अथ
शृङ्गारप्रकाशे एकादशः प्रकाशः
रसावियोगप्रकाशनप्रकाशो नाम
(१२. रसावियोगः)
निर्दोषस्य गुणवतोऽलङ्कृतस्य च काव्यशरीरस्य कामिनीशरीरस्येव शोभातिशयनिष्पत्तौ रसावियोग एव प्रकृष्ट उपायो गीयते। यतः,
कल्या मूर्तिः कुलममलिनं यौवनं रूपसम्पत् सौभाग्यर्द्धिः प्रियवचनता शीलवैदग्ध्ययोगः।
शालीनत्वं विनयपरतेत्यङ्गनाभूषणं यत् तत् प्रेमार्द्रं प्रणयिनि मनो नास्ति चेन्नास्ति किञ्चित्॥१॥
किं च—
अलङ्कृताप्यन्वयशीलभूषणैर्न शोभते मां प्रति तावदङ्गना।
बिभर्ति यावत् प्रमदा समागमे न शूरभार्यादृतगर्वितं शिरः॥ २॥
रसं त्विह प्रेमाणमेवामनन्ति, सर्वेषामपि हि रत्यादिप्रकर्षाणां रतिप्रियो रणप्रियो अमर्षप्रियः परिहासप्रिय इति प्रेमण्येव पर्यवसानात्।
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति॥ ३॥ (उराच. ५.१७)
ततो हि—
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत्प्रियं यत्करोति सा॥ ४॥
अपि च— (उराच. २.१९, ६५)
अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥ ५॥
दुक्खं दन्तो वि सुहं जणेइ जो जस्स वल्लहो होइ।
दइअ-णह-दूमिआण वि वड्ढइ त्थणआण रोमञ्चो॥ ६॥
(गास.१.१००)
(दुःखं दददपि सुखं जनयति यो यस्य वल्लभो भवति।
दयितनखदूयमानयोरपि वर्धते स्तनयो रोमाञ्चः॥)
तदुक्तम्—
अप्रातिकूलिकतया मनसो मुदादे— र्यस्संविदोऽनुभवहेतुरिहाभिमानः।
ज्ञेयो रसः स रसनीयतयाऽऽत्मशक्ते(/रक्तेः)१ रत्यादिभूमनि पुनर्वितथा रसोक्तिः॥ ७॥
ननु ‘इदानीमेवोक्तं रतिप्रियो रणप्रियोऽमर्षप्रियः परिहासप्रिय इति रत्यादिप्रकर्षाणां प्रेमण्येव पर्यवसानात् रसमिह प्रेमाणमामनन्ती’ति तत् कथमुच्यते रत्यादिभूमनि पुनर्वितथा, रसोक्तिरिति? उच्यते, न रत्यादिभूमा रसः। किं तर्हि? शृङ्गारः।
(रसलक्षणम्)
शृङ्गारो हि नाम विशिष्टेष्टदृष्टचेष्टाभिव्यञ्जकानाम् आत्मगुणसम्पदामुत्कर्षबीजं बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्काराद्यतिशयहेतुरात्मनोऽहङ्कारगुणविशेषः सचेतसा रस्यमानो रस इत्युच्यते। यदस्तित्वे रसिकोऽन्यथात्वे नीरस इति॥ ८॥
(भावाः — ५१)
तदाविर्भावहेतवश्च तत्प्रभवा एव भावाः। ते चैकोनपञ्चाशत्—
(१) रतिः, (२. प्रीतिः),(३) हर्षः, (४) रोमाञ्चः, (५) धृतिः, (६) गर्वः, (७) हासः, (८) मदः, (९. मोहः), (१०) उत्कण्ठा, (११) चिन्ता, (१२) स्मृतिः, (१३) मतिः, (१४) वितर्कः, (१५) उत्याहः, (१६) क्रोधः, (१७) अमर्षः, (१८) असूया, (१९) ईर्ष्या, (२०) उग्रता, (२१) जुगुप्सा, (२२) विस्मयः, (२३) निद्रा, (२४) सुप्तम्(/स्वप्नः), (२५) प्रबोधः, (२६) चपलता, (२७) आलस्यं, (२८) भयं, (२९) शङ्का, (३०) त्रासः, (३१) वेपथुः, (३२) व्रीडा, (३३) अवहित्थं, (३४) स्तम्भः, (३५) ग्लानिः, (३६) स्वेदः, (३७) व्याधिः, (३८) उन्मादः, (३९) श्रमः, (४०) शोकः, (४१) विषादः, (४२) वैवर्ण्यं, (४३) दैन्यं, (४४) स्वरभेदः, (४५) आवेगः, (४६) अश्रु, (४७. मोहः/स्नेहः), (४८) प्रलयः, (४९) जाड्यं, (५०) निर्वेदः, (५१) शम२ इति। १. द्र. अत्रैव पृ. १ पादटिप्पणी ३। २. भरतनिर्दिष्टौ मरणापस्मारावत्र न भवतः, भवतश्च भरतानिर्दिष्टौ ‘ईष्यो—शमौ’। संख्या तु समैव। एतेषां विभावादीनां रतेश्च विशद्य विवेचनं त्रयोदशप्रकाशे (द्र.पृ.७९४), शेषाणाञ्च चतुर्दशे प्रकाशे भावि। तत्र केचिदाचक्षते रतिप्रभवः शृङ्गार इति।
वयं तु मन्यामहे रत्यादीनामयमेव प्रभव इति। शृङ्गारिणो हि रत्यादयो जायन्ते, नाशृङ्गरिणः। शृङ्गारी हि रमते, स्मयते, उत्सहते, स्निह्यतीति।
ते तु भाव्यमानत्वाद् भावा एव, न रसाः।
यावत्सम्भवं हि भावनया भाव्यमानो भाव एवोच्यते।
भावनापथमतीतस्तु रस इति।
मनोऽनुकूलेषु हि १सुखादिषु आत्मनः सुखानुभवाभिमानो रसः।
स तु पारम्पर्येण सुखहेतुत्वात् रत्यादिभूमसूपचारेण व्यवह्रियते। अतो न रत्यादीनां रसत्वं, अपि तु भावनाविषयत्वाद् भावत्वमेव।
यदप्युक्तं परप्रकर्षगामी रत्यादिभावो रस इति, तदप्यसारम्, ग्लान्यादिष्वपि तदुपपत्तेः। ग्लान्यादयोऽपि श्रमादिभिः परं प्रकर्षमारोप्यन्ते। न ते स्थायिन इति चेत्, स्थायित्वमेषामुत्पन्नतीव्रसंस्कारात्। संस्कारोत्पत्तिश्च विषयातिशयान्नायकप्रकृतेश्च। प्रकृतिश्च त्रिधा सात्त्विकी, राजसी, तामसीति। तद्वशाच्च तथाविधानुभवभावनोत्पत्तिः। ततश्चैषां स्थायित्वव्यपदेश इति।
नन्वष्टौ स्थायिनोऽष्टौ सात्त्विकास्त्रयस्त्रिंशद् व्यभिचारिण इति ब्रुवते?
न तत्साधु।
यतोऽमीषामन्यतमस्यैतैरेव परस्परं निर्वर्त्यमानत्वात्। कश्चित् कदाचित्स्थायी, कदाचित्तु व्यभिचारी। अतोऽवस्थावशात् सर्वेऽप्यमी व्यभिचारिण:, सर्वेऽपि च स्थायिनः, सात्त्विका अपि सर्व एव मनःप्रभवत्वात्। अनुपहतं हि मनस्सत्त्वमित्युच्यते।
यच्चोक्तं विभावानुभावव्यभिचारिसंयोगात् स्थायिनो रसत्वमिति२, तदपि मन्दम्, १. ‘सुख.=दुःखा.’ राघवः, लेष्वपि सुखदुःखा इति तत्र पाठान्तरम्। मनसा गृहीतमात्मना रस्यते इति तु विवक्षितमत्र। २. भरतोक्ते ‘विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्ति’—रिति रससूत्रे स्थायिशब्दो नास्ति। ध्वनिवादिनामुचित एव स्थाय्यभावोऽत्र, उल्लेख एव प्रत्युत शल्यभूतो भवेत्। तन्मते स्थायिनां रत्यादीनां लाभो विभावतावच्छेदकतया, रतिमत एव दुष्यन्तादेः सामाजिकान् प्रति विभावत्वात्। एवं च भावो रस इति प्रथमं रससूत्रम्, ‘विभावानुभावव्यभिचारिसंयोगो रस’ इति द्वितीयं, विभावानुभावव्यभिचारिस्थायिसंयोगो रस इति तृतीयं, चतुर्थं पुनर्विभावानुभावव्यभिचारिस्थायि सात्विकसंयोग इति, पञ्चमं ‘भावसंयुक्तः स्थायी’—ति। स्थायी चाऽत्र न रत्यादिः, न च निर्वेदादिः, अपितु प्रत्यक्चैतन्यमेव रसिकस्य। द्रष्टव्यः अत्रास्माकं रसभोगः, काव्यालङ्कारकारिका च। हर्षादिष्वपि विभावानुभावव्यभिचारिसंयोगस्य विद्यमानत्वात्। तस्माद् रत्यादयः सर्व एवैते भावाः, शृङ्गार एवैको रस इति। तैश्च सविभावानुभावैः प्रकाशमानः शृङ्गारो विशेषतः स्वदते।
तत्र केचनाहुः — ‘नायं रसः शृङ्गाराख्यो रत्यादिभिरभिव्यज्यते, अपित्वालम्बन— विभावादुत्पन्नो रत्यादिरेवोद्देपनविभावादिभिः परं प्रकर्षमारोप्यमाणो रसीभवन् शृङ्गारादिसंज्ञां लभत’ इति।
त एवं प्रष्टव्याः — ‘किमेते रत्यादयः स्वेभ्यः आलम्बनेभ्यः उत्पद्यमानाः सर्वस्याप्युत्पद्यन्ते, उत कस्यचिदेवेति?’
यदि तावत् सर्वस्य, तदा सर्वं जगद् रसिकं स्यात्। न चैतदस्ति। यतः कश्चिद्रसिकः कश्चित्तु नीरसो दृश्यते। न च दृष्टविपरीतं शक्यमनुज्ञातुम्। अतो न सर्वस्य रत्यादयो जायन्ते।
अथ कस्यचित्, तत्र निमित्तमभिधानीयम्। तद् दृष्टमदृष्टं वा स्यात्।
न तावत् दृष्टमनुपलभ्यमानत्वात्।
अदृष्टं तु साधारणमसधारणं वा।
साधारणे पूर्व एव दोषः, सर्वं जगद्रसिकं स्यादिति।
असाधारणं तु प्रत्यगात्मगतानादिवासनानुबन्धिधर्मकार्यं भवितुमर्हति। तं चात्मनोऽहङ्कारगुणविशेषं ब्रूमः। स शृङ्गारः, सोऽभिमानः, स रसः। तत एते रत्यादयो जायन्ते। तैश्चायं प्रकर्षप्राप्तैः सप्तार्चिरर्चिश्चयैरिव प्रकाशमानः शृङ्गारिणामेव स्वदत’ इति।
तदुपाधिश्चायमुपजायमानो रसस्त्रिधा विख्यायते—
‘प्रकृष्टो, भावरूप, आभासश्च’। तत्र—
यः कथाशरीरव्यापिन उत्तमनायकस्य तथाविध एव विषये जायते, स प्रकृष्टः।
मध्यमस्य य उपजातो (जायते) न प्रकर्षमासादयति स भावरूपः।
यश्च तिरश्चां प्रतिनायकादीनां चोपजायते स शृङ्गाराभासः१।
तस्यावियोगो द्विधा— (१) वाक्यविषयः, (२) प्रबन्धविषयश्च।२ तयोः — १. रसाभास इत्यर्थः — रे. २. अत्रैव द्र. पृ. ६५८ (१. वाक्यविषयः रसावियोगः)
वाक्यविषयोऽश्लीलामङ्गलघृणावदर्थं ग्राम्यमित्यादिदोषहानेन, दीप्तरसत्वं कान्तिरित्यादिगुणोपादानेन कैशिकीवैदर्भ्याद्यलङ्कारयोगेन च यद्यपि प्रसङ्गतस्तन्त्रयुक्त्या तत्रतत्रोपवर्णितस्तथापि गुणालङ्कारसन्निवेशविशेषजन्यत्वान्नानालङ्कारसंसृष्टावेव प्रकृष्टत्वं लभते।
प्रायेण हि गुणानामिव शब्दार्थोभयालङ्काराणामनुप्रासजातिरूपकादीनां काव्यशरीरेषु कामिनीशरीरेष्विव कटककेयूरकुण्डलादीनां केवलानामदर्शनात् संसृष्टिरेव प्रकृष्टं भूषणमवधार्यते। ततश्च—
भोजने मधुराम्ललवणषाडवानां,
वेष इव वस्त्रानुलेपनमाल्यविभूषणानां,
धूप इव चन्दनागरुकर्पूरसिद्धकानां,
सङ्गीत इव नृत्तवाद्यपाठ्यानां,
प्रेमणीव कोपानुशयप्रसादसङ्गमसुखानां,
गार्हस्थ्य इव धर्मार्थकाममोक्षसाधनानुष्ठानानां, काव्यशरीरेऽपि रूपकादीनां संसृष्टिरेव विशेषतः स्वदमाना रसावियोगहेतुर्भवति। अतः प्रागुपदिष्टापि यत्नतः प्रपञ्च्यते।
स तु द्विधा प्रधानाङ्गभावेन, समकक्ष्यतया च। यदाह— (काव्याद. २.३६०)
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्ष्यता।
इत्यलङ्कारसंसृष्टेर्लक्षणीया द्वयी गतिः॥ ९॥
तत्र प्रधानस्योपकारित्वेन यद् वर्तते तदङ्गम्।
यत्तेनोपक्रियते तत्प्रधानम् (शाभा.३.१.२, वाप. २.८२)
तद्यथा— (काव्याद. २.३६१)
आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम्।
कोशदण्डसमग्राणां किमेषामस्ति दुष्करम्॥ १०॥
अत्रारविन्दानि मुग्धे तव मुखश्रियमाक्षिपन्तीत्युपमा। कोशदण्डसमग्राणां किमेषामस्ति दुष्करमिति श्लेषोपसर्जनोऽर्थान्तरन्यासः। भवन्ति चारविन्दानि कोशदण्डसमग्राणि, तेन तेषां न किंचिदशक्यमस्ति। कोशदण्डयोर्विजयसाधनत्वात्। एतेन श्लेषस्य साधनभूतार्थसमर्पकत्वादुपमायास्तु प्रकृतसाध्यवस्तुविशेष— कत्वादर्थान्तरन्यासं प्रत्यङ्गभावो विज्ञायते।
ननु चैतद् वाक्यदोषाणामदोषप्रस्तावे शब्दहीनस्य क्वचिद् विवक्षातो गुणत्वमिति वर्णितम्। उक्तं च— (काव्याद. ४.२८)
इदं हि शास्त्रमाहात्म्यदर्शनालसचेतसाम्।
अपभाषणवद् भाति न च सौभाग्यमुज्झति॥ ११॥
तत्किमत्रापभाषणं, का वा सौभाग्यत्यागहेतुविवक्षेति?
उच्यते। किमेषां दुष्करमिति षष्ठ्यनुपपत्तिरपभाषणं, ‘कर्तृकर्मणोः कृति (२.३.६५)’ इति षष्ठ्याः ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ (२.३.६९)’ इति प्रतिषेधात्। केह सौभाग्यत्यागहेतुविवक्षा?
तत्रैके वर्णयन्ति ‘अनन्तः खल्वेष शब्दसमाम्नायः। तत्र यथा—अन्नम् अजिरं विचक्षणः समाह्वयः(३.३.११८) इत्यादिषु ‘अदो जग्धिः’ (२.४.३६), ‘अजेर्व्य’ (२.४.५६), ‘चक्षिङः ख्याञ्’ (२.४.५४), ‘एतदोऽश्’ (५.३.५) इत्यादयो विशेषविधयः क्वचिद् वार्त्तिकेष्टिज्ञापकादौ प्रतिषेधान्न भवन्ति, तथेह षष्ठीप्रतिषेधोऽपि क्वचिद् विशेषवचनान्न भविष्यति। दृश्यते चेह महाकवीनामविभागेन प्रयोगः। तद्यथा—
अपि वागधिपस्य दुर्वचं वचनं तद् विदधीत विस्मयम्॥ १२॥
इति भारवेः (किरात. २.२)
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः॥ १३॥
इति कालिदासस्य (रघु. १.७२)
विषम उपन्यासः। लक्षणास्मरणे हि शिष्टप्रयोगो लक्षणमनुमापयति। यत्र तु न लक्षणस्मरणाभावमात्रं, अपि तु तद्विपरीता स्मृतिः ‘न लोकाव्ययनिष्ठा— खलर्थतृनाम्’ (२.३.६९) इति, तत्र किं महाकविप्रयोगस्य शक्यम् ? अतः पूर्वोक्तश्लोकार्धयोस्तद्व्याख्यातारोऽन्यथा व्याख्यानमकुर्वन्। द्रौपदी यदवोचत्तद् दुर्वचं वचनं वागधिपस्यापि विस्मयं विदधीतेति, दुरापेऽर्थे इक्ष्वाकूणां त्वदायत्ताः सिद्धय इति। एवं तर्हि शेषषष्ठी भविष्यति।
(शेषपदार्थः)
कः पुनरयं शेष:? किं कारकेभ्योऽन्यः, उत कारकाणामविवक्षेति?
