१२ प्रबन्धाङ्गचतुष्षष्टिचतुष्टयः

अथ

शृङ्गारप्रकाशे द्वादशः प्रकाशः

प्रबन्धाङ्गचतुष्षष्टिचतुष्टयो नाम

तत्र च—(काव्याद. १.१५)

इतिहासकथोद्‍भूतमितरद् वा सदाश्रयम्।
चतुर्वर्गफलोपेतं चतुरोदात्तनायकम्॥ १॥

पञ्चावस्थाभिनिष्पन्नैः पञ्चभिः सन्धिभिर्युतम्।
वृत्तिवृत्त्यङ्गसंपन्नं पञ्चार्थप्रकृतिक्षमम्॥ २॥

महारसं महाभोगमुदात्तवचनान्वितम्।
महापुरुषसञ्चारं साध्वाचारजनप्रियम्॥ ३॥

सुश्‍लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम्।
मृदुशब्दाभिधानञ्च गुणालङ्कारभूषितम्॥ ४॥

सन्ध्यन्तरैकविंशत्या चतुष्षष्ट्यङ्गसंयुतम्।
लक्षणैश्‍च चतुष्षष्ट्या युक्तं कुर्वीत नाटकम्॥ ५॥

इति यदुक्तं १(नाशा. १९.२७) तत्र यथा काव्यादेः प्रबन्धस्य—

१. (१) शरीराणि पञ्च, (२) आरम्भविधयः पञ्च, (३) अर्थप्रकृतयः पञ्च, (४) अवस्थाः पञ्च, (५) संस्थाः पञ्च, (६) समवस्थाः पञ्च, (७) सन्धयः पञ्च, (८) वृत्तयः पञ्च, (९) चतुर्विंशतिः प्रवृत्तयः इत्येका चतुष्षष्टिः।

२. (१) दश लास्याङ्गनि, (२) त्रयोदश वीथ्यङ्गानि, (३) षोडश वृत्त्यङ्गानि, (४)एकविंशतिः सन्ध्यन्तराणि, (५)चत्वारि पताकास्थानानि इति द्वितीया चतुष्षष्टिः,

३. सन्ध्यङ्गानि चतुष्षष्टिः इति तृतीया,

४. काव्यलक्षणानि १चतुष्षष्टिरिति चतुर्थी।

इमाश्‍चतस्त्रोऽपि चतुष्षष्टयः क्रमेण क्रियन्ते। तत्र— १. अत्र द्रष्टव्यमस्मत्संपादिते नाट्यशास्त्रे १९.१२७, बड़ौदासंस्करणे १९.१३९। आभिरेव कारिका— भिर्महाकाव्यसर्गबन्धादिलक्षणमपि भरतोक्तं फलति। (१. प्रथमा चतुष्षष्टिः)

(१. प्रबन्धशरीराणि—५)

प्रथमचतुष्षष्टौ—

इतिहासाश्रयम्, कथाश्रयम्, उत्पाद्येतिवृत्तम्, अनुत्पाद्येतिवृत्तम्, प्रतिसंस्कार्येतिवृत्तमिति पञ्च प्रबन्धशरीराणि,

१.(१.१) इतिहासाश्रयमित्यनेन वृत्तदेवादिचरितसंश्रिता। शंसितामाह, यथा कुमारसम्भव—हयग्रीववधादयो महादेवादीनामैतिहासिकं चरितमावेदयन्ति।

२.(१.२) कथाश्रयमित्यनेन बृहत्कथादिप्रतिपन्नप्रख्यातोदात्तनायकचरितविषयतामपि महाकाव्यादेः प्रबन्धस्याभिधत्ते, यथा बृहत्कथायां कथामुख—प्रतिपन्न— वत्सेश्वरचरितम् उदयनोदये।

३.(१.३) उत्पाद्येतिवृत्तमित्यनेन कविमनीषाप्रकल्पितचतुर्वर्गावबोधहेतुदिव्यादित्वं ब्रूते, यथा चन्द्रापीडपुण्डरीकादिचरितवर्णनं कादम्बर्याम्।

४.(१.४) अनुत्पाद्येतिवृत्तमित्यनेन यथावगतवर्तमानातीतमहाराजादिवृत्तवर्णन— विषयतामस्याचष्टे, यथा हर्षवर्धनराज्यवर्धनादीनां च वर्णनं हर्षचरिते।

५.(१.५) प्रतिसंस्कार्येतिवृत्तमित्यनेनेतिहासेषु यथास्थितवृत्तोपनिबन्धने न्यायप्रवृत्तेरप्य— फलत्वमनिष्टावाप्‍तिफलत्वं च दृश्यते, अन्यथा प्रवृत्तेरपि फलयोगोऽ— वधार्यते, तत्र तथा प्रतिसंस्कारो विधेयः, यथा न्यायप्रवृत्तेरेव फलयोगाभिनिर्वृतिः, विपरीतस्य निष्फलत्वानिष्टावाप्‍ती भवत इति व्युत्पादयति।

ते च धर्मशृङ्गारार्थशृङ्गारकामशृङ्गारमोक्षशृङ्गाराधिकारिणः धीरोदात्तधीरललित— धीरोद्धतधीरप्रशान्तसात्त्विक—राजस—तामसोत्तममध्यमकनिष्ठसाधारणानुकूलदक्षिण— शठधृष्टादिभेदभिन्ना नायकानुनायकोपनायकप्रतिनायका अग्रतः प्रबन्धेन प्रतिपादयिष्यन्त इति नेह प्रतन्यते।

(२. आरम्भविधय :—५)

प्रमाणं, प्रमेयं, विमर्शः, निर्णयः, प्रवृत्तिः इत्येताः पञ्चारम्भविधयः(धाः)।

ताश्च प्रत्येकं पञ्चप्रकारत्वात् पञ्चविंशतिर्भवन्ति। तत्र— १. लक्षणानि भरतशास्त्रे षट्‌‍‍त्रिंशदेव। तेषामेव नामपरम्पराद्वयम्, ययोरष्टादश नूतनानि (१८+१८+१८=५४) इत्येवं वर्धिष्णौ संख्यायां गुप्‍तपादानामानन्त्यं परायणं भोजस्य पुनश्‍चतुष्षष्टित्वम्। ६.(२.१) युक्तिरुक्तिर्दृष्टं निदर्शनमर्थापत्तिरिति प्रमाणानि।

७.(२.२) धर्मोऽर्थः कामो लोको लोकयात्रेति प्रमेयाणि।

८.(२.३) कर्मणामारम्भोपायः, पुरुषद्रव्यसंपद्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेति विमर्शाः।

९.(२.४) अनुपलब्धस्य ज्ञानम्, उपलब्धस्य निश्चयबलाधानम्, अद्वैधस्य संशयोच्छेदन(अर्थ)म्, एकदेशदृष्टस्य शेषोपलब्धिः, विपर्ययचिकित्सा चेति निर्णयाः।

१०.(२.५) अलब्धलाभार्था, लब्धपरिरक्षार्था, रक्षिताभिवृद्ध‍यर्था, वर्धितोपयोगार्था, उपयोगपर्याप्‍त्यर्था चेति प्रवृत्तयः। प्रमाणेन प्रमेयमुपलभ्य विमृश्यावधार्य उपेक्षा(प्रेक्षा)पूर्वकारिणो अभीष्टकर्माणि प्रारभन्ते।

ता इमाः पञ्चविंशतिरारम्भविधयः कथ्यन्ते।

(३. अर्थप्रकृतयः — ५)

अथैतासु कथाशरीरोपादानकारणभूताः पञ्चार्थप्रकृतयो भवन्ति। चतसृषु हि विधासु तत्त्वं परिसमाप्यते— ‘कर्ता कर्म करणं क्रिये’ति। ताश्च प्रकृतिपञ्चकोपलक्षणेन प्रतिपाद्यन्ते। तद्यथा—

बीजं बिन्दुः पताका च प्रकरी कार्यमेव च।
अर्थप्रकृतयः पञ्च कथादेहस्य हेतवः॥ ६॥

(नाशा. १९.२०) ११.(३.१) (बीजम्)

कथाशरीरव्यापिनि नायके कर्तरि कर्मणि वावतिष्ठमान आरम्भो बीजमित्युच्यते, यथा रामचरितं शिशुपालवध इति। एतेन नायिका अपि व्याख्याताः, यथा लक्ष्मीस्वयंवरः, सुभद्राहरणमिति। उक्तं च—(नाशा. १९.२१)

अल्पमात्रमुपक्षिप्‍तं बहुधा यद् विसर्पति।
फलावसानं यच्‍च स्यात् तद् बीजमिति संज्ञितम्॥ ७॥

बीजमिव च बीजम् यथा बीजमुप्‍तमङ्कुरमूलप्रकाण्डपत्रस्कन्धशाखा— प्ररोहपल्लवपुष्पादिना प्रकारेण बहुधा विसर्पद् अन्ते फलाय कल्पते, तथा यो महावाक्यार्थो नायकोपनायकानुनायकप्रतिनायकसुहृत्सहायादिव्यापारभेदाद् बहुधा विसर्पन्नन्ते फलाय जायते स बीजमित्युच्यते। कथाशरीरव्यापिषु गुरुज्ञातिपुरोहितामात्यभृत्यदासपीठमर्दविटविदूषकशकारसिद्धतापसादिनायक— प्रतिनायकसहायेषु कर्तृभूतेषु पर्यस्तमान आरम्भो बीजमित्युच्यते।

१२.(३.२) (बिन्दु)

स हि विष्कम्भप्रवेशकादिभिरसम्बद्धः सम्बद्धो वा कथाशरीराऽविच्छेद— हेतुतयावतिष्ठमानो बिन्दुरित्याख्यायते। उक्तं च—

प्रयोजनानां विच्छेदे यदविच्छेदकारणम्।
यावत्समाप्‍ति यद्वन्धः स बिन्दुरिति कीर्तितः॥ ८॥

(नाशा. १९.२२) बिन्दुरिव च बिन्दुः। यथा पयोबिन्दुश्‍च्योतम् पयोऽभिष्यन्दलक्षणायाः क्रियाया अविच्छेदहेतुः, यथा वा धृतबिन्दुरग्‍निज्वलनलक्षणायाः, एवं विच्छिन्नाविच्छिन्नेषु कथाशरीरेषु योऽनुसन्धाता स बिन्दुरित्युच्यते।

१३.(३.३) (पताका)

कथाशरीरव्यापिनि पुनः सहायविशेषे साधकतमत्वेन करणभूते वर्तमान आरम्भः पताकेत्युच्यते। कथाशरीरव्यापिनो हि नायकस्य प्राधान्येन यदुपकारकं च फलेन च फलवत् सा पताका। उक्तं च—

यस्या वृत्तं परार्थं स्यात् प्रधानस्योपकारकम्।
तत्सम्बन्धाच्‍च फलवत् सा पताकेति कीर्तिता॥ ९॥

(नाशा. १९.२३) यथा हि पताका कस्यचिच्‍चिह्नरूपेण प्रकर्षशोभायै भवति, एवं तेषु यदुपनायकादेश्चरितं तत्प्रधानस्यात्मनश्च शोभाप्रकर्षाय जायमानं पताकेत्युच्यते।

१४.(३.४) (प्रकरी)

कथाशरीरव्यापिनि पुनः सहायविशेष एव साधकत्वात् करणाभासभूते वर्तमान आरम्भः प्रकरीत्युच्यते। पताकैव ह्यफलवत्यनुबन्धविहीना च प्रकरी। यथोच्यते—

फलं प्रकल्पते यस्याः परार्थायैध केवलम्।
अनुबन्धविहीनां तां प्रकरीति विनिर्दिशेत्॥ १०॥

(नाशा. १९.२४) प्रकरीव प्रकरी; लघुर्हि प्रकरः प्रकरीत्युच्यते। स तु पुष्पादीनामेव स्यात्। यथा च पुष्पप्रकरः परार्थोऽपवरकादेः शयनस्थानस्य अन्यस्य वा शोभायै भवति एवं महाप्रबन्धस्य ऋतुवर्णनादिः, अन्यो वा कोऽपि तद्विधो व्यापारः सा प्रकरीति कथ्यते। १५.(३.५) (कार्यम्)

कथाशरीरव्यापिन्यां नायकसहायादिक्रियायामुपलभ्यमानं प्रधानसम्बन्धी प्रारम्भफलविशेषः कार्यमित्युच्यते। धर्मार्थकामानामन्यतमं हि पुरुषार्थ— कार्यमित्यामनन्ति। तदाह—

यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते।
यदर्थश्च समारम्भस्तत्कार्यामिति कीर्तितम्॥ ११॥

(नाशा. १९.२५) अथैतेषामुदाहरणानि१— (मावीच. १.७)

प्राचेतसो मुनिवृषा प्रवरः कवीनां यत्पावनं रघुपतेः प्रणिनाय वृत्तम्।
भक्तस्य तत्र समरन्त ममापि वाचः ताः सुप्रसन्नमनसः कृतिनो भजन्ताम्॥ १२॥

इति बीजस्य। हा वत्साः खरदूषणप्रभृतयो वध्याः स्थ पापस्य मे हा हा वत्स ! विभीषण ! त्वमपि मे कार्येण हेयः स्थितः।
हा मद् वत्सल ! वत्स ! रावण ! महत् पश्यामि ते सङ्कटं वत्से ! कैकसि ! हा हतासि न चिरं त्रीन् पुत्रकान् द्रक्ष्यसि॥ १३a॥

इति बिन्दोः। (मावीच. ४.११)

‘मूर्ध्‍ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापतीन्’॥ १३b॥

इति पताकायाः, (राच. १५.६७, अत्रैव पृ.५१४)

मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद् भीतो महेन्द्रादपि।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं आः ज्ञातं स जटायुरेष जरसा क्लिष्टो वध वाञ्छति॥

(उरा. २.३१) इति प्रकर्याः।

नीतो विक्रमबाहुरात्मसमतां प्राप्‍तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्‍त्येकहेतुः प्रिया।
प्रत्यावृत्तिमुपागता च भगिनीलाभेन देवी पुनः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम्॥ १५॥

(रत्‍ना. ४.१९) इति कार्यस्य। १. णानि। बीजस्य यथा प्राचेत. जोशेर। एवमग्रेऽपि। (४. अवस्थाः —५)

काव्या(र्या)र्थं च नेतारो यत्‍नमध्यासते। तस्य तस्य दैवपौरुषोभय— प्राधान्यादवस्थाः संस्थाः समवस्थास्त्रयो व्यपदेशाः जायन्ते। अवस्थादीनां च तिसॄणामप्यारम्भप्रार्थनादीनि पञ्च पञ्च पर्वाणि भवन्ति। तत्र दैवप्राधान्ये अवस्थास्तासामारम्भादयः पञ्च पर्वाणि। १६.(४.१) आरम्भप्रसवोद्भेदकिञ्चिच्छेषसमाप्‍तयः ।
निर्दिष्टाः सूरिभिस्ते तु तेषां लक्षणमुच्यते॥ १६॥

(महतः) फलयोगस्य स खल्वारम्भ इष्यते। (नाशा. १९.८) १७.(४.२) अपश्यतः फलप्राप्‍तिं यो व्यापारः फलं प्रति।
परं त्वौत्सुक्यगमनं प्रसवः स उदाहृतः॥ १७॥

(नाशा. १९.९) १८.(४.३) ईषत्प्राप्‍तिर्यदा काचित् फलस्य परिकल्प्यते।
भावमात्रेण तं प्राहुरुद्भेदमिह सूरयः॥ १८॥

(नाशा. १९.१०) नियतां तु फलप्राप्‍तिं यदा भावेन पश्यति। (नाशा. १९.११) १९.(४.४) किञ्चिच्छेष—समाप्‍तिं तामाक्षिपन्तः प्रचक्षते।
२०.(४.५) अभिप्रेतं समग्रं च प्रतिरूपं निगद्यते॥ १९॥

(नाशा. १९.१२) (५. संस्थाः —५)

पौरुषप्राधान्ये संस्थाः। तासां तु प्रारम्भादयः पञ्च पर्वाणि।

२१–२५.(५.१–५.५)

प्रारम्भश्च प्रयत्‍नश्च तथा वै प्राप्‍तिसम्भवः।
नियता तु फलप्राप्‍तिः फलयोगश्च पञ्चमः॥ २०॥

(नाशा. १९.७) अत्र प्रत्येकं प्रोपसर्गयोगात् पौरुषप्रकर्षोऽवभासते। पुरुषव्यापारेण बलात्कार्यसिद्धिः संस्थाप्यते इति इमाः संस्था उच्यन्ते। अर्थस्तु यः पूर्वेषां स एषामपीति।

(६. समवस्थाः —५)

(उभयप्राधान्ये समवस्थाः। तासां तु) प्रार्थनादयः पञ्चैव पर्वाणि। २६–३०.(६.१–६.५) प्रार्थना लाभसंयोगौ नाशस्संप्राप्‍तिरेव च॥

अत्र लाभनाशयोर्दैवस्य प्राधान्यं, प्रार्थनासंयोगयोः पौरुषस्य, संप्राप्‍तौ दैवपौरुषयोरिति न सर्वत्र प्रकर्षवाची प्रोपसर्गयोगो भवति। तत्र आरम्भप्रसवादयो अवस्था उषाहरणादिषु, प्रारम्भप्रयत्‍नादयः संस्थाश्चतुर्दारिकालाभादिषु प्रबन्धेषु उपवीथयो (उपाधयो) गृह्यन्ते।

(७. सन्धयः—५)

अथैतदुपाधेः कथाशरीरभागानां मुखादयः पञ्च व्यपदेशा भवन्ति—मुखं, प्रतिमुखं, गर्भो, विमर्शो, निर्वहणमिति। ते च बीजबिन्द्वादीनामर्थप्रकृतीनां सन्धानात् सन्धय उच्यन्ते।

तदाह— (नाशा. १९.३५)

मुखं प्रतिमुखं गर्भो विमर्शश्च तथैव हि।
तथा निर्वहणं चेति सन्धयः पञ्च नाटके॥ २१॥

३१.(७.१) तत्राधिकारिणो नायकादेः यत्र निरूपणं तत्र रससम्भवाः।

यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा।
कथाशरीरानुगतं तन्मुखं परिकीर्तितम्॥ २२॥

(नाशा. १९.३६) ३२.(७.२) यत्र फलार्थायाः प्रवृत्तेरुपक्रमस्कन्धे तु यन्निरूपणं तत्प्रतिमुखम्। यथोच्यते— बीजस्योद्धाटनं यत्र दृष्टनष्टमिव क्‍वचित्।
मुखे न्यस्तस्य दृश्येत तद्वै प्रतिमुखं स्मृतम्॥ २३॥

(नाशा. १९.३७) ३३.(७.३) यत्र क्रियाफलस्योद्भेदलाभनाशान्वेषणादयो जायन्ते स गर्भः। यथोच्यते—

उद्भेदः कार्यबीजस्य प्राप्‍तिरप्राप्‍तिरेव वा।
पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः॥ २४॥

(नाशा. १९.३८) ३४.(७.४) क्रियाफलावाप्‍तये विचारनिर्णयो विमर्शः। यथोच्यते—

गर्भनिर्भिन्नबीजार्थः क्रोधव्यसनजोऽपि वा।
विप्रलम्भकृतो वापि विमर्श इति संज्ञितः॥२५॥

(नाशा. १९.३९) इति। ३५.(७.५) क्रियाफलेन सम्यग्योगो निर्वहणम्। यथोच्यते—

यत्रानयनमर्थानां मुखाद्यानां महौजसाम्।
फलोपबृंहितानां स्याज्ज्ञेयं निर्वहणं तु तत्॥ २६॥

(नाशा. १९.४०) एते च महावाक्येषु रत्‍नावल्यादिषूपक्षेपपरिकराद्यङ्गचतुष्षष्टिप्रविभागप्रस्तावादन्यत्र विस्तरादुदाहरिष्यन्त इति नेह प्रतन्यते। तथा चोपक्षेपादयः प्रबन्धेष्वाधिकारिकाः आनुषङ्गिकाः प्रासङ्गिका वा प्रयोक्तव्याः, यथा सन्दर्भस्य शोभायै भवन्ति। तेनानुसन्ध्यादीनामपि समावेशो व्याख्यातः।

तत्र किमाधिकारिकं किमानुषङ्गिकं किं प्रासङ्गिकमिति चेत्—

यत् कार्यं हि फलप्राप्‍तौ समर्थं परिकल्प्यते।
तदाधिकारिकं ज्ञेयमन्यत् स्यादानुषङ्गिकम्॥ २७॥

(नाशा. १९.३) कारणात् फलयोगस्य वृत्तं स्यादाधिकारिकम्।
तस्योदाहरणार्थं तु प्रासङ्गिकमिहोच्यते॥ २८॥

(नाशा. १९.४) एवमेते पञ्च सन्धयः परिपूर्णप्रबन्धे भवन्ति। तदुक्तम्—

एते तु सन्धयः कार्या नाटकेषु प्रयोक्‍तृभिः।
तथा प्रकरणेष्वेवं कथास्वाख्यायिकासु च॥ २९॥

(नाशा. १९.४४) महाकाव्येषु चम्पूषु तथैवाख्यानकेषु च।
क्रियन्ते यत्र नैते तु सर्वे ते स्युर्डिमादयः॥ ३०॥

एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः।
द्वितृतीयचतुर्थानां त्रिलोपे लोप इष्यते॥ ३१॥

(नाश. १९.१७) (८. वृत्तयः — ५)

मुखादिसन्धिषु च व्याप्रियमाणानां नायिका’— नायकोपनायकादीनां मनोवाक्कायकर्मनिबन्धनाः पञ्च वृत्तयो भवन्ति— ‘भारती, आरभटी, कैशिकी, सात्त्वती, विमिश्रा’ चेति। तासु— (नाशा.२०.२३) ३६.(८.१) या वाक्प्रधाना नृवरप्रयोज्या स्त्रीवर्जिता संस्कृतवाक्ययुक्ता।
स्वानामधेयैर्भरतप्रयोज्या सा भारती नाम भवेत्तु वृत्तिः॥ ३२॥

३७.(८.२) प्रस्तावपातप्लुतलङ्घनानि छेद्यानि मायाकृतमिन्द्रजालम्।
चित्राणि युद्धानि च यत्र वृत्तिं तां तादृशीमारभटीं वदन्ति॥

(नाशा.२०.५३टि.) ३८.(८.३) या श्लक्ष्णनेपथ्यविशेषयुक्ता स्त्रीसंयुता या बहुगीतनृत्ता।
कामोपभोगप्रभवोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति॥

(नाशा.२०.४५) ३९.(८.४) या सात्त्वतेनेह गुणेन युक्ता त्यागेन वृत्तेन समन्विता च।
हर्षोत्कटा संहृतशोकभावा सा सात्त्वती नाम भवेत्तु वृत्तिः॥ ३५॥

(नाशा. २०.३६) ४०.(८.५) यत्रारभट्यादिगुणास्समस्ताः मिश्रत्वमाश्रित्य मिथः प्रथन्ते।
मिश्रेति तां वृत्तिमुशन्ति धीराः साधारणीमर्थचतुष्टयस्य॥ ३६॥१

सोऽयं पञ्चप्रकारोऽपि चेष्टाविशेषविन्यासक्रमो वृत्तिरित्याख्यायते।

(९. प्रवृत्तयः —२४)

वेषविन्यासक्रमः प्रवृत्तिः। सापि चतुर्धा— ‘पौरस्त्या, मागधी, दाक्षिणात्या, आवन्त्या’ च। तासां च लक्षणान्यग्रतो वक्ष्यामः। (द्र. पृ. ९७७)

अन्ये पुनरन्यथा प्रवृत्तिं व्याचक्षते— दशविधा पुण्यप्रवृत्तिः, दशविधा पापप्रवृत्तिरिति। सा चाग्रतो व्याकरिष्यते।

केचित्तु तामप्यन्यथा आहुः— पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मोन्द्रियाणि तद्‍द्वारिका च धर्मा च वादस्थाने च पृथक्पृथक् दशप्रकारा प्रवृत्तिः भवति।

अथान्यन्मतम्— ‘प्रवृत्तिर्वाग्बुद्धिशरीरारम्भा’। तत्र वागारम्भा द्वादश आलापप्रलापादयः, बुद्ध‍यारम्भा द्वादश भावहावादयः, शरीरारम्भा द्वादश विलासादयः। त एते षट्‌त्रिंशदप्यग्रत उदाहरिष्यन्ते। (द्र. पृ. ९६९)

अन्यत्तु दर्शनम्— वेषविन्यासक्रमः प्रवृत्तिरित्युक्तम्। तत्र च पौरस्त्यौढ्रमागधी— त्यादिना देशोपलक्षणेन देशकालपात्रवयोऽवस्थाशक्तिसाधनाभिप्रायप्रत्यय(/व्यत्यास)— विपरिणामनिमित्ताभिगमसङ्ग्रामविहारोपहारच्छलच्छद्माश्रमजातिवृत्तिव्यक्तिविभव— प्रकीर्णसंकीर्णविप्रकीर्णादयो वेषविशेषप्रवृत्तिहेतवः संगृह्यन्ते। तत्र—

४१.(९.१) देशो यथा—

ताटङ्कवल्गनतरङ्गितगण्डलेखम् आनाभिलम्बि दरदोलिततारहारम्।
आश्रोणिगुल्फपरिमण्डलितान्तरीयं वेषं नमस्यत महोदयसुन्दरीणाम्॥ ३७॥

४२.(९.२) कालो यथा—

कर्णे स्मेरं शिरीषं, शिरसि विचकिलस्त्रग्लताः पाटलिन्यः,१ कण्ठे मार्णालहारो, वलयितबिसिनीमूलकाण्डाः कलाच्योः।
सामोदं चन्दनाम्भः स्तनभुवि, नयने म्लानमाञ्जिष्ठपृष्ठे गात्रं लोलज्जलार्द्रं जयति मृगदृशां ग्रौष्मिको वेष एषः॥ ३८॥

४३.(९.३) पात्रं यथा—

छणपिट्ठधूसरत्थणि। (अत्रेव पृ. ११२७)

४४.(९.४) वयो यथा—

विरचितविशेषकाणां शेखरिणामिक्षुकाण्डहस्तानाम्।
वृन्दैः कुमारकाणां विहितवतंसा इव ग्रामाः॥ ३९॥

१. भोजस्यैवेदं पदम्। ४५.(९.५) अवस्था यथा—(शाकु. ७.२१)

वसने परिधूसरे वसाना नियमक्षामतनुः कृशैकवेणी।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घां विरहव्यथां बिभर्ति॥ ४०॥।

४६.(९.६) शक्तिर्यथा—

आर्द्राः स्त्रजो मलयजोदकमच्छमेकं वासश्च वासवरिपुर्ममृषेऽलसाङ्गः।
सञ्चिक्लिशे कलितरुद्रनिकेतनाद्रिभारेण तत्क्षणमसौ मणिभूषणानाम्॥ ४१॥

४७.(९.७) साधनं यथा—

वासो जाम्बवपल्लवानि जघने गुञ्जास्त्रजो भूषणं हस्तस्वस्तिकदानमंशुकविधिर्धातुद्रवो मण्डनम्।
उत्तंसः शितिकण्ठपिञ्छलतिकावेषोऽयमल्पैर्दिनैः— र्यस्यारातिवधूजनेन शबरीसंवासतः शिक्षितः॥ ४२॥

४८.(९.८) अभिप्रायो यथा—(गास. २.७३)

सिहिपेहुणावअंसा वहुआ वाहस्स गव्विरी भमइ।
गअ-मोत्तिअ-रइअ-पसाहणाण मज्झे सवत्तीणं॥ ४३॥

(शिखिपिञ्छावतंसा वधूर्व्याधस्य गर्विणी भ्रमति।
गज-मौक्तिक-रचित-प्रसाधनानां मध्ये सपत्‍नीनाम्॥)

४९.(९.९) व्यत्यासो यथा—(माघस्येव)

प्रतिमूर्धजं निहितकर्णपूरका रभसेन हारपददत्तकाञ्चयः।
परिवर्तिताम्बरयुगा समापतन् वलयीकृतश्रवणकुण्डलाः स्त्रियः॥ ४४॥

५०.(९.१०) विपरिणामो यथा—(कुसं. ७.३२)

बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः।
उपान्तभागेषु च रोचनाङ्कः सिंहागजाजिनस्यैव दुकूलभावः॥ ४५॥

५१.(९.११) निमित्तं यथा—(रत्‍ना. १.२०)

प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता।
विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपिप्रभवा लतेव॥ ४६॥

५२.(९.१२) अभिगमो यथा—

गोरङ्गउ तरुणीअणो जोण्हाइं अहिसरइ सिअणेवच्छपडिच्छिउ वल्लहबद्धरइ।
तच्छाआहिं पुण चलिअउ सामलगत्तो तह मअणु मन्तिअहिं॥ ४७॥

(गौराङ्गस्तरुणीजनो ज्योत्स्‍नायामभिसरति सितनेपथ्यपरिच्छन्नो वल्लभबद्धरतिः।
तच्छायासु पुनश्चलितः श्यामलगात्रस्तत्र मदनो मन्त्र्यभूत्॥)

५३.(९.१३) सङ्ग्रामो यथा—(किराता. ३.५६)

अथाभिपश्यन्निव विद्विषः पुरः पुरोधसारोपितहेतिसंहतिः।
बभार रम्योऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम्॥ ४८॥

५४.(९.१४) विहारो यथा—(माघ. ८.३०)

शृङ्गाणि द्रुतकनकोज्ज्वलानि गन्धाः कौसुम्भं पृथुकुचकुम्भसङ्गि वासः।
मार्द्वीकं प्रियतमसन्निधानमासन् नारीणामिति जलकेलिसाधनानि॥ ४९॥

५५.(९.१५) उपहारो यथा—(मामा. ५.२४)

न्यस्तालक्तकरक्तमाल्यवसना पाषण्डचण्डालयोः पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम्।
सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक्कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः॥ ५०॥

५६.(९.१६) छलं यथा—(कुसं. ५.३०)

अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्निव ब्रह्ममयेन वर्चसा।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबन्धः प्रथमाश्रमो यथा॥ ५१॥

५७.(९.१७) छद्म यथा—(उरा. २.११)

जातं मे परुषेण भस्मरजसा तच्‍चन्दनोद्ध‍ूलनं हारो वक्षसि यज्ञसूत्रमुचितं चीनांशुकं वल्कलम्।
रुद्राक्षैः सकलैस्सरत्‍नवलयाः१ क्लिष्टा जटाकुन्तला— स्सीता२लोचनहारि कल्पितमहो रम्यं वपुः कामिनाम्३॥ ५२॥

५८.(९.१८) आश्रमो यथा—(उराच. ४.२०, पृ. ४६४)

चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतः॰॥ ५३॥

५९.(९.१९) जातिर्यथा—

गलनिहितकुसुममालश्चन्दनचर्चार्चितस्सनिस्त्रावः।
भट्टः प्रविशति हृष्टः कुटीरकं हट्टकुट्टिन्याः॥ ५४॥

६०.(९.२०) व्यक्तिर्यथा—(किराता. १८.१५)

अथ हिमरुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया।
स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः॥ ५५॥

६१.(९.२१) विभवो यथा—

शिरसि जण्डीलो अडीगणिमणिअडाणगीसतो।
विगोधडाकर विआमुद्धएउ ईरस्स॥ ५६॥ (?)

