्वसितसन्तापध्यानाधो— मुख्यतनुभावादयोऽनुभावाः। शोकभयविस्मयविषादनिद्रानिर्वेदग्लानिशङ्का— श्रमदैन्यमोहस्मृतिवैवर्ण्यादयो व्यभिचारिणः॥ १. ॰ननु॰ = ॰नु॰ रा.। २. गर्वस्य रा., स्वेदस्य जो.। ३. जोशेरसंस्करणे मोहो द्विर्निरूपितः। प्रथमं मदचिन्तयोर्मध्ये द्वितीयं वारं च वितर्कक्रोधयोर्मध्ये। द्र. पृ. ७९९। *१०. उत्कण्ठा नोपलभ्यते। १२. स्मृतेः स्वास्थ्यापररात्रप्रबोधसमानदर्शनोदाहरणदैवादय आलम्बनविभावाः। पूर्वानुभूतविषयज्ञानादय उद्दीपनविभावाः। शिरःकम्पनभ्रूसमुन्नमनशून्यावलोकना— ङ्गुलिविभङ्गादयोऽनुभावाः। हासशोकक्रोधोत्साहभयजुगुप्साविषादौत्सुक्यासूयोग्रता— गर्वत्रासवितर्करतिस्तम्भस्वेदरोमाञ्च वेपथुवैवर्ण्याश्रुस्वरभेदादयो व्यभिचारिणः॥
१३. मतेः शास्त्रोपदेशमन्त्राद्यैरर्थनिर्धारणादय आलम्बनविभावाः। विद्यावृद्धसंयोगाध्ययना— ध्यापनतद्विद्यावित्सम्भाषणादय उद्दीपनविभावाः। तत्त्वाभिनिवेशदेशकाला— नुसारणादयोऽनुभावाः। ग्रहणशक्तिविकासादयः सर्वे व्यभिचारिणः॥
१४. वितर्कस्य सन्देहविमर्शविप्रतियत्त्यादय आलम्बनविभावाः। समानानेक— धर्मोपपत्तिप्रतिपत्तिविशेषादय उद्दीपनविभावाः भ्रूविक्षेपमन्त्रसंग्रहणादयोऽनुभावाः। निर्वेदग्लानिशङ्काश्रमविषादविस्मयदैन्यचिन्तामोहस्मृतिमतिव्रीडाऽऽवेगजडतास्तम्भ— स्वेदादयो व्यभिचारिणः॥
१५. उत्साहस्य विस्मयासंमोहाविषादाध्यवसायविशयसाहसादय आलम्बनविभावाः। विनयबलपराक्रमदेशकालशक्तिसम्पत्प्रतापादय उद्दीपनविभावाः। गाम्भीर्यादयोऽ— नुभावाः। क्रोधासूयामर्षचिन्तास्मृतिगर्वावेगरोमाञ्चस्वेदोग्रतौत्सुक्यादयो व्यभिचारिणः॥
१६. क्रोधस्य आक्षेपानृतवचनोपघातवाक्पारुष्याभिद्रोहमात्सर्यादय आलम्बन— विभावाः। ताडनपीडनपाटनभेदच्छेद्यप्रहरणादय उद्दीपनविभावाः। नयनरागभ्रुकुटिदन्तोष्ठपीडनगण्डस्फुरणहस्तनिष्पेषादयोऽनुभावाः। संमोहोत्साहा— मर्षवेगचपलतागद्गदादयो व्यभिचारिणः॥
१७. अमर्षस्य विद्यैश्वर्यधनबलाधिकाराधिकैरधिक्षेपावमानादय आलम्बनविभावाः। स्वावस्थालोकनमधुरालापश्रवणकामिनीप्रोत्साहनादय उद्दीपनविभावाः। शिरःकम्पाधोमुख्यध्यानाध्यवसायोपायसहायान्वेषणादयोऽनुभावाः। क्रोधासूया— तापोग्रताऽऽवेगवैवर्ण्यास्रादयो व्यभिचारिणः॥
१८. असूयायाः परैश्वर्यसौभाग्यमेधाविद्यादय आलम्बनविभावाः। दोषख्यापनगुणो— पघाताच्चक्षुःप्रणिधानाधोमुख्यभ्रुकुटिक्रियादय उद्दीपनविभावाः। अवज्ञापराध— द्वेषवेषकुत्सनादयोऽनुभावाः। हास्यक्रोधाज्ञोपहसितस्वरभेदादयो व्यभिचारिणः॥
१९. ईर्ष्यायाः समानकुलशीलरूपविद्यावयोविभवबलपराक्रमेषु सपत्नीषु च क्रमेण प्रीतिप्रासादस्थानदानमानादय आलम्बनविभावाः। अमर्षादवलोकनादय उद्दीपन— विभावाः। मन्युव्यलीकविप्रियप्रणयकलहोपालम्भादयोऽनुभावाः। क्रोधोत्साह— विस्मयवितर्कदैन्यजुगुप्सामोहनिर्वेदासूयामर्षवेपथुवैवर्ण्याश्रुस्वेदगद्गदादयो व्यभिचारिणः॥
२०. उग्रतायाः चौर्याभिग्रहनृपापराधासम्बद्धप्रलापादय आलम्बनविभावाः। द्रव्यापहारभाराभिनिवेशाऽसहिष्णुतादय उद्दीपनविभावाः। ताडनपीडनवधबन्ध— भर्त्सनास्यरागादयोऽनुभावाः। क्रोधोत्साहविस्मयजुगुप्साऽसूयास्मृतिमतिमोह— चपलताहर्षामर्षमदावेगौत्सुक्यवैवर्ण्या श्रुगद्गदादयो व्यभिचारिणः॥
२१. जुगुप्सायाः सुहृद्यप्रियवाच्यानिष्टश्रवणदर्शनपरिकीर्तनादय आलम्बनविभावाः। तत्स्वरूपविकारक्रियाविपरिणामपरिणामादय उद्दीपनविभावाः। सर्वाङ्गसंहाराक्षि— सङ्कोचमुखविकूणनहृल्लेखनिष्ठीवनोद्वेजनादयोऽनुभावाः। विस्मयनिर्वेदभय— ग्लानिशङ्कामोहस्मृतिजडताऽऽवेगविषादापस्मारव्याधिरोमाञ्चमदवेपथुस्वरभेद— वैवर्ण्याश्रुमूर्च्छाप्रलापादयो व्यभिचारिणः॥
२२. विस्मयस्य असम्भाव्यमानकौतुकमाहेन्द्रजालमानुषकर्मचित्रपुस्तशिल्पविद्याति— शयादय आलम्बनविभावाः। दिव्यजनभाषणोपवनदेवकुलविहारदर्शनादय उद्दीपनविभावाः। नयनविस्तारानिमेषप्रेक्षणभ्रूविक्षेपसाधुवादप्रबन्धहाहाकाराङ्गुलि— भ्रमणादयोऽनुभावाः जडतामोहमूर्च्छादयो व्यभिचारिणः॥
२३. निद्राया दौर्बल्यमुदश्रमक्लमालस्यचिन्ताऽत्याहारस्वभावाभ्यासादय आलम्बन— विभावाः। मनस्सन्तोषनिश्चिन्तताविविक्तस्थानलाभानुकूलोपकरणप्राप्त्यादय उद्दीपनविभावाः। शिरोवेदनगौरवशरीरलोलननेत्रघूर्णनजृम्भणगात्रमर्दनिःश्वसितो— च्छ्वसितस्त्रस्तगात्रताक्षिनिमीलनसर्वाङ्गक्रियादयोऽनुभावाः। दैन्यमोहजडता— ऽपस्मारस्तम्भस्वेदस्वरभेदवेपथुवैवर्ण्यास्त्रादयो व्यभिचारिणः॥
२४. स्वप्नस्य(/सुप्तम्) निद्रादय आलम्बनविभावाः। निद्रादिकारणान्येवोद्दीपनविभावाः। अक्षिनिमीलनोत्स्वप्नायितादयोऽनुभावाः। प्रायेण तु सर्वे रत्यादयो व्यभिचारिणः॥
२५. प्रबोधस्य निद्राच्छेदाहारपरिणामस्वप्नान्ततीव्रशब्दस्पर्शादय आलम्बनविभावाः। प्राग्दृष्टपदार्थावलोकनारब्धस्मरणमित्रादिकार्यगौरवाचारपरिपालनादय उद्दीपन— विभावाः। जृम्भणोन्मेषनिमेषनिमेषाक्षिमर्दनशयनमोक्षाङ्गवलनादयोऽनुभावाः। उत्साहचिन्तास्मृतिमतिस्वरभेदास्त्रादयो व्यभिचारिणः॥