किं चातः?
यदि कारकेभ्योऽन्यः शेषः, स नास्ति, सर्वत्र क्रियाकारकसम्बन्धस्य भावात्। यथा राज्ञः पुरुष इति राजा पुरुषं बिभर्ति इति कर्तृकर्मणोर्भरणक्रियाकृतः सम्बन्धः, पितुः पुत्र इति पितापुत्रयोः जननकृतः सम्बन्धः। वृक्षस्य शाखेति वृक्षे शाखा शाखासु वा वृक्षस्तिष्ठतीति कर्त्रधिकरणयोः स्थितिक्रियाजनितः संबन्धो भवति।
अस्तु तर्हि कारकाणामविवक्षा शेषः।
तन्न, सतः अविवक्षाऽभावात्। न हि सन् घटः अविवक्षातः असन् भवति।
यथेच्छसि तथास्तु।
अस्तु तावत्कारकेभ्योऽन्यः शेषः।
ननु चोक्तं कारकाणां सर्वत्र भावान्न ततोऽन्यः कश्चिदस्ति शेष इति?
अस्त्येवेति ब्रूमः।
यदा तावत्कारकाधिकरणेषु क्रियाकारकसम्बन्धः सम्बन्धान्तरं जनयति तदा भवति सम्बन्धः कारकेभ्योऽन्यः। तथा हि — ‘राज्ञः पुरुष इत्यत्र कर्तृकर्मणोः भरणक्रियाकृतेन जन्यजनकलक्षणः, वृक्षस्य शाखेत्यत्र स्थितिक्रियाकृतेनावयवा— वयविलक्षण’ इति, तत्र षष्ठी भविष्यति।
एवमन्येऽप्यश्रूयमाणक्रियापदाः षष्ठ्यर्थाः समुन्नेयाः। श्रूयमाणक्रियापदाः खल्वपि यथा नटस्य शृणोति, न ग्रन्थिकस्येति सम्बन्धिश्रवणं षष्ठ्यर्थः प्रतीयते। न माषाणामश्नीयादिति प्रतिषेधो गम्यते। ‘न ते सुखस्य जानन्ति ये न वत्स्यन्ति नन्दने’ इति सुखसंबन्धितया ज्ञानप्रतिषेधोऽवधार्यते’, एवमिह (आक्षिपेति पद्ये) दुष्करो मुखश्रिय आक्षेपः।
श्रूयमाणक्रियापदाः षष्ठ्यर्थाः समुन्नेयाः, कोशदण्डसमग्रत्वात् सुकरत्वं वाक्यार्थत्वेनावबोधयन्नरविन्दानां संबन्धितया न शेषलक्षणां षष्ठीं विघ्नयति इति। तदेतस्मिन् दर्शन इदमुक्तम्— (वाप. ३.७.१५६)
सम्बन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः।
श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते॥ १४॥
तथा हि— (वाप. २.१९७)
जनयित्वा क्रिया काचित् सम्बन्धं विनिवर्तते।
श्रूयमाणे क्रियाशब्दे सम्बन्धो जायते क्वचित्॥ १५॥
एवं कारकेभ्योऽन्यः शेष इति दर्शने किमेषामस्ति दुष्करमिति न षष्ठ्यनुपपत्तिः। अथवा पुनरस्तु कारकाणामविवक्षा शेषः।
ननु चोक्तं सतः कथमविवक्षा?
सतोऽप्यविवक्षा दृश्यते। यथा— अनुदरा कन्या, अलोमिका एडकेति।
असतोऽपि विवक्षा यथा— विन्ध्यो वर्धितकः, समुद्रः कुण्डिकेति।
एवमिह किमेषामस्ति दुष्करमिति सतोऽपि कर्तुरविवक्षायां न तृतीया, अपि (तु) शेषषष्ठ्येव।
यदि तर्हि श्रूयमाणक्रियापदोऽपि कारकेभ्योऽन्यः कारकविवक्षा वा शेषः, किमर्थं ‘ज्ञोऽविदर्थस्य करणे’ इत्येवमादिः षष्ठीविधानार्थः सूत्रप्रबन्धः पाणिनेः?
न; तस्य अन्यार्थत्वात् समासप्रतिषेधार्थः स वार्त्तिककृता व्याख्यातः ‘प्रतिपदविधाना च षष्ठी न समस्यत’ (२.२.१०) इति। अन्यैरप्युक्तम्—
१कारकैर्व्यपदिष्टे च श्रूयमाणक्रियापदे।
शेषे प्रोक्ता पुनः षष्ठी२ समासस्य निवृत्तये॥ १६॥
(वाप. ३.७.१५९) एवमियमुपमाश्लेषार्थान्तरन्यासानामुपकार्योपकारितया प्रधानगुणभावेन संसृष्टिः। युक्तमिदम्। अयुक्तं तु तुल्यकक्ष्यतयेति।
वाक्ये पदार्थानां समकक्ष्यता प्रधानानां वा भवेदप्रधानानां वा?
न तावत् प्रधानानाम्, परस्परमनपेक्षत्वेन सम्बन्धाभावात्।
नाप्यप्रधानानाम्, प्रधानापेक्षत्वेन परस्परानपेक्षायामसम्बन्धादेव। तदुक्तं ‘असम्बन्धः समत्वात् स्याद्’ (पूमी. ३.१.२२) इति। तत्कथमुच्यते तुल्यकक्ष्यतेति? एवं मन्यते — ‘यदोत्प्रेक्षोपमादयोऽलङ्कारा विभावानुभावव्यभिचार्यादिनिर्वर्तनपरतया रसादेरङ्गतां प्रतिपद्यन्ते, तदा भवत्येव तुल्यकक्ष्यते’ ति। यथा—
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता॥ १७॥
(काव्याद.२.२२६, मृच्छ.१.३४)
‘अत्र लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभ’ इति द्वे उत्प्रेक्षे। ‘असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता’ इत्युपमा च वर्णनीयस्य तमस उद्दीपनविभावभूतस्य समतयैवोत्कर्षापादकत्वेनाङ्गभावमुपगता इति नास्ति लक्षणानुपपत्तिः। ननु च— १. कारकैः = साधनैः ऐयरः। २. शेषे प्रोक्ता पुनः = प्रोक्ता प्रतिपदं — ऐयर। (इवार्थाः)
इववद्वायथाशब्दा समाननिभसन्निभाः।
तुल्यसङ्काशनीकाशप्रकाशप्रतिरूपकाः॥ १८॥
(काव्याद. २.५७)
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः।
सदृक्सदृशसंवादिसजातीयानुवादिनः॥ १९॥
प्रतिबिम्बप्रतिच्छन्दसरूपसमसप्रभाः ।
सलक्षणसदृक्षाभसपक्षोपमितोपमाः ॥ २०॥
(सलोहितसनाभिसपिण्डसब्रह्मचारिणौ ।
सवर्णतुलितौ शब्दौ प्रख्यप्रतिनिधी अपि॥)
कल्पदेशीयदेश्याद्या ये च न्यूनार्थवाचिनः।
समासश्च बहुव्रीहिः शशाङ्कवदनादिषु॥ २१॥
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति।
आक्रोशत्यवजानाति कदर्थयति निन्दति॥ २२॥
विडम्बयति संरुन्धे हसतीर्ष्यत्यसूयति।
तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति॥ २३॥
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति।
तत्पदव्यां पदं धत्ते तस्य कक्ष्यां विगाहते॥ २४॥
तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति।
तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः॥ २५॥
(काव्याद. २.५८–६४) तत्कथमुच्यते ‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभ’ इति द्वे उत्प्रेक्षे, न तूपमे, इति ? इवो हि वाक्यान्तरप्रयुज्यमान उपमानोपमेययोः सादृश्यावद्योतने निरूढशक्तिः, स इहापि तदर्थ एव भवितुमर्हतीति।
नैवम्। उपमानोपमेयशब्दप्रतिपन्नस्य सादृश्यावद्योतनमिवेन क्रियते। न च लिम्पतीत्येवमादौ तमसो नभसो वा द्वितीयमुपमेयमुपमानं वास्ति, येन तयोः सादृश्यावद्योतनाय इवः प्रयुज्यते।
एवं तर्हि इवश्रुतिसामर्थ्यात् तमसो नभसश्च द्वितीयमुपमानद्वयमुपस्थापयिष्यते। यथा प्रविश पिण्डीमिति प्रवेशनक्रिया स्वयोग्यं कर्मोपस्थापयति— प्रविश गृहं, पिण्डीकर्मापि स्वयोग्यां क्रियां पिण्डीं भक्षयेति। एवमिहापि इवः तमसि नभसि वोपमेये उपमानमपरमुपस्थापयिष्यतीति।
नैवम्। न हि तिङन्तेनोपमानमस्ति।
का पुनरत्रोपपत्तिः ?
उच्यते— सत्युपमेये सति चोपमाने तयोश्च तुल्ये धर्मे सत्युपमानोपमेयभावः, नासति। न चेह तमसो नभसो वा संबन्ध्युपमानमुपमेयं वास्ति, यदाश्रय उपमानोपमेयभावः कल्प्यते।
ननु च इवश्रुतिरेव तमसो नभसश्च योग्यमुपमानमुपस्थापयिष्यति प्रविशपिण्डीन्यायेन। विषम उपन्यासः। प्रवेशनक्रिया स्वसिद्धये सर्वं कर्मकारकमाक्षिपति। तत्र प्रसिद्धितः प्रत्यासन्नं गृहमेव गम्यते। न चैवमिवस्य किंचित् सामर्थ्यमस्ति, येन स्वार्थसिद्धये प्रसिद्धमुपमानं तमसो नभसो वा समुपस्थापयति। उपमानोपमेयभावमन्तरेणाप्यस्य प्रयोगदर्शनात्। यथा ‘कथमिवैतद् भविष्यति’ इति। अस्तु तर्हि लिम्पतिंतमसोर्वर्षतिनभसोश्चोपमानोपमेयभावः। भवत्वेवम्। किं तु उपमानोपमेययोस्तुल्यधर्मो न दृश्यते, य उपमानोपमेयभावाय प्रभवति। किमन्येन लेपनं लिम्पतेर्, वर्षणं वा वर्षतेः, धर्मिणोऽन्यः कश्चिद् धर्मो भवितुमीष्टे।
ननु च यथा राहोः शिर इति भेदाभावेऽप्यवयवावयविभावः तन्निबन्धना च व्यतिरेकषष्ठी, एवं लिम्पतेर्लेपनं वर्षतेश्च वर्षणं धर्मो भविष्यतीति।
मैवम्। इह द्वयं चकास्ति, धातुर्लिम्पतिर्वर्षतिश्च, तदर्थो लेपनं वर्षणं च। तयोर्यद्युपमेयस्य तमसो नभसो वा लिम्पतिर्वर्षतिर्वा धातुरुपमानं स्यात् तस्य तेन सादृश्यं किं स्यात् ?
अथ यथामी भावाः सर्वे सारूप्यं न दधति एवमसारूप्यमपि न। ततश्चास्तित्वा— भिधेयत्वज्ञेयत्वादिभिः सर्वत्र प्रवर्ततामुपमानोपमेयभाव इति न्यायात् तमसो लिम्पतिर्नभसो वर्षतिरुपमानं भविष्यति। यद्येवं लिम्पतिरिव तमः वर्षतिरिव नभ इति प्राप्नोति, न लिम्पतीव वर्षतीवेति। ततो लेपनं वर्षणमेव अवशिष्यते। तत्किमस्तु तुल्यो धर्म उपमानधर्मी वा ? यदि तुल्यो धर्मः मार्गणीय उपमानधर्मी, यद्युपमानधर्मी मार्गणीयस्तुल्यो धर्मः। स चेह नास्ति।
अथ यथा राहोः शिर इति भेदाभावेऽप्यवयवावयविभावः, तथेह धर्मधर्मिभावोऽपि भविष्यति।
नैवम्। उपमानोपमेयभावस्य भेदसादृश्यप्रतिपत्तिनिबन्धनत्वात् तदभावेऽपि यस्तं मन्यते स कथं नोन्मत्तः स्यात् ? तदुक्तम्— (काव्याद. २.२२९)
‘स एव धर्मो धर्मी चेत्यनुन्मत्तो न भाषते’॥ २६॥
अस्तु तर्हि तिङ्वाच्यः कर्तोपमानमिति।
न्यग्भूतोऽसौ क्रियापदे।
कथं पुनरसौ क्रियापदे न्यग्भवति ?
श्रूयताम् षडर्थास्तिङन्तेन प्रतीयन्ते— ‘क्रिया, कालः, उपग्रहः, साधनं, सङ्ख्या, पुरुष’ इति। तेषु क्रियाकालात्मनेपदनिमित्तानि प्रकृतिराभिधत्ते। प्रत्ययः, साधनं, सङ्ख्यां, पुरुषं च। एतेषां तु क्रियार्थत्वात् क्रिया प्रधानं, कालात्मनेपदनिमित्ते क्रियाविशेषणत्वेन, संख्यापुरुषौ साधनविशेषणत्वेन तयोरेव न्यग्भवतः। साधनं पुनः ‘प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति न्यायात् प्रधानभूतमपि ‘भूतं भव्यायोप— दिश्यते’ इति न्यायेन क्रियासिद्धावुपात्तव्यापारं परार्थतया क्रियायां न्यग्भवति। तेनायं कर्ता स्वक्रियासिद्धावाकुलः कथमुपमानत्वेनोपमेयत्वेन वान्यदपेक्षितुं क्षमते ? एवं तर्हि योऽङ्गानि लिम्पति योऽञ्जनं वर्षति तेन क्रियोपलक्षितेन कर्त्रा तुल्यं तमो नभश्चेत्यर्थः प्रतिपत्स्यते।
नैवम्। क्रियोपलक्षितस्य कर्तुरुपमानभूतस्य शब्दन्यायबलाद् अप्रतिपत्तेः। तदुक्तम्— (काव्याद. १.७५)
न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी॥ २७॥
अथाध्याहारादिभिरिदमपि स्यात्। तथापि तुल्यधर्मो मार्गणीयः। तद्वदेव विप्रतिपत्तेः। न च चन्द्रमुखादिवदनभिधीयमानस्यापि तुल्यगुणस्य संप्रत्ययो भवतीति वाच्यम्।
यथेन्दुरिव ते वक्त्रमिति कान्तिः प्रतीयते।
न तथा लेपवर्षाभ्यामन्यदत्र प्रतीयते॥ २८॥
(काव्याद. २.२३२)
तदुपश्लेषणार्थोऽयं लिम्पतिर्ध्वान्तकर्तृकः।
अङ्गकर्मा च पुंसैवमुत्प्रेक्ष्यत इतीष्यताम्॥ २९॥
(काव्याद. २.२३३)
एवमञ्जनकर्मापि वर्षतिर्व्योमकर्तृकः।
क्षरणार्थश्च विदुद्भिरुत्प्रेक्ष्यत इतीष्यताम्॥ ३०॥१
मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥ ३१॥
(काव्याद. २.२३४) अतः स्थितमेतत्। उत्प्रेक्षाद्वयस्योपमायाश्च तमोवर्णनपरतया तुल्यकक्ष्यत्वेनैषां संसृष्टिरिति। सा च नानलङ्कारसङ्कर इत्युक्तम्। १. श्लोक एष काव्यादर्शे नोपलभ्यत इति राघवः, इतः २.२३४ तमरूपेण योज्य इति वयम्। (गुणरसादीनामलङ्कारत्वम्)
तत्रालङ्कारसङ्करः (अलङ्कार—)संसृष्टिरित्येव वक्तव्ये नानाग्रहणं गुणरसादीना— मप्यलङ्कारताप्रतिपत्त्यर्थम्। तेषामपि काव्यशोभाकरत्वेनालङ्कारत्वात्। यदाह—
काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते।
ते चाद्यापि विकल्प्यन्ते कस्तान् कार्त्स्न्येन वक्ष्यति॥ ३२॥
(काव्याद. २.१,३) अपि च—
काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलङ्क्रियाः।
साधारणमलङ्कारजातमद्य प्रदर्श्यते॥ ३३॥
(काव्याद. २.१,३) तत्र काव्यशोभाकरानित्यनेन श्लेषोपमादिवद् गुणरसभावतदाभासतत्प्रशमानप्यु— पसंगृह्णाति। मार्गविभागकृद्गुणानामलङ्क्रिया(यो)पदेशेन श्लेषादीनां गुणत्वमिवा— लङ्कारत्वमपि बोधयति। किं च—
श्लेषः प्रसादः समता माधुर्यं सुकुमारता।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥ ३४॥
इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः।
तेषां विपर्ययः प्रायो लक्ष्यते गौडवर्त्मनि॥ ३५॥
(काव्याद. १.४१,४२). इति श्लेषादीनां दशानामेव मार्गप्रविभागकारितां ब्रुवता काव्यशोभाकरत्वेन गुणान्तराणामप्यलङ्कारत्वमुक्तं भवति। तदाह—‘कस्तान् कार्त्स्न्येन वक्ष्यती’ति।
युक्तमिदम्, अयुक्तं तु रसादीनामलङ्कारतेति, तेषां गुणानामिवालङ्कार— व्यपदेशाभावात्
नायुक्तम्, युक्तोत्कर्षाणाम् ऊर्जस्विरसवत्प्रेयसामलङ्कारेषूपदेशात्। तद्यथा—
प्रेयः प्रियतराख्यानं रसवद् रसपेशलम्।
ऊर्जस्वि रूढाहङ्कारं युक्तोत्कर्षं च तत्त्रयम्॥ ३६॥
(काव्याद. २.२७५) तत्र ऊर्जस्वि रूढाहङ्कारमित्यनेनात्मविशेषनिष्ठस्योत्कृष्टादृष्टजन्मनोऽनेकजन्मा नुभवसंस्काराऽऽसादितद्रढिम्नः समग्रात्मगुणसम्पदुदयातिशयहेतोरहङ्कारविशेषस्योप संग्रहादहङ्काराभिमानशृङ्गाराद्यपरनाम्नो रसस्य मानमयविकाररूपेणाभिमानिनां मनसि जाग्रतः पूर्वां कोटिमुपवर्णयति। यदाह—
सत्त्वात्मनाममलधर्मविशेषजन्मा जन्मान्तरानुभवनिर्मितवासनोत्थः।
सर्वात्मसम्पदुदयातिशयैकहेतुर्जागर्ति कोऽपि हृदि मानमयो विकारः॥
अहो अहो नमो मह्यं यदहं वीक्षितोऽनया।
मुग्धया त्रस्तसारङ्गतरलायतनेत्रया॥ ३८॥
तथा च—
तिष्ठन्त्या जनसंकुलेऽपि सुदृशा सायं गृहप्राङ्गणे तत्कालं मयि निस्सहाकुलतनौ बाहौ मृदु प्रेङ्खति।
ह्रीनम्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः॥ ३९॥
रसवद् रसपेशलमित्यनेन विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिरिति रत्यादिरूपेणानेकधाऽविर्भवतोऽभिवर्धमानस्य परप्रकर्षगामिनः शृङ्गारस्य मध्यमाम— वस्थामवस्थापयति। यदाह—
रत्यादयोऽर्धशतमेकविवर्जिता हि भावाः पृथग्विधविभावभुवो भवन्ति।
शृङ्गारतत्त्वमभितः परिवारयन्तः सप्तार्चिषं द्युतिचया इव वर्धयन्ति॥
तद्यथा—
अत्रान्तरे किमपि वाग्विभवातिवृत्त— वैचित्र्यमुल्लसितविभ्रममुत्पलाक्ष्याः ।
तद् भूरिसात्त्विकविकारमपास्तधैर्य— माचार्यकं किमपि मान्मथमाविरासीत्॥ ४१॥
(मामा. १.२९) यथा च— राहोश्चन्द्रकलामिवाननचरीमित्यादि’। (मामा. ५.२८)
‘प्रेयः प्रियतराख्यानमि’त्यनेन च समस्तभावमूर्धाभिषिक्तांया रतेः परप्रकर्षा— धिगमाद् भावनापथातिक्रमे भावरूपतामुल्लङ्घ्य प्रेमरूपेण परिणताया उपादानाद् भावान्तराणामपि परप्रकर्षाधिगमे रसरूपेण परिणतिरिति ज्ञापयन्नहङ्कारस्योत्तरां कोटिमुपलक्षयति। यदाह—
आभावनोदयमनन्यधिया जनेन यो भाव्यते मनसि भावनया स भावः।
यो भावनापथमतीत्य विवर्त्तमानः साहंकृते हृदि परं स्वदते रसोऽसौ॥
तद्यथा—
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ ४३॥
यथा च—(उ.रा.च. १.३९)
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कालेनावरणात्ययात् परिणते यत् स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हितं प्राप्यते॥ ४४॥
‘युक्तोत्कर्षं च तत्त्रयमि’त्यनेनायुक्तोत्कर्षाणां त्रयाणामप्यूर्जस्विरसवत्प्रेयसां गुणत्वमेव, नालङ्कारत्वमिति ज्ञापयति। तथा ह्यौर्जित्यं भाविकत्वं प्रेय’ इति पदैस्त्रयोऽप्येते गुणेषूपदिष्टाः।
कुतः पुनरेतत्, यदेकदोर्जस्विरसवत्प्रेयसामलङ्कारत्वम्, अन्यदा गुणत्वम् ?