६२.(९.२३) प्रकीर्णं यथा—

मलिणवसणाण कअवेणिआण आपंडुगंडपालीण।
पुप्फवइआण कामो अंगेसु कआउहो वसइ॥ ५७॥

(मलिनवसनानां कृतवेणिकानामापाण्डुगण्डपालीनाम्।
पुष्पवतीनां कामोऽङ्गेषु कृतायुधो वसति॥)

६३.(९.२४) सङ्कीर्णं यथा—

क्‍व युवतिमार्दवं क्‍वच महाहवदारुणता क्‍व च वलयी करः क्‍व करिदन्तजमुष्टिरसिः।
क्‍व च नवयौवनं क्‍व कुसुमायुधनिस्स्पृहता तव ललनाविचेष्टितविरुद्धमहो ललितम्॥ ५८॥

६४.(९.२४) विप्रकीर्णं यथा—(कुसं. २.६४)

अथ स ललितयोषिद्‍भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे।
सहचर-मधु-हस्त-न्यस्त-चूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पकेतुः॥ ५९॥

एवमियं प्रथमा चतुष्षष्टिः॥ १. सकलै॰ ॰कुन्तलाः=सकिलै तरौ (सकलैस्सरत्‍न) वलय(याः) क्लिष्टा जटा कुन्तला=राघवः। २. लोचनहारि = कुन्तलहारि राघवः ३. नाम् = ना(नाम्) राघवः (२. द्वितीया चतुष्षष्टिः)

(१. लास्याङ्गानि — १०)

अथ द्वितीया। तस्यां गेयपदं, स्थितपाठ्यम्, आसीनं, पुष्पगन्धि(ण्डि)का, प्रच्छेदकं, सैन्धवं, द्विमूढकम्, उत्तमोत्तमम्, उक्तप्रत्युक्तमिति लास्याङ्गानि। तेषु— १.(१.१) आसनेषूपविष्टैर्यद्भाण्डवाद्योपबृंहितम् ।
गायनैर्गीयते शुष्कं तद् गेयपदमुच्यते॥ ६०॥

(नाशा. १९.११४) यथा नागानन्दे प्रथमेऽङ्के वीणां वादयन्ती मलयवती गायति—(नागा. १.१४)

उत्फुल्लकमलकेसरपरागगौरद्युते ! मम हि गौरि !/?/
अभिवाञ्छितं प्रसिध्यतु भगवति ! युष्मत्प्रसादेन॥ ६१॥

२.(१.२) प्राकृतं यन्नियुक्ते/वियुक्ता तु पठेदासनसंस्थिता।
मदनानलतप्‍ताङ्गी स्थितपाठ्यं तदुच्यते॥ ६२॥

(नाशा. १९.११४) यथा रत्‍नावल्यां द्वितीयेऽङ्के—

‘सागरिका (निःश्वस्य)—‘हिअअ, पसीद, किं इमिणा आआसमेत्तफलएण दुल्लहजणप्पत्थणाणुबंधेण। अण्णच्‍च—जेण एव्व दिठ्ठमेत्तेण अअं ईदिसो संदावो तं एव्व पुणो पेक्खिदुं अहिलससि त्ति अहो दे मूढदा। किं च— अइ णिसंस ! जम्मपहुदि सह वड्‌ढिअं मं परिवंइअ क्खणमत्तदंसणं जणं अणुगच्छंतो कहं ण लज्जेसि ? अहवा अणंगसरसणिबंधणभीदेण तुए एदं व्ववसिदं। भअवं कुसुमाउह ! णिज्जिअसअलसुरासुरो भविअ इत्थिआजणं पहरंतो ण लज्जेसि। सव्वहा म इमिणा णिमित्तेण उवट्ठिदं। ता जाव इह ण को वि आअच्छदि दाव आलेक्खगदं वि तं जणं पेक्खिअ जहासमीहिदं करइस्सं’ (रत्‍ना. २)१ इति। ३.(१.३) आसीनमास्यते यत्र सर्वातोद्यविवर्जितम्।
अप्रसारितमात्रं च चिन्ताशोकसमन्वितम्॥ ६३॥

(नाशा. १९.११६) १. हृदय, प्रसीद। किममुनायासमात्रफलकेन दुर्लभजनप्रार्थनानुबन्धेन ? अन्यच्‍च—येनैव दृष्टमात्रेण अयम् ईदृशः सन्तापः तमेव पुनः प्रेक्षितुं अभिलषसीत्यहो ते मूढता। किं च अयि नृशंस ! जन्मप्रभृति सह वर्धितं मां परिवर्ज्य क्षणमात्रदर्शनं जनमनुगच्छत् कथं न लज्ज्से ? अथवा अनङ्गशर— निबन्धनभीतेन त्वयैतद् व्यवसितम्। भगवन् कुसुमायुध ! निर्जितसकलसुरासुरो भूत्वा स्त्रीजनं प्रहरन् न लज्जसे। सर्वथा मम अनेन निमित्तेन उपस्थितम्। तद्यावदिह न केऽपि आगच्छति तावदालेख्यगतं तं जनं प्रेक्ष्य यथासमीहितं करिष्यामि। यथा रत्‍नावल्यां तृतीयेऽङ्के राजा आसनस्थ एव प्रविष्टः पठति—(रत्‍ना. ३.१)

संतापो हृदय ! स्मरानलकृतः संप्रत्ययं सह्यतां नास्त्येवोपरमोऽस्य तां प्रति पुनः किं त्वं मुधा खिद्यसे।
यन्मूढेन मया तदा कथमपि प्राप्‍तो गृहीत्वा चिरं विन्यस्तस्त्वयि सान्द्रचन्दनरसस्पर्शो न तस्याः करः॥ ६४॥

न च तथाहमेवंविधमात्मानं चिन्तयामि यथान्तर्निगूढकोपसम्भाराया देव्या गोचरगतां तामेव तपस्विनीं सागरिकाम्। तथा हि—(रत्‍ना. ३.४)

ह्रिया सर्वस्याधो नयति विदितास्मीति वदनं द्वयोर्दृष्ट्वाऽऽलापं कलयति कथामात्मविषयाम्।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यमिति मे प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा॥ ६५॥

इति। ४.(१.४) वृत्तानि विविधानि स्युर्गेयं चातोद्यसंश्रितम्।
चेष्टा च विविधा पुंसा यत्र सा पुष्पगण्डिका॥ ६६॥

(नाशा. १९.११७) यथा रत्‍नावल्यां द्वितीयेऽङ्के विदूषकेण नलिनीपत्रशयने दर्शिते राजा— वयस्य, निपुणमुपलक्षितम्।

परिम्लानं पीनस्तनजघनसङ्गादुभयत— स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम्।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सन्तापं वदति नलिनीपत्रशयनम्॥ ६७॥

(रत्‍ना. २.११) अपि च—

स्थितमुरसि विशालं पद्मिनीपत्रमेतत् कथयति न तथान्तर्मन्मथोत्थामवस्थाम्।
अतिशयपरितापग्लापिताङ्ग्या यथास्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति॥ ६८॥

(रत्‍ना. २.१२) ५.(१.५) प्रच्छेदकस्स विज्ञेयो यत्र चन्द्रातपाहताः।
स्त्रियः प्रियेषु सज्जन्ते अपि विप्रियकारिषु॥ ६९॥

(नाशा. १९.११८) यथा रासकाङ्के — ‘साधु रे चंदायण पडु अणसु एव x x x णच्‍चाण अक्खंक (त) हिअअं x x x तनोदीरयाव च्‍चिअ ईदिसे चुद्धचन्दालोए वदो उ(स)मए(समए) णिद्दिट्ठसंकेअं पिअवअस्सं कदणु अ x x x चपलादियं वेसअन्तेण णिव्वूढं ते जहा समत्थिदं ति। (साधु रे चन्द्रायण x x x आक्रान्तहृदयं x x x इव ईदृशे शुद्धचन्द्रालोके प्रदोषसमये निर्दिष्टसङ्केतं प्रियवयस्यं x x x निर्व्यूढं ते यथा समर्थितम्) इति विदूषकादेव प्रकृतिभेदमवगम्य तथाकृतापराधमपि चन्द्रातपाहता प्रियमभिससार राधा, ‘यत्र वा पालितका गता’ इति। ६.(१.६) अनिष्ठुरश्लक्ष्णपदं समवृत्तैरलङ्कृतम्।
नाट्यं पुरुषभावाढ्यं त्रिमूढकमुदाहृतम्॥ ७०॥

(नाशा. १९.११९) यथा रत्‍नावल्यां द्वितीयेऽङ्के राजा सागरिकामेवावलोक्याह—(रत्‍ना. २.१४)

दृशः पृथुतरीकृता जितनिजाब्जपत्रत्विषः चतुर्भिरपि साधु साध्विति मुखैः समं व्याहृतम्।
शिरांसि चलितानि विस्मयवशाद् ध्रुवं वेधसो विधाय ललनां जगत्त्रयललामभूतामिमाम्॥ ७१॥

दृष्टिं रुषा क्षिपसि यद्यपि भामिनीमां स्‍निग्धेयेष्यति तथापि न रूक्षभावम्।
त्यक्त्वा त्वरां व्रज पदैः स्खलितैरयं ते खेदं गमिष्यति गुरुर्नियतं नितम्बः॥ ७२॥

(रत्‍ना. २.१५) श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः।
कुतोऽन्यथा स्रवत्येष स्वेदच्छद्मामृतद्रवः॥ ७३॥

(रत्‍ना. २.१६) ७.(१.७) रूपादिवाद्यसंयुक्तं पाठ्येन च विवर्जितम्।
नाट्यं हि तत्तु विज्ञेयं सैन्धवं नाट्यकोविदैः॥ ७४॥

(नाशा. ब.स. १९.१२३) रत्‍नावल्यां द्वितीयेऽङ्के विदूषकः—‘भो अवस्स जिदं अम्हेहिं’ (भो वयस्य, जितं अस्माभिः।) इत्युक्त्वा बाहू प्रसार्य नृत्यति। कक्षायाः चित्रफलकं पतति, विदूषकः विषादं नाटयति। राजा अपवार्य विदूषकम् अङ्गुल्या तर्जयतीति। ॥७५॥ (रत्‍ना. २.१७/१८) ८.(१.८) मुखप्रतिमुखोपेतं चतुरश्रपदक्रमम्।
स्पष्टभावरसोपेतं चित्रार्थं चेद् द्विमूढकम्॥ ७६॥

(नाशा. १९.१२१) रत्‍नावल्यां द्वितीयेऽङ्के राजा चित्रगतां सागरिकां दृष्ट्वा आह—

लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं मे।
मानसमुपैति केयं चित्रगता राजहंसीव॥ ७७॥

(रत्‍ना. २.७) इत्याद्यभिहितं यावत् सुसङ्गता आगच्छति, एतन्मुखोपक्षिप्‍तबीजोद्‍भेदान्मुखमिव मुखम्। तथा सुसङ्गतायामागतायां राजनि साशङ्के विच्छिन्नमिव तद् बीजमिति दृश्यते।

‘बीजस्योद्‍घाटनं यत्र दृष्टनष्टमिव क्‍वचित्॥ ७८॥’

(नाशा. १९.३७) इति। अत एवाभिहितं राज्ञा ‘सुसङ्गते क्रीडामात्रकमेवैतद्’ (रत्‍ना. २.१३) इत्यादि। अत एव द्वे मुखप्रतिमुखे मूढे घटिते यत्र तद् द्विमूढकमिति। ९.(१.९) उत्तमोत्तमकं विद्यादनेकरससंश्रयम्।
विचित्रश्लोकबन्धैश्च हेलाहावविभूषितम्॥ ७९॥

(नाशा. १९.१२२) यथा रत्‍नावल्यां तृतीयेऽङ्के,

राजा सागरिकाबुद्ध्या वासवदत्तामाह— ‘प्रिये सागरिके’/?/ !

शीतांशुर्मुखमुत्पले तव दृशौ पद्मानुकारौ करौ रम्भागर्भनिभं तवोरुयुगलं बाहू मृणालोपमौ।
इत्याह्लादकराखिलाङ्गि ! रभसान्निश्शङ्कमालिङ्ग्य मा— मङ्गानि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय॥ ८०॥

(रत्‍ना. ३.११) इत्यादि। १०(१.१०) कोप-प्रसाद-जनितमधिक्षेपसमाश्रयम् ।
उक्तप्रत्युक्तमेवं स्याल्लास्याङ्गं दशमं त्विह॥ ८१॥

(नाशा. १९.१२३) यथा रत्‍नावल्यां तृतीयेऽङ्के राज्ञा प्रत्यभिज्ञातायां वासवदत्तायां ‘प्रिये वासवदत्ते’ इत्याद्यभिहिते वासवदत्ता सकोपमाह,

‘अज्जउत्त, मा एव्वं भण। अदिक्कंदाइं दाणिं एदाइं अक्खराइं’। (आर्यपुत्र, मा एवं भण। अतिक्रान्तानीदानीमेतान्यक्षराणि।) एवमुक्ते तदा विज्ञापनानन्तरं पादयोः पतन्तं राजानं दृष्ट्वा वासवदत्ता पुनरनुभावान्नायकप्रसादमुररीकृत्य प्रविष्टाह— ‘कंचणमाले, तं तहा चलणणिपडिदं अज्जउत्तं अवधीरिअ आअच्छंतीए मए अदिनिठ्ठुरं एव्व किदं। दाणिं सअं ता गदुअ अलक्खिदा एव्व कंठे गेण्हिअ पसादइस्सं।’ (रत्‍ना. ३.१७)

(काञ्चनमाले, तं तथा चरणनिपतितमार्यपुत्रमवधीर्यागच्छन्त्या मयातिनिष्ठुरम् एव कृतम्। इदानीं स्वयं तं गत्वा अलक्षितैव कण्ठे गृहीत्वा प्रसादयिष्ये।) इत्यादि।

(२. वीथ्यङ्गनि—१३)

अथ वीथ्यङ्गानि — उद्‍घात्यकम्, अवलुण्ठितम्(अवलगितम्), अन्वस्यन्दितम्, असत्प्रलापः, नालिका, वाक्केलिः, अधिबलं, छलं, व्याहारः, त्रिगतं, गण्डः, मृदवं, प्रपञ्च इति। ११.(२.१) पदानि त्वगतार्थानि तदर्थगतये नराः।
पर्यायैरवबोध्यन्ते तदुद्‍घात्यकमुच्यते॥ ८२॥

(नाशा. १८.१०८) यथा मालतिकायां वीथ्याम्—मालतिका—

को विसमो संसारे को वा दुक्खेन पीरए तरिउं॥ ८३॥

(को विषमः संसारे को वा दुःखेन पार्यते तर्त्तुम्।)

राजा— कुसुमशरस्तरलाक्षीवियोगदुःखाम्बुधिश्चैव॥ ८४॥

यथा वा वेणीसंहारे—

सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे॥ ८५॥

(वेसं. १.५) इति सूत्रधारेण पठिते प्रविश्य संभ्रान्तः

पारिपार्श्वकः— ‘भाव, शान्तं पापं, प्रतिहतममङ्गलम्।’

सूत्रधारः— ननु शरत्समयवर्णनाशंसया हंसान् धार्तराष्ट्रानिति व्यपदिशामि।

पारिपार्श्वकः— भाव, न खलु न जाने। किन्त्वमङ्गलत्वादस्य वो वचसः कम्पितमिव मे हृदयम् इति। १२.(२.२) यत्रान्यस्मिन् समावेश्य कार्यमन्यत् प्रसाध्यते।
तच्‍चावलगितं नाम विज्ञेयं नाट्ययोक्तृभिः॥ ८६॥

(नाशा. १८.१०९) यथा रत्‍नावल्यां द्वितीयेऽङ्के

सुसङ्गता—सहि, जस्स किदे तुमं आअदा सो अअं चिट्ठदि। (सखि, यस्य कृते त्वमागता सोऽयं तिष्ठति।)

सागरिका— (सासूयं) सहि, कस्स किदे अहं आअदा ? (सखि, कस्य कृतेऽहमागता ?) सुसङ्गता—(विहस्य), चित्रफलकस्य कृते आगताहमिति प्रतिपादयन्त्या छायान्तरेण राजार्थोऽपि प्रतिपादित इत्यवलगितम्। १३.(२.३) आकाङ्‍‌क्षिते तु किस्मिंश्चिच्छुभाशुभसमुत्थिते।
कौशलादुच्यतेऽन्योऽर्थस्तदवस्यन्दितं भवेत॥ ८७॥

(नाशा. १८.११०) यथा वेणीसंहारे प्रथमेऽङ्के सूत्रधारः— (वेसं. १.६)

निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः॥

इति सूत्रधारवचनममृष्यमाणः क्रुध्यन्

भीमसेनः प्राह — आः दुरात्मन् वृथामङ्गलपाठक शैलूषापसद !

लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ?॥ ८९॥

(वेसं. १.७) इति भीमसेनेनोक्ते

सहदेव आह— ‘आर्य ! अनुमतमेवास्य नो भरतपुत्रवचनम्। तथाहि— ‘निर्वाण वैरदहना इत्यन्यथास्य व्याख्यानम्’ इत्युक्त्वा, ‘रक्तप्रसाधितभुवः क्षतविग्रहाः स्वर्गस्था भवन्तु’ इति अन्यथा व्याचष्टे। १४.(२.४) मूर्खजनसन्निकर्षे हितमपि यत्र प्रभाषते विद्वान्। न च गृह्यतेऽस्य वचनं विज्ञेयोऽसत्प्रलापोऽसौ॥ ९०॥(नाशा. १८.१११) यथा— रामाभ्युदये द्वितीयेऽङ्के

रावणः — ‘प्रायः श्रुतमेव भवद्भिः। यथा कलत्रमात्रसाधनोऽसौ तापसः, तदपहार एव तावन् निरूप्यताम्। न च कलत्रापहरणादृते पुरुषस्यापरं परिभवस्थानमस्ति। तत्र च मारीचेन साहाय्यकं क्रियमाणमिच्छामि।

मारीचः— स्वामिन्, जीवतो रामस्य परिभव इत्यशक्यमेतत्। न खलु तापस इति मा तमवज्ञातुमर्हति देवः। अन्यदेव किमपि वस्त्वन्तरं तत्।

रावणः— (सक्रोधम्) आः, किन्नाम वस्त्वन्तरं तत् ? मूढ !

युक्त्यैव क्षत्रबन्धोः परिभवममसमं जीवतः कर्तुमिच्छन् मायासाहाय्यके त्वं निपुणतर इति प्रार्थये, नासमर्थः।
यच्‍चान्यत् तत्र वज्रप्रहतिमसृणितस्फारकेयूरभाजः सज्जास्त्रैलोक्यलक्ष्मीहठहरणसहा बाहवो रावणस्य॥ ९१॥

१५.(२.५) यत्रात्मनः परस्य च वचनं स्यादुत्तरोत्तरप्रभवम्।
अन्योन्यार्थविशेषकमधिबलमिति तद् बुधैर्ज्ञेयम्॥ ९२॥

(नाशा. १८.१०९) यथा — कृत्यारावणे—‘हा भ्रातर्लक्ष्मण परित्रायस्व मां परित्रायस्वं’ इति श्रुत्वा सीतावेषधारिणी शूर्पणखा मोहमुपागता, तस्यां च मूढायां

लक्ष्मणः — आर्ये, समाश्वसिहि, समाश्वसिहि।

शूर्पणखा — {अक्षिणी नि(उन्‍ ‍)मील्य, सक्रोधं सकरुणं च} आ अणय्य! अज्जवि तुमं चिठ्ठसि य्येव। अहो दाणिं से तुमं निसंसो निस्सिनेहो। चिठ्ठदु दाव भादुअसिनेहो, कहं इक्खाउकुलसंभवेण महाखत्तिएण भविअ एव्वं तुए ववसिदं ? णं भणामि एवं अक्कदंतो सत्तू वि ण उवेक्खीअदि, किं पुण अय्यउत्तो ?

{आ अनार्य ! अद्यापि त्वं तिष्ठस्येव। अहो इदानीमसि त्वं नृशंसो निःस्‍नेहः ! तिष्ठतु तावत् भ्रातृस्‍नेहः, कथम् इक्ष्वाकुकुलसम्भवेन महाक्षत्त्रियेण भूत्वा एवं (त्वया) व्यवसितम् ? ननु भणामि एवमाक्रन्दन् शत्रुरपि नोपेक्ष्यते, किं पुनरार्यपुत्रः ?}

लक्ष्मणः — आर्ये ननु त्वदर्थ एव आर्येण स्थापितोऽस्मि ?

शूर्पणखा — एवं मम अत्थो कदो होदि ? एवं च परिरक्खिदा होमि ? त्ति। (एवं ममार्थः कृतो भवति। एवं चाहं परिरक्षिता भवामि इति) ॥ ९३॥ १६.(२.६) अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यरोषकरम्॥ ९४॥

(नाशा.१८.११५) यथा— रत्‍नावल्यां चित्रफलके राजानं सागरिकां चावलोक्य ‘कस्स एदं विण्णाणं ?’ (कस्येदं विज्ञानम् ?) इति वासवदत्ताप्रश्‍ने,

राजा — देवि ! अलमन्यथा सम्भावितेन। इयं हि मया स्वचेतसैव विकल्प्यालिखिता, न तु दृष्टपूर्वा।

विदूषकः सच्‍च सवामि बम्हसुत्तेण जइ अम्हेहिं ईदिसी दिठ्ठपुव्वा। (सत्यं शपे ब्रह्मसूत्रेण यदि अस्माभिरीदृशी दृष्टपूर्वा) इति॥ १७.(२.७) प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशार्थः॥ ९५॥

(नाशा. १८.११६) यथा— रत्‍नावल्यां तृतीयेऽङ्के

राजा— ‘वयस्य, कथं दर्शनमपि भविष्यति’ इत्युक्तः (रत्‍ना. ३.४/५)

विदूषकः — कहं ण भविस्सदि, जस्स दे ओहसिदबुहप्पदिबुद्धिविहवो अअं अमच्चो। (कथं न भविष्यति यस्य त उपहसितबृहस्पति— बुद्धिविभवोऽयममात्यः)॥ ९६॥

अत्र विदूषकेणानुभूतस्यार्थस्य हास्यलेशाय व्याहार इति। १८.(२.८) श्रुतिसारूप्याद् यस्मिन् बहवोऽर्था युक्तिभिर्नियुज्यन्ते।
यद्धास्यमहास्यं वा तत् त्रिगतं नाम विज्ञेयम्॥ ९७॥

(नाशा. १८.११५) यथा इन्दुलेखायां वीथ्याम् राजा—वयस्य!

किं नु कलहंसनादो मधुरो मधुपायिनां तु झङ्कारः।
हृदयगृहदेवतायास्तस्या नु सनूपुरं चरणम्॥ ९८॥

यदि वा—(नाशा. १८.११५)

यत्रानुदात्तवचनं त्रिधा विभक्तं भवेत् प्रयोगे तु।
हास्यरससंप्रयुक्तं तत् त्रिगतं नाम विज्ञेयम्॥ ९९॥

यथा पुल्लसके रूपके— तरलं हि भट्टा तुंह एअं अवत्थं सोऊण चिन्ता अआमाउळहराओ आगदेहिं सिधत्थवरेण्णो x x x सुरुषच मालइआए मालं सअंवरत्थेण विरइअं गइऊण एसा देवी इह एव्वायद्दे त्ति। x x x भर्तः! तवेमामवस्थां श्रुत्वा चिन्ता (?) x x x राजा आगत मालतिकाया मालां स्वयंवरत्वेन विरचितं ग्रहीतुम् एषा देवी इहैवागता इति। १९.(२.९) संरम्भसम्भ्रमयुतं विषादयुक्तं तथापवादकृतम्।
बहुवचनाक्षेपकृतं गण्डमिति वदन्ति तत्त्वज्ञाः॥ १००॥

(नाशा. १८.११६) यथा— वेणीसंहारे द्वितीयेऽङ्के दुर्योधनो भानुमतीमुद्दिश्य—(वेसं. २.२३)

लोलांशुकस्य पवनाकुलितांशुकान्तं त्वद्‍दृष्टिहारि मम लोचनबान्धवस्य।
अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्‍तमेव करभोरु! ममोरुयुग्मम्॥ १०१॥

कञ्चुकी— देव, भग्नम्।

दुर्योधनः— केन?

कञ्चुकी— भीमेन।

दुर्योधनः— आः, किमेवं प्रलपसि?

कञ्चुकी—(सभयं) ननु कथयामि, भग्नं भीमेन भवतः— दुर्योधनः—हा धिक्, प्रलापिन्, वृद्धापसद, कोऽयममद्य ते व्यामोहः? कञ्चुकी—देव न खलु कश्चिद् व्यामोहः, सत्यमेवम्—॥ १०२॥

भग्नं भीमेन भवतो मरुता रथकेतनम्।
पतितं किङ्किणीक्‍वाणबद्धाक्रन्दमिव क्षितौ॥ १०३॥

(वेसं. २.२३) इति। ननु च बहोः वक्ष्यमाणस्य अशुभवार्ताबहुलमत्वर्थो(?) बहुवचनाक्षेपकृतं गण्डमित्यनेनोच्यते; तच्च पताकास्थांनकस्यापि, आगामिवस्तुसूचनात्मकत्वात्, ततोऽस्य को भेदः?

उच्यते। पताकास्थानकेन धर्मादेर्नाटकशरीरभूतस्य साध्यस्य वस्तुनः साधनभूतानामाक्षेपः क्रियते; अत एव तद्‍‌विघ्‍नभूतानामिति विशेषः। अत एव गण्ड इव गण्डको गण्डो ज्ञेयः यथा हि गण्डो गण्डरूपः प्रथममुद्भिद्यमानो व्या वर्त्तको भवति तथा गण्डो ज्ञेयः। तदाह—(नाशा. १८.११८)

२०.(२.१०) वचसा१ सम्बन्धानामन्ते यत्पदं त्वसम्बन्धम्।

सम्बद्धमिवाभाति हि तद् गण्डं नाम वीथ्यां स्यात्।
हास्येनोपगतार्था प्रहेलिका नालिकेति+ विज्ञेया॥ १०४॥

*यथा मालतिकायां वीथ्याम्—

सिअकुसुमहासिणि जप x x x x x x x मं जा उण मुहंखमणअस्स।
उज्जाणवि ए आ x x x x x x x का सा दिट्ठा मए अज्ज॥

(सितकुसुमहासिनि x x x x x x x।
उद्यान x x x x x x x का सा दृष्टा मया अद्य॥)

२१.(२.११) एकद्विप्रतिवचना वाक्केली+।

विदूषकः— हा सा चच्चरी।

मदनिका—(हदास, न सा होदि चच्चरी।) दुपदीखण्डं क्खु एदम्। (हताश, न सा भवति चर्चरी। द्विपदीखण्डं खल्वेतत्।) १. जोशेरस्तु ‘बहुवचनस॰॰ पदं च सम्बद्धम्।’ इति पठति। ** ताराद्वयमध्यगतो ग्रन्थो जोशेरे नास्ति। ++ नालिका वाक्‍केलीति च द्वे अपि अधिबलात्पूर्वमुल्लिखिते वीथ्यङ्गेषु। विदूषकः— किं एदं क्खु तं खण्डं, जेण मोणके करीअंति? (किमेतत् खलु तत् खण्डम्, येन मोदकाः क्रियन्ते?)

मदनिका — णहि णहिं। पढीअदि क्खु एदं। (नहि नहि। पठ्यते खल्वेतत्)

(रत्‍ना. १.१६/१७)

यथा वा—* ॥ १०५॥

कोऽयं द्वारि? हरिः, प्रयाह्युपवनं शाखामृगस्यात्र किम् ?
कृष्णोऽहं दयिते! बिभेमि सुतरां कृष्णः कुतो वानरः ?
मुग्धेऽहं मधुसूदनो, व्रज लतां तामेव तन्वीमलं
मिथ्या सूचयसीत्युपेत्य धनिकां ह्रीतो हरिः पातु वः॥ १०६॥

यथा मृच्छकटिकायां

वसन्तसेना — कधं परिअणो त्ति मं अवगच्छदि। होदु, एव्वं दाव करइस्सं। (गृह्‍णाति, आघ्राय) अणुदासीणं से जोव्वणं पडिहासेदि—(अनुदासीनमस्य यौवनं प्रतिभासते।)

नायकः — रदनिके! रोहसेनं गृहीत्वा अभ्यन्तरचतुश्शालं प्रवेशय।

वसन्तसेना — अणब्भंतरा क्खु अहं अब्भंतरचउस्सालस्स। (अनभ्यन्तरा खल्वहं अभ्यन्तरचतुश्शालस्य।

नायकः — कथमुत्तरोत्तरप्रतिवादिनी रदनिका। कष्टम्! ॥ १०७॥

यदा हि भाग्यक्षयपीडितो नरो दशां कृतान्तोपहितां प्रपद्यते।
तदाऽस्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः॥ १०८॥

२२.(२.१२) यद्‍गुणदोषीकरणं दोषगुणीकरणमेव वा वादे।
हेतुभिरुपपन्नार्थैस्तन्मृदवं नाम विज्ञेयम्॥ १०९॥

(नाशा. १८.११३) तत्र दोषस्य गुणीकरणं यथा शाकुन्तले—(शाकु. २.५)

मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामुपलक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः।
उत्कर्षः स च धन्विनां यदिषवः सिद्ध‍यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः॥ ११०॥

गुणस्य दोषीकरणं यथा—मालतीमाधवे— (मामा. ६.१५/१६)

पुरश्चक्षूरागस्तदनु मनसोऽनन्यपरता— तनुग्लानिर्यस्य त्वयि समभवद् यत्र च तव।
युवा सोऽयं प्रेयानिह सुवदने! मुञ्च जडतां विधातुर्वैदग्ध्यं विलसति सकामोऽस्तु मदनः॥ १११॥

इति कामन्दकीवचनादनन्तरं—

लवङ्गिका—भअवदि! किसण—चउद्दसीरअणीमसाणसंचारणिपडिद णिव्वत्तिअ विसमववसाअणिट्ठाविदचंडपासंडवअंडदोद्दंडसाहसो साहसिओ क्खु एसो। अदो पिअसही उक्कंपिदा।

(भगवति! कृष्णचतुर्दशीरजनीश्मशानसञ्चारनिपतित विषमव्यवसाय— निष्ठापितचण्डपाषण्डप्रचण्डदोर्दण्डसाहसः साहसिकः खल्वेषः। अतः प्रियसखी उत्कम्पिता।)

कामन्दकी—साधु लवङ्गिके! साधु। अवसरे खलु अनुरागोपकारयोर्गरी यसोरुपन्यासः॥ ११२॥ (मामा. ६.१५) २३.(२.१३) यदसद्‍भूतं वचनं संस्तवयुक्तं द्वयोः परस्परं यत्तु।
एकस्य वाऽर्थहेतोः स हास्यजननः प्रपञ्चस्तु॥ ११३॥(नाशा. १८.११२)

यथा प्रयोगद्वये (प्रयोगाभ्युदये)—

तरङ्गदत्तकचेटी— अम्मो! अयं क्खु एसो संचारिमं अवहासपट्टणं अय्भंडीरवो इदो य्येव आगच्छदि। (अहो! अयं खल्वेष सञ्चरिष्णूपहासपत्तनमार्यभण्डीरव इत एवागच्छति।)

विदूषकः— (उपसूत्य) भोदी! सागदं दे। (भवति! स्वागतं ते।)

चेटी—(स्वगतम्) परिहासइस्सं दाव णं। (परिहासयिष्यामि तावदेनम्।) (प्रकाशम्) को दाणि एसो अम्हाणं पेसणआरओ चेडउ त्ति?। (क इदानीमेषोऽस्माकं प्रेषणकारश्चेटक इति?)