२६. चपलतायाः रागद्वेषमात्सर्येर्ष्यामर्षप्रातिकूल्यादय आलम्बनविभावाः। पदार्थरामणीयकमानोत्कर्षप्रोत्साहनापकारस्मरणादय उद्दीपनविभावाः। वाक्पारुष्य— दण्डपारुष्यार्थदूषणादयोऽनुभावाः। हासक्रोधोत्साहविस्मयजुगुप्साहर्षा— वेगविषादोग्रतात्रासारोमाञ्चवेपथुस्वेदस्वरभेदादयो व्यभिचारिणः॥
२७. आलस्यस्य गर्वमदमान्द्यनैराश्यश्रमक्लमगर्भस्वाभाव्यादय आलम्बनविभावाः। स्त्रस्तगात्रतादयोऽनुभावाः। निर्वेदश्रमविषादनिद्रादैन्यमोहजडताव्याधिस्वेदवेपथु— स्तम्भादयो व्यभिचारिणः॥
२८. भयस्य मतिव्रीडाविषादावहित्थत्रासवितर्करोमाञ्चस्वरभेदवेपथुवैवर्ण्यादयो व्यभिचारिणः॥*
३६. स्वेदस्य धर्मसम्पीडनादय आलम्बनविभावाः। क्रोधभयहर्षादिकारणान्येव उद्दीपनविभावाः। व्यजनग्रहणादयोऽनुभावाः।
३७. व्याधेः उभयानुरागादिकारणसमानी (?) कोपनिपातसन्निपातवातपित्तश्लेष्म— प्रकोपादय उद्दीपनविभावाः। वेपनालस्यप्रभृतयोऽनुभावाः। ग्लानिशङ्कानि— र्वेदमदश्रमदैन्यमोहचिन्ताऽऽवेगजडतावैवर्ण्याश्रुप्रलयादयो व्यभिचारिणः॥
३८. उन्मादस्य इष्टजनवियोगविभवनाशव्यसनाभिघातालाभापथ्यसेवनादय उद्दीपनविभावाः। अनिमित्तहसितरुदितोत्क्रुष्टप्रलयगर्वरत्यादयो व्यभिचारिणः॥
३९. श्रमस्य अतिव्यायामातिभारोत्क्षेपणादय आलम्बनविभावाः। जृम्भणाङ्गमर्दन— मन्दपदोत्क्षेपणालस्यादयोऽनुभावाः१। निर्वेदग्लानिदैन्यचिन्ता व्यभिचारिणः॥
४०. शोकस्य शापक्लेशविनिपातेष्टजनवियोगविभवनाशवधबन्धनदुःखानुभव— विद्रवोपद्रवादय आलम्बनविभावाः। अश्रुपातालस्यविलपितस्त्रस्तगात्रताभूमि— पाताक्रन्दितवेष्टितदीर्घनिःश्वसितमुखशोषमदादयोऽनुभावाः। स्तम्भवेपथुवैवर्ण्या— श्रुस्वरभेदादयो व्यभिचारिणः॥
४१. विषादस्य आरम्भानिस्तरणो उपायचिन्तनोत्साहविघातवैमनस्यालस्यादयो— ऽनुभावाः। स्तम्भस्वेदगद्गदवैवर्ण्यवेपथुप्रभृतयो व्यभिचारिणः॥
४२. वेवर्ण्यस्य शीतक्रोधादय आलम्बनविभावाः। ॰॰कारणान्येवोद्दीपनविभावाः। नयनमुखरागवृत्ति वैमनस्यालस्यादयोऽनुभावाः। ॰॰व्यभिचारिणः॥
४३. दैन्यस्य मनस्तापदौर्गत्यादय आलम्बनविभावाः। सर्वोपायभ्रंशोपभेदजुगुप्सानिर्वेद— ग्लानिचिन्तामोहजडताविषादनिद्रास्तम्भगद्गदवेपथुवैवर्ण्याश्रुप्रभृतयो व्यभिचारिणः॥ १. ॰लस्या॰ = ॰लब्धा(?)॰ रा.। *२९. ‘शङ्का, ३०. त्रासः, ३१. वेपथुः, ३२. व्रीडा, ३३. अबहित्था, ३४ स्तम्भः, ३५. ग्लानिः’ इत्येतेषां विभावादीनां वर्णनं मातृकासु त्रुटितम्। ४४. स्वरभेदस्य कारणान्येवोद्दीपनविभावाः। तारमन्द्रमध्यघर्घरगद्गदविस्वर— स्वनादयोऽनुभावाः। हा . . .(व्यभिचारिणः)॥
४५. आवेगस्य विद्युदुल्कानिर्घातपतनचन्द्रसूर्योपरागकेतुदर्शनभ्रमणवातवर्षा— निकुञ्जरोद्भ्रमणप्रियाप्रियश्रवणदुस्स्वप्नदुर्निमित्तदर्शनव्यसनाभिघातादय आलम्बन— विभावाः। उक्तविषयकीर्तनानुभवनसम्प्रधारणादय उद्दीपनविभावाः।
सर्वाङ्गस्रस्ततावकुण्ठनाक्षिमर्दनत्वरितगमनाङ्गपीडनप्रधावनच्छन्नाश्रयणधूमा— कुलनेत्रताङ्गविधूननत्वरितापसरणपश्चादवलोकनाभ्युत्थानालिङ्गनभूमिशयन— परिदेवितविलापाक्रन्दितदेवतानुस्मरणादयोऽनुभावाः। शोकभयविस्मयशङ्का— श्रमचिन्तामोहवितर्कस्तम्भस्वेदवेपथुवैवर्ण्याश्रुप्रलयादयो व्यभिचारिणः॥
४६. अश्रुणः शोकक्रोधहर्षधूमाञ्जनजृम्भणभयानिमेषप्रेक्षणशीतरोगादय आलम्बन— विभावाः। कार्यकारणानुबन्धप्रबन्धादय उद्दीपनविभावाः। नेत्रसम्मार्जनबाष्पमोक्ष— त्रिविधरोदनादयोऽनुभावाः। तत्रोत्फुल्लकपोलाङ्गनिमीलितास्रमपर्याप्तमुक्तास्रम् अस्वस्थगात्रं स्वनवद्गतचेष्टं संभ्रमिपातविचेष्टितविलापदुःखजं प्रस्फुरितोष्ठकपोलं सनिःश्वासं सशिरःकम्पभ्रूकटाक्षादयो रोदनं चानुभावाः। भयनिर्वेदग्लानिश्रमदैन्य मोहौत्सुक्य त्रासवितर्कस्वेदस्वरभेदस्तम्भरोमाञ्चवेपथुवैवर्ण्यादयो व्यभिचारिणः॥
४७. (मोहस्य/स्नेहस्य)१ अवलोकनावस्थावधारणव्यसनाभिघातभयावेगवैरस्मरणादय आलम्बनविभावाः। २संस्तुतप्रदेशदर्शनेष्टगुणाकर्णनर्त्तुमाल्यानुलेपनोपनतिप्रभृतयः उद्दीपनविभावाः। निश्चैतन्यभ्रमणपतनघूर्णनादर्शनादयोऽनुभावाः। ग्लानिप्रलयादयो व्यभिचारिणः॥)
४८. प्रलयस्य मूर्च्छाश्रमाभिघातनिद्रामोहमदादय आलम्बनविभावाः। श्रमादि— कारणान्येवोद्दीपनविभावः। निश्चेष्टतादयोऽनुभावाः। ग्लानिजडतास्तम्भवैवर्ण्यादयो व्यभिचारिणः॥
४९. जडतायाः इष्टानिष्टश्रवणदर्शनव्याध्यादय आलम्बनविभावाः। तद्रामणीय— कोद्वेजनीय(उद्दीप)नविभावाः कार्याप्रतिपत्त्यकथनाभाषणतूष्णीम्भावानिमेषनिरीक्षणा— दयोऽनुभावाः। निर्वेदग्लानिश्रमदैन्यमोहविषादनिद्रास्तम्भ वैवर्ण्यादयो व्यभिचारिणः॥ १. द्र. सरस्वतीकण्ठाभरणे। २. राघवपाठस्तु—प्रकृतधर्माधर्मक्रोधाशावज्ञादयः इति। मुद्रितस्तु पाठो जोशेरपठितः। जोशेरेण मोहो द्विः प्रदत्तः। स्नेहस्तु स्यात्। ५०. निर्वेदस्य अधिक्षेपक्रोधताडनेष्टजनवियोगवैराग्यादय आलम्बनविभावाः। स स(?) x x x x x रताविभावन शास्त्राभ्यासतत्त्वज्ञानादय उद्दीपनविभावाः। रुदितनिःश्वसि(त) x x x x जुगुप्साश्रमजडतानिद्रास्तम्भशमादयो व्यभिचारिणः॥