उच्यते—(मभा. ५.२.९४)
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॥ ४५॥
इति। यथा— गोमान् देशः, वाचालो वटुः, वग्ग्मी विपश्चित्, क्षीरिणो वृक्षाः, बलवान् मल्लः, दण्डिमती शालेति। तत्रोर्जस्विरसवतोरलङ्कारत्वविवक्षायामतिशायने भूम्नि वा मत्वर्थीयः। गुणत्वविवक्षायां तु प्रशंसानित्ययोगयोरित्यापि द्रष्टव्यम्। नित्यो हि काव्ये गुणयोग इव रसावियोगः। गुणवतो रसवतश्च निश्चितैवास्य प्रशंसा, संसर्गस्तु गुणानामवश्योपादानेन। निन्दा पुनर्दोषहानेन बाधिता नावतरति। प्रेय इत्ययं त्वातिशायनिकः। तदाह ‘प्रेयः प्रियतराख्यानम्’ इति।
नन्वलङ्कारेषु गुणेषु वा प्रेय इति रूपाभेदात् कथमलङ्कारत्वे तदुत्कर्षप्रतीतिः ?
यथा ‘युधिष्ठिरः श्रेष्ठतमः कुरुणाम्’ इति। तत्रातिशायनिकान्तरेण तद्गतिरिति चेदिहापि युक्तोत्कर्षं च तत् त्रयमिति वाक्यान्तरेण भविष्यति। न वातिशायनिकाः स्वार्थातिरिक्तं किमपि ब्रुवते, अपि तु प्रकृत्युपात्तमेव प्रकर्षादिकं गमयन्ति, स्वार्थिकेषु तेषां विधानात्।
अथ रसवदिति किं मत्वर्थीयः, उत वतिः ?
किंचातः ?
यदि मत्वर्थीयः, मत्वर्थानुपपत्तेस्तदभावः। रसा हि सुखदुःखावस्थारूपाः। ते च शरीरिणां चैतन्यवताम्, न काव्यस्य, तस्य शब्दार्थरूपतया अचेतनत्वेन भूमनिन्दादीनामभावात्।
अथ वतिः, वत्यर्थानुपपत्तेस्तदभावः। ‘तेन तुल्यं क्रिया चेद्वतिः’, ‘तत्र तस्येव’। न च रसैस्तुल्यं वर्तत इति रसवत्। नापि रस इवात्र रसस्येवास्य किञ्चिदस्तीति।
यथेच्छसि तथास्तु।
अस्तु तावन्मत्वर्थीयः।
ननु चोक्तं मत्वर्थाभावात् तदनुपपत्तिः ? रसवतो रामादेर्यद् वचनं तद् रसमूलत्वाद् रसवत्, अभेदसमध्यारोपाच्च कविना अनुक्रियमाणस्य तस्यानुकरणमपि रसवत्।
अथवा पुनरस्तु वतिः।
ननु चोक्तं वत्यर्थानुपपत्तेर्न वतिः।
अत्रापि नानुपपत्तिः। ‘तदर्हम्’ (५.१.११७) इति वचनाद् वतिर्भविष्यति। रसान् प्रतिपादयितुं यदर्हति तद् रसवत्। अर्हति च रसवद् रामादिवचनमनुक्रियमाणमभेद— समध्यारोपाद् रसान् प्रतिपादयितुमिति रसवद् भवति।
ननु च सर्वेषामप्युपादेयानां काव्यशोभाकरत्वादलङ्कारत्वे व्यवच्छेद्याभावात् सङ्करः संसृष्टिरित्येतावदेव वाच्यं भवति।
नैवम्; एवं सति विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिरिति विभावादिसङ्करस्यापि संसृष्टित्वं प्राप्नोति। तदलङ्कारग्रहणेन निवर्त्यते। न हि विभावादयोऽलङकाराः, अपि तु भावरसतदाभासानामलङ्काराणामभिनिष्पत्ति— हेतवोऽर्थविशेषाः।
नन्वेवमप्यर्थगुणत्वादमीषामप्यलङ्कारत्वं प्राप्नोति।
सत्यमेतत् किन्त्वन्यपरतया त उपादीयमानास्तत्रैव न्यग्भवन्ति, न वाक्यार्थप्रतीतौ पदार्थाः पृथक् स्फुरन्तीति।
तत्र भावानामलङ्कारैर्गुणैर्भावैश्च संकरो भवति, न रसतदाभासैः, तेषां तदङ्गत्वात्। रसानामलङ्कारैर्गुणै रसभावैश्च सङ्करो भवति, न भावरसाभासैः, भावानां रसाङ्गत्वादाभासानां तु रसविरोधात्। आभासानामलङ्कारैर्गुणैराभासैश्च. सङ्करो भवति, न रसभावैर्विरोधिभावाङ्गभावाभ्यामेवेति।
ननु चाङ्गाङ्गिनोः संकरव्यवहाराभावे कथमुक्तम्—(काव्याद. २.२६०)
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्ष्यता।
इत्यलङ्कारसंसृष्टेर्लक्षणीया द्वयी गतिः॥ ४६॥ इति।
उदाहृतं च आक्षिपन्त्यरविन्दानीत्यादि।
उच्यते— यत्र पृथक्सिद्धयोरुक्तिबलादुपकार्योपकारकत्वादिनाङ्गाङ्गिभावोऽ— वस्थाप्यते तत्रैव संसृष्टिः। यत्र पुनरपृथक्सिद्धयोरेवालङ्कारयोः (रसभावयोः) वागारम्भकत्वेनारभ्यत्वेन वावस्थितयोः स्वाभाविक उपश्लेषः तत्र संकरव्यवहारो न प्रवर्तते। यथा अनन्तर एवोदाहरणे हेत्वर्थान्तरन्यासयोः; अर्थान्तरन्यासो हि हेतुनैवारभ्यते। यदाह— (काव्याद. २.१६९)
ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन।
तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः॥ ४७॥
तत्रार्थान्तरन्यास इति लक्ष्यनिर्देशः। वस्तु प्रस्तुत्य किंचन, तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुन इति लक्षणनिर्देशः। वस्तु प्रस्तुत्यान्यस्य वस्तुनः एतावत्युच्यमाने घटोऽस्तीत्यत्रापि प्रसङ्गः, तदर्थमाह तत्साधनसमर्थस्येति। न चैतद् वाच्यं धूमोऽयमग्नेरित्यत्राप्यर्थान्तरन्यासः प्रसजेत्। यद्यपि धूमस्योत्पाद्यस्य साधनसमर्थोऽग्निः, तथापि ‘काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते’ इत्येतदपि सर्वालङ्कारसाधारणं लक्षणमनुसर्त्तव्यम्। अस्मिन् सति सर्वालङ्कारजातयो वक्रोक्त्यभिधानवाच्या भवन्ति। तदुक्तम्— (काव्याद. २.३६३)
‘वक्रत्वमेव काव्यानां परा भूषेति भामहः।’
(इति) श्लेषः पुष्णाति सर्वासु प्रायो वक्रोक्तिषु श्रियम्॥ ४८॥
(इति च) नन्वेवं सति विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिरित्यादिना न भवितव्यमेवालङ्कारेण।
नैवम्।
त्रिविधः खल्वलङ्कारवर्गः — वक्रोक्तिः, स्वभावोक्तिः, रसोक्तिरिति।
१. तत्रोपमाद्यलङ्कारप्राधान्ये वक्रोक्तिः,
२. श्लेषादिगुणप्राधान्ये स्वभावोक्तिः,
३. विभावानुभावव्यभिचारिसंयोगात् तु रसनिष्पत्तौ रसोक्तिरिति।
तत्र द्विविधो विभावः — आलम्बनविभाव उद्दीपनविभावश्च।
तयोरालम्बनविभाव इष्टानिष्टसंदर्शनादिः, यमालम्ब्य सुखं दुःखं चोत्पद्यते। तेन सुखदुःखविषयेणानुभावेन स्मरणहेतुः संस्कारो जन्यते।
संस्कारप्रबोधहेतवः पुनरुद्दीपनविभावाः ऋतुमाल्यविलेपनादयः। तैः प्रतिबुद्धसंस्कारस्य स्मरणेच्छाद्वेषप्रयत्नाः तेभ्यो मनोवाग्बुद्धिशरीरारम्भाः तेऽनुभूयमानत्वादनुभावाः। तैरयमभिप्रवर्धमान ईप्सितमर्थमासादयन् जिहासितं जिहानः सुखात्मकैर्व्यभिचारिभिः हर्षधृतिस्मृतिमतिप्रभृतिभिः संसृज्यमानः समासादितोत्तरोत्तर— रत्यादिस्थायिभावः शृङ्गारप्रभव एव सम्भोगशृङ्गारादिरसरूपतामधिगच्छति। स एव त्वीप्सितानवाप्तौ जिहासितस्य अहानात्, दुःखात्मकैर्व्यभिचारिभिश्चिन्तौत्सुक्या— वेगनिर्वेदादिभिः संसृज्यमानो दुःखात्मकविप्रलम्भशृङ्गारादिरसरूपतामध्यास्ते। तत्र—
(भावेभ्यो रसनिष्पत्तिः)
रतेः शृङ्गारनिष्पत्तिर्यथा— (काव्याद. २.२८०)
मृतेति प्रेत्य सङ्गन्तुं यया मे मरणं मतम्।
सैषावन्ती मया लब्धा कथमत्रैव जन्मनि॥ ४९॥
अत्रावन्त्या वासवदत्ताया आलम्बनविभावभूतायाः सकाशादुत्पन्ने वत्सेश्वरस्य रतौ स्थायिभावे तस्याः पुनर्जीवनादिभिरुद्दीपनविभावैरुद्दीप्यमने, समुत्पन्नेषु हर्षधृतिस्मृति— वितर्कप्रभृतिषु सुखात्मकेषु व्यभिचारिषु सम्भोगशृङ्गारतां प्राप्ते स्थायिनि यदेतदनुभावरूपं मृतेत्यादिवचनं वत्सेश्वरस्य तच्छृङ्गाररसादुपजायमानं रसवदुच्यते।
हासाद्धास्यनिष्पत्तिर्यथा— (काव्याद. २.२८९)
इदमम्लानमानाया लग्नं स्तनतटे तव।
छाद्यतामुत्तरीयेण नवं नखपदं सखि !॥ ५०॥
अत्र कांचित्सखीं पूर्वं भर्तरि परिगृहीतमानां तेनैव नवनखपदाङ्कितस्तनीमालम्बन— विभावभूतामुपालभमानायाः कस्याश्चित् सख्या उत्पन्ने हासस्थायिभावे तदीयमान— परिग्रहस्मरणादिभिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु शङ्कावहित्थहर्षगद्गदादिषु व्यभिचारिषु परप्रकर्षाधिगमाद् धास्यरसतामापन्ने स्थायिनि यदेतदम्लानमानादिवचनं तद्धास्यरससमुद्भूतं रसवदुच्यते।
उत्साहाद् वीरनिष्पत्तिर्यथा—(काव्याद. २.२८४)
अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः।
अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम्॥ ५१॥
अत्र वसुधाविजयादेशलम्बनविभावादुत्पन्ने स्थायिन्युत्साहभावे तेजःस्थैर्यधैर्यादि— भिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु स्मृतिमतिवितर्कप्रभृतिषु व्यभिचारिषु परप्रकर्षा— धिगमाद् वीररसतामापन्ने स्थायिनि वीररसात्मनः पुंसो यदेतदजित्वेत्यादिवचनं तद् वीररसादुपजायमानं रसवदुच्यते।
विस्मयादद्भुतनिष्पत्तिर्यथा—(काव्याद. २.२९०)
अंशुकानि प्रवालानि पुष्पं हारादिभूषणम्।
फलं मधूनि हर्म्याणि शाखा नन्दनशाखिनाम्॥ ५२॥
अत्र शाखिनां प्रवालपुष्पफलशाखासम्पत्तिर्निजं रूपं; नन्दनशाखिनां पुनः प्रवालादिस्थानेषु अंशुकहारमणिमन्दिराणि, तदेतदाश्चर्यमेतेषामतश्चैतेभ्य आलम्बन— विभावेभ्यः कस्यचिद् देवभूमिगतस्योत्पन्ने विस्मयस्थायिभावे तदीयावयवदर्शना— दिभिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु हर्षरोमोद्गमस्वेदगद्गदादिषु व्यभिचारिषु परप्रकर्षाधिगमादद्भुतरसत्वमापन्ने स्थायिनि यदेतदंशुकानि प्रावालानीत्यादिवचनं तदद्भुतरसादुपजायमानं रसवदुच्यते।
क्रोधाद् रौद्रनिष्पत्तिर्यथा— (काव्याद. २.२८२)
निगृह्य केशेष्वाकृष्टा कृष्णा येन ममाग्रतः।
सोऽयं दुश्शासनः पापो लब्धः किं जीवति क्षणम्॥ ५३॥
अत्र दुश्शासनालम्बनविभावाय क्रुध्यतो भीमसेनस्य पूर्वमुत्पन्ने क्रोधस्थायिभावे तदवाप्तेः स्मर्यमाणसमक्षकृतद्रौपदीकेशकर्षणादिभिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु असूयावेगविपथुश्रमादिषु दुःखात्मकेषु व्यभिचारिषु परं प्रकर्षमधिरूढे रौद्ररसतामापन्ने स्थायिनी यदेतद् भीमसेनस्य निगृह्येत्यादिवचस्तद् रौद्ररसादुपजायमानं रसवदुच्यते।
भयाद् भयानकनिष्पत्तिर्यथा— (काव्याद. २.२९१)
इदं मघोनः कुलिशं धारासन्निहितानलम्।
स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते॥ ५४॥
अत्र महेन्द्रकुलिशाद् धारासन्निहितानलादालम्बनविभावात् स्मर्यमाणादपि दैत्यस्त्रीणामुत्पन्ने भयस्थायिभावे तद्विदीर्णदानवमरणस्मरणादिभिः उद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु स्वेदस्तम्भवैवर्ण्यवेपथुप्रभृतिषु व्यभिचारिषु स्थायिनो भयानकरसतामापन्नस्य गर्भपातादिभिरनुभावैर्विभाव्यमानस्य स्वरूपसूचकं यदेतदिदं मघोनः कुलिशमित्यादिवचनं तदपि तन्मूलत्वाद् रसवदुच्यते।