विदूषकः—अहं घटदासीणं सामिणो। (अहं घटदासीनां स्वामी।)

चेटी — किं चेडउ त्ति भणिदे कुविदो तुमं? (किं चेटक इति भणिते कुपितस्त्वम्?)

विदूषकः —को दाणि विसेसो घटदासीणं कुंभदासीणं च? (क इदानीं विशेषो घटदासीनां कुम्भदासीनां च?)

चेटी— मा कुप्प, भट्टउत्तो त्ति भणिस्सं। (मा कुप्य, भट्टपुत्र इति भणिष्यामि।)

विदूषकः — भोदी! तुवं पि मा कुप्प, अज्जा इत्ति भणिस्सं। (भवति, त्वमपि मा कुप्य, आर्या इति भणिप्यामि।)

चेटी—अहो! भट्टपुत्तस्स गदी! (अहो! भट्टपुत्रस्य गतिः!)

विदूषकः—अहो !अदिरूआ अज्जया॥ (अहो ! अतिरूपा आर्या॥)

एकस्य वाऽर्थहेतोः—यथा मृच्छकटिकायाम्—

नायकः—(मैत्रेयं दृष्ट्वा) दिष्ट्या भवान् दृश्यते?

विदूषकः— सट्टु x x x x x कं चोरकं तो रा दोणी समिदुण्ण तारि सादो गणिआ—कं ता रा दो। क्खु उच्चदि—अकंदसमुत्थिता पउमिणी, अवञ्चओ वाणिओ, अचोरो सुवण्णआरो, अकलहो गामसमागमो, अलुद्धा गणिआ त्ति दुक्करं एदे संभावीअन्ति। ता पिअवअस्सं गदुअ इमादो गणिआपसङ्गादो णिवत्तावेमि। (परिक्रमय दृष्ट्‍वा) कथं पिअवअस्सो रुक्खवाडिआए उवविट्टो चिट्ठदि। ता जाव उवसप्पामि। (उपसृत्य) सोत्थि भवदे। वड्‌ठढदु भवं।

नायकः — वयस्य ! कथय वृत्तान्तम्१।

विदूषकः — तं क्खु कज्जं विणठ्ठं।

चारुदत्तः — किं तया न गृहीता सा रत्‍नावली?

विदूषकः — कुदो अम्हाणं एत्तिअं भाअहेअं। णवणलिणकोमलं अंजलिं मत्थए कदुअ पडिच्छिआ॥ ११४॥

(३. वृत्त्यङ्गानि२ — १६)

अथ वृत्त्यङ्गानि।

(भारत्यङ्गानि—४)

उद्धातः(त्यकः)/कथोद्‍घातः, प्रयोगातिशयः, प्रवृत्तकोऽवलगितमिति भारत्यङ्गानि। तत्र — १. अत्र राघवपाठः विदूषकः— कुदो एत्ति उत्ती आ भि पडिगिण्हिसि। एदं एव्व पसाधिअ विरल विण्णि अंगुली करिइअ अंजलिउडं तहु क्खिदाए विलपज्जरविहीए मं स पेसी वितिणो तावती एसा मुक्तावली अक्खित्तो। २. ‘प्रत्यङ्गानि’ जोशेरः २४.(३.१) उद्‌घात्यको यथा—

को जयति? जयति शर्वः; केन जितं? जितमनङ्गदहनेन।
त्रिपुरारिणा भगवता बालशशाङ्काङ्कितजटेन॥ ११५॥

कथोद्‍घातो यथा—

साकं पङ्कजजन्मना सुरपतेरभ्यर्थनाया वशा— दिक्ष्वाकोः शरदिन्दुबिम्बविमले वंशेऽवतीर्य स्वयम्।
निश्शोषाभयदस्त्रयीपथजुषां विद्वेषिणां रक्षसां यः पौलस्त्यमहन् स पातु भवतो रामाभिधानो हरिः॥ ११६॥

२५.(३.२) प्रयोगातिशयो यथा—

यूथायितमवतु हरेः क्ष्मामुद्धरतो वराहवपुषो वः।
शेषफणरत्‍नदर्णणसहस्त्रसङ्क्रान्तबिम्बस्य ॥ ११७॥

२६.(३.३) प्रवृत्तको यथा—(छलितरामके.)

आसादितप्रकटनिर्मलचन्द्रहासः प्राप्‍तः शरत्समय एष विशुद्धकान्तः।
उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव सम्भृतबन्धुजीवः॥ ११८॥

२७.(३.४) अवलगितं यथा—

अमुमेव शरत्समयमधिकृत्य गीयताम्। अस्यां हि शरदि—(वेसं. १.५)

सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे॥ ११९॥

(आरभट्यङ्गानि—४)

संक्षिप्‍तिका, अवपातः, वस्तूत्थापनं, संस्फोट इति चत्वार्यारभट्यङ्गनि। तेषु २८.(३.५) मायेन्द्रजालशिल्पनैपथ्यादिभिः वस्तुसंक्षेपः संक्षिप्‍तिका।

यथा—(रघु.१२.५३)

रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्‍नितः॥ १२०॥

२९.(३.६) भयादिभि विद्रवादिकर्मसु प्रवेशनिर्गमनमवपातः।

यथा—(उरा. २.२२)

मृगरूपं परित्यज्य विधाय विकटं वपुः।
नीयते रक्षसा तेन लक्ष्मणो युधि संशयम्॥ १२१॥

३०.(३.७) अविद्रवः सविद्रवो वा सर्वरसभावसमासो वस्तूत्थापनम्। यथा— राहोश्चन्द्रकलाम् इत्यादि॥१२२॥ (मामा. ५.२८, पृ. ६३८)

३१.(३.८) नानास्त्रयुद्धनियुद्धादिभिः संरम्भसंप्रहारः संस्फोटः।

यथा—(वेसं. ३.४२)

कृष्टा येन विलोलकेशनिवहा पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञां कुरूणां पुरः।
यस्योरस्स्थलशोणितासवमहं पातुं प्रतिज्ञातवान् सोऽयं मद्‍भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः!॥ १२३॥

(कैशिक्यङ्गानि—४)

नर्म, नर्मस्फिजः, नर्मस्फोटः, नर्मगर्भ इति चत्वारि कैशिक्यङ्गानि। तेषु —

३२.(३.९) आस्थापितश्रृङ्गारं वचो विचेष्टितं वा सपरिहासं नर्म। यथा—(मामा. ६.९)

वयं तथा नाम यदात्थ किं वदा— म्ययं त्वकस्माद् विकलः कथान्तरे।
कदम्बगोलाकृतिमन्त्रितं/माश्रितः कथं विशुद्धमुग्धः कुलकन्यकाजनः॥ १२४॥

३३.(३.१०) प्रथमसम्भोगे नवावस्थानं सम्भोगाश्रयवाक्यादिकर्म नर्म संज्ञा स्फिजः। यथा—

प्राप्‍ताऽसौ वृषपर्वणः प्रियसुता सङ्केतषण्डं सखे! वृष्टिः सेयमनम्बुदामृतमयी गात्राणि मे सिञ्चति।
किं जानासि विनोदयिष्यसि मनः सन्तप्‍तमेषा च मे
विदूषकः— दुर्वात्येव विनोदयिष्यति न भोस्तां देवयानी यदि॥ १२५॥

३४.(३.११) आविर्भूताभिलाषानुभावयोरकाण्ड एव सम्भोगभङ्गो नर्मस्फोटः।

यथा— (रघु. ७.६७)

इतः परानर्भकहार्यशस्त्रान् वैदर्भि ! पश्यानुपता मयाऽसि।
एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः॥ १२६॥

३५.(३.१२) कार्यहेतोः स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्भः। यथा— (कुसं. ५.३०)

अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्निव ब्रह्ममयेन वर्चसा।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा॥ १२७॥

(सात्त्वत्यङ्गानि—४)

उत्थापकः, परिवर्तकः, संलापकः, संघात्यक इति चत्वारि सात्त्वत्यङ्गानि। तेषु ३६.(३.१३) परस्परीभूतार्थेषु उत्थापनम् उत्थापकः। यथा—(मवीच. २.४९)

प्रहर नमतु चापं प्राक्‌प्रहारप्रियोऽहं मयि तु कृतनिघाते किं विदध्यात् परेण।
झटिति विततवह्नयुद्‍गारभास्वत्कुठार— प्रविघटितकठोरस्कन्धबन्धः कबन्धः॥ १२८॥

३७.(३.१४) प्रस्तुतार्थत्यागादन्यार्थभजनं परिवर्तकः। यथा—(किराता. १०.४०)

मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन।
मदनमुपदधे स एव ताभ्यो दुरधिगमा हि गतिः प्रयोजनानाम्॥ १२९॥

३८.(३.१५) सदसि नानावाक्यैर्मिथोऽधिक्षेपः संलापकः। यथा—(वेसं. ३.३५)

कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाद्य।
तव भुजबलदर्पाध्मायमानस्य वामः शिरसि चरण एष न्यस्यते वारयैनम्॥ १३०॥

३९.(३.१६)कार्यमन्त्रार्थप्रभावदैवादिभिः संघातभेदः संघात्यकः (नाशा. २०.४९)। यथा— (किराता.१५.२)

अपश्यद्भिरिवेशानं रणान्निववृते गणैः।
मुह्यत्येव हि कृच्छ्रेषु सम्भ्रमज्वरितं मनः॥ १३१॥

(४. सन्ध्यन्तराणि—२१)

अथ सन्ध्यन्तराण्येकविंशतिः। तद् यथा—

साम, भेदः, दण्डः, प्रदानम्, वधः, प्रत्युत्पन्नमतित्वम्, गोत्रस्खलितम्, साहसम्, भयम्, ह्रीः, माया, क्रोधः, ओजः, संवरणम्, भ्रान्तिः, हेत्ववधारणम्, दूतः, लेखः, स्वप्नः, चित्रम्, मद इति। तत्र

४०.(४.१) साम यथा— पार्थविजये भगवान् वासुदेवो दूत्येन गतो दुर्योधनमाह—

क्षीरोदादमृतद्युतिः क्षितिभुजां वंशस्ततो भारतः
श्लाघ्यः श्लाघ्यगुणश्च किं च बहुना यत्रोद्भवस्त्वादृशाम्॥ १३२॥

इत्यादि ४१.(४.२) भेदो यथा मुद्राराक्षसे—

चाणक्येन तन्मुद्रालाञ्छितलेखालङ्कारादिदर्शनेन राक्षसात् मलयकेतुर्भेदितः।

४२.(४.३) दण्डो यथा तत्रैव राक्षससङ्ग्रहार्थं वधबन्धादिकं तन्मित्रे श्रेष्ठिनि चन्दनदासे प्रयुक्तम्।

४३.(४.४) प्रदानं यथा मृच्छकट्याम्—

शकारो गणिकां व्यापादयितुं विटाय दानमुपन्यस्तवान्। (शकारः) भाव !

जदिच्छसे लंबदसाकलापं पावाइअं सुत्तसतेन जुत्तं।
मंसं च खादुं तह तुट्ठि काहिं चुहू चुहू चुक्कु चुहू चुहूत्ति॥ १३३॥

{यदीच्छसि लम्बदशाकलापं प्रावारकं सूत्रशतेन युक्तम्।
मांसं च खादितुं तथा तुष्टिं कर्तुं (चुहू चुहू चुक्कु चुहू चुहू)इति॥}

विटः— ततः किम्?

शकारः— मम पिअं कहेहि। (मम प्रियं कुरु।)

विटः— बाढं करोमि, वर्जयित्वा त्वकार्यम्।

शकारः— अकज्जस्स गंधो वि ण त्थि। (अकार्यस्य गन्धोऽपि नास्ति।)

विटः— उच्यतां तर्हि।

शकारः— मालेहि वसंतशेणिअं ति। (मारय वसन्तसेनाम् इति।) तथा मम स्वामिनानेनार्येण (अनार्येण) वसन्तसेना व्यापादिता; न चारुदत्तेन इति ब्रुवते स चेटाय कटकं प्रयच्छन्नाह च—पुतक (एदं गेह्‍िणअ अण्ण) धा भण। (पुत्रक ! एतद् गृहीत्वाऽन्यथा भण।)॥ १३४॥

४४.(४.५) वधो यथा— रामायणीयेषु नाटकेषु ताटकाविराधवालिजटायुःप्रभृतीनां, भारतीयेषु बकहिडिम्बकीचकाभिमन्युप्रभृतीनामिति।

४५.(४.६) प्रत्युत्पन्नमतित्वं यथा तापसवत्सराजे वसन्तकेन राजा भौतिकनैष्ठिक— वृत्तयोर्विशेषं पृष्टः कथयित्वाऽऽह — किं च भवान् नैष्ठिकं प्रपन्नः?

विदूषकः — भो णाहं भोदिअं जाणामि। ण हि (ण)ट्ठिअं। जदा तुमं एद व्व पदं परिच्चअसि तदा x x x x जा एसा दासीए लिभा अस्स थविअ x x x x एदाविअ अख x x x x विमेधा दोणेद्दरदि। एदं परिव्याअअभंडिअं सदसक्कारं णइअ ता अज्जेव देवीए वासवदत्ताए सहत्थोवणीदमोदए अण्हंतो पढमकालादो वि अव्भुअं विलसिस्सं। (भो नाहं भौतिकं जानामि, न हि नैष्ठिकम्। यदा त्वम् एतदेव पदं परित्यजसि तदा x x x x या एषा दास्याः x x x x तरति। एवं परिव्राजकभण्डिलं शतसत्कारं नीत्वा तद् अद्यैव देव्या वासवदत्तया स्वहस्तोपनीतमोदकान्यश्र्नन् प्रथमकालादपि अद्भुतं विलसिष्यामि।)

राजा— ससमभ्रमौत्सुक्यं कथमिव? ततः x x x x

विदूषकः— {प्रकाशितदाहाया वासवदत्ताया रभसात् जीवनोच्छेदं (?) कृत्वा, हस्तमवधूय, आत्मगतम्} किं दाणिं एत्थ करिस्सं? (किमिदानीमत्र करिष्यामि?) (प्रत्युत्पन्नमतित्वात् चिन्तयन् आह) अहवा एव्वं दाव। (अथवा एवं तावत्)। (प्रकाशम्) भो वअस्स ! किं ण सुरमदि भवं जं भणिदं तेण भअवदा सिहादेसेण देवीसरिसाकिदीए कण्णआए पाणिग्गहणं णिच्चतिअ देवीसमागमो दे भविस्सिदि त्ति। (भो वयस्य ! किं न स्मरति भवान्—यद् भणितं तेन भगवता सिद्धादेशेन देवीसदृशाकृत्याः कन्यकायाः पाणिग्रहणं निर्वर्त्य देवीसमागमस्ते भविष्यतीति।)॥ १३५॥

४६.(४.७) गोत्रस्खलितं यथा— विक्रमोर्वश्याम्— अप्सरसा अन्यस्यै कथितम् ऊर्वश्या शक्रसदसि प्रेक्षणीये ‘पुरुषोत्तम’ इति वक्तव्ये तद्गतमनसा ‘पुरूरवाः’ इत्यभिहितम् इति प्रवेशके सूचितम्।

४७.(४.८)साहसं यथा— (देवी)चन्द्रगुप्‍ते— स्त्रीवेषनिह्नुतश्चन्द्रगुप्‍तः शत्रोः स्कन्धावारम् अलिपुरं गतवति (शकपति)वधायागमद् इति प्रयोगे दर्शितम्, शकपतिमघातयद् इति च वृत्तं सूचितम्।

४८.(४.९) भयं यथा— वेणीसंहारे नेपथ्ये सूचितम्—‘भो भो भयस्खलितकार्मुक— कृपाणतोमरशक्ति(क्तयः) कौरवबलपक्षपाततृणीकृतप्राणद्रविणसञ्चया नरपतयः। संस्तभ्यताम्। निर्हतदुश्शासनपीतशेषशोणितस्नपित— बीभत्सवृकोदरदर्शनपरिस्खलत्प्रहरणानि रणाद् विद्रवन्ति बलानि।’ पुनश्च मूर्च्छितदुर्योधनमपवाहयता सूतेनोक्तम्— कथामासन्न एवायं दुरात्मा कौरवद्रुमोत्पातमारुतो मारुतिः! अनुपलब्धसंज्ञश्च तावदत्र महाराजः! भवतु, सुदूरमपहरामि स्यन्दनम्। इत्येवं प्रयोग एव दर्शितम्।

४९.(४.१०) ह्नीर्यथा— तापसवत्सराजे पद्मावती प्रत्याख्यानदुःखादुद्ध‍ृत्यात्मानं व्यापादयन्ती वत्सराजेन निवारिता ह्रिया युक्ता। तत्र हि— (ताव. ४.२०/२१)

विदूषकः— भोदि ! अअं दाव धोअगुग्गुल्लनिबद्धाओ उण्होदएण्ण जडाओ विच्छोलिअ तारिसो एव्व। अहं पुण अणवराधमुंडिदो कुदो तारिसे चंडु X X X X लहिसं। {भवति ! अयं तावद् X X X X गुग (?) X X X X उष्णोदकेन X X X X}

पद्मावती— (लज्जावनतमुखी स्मितं करोति।) पुनश्च कञ्चुकिविज्ञापनया अनुज्ञाता राज्ञा सलज्जा अधोमुखी कञ्चुकिना सह निष्क्रान्ता।

तथा पुंसोऽपि ह्रीर्यथा पार्थविजये— गन्धर्वैः पराजित्य बध्यस्य अर्जुनेन विक्रम्य मोचितस्य दुर्योधनस्य।

तत्र हि दुर्योधनमर्जुन आह— ‘न चाहमस्मिन् काले पाण्डवेनाहूत इति मनसि सम्भावनीयम्। यस्माद् अभिन्नमेव आर्ययुधिष्ठिरमहाराजमवगच्छामः, विशेषतोऽस्मिन् काले। पश्‍यतु महाराजः—

स्वैर्वैरे कुरुपाण्डवान्तरकृतो यस्मिन् विशेषोऽस्ति न— स्तस्मिंस्तत् किमसाधु साधु कथमित्यार्या विजानन्ति तत्।
यत्रैकाभिजनान्वये त्वभिभवः क्षत्रस्य तस्मिन् पुन— र्भ्रातॄणां पुरतोऽभियोगसमये पञ्चोत्तरं नः शतम्॥ १३६॥’

दुर्योधनः— (सवैरलक्ष्यमात्मगतम्) हृदय, शिक्षयोत्तरम्। कथमिवैनमालपामि?

भ्राताहमित्यसदृशं मम दुष्कृतैस्तै— र्द्वेष्टा भवानिति तदत्र दशाविरुद्धम्।
यद्यद् ब्रवीमि वचनं लघु तत्तु तत्र कामं भवेच्छरणमप्रतिपत्तिरेव॥ १३७॥

तदत्र वैलक्ष्यम् लज्जानिमित्तमेव।

५०. (४.११) माया यथा देवीचन्द्रगुप्‍ते— चन्द्रगुप्‍तस्य कृतकोन्माद इति मानुषी माया। कृत्यारावणादिषु— कनकमृगादिरचनात्मिका त्वमानुषी।

५१. (४.१२) क्रोधो यथा— श्रीविशाखदेवकृते अभिसारिकावञ्चिते वत्संराजः सम्भावितपुत्रवधायै पद्मावत्यै क्रुद्धः, तथा चाभ्यधात्—

प्रदुष्टोग्रग्राहां सरितमवगाढः श्रमवशा— दुपालीनः शाखां फलकुसुमलोभाद् विषतरोः।
फणालीढेनार्थी च्युतपरिचयां क्रौर्यनिरतां विषज्वालागर्भां चिरमुरगकन्यामनुसृतः॥ १३८॥

योऽसौ पुरुषार्थसिद्धिहेतुः क्रोधः स्थायिभावः, सोऽयं न भवतीत्युदाहृतम्। पुरुषार्थसिद्धिहेतुस्तु स्थायिभावः, न सन्ध्यन्तरम्।

५२. (४.१३) ओजो यथा देवीचन्द्रगुप्‍ते विदूषकः शकपतेः शिबिरमभिप्रस्थितं नायकमाह— भो कह दाणिं तुमं सुबहुआणं अमच्चाणं मज्झे संचरिस्ससि? (भोः, कथमिदानीं त्वं सुबहूनाम् अमात्यानां मध्ये एकाकी संचरिष्यसि ?)

नायकः— अलं मूर्खं, सत्त्वमृत्सृज्य सङ्ख्यायां बहुमानो भवतः। पश्‍य—

सद्वंशान् पृथुवर्ष्मविक्रमबलान् दृष्ट्वाद्भ‍ुतान् दन्तिनो हासस्मेरगुहामुखादभिमुखं निष्क्रामतः पर्वतात्।
एकस्यापि विधूतकेसरसटाभारस्य भीता मृगा गन्धादेव हरेर्द्रवन्ति बहवो, वीरस्य किं संख्यया॥ १३९॥

एतदोजसाभिहितम्।

५३. (४.१४) संवरण यथा तापसवत्सराजे— पद्मावत्या स्विकायां वत्सराजप्रतिकृतौ दर्शितायां

वासवदत्तां स्वगतमाह— कहं अय्यउत्तो ! अइ हदहिअअ आलिअं महाणुभावं अत्तअ चे(पे)क्खस्सं तं खिव्वंतं मन्दभाइणिं आआसेसि। (कथमार्यपुत्रः! अयि हतहृदय! आलिखितं महानुभावम् X X X X (?) मन्दभागिनीमायासयसि ?) इति ससंवरणमास्ते।

पद्मावती— पिअसहि, किं भणामि णं लज्जावेदि पिअसही एस (मि?) जडापरिग्गहो। (प्रियसखि! किं भणामि, लज्जयति प्रियसखि, एष जटापरिग्रहः।)

वासवदत्ता—कहं ते एसा आकिदी अणणुरूपे अभिरमदि। (कथं तव एषा आकृतिः अननुरूपे अभिरमते ?)

सांकृत्यायनी—(सखेदमात्मगतम्) अहो धैर्यं वत्सायाः, येनेयम्—(ताप. ३.७)

दयितं विलोकयन्ती तद्गतमनसोऽपि हस्तगतमस्याः।
अन्तर्नियमितदुःखा न मनागपि विकृतिमायाति॥ १४०॥

५४.(४.१५) भ्रान्तिर्यथा रत्‍नावल्यां— रात्रावुद्यानसङ्केतस्थानस्थितेन राज्ञा नैपथ्यसादृश्‍यनिमित्तया भ्रान्त्या सागरिकेति तन्नाम्ना वासवदत्ता समाभाषिता, वासवदत्तानाम्ना सागरिका।

५५. (४.१६) हेत्ववधारणं यथा मुद्राराक्षसे नेपथ्ये— वैतालिकाभ्यां देवतारूपकेण प्रवृत्तशरद्उ/?/ण— प्रख्यापकाशीर्वचने पठितेऽनन्तरं श्‍लोकद्वयं पठितम्—

सत्त्वोत्कर्षस्य धात्रा निधय इव कृताः केऽपि कस्यापि हेतो— र्जेतारः स्वेन धाम्ना मदसलिलमुचां नागयूथेश्वराणाम्।
दंष्ट्राभङ्गं मृगाणामधिपतय इव त्यक्तमानावलेपाः नाज्ञाभङ्गं सहन्ते नृवर! नृपतयस्त्वादृशास्सार्वभौमाः॥ १४१॥

अपि च—

भूषणाद्युपभोगेन प्रभुर्भवति न प्रभुः।
परैरपरिभूताज्ञस्त्वमिव प्रभुरुच्यते॥ १४२॥

एतदाकर्ण्य चाणक्यश्चन्द्रगुप्‍तेनादिष्टस्य कौमुदीमहोत्सवस्य स्वयं कृतं प्रतिषेधमनुसन्धाय चन्द्रगुप्‍तसमुत्तेजनपरमेतदित्यवधारयन् तथा हि स्वगतमाह— प्रथमं तावद् विशिष्टदेवता (स्तुतिरूपेण प्रवृतशरद्उ/?/णप्रख्यापनमाशीर्वचन)म्, अपरं किमित्यवधारयामि ? (विचिन्त्य) आः, भवतु ज्ञातम्। राक्षसस्यायं प्रयोगः। (आकाशे लक्ष्यं वद्ध्वा) राक्षस राक्षस ! दृश्‍यसे भोः! (दृश्‍यसे) जागर्ति खलु कौटिल्यः (इति) राक्षसप्रयुक्ते हेतोरवधारणम्॥

५६.(४.१७) दूतो यथा पार्थविजये—भगवान् वासुदेवो दुर्योधनस्य दूतो गतः।

५७.(४.१८) लेखो यथा तापसवत्सराजे— प्रद्योतेन वासवदत्तायाः प्रहिते लेखे, वत्से त्वां स्वजनाशिषामविषयं पत्युः।

५८.(४.१९) स्वप्‍नो यथा स्वप्‍न वासवदत्ते पद्मावतीमस्वस्थां दृष्ट्वा राजा समुद्रगृहकं गतः। पद्मावतीरहितं च तदवलोक्य तस्या एव शयनीये सुष्वाप। वासवदत्तां च स्वप्‍नवदस्वप्‍ने ददर्श। स्वप्‍नायमानश्च वासवदत्ता— माबभाषे। स्वप्‍नशब्देन चेह स्वापो वा स्वप्‍नदर्शनं वा स्वप्‍नायितं वा विवक्षितम्; सर्वत्रेदमेवोदाहरणम्, सर्वेषां सम्भवात्।

५९.(४.२०) चित्रं यथा रत्नावल्यां चित्रगतां सागरिकां दृष्ट्वा वत्सराजस्य कामः।

६०(४.२१) मदः मानिनो भवस्य (?) चेतिहासेषु दर्शितम्; रावणस्यापि नाटकेषु कविभिर्निबन्धः(द्धः)। यथा कृत्यारावणे विमानस्थो रावणो मदादाह—

भीताः स्थ भोः किममरास्समराभिमान— मुत्सृज्य तिष्ठति रिपौ न हि मेऽस्ति वैरम्।
स्वस्थोऽरुण—व्रज—विकृष्टखलीनपाशः प्रेष्येषु किं दशशिराः प्रहिणोति शस्त्रम्?॥ १४३॥

अथ पाननिमित्तो यथा मालविकाग्‍निमित्रे। तत्र हि इरावती युक्तमदा (प्रविश्‍य) चेटी च—

इरावती — हंजे निउणिए, सुणोमि बहुसो मदो किल विसेसमंडणं इत्थिआअणस्स त्ति। अवि सच्चो लोअप्पवादो ? (हञ्जे निपुणिके, श्रृणोमि बहुशः मदः किल विशेषमण्डनं स्त्रीजनस्येति। अपि सत्यो लोकप्रवादः ?)

चेटी— पडमं लोअप्पवादो एव्व, अज्ज उण सच्चो संउत्तो। (प्रथमं लोकप्रवाद एव; अद्य पुनः सत्यः संवृत्तः।)॥ १४४॥

(५. पताकास्थानम्—४)

अथ पताकास्थानानि चत्वारि। तत्र च—(नाशा. १९. ३०)

यत्रार्थे चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते।
आगन्तुकेन भावेन पताकास्थानकं तु तत्॥ १४५॥

तच्चतुर्धा— (नाशा १९.३१)

६१.(५.१)

सहसैवार्थसम्पत्तिर्गुणवत्युपकारतः।
पताकास्थानकमिदं प्रथमं परिकीर्तितम्॥ १४६॥

केवतिना (शकपतिना) परं कृच्छ्रमापतितं रामगुप्‍तस्कन्धावारमनुजिघृक्षु— रुपायान्तरागोचरे प्रतीकारे निशि वेतालसाधनमध्यवस्यति कुमारचन्द्रगुप्‍ते आत्रेयेण विदूषकेणोक्तम्—

विदूषकः— भो ण सक्कं दाणिं भवदा इमाए वेलांमभण्डागारिआणं) सआसादो पदादो पदं वि गंतुं ? (भोः! न शक्यमिदानीं भवता अस्यां वेलायां भाण्डागारिकाणां सकाशात् पदत्पदमपि गन्तुम् ?)

नायकः—(स्वगतम्) अत्रोपायश्चिन्तनीयः। (प्रविश्‍य पटलकहस्ता चेटिका)

चेटी—जअदु जअदु कुमारो। कुमार! कहिं अज्जुआ . . . अज्ज खु अज्जुआ केण वि कारणेण अअं विमणा कुमारं पेक्खामि त्ति भणंती राउळादो णिक्कंता। इमं च से देवीए धुपदेवीए ससरीरपरिभुत्तं वसाहणअं पसादीकिदं गह्‍णिअ कुमारस्स समीपे अज्जुअ . . . मण्णा आगदत्थिअ वत्तेअखोअि इमं जाव अज्जुअं अण्णोसामि। (निष्क्रान्ता।)

(जयतु जयतु कुमारः। कुमार! कुत्राज्जुका ? X X X X अद्य खलु अज्जुका केनापि कारणेन अहं विमनाः कुमारं प्रेक्षे इति भणन्ती राजकुलान्निष्क्रान्ता। इदं च तस्या देव्याः ध्रुवदेव्याः स्वशरीरपरिभुक्तं प्रसाधनकं प्रसादीकृतं गृहीत्वा कुमारस्य समीपेऽज्जुका गता। यावदज्जुकामन्वेषयामि।)

विदूषकः—आ दासीएधीए ! किं तव अहं भंडागारिओ ? गच्छ वेच्छि आ दास्याः पुत्रि! किं तवाहं भाण्डागारिकः? गच्छ इति यवनिकान्तरितः स्त्रीवेषं कृत्वा निष्क्रान्तः ॥ १४७॥

तदेवमन्यथा निर्गमनोपाये चिन्त्यमाने स्त्रीवेषः साधनमुपगतामिति सामान्यलक्षणानुगमात्तद्भेदश्चेटीवचनप्रयुक्तमेकं पताकास्थानकमिति।

६२. (५. २)

वचः सातिशयं श्लिष्टं काव्यबन्धसमाश्रयम्।
पताकास्थानकमिदं द्वितीयं परिकीर्तितम्॥ १४८॥

(नाशा. १९.३१) यथा रामाभ्युदये— तृतीयेऽङ्के सुग्रीवः संदिशति—

बहुनात्र किमुक्तेन पारेऽपि जलधेः स्थिताम्।
अचिरादेव देवि त्वामार्यः प्रश्वासयिष्यति॥ १४९॥

अत्र जलधेः पारस्य दुर्गत्वात् दुष्करं प्रश्वासं मन्यमानो रामपराक्रमस्य तत्राप्रतिघातादतिशयमुपवर्णयंश्चिन्त्यमानेषु देशान्तरेषु सुकरतां प्रश्वासने भाविनीं ख्यापयति, न तु जलधेः पारे स्थितां ज्ञात्वैव।

६३.(५.३)

अर्थोपक्षेपणं यत्र हीनं/लीनं सविनयं भवेत्।
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमिष्यते॥ १५०॥(नाशा. १९.३२)

यथा मुद्राराक्षसे— चाणक्येन स्वचरितात् प्रयोगाद्राक्षसग्रहणे सन्देहादाशंसिते सिद्धार्थवचनसङ्घटनया निश्चय उपक्षिप्‍तः। तत्र

चाणक्यः— अपि नाम दुरात्मा राक्षसो गृह्येत ?