५१. शमस्य तत्त्वज्ञानादय आलम्बनविभावाः। योगाभ्यासादय उद्दीपनविभावाः। परं ब्रह्मोपास्तिमतिरोमाञ्चहर्षधृत्यादयो व्यभिचारिणः, इति॥
उक्तः सोऽयं विभावानुभावसञ्चारिसङ्करः।
क्रमेण सर्वभावानां शृङ्गारेषु चतुर्ष्वपि॥ १॥
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः।
सम्भोगो विप्रलम्भश्च शृङ्गारोऽपि द्विधा मतः॥ २॥
समवाये य उद्भूतश्चिरं यश्चावतिष्ठते।
भावः स्थायीति स ज्ञेयो व्यभिचारी ततोऽन्यथा॥ ३॥
अभीष्टालिङ्ग(न—प्रीत—प्रहृष्ट—चिर—स)—गते।
सोऽस्मिन् सम्भोगशृङ्गारो विप्रलम्भो विपर्यये॥ ४॥
विभावो द्विविधश्चात्रालम्बनोद्दीपनात्मकः।
एकोऽनुभवसंस्कारे जनकोऽन्यस्तु स द्विधा/बोधकः॥ ५॥
(रजस्तमोभ्यां सत्त्वस्य)प्रभवेऽभिभवे द्विधा।
अन्तर्बहिश्च भावेऽत्र सहैव व्यभिचारिभिः॥ ६॥
स्मृतीच्छाद्वेषयत्नानामन्तस्सन्तान इष्यते।
मनोवाग्बुद्धिवपुषां बहिरारम्भ एव तु॥ ७॥
जन्मानुबन्धाऽतिशयानुषङ्गानुगमप्रसूः।
विभावश्चानुभावश्च व्यभिचारीव पूर्वके॥ ८॥
विभावाज्जन्म भावानां उद्दीपनविभावतः।
अनुबन्धोऽनुभावेभ्यः प्रकर्ष उपजायते॥ ९॥
भावान्तरानुषङ्गस्तु स्थायिनोपद्रवे सति।१
सम्पर्कस्तु तयोस्तुल्यबलभावोत्तरो(ऽनुगः) . .॥ १०॥
जन्मानुबन्धातिशयानुषङ्गात् ततः परं सानुगमात् क्रमेण।
भावेषु तल्लक्षणलक्ष/क्ष्ययोगात् पञ्च प्रपञ्चान् उपवर्णयामः॥ ११॥
१. इतः परं ‘सम्पर्कस्तु॰॰ उपवर्णयाम’ इति पादषट्कं जोशेरसंस्करणे न दृश्यते। जोशेर—राघवयोः ४९—भावक्रमः
जोशेरः राघवः जोशेरः राघव १. अमर्षः १६ १९ २६. मदः ८ ९ २. अश्रु २७ ४४ २७. मोहः ९ ४५ ३. असूया १७ २० १४ xx ४. आलस्यम् २५ ३० २८. रतिः १ १ ५. आवेगः २६ ४२ २९. रोमाञ्च ४ ४ ६. ईर्ष्या १८ २१ ३०. वितर्क १३ १५ ७. उग्रता XX २२ ३१. विषादः XX ३८ ८. उत्साहः XX १६ ३२. विस्मयः २० २४ ९. उन्मादः XX ३४ ३३. वैवर्ण्यम् XX ३९ १०. क्रोधः १५ १८ ३४. व्याधिः XX ३३ ११. गर्वः XX ६ ३५. शमः ३२ ४९ १२. ग्लानिः XX १० ३६. शोकः XX ३७ १३. चपलता २४ २८ ३७. श्रमः XX ३६ १४. चिन्ता १० १२ ३८. स्मृतिः १० १३ १५. जडता २९ ४७ ३९. स्वप्न २२ २६ १६. जुगुप्सा १९ २३ ४०. स्वरभेद XX ४१ १७. दैन्यम् XX ४० ४१. स्वेद ६ ३३ १८. धृतिः ५ ५ ४२. हर्षः ३ ३ १९. निद्रा २१ २५ ४३. हासः ७ ८ २०. निर्वेदः XX ४८ ४४. मोहः १४ XX २१. प्रबोधः २३ २७ ४५. अस्पष्ट XX ७ २२. प्रलयः २८ ४६ ४६. " XX ११ २३. प्रीतिः २ २ ४७. " XX १७ २४. भयम् XX ३१ ४८. " XX २९ २५. मतिः १२ १४ ४९. " XX ४३
शृङ्गारविभावहेतवः — शृङ्गारप्रभवा एव। ते रत्यादयो भावा एकोनपञ्चाशदिति यदुक्तं (पृ. ६१४) नाधिकाः, न न्यूनाः’ इति; तत्र—
(१. रतिः —८)
मनोऽनुकूलेष्वात्मनः सुखानुभवो रतिः।
सा चाष्टधा— नैसर्गिकी, सांसर्गिकी, आभियोगिकी, आध्यात्मिकी, औपमानिकी, वैषयिकी, साम्प्रयोगिकी, आभिमानिकी चेति।
(१.१ नैसर्गिकी)
जन्मान्तरवासना निसर्गः, तदुत्था नैसर्गिकी।
सा च जाता, अनुबन्धिनी प्रवृद्धा, संवृत्ता, अनुवर्तिनी चेति पञ्चधा। तत्रालम्बनविभावादुत्पन्नमात्रा जाता। यथा—
इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी।
अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति॥
(कुसं. ५.५३) उत्पत्तेरनन्तरमुद्दीपनैरुद्दीप्यमाना सानुबन्धत्वादनुबन्धिनी; यथा—(कुसं. ५.६४)
यथाश्रुतं वेदविदां वर ! त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते॥ १३॥
सत्यनुबन्धे संस्कारस्यानवरतप्रबोधात् स्मरणेच्छाद्वेषप्रयत्नजन्मभिर्मनोवाग्बुद्धि— शरीराङ्गै(रम्भै)रनुभावैस्सञ्चारिभिस्संसृज्यमाना प्राप्तप्रकर्षावस्था प्रवृद्धा; यथा—
अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु वः।
ममात्र भावैकरसं मनस्स्थितं न कामवृत्तिर्वचनीयमीक्षते॥ १४॥
अथ पृथगालम्बनाऽनुभवसंस्कारोद्दीपनस्मृत्यादिजन्मानुभवसञ्चारिसंभवे तुल्यबल— भावन्तरसंपर्कीणी संपृक्ता; यथा—
सन्तापसन्ततिमहाव्यसनाय तस्यामासक्तमेतदनपेक्षितहेतु चेतः।
प्रायश्शुभं च विदधात्यशुभं च जन्तोस्सर्वङ्कषा भगवती भवितव्यतैव॥ १५॥
बलीयसा भावान्तरेणाभिभूतापि, संस्कारमात्रेणानुवर्तत इत्यनुवर्तिनी; यथा—
शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समीक्ष्य ललितं वपुरात्मनश्च।
सख्योस्समक्षमिति चाक्षिकजातलज्जा शून्या जगाम भवनाभिमुखी कथञ्चित्॥ १६॥
(कुसं. ४.७५) (१.२ सांसर्गिकी)
संसर्गे भवा सांसर्गिकी।
सा च पूर्ववदेव जातादिभेदात् पञ्चधा। तत्र—