शोकात् करुणनिष्पत्तिर्यथा—(काव्याद. २.२८६)
यस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी।
साधिशेते कथं देवी हुताशनवतीं चिताम्॥ ५५॥
अत्र चालम्बनविभावभूताद् देवीमरणादुत्पन्ने शोकस्थायिभावे चितानिवेशन— हुताशनज्वालादिभिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु निर्वेदग्लानिचिन्तास्तम्भादिषु व्यभिचारिषु परप्रकर्षात् करुणरसतामापन्ने स्थायिनि करुणरसवतो नायकस्य यदेतद् यस्याः कुसुमशय्यापीत्यादिवचनं तत् करुणरसादुपजायमानमनुभावरूपं रसवदुच्यते।
जुगुप्साया बीभत्सनिष्पत्तिर्यथा—(काव्याद. २.२८८)
पायं पायं तवारीणां शोणितं पाणिसम्पुटैः।
कौणपास्सह नृत्यन्ति कबन्धैरान्त्रभूषणाः॥ ५६॥
अत्रालम्बनविभावभूतेभ्यः कौणपेभ्यः कस्यचिद्राज्ञो विजयशंसिनः पुंस उत्पन्ने जुगुप्सास्थायिभावे शिरश्छेदविगलद्रुधिरधारापरिप्लुतप्रनर्तितकबन्धान्त्रभूषणशोणित— पानादिभिरुद्दीपनविभावैरुद्दीप्यमाने समुत्पन्नेषु भयावेगशङ्कावहित्थादिषु व्यभिचारिषु परां कोटिमधिरूढे बीभत्सरसतामापन्ने स्थायिनि यदेतत् पायंपायमित्यादिवचनं तद् बीभत्सरसादुपजायमानं रसवदुच्यते। एवमेते अष्टावेव रत्यादयो भूमानमापन्नाः शृङ्गारवीरादिव्यपदेशं लभन्ते।
(रसेभ्यो रसनिष्पत्तिः)
यथा चैते भावेभ्यो रसाः रसेभ्यो भावाः तथा रसेभ्यश्च रसा भवन्तीति भरताचार्यः। तत्र—
शृङ्गाराद्धास्यरसनिष्पत्तिर्यथा— (द्र. अत्रैव १०.२)
स एष भुवनत्रयप्रथितसंयमश्शङ्करो बिभर्ति वपुषाधुना विरहकातरः कामिनीम्।
अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिघट्टयन् जयति जातहासः स्मरः॥ ५७॥
वीरादद्भुतनिष्पत्तिर्यथा—
सम्प्रत्येव हि गोग्रहे यदभवत् तत् तावदाकर्ण्यता— मेतत् ते हृदयं स्पृशामि यदि वा साक्षी तवैवात्मजः।
एकः पूर्वमुदायुधैस्सुबहुभिर्दृष्टस्ततोऽनन्तरं यावन्तो वयमाहवप्रणयिनः तावन्त एवार्जुनाः॥ ५८॥
रौद्रात् करुणनिष्पत्तिर्यथा—(मवीच. २.२०)
सत्त्वभ्रंशविषादिभिः कथमपि त्रस्तैः क्षणं वेत्रिभि— र्दृष्टो दृष्टिनिपातजिह्मितमुखैरव्याहतप्रक्रमः।
रामान्वेषणतत्परः परिजनैरुन्मुक्तहाहारवं कन्यान्तःपुरमेव हा प्रविशति क्रुद्धो मुनिर्भार्गवः॥ ५९॥
बीभत्साद् भयानकनिष्पत्तिर्यथा—(मवीच.१.३५)
आन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण— प्रायप्रेङ्खितभूरिभूषणरवैराघोषयन्त्यम्बरम्।
पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्— व्यालोलस्तनभारभैरववपुर्बन्धोऋतं धावति॥ ६०॥
एतच्चायुक्तं, यतोऽमी रत्यादयः परं प्रकर्षमारूढा भावा एव, न रसाः, तथात्वे हर्षादीनामपि रसत्वप्रसङ्गात्। तदाह—
रत्यादयो यदि रसाः स्युरतिप्रकर्षे हर्षादिभिः किमपराद्धमतद्विभिन्नैः।
न स्थायिनस्त इति चेद् भयहासशोक— क्रोधादयो वद कियच्चिरमुलसन्ति॥ ६१॥
न चाष्टावेवेति नियमः, यतः शान्तं प्रेयांसमुद्धतमूर्जस्विनं च केचिद् रसमाचक्षते। तन्मूलाश्च किल नायकानां धीरप्रशान्तधीरललितधीरोद्धतधीरोदात्त— व्यपदेशाः। तेषु —
धीरप्रशान्ताश्रयः शान्तो यथा—
सर्वास्सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम्।
उपानद्गूढपादस्य ननु चर्मास्तृतैव भूः॥ ६२॥
धीरललिताश्रयः प्रेयान् यथा—
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ ६३॥
धीरोद्धताश्रय उद्धतो यथा—(वेसं. ३.४६)
धृतायुधो यावदहं तावदन्यैः किमायुधैः।
यद्वा न सिद्धमस्त्रेण मम तत् केन सेत्स्यति॥ ६४॥
धीरोदात्ताश्रय ऊर्जस्वी यथा—(काव्याद. २.२९३)
अपकर्ताहमस्मीति मा ते मनसि भूद् भयम्।
विमुखेषु न मे खङ्गः प्रहर्तुं जातु वाञ्छति॥ ६५॥
अत्र च शमप्रकृतिः शान्तः, स्नेहप्रकृतिः प्रेयान्, गर्वप्रकृतिरुद्धतः, अहङ्कारप्रकृतिः पुनरूर्जस्वीति शृङ्गारादिवदेतेष्वपि विभावानुभावव्यभिचारिसंयोगो द्रष्टव्यः।
अन्ये त्वाहुः — सर्व एव रत्यादयो विभावानुभावव्यभिचारिसंयोगादुत्पद्यमानाः भूमानमापन्ना रसीभवन्ति। तथा हि— (रुद्रटा. १२.४)
रसनाद् रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः।
निर्वेदादिष्वपि तत् प्रकाममस्तीति तेऽपि रसाः॥ ६६॥
सर्वेषां च तुल्ये रसत्वे रत्यादीनामेव परप्रकर्षगामिनां शृङ्गारवीरादिव्यपदेश इति न घटते। तथात्वे वा नाममात्रं भिद्यते। तदुक्तम्—
वीराद्भुतादिषु च येह रसप्रसिद्धिः सिद्धा कुतोऽपि वटयक्षवदाविभाति।
लोके गतानुगतिकत्ववशादुपेता मेतां निवर्तयितुमेष परिश्रमो नः॥ ६७॥
यदि च रत्यादयः प्रकर्षगामिनो भावा एव रसाः, कथमुच्यते भावेभ्यो रसा इति ?
रसेभ्यो भावा इत्यप्ययुक्तम्। न हि बहवो रसाः, अपि त्वेक एव शृङ्गारो रस इत्यग्रतोऽपि प्रबन्धेन प्रतिपादयिष्यते।
यच्चोक्तं रसेभ्यश्च रसा इति, तत्र यद्यालम्बनविभावभूतेभ्य इति मतं, तदा
शृङ्गारात् तु भवेद्धास्यो रौद्रात् तु करुणो रसः।
वीराच्चैवाद्भुतो नाम बीभत्सात् तु भयानकः॥ ६८॥
(नाशा. ६.३८) इति नियमो न घटते,
यतः शृङ्गारादन्यतोऽपि हास्य उत्पद्यमानो दृश्यते, यथा—
हस्तालम्बितमक्षसूत्रवलयं कर्णावतंसीकृतं स्त्रस्तं भ्रूयुगमुन्नमय्य रचितं यज्ञोपवीतेन च।
सन्नद्धा जघने च वल्कलपटी पाणिश्च धत्ते धनुः दृष्टं भो जनकस्य योगिन इदं दान्तं विरक्तं मनः॥ ६९॥
(बारा.१.५३) शृङ्गारादपि न दृश्यते, यथा—(गास. १.६०)
चिन्ताणिअदइअसमागमम्मि कअमण्णुआइँ भरिऊण।
सुण्णं कलहाअन्ती सहीहि रुण्णा ण ओहसिआ॥ ७०॥
(चिन्तानीतदयितसमागमे कृतमन्युकानि स्मृत्वा।
शून्यं कलहायमाना सखीभी रुदिता न उपहसिता॥)
रौद्रादन्यतोऽपि करुणो दृश्यते, यथा—
आर्द्रं नागाजिनमवयवग्रन्थिमद् बिभ्रदंसे रूपं प्रावृड्घनरुचि महाभैरवं दर्शयित्वा।
पश्यन् गौरीं भयचलकरालम्बितस्कन्दहस्तां मन्ये प्रीत्या द्रुत इव भवान् वज्रदेहोऽभिजातः॥ ७१॥
रौद्रादपि न दृश्यते, यथा—(किराता. ३.२१)
निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम्।
असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः॥ ७२॥
वीरादन्यतोऽप्यद्भुतो दृश्यते, यथा—
कासुखहेहु कोत्ति आइ अज्जण्ण उप्पाओ।
पिअसंगम सहणट्टाणिसस संघाणिसुंपुड जाइ॥ ७३॥
वीरादपि न दृश्यते, यथा—(शाकु. २.१५)
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री— मेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति।
आशंसन्ते सुरयुवतयः सक्तवैरा हि दैत्यै— रस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे॥ ७४॥
बीभत्सादन्यतोऽपि भयानको दृश्यते, यथा—(किराता. ३.१९)
यस्मिन्ननैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि।
धुन्वन् धनुः कस्य रणे न कुर्यान्मनो भयैकप्रवणं स भीष्मः॥ ७५॥
बीभत्सादपि न दृश्यते, यथा—(मवीच. ५.२९)
तत्क्रूरदन्तकरपत्रनिकृत्तसत्त्वसङ्घातनिस्सरदसृक्प्लुतकूर्चगुच्छम् ।
वक्त्रं वपुश्च विकृताकृति दीर्घबाहोरार्येण राक्षसकुतूहलिना न दृष्टम्॥
अथ प्रकृतिभूतेभ्य इति पक्षः।
तत्रापि किं शृङ्गाराद्धास्यो जायते ? उत शृङ्गार एव हास्यो भवति ?
किं चातः ?
यदि शृङ्गाराद्धास्यो जायते, तदिष्यत एव।
न ह्यशृङ्गारिणः कश्चिदपि प्रकर्षगामी अप्रकर्षगामी वा भावः सम्भवति। शृङ्गारी हि ‘रमते, उत्सहते, हसति, विस्मयते, जुगुप्सते, शोचते, बिभेति, शाम्यति, स्निह्यति, गर्वायते, अभिमन्यत’ इति।
अथ रतिप्रकृतिरेव शृङ्गारो हास्यरसीभवति, तन्न घटते, शृङ्गारस्य हास्यव्यपदेशाभावात्। अथोच्यते—
शृङ्गारानुकृतिर्येह स हास्यो रस इष्यते॥ ७७॥
(नाशा. ६.३९) तर्हि,
वीरस्यानुकृतिर्येह सोऽपि हास्य इतीष्यताम्॥ ७८॥
एतेन ‘रौद्रात्तु करुणो रस’ इत्यपि प्रत्युक्तम्। न हि रौद्रात् करुणो जायते, नापि रौद्रः करुणो भवति।
अथ रौद्रस्य यत् कर्म करुणस्स निगद्यते॥ ७९॥
(नाशा. ६.३९) तथापि,
न रौद्रकर्म करुणः कारणं करुणस्य तत्।
एतेन वीरकर्मापि न भवेदद्भुतो रसः॥ ८०॥
हेतुत्वं तु तदुत्पत्तौ तस्यापि न निवार्यते।
बीभत्सदर्शनाद् यः स्यात् स भवेत् तु भयानकः॥
(नाशा. ६.४०) इत्यालम्बनहेतुभ्यो विभावेभ्यो न भिद्यते॥ ८२॥
अतो यत्किंचिदेतद् ‘भावेभ्यो रसा, रसेभ्यो भावा, रसेभ्यश्च रसा’ इति।
किं पुनरिह न्याय्यम् ?
यथोपवर्णितं पुरस्तात्—
अप्रातिकूलिकतया मनसो मुदादे— र्यस्संविदोऽनुभवहेतुरिहाभिमानः ।
ज्ञेयो रसः स रसनीयतयाऽऽत्मशक्तेः(/रक्तेः)१ रत्यादिभूमनि पुनर्वितथा रसोक्तिः॥ ८३॥
एतेन रूढाहङ्कारता२ रसस्य पूर्वा कोटिः। रत्यादीनामेकोनपञ्चाशतोऽपि विभावानुभावव्यभिचारिसंयोगात् परप्रकर्षाधिगमे रसव्यपदेशार्हता रसस्यैव मध्यमावस्था। ‘प्रेयः प्रियतराख्यानम्’ इत्युपलक्षणेन यथा रतेः प्रेमरूपेण परिणतिस्तथा भावान्तराणामपि परमपरिपाके प्रेमरूपेण परिणतौ रसैकायनमिति रसस्य परमा काष्ठेति प्रतिष्ठितं भवति। तथा हि — यथोर्जस्विन्यपकर्ताहमिति यत्ते चेतसि भयं, न मे खङ्गः पराङ्मुखेषु कदाचिदपि प्रहर्तुमुत्सहत इति रूढोऽहङ्कारः प्रतीयते, सैषावन्ती मयात्रैव जन्मनि लब्धेति धिक् ते वृथाप्रतिज्ञो मानपरिग्रह इति, उर्वीविजयाद्यकृत्वा कथं पार्थिवो भवेयमिति, न मयेदृशाः शाखिनः क्वचिदपि दृष्टा इति, अनेन मे द्रौपदी केशेष्वाकृष्टेति, धन्यो मघवा यस्यैतदायुधमिति, सा मे देवी चितामध्यास्त इति, धिक् कौणपाः शोणितमान्त्रभूषणाः पिबन्तीति, अस्ति मे सन्तोषो मनस इति, यथेयं मे प्रिया तथाहमप्यस्या यतो मदनुकूलमेवैषापि चेष्टत इति, मयि धृतायुधे किमायुधान्तरैरिति सर्वत्रैवाहङ्कारः प्रतीयते।
कथं पुनर्विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः ?