सिद्धार्थकः— अयं गण्हिओ। (अयं गृहीतः।)

चाणक्यः— (सहर्षमात्मगतम्) हन्त, गृहीतो दुरात्मा राक्षसः! (प्रकाशम्) भद्र अथ कोऽयं गृहीतः?

सिद्धार्थकः— गहीदो अय्यसंदेसो त्ति। (गृहीत आर्यसन्देश इति।)॥ १५१॥

६४.(५.४)

द्व‍यर्थो वचनविन्यासः सुश्लिष्टः कार्ययोजितः।
उपन्याससुयुक्तत्वं तच्चतुर्थमुदाहृतम्॥ १५२॥

(नाशा. १९.३३) यथा रत्नावल्यां राजा नवमालिकोपन्यासादाह— (रत्ना. २.४)

उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा— दायासं श्वसनोद्‌गमैरविरतैरातन्वतीमात्मनः।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्‍यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम्॥ १५३॥

अत्र वत्सराजस्य वासवदत्तया सह नवमालिकामाधवीलतयोः प्रथमकुसुमोद्गमनिमित्ते समाह्वये विषयसुखमभिलषतः सागरिकासंदर्शनं सुखनिमित्तं द्वितीयार्थाभिधानादागामि प्रयुक्तम्; अयं च वचनविन्यासः सुश्लिष्टो नितरामुपक्षेपणार्थेनालिङ्गितः प्रसङ्गादुक्तः। सेयं द्वितीया चतुष्षष्टिः॥

(३. तृतीया चतुष्षष्टिः)

(सन्ध्यङ्गचतुष्षष्टिः)

अथ तृतीया सन्ध्यङ्गचतुष्षष्टिरित्याचक्षते।

सन्धीनां यानि वृत्तानि प्रदेशेष्वनु पूर्वशः।
सुसम्पद्गुणयुक्तानि तान्यङ्गान्युपधारयेत्॥ १५४॥

इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः। रागप्राप्‍तिः प्रयोगस्य गुह्यानां च निगूहनम्॥ १५५॥

आश्चर्यवदभिख्यानं प्रकाश्‍यानां प्रकाशनम्।
अङ्गानां षडि्वधं ह्येतद् दृष्टं शास्त्रे प्रयोजनम्॥ १५६॥

अङ्गहीनो नरो यश्च नैवारम्भक्षमो भवेत्।
अङ्गहीनं तथा काव्यं न प्रयोगक्षमं भवेत्॥ १५७॥

(नाशा.१९.४७) काव्यं यदपि हीनार्थं सम्यगङ्गैः समन्वितम्।
दीप्‍तत्वात्तु प्रयोगस्य शोभामेति न संशयः॥ १५८॥

(नाशा. १९.४८) उदात्तमपि यत् कार्यं/काव्यं स्यादङ्गैः परिवर्जितम्।
हीनत्वाद्धि प्रयोगस्य न सतां रञ्जयेन्मनः॥ १५९॥

(नाशा.१९.४९) तस्मात् सन्धिप्रयोगेषु यथाकाव्यं यथारसम्।
कार्याण्यङ्गानि तेषां तु प्रविभागः प्रदृश्‍यते॥ १६०॥

(नाशा. १९.५०) उपक्षेपः, परीकर्म/परिकरः, परिन्यासो, विलोभनम्, युक्तिः, प्राप्‍तिः, समाधानं, विधानं, परिभावना, उद्भेदः, करणं, भेदः इति मुखसन्धौ द्वादशाङ्गानि।

विलासः, परिसर्पः, विधूतं, तापनं, नर्म, नर्मद्युतिः, प्रगमनं, विरोधः(निरोधः), पर्युपासनं, पुष्पं, वज्रं, वर्णसंहार इति प्रतिमुखसन्धावपि द्वादशाङ्गानि।

अभूताहरणं, मार्गः, रूपम्, उदाहरणं, क्रमः, सङ्ग्रहः अनुमानं, प्रार्थना, आक्षिप्‍तिः(संक्षिप्‍तिः), तोटकम्, अधिबलम्, उद्वेगः, विद्रवः इति गर्भसन्धौ त्रयोदशाङ्गानि।

अपवादः, संस्फोटः, द्रवः, शक्तिः, व्यवसायः, प्रसङ्गः, कान्तिः, खेदः, प्रतिषेधः, विरोधनम्, आदानं, साधनं/छादनं, प्ररोचनेति विमर्शसन्धावपि त्रयोदश।

सन्धिः, निरोधः, ग्रथनं, निर्णयः, शेषणं/परिभाषणम्, कान्तिः(द्युतिः), प्रसादः, आनन्दः, समयः, उपगूहनं, भूषणं, पुनर्वाक्यं, काव्यसंहारः, प्रशस्तिः इति निर्वहणसन्धौ चतुर्दशाङ्गानि।

सैषा सन्ध्यङ्गचतुष्टिर्नाटकादिषु महाकाव्यादिषु च पूर्णसन्ध्यादिषु निबन्धनीया। प्रतिसन्धि च यान्यङ्गानि पठितानि तावतामेव क्रमेण निबन्धः कार्य इत्येष प्रचुरः प्रयोगः। संविधानवशाच्च न्यूनाधिकभावेन व्युत्क्रमेण च प्रयोग इत्येतदप्यवगन्तव्यमिति ॥ १६१॥ तेषु —

(१. मुखसन्धौ द्वादशाङ्गानि)

मुखाङ्गानि (१२) तावत्—

१. (१.१ उपक्षेपः)

काव्यार्थस्य समुत्पत्तिरुपक्षेप इति स्मृतः॥ १६२॥

(नाशा. १९.६५) यथा रत्नावल्यां यौगन्धरायणः सूत्रधारानन्तरम्— एवमेतत्। कस्सन्देहः? ‘द्वीपादन्यस्मादपि’ इत्यादि पठति।

यथा च वेणीसंहारे सूत्रधारः—

निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः॥ १६३॥

२. (१.२ परिकरः)

समुत्पन्नार्थबाहुल्याज्ज्ञेयः परिकरस्तु सः॥ १६४॥

(नाशा. १९.६५) यथा रत्नावल्याम्— अन्यथा क्‍व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वरदुहितुः समुद्रे प्रवहणभङ्गनिमग्नायाः फलकासादनम् रत्नमालाचिह्नायाः परिज्ञायेहानयनम्, इति यावत्॥

यथा च वेणीसंहारे भीमः— सहदेव, उच्यतां मद्‌वचनादार्यः— (वेसं. १.११)

युष्मच्छासनलङ्घनाम्भासि मया मग्नेन नाम स्थितं प्राप्‍ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा— नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव॥ १६५॥

३. (१.३ परिन्यासः)

तन्निष्पपत्तिः परिन्यासो विज्ञेयः कविभिः सदा॥ १६६॥ (नाशा. १९.६६)

यथा रत्नावल्यां यौगन्धरायणः — तदेवं निष्पन्नप्रायमपि प्रभुप्रयोजनं न मे धृतिमावहतीति कष्टोऽयं खलु भृत्यभावः भर्तुः इति यावत्। यथा च वेणीसंहारे—(वेसं. १.२०)

चञ्चद्भ‍ुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य।
स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः॥

४. (१.४ विलोभनम्)

गुणनिर्वर्णनं चैव विलोभनमिति स्मृतम्॥ १६८॥

(नाशा. १९.६६) यथा रत्नावल्यां यौगन्धरायणः रत्नावलीतो विलोभनार्थमाह—

‘विश्रान्तविग्रहकथः’ इत्युपक्रम्य,

‘वत्सेश्वरः कुसुमचाप इवाभ्युपैति’॥ १६९॥

(रत्‍ना. १.८) इति। यथा च वेणीसंहारे— (वेसं. १.२१)

मन्थायस्तार्णवाम्भःप्लुतकुहर—वलन्मनदरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः।
कृष्णाक्रोधाग्रदूतः कुरुशतनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम्॥ १७०॥

इति॥ ५. (१.५ युक्तिः)

सम्प्रधारणमर्थानां युक्तिरित्यभिधीयते॥ १७१॥

(नाशा. ११.६७) यथा रत्नावल्यां राजा—(रत्ना.१.९)

राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः।
प्रद्योतस्य सुता बसन्तसमयस्त्वं चेति नाम्‍ना धृतिं कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः॥ १७२॥

यथा वेणीसंहारे —

सहदेवः —आर्य किं महाराजस्य सं)देशोऽयमार्येणापि अव्युत्पन्न इव गृहीतः।

भीमः— का पुनरस्य व्युत्पत्ति?

सहदेवः— एवमार्येण सन्दिष्टं सुयोधनस्य—(वेसं. १.१५)

कुशस्थलं वृकस्थलं माकन्दीं वारणावतम्।
प्रयच्छ चतुरो ग्रामान् कंचिदेव तु पञ्चमम्॥ १७३॥

इति। तदनया प्रतिनामग्रामप्रार्थनया पञ्चमस्य चाकीर्तनाद्‌विषभोजनजतुगृहदाह— द्यूतसमाद्यपकारोद्‌घाटनमेवेदं मन्यामहे इति॥

६. (१.६ प्राप्‍तिः) (नाशा. १९.६७)

सुखार्तस्योपगमनं प्राप्‍तिरित्यभिधीयते॥ १७४॥

यथा रत्नावल्यां वसन्तकेन मदनमहोत्सवे वर्णि X X X

दधद्वसन्तकेनानेकविधं मदनिकां नृत्यन्तीं पश्‍यन् सुखातिशयमनुभूतवान्।

यथा च वेणीसंहारे —

चेटी— (सामन्दं) भट्टिणि! परिकुविदो विअ कुमालो लक्खीअदि। (भट्टिणि! परिकुपित इव कुमारो लक्ष्यते।)

द्रौपदी— हञ्जे! जदि एव्वं ता अवहीरणा वि एसा समासासेदि। ता इह एव्व उपविसिअ (सुणामो) दाव णाहस्स ववसिदं। {हञ्जे! यद्येवं तदवधीरणाऽप्येषा समाश्वासयति। तत् इहैव उपविश्‍य श्रृणुगस्तावन्नाथस्य व्यवसितम्।}

भीमः—

मथ्नामि कौरवशतं समरे न कोपाद् दुश्शासनस्य रुधिरं न पिबाम्युरस्तः।
सञ्चूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन॥ १७५॥

(वेसं. १.१४) द्रौपदी—अस्सुदपुव्वं क्खु दे एदिसं वअणं। णाह ! पुणो वि भण। (अश्रुतपूर्वं खलु ते ईदृशं वतनम्। नाथ ! पुनरपि भण) इति॥

७. (१.७ समाधानम्)

बीजार्थस्योपगमनं समाधानमिति स्मृतम्॥ १७६॥

(नाशा. १९.६८) यथा— रत्‍नावल्यां—

चेट्यौ— णहि णहि विण्णवेदि। (नहि नहि, विज्ञापयति।)

राजा— (विहस्य, सादरम्) मदनिके ! नन्वाज्ञापयतीत्येतदेव रमणीयम्, विशेषतोऽद्य मदनोत्सवे। तत् किमाज्ञापयति देवी ?।

चेट्यौ—जहा अज्ज मए मअरंदुज्जाणे रत्तासोअणअवट्ठिअस्स भअवदो कुसुमाउहस्स पूआ णिव्वत्तइदव्वा x x x सं(?) अय्यउत्तेण होदव्वं त्ति। (यथा अद्य मया मकरन्दोद्याने रक्ताशोकपादपस्थितस्य भगवतः कुसुमायुधस्य पूजा निर्वर्तयितव्या आर्यपुत्रेण सन्निहितेन भवितव्यम् इति।)

विदूषकः— भो ! उट्ठेहि लहु गच्छह्माबंहणस्स मे सोत्थिवाअणं भविस्सिदि त्ति। (भो ! उत्तिष्ठ, लघु तत्र गच्छावः। ब्राह्मणस्य मे स्वस्तिवायनं भविष्यति इति)॥ रत्‍ना. १.१६

यथा च वेणीसंहारे—

द्रौपदी— णाह ! मा क्खु जण्णसेणीपरिभवुद्दीविदकोवाणला सरीरणरवेक्खं परिक्कामिस्सथो। जदो अप्पमत्तसंचरणीआणि रिउबलाणि सुणीअंति। (नाथ! खलु याज्ञसेनीपरिभवोद्दीपितकोपानला शरीरनिरपेक्षं परिक्रामिष्यथ। यतोऽप्रमत्तसञ्चरणीयानि रिपुबलानि श्रूयन्ते।) भीमः— अयि सुक्षत्रिये !॥ १७७॥

(वेसं. १.२६) अन्योन्यास्फालभिन्नद्विपरुधिरवसासान्द्रमस्तिष्कपङ्के मग्‍नानां स्यन्दनानामुपरि कृतपदन्यासविक्रान्तपत्तौ।
स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे सङ्ग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः॥ १७८॥

इति। ८. (१.८ विधानम्)

सुखदुःखान्वितो योऽर्थस्तद् विधानमिति स्मृतम्॥ १७९॥

(नाशा. १९.६८) यथा रत्‍नावल्याम्—

काञ्चनमाला— देवि ! अअं सो रत्तासोअपाअवो जहिं देवी अणंगस्स पूआं णिव्वत्तइस्मिदि। (देवि ! अयं स रक्ताशोकपादपः यत्र देवी अनङ्गस्य पूजां निर्वर्तयिष्यति।)

वासवदत्ता— तेण हि अवणेहि मे पूआणिमित्तउपअरणाई। (तेन हि उपनय मे पूजानिमित्तोपकरणानि।)

सागरिका— देवि ! ऊणइं (देवि ! उपनीतम्।)

वासवदत्ता— (निरूप्यात्मगतम्) अहो पमादो परिअणस्स। जस्स जेव्व दंसणपधादो पअत्तेण रक्खीअदि, तस्स जेव्व अज्ज दिठ्ठिगोअरगदा। (प्रकाशप्) हला साअरिए ! कीस तुमं मअणवराहिण्ण परिअणे मअणमहूस्सवे सारिअं मोत्तूण इध आगदा ? ता तहिं एव्व गच्छ। एअं सव्वं कंचणमालाए समप्पेहि। {अहो प्रमादः परिजनस्य ! यस्य एव दर्शनपथात् प्रयत्‍नेन रक्ष्यते तस्यैवाद्य दृष्टिगोचरगता। हला सागरिके ! कस्मात् त्वं मदनपराधीने परिजने मदनमहोत्सवे ? शारिकां मुक्त्वा इहागता ? तत् तत्रैव गच्छ। एतत् सर्वं काञ्चनमालायै समर्पय।}

सागरिका— जं देवी आणवेदि (यद् देवी आज्ञापयति) (इति कतिचित् पदानि गत्वा) सारिआ दाव मए सुसंगदाए समप्पिदा। एदं वि अत्थि पेक्खिदुं मे कौदूहलं। तं जहा नातादस्स अंतेउरे भअउ अणंगो अच्‍चीअदि इहापि(वि) तह एव्व, आदु अण्णह ता अलक्खिदा भविअ पेक्खिस्सं। {शारिका तावत् मया सुसङ्गतायै समर्पिता। (एतदप्यस्ति) प्रेक्षितुं मे कौतूहलम् — तद् यथा तातस्यान्तः पुरे भगवाननङ्गोऽर्च्यते, इहापि तथैव। अथवा अन्यथा इति। तदलक्षिता भूत्वा प्रेक्षिष्ये।} ॥ १८०॥

यथा च वेणीसंहारे

द्रौपदी— णाह ! पुणो तुए अहं आअच्छिअ समासासइदव्वा।

(नाथ ! पुनस्त्वयाऽहमागत्य समाश्वासयितव्या।)

भीमः ! ननु पञ्चालराजतनये ! किमद्याप्यलीकाश्वासनादिभिः।

भूयः परिभवक्षान्तिलज्जाबन्धुरिताननम्।
अनिश्शेषितकौरव्यं न पश्यसि वृकोदरम्॥ १८१॥

(वेसं.१.२५) इति। ९. (१.९ परिभावना)

कुतूहलोत्तरावेधः(गा) प्रोक्ता तु परिभावना॥ १८२॥

(नाशा. १९.६९) यथा रत्‍नावल्यां

सागरिका—कहं पच्‍चक्खो एव्व भअवंत सुमाउगो पच्‍चीअदि ? (कथं प्रत्यक्ष एव भगवान् सुमाशुगः प्रतीच्छति ?)

यथा (च) वेणीसंहारे—

द्रौपदी— किं दाणिं एसो पलअजल (किमिदानीमेषः प्रलयजल॰।)

१०. (१.१० उद्‍भेदः)

(बीजार्थस्य) प्ररोहो य उद्भेदः स तु कीर्तितः॥ १८३॥

(नाशा. १९.६९) यथा रत्‍नावल्यां नेपथ्ये वैतालिकः—(रत्‍ना. १.२३)

अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवा— वास्थानीं समये समं नृपजनस्सायन्तने सम्पतन्।
सम्प्रत्येव सरोरुहद्युतिमुषः पादांस्तवासेवितुं प्रीत्युत्कर्षकृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते॥ १८४॥

सागरिका— (सहर्षं परिवृत्य सस्पृहं पश्यन्ती) कहं अअं सो राआ (उदअणो जस्स अहं तादेण दिण्णा। (कथमयं से राजा उदयनो यस्याहं तातेन दत्ता ?)

यथा च वेणीसंहारे भीमः — रणयज्ञः। तथाहि— (वेसं. १.२४)

चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः संग्रामाध्वरदीक्षितो नरपतिः पत्‍नी गृहीतव्रता।
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं राजन्योपनिमन्त्रणाय रसति स्फीतं यशो/इतो दुन्दुभिः॥ १८५॥

११. (१.११ करणम्)

प्रकृतार्थसमारम्भं करणं परिचक्षते॥ १८६॥

(नाशा. १९.७०) यथा रत्‍नावल्यां

सागरिका—कहं अअं सो राजा उदअणो जस्स अअं तादेण दिण्णा। ता परप्पेसणदूसिदं वि मे सरीरं एदस्स दंसणेण अज्ज बहुमदं संवुत्तम्।) (कथमयं स राजा उदयनो यस्याहं तातेन दत्ता ? तत् परप्रेषणदूषितमपि मे शरीरमेतस्य दर्शनेनाद्य बहुमतं संवृत्तम्।)

यथा च वेणीसंहारे—

सहदेवः—आर्य, गच्छामो वयमिदानीं गुरुजनेनानुज्ञाता विक्रमानुरूपमा— चरितुम्।

भीमः—वत्स, एते वयमुद्यता एव (आर्यस्य) आज्ञामनुष्ठातुम्। (उत्तिष्ठति।)।

(उत्थाय) देवि, गच्छामो वयमिदानीं कुरुकुलक्षयाय इति।

१२. (१.१२ भेदः)

सङ्घातरूपभेदो यः स भेद इति कीर्तितः॥ १८७॥

(नाशा. १९.७०) यथा रत्‍नावल्यां —

सागरिका— दिठ्ठं जं दिठ्ठव्वं (दृष्ठं यद् द्रष्टव्यम्) इत्यादि भणित्वा निर्गता। यथा च वेणीसंहारे वासुदेवोपक्रान्तः सन्धिः x x x x (वेसं. १.२३)

यत् सत्यव्रतभङ्गभीरुमनसा यत्‍नेन मन्दीकृतं यद् विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता।
तद् द्यूतारणिसम्भृतं नृपवधूकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत् कुरुवने यौधिष्ठिरं जृम्भते॥ १८८॥

भीमः— जृम्भतामप्रतिहतकोपमार्यस्य ज्योतिरिति। (वेसं. १.२२—२४)

(२. प्रतिमुखसन्धौ द्वादशाङ्गनि)

अथ प्रतिमुखाङ्गानि द्वादश।

१३. (२.१ विलासः)

समीहा रतिभोगार्था विलासः परिकीर्तितः॥ (नाशा. १९.७१)

यथा रत्‍नावल्यां चित्रितेनापि नायकेन सह सम्भोगसुखमवगच्छन्त्या सागरिकया।

यथा च वेणीसंहारे राजा— विनयन्धर, प्रातरेव वासभवनान्मामनामन्त्र्यैव भानुमती निष्क्रान्तेति व्याक्षिप्‍तं मे मनः।

१४. (२.२ परिसर्प)

दृष्टनष्टानुसरणं परिसर्पः॥ १८९॥

(नाशा. १९.७१) यथा रत्‍नावल्यां मदनपरवशां सागरिकां राजानमालिखन्तीं दृष्ट्वा सुसङ्गतया— भ्यधायि — किं पुण एसा गुरुआणुराओक्खित्तहिअआ आलिहंती मं पि ण पेक्खदि। होदु। तो जाव इमाए दिठ्ठिवहं से परिहरिअ णिरूवइस्सं किं एसा आलिहदि त्ति। {किं पुनरेषा गुर्वनुरागोत्क्षिप्‍तहृदया आलिखन्ती माम् अपि न प्रेक्षते ? भवतु। तद्यावदस्या दृष्टिपथं परिहृत्य निरूपयिष्यामि किमेषाऽऽलिखति इति।}

यथा च वेणीसंहारे कञ्चुकी— साधु पतिव्रते साधु ! स्त्रीस्वभावेऽपि वर्तमाना वरं भवती, न पुनर्महाराजः, योऽयमुद्यतेषु बलवत्सु, अथवा किं बलवत्सु वासुदेवसहायकेषु रिपुषु अद्याप्यन्तःपुरक्रीडासुखमभिलषति। इदं चापरमयथायथं स्वामिनश्चेष्टितम्। (वेसं. २.२)

आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने— स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः।
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात्॥

इति। १५. (२.३ विधूतम्)

कृतस्य विनय(स्यानुनय)स्यादौ विधूतं ह्यपरिग्रहः॥ १९१॥

(नाशा. १९.७२) यथा रत्‍नावल्यां —

सुसङ्गता— (सागरिकाहृदये हस्तं दत्त्वा), सहि समस्सस समस्सस। जाव इमाए दिग्घिआए णलिणीपत्ताइं मुणालोअइं अ गेण्हिअ आअच्छामि। {सखि, समाश्वसिहि समाश्वसिहि ! यावदस्या दीर्घिकाया नलिनीपत्राणि मृणालिकां च गृहीत्वा आगच्छामि। (उत्थाय परिक्रम्योपसृत्य नलिनीपत्राणि मृणालिकाश्च नाट्येन हृदयेऽस्या ददाति।)}

सागरिका— (पत्राणि विक्षिपन्ती) सहि, अवणेहि णलिणीपत्ताइं मुणालिआ अ। अलं एदेहिं। कीस अआरणे अत्ताणं आआसेसि त्ति। (सखि, अपनय नलिनीपत्राणि मृणालिकाश्च। अलमेतेन। किमकारण आत्मानमायासयसि इति।) ॥ १९२॥

यथा च वेणीसंहारे (द्वितीयेऽ)ङ्के — (वेसं. २.१६)

राजा—

विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः परिजनपदवर्तिन्यत्र किं सम्भ्रमेण।
स्मितमधुरमुदारं देवि ! मामालपोच्‍चै प्रभवति मम पाण्योरञ्जलिः त्वं स्पृशाऽस्मिन्॥ १९३॥

भानुमती— अय्यउत्त ! कस्सिंचि णिअमे अहिप्पाओ। तो अणुमण्णदु मं अय्यउत्तो त्ति। (आर्यपुत्र ! कस्मिंश्चिन्नियमेऽभिप्रायः। तदनुमन्यतां मामार्यपुत्रः इति।)

१६. (२.४ तापनम्) अपायदर्शनं यत्तुं तापनं नाम तद्भवेत्॥ १९४॥

(नाशा.१९.७२) यथा रत्‍नावल्यां सागरिका—

दुल्लहजणेऽणुराओ लज्जा गुरुई परव्वसो अप्पा।
पिअसहि विसमं प्पेम्म मरणं सरणं णु वरमेकम्॥ १९५॥

(दुर्लभजनेऽनुरागो लज्जा गुर्वी परवश आत्मा।
प्रियसखि ! विषमं प्रेम मरणं शरणं नु वरमेकम्॥)

(रत्‍ना. २.१) यथा च वेणीसंहारे—

सुवदना— सहि भाणुमदि ! कीस दाणीं तुमं सिविणअदंसणमेत्तकस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी भविअ एव्वं विअलिअत्थिरभावा अणिमित्तं संतप्पसि। (सखि भानुमति ! कस्मादिदानीं त्वं स्वप्‍नदर्शनमात्रकस्य कृते अभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वा एवं विगलितस्थिरभावा अनिमित्तं सन्तप्यसे ?)

भानुमती—एव्वं णेदम्। किं उण तं(?) मे सिविणअणिमित्तं आउइ (आउल)दंसणं पडिभादि। (एवं नु एतत्। किं पुनस्तत् में स्वप्‍ननिमित्तमाकुलदर्शनं प्रतिभाति ?) ॥ १९६॥

१७. (२.५ नर्म)

क्रीडाविलोभनार्थं च हास्यं नर्मेति कीर्तितम्॥ १९७॥

(नाशा. १९.७३) यथा रत्‍नावल्यां

विदूषकः—(कर्णं दत्त्वा, ससम्भ्रमं राजानं हस्ते गृहीत्वा) भो वयस्स ! एहि पलाअह्म। एस्सिं बउलपाअपे किं वि भूदं पडिवसदि। जइ मं ण पत्तिआआसि, ता अग्गदो भविअ सअं ए(व्व) आअण्णेहि। {भो वयस्य ! (एहि प)लायावः। अस्मिन् वकुलपादपे किमपि भूतं प्रतिवसति। यदि मां न प्रत्याययसि, तदग्रतो भूत्वा स्वयमेवाकर्णय।}

राजा—(आकर्ण्य) वयस्य ! शारिकेयम् इति॥

यथा च वेणीसंहारे

राजा कृतावकुण्ठनश्चेट्या हस्ताद् गृहीत्वा भानुमत्या अर्घ्यपात्रमुपनयति।

भानुमती—{स्पर्शमभिनीय सोत्कम्पमर्घ्यपात्रं धारयति। ससाध्वसाया हस्तात् पुष्पाणि पतन्ति। (राजानमवलोक्य) अहो पमादो परिअणस्स। (अहो प्रमादः परिजनस्य !)} इत्यत आरभ्य—

राजा—(सपरिहासं) निपुणः परिजनस्ते एवंविधे सेवावकाशे इति ॥ १९८॥

१८. (२.६. नर्मद्युतिः)

दोषप्रच्छादनार्थं तु हास्यं नर्मद्युतिः स्मृता॥ १९९॥

(नाशा. १९.७३) यथा रत्‍नावल्यां

विदूषकः— (ऊर्ध्वं विलोक्य) कहं सच्‍चं एव्व सारिआ। (दण्डकाष्ठमुद्यम्य) दासीएधीए, किं तुए जाणिदं जहा स सच्‍चं एव्व वसन्तओ भाअदि। ता चिठ्ठ मुहुत्तअं, जाव इमिणा रत्तकामिणीहिअअभंगुरेण दंडकठ्ठएण पडिपक्के विअ कइत्थफलं इमादो वउळपाअवादो पाडइस्सं इति। (कथं सत्यमेव शारिका ! दास्याःपुत्रि, किं त्वया ज्ञातं यथा स सत्यमेव वसन्तको बिभेति ? तत्तिष्ठ मुहूर्तं यावदेतेन रक्तकामिनीहृदयभङ्गुरेण दण्डकाष्ठेन परिपक्‍वमिव कपित्थफलमस्माद् वकुलपादपात् पातयिष्यामि इति।)

यथा च वेणीसंहारे

राजा— (सपरिहासं) देवि ! श्रुतविस्तार एवास्मि भवत्याः स्वप्‍नवृत्तान्तस्य; तदलमत्यन्तसुकुमारमात्मानं खेदयितुम् इति ॥२००॥

१९. (२.७. प्रशमनम्)

उत्तरोत्तरवाक्यं तु भवेत् प्रशमनं तथा॥ २०१॥

(नाशा. १९.७४) यथा रत्‍नावल्यां

विदूषकः— भो एसा खु सारिआ चउवेदी विअ ब्रह्मणो रिआओ पठिदुं आरद्धा। (भो एषा खलु शारिका चतुर्वेदी इव ब्राह्मणः ऋचः पठितुमारब्धा।)

राजा— मित्राऽन्यचेतसा मया नावधारितं, किमनयोक्तम् ?

विदूषकः— भो एआए मंतिदं— (भो एतया मन्त्रितम्)— दुळहजणेऽणुराओ (दुर्लभजनेऽनुरागो) इत्यादि पठति।

राजा— (सहासं) महाब्राह्मण, भवन्तं मुक्त्वा कोऽन्य एवमृचामभिज्ञः ?

विदुषकः— किं खु दाणि एदं। (किं खल्विदानीमेतत् ?)

राजा— वयस्य, ननु गाथा। इदं कयापि श्लाघ्यमनासादयन्त्या जीवितनिरपेक्षयोक्तम्।

विदूषकः— किं एदेहिं वक्‍कभणिदेहिं ? उज्जुअं एव्वं किं ण भणसि जह मं णासाअअंतीए त्ति। अण्णहा को अण्णो कुसुमचावव्ववदेसेण णिण्हवीअदि। {किमेतैर्वक्रभणितैः ? ऋजुकमेवं किं न भणसि यथा माम् अनासादयन्त्या इति। अन्यथा कोऽन्यः कुसुमचापव्यपदेशेन निह्नूयते ?} (इत्युच्‍चैर्हसति॥)

यथा च वेणीसंहारे (प्रविश्य)

कञ्चुकी— भग्‍नम्।

दुर्योधनः— केन ?

कञ्चुकी— भीमेन।

दुर्योधनः— कस्य ?

कञ्चुकी— भवतः।

दुर्योधनः— किमुद्धतं प्रलपसि ?

कञ्चुकी—(सभयं) देव,

भग्‍नं भीमेन भवतो मरुता रथकेतनम्॥ २०२॥

(वेसं. २.२३) इति॥ २०. (२.८ निरोध:)

सुखानां सन्निवेशो यः स निरोधः प्रकीर्तितः॥ २०३॥

(नाशा.१९.७४) यथा रत्‍नावल्यां

राजा— धिङ्मूर्ख! किमुच्चैर्हसता त्वयेयं त्रासिता? येनोड्डीयान्यतः क्‍वापि गता इति।

यथा(च) वेणीसंहारे (भानुमत्या सह सुखासीने राजनि प्रविश्य जयद्रथमाता दुःशला च।)

माता— परित्ताअदु परित्ताअदु कुरुणाहो। (परित्रायतां परित्रायतां कुरुनाथः।)

दुर्योधनः — समाश्वसिहि। कुशलं समराङ्गणेष्वप्रतिहतरथस्य महाराजजयद्रथस्य।

माता— कुदो कुदो कुसलम्? (कुतः कुतः कुशलम्?) इत्यादि॥ २०४॥

२१. (२.९ पर्युपासनम्)

क्रुद्धस्यानुनयो यस्तु१ भवेत् तत् पर्युपासनम्॥ २०५॥

(नाशा. १९.७५) यथा रत्‍नावल्यां

विदूषकः—भो एसा खु कअलीघरपेरंतेण गदा। ता एहि तुरिअं अणुसरह्म। (भो एषा खलु कदलीगृहपर्यन्तेन गता! तदेहि, त्वरितमनुसरावः।)

यथा च वेणीसंहारे

राजा—(कञ्चुकिनमुद्दिश्य) विनयन्धर! किमाह भवान्? एकाकी बहुभिर्बालो लूनशरासनश्च हत इति। पश्य—(वेसं. २.३)

हते जरति गोङ्गेये पुरस्कृत्य शिखण्डिनम्।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति॥ २०६॥

२२. (२.१० पुष्पम्)

विशेषवचनं यत्तु तत् पुष्पमिति संज्ञितम्॥ २०७॥ (नाशा. १९.७५)

यथा रत्‍नावल्यां

विदूषकः— भो एदं खु तं जं मए भणिदं तुमं एव्व एत्थं आलिहिदो। अण्णहा को अण्णो कुसुमचापव्ववदेसेण णिण्हवीअदि इति। (भो, एतत्खलु़ १. स्याननुयोगस्तु इति रा. तत् यन्मया भणितं त्वमेवेतमिलिखितः। अन्यथा कोऽन्यः कुसुमचापव्यपदेशेन निह्रूयत इति।)

यथा च वेणीसंहारे

राजा—अलं विकल्पेन। स्वप्‍नदर्शनमनया वर्णितम्। मया पुनर्मन्द— धिया(ऽन्‍ )यथैव संभावितम् इति॥ २०८॥

२३. (२.११ वज्रम्)

प्रत्यक्षरूक्षं यद् वाक्यं तद् वज्रमिति कीर्तितम्॥ २०१॥

(नाशा. १९.७६) यथा रत्‍नावल्यां

राजा—सुसङ्गते, कथमहमिहस्थो भवत्या विज्ञानः?