जाता यथा—(मेघ.१०४)
भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रतिसुरभयो दक्षिणेन प्रवृत्ताः।
आलिङ्ग्यन्ते गुणवति ! मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति॥ १७॥
अनुबन्धिनी यथा—(कुन्द. ४.२०)
द्यूते पणः प्रणयकेलिषु कण्ठपाशः क्रीडापरिश्रमहरं व्यजनं रतान्ते।
शय्या निशीथकलहे हरिणेक्षणायाः प्राप्तं मया विधिवशादिदमुत्तरीयम्॥ १८॥
प्रवृद्धा यथा—
आयाते दयिते मरुस्थलभुवां सञ्चिन्त्य दुर्लङ्घतां गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे।
दत्त्वा पीलुशमीकरीरकवलं चेलाञ्चलेनादरा— दुन्मृष्टं करभास्यकेसरसटाभाराग्रलग्नं रजः॥ १९॥
संपृक्ता यथा—(उराच. २.२८)
यस्यां ते दिवसास्तया सह तथा नीताः पुनः/यथा स्वे गृहे यत्संबन्धकथाभिरेव नियतं दीर्घाभिरस्थीयत।
एकस्संप्रति नाशितप्रियतमस्तामेव पापः कथं रामः पञ्चवटीं विलोकयतु वा गच्छत्वसंभाष्य/व्य वा॥ २०॥
अनुवर्तिनी यथा—(किराता. ८.३७)
प्रियेण संगृह्य विपक्षसन्निधावुपाहितां वक्षसि पीवरस्तने।
स्रजं न काचिद् विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि॥ २१॥
(१.३ आभियोगिकी)
अभियोगप्रभवा आभियोगिकी। सापि पञ्चधा। तत्र जाता यथा—(मामा. १.३०)
स्तिमितविकासितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम्।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम्॥ २२॥
अनुबन्धिनी यथा—(मामा. १.३१)
अलसवलितमुग्धस्निग्धनिस्स्पन्दमन्दै— रधिकविकसदन्तर्विस्मयस्मेरतारैः ।
हृदयमशरणं मे पक्ष्मलाक्ष्या कटाक्षै— रपहृतमपविद्धं पीतमुन्मूलितं च॥ २३॥
प्रवृद्धा यथा—(मामा. १.४३)
पश्यामि तामितइतः पुरतश्च पश्चा— दन्तर्बहिः परित एव विवर्तमानाम्।
उद्धुद्धमुग्धकनकाब्जनिभं वहन्ती— मासङ्गतिर्यगपवर्तितदृष्टिवक्त्रम् ॥ २४॥
संपृक्ता यथा—(मामा. १.३२)
यान्त्या मुहुर्विलुलिताधरमाननं तद् आवृत्तवृन्तशतपत्रनिभं वहन्त्या।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः॥ २५॥
अनुवर्तिनी यथा—(मामा. ४.१)
यद् व्यालव्रणितसुहृत्प्रमोहमुग्धं सौजन्याद् विहितवती गतव्यथ माम्।
तत्कामं प्रभवति पूर्णपात्रवृत्त्या स्वीकर्तुं मम हृदयं च जीवितं च॥ २६॥
(१.४ आध्यात्मिकी)
अध्यात्मभवा आध्यात्मिकी। आत्मैव तामनुभवति, न चक्षुरादय इत्यर्थः। सापि पञ्चधा। तत्र—
जाता यथा—(शाकु. ५.१३)
का स्विदवकुण्ठनवती नातिपरिस्फुटशरीरलवाण्या।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥ २७॥
अनुबन्धिनी यथा—(विक्रमो. ४.३९)
तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद् विश्रान्तपुष्पोद्गमा।
नूनं मौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा॥ २८॥
प्रवृद्घा यथा—(शाकु. ५.२३)
मय्येवमस्मरणदारुणचित्तवृत्तौ वृत्तं रहःप्रणयमप्रतिपद्यमाने।
भेदाद् भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरसनमिवातिरुषा स्मरस्य॥ २९॥
संपृक्ता यथा—(शाकु. ५.१९)
इदमुपगतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्नवेत्यव्यवस्यन्।
भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु परिभोक्तुं नापि शक्नोमिहातुम्॥
अनुवर्तिनी यथा—(शाकु. ५.३१)
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम्।
बलवत्तु दूयमानं प्रत्यायतीव मां चेतः॥ ३१॥
(१.५ औपमानिकी)
. . . . औपमानिकी। सापि पञ्चधा। तत्र जाता यथा—(मेघ. १०१)
श्यामास्वङ्गं, चकितहरिणीप्रेक्षिते दृष्टिपातं वक्त्रच्छायां शशिनि, शिखिनां बर्हभारेषु केशान्।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन् क्वचिदपि न ते चण्डि ! सादृश्यमस्ति॥ ३२॥
अनुबन्धिनी यथा—(मेघ. १०२)
त्वामालिख्य प्रणयकुपितां धातुरागैश्शिलाया— मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।
असस्रस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्न्निपि न सहते सङ्गमं नौ कृतान्तः॥ ३३॥
प्रवृद्धा यथा—(उराच. ६.२६)
अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिव शिशुयुग्मे नैपुणोन्नेयमस्ति।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णोरभिनवशतपत्रश्रीमदास्यं प्रियायाः॥
संपृक्ता यथा—(शाकु. २.३)
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु।
सह वसतिमुपेत्य यैः प्रियायाः कृत इव मृग्धविलोकितोपदेशः॥ ३५॥
अनुवर्तिनी यथा—(रामाभ्युदये)
यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी।
येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गताः त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥ ३६॥
(१.६. वैषयिकी)
विषयेभ्यो भवा वैषयिकी। सापि प्रञ्चधा शब्दस्पर्शरूपरसगन्धभेदात्। तत्र— शब्दे जाता यथा—
विलासमसृणोल्लसन्मुसललोलदोः कन्दली— परस्परपरिस्खलद्वलयनिस्स्वनोद्दन्तुराः।