उच्यते, यथेन्दुसन्निधेर्गण्डकः स्यन्दते, यथार्कसन्निधेस्सूर्यकान्तो ज्वलति, यथा कर्पूरसन्निधेः स्फटिको विलीयते तथा तेभ्यस्तेभ्य आलम्बनविभावेभ्यस्तत्तदाकार— परिणतेन्द्रियबुद्धयुपाधियोगिनोऽभिमानिमनसस्ते ते रतिक्रोधशोकादयो भावाः समुत्पद्यन्ते। ते रत्यादयो यथा—(मामा. ३.५)
आश्चर्यमुत्पलदृशो वदनामलेन्दुसान्निध्यतो मम मुहुर्जडिमानमेत्य।
जात्येन चन्द्रमणिनेव महीधरस्य सन्धार्यते द्रवमयो मनसो विकारः॥ ८४॥
१. द्र. अत्रैव १.८ ; ११.७ २. अहमित्येवाहङ्कारः यथा ओमित्येव ओङ्कार इंति ‘कारः’ स्वार्थक एवेति नात्र गर्वदोषः। क्रोधादयो यथा— (राच. १९.८९)
तेनाथ नाथ दुरुदाहरणातपेन सौम्यापि नाम परुषत्वमभिप्रपन्ना।
जज्वाल तीक्ष्णविशदाः सहसोद्गिरन्ती वागर्चिषस्तपनकान्तशिलेव सीता॥ ८५॥
शोकादयो यथा—(उराच. १.२८)
अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथावृत्तं पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये विशदकरुणैरार्यचरितै— रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥ ८६॥
अथ यथेन्दूदये समुद्रः क्षुभ्यति, यथाऽपथ्यसेवया व्याधिरभिवर्धते, यथानार्यसन्निधेः साधुः सुतरां दुःखाकरोति, तथा तेभ्यस्तेभ्य उद्दीपनविभावेभ्य— स्तत्तदनुभवसंस्कारयोगिनो मनसस्तत्तद्भावाभिवृद्धये ते ते विकारा उपजायन्ते। ते तत्क्षोभे यथा—(रघु. ८.४३)
विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम्।
अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु॥ ८७॥
तदभिवृद्धौ यथा—(कुसं. ४.२६)
तमुदीक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च।
स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते॥ ८८॥
तत्प्रातिकूल्ये यथा—(विक्रमो. २.६)
इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति।
किमुत मलयवातोन्मूलितापाण्डुपत्रै— रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ ८९॥
अथ यथैकस्यापि भूरुहादेः काण्डस्कन्धशाखाविटपादयः प्रकाराः, पल्लवपत्रपुष्पफलसम्पदादयो विकाराः, एकस्याप्यम्भसः प्रवाहावर्तबुद्बुदतरङ्गादयो विवर्ताः, मुक्ताफलफेनलवणकारकादयो विपरिणामाः, एकस्यापि ध्वनेस्तारमध्यमन्द्र— क्रुष्टादयो भेदाः, वर्णपदवाक्यकूजितादयो अवच्छेदाः, एकस्यापि वायोः प्रवहावहपरिवहादयः स्कन्धाः प्राणापानव्यानादयोऽनुबन्धाः तेभ्यस्तेभ्य उपाधिभ्यो जायन्ते, तथैकस्यापि रतिक्रोधशोकादेस्तेभ्यस्तेभ्य उपाधिभ्यस्ते तेऽनुभावा व्यभिचारिणश्चाभ्यन्तरा बाह्याश्च व्यवस्थासम्प्लवाभ्यामुपप्लवन्ते। तत्राभ्यन्तरा व्यभिचारिषु चिन्तौत्सुक्यावेगवितर्कादयः, बाह्याः स्वेदरोमाञ्चाश्रुवैवर्ण्यादयः; अनुभावेष्वाभ्यन्तराः स्मरणेच्छाद्वेषप्रयत्नाः, बाह्या मनोवाम्बुद्धिशरीरारम्भाः, त उभये अप्यनुक्रियमाणाः सात्त्विकाङ्गिवाचिकचित्रसामान्याभिनयव्यपदेशं लभन्ते। तेषु
रतिप्रभवा यथा—(कुसं. ३.६८)
विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्बालकदम्बकल्पैः।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन॥ ९०॥
क्रोधप्रभवा यथा—(पृ. ८३५)
प्रत्यग्रारिकृताभिमन्युनिधनप्रोद्भूततीव्रक्रुधः कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयः।
पार्थस्याकृतशात्रवप्रतिकृतेरन्तः शुचा मुह्यतो हा वत्सेति गिरः स्फुरन्ति, न पुनर्निर्यान्ति कण्ठाद् बहिः॥ ९१॥
शोकप्रभवा यथा—(मामा. ९.२०)
मातर्मातर्दलति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ् मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ ९२॥
अथ यथेक्षुभ्यो रसः, सर्षपेभ्यस्तैलं धातुभ्यो हिरण्यं, अश्मभ्यो लोहं, दध्नो नवनीतं, काष्ठतोऽग्निस्तेभ्यस्तेभ्यो यन्त्राग्निमन्थसंयोगेभ्यो निष्पतन्ति तथा स्वेभ्यः स्वेभ्यो विभावानुभावव्यभिचारिसंयोगेभ्यो रतिक्रोधशोकादिभ्यस्ते ते रसा निष्पद्यन्ते।
यथा—(मामा. ५.२८)
राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम्।
आतङ्काद् विकलं, द्रुतं करुणया, विक्षोभितं विस्मयात्, क्रोधेन ज्वलितं, मुदा विकसितं, चेतः कथं वर्तते॥ ९३॥
अथ यथा लवणाम्लादयः स्वसंयोगिनो मृद्वीकादीनप्यात्मरूपतां नयन्त उपचीयन्ते, तथा रत्यादिजन्मानो रसाः विभावादीनप्यात्मरूपतां नयन्त उपचीयन्ते। यथा—(गास. ४.८९)
कस्स भरिसि त्ति भणिए को मे अत्थि त्ति जप्पमाणाए।
उव्वेगरोइरीए अम्हे वि रुआविआ तीए॥ ९४॥
(कस्य स्मरसीति भणिते को मेऽस्तीति जल्पमानया।
उद्विग्नरोदनशीलया वयमपि रोदितास्तया॥)
अथ यथा (वै.सू. २.१.६) सर्पिर्जतुमधूच्छिष्टादीनां पार्थिवानां घनतुहिनकरकादीनामाप्यानां त्रपुसीसरजतादीनां तैजसानामग्निसंयोगाद् द्रवता अद्भिस्सामान्यं भवति, तथा विभावानुभावव्यभिचारिणां रससंयोगाद् रसता रसेनैव सामान्यं भवति। यथा—(रघु. ८.७०)
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति।
अकरोत् पृथिवीरुहानपि स्त्रुतशाखारसबाष्पदुर्दिनान्॥ ९५॥
अथ यथा ओषधिरसेभ्यो मधुनिष्पत्तिः, यथा मधुरादिभ्यः षाडवोत्पत्तिः, यथा गुडादिभ्य आसवोत्पत्तिः; तथा तेभ्यस्तेभ्यो रससामान्येभ्यः रसविशेषाभिनिर्वृत्तिः भवति। यथा—(रत्ना. ४. १९)
यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम्॥ ९६॥
अथ यथैकस्याप्यग्रेर्भौमदिव्यौदर्यादयो जातिभेदाः दाहालोकपाकादयोऽर्थक्रियाः धूमार्चिरङ्गारादयोऽवस्थाः संदृश्यन्ते, तथैकस्यापि रसस्य भावरसतदाभासादयो जातिभेदा उत्कण्ठाभिषङ्गनिर्वृत्यादयोऽर्थक्रिया उत्पादाभिवृद्धिस्थैर्यादयोऽवस्थास्स— मुपलभ्यन्ते। तत्र—
भावो यथा—(कुसं. ३.६७)
हरस्तु किंचित्परिवृत्तरिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि॥ ९७॥
रसो यथा—(कुसं. ५.८५)
तं वीक्ष्य वेपथुमती सरसाङ्गयाष्टिः विक्षेप एव पदम्॥ ९८॥
इत्यादि। आभासो यथा—
आः सीते ! पतिगर्वविभ्रमभरभ्रान्तभ्रमद्वान्धव प्रध्वंसस्मितकान्तिमत् तव तदा जातं यदेतन्मुखम्।
संप्रत्येष हठात् तदेव कुरुते केशोच्चयाकर्षण— त्र्यश्रोत्तानितलोललोचनपतद्वाष्पप्लुतं रावणः॥ ९९॥
उत्कण्ठा यथा—(कुसं. ६.९५)
पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः॥ १००॥
अभिषङ्गो यथा—(मामा. ५.१०)
लीनेव प्रतिबिम्बितेव लिखितेवौत्कीर्णरूपेण च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि— श्चिन्तासन्ततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया॥ १०१॥
निर्वृतिर्यथा—(मामा. १.३६)
जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ १०२॥
उत्पादो यथा—(मवीच. १.२१)
उत्पत्तिर्देवयजनाद् ब्रह्मवादी नृपः पिता।
सुप्रसन्नोज्ज्वला मूर्तिरस्याः स्नेहं करोति मे॥ १०३॥
अभवृद्धिर्यथा—
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद् वासः श्लभमेखलागुणधृतं किंचिन्नितम्बे स्थितम्।
एतावत् सखि वेद्मि साम्प्रतमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं च किं कथमिति स्वल्पापि मे न स्मृतिः॥ १०४॥
स्थैर्यं यथा—(उराच. १.३९)
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यत्॥ १०५॥
भावविशेषो यथा—(उरा. ५.४)
शत्रोस्सागरलङ्घनं किमपरं द्वारोपरोधः पुरे दोर्दण्डा अपि मे त एव कुलिशक्षुण्णाङ्गदग्रन्थयः।
सर्वं सोढमिदं वृथैव हि मया सीताप्रसक्तात्मना पापो ध्वस्तमनोरथस्तु सरलं दृष्टोऽपि नाहं तया॥ १०६॥
(मनोरथोऽत्र कर्तृ)
रसविशेषो यथा—(अमरुक. ३८)
कोपो यत्र भ्रुकुटिरचना विग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः॥ १०७॥
आभासविशेषो यथा—
आपृष्टासि व्यथयसि मनो दुर्बला वासरश्री— रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकी।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनस्तदिह भवतीमस्वतन्त्रस्त्यजामि॥ १०८॥
(अलङ्कारसङ्करः —६)
एवमवस्थापिते गुणरसतदाभासभावानामलङ्कारत्वे षट्प्रकारोऽलङ्कारसङ्कर सम्भवति— गुणसङ्करः, रससङ्करः, अलङ्कारसङ्करः, गुणरससङ्करः, गुणालङ्कारसङ्करः, रसालङ्कारसङ्कर इति।
(१. गुणसङ्करः)
ननु च गुणानां सङ्करव्यवहारो नोपपद्यते, बहुष्वपि गुणेषु गुणवदित्येव व्यपदेशात्।
नैवम्; त्रिविधा गुणाः शब्दगुणा, अर्थगुणा दोषगुणाश्च।
ते तु प्रत्येकं द्विधा उल्लेखवन्तो निरुल्लेखाश्च। तत्र —
शब्दगुणेषु समाधिमाधुर्यौदार्यगाम्भीर्यादयः सोल्लेखाः।
श्लेषप्रसादसमतासौकुमार्यादयो निरुल्लेखाः।
अर्थगुणेषु श्लेषप्रसादरीतिकान्त्यादयः सोल्लेखाः, अर्थव्यक्तिसौक्ष्म्यगाम्भीर्यसम्मितत्वादयो निरुल्लेखाः।
दोषगुणेषु ग्राम्पपुनरुक्ततापार्थव्यर्थादयः सोल्लेखाः, शब्दहीनसंशयापक्रमविसन्ध्यादयो निरुल्लेखाः।
तत्र सजातीयानां सोल्लेखानामिव विजातीयानां तु निरुल्लेखानामपि सङ्करः प्रवर्तते। तत्र सजातीयानां —
शब्दगुणेषु समाध्यादीनां यथा—
णवपल्लवेसु लोलइ घोलइ विडवेसु वलइ सिहरेसु।
ठवइ थवएसु चलणे वसंतलच्छी असोअस्स॥ १०९॥
(नवपल्लवेषु लोलति घूर्णते विटपेषु वलते शिखरेषु।
स्भगति स्तबकेषु चरणौ वसन्तलक्ष्मीरशोकस्य॥)
अत्र अन्यधर्माणामन्यत्रारोपणं समाधिः, पृथक्पदता माधुर्यं, बन्धविकटत्वमुदारता, ध्वनिमत्ता गाम्भीर्यमिति सजातीयास्सङ्कीर्यन्ते। यतो वसन्तलक्ष्मीरशोकस्येति पदयोः शब्दध्वनिरपि परिस्फुरति; यथा कस्यचिदशोकस्य कामिनोऽङ्गेषु प्रियाङ्गना सविलासं चेष्टते तथास्येयमिति।
अर्थगुणेषु श्लेषादीनां यथा—
जनः पुण्यैर्यायाज्जलधिजलभावं जलमुचः॥११०॥
अत्र संविधानकसुसूत्रता श्लेषः, अर्थस्य प्राकट्यं प्रसादः, उत्पत्त्यादि क्रियाक्रमो रीतिः, दीप्तरसत्वं कान्तिः इत्यर्थगुणास्सजातीयास्संकीर्यन्ते।
दोषगुणेषु ग्राम्यादीनां यथा— (काव्याद. ४.१५)
हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी॥ १११॥
अत्र हन्यत इत्यमङ्गलार्थं वरारोहेत्यश्लीलार्थं हन्यते हन्यत इति पुनरुक्तं चारुसर्वाङ्गीत्युक्त्वा वरारेहेति व्यर्थम्, अत एते सजातीयाश्चत्वारोऽपि दोषगुणाः सङ्कीर्यमाणाः कस्यचिदुन्मत्तभाषिणो अनुकम्पाद्यतिशयविवक्षायामभ्यनुज्ञायन्ते। यदाह—
अनुकम्पाद्यतिशयो यदि कश्चिद् विवक्ष्यते।
न दोषः पुनरुक्तादौ प्रत्युतेयमलङ्क्रिया॥ ११२॥
(काव्याद. ४.१४) अथ असजातीयानां
शब्दगुणानाम् अर्थगुणानां च सङ्करो यथा—
को नाम नोदयति नास्तमुपैति को वा लोकोत्तरः पुनरयं सविता जगत्सु।
यत्रोदयास्तमयभाजि रुचां निधाने द्वेधा भवत्यहरिति क्षणदेति कालः॥ ११३॥
अत्र यावदर्थपदता सम्मितत्वं, बन्धविकटत्वमुदारता, श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणाः; उक्तार्थनिर्वहणं प्रौढिः, अर्थस्य प्राकट्यं प्रसादः, रूढाहङ्कारतैर्जित्यमित्यर्थगुणाश्च सङ्कीर्यन्ते।
शब्दगुणानां दोषगुणानां च यथा—
एह्येहि वत्स! रघुनन्दन! पूर्णचन्द्र! चुम्बामि मूर्धनि चिराय परिष्वजे त्वाम्।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते॥ ११४॥ (मवीच. १.५५)
अत्र भवतो वाक्प्रवृत्तिर्भाविकत्वं, प्रसिद्धार्थपदता प्रसादः, प्रेयार्थपदोपाख्यानं प्रेय इति शब्दगुणाः, एह्येहीति पुनरुक्तं, वत्सेत्युक्त्वा त्वत्पादाब्जद्वयं वन्द इति विरुद्धं, मूर्ध्नि चुम्बामि हृदि वहामि पादौ वन्द इति क्रियास्वनुपयोगात् पूर्णचन्द्रेति दर्शनादिक्रियोपयोगि व्यर्थं चेति दोषगुणाः परस्परं सङ्कीर्यन्ते। रसाक्षेपादौ हि पुनरुक्तादयो न दुष्यन्ति।
अर्थगुणानां दोषगुणानां च यथा—
किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः।
अस्मिन् मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः॥ ११५॥
अत्र दीप्तरसत्वं कान्तिः, अर्थप्राकट्यं प्रसादः, अक्तार्थनिर्वहणं प्रौढिरित्यर्थगुणाः; दैवहतिके विषपादपोऽयं पाप इत्याद्यमङ्गलार्थं ग्राम्यम्, किमनेन संवर्धितेनेत्यत्र मदनज्वरसन्निपात इत्यत्र च कर्तव्यप्रयोजनादेर्विरहिणो द्रष्टुरित्यादेश्चा— ध्याहारादसम्पूर्णवाक्यतायामर्थव्यक्तिविपर्ययः, अस्मिन् विकासविकारभाजीति विकासशब्दस्य पुष्पविषयत्वाद् वृक्षेऽपि प्रयोगेऽवाचकत्वादसमर्थमिति दोषगुणा मिथः सङ्कीर्यन्ते। यतो रसाक्षपात् परिहासलेशोक्त्योरमङ्गलं, प्रविश पिण्डींद्वारं द्वारमिति न्यायात् प्रसिद्धाध्याहारः, दरी वदति, मञ्चाः क्रोशन्तीति प्रयोगदर्शनादा— धाराधेययोरभेदोपचारश्च विरुद्धलक्षणादिभिः प्रयुज्यमानो न दोषायेति।
(२. रससङ्करः —६)
अस्तु नाम गुणानां शब्दार्थदोषगुणभेदात् त्रैविध्ये निरुल्लेखतया सोल्लेखतया च सङ्करव्यवहारः, रसानां तु वीराद्भुतादीनां निरस्तत्वात् कथमिवैकः श्रृङ्गारो अनेकसाध्यं सङ्करव्यवहारं वर्तयति ?