सुसङ्गता—भट्टा! ण केवलं तुमं, समं चित्तफलएण सव्वो मए वुत्तन्तो विण्णादो। ता गदुअ देवीए णिवेदइस्सं इति। (भर्तः! न केवलं त्वं, समं चित्रफलकेन सर्वो मया वृत्तान्तो विज्ञातः। तद् गत्वा देव्यै निवेदयिष्ये।) इति॥

यथा च वेणीसंहारे

राजा कञ्चुकिनमाह—आ वृद्धापसद, मरुता रथस्य केतुर्भग्‍नः। तत्किमाकुलं प्रलपसि इति॥ २१०॥

२४. (२.१२ वर्णसंहारः)

वर्णितार्थतिरस्कारो वर्णसंहार उच्यते॥ २११॥

(नाशा. १९.७७) यथा रत्‍नावल्यां

विदूषक:— (अपवार्य), भो सव्वं संभाविअदि। मुहरा खु एसा गब्भदासी। ता परिओसेहि णं। (भोः, सर्वं सम्भाव्यते। मुखरा खल्वेषा गर्भदासी। तत् परितोषयैनाम्।)

राजा— युक्तमभिहितम्। सुसङ्गते! क्रीडामात्रमेवैतत्। तथा नाकारणं त्वया देवी खेदयितव्या। तद् गृहाण कर्णाभरणम्।

सुसङ्गता—इदं भट्टिणो पसादेण मए कीलिदं एव्व। ता किं कण्णाभरणेण। अदो वि मे गुरुओ पसादो जं किस्स तए अहं चित्तफळए आळिहिदा त्ति परिकुविदा मे पिअसही साअरिआ। सा पसादिअदु इति। १. ‘चातुर्वर्ण्योपगमनंम्’ इति नाशा. १९.७७ (इदं भर्तुः प्रसादेन मया क्रीडितमेव। तत् किं कर्णाभरणेन ? अयमपि मे गुरुः प्रसादः यत् किमिति त्वया अहं चित्रफलके आलिखितेति परिकुपिता मे प्रियसखी सागरिका। सा प्रसाद्यताम् इति।)

यथा च वेणीसंहारे कञ्चुकिना रथकेतनपतनम् आवेदिते।

(भानुमती)—अंतरिअदु दाव एदं समत्थपणाणं (बंमणाणं) वेअपथभणि मंगळग्घोसेण इति। (अन्तरीयतां तावदेतत् समर्थब्राह्मणानां वेदध्वनिमङ्गलोद्धोषेण इति।) ॥ २१२॥

(३. गर्भसन्धौ त्रयोदशाङ्गानि)

अथ गर्भाङ्गानि त्रयोदश। तेषु—

२५. (३.१ अभूताहरणम्)—

अभूताहरणं तत् स्याद् वाक्यं यत् कपटाश्रयम्॥ २१३॥

(नाशा. १९.७७) यथा रत्‍नावल्यां

विदूषकः — सुसङ्गदे ! ण हु साअरिअं वज्जिअ अण्णं पिअवअस्सस्स असत्थदाए कारणं। ता चिंतेहि एत्थ को उवाओ त्ति। अज्जए चित्तफळअवुत्तंतसंकिदाए साअरिअं मप(म) रक्खिदु समप्पअंतीए जहावण . . . (जं णेवत्थं मे) पसादीकिदं ता तेण एव्व विरइदभट्टिणीवेसं साअरिअं गेह्‍िणअ अहं वि कंचणमालावेस (धा)रिणी भविअ पदोसे आगमिस्सं। तुमं पि इध एव्व पडिवालइस्ससि। तदो माहवीलदामंडवे भट्टिणो तए सह समाअमो हविस्सदि। (सुसङ्गते ! न खलु सागरिकां वर्जयित्वा अन्यत् प्रियवयस्यस्यास्वस्थतायाः कारणम्। तत् चिन्तयात्र क उपाय इति। आर्यया चित्रफलकवृत्तान्तशङ्कितया सागरिकां मम रक्षितुं समर्पयन्त्या यन्नेपथ्यं मे प्रसादीकृतं ततस्तेनैव विरचितभट्टिनीवेषां सागरिकां गृहीत्वा अहमपि काञ्चनमालावेषधारिणी भूत्वा प्रदोषे आगमिष्यामि। त्वमपि इहैव प्रतिपालयिष्यसि। ततो माधवीलतामण्डपे भर्तुः तया सह समागमो भविष्यति।}

यथा च वेणीसंहारे द्रौपदीमुद्दिश्य सूतोऽश्वत्थामानमाह—(वेसं. ३.१०)

अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा।
तच्छुत्वाऽसौ दयिततनयः प्रत्ययात् तस्य राज्ञः शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच॥ २१४॥

२६. (३.२ मार्गः)

तत्त्वार्थवचनं चैव मार्ग इत्यभिधीयते॥ २१५॥

(नाशा. १९.७८) यथा रत्‍नावल्यां तृतीयेऽङ्के काञ्चनमालया सर्वोऽसौ सुसङ्गतावसन्तकयोः कपटप्रपञ्चो राज्ञश्चास्वस्थास्थताप्रच्छादनं तत्त्वत उपलभ्य मदनिकायै पुनश्च वासवदत्तायै निवेदितम् इति।

यथा य वेणीसंहारे

राजा— कथं पुनराचार्यः शस्त्रग्रहणसमये सस्त्रमुज्झितवान् ?

कर्णः— अयमभिप्रायः तत् (तस्य ?) स्यात्— अश्वत्थामा मया पृथिवीराज्ये अभिषेक्तव्य इति। तस्यैवाभावाद् वृद्धस्य मे ब्राह्मणस्य वृथा शस्त्रग्रहणमिति तथा कृतवान्।

राजा— साधु, निपुणमुपलक्षितम्। अत एव समर्थोऽपि कुरुकुलक्षय— मुपेक्षितवान् इति।

२७. (३.३ रूपम्)

चित्रार्थसमवाये तु वितर्को रूपमुच्यते॥ २१६॥

(नाशा. १९.७८) यथा रत्‍नावल्यां तृतीयेऽङ्के

राजा—अहो महदाश्चर्यम् !

मनश्चलं प्रकृत्यैव दुर्लक्ष्यं च तथापि मे।
कामेनैतत् कथं विद्धं समं सर्वैश्शिलीमुखैः॥ २१७॥

(रत्‍ना ३.२) इति॥ यथा च वेणीसंहारे

राजा— (वेसं. ३.२६)

तेजस्वी रिपुहतबन्धुदुःखपारं बाहुभ्यां व्रजति धृतायुधप्लवाभ्याम्।
आचार्यः सुतनिधनं निशम्य संख्ये किं शस्त्रग्रहसमये विशस्त्र आसीत्॥ २१८॥

२८. (३.४ उदाहरणम्)

यच्‍चातिशयवद् वाक्यं तदुदाहरणं स्मृतम्॥ २१९॥

(नाशा. १९.७९) यथा रत्‍नावल्यां

विदूषकः— ही ही ! कोसंबीरज्जलाहेण वि ण तादिसो पिअवअस्सस्स मणपरिओसो आसी जादिसो अज्ज मम सआसादो पिअवअणं सुणिअ भविस्सदि त्ति तक्‍केमि। (ही ही ! कौशाम्बीराज्यलाभेनापि न तादृशः प्रियवयस्यस्य मनःपरितोषः आसीद् यादृशोऽद्य मम सकाशात् प्रियवचनं श्रुत्वा भविष्यतीति तर्कयामि।)

यथा च वेणीसंहारे

अश्वत्थामा—अङ्गराज ! किमाह भवान्—किमत्र क्रियत इति ? श्रूयतां यद् यत् क्रियते—(वेसं. ३.३१)

यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम्॥ २२०॥

२९. (३.५. क्रमः)

भावतत्त्वोपलब्धिस्तु क्रम इत्यभिधीयते॥ २२१॥

(नाशा. १९.७९) यथा रत्‍नावल्यां तृतीयेऽङ्के —

विदूषकः—(उपसृत्य) भो वअस्स ! दिठ्ठिआ वड्ढसि समीहितब्भदिआऐ कज्जसिद्धीए। (भो वयस्य, दिष्ट्या वर्धसे समीहिताभ्यधिकया कार्यसिद्ध‍या।)

राजा— वयस्य, अपि कुशलं प्रियायाः ?

विदूषकः— अइरेण पेक्खिअ सअं एव्व जाणिस्सिदि भवं। (अचिरेण प्रेक्ष्य स्वयमेव ज्ञास्यति भवान्।)

राजा—(सपरितोषं) कथं दर्शनमपि भविष्यति, इति।

यथा च वेणीसंहारे तृतीयेऽङ्के, . . .

राजन् दुर्योधन ! महा(न्) x x x x x भवता च कृतपरिकरोऽयं लोकत्रयमुच्छेत्तुं समर्थः, किं पुनरेतद् युधिष्ठिरबलम् ? तदभिषिच्यतां सैनापत्ये।

राजा— सुष्ठुं युज्यमानमभिहितम्; किं तु प्राक्प्रतिपन्नोऽयमर्थो मयाऽङ्गराजस्य, इति ॥ २२२॥

३०. (३.६ संग्रहः)

सामदानार्थसम्पन्नः संग्रहः परिकीर्तितः॥ २२३॥

(नाशा. १९.८०) यथा रत्‍नावल्यां तृतीयेऽङ्के

राजा— (सहर्षं) (साधु) वयस्य, साधु। इदं च ते पारितोषिकम्। (हस्तादपसार्य कटकं प्रयच्छति)।

यथा च वेणीसंहारे

अश्वत्थामा— राजन् कौरवेश्वेर ! किमद्यापि युक्तायुक्तविचारणया ?॥ २२४॥

प्रयत्‍नपरिबोधितः स्तुतिभिरद्य शेषे निशा— मकेशवमपाण्डवं भुवनमद्य निस्सोमकम्।
इयं परिसमाप्यते रणकथाऽद्य दोश्शालिना— मपैतु नृपकाननाचिगुरुरद्य भारो भुवः॥ २२५॥

(वेसं. ३.३३) ३१. (३.७ अनुमानम्)

रूपानुरूपगमनमनुमानमिति स्मृतम्॥ २२६॥

(नाशा. १९.८०) यथा रत्‍नावल्यां —

विदूषकः—(निरूप्य) भो एदं खु (संस)त्तं (बहल)पत्तपादवदाए पिंडीकदंधआरं विअ उज्जाणं। ता कधं एत्थ मग्गो लक्खीअदि ? (भो, एतत् खलु संसक्तबहलपत्रपादपतया पिण्डीकृतान्धकारमिव उद्यानम्। तत्कथमत्र मार्गो लक्ष्यते ?)

राजा— वयस्य ! सुज्ञातमेवैतत्। तथा हि—(रत्‍ना. ३.८)

पालीयं चम्पकानां नियतमयमसौ सुन्दरः सिन्धुवारः सान्द्रा वीथी तथेयं बकुलविटपिनां पाटला पङ्क्तिरेषा।
आघ्रायाघ्राय गन्धं विविधमधिगतैः पादपैरेवमस्मिन् व्यक्तिं पन्थाः प्रयाति द्विगुणतरतमोनिह्नुतोऽप्येष चिह्नैः॥ २२७॥

इति। यथा च वेणीसंहारे

अश्वत्थामा— (अग्रतो विलोक्य), हा हा धिक्कष्टम् ! भो भोः ! प्रतिज्ञाभङ्गभीरुः किरीटी दुर्योधनराधेयौ शरवर्षैरभिद्रवति। सर्वथा पीतं शोणितं दुःशासनस्य भीमेन, इति।

३२. (३.८ प्रार्थना)

अभ्यर्थनापरं वाक्यं प्रार्थनेत्यभिधीयते १॥ २२८॥

(नाशा. १९.८१) यथा रत्‍नावल्यां तृतीयेऽङ्के

विदूषकः—भोदि साअरिए ! वीसद्धा भविअ आलव पिअवअस्सं। अज्ज वि दाव से णिच्‍चरुट्टाए देवीए वासवदत्ताए दुट्‍ठवअणेहिं कडुइदाइं सोत्ताइं संपदं सुहावेदु तुह महुरवअणोवण्णासो। (भवति सागरिके ! विस्रब्धा भूत्वा आलप प्रियवयस्यम्। अद्यापि तावदस्या नित्यरुष्टया देव्या वासवदत्तायाः दुष्टवचनैः कटुकिते श्रोत्रे साम्प्रतं सुखयतु तव मधुरवचनोपन्यासः।)

यथा च वेणीसंहारे

अश्वत्थामा— राजन् दुर्योधन ! अभीष्मद्रोणं च संप्रति कौरवबलमालोडयन्तौ भीमार्जुनौ राधेयेन नैवंविधेनान्येन वा शक्येते निवारयितुम्। अतः स्वयं भ्रातुः प्रतीकारपरो भव, इति ॥ २२९॥

३३. (३.९ संक्षिप्‍तिः)

गर्भस्योद्भेदनं यत्तु २संक्षिप्‍तिरिति गीयते॥ २३०॥

(नाशा. १९.८१) यथा रत्‍नावल्यां

राजा—(मुखमुद्‍घाट्य, उन्नमय्य) विलोक्य च, सविषादं कथं देवी वासवदत्ता ! (विदूषकमुद्दिश्य) मूर्ख, किमेतत् ?

विदूषकः—(सभयं) भो अह्माणं जीविदसंसओ। (भोः, अस्माकं जीवितसंशयः !)

यथा च वेणीसंहारे चतुर्थेऽङ्के

सुन्दरकः—अह वा किं एत्थ देवं उवालहामि। तस्स क्खु एदं १. रतिहर्षोत्सवादीनां प्रार्थना प्रार्थना भवेत्। नाशा. १९.८१ २. ‘साऽऽक्षि’—इति नाशा. १९.८१ णिब्भच्छिअविउरवअणवीअस्स परिभूदपिदामहहिदोवदेसंकुरस्स सउणिप्पोच्छाहणावरूढमूलस्स जदुगेहजूदविससाहिणो पंचाली— केसग्गहणकुसुमस्स फलम्, इति। (अथ वा किमत्र दैवमुपालभे ? तस्य खल्वेतद् निर्भर्त्सितविदुरवचनबीजस्य परिभूतपितामह— हितोपदेशाङ्कुरस्य शकुनिप्रोत्साहनावरूढमूलस्य जतुगृह— द्यूतविषशाखिनः पाञ्चालीकेशग्रहणकुसुमस्य फलम्, इति।}॥ २३१॥

३४. (३.१० तोटकम्)

संरम्भवचनं चैव तोटकं समुदाहृतम्॥ २३२॥

(नाशा. १९.८१) यथा रत्‍नावल्यां

राजा—(अञ्जलिं बद्ध‍्‍वा), प्रिये वासवदत्ते, प्रसीद।

वासवदत्ता—(अश्रूणि धारयन्ती), अय्यवुत्त ! मा एवं भण। संकंताइ खु एदाइं अण्णस्सि अक्खराइं।

(आर्यपुत्र ! मा एवं भण। संक्रान्तानि खल्विदानीमन्यस्यामक्षराणि।)

यथा च वेणीसंहारे

राजा—सुन्दरक, कच्‍चित् कुशलमङ्गराजस्य ?

पुरुषः—कुसलं सरीरमेत्तएण। (कुशलं शरीरमात्रकेण।)

राजा—किञ्चास्य किरीटिना निहता धौरेयाः क्षतस्सारथिर्भग्‍नो वा रथः ?

पुरुषः— देव ण भग्गो रहो। भग्गो दे मणोरहो। (देव ! न भग्‍नो रथः। भग्‍नस्ते मनोरथः)

राजा—ससंरम्भं किमविस्पष्टवचनैराकुलमपि पर्याकुलयसि मे हृदयम् ? इति।

३५. (३.११ अधिबलम्)

कपटस्यान्यथाभावं ब्रुवतेऽधिबलं बुधाः॥ २३३॥

(नाशा. १९.८२) यथा रत्‍नावल्यां तृतीयेऽङ्के (रत्‍ना. ३.१४)

राजा—एवमपि प्रत्यक्षदृष्टव्यलीकः किं विज्ञापयामि ?

आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि मूर्ध्‍ना।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदिपरं करुणा मयि स्यात्॥ २३४॥

यथा च वेणीसंहारे

सुन्दरकः—तदो अ देव सत्तिखंडणामरिसिदेण गंडीविणा भणि(अ)—रे रे दुज्जोहणप्पमुहा कुरुकुल—अविणअ—णावाकण्णधार कण्ण ! तुम्हेहिं बहुहिं महारहेहिं पडिवारिअ एआई मम पुत्तओ अहिमण्णु व्वावादिदो। अहं उण तुम्हाणं पेक्खन्ताणं एव्व विससेणं अज्ज सुमरिदव्वसेसं करोमि। (ततश्च देव ! शक्तिखण्डनामर्षितेन गाण्डीविना भणितम्—रे रे दुर्योधनप्रमुखाः, कुरुकुलाविनय— नावाकर्णधार कर्ण ! युष्माभिः बहुभिर्महारथैः परिवार्यैकाकी मम पुत्रकोऽभिमन्युर्व्यापादितः। अहं पुनर्युष्माकं प्रेक्षमाणानामेव वृषसेनमद्य स्मर्तव्यशेषं करोमि।) ॥ २३५॥

३६. (३.१२ उद्‍वेगः)

भयं नृपादिजनितमुद्वेगस्संप्रकीर्तितः॥ २३६॥

(नाशा. १९.८३) यथा रत्‍नावल्यां तृतीयेऽङ्के,

सागरिका—वरं दाणिं अहं सअं एव्व अत्ताणं उब्बंधिअ उवरदा, ण उण जाणिदसंकेदवुत्तंतए देवीए परिभूद ह्मि। ता जाव इह असोअपादवं गदुअ जधासमीहिदं करिस्सं।

{वरमिदानीमहं स्वयमेवात्मानमुद्‍बध्योपरता, पुनर्ज्ञातसंकेतवृत्तान्तया देव्या परिभूतास्मि। तद्यावदिह अशोकपादपं गत्वा यथासमीहितं करिष्ये।}

यथा च वेणीसंहारे चतुर्थेऽङ्के,

‘भो भोः भयस्खलितकार्मुककृपाणतोमरशक्तयः कौरवचमूभटाः पाण्डवपक्षपातिनश्च योधाः ! न भेतव्यं न भेतव्यम्’ इत्यादि भीमसेनवचनं श्रुत्वा, (सभयम्) कथमासन्नो दुरात्मा कौरवराज— पुत्रमहावनोत्पातमारुतः ! अनुपलब्धसंज्ञश्च महाराजः ! भवतु। सुदूरमपहरामि स्यन्दनम्। कदाचिदयमनार्यो दुश्शासन इवास्मिन्नद्याप्यनार्यमाचरिष्यति, इति ॥ २३७॥

३७. (३.१३ विद्रवः)

शङ्का भयत्रासकृतो विद्रवः समुदाहृतः॥ २३८॥

(नाशा. १९.८५) यथा रत्‍नावल्यां

विदूषकः— उच्‍चै भो वअस्स, परित्ताहि परित्ताहि। एसा क्खु देवी वासवदत्ता अप्पाणं उब्बंधिअ वावादिअदि। (भो वयस्य, परित्रायस्व, परित्रायस्व ! एषा खलु देवी वासवदत्ता आत्मानमुद्वध्य व्यापादयति।)

राजा— (ससम्भ्रममुपसृत्य) वयस्य, क्‍वासौ क्‍वासौ ?

विदूषकः— हो एसा। (अहो एषा !)

राजा—अयि किमिदमकार्यं क्रियते ? ॥ २३९॥

मम कण्ठगताः प्राणाः पाशे कण्ठगते तव।
अनर्थार्थः प्रयासोऽयं त्यज्यतां साहसं प्रिये॥ २४०॥

(रत्‍ना. ४.१) इति। यथा (च) वेणीसंहारे पञ्चमेऽङ्के,

सूतः—देव !

प्राप्‍तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः।

सर्वे— कश्च कश्च ?

सूतः— स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः॥ २४१॥(वेसं. ५.२५)

गान्धारी— (सभयम्) जाद ! किं एत्थ पडिवज्जिदव्वं ? (जात ! किमत्र प्रतिपत्तव्यम् ?)

राजा—ननु सन्निहितैवेयं गदा, इति।

(४. विमर्शसन्धौ त्रयोदशाङ्गानि)

अथ विमर्शाङ्गानि त्रयोदश। (तेषु)—

३८. (४.१ अपवादः)

दोषप्रख्यापनं यत् स्यात् सोऽपवादः प्रकीर्त्तितः॥ २४२॥

(नाशा. १९.८४) यथा रत्‍नावल्यां तृतीयेऽङ्के राज्ञि प्रियं वदत्यपि सागरिका—अय्यउत्त ! किं एदिणा अलीअदाक्खिण्णेण जीविदादो वि वल्लहतराए देवीए अत्ताणअं अवराहिणं करेसि ? (आर्यपुत्र ! किं एतेन अलीकदाक्षिण्येन जीवितादपि वल्लभतरायाः देव्याः आत्मानमपराधिनं करोषि ?।)

राजा—अयि ! मिथ्यावादिनी खल्वसि। कुतः—(रत्‍ना. ३.१७)

श्वासोत्कम्पिनि कम्पितं कुचयुगे मौने प्रियं भाषितं वक्त्रेऽस्याः कुटिलीकृतभ्रुणि रुषा यातं मया पादयोः।
इत्थं नः सहजाभिजात्यजनिता सेवैव देव्याः, परं प्रेमाबन्धविवर्धिताधिकरसा प्रीतिस्तु या सा त्वयि॥ २४३॥

यथा च वेणीसंहारे युधिष्ठिरः—(वेसं. ६.१)

तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम्।
भीमेन प्रियसाहसेन रभसादल्पावशेषे जये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः॥ २४४॥

३९. (४.२ संस्फोटः)

रोषग्रथितवाक्यं तु संस्फोट इति कीर्तितम्॥ २४५॥

(नाशा. १९.८४) यथा रत्‍नावल्यां तृतीयेऽङ्के तदेव सागरिका—वत्सराजयोर्वाक्यमलक्षिता निशम्योपसृत्य च देवी सरोषमाह—

जज्जउत्त ! जुत्तं एदं, सरिसं एदं। (आर्यपुत्र ! युक्तमेतत् ! सदृशमेतत् !)

राजा—(सागरिकां मुक्त्वा ससम्भ्रमम्) देवि ! न खल्वकारणे मामुपा— लब्धुमर्हसि। सत्यं त्वामेव मत्वा वेषसादृश्याद् विप्रलब्धा वयमिहागताः। तथापि क्षम्यताम्। (इति पादयोः पतति।)

वासवदत्ता—अय्यउत्त ! उट्टेहि। किं अज्जे वि अहिजाई सेवादुक्खं अणुभवीअदि ?। (आर्यपुत्र ! उत्तिष्ठ। किमद्यापि अभिजातया सेवादुःखमनुभाव्यते ?)

राजा—कथमिदमपि श्रुतं देव्या ? इति।

यथा च वेणीसंहारे

युधिष्ठिरः—पाञ्चालक ! कच्‍चिदासादिता तस्य दुरात्मनः कौरवापसदस्य पदवी ?

पाञ्चालकः—न केवलं पदवी, स एव दुरात्मा देवीकेशाम्बराकर्षणमहापातक— प्रधानहेतुरुपलब्धः, इति ॥ २४६॥

४०. (४.३ द्रवः)

गुरुव्यतिक्रमो यस्तु स द्रवः परिकीर्तितः॥ २४७॥

(नाशा. १९.८५) यथा रत्‍नावल्यां तृतीयेऽङ्के—

विदूषकः—होदि ! तुमं एव्व उब्बंधिअ अत्ताणअं विवज्जिहिसि त्ति करिअ वेससारिस्समोहिदेण मए वयस्सो इह आणीदो। (भवति ! त्वमेव उद्वध्यात्मानं विपत्स्यसे इति कृत्वा वेषसादृश्यमोहितेन मया वयस्य इहानीतः)। लतापाशं दर्शयति। किं ण पेक्खदि होदि इमं। (किं न प्रेक्षते भवती इदम् ?)

वासवदत्ता—कंचणमाले एदेण एव्व लदावासेण बंधिअ आणेहि बंहबंधुअं। (अङ्गुल्या तर्जयन्ती) एदं वि दुव्विणीअं अग्गदो करेहि। काञ्चनमाले ! एतेनैव लतापाशेन बद्ध‍्वा आनय ब्रह्मबन्धुम्। एतामपि कन्यकां दुर्विनीताम् अग्रतः कुरु।

काञ्चनमाला—जं भट्टिणी आणवेदि। यद् भट्टिनी आज्ञापयति। इति विदूषकं बध्‍नाति।

यथा वा वेणीसंहारे

युधिष्ठिरः—(द्रौपदीमवलोक्य, मुखादस्याः बाष्पमपनीय) अयि सुक्षत्रिये ! ॥ २४८॥

गुरूणां बन्धूनां क्षितिपतिसहस्त्रस्य पुरतः पुराऽभूदस्माकं नृपसदसि योऽयं परिभवः।
प्रिये ! प्रायस्तस्य द्वितयमपि पारं गमयिता क्षयः प्राणानां वा कुरुपतिपशोर्वाऽद्य समरे॥ २४९॥

(वेसं.६.४५) ४९. (४.४ शक्तिः)

विरोधप्रशमो यस्तु सा शक्तिः परिकीर्तिता॥ २५०॥

(नाशा. १९.८५) यथा रत्‍नावल्यां चतुर्थेऽङ्के—

विदूषकः—प्रविश्‍याह—ही ही भो अज्जे क्खु पिअवअस्सप्पसादिआए देविए बंधणादो मोइअ सहत्थदिण्णेहिं मोदएहिं चिरस्स कालस्स मे उदरं पूरिदं। अण्णच्च एदं पट्टंसुअजुअलं कण्णाहरणं च दिण्णं। ता जाव पिअवयस्सं पेक्ख, इति। (ही ही भोः! अद्य खलु प्रियवयस्यप्रसादितया देव्या बन्धनात् मोचयित्वा स्वहस्तदत्तैः मोदकैः चिरस्य कालस्य मे उदरं पूरितम्। अन्यच्च, एतत् पट्टांशुकयुगलं कर्णाभरणं च दत्तम्। तद् यावत् प्रियवयस्यं प्रेक्षे, इति}

यथा न वेणीसंहारे

पाञ्चालको युधिष्ठिरमाह— अहं च देवेन चक्रपाणिना देवसकाशमनुप्रेषितः। आह च देवो देवकीनन्दनः— अपर्युषितप्रतिज्ञे मारुतौ प्रनष्टे कौरवेश्वर महान् आसीन्नो विषादः। सम्प्रति पुनर्भीमसेनेनासादिते सुयोधने निष्कण्टकीभूतं भुवनतलं परिकल्पयतु देवः, इति॥ २५१॥

४२. (४.५. व्यवसायः)

व्यवसायश्च विज्ञेयः प्रतिज्ञाहेतुसम्भवः॥ २५२॥

(नाशा. १९.८६) यथा रत्‍नावल्याम् —

ऐन्द्रजालिकः—देव!

किं धरणिए मिअंको आआसे महिअरो जले जलणो।
मज्झण्हमि पओसो दाविज्जइ देहि आणत्तिं॥ २५३॥

(किं धरण्यां मृमाङ्क आकाशे महीधरो जले ज्वलनः।
मध्याह्ने प्रदोषो दर्श्‍यतां देह्याज्ञप्‍तिम्॥) (रत्‍ना. ४. ८)

अवि अ(अपि च)— (रत्‍ना. ४.१०,९)

हरिहरबह्मप्पमुहे देवे दावेमि देवराअं अ।
गअणे वि सिद्ध—विज्जाहर—वहु—सत्थं च णच्चंतं॥ २५४॥

(हरिहरब्रह्मप्रमुखान् देवान् दर्शयामि देवराज च।
गगने सिद्धविद्याधरवधूसार्धं च नृत्यन्तम्॥)

१. ‘बहुणा महमहनिमणेणावि अं पियं दट्ठुं’—इति HOS. द्र. परिशिष्टेऽपि किं जप्पिएण बहुणा जं जं हिअए समीहिदं१ पियं दटठुं।
तं तं दंसेमि अहं गुरुणो मंतप्पहावेण॥ २५५॥ इति।

(किं जल्पितेन बहुना यद् यद् हृदये समीहितं द्रष्टुम्।
तत्तद् दर्शयाम्यहं गुरोर्मन्त्रप्रभावेण॥}

ईदिसोअवस्टम्भो जेण सव्वं संभावीअदि। {ईदृशोऽवष्टम्भो येन सर्वं संभाव्यते।} इति।

यथा च वेणीसंहारे

युधिष्ठिरः—(अश्रूणि विमुञ्चन्)

सर्वथा कथय ब्रह्मन् संक्षेपाद् विस्तरेण वा।
वत्सस्य किमपि श्रोतुमेतद्दत्तं मनो१ मया॥ २५६॥ (वेसं.६.१५)

राक्षसः—श्रूयताम्—

तस्मिन् कौरवपार्थयोर्गुरुगदाघोरध्वनौ संयुगे॥ २५७॥

द्रौपदी—(लब्धसंज्ञा) तदो किं? (ततः किम्?)

राक्षसः—(आत्मगतम्) कथं पुनरप्यनया लब्धा संज्ञा? अयमपहराम्यस्याः प्राणान्।

सीरी तत्क्षणमागतश्चिरमभूत् तस्याग्रतः सङ्गरः॥ २५८॥

कञ्चुकी—नूनं तत्कुतोऽत्र कश्चिदपराद्धो भविष्यति?