हरन्ति कलहुंकृतिप्रसभकम्पितोरस्स्थल— त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः॥ ३७॥
अनुबन्धिनी यथा—(रत्ना. २८)
दुर्वारां मदनशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरस्सखीनाम्।
तद्भूयः शुकशिशुशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति॥ ३८॥
प्रवृद्धा यथा—(मामा. ६.८)
म्लानस्य जीवकुसुमस्य विकासनानि संतर्पणानि सकलेन्द्रियमोहनानि।
आनन्दनानि हृदयैकरसायनानि (दिष्ट्या मया) परिगतानि वचोऽमृतानि॥ ३९॥
संपृक्ता यथा—(मामा. ६.९)
नैराश्यकातरधियो हरिणेक्षणायाः श्रुत्वा निकामकरुणं च मनोहरं च।
वात्सल्यदे/मोहपरिदेवितमुद्वहामि चिन्ताविषादविपदं च महोत्सवं च॥ ४०॥
अनुवर्तिनी यथा—(कुसं. ३.३८)
गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्वासितपत्रशोभं (लेखम्)।
पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्ब॥ ४१॥
स्पर्शे जाता यथा—(काव्याद. २.११)
बध्नन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम्।
नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते॥ ४२॥
अनुबन्धिनी यथा—(मामा. ४.८)
तन्मे मनः क्षिपति यत्सरसप्रहारमालेक्य मामगणितस्खलदुत्तरीया।
त्रस्तैकहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः॥ ४३॥
प्रवृद्धा यथा—(उराच. १.३५)
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमादो प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च संमीलयति च॥ ४४॥
संपृक्ता यथा—(विक्रमो. ४.६८)
समर्थये यत् प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा।
अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभावितप्रियः॥ ४५॥
अनुवर्तिनी यथा—(विक्रमो. ३.१३)
यदयं रथसंक्षोभादंसेनांसो निपीडितः।
एकः कृती शरीरेऽस्मिन् शेषमङ्गं भुवो भरः॥ ४६॥
रूपे जाता यथा—(कुसं. ३.६७)
हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि॥ ४७॥
अनुबन्धिनी यथा—(मामा. १.३९)
जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ ४८॥
प्रवृद्धा यथा—(मामा. ५.९)
संभूयेव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्राप्नोति नेत्रोत्सवः।
यद्वालेन्दुकलोच्चयादपचितैः सारैरिवोत्पादितं तत् पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्॥ ४९॥
संपृक्ता यथा—
कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रमलम्।
मुहुः पश्यन् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिबृढः॥ ५०॥
अनुवर्तिनी यथा—(मामा. २.२४)
न्यस्तालक्तकरक्तमाल्यवसना पाषाण्डचण्डालयोः पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम्।
सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक् कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः॥ ५१॥
रसे जाता यथा—
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः।
कस्य नो कुरुते मुग्धे पिपासाकुलितं मनः॥ ५२॥
अनुबन्धिनी यथा—(शाकु. ३.२१)
अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन।
अधरस्य पिपासता मया ते सदयं सुन्दरि ! गृह्यते रसोऽस्य॥ ५३॥
प्रवृद्धा यथा—(शाकु. ३.२२)
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लबाभिरामम्।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु॥ ५४॥
संपृक्ता यथा—
शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत् तपः।
तरुणि ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः॥ ५५॥
अनुवर्तिनी यथा—
निरानन्दः कौन्दे मधुनि विधुरो बालवकुले न साले सालम्बो लवमपि लवङ्गे न रमते।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरंल्लक्ष्मीलीलाकमलमधुपानं मधुकरः॥ ५६॥
गन्धे जाता यथा—(मामा. ७.५)
प्रासादानामुपरि वलभीजालवातायनेभ्यो भ्रान्तावृत्तिः परिणतसुरागन्धसम्पर्कहृद्यः।
माल्यामोदी मुहुरुपचितस्स्फारकर्पूरवासो वायुर्यूनामभिमतवधूसन्निधानं व्यनक्ति॥ ५७॥
अनुबन्धिनीं यथा—(रघु. ३.३)
तदाननं मृत्सुरभि क्षितीश्वरो रहः समाघ्राय न तृप्तिमाययौ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम्॥ ५८॥
प्रवृद्धा यथा—(माघ. ६.१२)
सुरभिणि श्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे।
अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे॥ ५९॥
संपृक्ता यथा—(कुसं. ८.७६)
आर्द्रकेसरसुगन्धि ते मुखं मत्तमत्तनयनं स्वभावतः।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि ! मदः करिष्यति॥ ६०॥
अनुवर्तिनी यथा—
गेहाजिरेषु नवशालिकणावपातगन्धानुभावसुभगेषु कृषीवलानाम्।
आनन्दयन्ति मुसलोल्लसनावधूतपाणिस्खलद्वलयपद्धतयो वधूभ्यः॥ ६१॥
(१.७ साम्प्रयोगिकी)