उच्यते — यद्यपि श्रृङ्गार एवैको रसः; तथापि तत्प्रभवा ये रत्यादयः; तेऽप्युद्दीपनविभावैरुद्दीप्यमानास्तदनुप्रवेशादेव सञ्चारिणामनुभावानां च निमित्तभाव— मुपयन्तो रसव्यपदेशं लभन्ते। यथा —
ह्यभिमानो रत्यादीनां निमित्तं चेतसा रस्यमानो रसः तथा रत्यादयोऽपि हर्षधृतिचिन्तौत्सुक्यादीनां मनोवाक्कायबुद्धिशरीरारम्भाणां च निमित्तमभिमानानुप्रवेशेनैव चेतसा रस्यमाना रसा इत्युच्यन्ते। युगपदभिधाने च सङ्करव्यवहारं कल्पयन्ति। ते तूत्पत्तौ भावाः, प्रकर्षे रसाः, विपर्यये भावरसाभासाः, प्रविलये तत्प्रशमा इति प्रभिद्यमानाः सङ्कीर्यन्त इति।
तत्सङ्करः षोढा — भावसङ्कर, रससङ्कः, भावाभाससङ्करः, रसाभाससङ्करः, भावप्रशमसङ्करः, रसप्रशमसङ्कर इति। तेषु
भावसङ्करो यथा— (मवीच. ५.३२)
न्यक्कारो हृदि वज्रकील इव मे तीव्रः परिस्पन्दते घोरान्धे तमसीव मज्जति मनः संमीलितं लज्जया।
शोकस्तातविपत्तितो दहति मां नास्त्येव यस्मिन् क्रिया मर्माण्येव पुनश्छिनत्ति करुणा सीतां वराकीं प्रति॥ ११६॥
अत्रामर्षलज्जाशोकप्रीतयः समकक्ष्यतया मिथस्तिलतण्डुलवत् सङ्कीर्यमाणा रामस्य विरहिणो वागारम्भानुभावोक्तिपरतया प्रतीयन्ते।
रससङ्करो यथा—
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं॥ ११७॥
(पृ.५५२) अत्र श्रृङ्गारकरुणौ हरप्रभाववर्णनायां मृत्पिण्डे पांसूदकवत् प्रधानाङ्गभावेन संकीर्तेते।
भावाभाससङ्करो यथा—
आः सीते! पतिगर्वविभ्रमभरभ्रान्तभ्रमद्वान्धव॰॥ ११८॥
(पृ. ६९१) अत्र क्रोधाभासे छायादर्शन्यायेन रत्याभासः उपलभ्यते।
रसाभाससङ्करो यथा—
एकेनार्कं प्रविततरुषा पाटलेनास्तसंस्थं पश्यत्यक्ष्णा सजलतरलेनापरेणात्मकान्तम्।
अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ सङ्कीर्णौ रचयति रसौ नर्तकीव प्रगल्भा॥ ११९॥
अत्र नरसिंहजाताविव सिंहनरभागौ नर्तकीचक्रवाक्युपमाने रोषशोकप्रकर्षा— वाभासमानौ मिथः संकीर्येते।
भावप्रशमसङ्करो यथा—
दृष्टे लोचनवन्मनाक्॰॥ १२०॥ (पृ. ५००)
अत्र कस्याश्चित् सखीविख्यातमानसंविधानकाया मानवत्याः प्रियदर्शना— लम्बनविभावादुत्पन्ने प्रकृष्टरतिप्रभवे प्रहर्षस्थायिभावे तत्पार्श्वोपसर्पणादिभिरुद्दीपन— विभावैरुद्दीप्यमाने समुत्पद्यमानेषु पुलकादिषु सुखात्मकेषु व्यभिचारिषु नयननि— मीलनाधोमुख्यनीवीस्त्रंसनादिभिरनुभावैः परप्रकर्षारोपणादानन्दरसतामापद्यमाने स्थायिनि प्रबलविरोधिभावान्तरोदयादेतेभ्य एव कारणेभ्यः प्रतिक्षणमपचीयमानयोर्लज्जारोषयोः प्रशमौ समकक्ष्यतया क्षीरनीरवत् सङ्कीर्यमाणौ प्रतीयेते।
रसप्रशमसङ्करो यथा—(उराच. ६.११)
विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन— स्तदौद्धत्यं क्वापि व्रजति, विनयः प्रह्वयति माम्।
झटित्यस्मिन् दृष्टे किमपि परवानस्मि यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः॥ १२१॥
अत्र वीरैद्धत्यस्वातन्त्र्यरसानामानन्दप्रशमपारवश्यरसैस्तिरस्क्रियमाणानां पट इव नीलादिभिः सितादीनां प्रशमे रामदर्शनप्रभावोद्भवे लवस्य विस्मयातिशयप्रशमजन्मनि वागारम्भानुभावोपमादौ चित्रवर्णवत् सङ्कीर्यमाणः समुपलभ्यते।
(३. अलङ्कारसङ्करः —६)
अथालङ्कारसङ्करः। स यद्यपि व्यक्ताव्यक्तोभयात्मतया तिलतण्डुलकादिभेदैः प्रधानाङ्गभावसमकक्ष्यताभ्यां पुरस्तादुक्तः, तथापि तेषां गुणादिसङ्करसाधारणत्वात् सम्प्रत्यसाधारणः प्रकार उच्यते।
स षोढा— ‘शब्दालङ्कारसङ्करः, अर्थालङ्कारसङ्करः, उभयालङ्कारसङ्करः, शब्दार्थालङ्कारसङ्करः, शब्दोभयालङ्कारसङ्करः, अर्थोभयालङ्कारसङ्कर’ इति। तेषु
शब्दालङ्कारसङ्करो यथा—
हंसाली भयतरला सारासरसा सराससारसरासा।
अम्बरतलमारूढा सारासरसा सराससारसरासा॥ १२२॥
(सक.) अत्र संस्कृतप्राकृतभाषाश्लेषः गतप्रत्यागतं चित्रं पादावृत्ति यमकं वर्णानुप्रासश्चेति चत्वारः शब्दालङ्काराः सङ्कीर्यन्ते।
अर्थालङ्कारसङ्करो यथा—
वासावस्थितताम्रचूडवयसामायामिभिः कूजितै— र्दूरादप्यनुमीयमानवसतिर्ग्रामोऽयमग्रेवणम् ।
यत्रादीप्तकुकूलकूटविसरद्धूम्याघनं घूर्णते सन्ध्यान्तोल्लसदच्छभल्लपटलच्छायाजटालं तमः॥ १२३॥
(सक.) अत्र ताम्रचूडवयसां कूजितैरित्यनुमानं, यत्र तमो घूर्णत इति ज्ञापकहेतुः, आदीप्तकुकूलकूटविसरद्धूम्याघनमिति सन्ध्यान्तोल्लसदच्छभल्लपटलच्छाया— जटालमिति च कारकहेतुः, जायमानपदार्थस्वरूपाभिधानं जातिरित्यर्थालङ्कारा— श्चत्वारो मिथः सङ्कीर्यन्ते।
उभयालङ्कारसङ्करो यथा—
ण हु णवरं दीवसिहासारिच्छं चंपएहिं पडिवण्णं।
कज्जलकज्जं पि कअं उअरि भमंतेहिं भमरेहिं॥ १२४॥
(न खलु केवलं दीपशिखासादृश्यं चम्पकैः प्रतिपन्नम्।
कज्जलकार्यमपि कृतमुपरि भ्रमद्भिर्भ्रमरैः॥)
अत्र चम्पकानां प्रदीपशिखाभिराकारकान्तिभ्यामुपमा, विरहिणीहृदयदाहोद्यान— द्योतनार्थक्रियाभ्यां साम्यं, कज्जलपटलानामिव भ्रमरपटलानामुपरिमेलनान्मेलितं, चम्पकप्रदीपकलिकयोरिव भ्रमरकज्जलपटलयोरप्यौपम्यादिसम्बन्धात् समुच्चय इत्युभयालङ्काराश्चत्वारो मिथः सङ्कीर्यन्ते।
शब्दार्थालङ्कारसङ्करो यथा—
सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्दद्रुहि।
शुष्यत्स्त्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ! व्रजन् जीवसि॥ १२५॥
अत्रावन्त्या रीतिः, पदमुद्रा, विभक्तिमुद्रा, अनुप्रासश्चेति शब्दालङ्काराः; जातिः, कारकज्ञापकहेतू चित्रंहेतुश्चेत्यर्थालङ्काराः मिथः सङ्कीर्यन्ते।
शब्दोभयालङ्कारसङ्करो यथा—
स्तोकस्तोकममूभिरम्बरतले तारामिरस्तं गतं गच्छत्यस्तगिरेः शिरस्तदनु च च्छायादरिद्रः शशी।
प्रत्यासन्नतरोदयस्य तरणेर्बिम्बारुणिम्ना ततो मञ्जिष्ठारसलोहिनी दिगपि च प्राची समुन्मीलति॥ १२६॥
अत्र च्छायादरिद्रः मञ्जिष्ठारसलोहिनीति पदमुद्रा, ताराभिरस्तं गतं प्राची समुन्मीलतीति विभक्तिमुद्रा, तदनु च दिगपि चेति समुच्चयमुद्रा, स्तोकस्तोकमस्तं गतं गच्छतीत्यादिरनुप्रासश्च शब्दालङ्काराः, हेतूपमासमाधिरर्थक्रमः, समुच्चयोक्तिश्चेत्युभयालङ्कारा मिथः सङ्कीर्यन्ते।
अर्थोभयालङ्कारसङ्करो यथा—
खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम्।
गन्धं मुञ्चति सिक्तलाजसुरभिं वर्षेण दग्धा स्थली दुर्लक्षोऽपि विभाव्यते कमलिनीहासेन भासां पतिः॥ १२७॥
अत्र जातिरनुमानं कारकज्ञापकहेतू चेत्यर्थालङ्काराः, रूपकमुपमा हेतूपमोत्प्रेक्षोपमेति च उभयालङ्कारा मिथः सङ्कीर्यन्ते।
(४. गुणरससङ्करः —६)
भवतु नाम गुणानां रसानामलङ्काराणां च सङ्करः; गुणरससङ्करस्तु कथंकारमुपपन्नो भवति? यतो दोषदानमिव गुणोपादानमपि नियमनिर्वर्त्यम्, अलङ्कारयोग इव रसावियोगोऽप्यवश्यविधेयः।
कदाचिदलङ्कारयोगोऽपि त्यज्यते, न तु रसावियोगो गुणयोगश्च। व्यभिचरित— सम्बन्धा एव च पदार्थाः पदार्थान्तरैस्तिलतण्डुलक्षीरनीरादिवत् संसृज्यमानाः सङ्कर— बुद्धिमुत्पादयन्तो दृश्यन्ते, नावयवावयविवज्जातिव्यक्तिवच्चाव्यभिचरितसम्बन्धा इति।
अत्रापि ब्रूमः — यत्र चित्रवर्णवन्नरसिंहवत् पांसूदकवच्च अवयवावयविन्यायेन जातिव्यक्तिन्यायेन चापृथक्प्रयत्ननिर्वर्त्यानां गुणरसानां वाक्ये सन्निवेशः, तत्रं सङ्करव्यवहारो न प्रवर्तते। तद्यथा— (काव्याद. १.५१)
मधुरं रसवद् वाचि वस्तुन्यपि रसस्थितिः।
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः॥ १२८॥
कामं सर्वोऽप्यलङ्कारो रसमर्थे निषिञ्चतु।
तथाप्यग्राम्यतैवैनं भारं वहति भूयसा॥ १२९॥
(काव्याद. १.६२)
श्रृङ्गार एव मधुरः परप्रह्लादनो रसः।
तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति॥ १३०॥
(ध्व. २.८)
श्रृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत्।
माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः॥ १३१॥
(ध्व. २.९)
रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः।
तद्वयक्तिहेतू शब्दार्थावोजोऽधिष्ठाय तिष्ठति॥ १३२॥
(ध्व. २.१०)
समर्पकत्वं वाक्यस्य यत्तु सर्वरसान् प्रति।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः॥ १३३॥
(ध्व. २.११) सेयं गुणानां रसारम्भकत्वे सङ्कराप्रसिद्धिः। एवं रसानां गुणारम्भकत्वेऽपि। तद्यथा — रूढाहङ्कारतौर्जित्यं, भावतो वाक्यवृत्तिर्भाविकत्वं, क्रोधादावप्यतीव्रता माधुर्यम्, आशयोत्कर्षः उदात्तत्वम्, अर्थस्याभीष्टतमता प्रेयः, दीप्तरसत्वं कान्तिरिति। यत्र तु तिलतण्डुलवत् क्षीरनीरवच्छायादर्शवच्च तुल्यकक्ष्यतयैव गुणरसानां वाक्ये पृथक्प्रयत्ननिर्वर्त्यानां विनिवेशस्तत्र सङ्करव्यवहारः प्रवर्तत एव।
स षोढा— गुणप्रधानः, रसप्रधानः; उभयप्रधानः, उभयाप्रधानः, गुणाधिकः, रसाधिक इति। तेषु
गुणप्रधानो यथा— (विसा. १.१९)
अत्रान्तरे ललितहारलतानितम्बसंवाहनस्खलितवेगतरङ्गिताङ्गी।
देवी व्यपास्य शयनं धृतमानतन्तुरन्तःपुरं गतवती सह सौविदल्लैः॥ १३४॥
अत्रार्थप्राकट्यौदार्ययोरर्थशब्दगुणयोः प्राधान्यम्, न रतिक्रोधयोरिति गुणप्रधानः।
रसप्रधानो यथा—(किराता. ५.३३)
अस्मिन्नगृह्यत पिनाकभृता सलीलमारब्धवेपथुरधीरविलोचनायाः।
विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्त्रस्तोरगप्रतिसरेण करेण पाणिः॥ १३५॥
अत्र श्लाघ्यविशेषणयोग उदात्तत्वम्, बन्धविकटत्वमुदारता, अर्थप्राकट्यं प्रसादः, दीप्तरसत्वं कान्तिरिति गुणाः, साध्वसविलासानुरागसङ्गमरसैरतिशय्यन्त इति रसप्रधानः।
उभयप्रधानो यथा—
आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम्।
कालः कलिर्जगदिदं न कृतज्ञमज्ञे! स्थित्वा हरिष्यति तवैव मुखस्य लक्ष्मीम्॥ १३६॥
अत्र भणितिविशेष उक्तिः, संविधाने सुसूत्रता श्लेष इति शब्दगुणयोः लावण्यविलासवर्णनीयरसयोश्च तुल्यकक्ष्यतया निर्देश इत्युभयप्रधानः।
उभयाप्रधानो यथा—
अभिनववधूरोषस्वादुः करीषतनूनपात्॰॥ १३७॥ (पृ. ५१६)
अत्र स्वादुक्रूरमसृणक्लैब्यमित्यन्यधर्माणामन्यत्रारोपणं समाधिः, अभिनव— वधूरोषादीनां चतुर्णामप्यर्थानां स्वाद्वादीनां च लक्षणादिलक्षितानां प्राकट्यं प्रसादः, अभिनववधूरोषस्वादुः करीषतनूनपात् इति विशेषणविशेष्याणामुपक्रमक्रमेण निर्वहणं रीतिः, पादचतुष्ट्ये चतुर्णामप्यर्थानां विभज्य समत्वेन निवेशः सम्मितत्वामिति चत्वारो गुणाः, चत्वारश्च रत्यमर्षविषादजुगुप्सात्मानो रसाः कालावस्थानिवेदनपरत्वेन प्रतीयन्त इत्युभयाप्रधानः।
गुणाधिको यथा—
अजननिरस्तु विभूतेरपूरणिर्भवतु सर्वकामानाम्।
मा याचिषि मा सेविषि मा सहिषि पराभवं धनिनः॥ १३८॥
अत्र सुप्तिङ्व्युत्पत्तिः सौशब्द्यम्, वाक्यानां परिपूर्णत्वमर्थव्यक्तिः, अर्थस्य प्राकट्यं प्रसादः, विभूतेरनुत्पत्तौ कामा न पूर्यन्ते, अपरिपूर्णकामो याचते, याचमानस्तदनाप्नुवन् धनिनः सेवते, सेवमानस्तु तैः परिभूयत इत्युत्पत्त्यादिक्रियाक्रमो रीतिरिति गुणाश्चत्वारः, रसस्तु निर्वेद एवैक इति गुणाधिकः।
रसाधिको यथा—
कमलमनम्भसि कमले॰॥ १३९॥
(पृ. ३३६) अत्र ‘कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्’ इत्यन्य— धर्माणामन्यत्रारोपणं समाधिः, ‘सा च सुकुमारसुभगेत्युत्पातपरम्परा केयमि’— त्यश्लीलामङ्गलार्थौ दोषगुणावपि, श्लाघ्यविशेषणयोग उदात्तत्वम्, बन्धविकट— त्वमुदारता, उपक्रमाभेदो रीतिः, अर्थस्य प्राकट्यं प्रसादः, अनिष्ठुरता सौकुमार्यं, अभीष्टतमता प्रेयः, दीप्तरसत्वं कान्तिरिति गुणा दश, रसास्तु रत्युत्कर्षहर्षधृत्युत्कण्ठा— वेगविस्मयमतिवितर्कचिन्ताचपलताहासोत्साहस्तम्भगद्गदोन्मादव्रीडावहित्थभयशङ्का विंशतिर्वागारम्भानुभावे श्रृङ्गारिणः प्रियाचाटुकारस्य कस्यचित् प्रतीयन्त इति रसाधिकः।
ननु चान्यधर्माणामन्यत्रारोपणं समाधिः। इह तु कमलमनम्भसि इत्यादौ धर्मिण एवाध्यासे तद्भावापत्तौ कथं समधित्वोपपत्तिः।
उच्यते— अन्यस्य च धर्माणां चान्यत्रारोपणं समाधिरिति। एतेन गुणालङ्कारसंकरेऽपि षट्प्रकारस्यैव समाधेः प्राधान्यमभिहितं भवति। यदाह—
तदेतत् काव्यसर्वस्वं समाधिर्नाम यो गुणः।
कविसार्थः समग्रोऽपि तमेवमनुधावति॥ १४०॥
(काव्याद. १.१००) स त्रिधा— एकधर्माध्यासेऽनेकधर्माध्यासे धर्म्यध्यासे च। तत्र—
अनेकधर्माध्यासे समाधेरुभयालङ्कारत्वमुक्तम्।
एकधर्माध्यासे समाधिस्तु द्विधा— शब्दगुणरूपो दोषगुणरूपश्च।
शब्दगुणरूपो यथा—(काव्याद. १.९४)
कुमुदानि निमीलन्ति कमलान्युन्मिषन्ति च।
इति नेत्रक्रियाध्यासाल्लब्धा तद्वाचिनी श्रुतिः॥ १४१॥
दोषगुणेषु तु—(काव्याद. १.९५)
निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम्।
अतिसुन्दरम्, अन्यत्तु ग्राम्यकक्षां विगाहते॥ १४२॥
तद्यथा—(काव्याद. १.९६)
पद्मान्यर्कांशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः।
भूयो वमन्तीव मुखैरुद्गीर्णारुणरेणुभिः॥ १४३॥
इति हृद्यम्; अहृद्यं तु निष्ठीवति वधूरिति।
युगपन्नैकधर्माणामध्यासोऽलङ्कृतिर्यथा ॥ १४४॥
(काव्याद. १.९७)
गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः।
अचलाधित्यकोत्सङ्गमिमाः समधिशेरते॥ १४५॥
(काव्याद. १.९८)
उत्सङ्गशयनं सख्याः स्तननं गौरवं क्लमः।
इतीह गर्भिणीधर्मा बहवोऽन्यत्र दर्शिताः॥ १४६॥
(काव्याद. १.९९) (५. गुणालङ्कारसङ्करः —६)
धर्म्यध्यासस्तु गुणालङ्कारसङ्करे प्रधानं भवति। यतो यद्यपि गुणवत्येव वाक्येऽलङ्कारयोगः, तथापि कवचिद् गुणस्य प्राधान्यं क्वचिदलङ्कारस्येति प्रधानाङ्गभावेन गुणालङ्कारयोः संकरव्यवहारः प्रवर्तते।
स षोढा— शब्दगुणप्रधानः, अर्थगुणप्रधानः, दोषगुणप्रधानः, शब्दालङ्कारप्रधानः, अर्थालङ्कारप्रधानः, उभयालङ्कारप्रधानः। तेषु—
शब्दगुणप्रधानो यथा—
प्राप्तश्रीरेष कस्मात्॰॥ १४७॥
(पृ. ३३२) अत्र हेतूत्प्रेक्षाभिधाने त्वयीत्यादौ पदे विष्णोः स्वरूपाध्यासेन तद्भावापत्तौ समाधेरिह प्राधान्यं प्रतीयते।
ननु चायमर्थस्य प्राकट्यात् प्रसादोऽर्थगुणः कस्मान्न भवति?