राक्षसः— (वेसं.६.१६)

आलम्ब्य प्रियशिष्यतां तु हलिना संज्ञा रहस्याहिता
यामासाद्य कुरूत्तमः प्रतिकृतिं दुश्शासनारौ गतः॥ २५९॥

४३. (४.६ प्रसङ्गः)

अप्रस्तुतार्थवचनं२ प्रसङ्गः परिकीर्तितः॥ २६०॥

(नाशा. १९.८६) यथा रत्‍नावल्यां

वासवदत्ता—हला कंचणमाले! उज्जइणीए आअदो त्ति अत्थि मे एदस्सिं इंदजालिए वक्खवादो। (हला काञ्चनमाले, उज्जयिन्या आगत इत्यस्ति मे एतस्मिन् ऐन्द्रजालिके पक्षपातः।) १. मेतद्दत्तं मनोमेष दत्तः क्षणो—जो., मूलं HOS. २. प्रसङ्गश्‍चैव विज्ञेयो गुरूणां परिकीर्त्तनम्। नाशा. १९.८६ काञ्चनमाला—भट्टिणि, णाइकुलवहुमाणो खु एसो।

(भट्टिनि, ज्ञातिकुलबहुमानः खलु एषः।)

यथा च वेणीसंहारे—

युधिष्ठिरः—हा तात भीम हा कान्तारबान्धव, हा जतुगृहसमुद्रतरणयानपात्र, हा किर्मीरजटासुरजरासन्धप्रतिमल्ल, हा कीचकसुयोधनानुज— शतकनलिनीवनप्रालेयवर्ष!॥ २६१॥

निर्लज्जस्य दुरोदरव्यसनिनो वत्स! त्वया सा तदा भक्‍त्या मे समदद्विपायुतबलेनाङ्गीकृता दासता।
किं नामापकृतं मयाऽधिकमतस्त्वय्यद्य यद् गम्यते मुक्त्वाऽनाथमबान्धवं सपदि मां प्रीतिः क्‍व ते साऽधुना॥ (वेसं. ६.१७)

द्रौपदी—महाराअ, किं णेदं? (महाराज, किं न्विदम् ?)

युधिष्ठिरः—(वेसं. ६.१८)

स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा मदान्धमगधाधिपद्विरदसन्धिभङ्गाशनिः ।
गदापरिघशोभिना भुजयुगेन तेनान्वितः प्रियस्तव ममानुजोऽर्जुनगुरुर्गतोऽस्तं किल॥ २६३॥ इति।

४४. (४.७ द्युतिः)

वाक्यमाधर्षसंयुक्तं द्युतिस्तज्ज्ञैरुदाहृता॥ २६४॥

(नाशा. १९.८७) यथा रत्‍नावल्यां चतुर्थेऽङ्के,

विदूषकः—(अपवार्य) आः दासीएउत्त, इंदआलिअ, किं देवेहिं, किं वा अच्छराइहिं? जइ इमिणा परितुठ्ठेण दे पओअणं ता साअरिअं से दंसेहि। (आः दास्याःपुत्र, ऐन्द्रजालिक, किं देवैः, किं वाऽप्सरोभिः? यदि अनेन परितुष्टेन ते प्रयोजनं सागरिकां तस्य दर्शय।)

यथा च वेणीसंहारे षष्ठेऽङ्के,

युधिष्ठिरः—भगवन् कामपाल, कृष्णाग्रज, सुभद्राभ्रातः॥ २६५॥

ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन।
तुल्यः कामं भवतु भवतश्शिष्ययोस्स्‍नेहबन्धः कोऽयं पन्था यदसि विमुखो मन्दभाग्ये मयीत्थम्॥ २६६॥

(वेसं.) इति। ४५. (४.८ खेदः)

मनश्चेष्टाविनिष्पन्नः श्रमः खेद उदाहृतः॥ २६७॥

(नाशा. १९.८७) यथा रत्‍नावल्यां

राजा—आर्य वसुभूते! अपि कुशलं तत्रभवतः सिंहलेश्वरस्य ?

वसुभूतिः—(ऊर्ध्वमवलोक्य, निःश्वस्य च) देव! न जाने किं विज्ञापयामि।

वासवदत्ता—(सविषादमात्मगतम्) हद्धि, किं दाणीं वसुभूदी कथइस्सदि, किं भविस्सिदि त्ति संसए वट्टामि।

(हा धिक्, किमिदानीं वसुभूतिः कथयिष्यति ? किं भविष्यति इति संशये वर्ते।)

राजा—कथय, किमिति पर्याकुलोऽसि ?

बाभ्रव्यः— (अपवार्य) अमात्य, सुचिरमपि स्थित्वा कथनीयमेवैतत्। कथ्यताम्।

वसुभूतिः—देव, शक्यते कथयितुम्। तथाप्येष मन्दभाग्यः कथयामि। या सा तत्रभवता सिंहलेश्वरेण स्वदुहिता रत्‍नावली नाम आयुष्मतीं देवीं दग्धां वासवदत्तामुपश्रुत्य देवाय पूर्वं प्रार्थिता सती दत्ता—

विदूषकः— तदो ताए किं संउत्तं ? (ततस्तस्याः किं संवृत्तम् ?)

वसुभूतिः— सा युष्मदन्तिकमस्माभिरानीयमाना प्रवहणभङ्गात् सागरे निमग्‍ना।

वासवदत्ता— (सास्रम्) हा बहिणिए, कहिं सि। देहि मे पडिवअणं। (हा भगिनिके, क्‍वासि? देहि मे प्रतिवचनम्।) इति।

यथा च वेणीसंहारे—(वेसं. ६.२१)

युधिष्ठिरः—युक्तमाह पाञ्चाली। कञ्चुकिन्, क्रियतामियं तपस्विनी चितासंविभागेन सह्यवेदना। ममापि धनुरुपनय। अलमथवा धनुषा॥ २६८॥

तस्यैव देहरुधिरोक्षणपाटलाङ्गीम् आदाय संयति गदामपविध्य चापम्।
भ्रातृप्रियेण कृतमद्य यदर्जुनेन श्रेयो ममापि हि तदेव जयेन किं मे ॥ २६९॥

४६. (४.९ प्रतिषेधः)

ईप्सितार्थप्रतीघातः प्रतिषेध इति स्मृतः॥ २७०॥

(नाशा. १९.८८) यथा रत्‍नावल्यां चतुर्थेऽङ्के

राजा— देवि, समाश्वसिहि समाश्वसिहि। दुरवबोघा गतिर्दैवस्य। नन्वेतावेव वहनभङ्गेऽप्यभग्‍नौ बाभ्रव्यवसुभूती निदर्शनम्।

वासवदत्ता—अय्यउत्त, जुज्जइ एदं। कुदो उण मम एत्तिआ भाअधेया। (आर्यपुत्र, युज्यत एतत्। कुतः पुनः ममैतावद्भागधेयम् ?)

राजा— (वसुभूतिमपवार्य) बाभ्रव्य, किमेतत्? सर्वं नावगच्छामि।

बाभ्रव्यः— देव, श्रूयताम्॥ २७१॥

(नेपथ्ये)

हर्म्याणां हेमशृङ्गश्रियमिव निचयैरर्चिषामादधानः सान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितात्यन्ततीव्राभितापः।
कुर्वन् क्रीडामहीध्रं सजलजलधरश्‍यामलं धूमपातै— रेष प्लोषार्तयोषिज्जन इह सहसैवोत्थितोऽन्तःपुरेऽग्‍निः॥ २७२॥

(रत्‍ना.) (सर्वे ससम्भ्रममुत्तिष्ठन्ति।)

यथा च वेणीसंहारे युधिष्ठिरे दुर्योधनमभियोजयितुं जिगमिषति—

राक्षसः(उपगम्यय)— राजन्, रिपुजयविमुखं यदा ते चेतः तदा यत्र तत्र प्राणत्यागः क्रियताम्। वृथा तु तत्र गमनम्, इति।

४७. (४.१० विरोधनम्)

कार्यात्ययोपगमनं विरोधनमिति स्मतम्॥ २७३॥ (नाशा. १९.८८)

यथा रत्‍नावल्यां

वासवदत्ता— न खु अहं ? अत्तणो कारणेण एव्वं भणामि। एसा खु मए णिग्घिणाए इह संजदा साअरिआ विवज्जदि। ता परित्ताअदु परित्ताअदु अज्जउत्तो। (न खल्वहमात्मनः कारणेनैवं भणामि। एषा खलु मया निर्घृणयेह संयता सागरिका विपद्यते। तत्परित्रायतां परित्रायतामार्यपुत्रः!) इति।

यथा च वेणीसंहारे, (प्रविश्‍य सम्भ्रान्तः),

कञ्चुकी— महाराज! परित्रायताम्! एष दुरात्मा कौरवापसदः क्षतजजला— भिषेकपाटलिताम्बरः समुच्छ्रितरक्तभीषणगदाशनिरुद्यतकालदण्ड इव अन्तकोऽत्रभवतीं पाञ्चालतनयामितस्ततः परिमार्गमाणः इत एवाभिवर्तते, इति॥ २७४॥

४८. (४.११ आदानम्)

बीजकार्योपगमनमादानमिति संज्ञितम्॥ २७५॥

(नाशा. १९.८९) यथा रत्‍नावल्यां ‘सागरिका विपद्यते, तां परित्रायतां राजपुत्रः’ इति वासवदत्तयोक्ते,

राजा— एष गच्छामि।

वसुभूतिः—किमयमकारणे पतङ्गवृत्तिः क्रियते ?

कञ्चुकी— युक्तमाह वसुभूतिः।

विदूषकः—(राजानमुत्तरीये गृहीत्वा) भो मा खु मा खु साहसं करइस्ससि। (भोः, मा खलु मा खलु साहसं कुरु!)

राजा— (उत्तरीयमुत्सृज्य)—‘मूर्ख, सागरिका दह्यते। अहं प्राणान् बिभर्मि’ इत्यारभ्य सर्वेष्वग्‍निप्रवेशं नाटयत्सु, राजा—‘नन्वियमासन्ना वर्तते सागरिका। तत् त्वरितमेनां सम्भावयामि’ इति यावत्।

यथा च वेणीसंहारे

कञ्चुकी बुद्धिमतिकामाह—कष्टम्! इदानीमयं दुरात्मा यथेष्टं प्रवर्तते। सर्वथाऽयं सम्प्रति देशकालोचितः प्रतीकारः। चितासमीपं नयाम्यत्रभवतीं पाञ्चालराजतनयाम्। त्वमपि भद्रे! देव्याः भ्रातरं धृष्टद्युम्‍नं नकुलसहदेवौ सम्भावय, इति। एतदवस्थे (महा)राजेऽस्तमितयोः भीमार्जुनयोरियमत्र परित्राणाशा, इति॥ २७६॥

४९. (४.१२ छादनम्)

अपमानकृतं वाक्यं कार्यार्थं छादनं भवेत्॥ २७७॥ (नाशा. १९.८९)

यथा रत्‍नावल्यां

सागरिका— (दिशो विलोक्य, सहर्षम्) समंतदो पज्जलिदो भअवं हुदासणो। दिट्ठिआ अज्ज मे करइस्सिदि दुःखावसाणं। (समन्ततः प्रज्वलितो भगवान् हुताशनः। दिष्ट्या अद्य मे करिष्यति दुःखावसानम्) इति।

यथा च वेणीसंहारे (नेपथ्ये)—‘भो भोः समन्तपञ्चकसञ्चरिणः!’ इत्याद्युपक्रम्य

ऊरू करेण परिघट्ट‍यतः सलीलं दुर्योधनस्य पुरतोऽपहृताम्बरा या।
दुश्शासनाग्रकरकर्षणभिन्नमौलिः सा द्रौपदी कथयत क्‍व पुनः प्रदेशे॥

इति। (वेसं. ६.३५)

५०. (४.१३ प्ररोचना)

प्ररोचना सा विज्ञेया संहारार्थप्रदर्शिनी॥ २७९॥

(नाशा. १९.९०) यथा रत्‍नावल्यां

राजा—अहो आश्चर्यम्!

क्‍वासौ ज्वलद्धुतवहस्तदवस्थमेत— दन्तःपुरं कथमवन्तिनृपात्मजेयम्।
बाभ्रव्य एष वसुभूतिरयं वयस्यः स्वप्‍ने मतिर्भ्रमति किं त्विदमिन्द्रजालम्॥ २८०॥

(रत्‍ना. ४.१९) विदूषकः— भो मा संदेहं करेहि। भणिदं खु तेण दासीएउत्तेण इंदआलिएण एक्को उण खेलओ अवस्सं देवेण पेक्खिदव्वो त्ति। (भोः, मा सन्देहं कुरु। भणितं खलु तेन दास्याःपुत्रेण ऐन्द्रजालिकेन—एकः पुनः खेलकोऽवश्‍यं देवेन प्रेक्षितव्य इति।)

यथा च वेणीसंहारे

कञ्चुकी—(सहर्षं) महाराज, वञ्‍च्यसे। अयं खल्वायुष्मान् कुमारभीमसेनः सुयोधनक्षतजारुणीकृतसकलशरीरम्बरो दुर्लक्षव्यक्तिः। तदलमधुना सन्देहेन, इति॥ २८१॥

(५. निर्वहणसन्धौ चतुर्दशाङ्गानि)

अथ निर्वहणाङ्गानि चतुर्दश। तेषु—

५१. (५.१ सन्धिः)

मुखबीजोपगमनं सन्धिरित्यभिधीयते॥ २८२॥

(नाशा. १९.९२) यथा रत्‍नावल्यां चतुर्थेऽङ्के

वसुभूतिः अग्‍निविद्रवानन्तरं रत्‍नावलीं विलोक्याह — बाभ्रव्य, सदृशीयं राजपुत्र्याः।

बाभ्रव्यः— ममाप्येतदेव मनसि वर्तते।

यथा (च) वेणीसंहारे

चेटी— (द्रौपदीमालिङ्ग्य) णिवत्तदु देवी इमादो मअणववसाआदो। अअं क्खु पूरिदपडिण्णाभारो णाहो दे वेणीसंहारं कादुं तुवं एव्व अण्णेसेदि। {(निवर्ततां देवी अस्मान्मरणव्यवसायात्। अयं खलु पूरितप्रतिज्ञाभा रो नाथस्ते वेणीसंहारं कर्तुं त्वामेवान्विष्यति)।}॥ २८३॥

५२. (५.२ निरोधः)

अन्यस्यान्वेषणं युक्‍त्या निरोध इति कीर्तितः॥ २८४॥

(नाशा. १९.९२) यथा रत्‍नावल्यां चतुर्थेऽङ्के

वसुभूतिः— देव, कुत इयं कन्यका?

राजा— देवी जानाति।

यथा च वेणीसंहारे

युधिष्ठिरः— (स्वैरमुक्त्वा भीमसेनमवलोकयन्नंसे परामृश्‍य) जृयंधर, सत्यं कथयामि। नायमनुजवैरी। वत्स, बाष्पजलात्‍नरितनयनत्वान्न पश्‍यामि ते मुखचन्द्रम्, इति॥ २८५॥

५३. (५.३ ग्रथनम्)

उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम्॥ २८६॥

(नाशा. १९.९२) यथा रत्‍नावल्यां चतुर्थेऽङ्के,

वासवदत्ता— अमच्च! एसा खु सागरदो पाविदेत्ति भणिअ जोअन्धराअणेण मम हत्थे समप्पिदा। अदो एव्व साअरिअ त्ति सद्दाईदि। (अमात्य! एषा खलु नागरतः प्राप्‍तेति भणित्वा यौगन्धरायणेन मम हस्ते समर्पिता। अत एव सागरिकेति शब्दायते।)

वसूभूतिः— (जनान्तिकम्) बाभ्रव्य, यथा वसन्तकस्य कण्ठे रत्‍नमाला, (सागरिकां निर्दिश्‍य) यथा चास्याः सागरात् प्राप्‍तिस्तथा व्यक्तमेवेयं सिंहलेश्वरदुहिता रत्‍नावली, इति।

यथा (च) वेणीसंहारे

भीमः— देव अजातशत्रो! अद्यापि दुर्योधनहतकः!॥ २८७॥

भूमौ क्षिप्‍त्वा शरीरं निहतमिदमसृक्‍चन्दनाभं मयाङ्गे लक्ष्मीरार्ये नियुक्ता चतुरुदधिपयस्सीमया सार्धमुर्व्या।
भृत्या मित्राणि योधाः कुरुकुलमनुजैर्दग्धमेतद् रणाग्‍नौ नामैकं यद् ब्रवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषम्॥

(वेसं. ६.३९) इति। ५४. (५.४ निर्णयः)

अनुभूतार्थकथनं निर्णयः समुदाहृतः॥ २८९॥

(नाशा. १९.९३) यथा रत्‍नावल्यां

वसुभूतिः—आयुष्मति अयि रत्‍नावलि! त्वमेतामवस्थां प्राप्‍तासि ?

सागरिका—(सप्रत्यभिज्ञम्) तुमं पि किं अमच्‍चवसुभूदी? (त्वमपि किम् अमात्यवसुभूतिः ?)

वसुभूतिः—स एवाहं मन्दभाग्यः।

सागरिका—सा क्खु अहं मंदभाइणी। (सा खल्वहं मन्दभागिनी।)

वसुभूतिः—हा हतोऽस्मि! (इति भूमौ पतति।)

सागरिका—हा ताद, हा (हा, तात! हा,)

(वासवदत्ता)—किचुलआ किं एसा मे बहिणिआ रअणावली। (कञ्चुकिन्, किमेषा मे भगिनिका रत्‍नावली!)

कञ्चुकी—देवि, एवम्।

वासवदत्ता— रत्‍नावलि! समस्सुदु मे बहिणिआ। (रत्‍नावलि! समाश्वसितु मे भगिनिका।)

राजा— कथमुष्णांशुराजवंशप्रसूतस्य सिंहलेश्वरस्य विक्रमबाहोरात्मजेयम्।

विदूषकः— (आत्मगतम्) षडमं एव्व मए जाणिदं (रत्‍नमालां परामृश्‍य) ण हु ईदिसो सामण्णजणस्य विहवो होदि त्ति। (प्रथममेव मया ज्ञातम्, न खलु ईदृशः सामान्यजनस्य विभवो भवतीति।)

यथा च वेणीसंहारे

युधिष्ठिरः— वत्स, अनवरतं कथय कच्‍चिज्जीवति . . . ?

भीमसेनः— निहतसकलरिपुपक्षे त्वयि नराधिपे जीवति भीमोऽर्जुनश्च।

युधिष्ठिरः— पुनर्गाढमालिङ्ग्य तात!॥ २९०॥

रिपोरास्तां तावन्निधनमिदमाख्याहि शतशः प्रियो भ्राता भीम त्वमसि मम योऽसौ बलरिपुः।
जरासन्धस्योरस्सरसि रुधिरागाधसलिले तटाघातक्रीडाललितमकरोत् संयति भवान्॥ २९१॥

(वेसं. ६.४०) ५५. (५.५ परिभाषणम्)

परिवादकृतं यत् स्यात् तदाहुः परिभाषणम्॥ २९२॥

(नाशा. १९.९३) यथा रत्‍नावल्यां चतुर्थेऽङ्के

वसुभूतिः— आयुष्मति, समाश्वसिहि। नन्वियं ज्यायसी ते भगिनी दुःखमास्ते। तत् परिष्वजस्वैनाम्।

रत्‍नावली— {(समाश्वस्य, राजानं तं निरीक्षमाणा, स्वगतम्) किआवराहा खु अहं देवीए। ण सक्कुणोमि से मुहं दंसिदुं। (कृतापराधा खल्वहं देव्याः। न शक्‍नोमि तस्याः मुखं दर्शयितुम्।} इति।

यथा च वेणीसंहारे

भीमः—मुञ्चतु मामार्यः क्षणमेकम्।

युधिष्ठिरः— किमपरमवशिष्टम्?

भीमः— सुमहदवशिष्टम्। संयमयामि तावदनने दुश्शासनदुर्योधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुश्शासनसमाकृष्टं केशहस्तम्, इति॥ २९३॥

५६. (५.६ द्युतिः)

१ईर्ष्याकोपप्रशमनं द्युतिमाचक्षते बुधाः॥ २९४॥

(नाशा. १९.९४) यथा रत्‍नावल्यां चतुर्थेऽङ्के,

वासवदत्ता— (वसुभूतिमपवार्य), अय्यउत्त, लज्जामि क्खु अहं इमिणा णिसंसत्तणेण। ता अवणेहि से बंधणं। (आर्यपुत्र, लज्जे खल्वहमनेन नृशंसत्वेन। तदपनयास्या बन्धनम्।)

राजा— (सपरितोषम्) यथाह देवी। (इति मोचयति।)

वासवदत्ता—(वसुभूतिमुद्दिश्‍य) अय्य, जोअन्धराअणेण अत्तिअं कालं दुज्जणीकिद ह्मि। जेण मे जाणिअ णाचक्खिदं। (आर्य, यौगन्धरायणेनैतावन्तं कालं दुर्जनीकृतास्मि। येन मे ज्ञात्वा नाख्यातम्।) १. लब्धस्यार्थस्य शम. नाशा. १९.९४ यथा च वेणीसंहारे

भीमः—राजपुत्रि, अलं मामालोक्य त्रासेन ॥ २९५॥

कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन स्त्यानान्येतानि तस्य स्पृश मम करयोः पीतशेषाण्यसृञ्जि।
कान्ते राज्ञः कुरूणामपि सरसमिदं मद्गदाचूर्णितोरो— रङ्गेऽङ्गेऽसृङ्‍‌निषक्तं तव परिभवजस्यानलस्यास्तु शान्त्यै॥ (वेसं. ६.४१)

५७. (५.७ प्रसादः)

शुश्रूषाद्युपसम्पन्नः प्रसाद इति कीर्तितः॥ २९७॥

(नाशा. १९.९५) यथा रत्‍नावल्याम्—

वासवदत्ता— इअइ(?) एहि एत्तिअं वि दाव मे बहिणीत्तणस्स अणुरूवं होदु। (एहि, एतावदपि तावन्मे भगिनीत्वस्य अनुरूपं भवतु।) (इत्युक्त्वा रत्‍नावलीं स्वैरमाभरणैरलङकृत्य हस्ते गृहीत्वा राजानमुपसृत्य), अय्यउत्त एदं। (आर्यपुत्रं . . एनाम्।)इति।

यथा च वेणीसंहारे—

भीमः— (वेणीं बध्‍नन्), भवति, संयम्यतामिदानीं क्षत्त्रियकालरात्रिः कुरुपतिविघटिता वेणी।

द्रौपदी— णाह! विसुमरिद ह्मि एदं वावारम्। ता णाहस्स प्पसादेण पुणो वि सिक्खिस्सं। (नाथ, विस्मृतास्म्येतं व्यापारम्। तन्‍नाथस्य प्रसादेन पुनरपि शिक्षिष्ये।) इति ॥ २९८॥

५८. (५.८ आनन्दः)

समागमस्तथार्थानामानन्दः परिकीर्तितः॥ २९९॥

(नाशा. १९.९४) यथा रत्‍नावल्यां चतुर्थेऽङ्के,

राजा—(हस्तौ प्रसार्य) को देव्याः प्रसादं न बहुमन्यते ? इति।

यथा (च) वेणीसंहारे षष्ठेऽङ्के, नेपथ्ये, समरानलशेषाय स्वस्ति तत्रभवतो राज्ञः

क्रोधान्धैर्यस्य मोक्षात् क्षतनरपतिभिः पाण्डुपुत्रैः कृताभि(नि) प्रत्याशं मुक्तकेशान्यनुदिनमधुना पार्थिवान्तःपुराणि।
कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां दिष्ट्या बद्धः प्रजाभ्यो विरमतु निधनं स्वस्ति राज्ञां कुलेभ्यः॥ ३००॥

५९. (५.९ समयः)

दुःखस्योपशमश्चैव समयोऽथ निगद्यते॥ ३०१॥

(नाशा. १९.१०१) यथा रत्‍नावल्यां

वासवदत्ता— अय्यउत्त, दूरे क्खु एदाए ण्णादिउलम्। तानि तह करेदु जह एसा बन्धुजणं ण सुमरेदि। (आर्यपुत्र, दूरे खल्वेतस्या ज्ञातिकुलम्। तत्तथा कुरु यथा एषा बन्धुजनं न स्मरति।)

राजा— यथाह देवी। इति।

यथा च वेणीसंहारे—

युधिष्ठिरः—भगवान् पुण्डरीकाक्षः वत्सः किरीटी च। भगवन्! कुतस्तस्य विजयादन्यत्, यस्य भगवान् पुरुषः स्वयमेव नारायणो मङ्गलान्याशास्ते ? ॥ ३०२॥ (वेसं. ६.४३)

कृतगुरुमहदादिक्षोभसम्भूतमूर्तिं गुणिनमुदयनाशस्थानंहेतुं प्रजानाम्।
अजममरमचिन्त्यं चिन्तयित्वापि न त्वां भवति जगति दुःखं, किं पुनर्देव दृष्ट्वा॥ ३०३॥

इति। ६०. (५.१० उपगूहनम्)

अद्भूतस्य च संप्राप्‍तिर्भवेत् तदुपगूहनम्॥ ३०४॥

(नाशा. १९.९६) यथा रत्‍नावल्यां

विदूषकः— ही ही भोः, हत्थगद एव्व संपदं वअस्सस्स। (हस्तगत एव सांप्रतं वयस्यस्य)

सुमति (वसुभूतिः) . . . .

यथा च वेणीसंहारे (कृष्णः)— एते खलु भगवन्तो व्यासवाल्मीकिजामदग्न्य— जाबालिप्रभृतयो महर्षयः कल्पिताशेषमङ्गलाः नकुलसहदेवौ धृष्टद्युम्‍नप्रमुखाश्च सेनापतयः यादवमत्स्यमागधपाल कुलसम्भवाश्च राजन्यकुमाराः स्तम्भोत्तम्भिततीर्थवारिकलशाः तथा(?) अभिषेकं धारयन्तः तिष्ठन्ति ॥ ३०५॥ . . .

चास्माकंचार्वाकनाम्‍ना राक्षसेन विप्रकृतं भवन्तमुपलभ्य भगवतो व्यासाद् अर्जुनेन सह त्वरितमागत इति।

६१. (५.११ भाषणम्)

सामदानादिसम्पन्नं भाषणं ब्रुवते बुधाः॥ ३०६॥

(नाशा. १९.९६) यथा रत्‍नावल्यां

वसुभूतिः—देवि, स्थाने देवीशब्दमुद्वहसि।

यथा च वेणीसंहारे

भीमः— क्‍वासौ धार्तराष्ट्रसखः पुण्यजनापसदो येनार्यस्य महान् अयं चित्तविभ्रमः कृतः?

कृष्णः— निगृहीतः स दुरात्मा नकुलेन, इति।

६२. (५.१२ आक्षेपः)

पुनर्वाक्यं तु विज्ञेयं यथोक्तक्षेपदर्शनम्॥ ३०७॥

(नाशा. १९.९७) यथा रत्‍नावल्यां

बाभ्रव्यः—देवि, इदानीं सफलपरिश्रमोऽस्मि संवृत्त इति।

यथा च वेणीसंहारे

युधिष्ठिरः—भगवन्, किं नाम चार्वाकेण रक्षसा वयं विप्रलब्धाः?

कृष्णः—अथ किम्। इति ॥ ३०८॥

६३. (५.१३ काव्यसंहारः)

वरप्रदानसम्प्राप्‍तिः काव्यसंहार इष्यते॥ ३०९॥

(नाशा. १९.९७) यथा रत्‍नावल्यां

यौगन्धरायणः—देव, तदुच्यतां किं ते भूयः प्रियमुपकरोमि ?

राजा—अतःपरमपि प्रियमस्ति ?

यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्‍त्येकहेतुः प्रिया।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम्॥ ३१०॥

इति। (रत्‍ना. ४.२१)

यथा च वेणीसंहारे

कृष्णः—तत्कथय महाराज, किमस्मत्तः प्रियमिच्छसि ?

युधिष्ठिरः—किमतः परमपि प्रियमस्ति ?

क्रोधान्धैः सकलं हतं रिपुकुलं पञ्चाक्षताः पाण्डवाः पाञ्चाल्या मम दुर्नये पतितया तीर्णो निकारार्णवः।
त्वं देवः पुरुषोत्तमः सुकृतिनं मामादृतो भाषसे (वेसं. ६.४५) किं नामान्यदतः परं भगवतो याचे प्रसन्नादहम्॥ ३११॥ इति।

६४. (५.१४ प्रशस्तिः)

नृपदेवादिशाक्ति(शस्ति)श्च प्रशस्तिरभिधीयते॥ ३१२॥

(नाशा. १९.९८) यथा रत्‍नावल्यां

राजा—तथपीदमस्तु—(रत्‍ना. ४.२२)

उर्वीमुद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिमिष्टा— मिष्टैस्त्रविष्टपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः।
आकल्पान्तं कृषीष्ट क्रमसमुपचितं सङ्गतं सज्जनानां निर्विश्लेषावकाशं पिशुनजनवचोवर्जनावज्रलेपाः(?)॥ ३१३॥

यथा (च) वेणीसंहारे

युधिष्ठिरः—प्रीतश्चेद्भगवांस्तदिदमस्तु—(वेसं. ६.४६)

अकृपणमरुक् कान्तं जीव्याज्जनः पुरुषायुषं भवतु भगवन् भक्तिर्द्वैधं विना पुरुषोत्तमे।
कलितभुवनो विद्वद्‍बन्धुर्गुणेषु विशेषवित् सततसुकृती भूयाद् भूपः प्रसाधितमण्डलः॥ ३१४॥

(४. चतुर्थी चतुष्षष्टिः)

(लक्षणानि)

लक्षणानि चतुष्षष्टिरिति यत् प्रागुदीरितम्।
नाटकादेस्स्फुटं लक्ष्म तदिदानीं विविच्यते॥ ३१५॥

भूषणाक्षरसङ्घातौ शोभोदाहरणे तथा।
हेतुसंशयदृष्टान्ताः प्राप्‍तिराशय एव च॥ ३१६॥

निदर्शनं निरुक्तं च सिद्धिश्चापि विशेषणम्।
गुणातिपातोऽतिशयस्तुल्यतर्कः पदोच्ययः॥ ३१७॥

दिष्टं चैवोपदिष्टं च विचारोऽथ विपर्ययः।
भ्रंशश्चैवानुनीतिश्च माला दाक्षिण्यगर्हणे॥ ३१८॥

अर्थापत्तिः प्रसिद्धिश्च पृच्छा सारूप्यमेव च।
मनोरथश्च लेशश्च संक्षोभो गुणकीर्तनम्॥
आख्यानमभिमानश्च याञ्चा प्रोत्साहनं स्पृहा॥ ३१९॥

पश्चात्तापोऽनुवृत्तिश्च युक्तिर्निर्भासनं क्षमा।
गुणानुवाद आक्रन्दः कपटं परिवादनम्॥ ३२०॥

उपपत्तिश्च कार्यं च प्रतिषेधो मृषोद्यमः।
छलोक्तिः काकुरुन्मादः/थः परिहासो विकत्थनम्॥ ३२१॥

यदृच्छायोगवैषम्यप्रतिज्ञानप्रवृत्तयः।
आशीरनुक्तसिद्धिश्च प्रियं वचनमेव च॥१
लक्षणानि चतुष्षष्टिं काव्येष्वेतानि निर्दिशेत्॥ ३२२॥

तत्र च—

(१. भूषणम्)

अलङ्कारैर्गुणश्चैव बहुभिर्यदलङ्कृतम्।
भूषणैरिव विन्यस्तैस्तद् भूषणमिति स्मृतम्॥ ३२३॥

(नाशा. १६.५) यथा रत्‍नावल्यां प्रथमेऽङ्के यौगन्धरायणः—

विश्रान्तविग्रहकथो रतिमान् जनस्य चित्ते वसन् प्रियवसन्तक एष साक्षात्।
पर्युत्सुको निजमहोत्सवदर्शनाय वत्सेश्वरः कुसुमचाप इवाभ्युपैति॥ ३२४॥

(रत्‍ना. १.८) अत्र श्लेषोपमाप्रत्यक्षादिभिरलङ्कारैः श्लेषप्रसादसौकुमार्यादिभिश्च गुणैरुपेतता द्रष्टव्या। एवं वक्ष्यमाणेष्वपि गुणालङ्कारा यथासम्भवमूहनीयाः, कारैश्च नियमेनारभ्यन्ते; सन्ध्यङ्गेषु तु गुणालङ्कारयोगो नापेक्ष्यत इति। १. ‘आशीरुक्‍तिश्‍च सिद्धिश्‍च’ इति राघवः। सिद्धिरिति पुनरुक्‍तम् १२.३१७कारिकायां पठितचरत्वात्, अनुक्‍तसिद्धेः त्यागाच्च रा.पाठोऽमान्यः। १२.४५७ (२. अक्षरसङ्घातः)

यत्रार्थैरक्षरैः श्लिष्टैर्विचित्रार्थोपवर्णनम्।
तमत्राक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम्॥ ३२५॥

(नाशा. ६.६) यथा अभिज्ञानशाकुन्तले सप्‍तमेऽङ्के,

(प्रविश्य मृन्मयूरहस्ता तापसी)— सव्वदमण! सउंदलावण्णं पेक्ख। (सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व।)

बालः—(सदृष्टिक्षेपम्), कहिं सा अज्जू। (कुत्र सा अम्बा?)