संप्रयोगप्रयोजना साम्प्रयोगिकी। सापि पञ्चधैव। तत्र जाता यथा—
उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु॥ ६२॥
अनुबन्धिनी यथा—
उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुं विमुञ्च म म मेति च मन्दं जल्पितं जयति मानवतीनाम्॥ ६३॥
प्रवृद्धा यथा—
धन्यास्स्थ याः कथयथ प्रियसङ्गमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः ! शपामि यदि किञ्चिदपि स्मरामि॥ ६४॥
संपृक्ता यथा—
अद्यापि तत् कनककुण्डलघृष्टगण्ड— मास्यं स्मरामि विपरीतरताभियोगे।
आन्दोलनश्रमजलस्फुटघर्मबिन्दु— मुक्ताफलप्रकरविच्छुरितं प्रियायाः॥ ६५॥
अनुबन्धिनी यथा, उत्तरचरिते चित्रदर्शनान्तरं रामस्य—(उराच. १.२७)
किमपि किमपि मन्दं मन्दमासत्तियोगा— दविरलितकपोलं जल्पतोरक्रमेण।
सपुलकपरिम्भव्यापृतैकैकदोष्णो— रविदितगतयामा रात्रिरेव व्यरंसीत्॥ ६६॥
(१.८ आभिमानिकी)
अभिमानप्रभवा आभिमानिकी। सापि पञ्चधा। तत्र जाता यथा—(उराच. २.१९)
अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥ ६७॥
अनुबन्धिनी यथा—
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ ६८॥
प्रवृद्धा यथा—(उराच. १.३९)
अद्वैधं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु यद् विस्रम्भो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कालेनावरणात्ययात् परिणते यत् स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत् प्राप्यते॥ ६९॥
सम्पृक्ता यथा—(उराच. १.३८)
इयं गेहे लक्ष्मीरियममृतवर्त्तिर्नयनयो— रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदिपरमसह्यस्तु विरहः॥ ७०॥
अनुवर्तिनी यथा—(रघु. १५.६१)
श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः।
अनन्यजानेरासीद् यत् सैव जाया हिरण्मयी॥ ७१॥
(२. प्रीतिः —८)
रतिरेव असंप्रयोगप्रयोजना प्रीतिः। सापि साम्प्रयोगिकीं विना आभ्यासिक्या सह रतिवदष्टप्रकारैव। पुनश्च जातादिभेदात् प्रत्येकं पञ्चधा। अत्र (२.१) नैसर्गिकी
जाता यथा— (शाकु. ७.१७)
आलक्ष्यदन्तमुकुलाननबद्धहासैरव्यक्तवर्णरमणीयवचः प्रवृत्तीन्।
अङ्कागतान् प्रणयिनस्तनयान् वहन्तो धन्यास्तदङ्गरजसा परुषीभवन्ति॥ ७२॥
अनुबन्धिनी यथा—(विक्रमो.५.१२)
इयं ते जननी प्राप्ता त्वदालोकनतत्परा।
स्नेहप्रस्रवनिर्भिन्नमुद्वहन्ती स्तनांशुकम्॥ ७३॥
प्रकृष्टा यथा—(रघु. ३.२६)
तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि।
उपान्तसम्मीलितलोचनो नृपश्चिरात् सुखस्पर्शरसज्ञतां ययौ॥ ७४॥
सम्पर्किणी यथा—
अपरिष्वज्य भरतं नास्ति मे गच्छतो धृतिः।
अस्मद्वियोगदुःखान्तं न त्वेनं द्रष्टुमुत्सहे॥ ७५॥
अनुगामिनी यथा—(विक्रमो. ५.१४)
अहं हि पुत्रिणामग्र्यः सत्पुत्रेण तवामुना।
पौलोमीसम्भवेनेव जयन्तेन पुरन्दरः॥ ७६॥
(२.२) सांसर्गिकी
जाता यथा—(उराच. १.३२)
दिष्ट्या सैष महाबाहुरञ्जनानन्दवर्धनः।
यस्य वीर्येण कृतिनो वयं न भुवनानि च॥ ७७॥
अनुबन्धिनी यथा—(उराच. १.९)
विश्वम्भरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते।
तेषां वधूस्त्वमसि नन्दिनि ! पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च॥
प्रकृष्टा यथा—(मवीच. १.२१)
उत्पत्तिर्देवयजनाद् ब्रह्मवादी नृपः पिता।
सुप्रसन्नोज्ज्वला मूर्तिरस्याः स्नेहं करोति मे॥ ७९॥
संपृक्ता यथा—(विक्रमो. १.१४)
यावत् पुनरियं सुभ्रूरुत्सुकाभिः समुत्सुका।
सखीभिर्याति संयोगं लताभिश्श्रीरिवार्तवी॥ ८०॥
अनुबन्धिनी यथा—(रघु. १३.७२)
लङ्केश्वरप्रणति/यभङ्गदृढव्रतं तद् वन्द्यं युगं चरणयोर्जनकात्मजायाः।
ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधोरन्योपावनमभूदुभयं समेत्य॥ ८१॥
(२.३) आभियोगिकी
जाता यथा—(शाकु. ७.२६)
पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्यन्तं इत्यभिमतो भुवनस्य भर्ता।
चापेन यस्य विनिवर्तितकर्मजातं तत्कोटिमत्कुलिशमाभरणं मघोनः॥ ८२॥
अनुबन्धिनी यथा—(रघु. १३.७२)
दुर्जातबन्धुरयमृक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता।
इत्यादरेण कथितौ रघुनन्दनेन व्यत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे॥ ८३॥
प्रकृष्टा प्रवृद्धा यथा—(उराच. ३.२४)
ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः स्फुटितकमलामोदप्रायाः प्रया/वान्तु वनानिलाः।
कलमविरलं रजयत्कण्ठाः क्वणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः॥ ८४॥
संपृक्ता यथा—(वारा. ७.४०.२३)
तदङ्गेषु जरां यातु यत् त्वयोपकृतं मम।
नरः प्रत्युपकाराणामापत्सु लभते फलम्॥ ८५॥
अनुगामिनी यथा—(शाकु. ७.२)
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन।
आमृष्ट—वक्षो—हरिचन्द्रनाङ्का मन्दारमाला हरिणा पिनद्धा॥ ८६॥
(२.४) आध्यात्मिकी
जाता यथा—(किराता. ११.८)
परितस्तं पृथासूनुर्लोभेन परितस्तेर।