अतस्मिन्नपि तद्व्यपदेशेन शब्दशक्तेराधिक्यात्।
ननु च’त्वयि इति, एष इति अस्य इति युष्मदेतदिदमां न कश्चन विष्णुवाची; स कथं वर्णनीये अध्यस्तमर्थमभिदधीत,
सर्वनामत्वेनैषां सर्ववाचित्वात्। सर्वनामानि हि सर्वाभिधायीन्यपि प्रकरणाधि /?/गम्यं विशेषमेव ब्रुवते। स च इह प्राप्तश्रीरित्येवमादिभिरभिव्यक्तमेवावगम्यत इति।
अर्थगुणप्रधानो यथा—(दे.प.घटस्तबे १८)
लक्ष्मीवशीकरणचूर्णसहोदराणि— त्वत्पादपङ्कजरजांसि चिरं जयन्ति।
यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि॥ १४८॥
अत्र हेतुसाम्योभयालङ्कृत्यभिधानेऽपि प्राधान्येनार्थप्राकट्यमर्थगुणः प्रतीयते।
दोषगुणप्रधानो यथा—(किराता. ५.३०)
येनापविद्धसलिलस्फुटनागसद्मा—देवासुरैरमृतमम्बुनिधिर्ममन्थे।
व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः॥ १४९॥
अत्र ‘व्यावर्तनैरहिपतेरयमाहिताङ्कः’ इति ज्ञापकहेतोः ‘खं व्यालिखन्निव’ इति उत्प्रेक्षावयवाच्च, देवासुरैरिति नित्यवैरविवक्षायां बहुवचनम्, ‘अमृतमम्बुनिधिर्ममन्थे’ इति ‘द्विकर्मकेषु जिप्रभृतीनामुपसंख्यानम्’ इति अमृतशब्दाद् द्वितीया इति दोषगुणयोः प्राधान्यं प्रतीयते।
ननु चात्राप्यर्थस्य प्राकट्यात् प्रसादस्य प्राधान्यं कथं न भवति ?
तद्विषयस्य ज्ञापकहेतुनापहृतत्वात् सोऽपि हृर्थालङ्कार एव।
गुणालङ्कारयोश्च तुल्यकक्ष्यतायामलङ्कारः प्रधानं भवति, न गुणः । गुमैर्हि गुणभूतैरेवालङ्काराः प्राय आरभ्यन्ते। तद्यथा—
अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता।
विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते॥ १५०॥
समस्तात्युद्भटपदामोजःकान्तिसमन्विताम्।
गौडीयेति विजानन्ति रीतिं रीतिविचक्षणाः॥ १५१॥
आश्लिष्टश्लथभावां तु पुराणच्छाययाश्रिताम्।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः॥ १५२॥
माधुर्यमभिवाञ्छन्ति/न्तः प्रसादं च सुमेधसः।
समासवन्ति भूयांसि न पदानि प्रयुञ्जते॥ १५३॥
(भामहा. २.१)
लाटीयावन्त्ययोर्वृत्त्यो१-र्मागध्यां च क्वचित् क्वचित्।
केचिदोजोऽभिधित्सन्तः समस्यन्ति बहून्यपि॥
(भामहा. २.२)
प्रतीतशब्दमोजस्वि सुश्लिष्टपदसन्धि च।
प्रसादि स्वाभिधानं च यमकं कृतिनां मतम्॥ इति।
(भामहा. २.१८) मा भूदलङ्कारतुल्यकक्षतया अर्थगुणस्य प्राधान्यं, शब्दगुणस्य श्लाघ्यविशेषणयोग उदात्तत्वमित्यादेः किमिति प्राधान्यं न भवति ?
दोषगुणानामतीवोल्लेखवत्त्वेन प्राधान्यात्।
१. वृत्त्यो = रीत्योरिति तु वक्तव्यम्।
सा वामनप्रसिद्धिर्लङ्घितनभसो बलिद्विषोऽद्यापि।
मत्यरिणः खलु लोका मर्माण्येवानुबध्नन्ति॥ १५६॥
दोषस्य यो गुणीभावः स ततोऽप्यधिकं प्रकाशत इति।
शब्दालङ्कारप्रधानो यथा—(स.क.)
यच्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटापटले हरस्य।
तद् वः पुनातु हिमशैलशिलानिकुञ्जझाङ्कारडम्बरविरावि सुरापगाम्भः॥ १५७॥
अत्रार्थस्य प्राकट्यं प्रसादः, विभवोत्कर्ष उदारता, मृदुस्फुटोन्मिश्र— वर्णानामवैषम्यं समता, बन्धगाढता और्जित्यमित्यादिभ्यो गुणेभ्यः प्राधान्येन शब्दालङ्कारानुप्रासः प्रतीयते।
अर्थालङ्कारप्रधानो यथा—
आश्लेषिणः पृथुतरक्लमपीतशीतमायामिनीर्घनमुदो रजनीर्युवानः।
ऊर्वोर्मुहुर्वलनबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः स्वपन्ति॥ १५८॥
अत्र बन्धविकटत्वमुदारता, श्लाघ्यविशेषणयोग उदात्तत्वम्, विभवोत्कर्ष औदार्यम्, दीप्तरसत्वं कान्तिरित्यादिभ्यो गुणेभ्यः प्राधान्येन जातिरर्थालङ्कारः प्रतीयते।
उभयालङ्कारप्रधानो यथा—
अभ्युद्धृता वसुमती दलितं रिपूरः॰॥ १५९॥
(पृ. ५०१) अत्रोक्तिपरिपाकः प्रौढिः, बन्धविकटत्वमुदारता, आशयोत्कर्ष उदात्तत्वम्, अर्थस्य प्राकट्यं प्रसाद इत्यादिभ्यो गुणेभ्यः श्लेषोपसर्जना विशेषोक्तिरुभयालङ्कारः प्राधान्येन प्रतीयते।
(६. रसालङ्कारसङ्करः —६)
अथ रसालङ्कारसङ्कर:—
रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित्।
एकेनैव प्रयत्नेन निर्वर्त्यन्ते महाकवेः॥ १६०॥
(ध्व. २.१७)
रसभावादिविषयविवक्षाविरहे सति।
अलङ्कारनिबन्धो यः स १कविभ्यो न रोचते॥ १६१॥
(ध्व. ३.४२ सं.) १. ‘स’ चित्रविषयो मतः’ ध्व. ३.४२ संका. २. प्रकृष्यते = ध्वनौ मतः — ध्व. २.१६
रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत्।
अपृथग्यत्ननिर्वर्त्यः सोऽलङ्कारः २प्रकृष्यते॥ १६२॥
(ध्व. २.१६)
श्रृङ्गारी चेत् कविः काव्ये जातं रसमयं जगत्।
स एव वीतरागश्चेन्नीरसं सर्वमेव तत्॥ १६३॥
(ध्व. ३.४३)
यया कयाचिच्छुत्या यत्समानमनुभूयते।
तद्रूपादिपदासक्तिस्सानुप्रासा रसावहा॥ १६४॥
(काव्याद. १.५२)
नवोऽर्थः सूक्तिरग्राम्या श्रव्यो बन्धः स्फुटा श्रुतिः।
अलौकिकार्थानुक्तिश्च रसमाहर्तुमीशत१॥ १६५॥
(ह.च.) तत्र रसालङ्कारसङ्करः षोढा सम्भवति—
‘शब्दालङ्कारप्रधानः, अर्थालङ्कारप्रधानः, उभयालङ्कारप्रधानः, भावप्रधानः, आभासप्रधानः रसप्रधानश्चेति’। तेषु —
शब्दालङ्कारप्रधानो यथा—(पृ. ६०५)
कमलमलिरमुञ्चदुत्पलकलिकातरलोलमुत्पलाशङ्कां ते।
कुरुते स्म चक्षुरलिकुलकलिकातरलोलमुत्पलाशङ्कां ते॥ १६६॥
अत्र रतिरसप्रभवं वागारम्भमभिभूय यमकानुप्रासौ शब्दालङ्कारौ प्राधान्येन प्रतीयेते।
अर्थालङ्कारप्रधानो यथा— (सेब. १५.६६)
पुलअं जणेंति दहकंधरस्स राहवसरा सरीरअडंता।
जणअसुआपओहरप्फंस—करजुअलाणिव्वूढा॥ १६७॥
(पुलकं जनयन्ति दशकन्धरस्य राघवशराः शरीरे पतन्तः।
जनकसुतापयोधरस्पर्शमहार्घित—कर—युगल—निर्व्यूढा॥)
अत्र रसाभासमभिभूय हेतुरर्थालङ्कारः प्राधान्येन प्रतीयते।
उभयालङ्कारप्रधानो यथा—
किं गुरु जहणं अह थणभरो त्ति भाअ-कर-अलग्ग-तुलिआए।
विहिणो खुत्तंगुलि-मग्ग-विब्भमं वहइ से तिवली॥ १६८॥
(किं गुरु जघनमथ स्तनभर इति भागकरतलाग्रतुलितायाः।
विधेः खाताङ्गुलिमार्गविभ्रमं वहत्यस्यास्त्रिवली॥)
१. इह उत्तरार्धम् ‘विकटाक्षरबन्धस्तु कृत्स्नमेकत्र दुष्करम्’ इति। अत्र रतिप्रभवान् विस्मयादीनभिभूय पर्यायसंशयहेतूत्प्रेक्षोपमा उभयालङ्काराः प्राधान्येन प्रतीयन्ते।
भावप्रधानो यथा—
तीए दंसणसुहए पणअ-क्खलण-जणिओ मुहम्मि मणहरे।
रोसो वि हरइ हिअअं मअपंको व्व मअलंछणम्मि णिसण्णो॥ १६९॥
(तस्या दर्शनसुभगे प्रणयस्खलनजनितो मुखे मनोहरे।
रोषोऽपि हरति हृदयं मदपङ्क इव मृगलाञ्छने निषण्णः॥)
अत्र हेतूपमातिरस्कारेण रसवतो हरेर्वचसि वागारम्भरूपे रुक्मिणीदत्त— पारिजातमञ्जरीविलोकनप्रभवं सत्यभामाया रोषभावरामणीयकं प्राधान्येन प्रतीयते।
आभासप्रधानो यथा—
कह मा झिज्जउ मज्झो इमीअ कंदोट्ठदलसरिच्छेहिं।
अच्छीहिं जो ण दीसइ घण-थणहर-रुद्ध-पसरेहिं॥ १७०॥
(कथं मा क्षीयतां मध्य एतस्या कन्दोष्ठ/नीलोत्पल—दलसदृशाभ्याम्।
अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम्॥)
अत्र हेतूपमोत्प्रेक्षासमाधितिरस्कारेण कस्यचिदनवाप्तदयिताप्रत्यभियोगा— भिमानसुखस्य सुभगमानिनः प्रतिनायकादेः प्रत्यहं सीदतः रसाभासवागारम्भः प्राधान्येन प्रतीयते।
रसप्रधानो यथा—
मा गर्वमुद्वह कपोलतले चकास्ति ॰॥ १७१॥ (पृ. ५३५ H.O.S.)
अत्राक्षेपहेत्वहेतुपर्यायोक्तिभ्यः प्रकृष्टरतिरसप्रसवः प्रियप्रेमाभिमानविकत्थनायाः प्रियवयस्यायाः पुरस्तात् स्वकान्तप्रेमनिवेदनापरः वेपथुव्यभिचारसूचको वागारम्भः प्राधान्येन प्रतीयते।
एवमियमनेकप्रकारा संसृष्टिर्गुणरसालङ्कारसंकरप्रभवाभिमन्तव्या। तत्रापि प्रधानाङ्गभावेन समकक्ष्यतया च व्यक्ताव्यक्तोभयात्मकरूपायाः तिलतण्डुलक्षीर— जलच्छायादर्शकादयो भेदा यथायोगमवगन्तव्याः।
ते किं वक्तव्याः?
न वक्तव्याः।
कथमनुक्ता गम्यन्ते ?
उक्तेष्वेवान्तर्भावात्। तद्यथा—अर्थोभयालङ्कारसङ्कराभिधाने ‘खं वस्ते’ इति ‘चर्चां पारयति’ इति विभक्तिमुद्रा ‘कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलम्’ इति पदमुद्रा च शब्दालङ्कारावपि संकीर्यमाणौ प्रतीयेते।
किं पुनरमी सङ्करा द्वयोर्बहूनामपि भवन्तीति?