(उभे प्रहसिते) (उभे) णामसारिच्छेण छळिदो माउवच्छलो।

(नामसादृश्येन छलितो मातृवत्सलः।)

(द्वितीया) वच्छ इमस्स मित्तिआमोरअस्स रम्मत्तणं पेक्ख त्ति भणिसो। (वत्स! अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि।)

राजा—(आत्मगतम्), किं शकुन्तलेति तस्य मातुराख्या? ॥ ३२६॥

(३. शोभा)

सिद्धैरर्थैस्समं कृत्वा यत्रासिद्धं प्रसाध्यते।
श्लिष्टा श्लक्ष्णा विचित्रार्था सा शोभेत्यभिधीयते॥ ३२७॥

(नाशा. १.६) यथा रत्‍नावल्यां प्रथमेऽङ्के,

यौगन्धरायणः—एवमेतत्, कः सन्देहः?

द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः॥ ३२८॥(रत्‍ना. १६.७)

अन्यथा क्‍व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वरदुहितुः समुद्रे प्रवहणभङ्गमग्‍नोत्थितायाः फलकासादनं, क्‍व च कौशाम्बेनैव वणिजा सिंहलेभ्यः प्रत्यागच्छता तदवस्थायाः सम्भावनं सरत्‍नमालाचिह्नायाश्च परिज्ञायेहानयनम्? सर्वथा स्पृशन्ति स्वामिनमभ्युदयाः, इति।

(४. उदाहरणम्)

यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात्।
साध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम्॥ ३२९॥

(नाशा. १६.११) यथा रत्‍नावल्यां, द्वितीयेऽङ्के, राजा विदूषकश्च शारिकावचनं निशमयतः। ततो विदूषकः— (आकाशे) किं . . . . . अयं कामदेवो आलिहिदो मह वि तादिसी रइ त्ति। भो वअस्स, किं णेदं। {किम् (अकारणे कुप्यसि। यादृशस्त्वया) अयं कामदेव आलिखितो तादृशी मयाऽपि रतिरिति। भो वयस्य, किं न्विदम्?}

राजा—वयस्य, एवं तर्कयामि। कयापि हृदयवल्लभोऽनुरागादभिलिख्य कामव्यपदेशेन निह्नुतस्तत्सख्यापि प्रत्यक्षिज्ञाय वैदग्ध्यादप्रतिभिन्दानया सापि तत्रैव लिखिता, इति ॥ ३३०॥

(५. हेतुः)

यत्प्रयोजनसामर्थ्याद् वाक्यमिष्टार्थसाधकम्।
समासोक्तमनोग्राहि स हेतुरिति संज्ञितः॥ ३३१॥

(नाशा.१६.१४अ) यथा रत्‍नावल्यां, द्वितीयेऽङ्के

विदूषकः— सच्चं सबामि बम्हसुत्तेण, जइ अम्हेहिं ईदिसी कदा वि पुरा (दिठ्ठपुव्वा)। (सत्यं शपे ब्रह्मसूत्रेण, यदि अस्माभिरीदृशी कदापि दृष्टपूर्वा।)

काञ्चनमाला—भट्टिणि, घुणक्खदं वि संवददि एव्व। (भट्टिनि, घुणाक्षरमपि संवदत्येव)

वासवदत्ता—अयि उज्जिए, अय्यवसन्तओ एसो। ण आणासि एदस्स वक्‍कभणिदीओ। (अयि ऋजुके, आर्य वसन्तक एषः। न जानासि एतस्य वक्रभणितीः।) ॥ ३३२॥

(६. संशयः)

अपरिज्ञाततत्त्वार्थं यत्र वाक्यं समाप्यते।
सोऽनेकत्वाद् विचाराणां संशयः परिकीर्तितः॥ ३३३॥

(नाशा.१६.२७) यथा रत्‍नावल्यां चतुर्थेऽङ्के

वसुभूति:— (सागरिकां निर्वर्ण्य) बाभ्रव्य! सुसदृशीयं राजपुत्र्याः।

बाभ्रव्य:—ममाप्येतदेव मनसि वर्तते।

(७. दृष्टान्तः)

सर्वलोकमनोग्राही यस्तु पक्षार्थसाधकः।
हेतोर्निदर्शनकृतस्स दृष्टान्त इति स्मृतः॥ ३३४॥

(नाशा.१६.१२अ) यथा(च) वेणीसंहारे प्रथमेऽङ्के,

चेटी—अइ जण्णसेणि! उ (?) पंच गामा पत्थीअन्ति त्ति अज्ज वि एदे केसा ण संजमीअंति, इति। (अयि याज्ञसेनि! पञ्च ग्रामाः प्रार्थ्यन्त इति अद्यापि एते केशा न संयम्यन्ते।) (इति भानुमतीवचसि बुद्धिमतिकयाऽऽख्याते)

भीमसेनः—सहदेव, श्रुतम्?

सहदेवः— आर्य, दुर्योधनकलत्रं सा।

स्त्रीणां हि साहचर्याद् भवन्ति चेतांसि भर्तृसदृशानि।
मधुराऽपि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली॥

(वेसं. १.२०) इति। (८. प्राप्‍तिः)

दृष्ट्वैवावयवान् कांश्चिद् भावो यत्रानुमीयते।
प्राप्‍तिं तामभिजानीयाल्लक्षणं नाटकाश्रयम्॥ ३३६॥

(नाशा. १६.३२) यथा रत्‍नावल्यां द्वितीयेऽङ्के, कदलीगृहे चित्रगतां सागरिकां निर्वर्णयति राजनि— विदूषकः—भो वअस्स, कीस उण एसा ओरुण्णमुही आलिहिदा। (भो वयस्य, कस्मात् पुनरेषा रुदितमुख्यालिखिता?)

(एतच्छ्‌रुत्वाऽऽह सुसङ्गता) सहि, जह अय्यवसंतिओ मंतेहि तह तक्केमि भट्टिणा वि इह एव्व होदव्वं ति। (सखि, यथा आर्यवसन्तको मन्त्रयते तथा तर्कयामि भर्त्रापीहैव भवितव्यम्, इति)

(९. अभिप्रायः)

अभूतपूर्वोऽप्यर्थो यस्सादृश्यात् परिकल्पितः।
लोकस्य हृदयग्राही सोऽभिप्राय इति स्मृतः॥ ३३७॥ (नाशा.१६.१४अ)

यथा मुद्रावेदे(विद्धसालभञ्जिकायां द्वितीयेऽङ्के)—

विलीयेन्दुः साक्षादमृतरसवापी यदि भवेत् कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम्।
ततस्स्‍नानक्रीडाजनितजडभावैरवयवैः कदाचिन्मुञ्चेयं मदनशिखिपीडापरिभवम्॥ ३३८॥

(विसा. २.२) (१०. निदर्शनम्)

यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम्।
परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते॥ ३३९॥ (नाशा.१६.१५अ)

यथा मालतीमाधवे

कामन्दकी—अयि सरले, किमत्र शक्यं भगवत्या? प्रभवति हि प्रायः कुमारिकाणां जनयिता दैवं च। यच्च किल कौशिकी शकुन्तला दुष्यन्तम्, उर्वशी चाप्सराः पुरूरवसमैलकं चकम इत्याख्यानविद आचक्षते, तदपि साहसकल्पमित्यनुपदेष्टव्यम्, इति ॥ ३४०॥

(११. निरुक्तम्)

निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये।
यदुच्यते तु वचनं निरुक्तं तदुदाहृतम्॥ ३४१॥ (नाशा.१६.१६अ)

यथा अभिज्ञानशकुन्तलायाम्

प्रियंवदा—हला सउंदले, इध एव्व दाव मुहुत्तअं चिट्ठ। तुए समीपट्ठिदाए ळदासणाहो विअ अअं केसररुक्खओ पडिभाइ। (सखि शकुन्तले, अत्रैव तावन्मुहूर्तकं तिष्ठ। त्वया समीपस्थितया लतासनाथ इव अयं केसरवृक्षः प्रतिभाति।)

शकुन्तला—अदा खु सि पिअंवदा। (अतः खल्वसि प्रियंवदा।)

राजा—प्रियमपि तथ्यमाह सा ॥ ३४२॥

अधरः किसलयरागः कोमलविटपानुकारिणै बाहू।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम्॥ ३४३॥

(शाकु. १.२१) (१२. सिद्धिः)

बहूनां तु प्रधानानां नाम यत्राभिकीर्त्यते।
अभिप्रेतार्थसिद्ध‍यर्थं सा सिद्धिरिति कीर्तिता॥ ३४४॥

(नाशा. १६.१७अ) यथा रत्‍नावल्यां चतुर्थेऽङ्के, राजा—

क्‍वासौ जलं हुतवहः + + किं न्विदमिन्द्रजालम्॥ ३४५॥

(१३. विशेषणम्)

सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते।
विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम्॥ ३४६॥

(नाशा.१६.१८अ) यथा अभिज्ञानशाकुन्तले—

प्राणानामनिलेन वृत्तिरुचिता सङ्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया।
ध्यानं रत्‍नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यद् वाञ्छन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी॥ ३४७॥

(शाकु.७.१२) (१४. गुणातिपातः)

गुणाभिधानैर्विविधैर्विपरीतार्थयोजितैः।
गुणातिपातो मधुरैर्निष्ठुरार्थैर्भवेदथ॥ ३४८॥

(नाश. १६.१९अ) यथा उत्तरचरिते

लवः राममुद्दिश्य (उराच. ५.३४)

वन्द्यास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यकुण्ठयशसो लोके महान्तो हि ते।
यानि त्रीण्यकुतोमुखान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः॥ ३४९॥

(१५. अतिशयः)

बहून् गुणान् कीर्तयित्वा सामान्यजनसम्भवान्।
विशेषः कीर्त्यते यस्तु ज्ञेयस्सोऽतिशयो बुधैः॥ ३५०॥

(नाशा. १६.२०अ) यथा रत्‍नावल्यां द्वितीयेऽङ्के

राजा चित्रलिखितां सागरिकां दृष्ट्वाऽऽह—

विधायापूर्वपूर्णेन्दुमस्या मुखमभूद् ध्रुवम्।
धाता निजासनाम्भोजविनिमीलनदुस्स्थितः॥ ३५१॥

(रत्‍ना. २.८) (१६. तुल्यतर्कः)

रूपकैरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितः।
अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्कः प्रकीर्तितः॥ ३५२॥

(नाशा. १६.२१अ) यथा उत्तरचरिते रामः—

अपि जनकसुतायास्तच्‍च तच्‍चानुरूपं स्फुटमिव शिशुयुग्मे नैपुणोन्नेयमस्ति।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो— रभिनवशतपत्रश्रीमदास्यं प्रियायाः॥ ३५३॥

(उराच. ६.२६) (१७. पदोच्‍चयः)

बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः।
उच्‍चयस्सदृशार्थो यस्स विज्ञेयः पदोच्‍चयः॥ ३५४॥

(नाशा. १६.२२अ) यथा रत्‍नावल्यां प्रथमेऽङ्के

राजा वासवदत्तां प्रत्याह—(रत्‍ना.१.१९)

कुसुमसुकुमारमूर्तिर्दधती नियमेन तनुतरं मध्यम्।
आभाति मकरकेतोः पार्श्वस्था चापयष्टिरिव॥ ३५५॥

(१८. दिष्टं वर्णकः) (नाशा. १६.२३अ)

यथादेशं यथाकालं यथापात्रं च वर्ण्यते।
यत्प्रत्यक्षं परोक्षं वा दिष्टं तद्वर्णकोऽपि वा॥ ३५६॥

यथा राघवानन्दे—

अङ्के न्यस्योत्तमाङ्गं प्लवगबलपतेः पादमक्षस्य हन्तुः कृत्वोत्सङ्गे सलीलं त्वयि/चि कनकमृगस्याङ्गशेषं निधाय।
बाणं रक्षःकुलघ्‍नं प्रगुणितमनुजेनादरात् तीक्ष्णमक्ष्णः कोणेनावेक्षमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते॥ ३५७॥

(१९. उपदिष्टम्) (नाशा. १६.२४अ)

परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते।
विद्वन्मनोहरं स्वन्तमुपदिष्टं प्रकीर्त्यते॥ ३५८॥

यथा अभिज्ञानशाकुन्तले—(शाकु. ४.१८)

शुश्रूषस्व गुरून्, कुरु प्रियसखीवृत्तिं सपत्‍नीजने भर्तुर्विप्रकृताऽपि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने, भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥ ३५९॥

(२०. विचारः) (नाशा. १६.२५अ)

पूर्वाशयसमानार्थैरप्रत्यक्षार्थसाधनैः ।
अनेकोपायसंयुक्तो विचारः परिकीर्तितः॥ ३६०॥

यथा उत्तरचरिते लवचन्द्रकेतू परस्परं सस्‍नेहानुरागं निर्वर्ण्य,

यदृच्छासंवादः किमु गुणगणानामतिशयः पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः।
निजो वा सम्बन्धः किमु विधिवशात् कोप्यविदितो ममैतस्मिन् दृष्टे हृदयमवधानं रचयति॥ ३६१॥

(उराच. ५.१६)

(२१. विपर्ययः) (नाशा. १६.२६ अ)

विचारस्यान्यथाभावस्तथा दिष्टोपगिष्टयोः।
सन्देहाज्जायते यत्र स विज्ञेयो विपर्ययः॥ ३६२॥

यथा रत्‍नावल्यां तृतीयेऽङ्के,

वासवदत्ता—हळा कंचणमाले, सच्‍चं एव्व मम वेसं करिअ साअरिआ अय्यउत्तं अहिसारइस्सिदि। (हला काञ्चनमाले ! सत्यमेव मम वेषं कृत्वा सागरिका आर्यपुत्रं अभिसरिष्यति।)

काञ्चनमाला—कधं अण्णथा भट्टिणीए णिवेदिआणि। अहवा चित्तसालादुवारम्मि उवविट्टो वसंतओ एव्व दे पच्‍चअं उप्पादइस्सदि। कथमन्यथा भट्टिन्यै निवेदयानि ? अथवा चित्रशालाद्वारे उपविष्टो वसन्तक एव ते प्रत्ययमुत्पादयिष्यति।

(ततः प्रविशति कृतावकुण्ठनो वसन्तकः।)

वसन्तकः—(कर्णं दत्त्वा) जहा चित्तसालाआ दुवारे पअसद्दो विअ सुणीअदि तहा तक्केमि आअदा साअरिआ त्ति। (यथा चित्रशालाया द्वारे पदशब्द इव श्रूयते तथा तर्कयाम्यागता सागरिकेति।)

काञ्चनमाला—भट्टिणी, एअं चित्तशालिआदुवारं। ता जाव वसंतअस्स सण्णं करेमि। (भट्टिनि एतत् चित्रशालिकाद्वारम्। तद्यावद्वसन्तकस्य संज्ञां करोमि।) (इति छोटिकां ददाति।)

विदूषकः—(उपसृत्य, अपवार्य), सुसङ्गदे ! सुसरिसो खु दे किदो कंचणमालाए वेसो साअरिआ एव्व वासवदत्ते त्ति। (सुसदृशः खलु त्वया कृतः काञ्चनमालाया वेषः सागरिका एव वासवदत्तेति।)

यथा चात्रैवाग्रतः—

विदूषकः—(ससम्भ्रमं, दृष्ट्वा) भो वअस्स, परित्ताअहि। एसा खु देवी वासवदत्ता। अत्ताणं उब्बद्धीअ विवज्जइ। (भो वयस्य, परित्रायस्व। एषा खलु देवी वासवदत्ता आत्मानमुद्वध्य व्यापादयति।)

राजा—(ससम्भ्रममुपसृत्य) वयस्य, क्‍वासौ ?

विदूषकः—भो एसा। (भो एषा।)

राजा—(उपसृत्य, कण्ठात् पाशमपनयन्) अयि, किमिदमकार्यं क्रियते ?॥ ३६३॥

मम कण्ठगताः प्राणाः पाशे कण्ठगते तव।
अनर्थार्थप्रयासोऽयं त्यज्यतां साहसं प्रिये॥ ३६४॥

(रत्‍ना. ३.१६) (२२. भ्रंश) (नाशा. १६.२७ अ)

वाच्यमर्थं परित्यज्य दृष्टादिभिरनेकधा।
अन्यस्मिन्नेव पतनादाशु भ्रंशस्स उच्यते॥ ३६५॥

यथा— वेणीसंहारे द्वितीयेऽङ्के, दुर्योधनः—(वेसं. २.५)

सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम्।
सबलेन निहन्ति संयुगे नचिरात् पाण्डुसुतस्सुयोधनम्॥ ३६६॥

कञ्चुकी—(कर्णौ पिधाय) शान्तं पापं शान्तं पापम् !

राजा—कञ्चुकिन् ! किं वा मयोक्तम् ?

कञ्चुकी—(दुर्योधनोक्तं पठित्वा) तदेतद्विपरीतमभिहितं देवेन।

राजा—कञ्चुकिन्, प्रातर्मामनाभाष्यैव भानुमती व्याक्षिप्‍तं मे चेत इति।

(२३. अनुनयः) (नाशा. १६.२८अ)

उभयोः प्रीतिजननो विरुद्धाभिनिवेशयोः।
अर्थस्य साधकश्चैव विज्ञेयोऽनुनयो बुधैः॥ ३६७॥

यथा रत्‍नावल्यां तृतीयोऽङ्के

राजा सागरिकावृत्तान्तापराधे वासवदत्तायाः पुरो बद्धाञ्जलिस्तामनुनयन्नाह— प्रिये वासवदत्ते देवि, एवमपि प्रत्यक्षदृष्टव्यलीकः किं विज्ञापयामि ?

आताम्रतामपनयामि विलक्ष एष लाक्षाकृतां चरणयोस्तव देवि मूर्ध्‍ना।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदिपरं करुणा मयि स्यात्॥ ३६८॥

(रत्‍ना. ३.१४) (२४. माला)

अभिप्रेतार्थसिद्ध‍यर्थं कीर्त्यते यत्र सूरिभिः।
प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता॥ ३६९॥ (नाशा. १६.२९अ)

यथा मालतीमाधवे—

मकरन्दो मालतीमुद्दिश्य कामन्दकीं प्रति—भगवती,

श्लाघ्यान्वयेति नयनोत्सवकारिणीति निर्व्यूढसौहृदगुणेति गुणोज्ज्वलेति।
एकैकमेव हि वशीकरणं गरीयो युष्माकमेवमियमित्यथ किं ब्रवीमि॥ ३७०॥

(मामा. ६.२७) (२५. दाक्षिण्यम्)

हृष्टैः प्रसन्नवदनैर्यत्परस्यानुनुवर्तनम्।
क्रियते वाक्यचेष्टाभिस्तद् दाक्षिण्यमुदाहृतम्॥ ३७१॥

(नाशा. १६.३०अ) यथा रत्‍नावल्यां द्वितीयेऽङ्के,

वासवदत्ता—अय्यउत्त, मम पि किं एदं चित्तकम्म पेक्खन्तीए सीसवेअणा समुप्पण्णा। ता गमिस्सं अहं। {आर्य(पुत्र), ममापि किं एतत् चित्रकर्म प्रेक्षमाणायाः शीर्षवेदना समुत्पन्ना। तद्‍गमिष्याम्यहम्।}

राजा—(वासवदत्तां पटान्ते गृहीत्वा) प्रिये !

प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः।
न मे दोषोऽस्तीति त्वमिदमपि विज्ञास्यसि मृषा किमेतस्मिन् वक्‍तुं क्षममिति न वेद्मि प्रियतमे॥ ३७२॥

(रत्‍ना. २.१८) विदूषकः— भोदि पसीएउ। (भवति, प्रसीद।)

वासवदत्ता— सहापेहि सच्‍चं एव्व मे सीसवेअणा समुप्पण्णा। ता गमिस्सं। {सम्भावय सत्यमेव मे शीर्षवेदना समुत्पन्ना। तद्गमिष्ये।} (इति निष्क्रान्ता सपरिवारा वासवदत्ता।)

विदूषकः—भो दिठ्ठिआ वढ्‍ढसि, (भोः, दिष्ट्या वर्धसे।)

राजा— मूर्ख, अलं परिहासेन। आभिजात्याद् विनिगूढो न लक्षितस्त्वया कोपो देव्याः॥ ३७३॥

भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः॥

(रत्‍ना २.१९) (२६. गर्हणम्)

यत्र सङ्कीर्तयेद् दोषं गुणमर्थेन दर्शयेत्।
गुणातिपाताद् दोषाद्‍न वा गर्हणं नाम तद्भवेत॥ ३७५॥

(नाशा. १६.३१अ) यथा उत्तरचरिते

चन्द्रकेतुः सैनिकैरभियुज्यमानं लवमुद्दिश्य, भो भो राजानः !

संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता— वत्रैकस्मिन् कवचनिबिडैर्नद्धचर्मोत्तरीये।
कालज्येष्ठैरपरवयसि कीर्त्तिकामैर्भवद्भि— र्योऽयं बद्धो युधि समभरस्तेन धिग् वो धिगस्मान्॥ ३७६॥

(उराच. ५.१२) (२७. अर्थापत्तिः)

अर्थान्तररस्य कथने यत्रान्योऽर्थः प्रतीयते।
वाक्यमाधुर्यसम्पन्ना साऽर्थापत्तिरुदाहृता॥ ३७७॥

(नाशा.१६.३२अ) यथा राघवानन्दे—

कुम्भकर्णो रावणमुद्दिश्य—

रामोऽसौ जगतीह विक्रमगुणैर्यातः प्रसिद्धिं पराम् अस्मद्भाग्यविपर्ययाद् यदिपरं देवो न जानाति तम्।
बन्दीवैष यशांसि गायति मरुद् यस्यैकबाणाहति— श्रेणीभूतविशालसालविवरोद्गीर्णैस्स्वरैस्सप्‍तभिः॥ ३७८॥

(२८. प्रसिद्धिः) (नाशा. १६.३३)

वाक्यैस्सातिशयैर्युक्ता वाक्यार्थस्य प्रसाधकैः।
लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता॥ ३७९॥

यथा महावीरचरिते रामः परशुराममुद्दिश्याह—(मवीच. २.३६)

उत्पत्तिर्जमदग्‍नितः स भगवान् देवः पिनाकी गुरुः वीर्यं यत्तु न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभिः।
त्यागस्सप्‍तसमुद्रमुद्रितमहीनिर्व्याजदानावधि— र्ब्रह्मक्षत्रतपोनिधेर्भगवतः किं वा न लोकोत्तरम्॥ ३८०॥

(२९. पृच्छा)

यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम्।
पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्यभिधीयते॥ ३८१॥

(नाशा. १६.३४अ) यथा रामचरिते हनुमान् सीतां दृष्ट्वा—(राच. १९.५१)

स्थानेऽवसीदसि रघूद्वह ! किं विधातर् अस्यास्त्वयेक्षितमलक्षणमङ्गकेषु ।
अद्यापि जीवसि दशानन ! हे हनूमन् ! केयं तवाभिमुखवर्तिरिपोः प्रतीक्षा॥ ३८२॥

(३०. सारूप्यम्)

दृष्टश्रुतादिभूतार्थकथनादिसमुद्भवम् ।
सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम्॥ ३८३॥

(नाशा. १६.३५अ) यथा छलितरामे षष्ठेऽङ्के—हिरण्मयीं सीताप्रतिकृतिमवलोक्य

लवः—(सक्षोभसम्भ्रमं) कथमम्बा इहानीता ! जानीम ॰ ॰ ॰ ॰।

यथा (वेणीसंहारे) दुर्योधनेन (भीमार्जुनौ) हताविति चार्वाकादाकर्ण्य शोकाच्‍चिताप्रवेशं अभिलषति सद्रौपदीके युधिष्ठरे, (नेपथ्ये कलकलानन्तरं) भो भोः स्यमन्तपञ्चकसञ्चारिणः प्रवीरपुरुषाः कृतं कृतं वो मद्दर्शनत्रासेन। कथयन्तु भवन्तः,

ऊरू करेण परिघट्टयतस्सलीलं दुर्योधनस्य पुरतोऽपहृताम्बरा या।
दुःशासनाग्रकरकर्षणभिन्नमौलिः सा द्रौपदी कथयत क्‍व पुनः प्रदेशे॥ ३८४॥

(वेसं. ६.३५) कञ्चुकी—हा देवि यज्ञवेदिसंभवे, परिभूयसे संप्रत्यनेन दुरात्मना कुरुकुलकलङ्केन।

युधिष्ठिरः—(ससंभ्रममुत्थाय) देवि याज्ञसेनि, न भेतव्यं न भेतव्यम्। कः कोऽत्र भोः ! सनिषङ्गं मे धनुरुपानयत। दुरात्मन् दुर्योधनहतक ! आगच्छागच्छ। अयमपनयामि तो गदाकौशलसंभूतं भुजदर्पं शिलीमुखासारेण। पश्य रे मूढ !॥ ३८५॥

प्रियमनुजमपश्यंस्तं जरासन्धमल्लं कुपितहरकिरातद्वेषिणं तं च वत्सम्।
भवतु कठिनचेताः प्राणितुं नास्मि शक्तो न नु पुनरपहर्तुं बाणवर्षैस्तवासून्॥ ३८६॥

(वेसं. ६.३६) (ततः प्रविशति यथानिर्दिष्टो भीमः।)

भीमः—(वेसं. ६.३७)

भो भो राजन्यवीराः समरशिखिशिखाभुक्तशेषाः कृतं व— स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत्।
नाहं रक्षो न भूतो रिपुरुधिरजलह्लादिताङ्गः प्रकामं निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि॥ ३८७॥

देवि पाण्डुस्‍नुषे, उत्तिष्ठोत्तिष्ठ।

द्रौपदी—कहं पि अज्ज वि ण संभावेमि चिदासमीवं।

(कथमपि अद्यापि न संभावयामि चितासमीपम्।)

युधिष्ठिरः—कः कोऽत्र भोः ! सनिषङ्गं धनुरुपनयत। कथं न कश्चित् परिजनः। भवतु। बाहुयुद्धसम्भावनया विहस्तमेनं गाढमालिङ्ग्य ज्वलनमभिपतामि। (इति परिकरं बध्‍नाति।)

कञ्चुकी—देवि पाण्डुस्‍नुषे ! संयम्यन्तामिदानीं नयनपथरोधिनो दुःशासनाकृष्टा मूर्धजाः। अस्तमिता संप्रति प्रतीकाराशा।

युधिष्ठिरः—न खल्वनिहते अस्मिन् दुरात्मनि दुर्योधनहतके संहर्तव्यः केशहस्तः।

भीमः— पाञ्चालि, न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिना। तिष्ठ तिष्ठ। स्वयमेवाहं संहरामि। (केशेषु ग्रहीतुमिच्छति।)

युधिष्ठिरः—(भीममालिङ्ग्य) दुरात्मन् भीमार्जुनशत्रो, दुर्योधनहतक !॥ ३८८॥

आशैशवादनुदिनं जनितापराधो क्षीबो मदेन भुजयोर्हतराजपुत्रः।
आसाद्य मेऽन्तरमिदं भुजपञ्जरस्य जीवन् प्रयासि न पदात् पदमद्य मूढ !॥

(वेसं. ६.३८)

भीमः—कथमार्यः सुयोधनशङ्क्या क्रोधान्निर्दयं मामालिङ्गति ?

कञ्चुकी—(उपगम्य सहर्षं) महाराज, दिष्ट्या वर्धसे। अयं खल्वायुष्मान् कुमारभीमसेनः सुयोधनक्षतजारूणीकृतसकलशरीरतया दुर्लक्षव्यक्तिः। तदलमधुना संरम्भेण, इति ॥ ३९०॥

(३१. मनोरथः)

हृदयस्थस्य भावस्य सुश्लिष्टार्थप्रकाशकम्।
अन्यापदेशकथनं मनोरथ इति स्मृतः॥ ३९१॥

(नाशा. १६.३६अ) यथा रत्‍नावल्यां द्वितीयेऽङ्के

सुसङ्गता—सहि जस्स किदे तुमं आअदा अअं सो जिठ्ठदि। (सखि, यस्य कृते त्वमागता, अयं स तिष्ठति।)

सागरिका—(सासूयं) सहि कस्स किदे अहं आअदा ? (सखि, कस्य कृतेऽहमागता ?)

सुसङ्गता—अइ अण्णसंकिदे, णं चित्तफलअस्स।

(अयि अन्यशङ्किते, ननु चित्रफलकस्य।) ॥ ३९२॥

(३२. लेशः)

यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते।
सादृश्यार्थाभिनिष्पत्त्या स लेश इति कीर्तितः॥ ३९३॥

(नाशा. १६.३७अ) यथा अभिज्ञानशाकुन्तले

सख्यौ—(शकुन्तलादुष्यन्तयोराकारं विदित्वा जनान्तिकं) हळा सउंदळे, जइ अज्ज तादो सण्णिहिदो भवे। (सखि शकुन्तले, यद्यद्य तातस्सन्निहितो भवेत्—)

शकुन्तला—(सरोषं) तदो किं भवे। (ततः किं भवेत् ?)