अविज्ञातेऽपि बन्धौ हि बलात् प्रह्लादते मनः॥ ८७॥
अनुबन्धिनी यथा—(विक्रमो. ५.९)
बाष्पान्विता निपतिता मम दृष्टिरस्मिन् वात्सल्यबन्धि हृदयं मनसः प्रमोदः।
सञ्जातवेपथुभिरुज्झितधैर्यवृत्तिरिच्छामि चैनमदयं परिरब्धुमङ्गैः॥ ८८॥
प्रकृष्टा यथा—(शाकु. ७.१९)
अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैतत्।
कां निर्वृतिं चेतसि तस्य कुर्याद् यस्यायमङ्गात् कृतिनः प्रारूढः॥ ८९॥
संपृक्ता यथा—(उराच. ६.११)
विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन— स्तदौद्धत्यं क्वापि व्रजति विनयः प्रह्वयति माम्।
झटित्यस्मिन् दृष्टे किमपि परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः॥ ९०॥
अनुगामिनी यथा—(उराच. ५.१६)
यदृच्छासंवादः किमु गुणगणानामतिशयः पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः।
निजो वा सम्बन्धः किमु विधिवशात् कोऽप्यविदितो ममैतस्मिन् दृष्टे हृदयमवधानं रचयति॥ ९१॥
(२.५) औपमानिकी
जाता यथा—(उराच. ५.३)
मुनिजनशिशुरेकः सर्वतः संप्रकोपान्नव इव रघुवंशस्याप्रसिद्धः/द्धि-प्ररोहः।
दलितकरिकपोलग्रन्थिटङ्कारघोरज्वलितशरसहस्त्रः कौतुकं मे करोति।
अनुबन्धिनी यथा—(उराच. ४.१९)
कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो वटुपरिषदं पुण्यश्रीकश्श्रियैव सभाजयन्।
पुनरिव शिशुर्भूत्वा वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम्॥ ९३॥
प्रकृष्टा यथा—(उराच. ४.२२)
वत्सायाश्च रघूद्वहस्य च शिशावस्मिन्नभिव्यज्यते सम्पृक्तिः प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः।
सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ हा हा देवि ! किमुत्पथैर्मम मनः पारिप्लवं धावति॥ ९४॥
संपृक्ता यथा—(उराच. ५.४)
अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम्।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरति॥ ९५॥
अनुगामिनी यथा—(उराच. ५.१७)
तदाकाराधिकाकारमालिङ्ग्य त्वां सुदुर्लभम्।
वत्सच्छद्मा पुनर्वत्सस्स एवालिङ्ग्यते मया॥ ९६॥
(२.६) वैषयिकी पुनः पञ्चधा। तत्र—
शब्दे जाता यथा—(उराच. ५.१७)
एते ते कुहरेषु गद्गदनद्गोदावरीवारयो मेघालिङ्गिततुङ्गनीलशिखराः क्षीणीभृतो दक्षिणाः।
अन्योन्यप्रतिघातसंकुलदलत्कल्लोलकोलाहलै— रुतालास्त इमे गभीरपयसः पुण्याः सरित्सङ्गमाः॥ ९७॥
अनुबन्धिनी यथा—
नाधन्यैः क्षणदाविराममधुराः किञ्चिद्विनिद्रालस— श्रोत्रैकव्रमुग्धचारणवधूदन्तच्छादायासिनः ।
श्रूयन्ते मृदुपीतवक्त्रमरुतः पौराणरीतिक्रम— व्यालोलाङ्गुलिरुद्धमुक्तसुषिरश्रोणीरवा वेणवः॥ ९८॥
प्रकृष्टा यथा—
अव्यात् स्वर्लोकचूडामणिपटलशिखाश्रेणिशोणीकृताङ्घ्रौ क्षोणीभारं विनेतुं जठरजुषि जगद्बान्धवे देवकी वः।
राज्ञामुद्दामदोष्णां रणशिरसि लसत्कीकसच्छेदभीमाः शस्त्राणां क्वाणकाराः प्रतिहितगुरवो यच्छ्रुते/र्दोहदो/नोऽभूत्॥ ९९॥
संपृक्ता यथा—(उराच. ६.१७)
अथ कोऽयमिन्द्रमणिमेचकच्छविर्ध्वनिनैव बद्धपुलकं करोति माम्।
नवनीलनीरधरधीरगर्जितक्षणलब्धकुट्मलकदम्बदन्तुरम्॥ १००॥
अनुगामिनी यथा—(मामा. ६.४)
अस्माकमेकपद एव मरुद्विकीर्णजीमूतजालरसितानुकृतिर्निनादः।
गम्भीरमङ्गलमृदङ्गसहस्रजन्मा शब्दान्तरग्रहणशक्तिमपाकरोति॥ १०१॥
स्पर्शे जाता यथा—(कुसं. १.१५)
भागीरथीनिर्झरशीकराणां वोढा मुहुः कम्पितदेवदारुः।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः॥ १०२॥
अनुबन्धिनी यथा—(माघ. १३.१६)
इह/भ—तुङ्गकुम्भघटितेतरेतरस्तनभारदूरविनिवारितोदरम्/राः।
परिफुल्लेगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः॥ १०३॥
प्रकृष्टा यथा—(उराच. ६.८)
दिनकरकुलचन्द्र चन्द्रकेतो ! सरभसमेहि दृढं परिष्वजे त्वाम्।
तुहिनशकलशीतलैस्तवाङ्गैः शममुपयातु ममापि चित्तदाहः॥ १०४॥
संपृक्ता यथा—(मामा. ९.३८)
तदेतदसितोल्लसद्द्युति शरीरमस्मिन्नभू— न्ममापि दृढपीडनैरपि न तृप्तिरालिङ्गनैः।
यदुल्लसितविभ्रमाञ्चितनिपीतवत्यः पुरा नवप्रणयविभ्रमाकुलितमालतीदृष्टयः ॥ १०५॥
अनुगामिनी यथा—(शाकु. ४.११)
रम्यान्तरः कमलिनीभरितैस्सरोभिश्छायाद्रुमैर्नियमितार्कमयूरखतापः।
भूयात् कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः॥
रूपे जाता यथा—(मामा. ७.५)
अयमभिनवमेघश्यामलोत्तुङ्गसानु— र्मदमुखरमयूरीमुक्तसंसक्तकेकः ।
शकुनिशबलनीलानोकहस्निग्धवर्षा/र्ष्मा वितरति बृहदशमा पर्वतः प्रीतिमक्ष्णोः॥ १०७॥
अनुबन्धिनी यथा—(विसा.१.२५, बारा.५.३८)
साम्यं संप्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकै— र्बाह्लीकीदशनव्रणारुणदलैः पुष्पैरशोकोऽर्चितः।
हूणीनां कुरुते मधूककुसुमं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरः॥ १०८॥
प्रकृष्टा यथा—
पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलक्तकलोहिनीभिः।