सख्यौ—तदा इमं जीवितसव्वस्सेण वि अदिहिं किदत्थं करेइ। (तदा इमं जीवितसर्वस्वेनाप्यतिथिं कृतार्थं करिष्यति।)

शकुन्तला—अपेथ। किं वि हिअए करिअ मंतेथ। ण वो वउणं सुणिस्सं। (अपेत। किमपि हृदये कृत्वा मन्त्रयेथे। न वां वचनं श्रोष्यामि।) ॥ ३९४॥

(३३. क्षोभः) (नाशा. १६.३८ अ)

परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते।
अदुष्टोऽन्योऽपि वा कश्चित् स तु क्षोभ इति स्मृतः॥ ३९५॥

यथा रत्‍नावल्यां तृतीयेऽङ्के,

राजा— (अञ्जलिं बद्ध‍्वा) प्रिये वासवदत्ते, प्रसीद।

वासवदत्ता—अज्जउत्त, मा एव्वं भण। संकंता खु एदे अण्णहि अक्खरा(इ)। {आर्यपुत्र, (मा) एवं भण। संक्रान्तानि खलु एतानि अन्यत्र अक्षराणि}

विदूषकः— भोदि, महाणुभावा खु तुमं। ता खमीअदु एक्को अवराहो। (भवति, महानुभावा खलु त्वम्। तत् क्षम्यतां एकोऽपराधः।)

वासवदत्ता— पढमसंकेअस्स विग्घं करंतीए मए एव्व एअस्स अवरद्धं। {प्रथमसङ्केतस्य विघ्‍नं कुर्वन्त्या मयैवैतस्यापराद्धम्।} ॥ ३९६॥

(३४. गुणकीर्त्तनम्)

कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवैः।
दोषा न परिकल्प्यन्ते तज्ज्ञेयं गुणकीर्तनम्॥ ३९७॥

(नाशा.१६.९उ) यथा रत्‍नावल्यां द्वितीयेऽङ्के, राजा—(रत्‍ना. २.१५)

दृष्टिं रुषा क्षिपसि यद्यपि भामिनीमां स्‍निग्धेयमेष्यति तथापि न रूक्षभावम्।
त्यक्त्वा त्वरां व्रज तव स्खलितैरयं तु खेदं करिष्यति गुरुर्नियतं नितम्बः॥ ३९८॥

(३५. आख्यानम्)

पृष्टैरपृष्टैरथवा निर्णयः (क्रियते तु यः)।
तदाख्यानमिति ज्ञेयं लक्षणं नाटकाश्रयम्॥ ३९९॥

(नाशा. १६.२१उ) यथा उत्तरचरिते, चतुर्थेऽङ्के,

कौसल्या—अम्महे एदाणं मज्झे को एस रामभद्दकोमारलिहि (लच्‍ची)सावठ्ठंभेहिं मुद्धळळिदेहिं अंङ्गकेहिं दारओ अम्हाण (ख) लोअणाइं सीलळावेइ।

(अहो एतेषां मध्ये क एषः रामभद्रकौमारलक्ष्मीसावष्टम्भै— र्मुग्धललितैरङ्गकैर्दारकोऽस्माकं लोचने शीतलयति ?)

अरुन्धती—(अपवार्य, सहर्षोत्कण्ठम् इदं नाम तद्भागीरथीनिवेदितं रहस्यकर्णामृतम्। न त्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति।) ॥ ४००॥

(३६. अभिमानः) (नाशा. १६.८उ)

वा/धार्यमाणाः सुबहुभिर्वचनैः कार्ययुक्तिभिः।
नार्यो यन्नानुतिष्ठन्ति/नयः पर्यवतिष्ठेत सोऽभिमानः प्रकीर्तितः॥ ४०१॥

यथा रत्‍नावल्यां, तृतीयेङ्के,

काञ्चनमाला—भट्टिणी करेहि से पसादं। एअं चरणपडिअं उज्झिअ गदाए वअस्सं अवस्सं पच्‍चादावेन होदव्वं। (भट्टिनी ! कुरुष्व अस्मै प्रसादम् एवं चरणपतितमुज्झित्वा गताया अवश्‍यं पश्चात्तापेन भवितव्यम्।)

वासवदत्ता—अइ अपेहि। को पच्चादावसरो इति। (अयि, अपेहि। कः पश्चात्तापावसर इति।)॥ ४०२॥

(३७. याञ्चा)

लाभोपपत्तिमाख्याय स्वयं दूतमुखेन वा।
प्रार्थ्यते यत्र कन्यादिस्सा याञ्चेत्यभिधीयते॥ ४०३॥

(नाशा. १६.२२टि.) यथा महा वीरचरिते—(मवीच. १.३०)

कन्यारत्‍नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्‍नं यत् क्‍वचिदस्ति तत् परिणमत्यस्मासु शक्रदपि।
कन्यायाश्च परार्थतैव हि मता तस्याः प्रदानादहं बन्धुर्वो भविता पुलस्त्यपुलहप्रष्ठाश्च सम्बन्धिनः॥ ४०४॥

(३८. प्रोत्साहनम्)

उत्साहजननैस्सष्टैर्गुणैरौपम्यसंश्रयैः।
प्रसिद्धैरुपगूढं च ज्ञेयं प्रोत्साहनं बुधैः॥ ४०५॥

(नाशा. १६.१०उ) यथा रत्‍नावल्यां चतुर्थेऽङ्के विजयवर्मा प्राग्वृत्तयुद्धवर्णनायां प्राह—

योद्ध‍ुं निर्गत्य विन्ध्यादभवदभिमुखस्तत्क्षणं दिग्विभागान् विन्ध्येनेवापरेण द्विपपतिपृतनापीठबन्धेन रुन्धन्।
वेगाद् बाणान् विमुञ्चन् समदकरिघटोत्पिष्टपत्तिर्निपत्य प्रत्यैच्छद् वाञ्छिताप्‍तिद्विगुणितरभसस्तं रुमण्वान् क्षणेन॥

(रत्‍ना. ४.५) (३९. स्पृहा) (समा नाशा. १६.८ टि.)

दृष्टे श्रुतेऽनुभूते वा वस्तुनो रामणीयके।
अभिलाषो भवेद् यस्तु सा स्पृहेति प्रकीर्तिता॥ ४०७॥

यथोत्तरचरिते जनकः—(उ.रा.च. ४.१९)

कुवलयदलस्‍निग्धश्‍यामश्शिखण्डकमण्डनो वटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन्।
पुनरिव शिशुर्भूत्वा वत्सस्स मे रघुनन्दनो झटिति कुरुते दृष्टः सोऽयं दृशोरमृताञ्जनम्॥ ४०८॥

(४०. पश्‍चात्तापः)

अकार्यं सहसा कृत्वा(ऽ)कृत्वा कार्यमथापि वा।
सन्तापो मनसो यस्तु पश्चात्तापस्स उच्यते॥ ४०९॥

(नाशा. १६.३३) यथा रत्‍नावल्यां तृतीयेऽङ्के,

वासवदत्ता—कंचणमाळे, तं तहा चळणपडि(दमय्य) उत्तमवधीरअंतीए अदिणिठ्ठुरं एव्व मए किदं, इति। (काञ्चनमाले, तं तथा चरणपतितमार्यपुत्रं अवधीरयन्त्या अतिनिष्ठुरमेव मया कृतम्। इति।) (रत्‍ना. ३.१७–१८)

(४१. अनुवृत्तिः) (नाशा. १६.३४)

प्रश्रयेणार्थसंयुक्तं यत् परस्यानुवर्तनम्।
स्‍नेहाद् दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता॥ ४१०॥

यथा रत्‍नावल्यां तृतीयेऽङ्के

राजा—कथं दर्शनमपि भविष्यति?

विदूषकः—भो कहं ण भविस्सिदि जस्स रा(दे)ओहसितच्चुहत्थदि (विहप्पदि)

बुद्धिविहवो अमच्‍चो। (भोः कथं न भविष्यति यस्य त उपहसितबृहस्पतिबुद्धिविभवोऽमात्यः।)

राजा—न खलु किञ्चिन्न संभाव्यत इति॥ ४११॥

(४२. युक्तिः) (नाशा. १६.३६)

साध्यते योऽर्थसम्बन्धो महद्भिस्समवायतः।
परस्परानुकूल्येन सा युक्तिः परिकीर्तिता॥ ४१२॥

यथा मालतीमाधवे,

कामन्दकी—तदिदानीं विदर्भराजमन्त्रिणा सता देवरातेन माधवं पुत्रमान्वीक्षकीश्रवाणाय कुण्डिनपुराद् इमां पद्मावतीं प्रति प्रेषयता सुविहितम्।

अपत्यसम्बन्धविधिप्रतिज्ञा प्रियस्य नीता सुहृदः स्मृतिं च।
अलोकसामान्यगुणस्तनूजः प्ररोचनार्थं प्रकटीकृतश्च॥

(मामा. १.१३) अन्यच्च, मकरन्दोद्यानवृत्तान्तेन भगवतो विधेरप्यनुकूलतामवगच्छामि। वकुला— वलीचित्रफळकसंविधानव्यतिकरश्च कमप्यद्भ‍ुतं प्रमोदमुल्लासयति, इति।

(४३. निर्भासनम्) (नाशा. १६.२६)

अनेकयुक्तिमद् वाक्यमनेकार्थप्रसाधकम्।
अनेकवाच्यसंयुक्तं ज्ञेयं निर्भासनं तु तत्॥ ४१४॥

यथा मालतीमाधवे

मकरन्दः—वयस्य माधव,

अन्योन्यसम्भिन्नदृशां सखीनां तस्या अपि प्रागनुरागचिह्नम्।
कस्यापि कोऽपीति निवेदितं च धात्रेयिकायाश्चतुरं वचश्च॥

(मामा. १.३६) कलहंसकः—(उपसृत्य) एदं च। (एतच्च) (चित्रफलकं दर्शयति।)

(४४. क्षमा)

प्रतिक्रियासमर्थस्य पात्रौचित्यवशेन यः।
अपकारेऽप्युपशमः सा क्षमेति प्रकीर्तिता॥ ४१६॥१ (नाशा. १६.३१)

१.–२. भोजोपज्ञमिदं द्वयम्। यथा उत्तरचरिते

लवः—(आत्मगतम्) ईदृशो मां प्रत्यमीषामकारणस्‍नेहः। मया पुनरेभ्य एवाभिद्रुग्धमज्ञेन, यदायुधपरिग्रहो विहितः (प्रकाशम्) मृष्यन्तामिदानीं लवस्य बालिशतां तातपादाः।

रामः—किमपराद्धं वत्सेन?

चन्द्रकेतुः—अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन।

रामः—नन्वयमलङ्कारः क्षत्रस्य। इति॥ ४१७॥

(४५. गुणानुवादः) (नाशा. १६.१३अ)

गुणानुवादः स ज्ञेयो यत्राऽभेदोपचारतः।
गौणीं वृत्तिमुपाश्रित्य वस्तुनो रूपमुच्यते॥ ४१८॥२

यथा शाकुन्तले राजा—(शाकु. २.१०)

अनाघ्रातं पुष्पं किसलयमलूनं कररुहै— रनाविद्धं रत्‍नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ ४१९॥

(४६. आक्रन्दः)

आत्मभावमुपन्यस्य परसादृश्‍ययुक्तिभिः।
तीव्रार्थभाषणं यत् स्यादाक्रन्दस्स तु कीर्तितः॥ ४२०॥

(नाशा. १६.१९) यथा मालतीमाधवे

(प्रविश्‍य) बुद्धरक्षिता—परित्ताअध परित्ताअध। एसा खु णो पिअसही अमच्चणंदणस्स भइणीआ मदअंतिआ एदिणा दुठ्ठशद्द‍ूलेण भयविद्दविअपरिअणा अब्भिद्दवीयदि। (परित्रायध्वं, परित्रायध्वम्! एषा खलु नः प्रियसख्यमात्यनन्दनस्य भगिनिका मदयन्तिका एतेन दुष्टशार्दूलेन भयविद्रावितपरिजना अभिद्रूयते।)॥ ४२१॥ १. भोजोपज्ञमिदम्। (४७. कपटम्) (नाशा. १६.३०)

अदिव्यं दिव्यमपि वा कृत्वा रूपविपर्ययम्।
अविद्वान् वञ्च्यते यत्र कपटं तदुदाहृतम्॥ ४२२॥१

यथा मालतीमाधवे

कामन्दकी—वत्स मकरन्द, अनेनैव मालतीनैपथ्येनापवारितः प्रवर्तस्व परिणयायात्मानं नन्दनेन। इति।

(४८. परिवादनम्)

यद् दोषैरन्यनामोक्तैः प्रसिद्धार्थप्रयोजनम्।
अन्यत्रार्थेन सम्बद्धं ज्ञेयं तत् परिवादनम्॥ ४२३॥ (नाशा. १६.३९)

यथा रत्‍नावल्यां तृतीयेऽङ्के,

वासवदत्ता . . . . .

राजा विदूषकश्च . . . . .

भाषते— अज्ज वि दाव से णिच्‍चरुट्‍ठाए देवीए वअणेहिं कडुईकदा कण्णा तुहालापेहि सुहाविअन्तु। (अद्यापि तावद् अस्या नित्यरुष्टाया देव्या वचनैः कटुकीकृताः कर्णाः तवालापैः सुख्यन्तु।) ततो ज्ञातायां राजा परिवदन्नाह—धिङ् मूर्ख! त्वत्कृतोऽयमनर्थोऽ— स्माकमापतितः, इति ॥ ४२४॥

(४९. अभ्युपपत्तिः) (नाशा. १६.३५)

प्राप्‍ता(प्रोक्‍ता)नां यत्र दोषाणां क्रियते शमनं पुनः।
ज्ञेया साऽभ्युपपत्तिस्तु लक्षणं नाटकाश्रयम्॥ ४२५॥

यथा रत्‍नावल्यां द्वितीयेऽङ्के;

वासवदत्ता—कंचणमाले! अअं अय्यउतो। इअं उण साअरिआ। ता किं एदं ?। (काञ्चनमाले, अयमार्यपुत्रः। इयं सागरिका। तत् किमेतत्?)

काञ्चनमाला—अहं पि एव्वमेव्व तक्केमि। (अहमपि एवमेव तर्कयामि।)

(राजा)— (अपवार्य), वयस्य त्वमेवास्या उत्तरं प्रयच्छ।

विदूषकः — होदि, अप्प किल दुक्करं आलिहिदुं ति मम वअणं सुणिअ पिअवअस्सएण एदं विण्णाणं दंसिदम्। (भवति, आत्मा किल दुष्करं आलिखितुमिति मम वचनं श्रुत्वा प्रियवयस्येनैतद् विज्ञानं दर्शितम्।)

राजा— देवि, यथाह वसन्तकः।

वासवदत्ता—एसा पि जा तुह समीपे आलिहिदा, एदं किं वसंदअस्स विण्णाणं। (एषापि) या तव समीपे आलिखिता, एतत् किं वसन्तकस्य विज्ञानम् ?

राजा—(सविलक्षस्मितः) देवि, अलमन्यथा सम्भावितेन। इयं हि मया स्वचेतसैव विकल्प्यालिखिता। न तु दृष्टपूर्वा। इति ॥ ४२६॥

(५०. कार्यम्)

यत्रा(/?/ा)सङ्कीर्तयन् दोषं गुणमर्थेन योजयेत्।
गुणाभिवादं दोषाद् वा कार्यं तदिह कीर्तितम्॥ ४२७॥

(नाशा. १६.३७) यथा वा रत्‍नावल्यां प्रथमेऽङ्के यौगन्धरायणः—(१.७)

प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ दैवेनेत्थं दत्तहस्तावलम्बे।
सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाकारी भीत एवास्मि भर्तुः॥ ४२८॥

(५१. प्रतिषेधः)

कार्येषु विपरीतेषु यदि कश्चित् प्रवर्तते।
निवार्यते च कार्यज्ञैः प्रतिषेधः स कीर्तितः॥ ४२९॥

(नाशा. १६.२३) यथा वीरचरिते दशरथः (जनकमु्द्दिश्‍य)—(मवीच. ३.३०)

विरम नरपते! कथं द्विजेऽस्मिन्नविरतयज्ञवितीर्णगोसहस्त्रः।
तव पलितनिरन्तरः पृषत्कं स्पृशति पुराणधनुर्धरस्य बाहुः॥ ४३०॥

(५२. मृषोद्यमः)

प्रयुक्तार्थविधानाय मोहाद् यत्र प्रवर्तते।
निवर्तते वृथा क्लेशस्स विज्ञेयो मृषोद्यमः॥ ४३१॥१

१–२. भोजोपज्ञमिदं द्वयम्। यथा वीरचरिते—(मवीच. ३.२४)

तपो वा शस्त्रं वा व्यपदिशति यः कश्चिदिह वो स दर्पादुद्दामं द्विषमसहमानः स्खलयतु।
अरामां निस्सीरध्वजदशरथीकृत्य वसुधा— मृतप्‍तस्तत्कुल्यानपि परशुरामश्शमयति॥ ४३२॥

(५३. छलोक्‍तिः)

काक्‍वा श्लेषेण वा यत्र पदं द्व‍यर्थे प्रयुज्यते।
प्रधानमतिसन्धातुं सा छलोक्तिः प्रकीर्तिता॥ ४३३॥२

यथा रत्‍नावल्यां

विदूषकः—होदि, सबामि बह्मसुत्तेण जइ अह्मेहिं ईदिसी कापि दिठ्ठपुव्वा। (भवति! शपामि ब्रह्मसूत्रेण, यदि . . . अस्माभिरीदृशी कापि दृष्टपूर्वा।)

काञ्चनमाला—भट्टिणि! घुणक्खदं वि संवददि एव्व। (भट्टिनी! घुणाक्षरमपि संवदत्येव।)

वासवदत्ता— अइ उजुए, वसंदओ खु एसो। ण आणासि तुमं एदस्स वक्‍कभणिदिओ। अय्य मम वि एदं चित्तअं पेक्खंतीए सीसवेअणा समुप्पण्णा। ता गमिस्सं अहं, इति। (अयि ऋजुके, वसन्तकः खल्वेषः। न जानासि त्वं एतस्य वक्रभणितीः। आर्य! ममापि एतच्‍चित्रकं प्रेक्षमाणायाः शीर्षवेदना समुत्पन्ना तद्गमिष्याम्यहम्, इति।)

यथा च मालतीमाधवे प्रभवति निजस्य कन्यकाजनस्य महाराजः, इति।

(५४. काकुः)

वाक्येऽभिधीयमानोऽर्थो येनान्यत्वं प्रपद्यते।
भिन्नकण्ठध्वनिर्धीरैस्स काकुरिति कथ्यते॥ ४३४॥१

यथा च वेणीसंहारे, भीमः सहदेवमुद्दिश्‍य — सन्धेयास्ते भ्रातरो युष्माकम्। यथा चात्रैव १. भोजोपज्ञमिदम्। लाक्षागृहानलविषान्नसभाप्रवेशौः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः॥ ४३५॥ (वेसं. १.७)

(५५. उन्माथः)

असाधुकारिणं कञ्चित् पश्‍यतस्साधुमानिनः।
सोत्प्रासं वचनं यत् स्यात् तमुन्माथं प्रचक्षते॥ ४३६॥१

यथा रत्‍नावल्यां तृतीयेऽङ्के,

काञ्चनमाला—साहु रे अमच्च वसन्तअ साहु। (अदिसइदो तु) ए अमच्‍चज्जोअंधराअणो इमाए संधिविग्गहपीताए (चिंताए)। (साधु रे अमात्य वसन्तक साधु। अतिशयितस्त्वया अमात्य— यौगन्धरायणोऽनया सन्धिविग्रहचिन्तया।) इति।

(५६. परिहासः)

यदग्राम्यं भवेद् वाक्यं गुरूणामधिकेष्वपि।
तथावसरमासाद्य परिहारस्स कथ्यते॥ ४३७॥२

यथा उत्तरचरिते,

रामः—अस्ति चेदानीमश्वमेधसहचारिणी हिरण्मयी सीताप्रतिकृतिः। तत्रापि तावद्वाष्पदग्धं चक्षुर्विनोदयामि।

सीता—धण्णा खु सा जा अय्यवुत्तेण एव्वं बहुमण्णीअदि। जा अय्यवुत्तं विणोदअंती आसाणिबंधण जादा जीवळोअस्स। (धन्या खलु सा या आर्यपुत्रेणैवं बहुमन्यते। या आर्यपुत्रं विनोदयन्ती आशानिबन्धनं जाता जीवलोकस्य।)

तमसा— (सस्मितस्‍नेहास्त्रं परिष्वज्य) अयि वत्से, एवमात्मा स्तूयते।

सीता— (सलज्जम्) परिहसिदम्मि भअवदीए। (परिहसितास्मि भगवत्या।) (इति।)

(५७. विकत्थनम्)

सगुणोत्कर्षतो वापि कर्मणो वाऽपदानतः।
आत्मश्लाघापरं वाक्यं विकत्थनमिहोच्यते॥ ४३८॥३

१–३. भोजोपज्ञमिदं त्रितयम्। यथा च वेणीसंहारे (भीमः)—

सकलरिपु/?/जयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः।
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम्॥ ४३९॥ (वेसं. ५.२७)

अपि च,

चूर्णिताशेषकौरव्यः क्षीबो दुःशासनासृजा।
भङक्ता सुयोधनस्योर्वोर्भीमो वां शिरसाऽञ्चति॥ ४४०॥

(वेसं. ५.२८) (५८. यदृच्छायोगः)

यदृच्छाया भवेद् योगो यत्राभीष्टेन केनचित्।
अचिन्तितस्स धीमद्भिर्यदृच्छायोग उच्यते॥ ४४१॥२

यथा मालतीमाधवे

मालती—णाह तुह्मे उण कहं। (नाथ, यूयं पुनः कथम् ?)

माधवः—(सलज्जम्)

त्वत्पाद/पाणिपङ्कजपरिग्रहपुण्य/ धन्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः।
भ्राम्यन् नृभांसपणनाय परेतभूमा— वाकर्ण्य भीरु! रुदितानि तवागतोऽस्मि॥ ४४२॥

(मामा. ५.२७) (५९. वैषम्यम्)

प्रत्यक्षमिति यत्रैकः परोक्षमिति चापरः।
मन्यतेऽभिमतं वस्तु तद् वैषम्यमिति स्मृतम्॥ ४४३॥१

यथा उत्तरचरिते

(वासन्ती)—कथमद्यापि नोच्छ्‌वसिति रामभद्रः? हा प्रियसखि सीते! विपत्तिदुःखदग्धामपि पुनःपुनर्मन्दभागिनीं दहसि।

सीता—अपसर्तुमिच्छामि। एष पुनश्चिरप्रणयसंभारसौम्यशीतलेन आर्यपुत्र— स्पर्शेन दीर्घदारुणमपि झटिति सन्तापं लघयता वज्रलेपोपनद्ध इव पर्यस्तव्यापार आसञ्जितो मे हस्तः॥ ४४४॥ १. भोजोपज्ञमिदम्। रामः—सखि, कुतः प्रलापः?।

गृहीतो यः पूर्वं परिणयविधौ कङ्कणधऱः सुधासूतेः पादैरमृतशिशिरैर्यः परिचितः।
स एवायं तस्यास्तदितरकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दळनिभः॥ ४४५॥

(उराच. ३.४०) सीता—हद्धि, अय्यउत्तप्परिसमोहिदाए पमादो खु से संवुत्तो। (हा धिक्! आर्यपुत्रस्पर्शमोहितायाः प्रसादः खलु अस्याः संवृत्तः!)

रामः—सखि वासन्ति, आनन्दनिमीलितः प्रियास्पर्शसाध्वसेन परवानस्मि। तत् त्वमपि धारय।

वासन्ती—कष्टमुन्माद एव।

सीता—{ससम्भ्रमं हस्तमाक्षिप्यापसर्पति}।

रामः—हा धिक्, प्रमादः!॥ ४४६॥

करपल्लवस्स तस्यास्सहसैव जडात्मनः परिभ्रष्टः।
परिकम्पिनः प्रकम्पी करो (कराद्) मम स्विद्यतस्स्विद्यन्॥ ४४७॥

(उराच. ३.४१)

तमसा—(सस्‍नेहकौतुकस्मितं निर्वर्ण्य) (उराचय. ३.४२)

सस्वेदरोमाञ्चितकम्पिताङ्गी जाती प्रियस्पर्शसुखेन वत्सा।
मरुन्नवाम्भःप्रविधूतसिक्त— कदम्बयष्टिस्सफुटकोरकेव॥ ४४८॥

सीता—(स्वगतम्) अवसेण एदेण अत्ताणएण लज्जाविदह्मि भअवदीए तमसाए। किं ति किल एसा तमसा एस मण्णिस्सिदि एसो परिचयो(च्चायो) एसो आसंहो त्ति। (अवशेनैतेनात्मना लज्जापितास्मि भगवत्या तमसया। किमिति किलैषा तमसा मंस्यते एष परित्यागः, एष आसङ्ग इति।)

रामः—(सर्वमवलोक्य) हा कथं नास्त्येव। नन्वकरुणे वैदेहि! न मामेवं परित्यक्‍तुमर्हसि। १.–२. भोजोपज्ञमिदं द्वयम्। वासन्ती—देव! प्रसीद। स्वेनैव लोकोत्तरेण धैर्येण संस्तम्भयात्मानम्। कुतोऽत्र मे प्रियसखी ?

रामः—व्यक्तं नास्ति। कथमन्यथा वासन्त्यपि न पश्येत् ? एष खलु स्वप्‍न एव स्यात्। न चास्मि प्रसुप्‍तः। कुतो रामस्य निद्रा? इति॥ ४४९॥

(६०. प्रतिज्ञानम्)

न साधयामि यद्येतदेवं कर्तास्म्यहं तदा।
इत्युद्धवादेर्वाक्यस्य तत् प्रतिज्ञानमुच्यते॥ ४५०॥१

यथा मकुटताडिते भीमः—

ध्वस्ताः क्षुब्धा धार्तराष्ट्रास्समस्ताः पीतं रक्तं स्वादु दुश्शासनस्य।
पूर्णा कृष्णाकेशबन्धप्रतिज्ञा तिष्ठत्येकः कौरवस्योरुभङ्गः॥

ऊरू निपीड्य गदया यदि नास्य तस्य पादेन रत्‍नमकुटं शकलीकरोमि।
देहं निपीतनिजधूमविजृम्भमाण— ज्वालाजटालवपुषि ज्वलने जुहोमि॥ ४५२॥

(६१. प्रवृत्तिः)

एवं मयात्र कर्तव्यमिति यन्निश्चितं वचः।
स्नेहाद् दाक्षिण्यतो वापि प्रवृत्तिस्सा निगद्यते॥ ४५३॥२

यथा मालतीमाधवे कामन्दकी—(मामा.४.५)

मा वां सपत्‍नेष्वपि नाम तद् भूत् पापं यदस्यां त्वयि वापि शक्यम् विशंक्यम्।
तत् सर्वथा सङ्गमनाय यत्‍नः प्राणव्ययेनापि मया विधेयः॥ ४५४॥

(६२. आशीः) (नाशा. १६.२८ पाठभेदेन)

यदाशास्त्यर्थसम्पन्नं मनोरथसमुद्भवम्।
अप्रार्थनीयमन्यद् वा विदुस्तामाशिषं बुधाः॥ ४५५॥

यथा मालतीमाधवे कामन्दकी—(मामा. ६.७)

विधाता भद्रं नो वितरतु मनोज्ञाय विधये क्रियासुर्देवा (नः) परमरणीयां परिणतिम्।
कृतार्था भूयासं प्रियसुहृदि यत्‍नैरभिमतः प्रयासः कृत्स्नोऽयं फलतु शिवतातिश्च भवतु॥ ४५६॥

(६३. अनुक्तसिद्धिः) (नाशा. १६.४० पृ.३६१)

प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यत्र प्रतीयते।
वचनेन विनाऽनुक्तस्सिद्धिस्सा परिकीर्तिता॥ ४५७॥

(नाशा. १६.४०) यथा शाकुन्तले

राजा—भगवान् खलु काश्यपश्शाश्वते ब्रह्मणि स्थित इति प्रकाशः। इयं च वस्सखी तदात्मजेति कथमेतत्?

अनसूया—सुणादु अय्यो। अत्थि कोसिओ त्ति गोत्तनामदो महप्पहावो राएसी।

(श्रृणोत्वार्यः। अस्ति कौशिक इति गोत्रनामतो महाप्रभावो राजर्षिः।)

राजा—श्रूयते

अनसूया—तं सहीए पहवं अवगच्छदु महाराओ। उज्झिदसरीरसंवढ्‌ढणादिहिं तादकस्सपो से पिदा। {तं सख्याः प्रभवमवगच्छतु महाराजः। उज्झितशरीरसंवर्धनादिभिः तातकाश्यपः अस्याः पिता।}

राजा—उज्झितशब्देन पुनर्जनितं कुतूहलम्। आमूलाच्छ्रोतुमिच्छामि।

अनसूया—पुरा तस्स किल राएसिणो उग्गे तवसि वट्‌ठमाणस्स किं पि जादसंकेहिं देवेहिं मेणआ णाम अच्छरा णिअमविग्घकारिणी अणुप्पेसिदा। (पुरा तस्य किल राजर्षेः उग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैः मेनका नामाप्सरा नियमविघ्‍नकारिणी अनुप्रेषिता।)

राजा—अस्त्येतदन्यसमाधिभीरुत्वं देवानाम्। ततस्ततः?

अनसूया—तदा वसन्तोदारसमए तए उन्मादयित्तअं रूवं पेक्खिअ . . . (ततो वसन्तोदारसमये तस्या उन्मादयितृकं रूपं प्रेक्ष्य) (इत्यर्धोक्ते लज्जां नाट्यति।)

राज—भवतु, परस्तादवगम्यत एव। सर्वथा अप्सरस्सम्भवैवैषा, इति॥ ४५८॥

(६४. प्रियवचनम्)

आदौ यत् क्रोधजननमन्ते हर्षविवर्धनम्।
तत्प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम्॥ ४५९॥

(नाशा. १६.२९) यथा रत्‍नावल्यां, चतुर्थेऽङ्के,

विदूषकः अपवार्यैन्द्रजालिकमाह—आ दासीएपुत्त इंदजालिअ! किं वा देवेहिं? जदि दे एदिणा परितुट्ठेण कज्जं ता साअरिअं से दंसेहि। (आः दास्याःपुत्र, ऐन्द्रजालिक! किं वा देवैः? यदि त एतेन परितुष्टेन कार्यं तत् सागरिकामस्य दर्शय।) तत एतद्‍वचनानन्तरमग्निसम्भ्रमादुत्थितः राजा, न वसुभूत्यादय आवृता वह्निना॥ ४६०॥

एतानि काव्यस्य विभूषणानि १प्रायश्चतुष्षष्टिरुदाहृतानि।
प्रबन्धशोभाकरणाय तज्ज्ञैस्सम्यक् प्रयोज्यानि यथारसानि॥ ४६१॥

उदाहृता नाटकनाटिकादावियं चतुष्षष्टिचतुष्टयी या।
रसाविरोधेन निबन्धनीया कथासु काव्येषु च सा महद्भिः॥ ४६२॥

भक्तीर्द्वादश ताः पृथक्पृथगिमास्सञ्चिन्त्य शब्दार्थयोः साहित्यस्य च शब्दशासनविदा कार्यः प्रबन्धे श्रमः।
कीर्त्तिर्यावदनश्वरी हि विदुषां रोदोगृहं गाहते ब्राह्मं लोकललामधाम तदमी तावत् किलाध्यासते॥ ४६३॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे प्रबन्धाङ्गचतुष्षष्टिचतुष्टयप्रकाशो नाम

॥ द्वादशः प्रकाशः॥ १२॥

नेदृशी स्पष्टताऽन्यत्र दृश्यते नाट्यलक्षणे।
सनातनोऽस्य लब्ध्या स्वं साहित्यं पूर्णमीक्षते॥

१. प्रायःपदेन सूचितो लक्षणानां न्यूनाधिकभावोऽपि। अभिनवगुतोऽप्याह—‘लक्षणानि अनियत— संख्यानी’—ति। लक्षितानि स्वयं नूतनानि २८।