गोरोचनाहरितबभ्रुबहिःपलाशमामोदते कुमुदमम्भसि पल्वलस्य॥ १०९॥
संपृक्ता यथा—
अभीकपीतान्तिकधूसरेभ्यो गर्भस्थताम्बूलरसारुणेभ्यः।
परिश्रमं कर्षति काञ्चनारं पाञ्चालनारीदशनच्छदेभ्यः॥ ११०॥
अनुगामिनी यथा—
तिक्ताविलासान्यधुना पुराणमाञ्जिष्ठचेलच्छविधूसराणि।
अलम्बुसायाः कुसुमानि सीम्नि लोलन्ति मन्दं मरुदाहतानि॥ १११॥
रसे जाता यथा—
उच्छ्वस्योच्छ्वस्य दीर्घं कथमपि शनकैः पाटलागन्धगम्यं प्रभ्रष्टं कर्करीतः स्फुटसितसिकतासेकसत्कर्णिकायाः।
दुराद् धारानिपातप्रविततकणिकासिच्यमानानेन स्वच्छं धन्येन वारि द्रुततुहिनजडं पीयते पाणिनैव॥ ११२॥
अनुबन्धिनी यथा—
इक्षुदण्डस्य मद्य/ण्डस्य दध्नः पिष्टकृतस्य च।
वराहस्य च मांसस्य सैष गच्छति फाल्गुनः॥ ११३॥
प्रकृष्टा यथा—(मवीच. ३.२)
संज्ञप्यते वत्सतरी सर्पिष्यन्नं च पच्यते।
श्रोत्रिय ! श्रोत्रियगृहानागतोऽसि जुषस्व नः॥ ११४॥
संपृक्ता यथा—(माघ. ३.८१)
लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः॥ ११५॥
अनुगामिनी यथा—(रघु.४.६५)
विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम्।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु॥ ११६॥
गन्धे जाता यथा—(कुसं. १.९)
कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम्।
यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति॥ ११७॥
अनुबन्धिनी यथा—
वान्ति कह्लारसुभगाः सप्तच्छदसुगन्धयः।
शेफालीकलिकाकोशकषायामोदिनोऽनिलाः॥ ११८॥
प्रकृष्टा यथा—
असेसइह्लादं सदरुंमिइ अणेहिं मुहेहिं।
अङ्घ आहरपुरओणअअ वसागंधगब्भिमा सिहिचाळा(?)॥ ११९॥
संपृक्ता यथा—
मूले वृन्तं तदनु चिपिटं कुब्जपृष्ठं च किञ्चिद्— व्यावृत्तान्तच्छदमथ ततः श्लिष्टमुत्पिञ्जलाग्रम्।
वातोद्धूतादवनमुखं बन्धिनीमुक्तसन्धे— र्गन्धान्धाळिस्खलितकुसुमं पाटलं पाटलायाम्(?)॥ १२०॥
अनुगामिनी यथा—
शून्यग्रामटिकोपकण्ठरचितक्षुद्रैककूपीपयः— पर्यासाहितसेकशाकिकहरित्कच्छप्रदेशोद्भवाः।
अस्मिन् हन्त ! हरन्ति हालिकरतक्रीडाविमर्दस्फुटत्— पक्वोर्बारुकगन्धगन्धितजरद्गोमायवो वायवः॥ १२१॥
(२.७) आभ्यासिकी(/साम्प्रयोगिकी)
जाता यथा—(शाकु. २.५)
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामुपलक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः॥ १२२॥
अनुबन्धिनी यथा—(रघु. ९.६३)
व्याघ्रानभीराभिमुखोत्पतितान् गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान्।
शिक्षाविशेषलघुहस्ततया निमेषात् तूणीचकार शरपूरितवक्त्ररन्ध्रान्॥
प्रकृष्टा यथा—(रघु. ९.६९)
इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धराधिपम्।
परिवृद्धरागमनुबद्धसेवया मृगया जहार चतुरेव कामिनी॥ १२४॥
संपृक्ता यथा—(रघु. ९.६७)
अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः॥ १२५॥
अनुगामिनी यथा—(शाकु. २.६)
गाहन्तां महिषां निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु।
विस्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः॥ १२६॥
(२.८) अभिमानिकी
जाता यथा— (उराच. ५.२)
किरति कलितकिञ्चित्कोपरज्यन्मुखश्री— रविरतगुणगुञ्जत्कोटिना कार्मुकेण।
समरशिरसि चञ्चत्पञ्चचूडश्चमूना— मुपरि शरतुषारं कोऽप्ययं वीरपोतः॥ १२७॥
अनुबन्धिनी यथा—
हेरम्बदन्तमुसलोल्लिखितैकभित्ति वक्षो विशालविशिखव्रणलाञ्छितं मे।
रोमाञ्चकञ्चुकितमद्भुतवीरलाभात् सत्यं ब्रवीमि परिरब्धुमिवेच्छति त्वाम्॥ १२८॥
प्रकृष्टा यथा—(उराच. ६.१८)
दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्ततादा मनो— र्दृप्तानां दमनाय दीपितनिजक्षात्रप्रतापाग्निभिः।
आदित्यैर्यदि विग्रहो नृपतिभिः सद्यो ममैतत् ततो दीप्ताग्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः॥ १२९॥
संपृक्ता यथा—(वेसं. ४.१)
राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च।
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग् वक्षसः॥ १३०॥
अनुगामिनी यथा—(विक्रमो. २.१६)
मया नाम जितं यस्मात् त्वयाऽयं समुदीर्यते।
जयशब्दः सहस्राक्षादागतः पुरुषान्तरम्॥ १३१॥
सैष भावो रतिर्नाम कामकल्पद्रुमाङ्कुरः।
सौहृदाङ्कुरकन्दश्च द्विप्रकारोऽपि दर्शितः॥ १३२॥
भावान्तरेभ्यः सर्वेभ्यो रतिभावः प्रकृष्यते।
कविवर्गः समग्रोऽपि तमेनमनुधावति॥ १३३॥
निसर्गसंसर्गमुखैः प्रभेदैर्जन्मानुबन्धातिशयादिभिश्च।
इदं विनिश्चित्य निवेशयन्तः कवीन्द्रभावं कवयो लभन्ते॥ १३४॥
इति श्रीमहाराजाधिराजभोजदेवविरचिते शृङ्गारप्रकाशे रतिप्रकाशनो नाम
॥ त्रयोदशः प्रकाशः॥ १३॥
कामपत्न्यावुभे ह्येते रतिप्रीति तयोरसौ।
प्रकाशो भोजदेवेन हन्त गाढं प्रकाशितः॥
सनातनस्य मे पुण्यं महदेव न संशयः।
यस्याग्रे भोजकोशोऽयं विवृताऽत्माऽवतिष्ठते॥