द्वयोरेवेति ब्रूमः।
नन्विदानीमेवोक्तं बहूनामपि भवन्तीति? द्वयोर्द्वयोः सर्वप्रकारैरप्युदाहृतत्वाद् वाक्ये च गुणरसयोगस्य नित्यत्वादुल्लेखवन्त एव सङ्करा गृह्यन्ते, नानुल्लेखवन्तः।
तद्यथा— (कुसं. २.१२)
उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम्।
कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम्॥ १७२॥
अत्र श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणे अर्थप्राकट्यं प्रसादः, विशेष्यानुपादानादसम्पूर्णवाक्यता नेयत्वमिति दोषगुणश्च नोल्लिखति, विभाव्यमानस्तु प्रतीयते। ज्ञापकहेत्वर्थालङ्कारे ‘तासां त्व प्रभव’ इति कारकहेतुरर्थालङ्कारः क्रमरचनेति शब्दालङ्कार १नोल्लिखति विभाव्यमानस्तु प्रतीयते। प्रेयसि रसे विस्मयप्रकर्षो हर्षोत्कर्षं (र्षश्च?) नोल्लिखति विभाव्यमानस्तु प्रतीयते। एवं
किं येन सृजसि व्यक्तमुत येन बिभर्षि तत्।
अथ यस्तस्य संहर्ता भागः कतम एष ते॥ १७३॥
(कुसं. ६.२३) अत्र वितर्कालङ्कारे कारकहेतुः क्रमरचना च नोल्लिखति, प्रसादार्थगुणे सुशब्दता बन्धवैकट्यं च नोल्लिखति, मतिप्रकर्षे प्रीत्युत्कर्षो वितर्कश्च नोल्लिखति। विभाव्यमानास्तु सर्व एव प्रतीयन्ते। तथा
शिञ्जानमञ्जुमञ्जीरकाञ्चीसञ्चारचारवः।
रमयन्ति मनः कान्ता नितान्तं योगिनामपि॥ १७४॥
अत्र सौकुमार्यशब्दगुणे समासभूयस्त्वमोजः श्लाघ्यविशेषणयोग उदात्तत्वं च नोल्लिखति। अनुप्रासशब्दालङ्कारे हेतुरर्थालंकारो जातिश्च नोल्लिखति। विस्मयभावे रतिर्मतिश्च नोल्लिखति। विभाव्यमानाश्च सर्व एव प्रतीयन्ते। अपि च
पयोधरतटोत्सङ्गलग्नसन्ध्यातपांशुका।
कस्य कामातुरं चेतो वारुणी न करिष्यति॥ १७५॥
(काव्याद. १.८४) अत्र हेतुसमाध्यलङ्कारयोः श्लेषरूपकालङ्कारौ कान्त्युदात्तत्वगुणयोरोजः— १. नोल्लिखतीत्येवाऽत्रासौ वाक्ययोगः। प्रसादगुणौ आलम्बनविभावोद्दीपनविभावयोर्मतिवितर्कौ च नोल्लिखति। ते तु विभाव्यमानाः प्रतीयन्ते। किंच —
हस्ते लीलाकमलमलकं बालकुन्दानुविद्धं१ नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः।
चूडापाशे नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्॥ १७६॥
(मेघ. ६५) अत्र ज्ञापकहेत्वलङ्कारे कारकहेतुर्जातिश्चार्थालङ्कारौ, आवन्त्या रीतिः क्रमरचना च शब्दालङ्कारौ, दीपकक्रमश्लेषहेतूक्तिपर्यायाश्च उभयालङ्कारौ(रा) नोल्लिखन्ति। श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणे यावदर्थपदता संमितत्वम्, अनिष्ठुराक्षरप्रायता सौकुमार्यमिति शब्दगुणौ, दीप्तरसत्वं कान्तिरर्थप्राकट्यं प्रसाद इत्यर्थगुणो, कालविरोधि निष्क्रियमशरीरमिति दोषगुणौ च नोल्लिखन्ति। स्वनिवासवर्णनोत्कर्षे पतिप्रभावोपवर्णनं निवासिजनवैदग्ध्याभिधानं च विभावौ प्रियतमास्थान (?) प्रेयोरसे सर्वोपकरणप्रागुण्यस्मृतिः विलासाद्यभिनन्दनं चानुभावौ प्रियसुहृत्प्ररोचनोत्साहे घनागमनीपविकासस्मृतिरुत्कण्ठेति च व्यभिचारिणौ नोल्लिखन्ति। विभाव्यमानास्तु सर्व एव प्रतीयन्ते। अन्यच्च —
शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले गले तारा हारः तरलमुडुचक्रं च कुचयोः।
तटित्काञ्ची सन्ध्या सिचयरुचयः कालि! तदयं तवाकल्पः कल्पव्युपरमविधेयो विजयते॥ १७७॥
अत्रारोहावरोहक्रमो गतिः, श्लाघ्यविशेषणयोग उदात्तत्वमिति शब्दगुणयोर्बन्ध— वैकट्यादयः शब्दगुणाः, दीप्तरसत्वं कान्तिरर्थप्राकट्यं प्रसाद इत्यर्थगुणयोः रूढाहङ्कारतौर्जित्यमित्यादयोऽर्थगुणाः, कालादिविरोध्यप्रकृतरसत्वमिति दोषगुणयोः निष्क्रियत्वादयो दोषगुणा नोल्लिखन्ति। वाक्यमुद्रानुप्रासशब्दालङ्कारयोः क्रमरचनादयः शब्दालङ्काराः, जातिहेत्वर्थालङ्कारयोः ज्ञापकहेत्वादयोऽर्थालङ्कारा; समासोक्तिरूप— कोभयालङ्कारयोः समुच्चयोक्त्यादय उभयालङ्काराः नोल्लिखन्ति। प्रेयश्शान्तर— सयोर्भयानकादयो रसाः रौद्रश्रृङ्गाराभासयोर्वीराभासादयः आभासा मतिस्मृतिभाव— योर्हर्षादयश्च भावा नोल्लिखन्ति। विभाव्यमानाश्च ते सर्व एव प्रतीयन्ते।
सोऽयं वाक्यविषयो रसावियोग उक्तः॥ १. द्र. अस्माकं कालिदासग्रन्थावलीगतः पाठः। (२. प्रबन्धविषयो रसावियोग)*
प्रबन्धविषय उच्यते— सोऽपि दोषहानेन गुणोपादानेन अलङ्कारसङ्करेण च प्रकाशमानो मनीषिणां मनःप्रकर्षहेतुर्भवति। तत्र
दोषहानमनौचित्यादिपरिहारेण यथा— मायाकैकेयीदशरथाभ्यां रामः प्रवासितो न मातापितृभ्यामिति निर्दोषदशरथे;
राममेव योधयन् रामेण वाली निहतो न सुग्रीवमिति महावीरचरिते;
रुधिरप्रियराक्षसेन दुश्शासनस्य रुधिरं पीतं १न भीमसेनेनेति वेणीसंहारे;
अनङ्गावतारस्य प्रद्युम्नस्यैव जन्मान्तरपत्नी रतिर्मायावती न गुर्वङ्गनेति हरिवंशे;
दुर्वाससो अवध्यानाद् दुष्यन्तः शकुन्तलास्वीकारं विसस्मार, नानवस्थिता— नुरागतयेति शाकुन्तले;
लवणप्रयुक्तराक्षसाक्ष्यां राम उपह्वरे तत्तदभिधाय सीता परित्याजिता न कैकेयीमन्थराभ्यामिति छलितरामे;
दग्धायामपि वासवदत्तायां वैरप्रतिचिकीर्षया पद्मावती मयोढा, सिद्धे च समीहिते तया विना क्षणमपि न जीवामीत्यविज्ञातवासवदत्तासन्निधेर्वत्सराज— स्याग्निप्रवेशाध्यवसायः प्रियाहृदयतो व्यलीकशल्यमुच्चखानेति तापसवत्सराजे;
नीचाक्षः स्वामिकार्यं साधयामीति प्रभुभक्त्या निरपराधामपि प्रेयसीं हित्वा स्वामिकार्यापेक्षया अहमेतावन्ति दिनानि जीवितः, अद्य तु कृतस्वामिकार्य— स्तामेवानुगच्छामीति शिवगणः शूद्रकविनिर्मितां मायामयीं चितां प्रियासमक्षं प्रविवेश, सापि तत्प्रेमापदानदर्शनापह्नुतप्रियव्यलीका तद्वियोगकातरा तत्रैवात्मानं प्रचिक्षेपेति विक्रान्तशूद्रके।
एवमन्यदपि दोषहानमुदाहार्यम्। गुणोपादानं तु वक्ष्यमाणप्रबन्धभेदानां सम्यग्लक्षणयोगेन संविधानकसुसूत्रता; तेष्वेव नगरार्णववर्णनादीनां सन्निवेश— प्राशस्त्यमलङ्कारसङ्कर इति। तदुक्तम्— (रामाभ्युदये प्रस्तावनायाम्)
औचित्यं वचसां प्रकृत्यनुगतं, सर्वत्र पात्रोचिता पुष्टिः स्वावसरे रसस्य च, कथामार्गे न चातिक्रमः।
शुद्धिः प्रस्तुतसंविधानकविधौ, प्रौढिश्च शब्दार्थयोः, विद्वद्भिः परिभाव्यतामवहितैरेतावदेवास्तु नः॥ १७८॥
- द्र॰ अत्रैव पृ॰ ६१६ तत्रेष्टार्थव्यवच्छिन्ना पदपङ्क्तिर्वाक्यपद्धतिः प्रकरणावली वा प्रबन्धः। यतः पदानां सुबन्तानां तिङन्तानां च सर्वार्थसाधारणत्वान्न स्वरूपनिबन्धनो विशेषः प्रतीयते। नापि वाक्यानां, सर्वव्यवहारसाधारणत्वात् परस्परावच्छेदहेतुः भेदः संभवति। न च प्रकरणानां शैलर्तुनगरार्णववर्णनादिरूपाणां सकलकाव्यशरीराङ्गत्वे तद्गतो व्यतिरेक उपपद्यते। अतो य एव तैः उपक्रियमाणो महावाक्यार्थः प्रतिनियतरूपः स परमनेकवाक्यप्रकरणादिसमुदायरूपस्य महाकाव्यादेरवच्छेदहेतुः, तेन व्यवच्छिन्ना विशेषेऽवस्थापिता पदपङ्क्तिर्वाक्यपद्धतिः प्रकरणावली वा प्रबन्धः। यथा जानकीहरणं, कुमारसम्भव इति।
ननु च जानक्या हरणमस्मिन्, कुमारस्य सम्भवोऽस्मिन्निति बहुव्रीहौ प्रबन्धेऽन्यपदार्थे जानकीहरणमिति न प्राप्नोति, काव्ये तु कुमारसम्भव इति। न चैकत्र काव्यमेवान्यपदार्थत्वेनाश्रीयते, अन्यत्र प्रबन्ध एवेति नियमहेतुरस्ति। तर्हि नायं बहुव्रीहिः, अति तु तत्पुरुषः, जानक्या हरणं जानकीहरणं, कुमारस्य सम्भवः कुमारसम्भव इति। अभिधेयेन चाभिधायकमपि व्यपदिशन्ति कवयः; यथा अभिज्ञानशाकुन्तलं नाटकं, हर्षचरितमाख्यायिकेति।
प्रबन्धश्चेह द्विधा— प्रेक्ष्यः, श्रव्यश्च। तयोः —
अभिनेयः प्रेक्ष्यः । स च नाटकादिभेदाच्चतुर्विंशतिप्रकारो भवति—
नाटकं, प्रकरणं, व्यायोगः, ईहामृगः, समवकारः, डिमः, उत्सृष्टिकाङ्कः, भाणः, प्रहसनं, वीथी, नाटिका, सट्टकः, श्रीगदितं, १दुर्मिलिका, प्रस्थानं, काव्यं, भाणकं, भाणिका, गोष्ठी, हल्लीसकं, नर्तनकं, प्रेक्षणकं, रासकं, नाट्यरासकमिति।
अनभिनेयः श्रव्यः। सोऽप्याख्यायिकादिभेदाच्चतुर्विंशतिप्रकारो भवति—
आख्यायिका, उपाख्यानम्, आख्यानं, निदर्शनं, प्रवह्लिका, मन्धु(न्थु)ल्लिका, मणिकुल्या, कथा, परिकथा, खण्डकथा, उपकथा, बृहत्कथा, चम्पूः, पर्वबन्धः, काण्डबन्धः, आश्वासकबन्धः, सन्धिबन्धः, अवस्कन्धबन्धः, काव्यशास्त्रं, सर्गबन्धः, शास्त्रकाव्यं, कोशः, सङ्घातः, संहिता, २साहित्यप्रकाश इति। तत्र १. अग्रेऽपि दुर्मिलिकेत्येव नाम। २. इदमेव हि वस्तुभूतं नाम ग्रन्थस्यास्य। (प्रेक्ष्यप्रबन्धः (वाक्यार्थाभिनयः) —२४)
अभिनेयभेदेषु—
(१. नाटकम्)
प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव।
राजर्षिचरितवंशानुचरितदिव्याश्रयोपेतम् ॥ १७१॥१
(नाशा.१८.९)
सर्वाभिर्भाषाभिः समन्वितं गद्यपद्यमिश्राभिः।
सर्वैश्चालङ्कारैर्लक्षणषट्त्रिशता२ युक्तम्॥ १८०॥
नानाविभूतिसंयुतमृद्धिविलासादिभिर्गुणैर्युक्तम्।
अङ्कप्रवेशकाढ्यं रूपकमिह नाटकं नाम॥ १८१॥
(२०.११)
नृपतीनां यच्चरितं नानारसभावसंश्रितं बहुधा।
सुखदुःखोत्पत्तिकृतं वाच्यं तन्नाटके भवति॥ १८२॥
(२०.१२)
तत्रावस्थोपेतं कार्यं प्रसमीक्ष्य बिन्दुविस्तारात्।
कर्तव्योऽङ्कः सम्यग्गुणान्वितो नाट्यतत्त्वज्ञैः॥ १८३॥
यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः।
किञ्चिदवलग्नबिन्दुः सोऽङ्क इति सदावगन्तव्यः॥ १८४॥
ये नायका निगदितास्तेषां प्रत्यक्षचरितसम्भोगः।
नानावस्थान्तरितः कार्यस्त्वङ्को यथार्थरसः॥ १८५॥
नायकदेवीपरिजनपुरोहितामात्यसार्थवाहानाम्।
नैकरसान्तरविहितो ह्यङ्क इति बुधैः स विज्ञेयः॥ १८६॥
शोकप्रसादविद्रवशापोत्सर्गप्रसादनक्रोधाः।
उद्वाहो३ऽद्भुतदर्शनमङ्के प्रत्यक्षजानि स्युः॥ १८७॥
युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव।
प्रत्यक्षाणि तु नाङ्के प्रवेशकैः संविधेयानि॥ १८८॥
१. ना.शा. काशीसं.। २. भोजमतेन लक्षणानि चतुष्षष्टिर्भवन्ति। ३. उद्वाहो = उत्साहो
भावा रसाश्च यस्मिन्नारोहन्त्यङ्कवद् भवेत् सोऽङ्कः।
नानाविधानयुक्तो लक्ष्मेव च यः प्रबन्धस्य॥ १८९॥
एकदिवसप्रयोज्यः कार्यस्त्वङ्कोऽर्थबीजमधिकृत्य।
आवश्यककार्याणामविरोधेन प्रबन्धेषु॥ १९०॥
एकाङ्केन कदाचिद् बहूनि कार्याणि योजयेद् धीमान्।
आवश्यकाविरोधेन तत्र कार्याणि कार्याणि॥ १९१॥
ज्ञात्वा दिवसावस्थां क्षणयाममुहूर्तलक्षणोपेताम्।
विभजेत् कार्यं मतिमान् पृथक्पृथक् सर्वमङ्केषु॥ १९२॥
रङ्गं तु ये प्रविष्टास्सर्वेषां भवति तत्र निष्क्रामः।
बीजार्थयुक्तियुक्तं कृत्वा कार्यं यथार्थरसम्॥ १९३॥
दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम्।
अङ्कच्छेदं कृत्वा प्रवेशकैस्तद् विधातव्यम्॥ १९४॥
सन्निहितनायकोऽङ्कः कर्तव्यो नाटके प्रकरणे वा।
परिजनकथानुबन्धः प्रवेशकस्तत्र विज्ञेयः॥ १९५॥
अङ्कच्छेदं कृत्वा मासकृतं वर्षसञ्चितं वापि।
तत् सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित्॥ १९६॥
यदि किञ्चित् कार्यवशाद् गच्छति पुरुषः प्रकृष्टमध्वानम्।
तत्राप्यङ्कच्छेदः कर्तव्यः पूर्वतन्त्रज्ञैः॥ १९७॥
अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम्।
प्रकरणनाटकविषये प्रवेशकस्संविधातव्यः॥ १९८॥
नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः।
प्राकृतभाषाचारः प्रयोगमासाद्य कर्तव्यः॥ १९९॥
विटमुनिदैवतपुरुषैः कञ्चुकिभिश्चार्थयुक्तिमासाद्य।
संस्कृतवाग्भिरपीत्थं प्रवेशकः संविधातव्यः॥ २००॥
कालोत्थानगतिरस—व्यत्यासारम्भकामविषयाणाम्।
अर्थाभिधानभूतः प्रवेशकः स्यादनेकार्थः॥ २०१॥
बह्वाश्रयमप्यर्थं प्रवेशकैः संक्षिपेत् प्रबन्धेषु।
अङ्केषु संप्रयुक्तो जनयति खेदं प्रयोगस्य॥ २०२॥
यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात्।
वृत्तान्तः स्वल्पकथैः प्रवेशकैस्सोऽभिधातव्यः॥ २०३॥
शुद्धस्सङ्कीर्णो वा द्विविधो विष्कम्भकश्च विज्ञेयः।
मध्यमपात्रश्शुद्धः सङ्कीर्णो मध्यनीचकृतः॥ २०४॥
अङ्कमुखं गर्भाङ्कः कार्योऽस्मिंश्चूलिकापि वा कुशलैः।
मा भूदितिवृत्तानां विच्छेदो विस्तरो वेति॥ २०५॥
अङ्कमुखं विश्लिष्टं यत्रोपश्लिष्यते स्त्रिया वाक्यैः।
पुरुषस्य वा तदस्मिन्नङ्कमुखमिति व्यपदिशन्ति॥ २०६॥
अङ्कान्तरे पराङ्को निपतति यस्मिन् प्रयोगमासाद्य।
बीजार्थयुक्तियुक्तो गर्भाङ्को नाम स ज्ञेयः॥ २०७॥
अन्तर्यवनिकसंस्थैर्मागधसूतादिभिस्तु यः क्रियते।
अर्थस्योपक्षेपोऽनेकविधश्चूलिका सापि॥ २०८॥
नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत्।
प्रकरणमतः परमहं लक्षणयुक्त्या प्रवक्ष्यामि॥ २०९॥
(२. प्रकरणम्)
यत्र कविरात्मबुद्धया वस्तु शरीरं च नायकं चैव।
औत्पत्तिकं प्रकुरुते तज्ज्ञेयं प्रकरणं नाम॥ २१०॥
यदनार्षमप्रयुक्तं परेण यत् स्यादभूतगुणबन्धम्।
प्रकरणमिति तद्विद्यादौद्भिजबीजार्थसंयुक्तम्॥ २११॥
यन्नाटके मयोक्तं वस्तुशरीरं रसाश्रयोपेतम्।
तत्प्रकरणेऽपि कार्यं केवलमुत्पाद्यवस्त्विह तत्॥ २१२॥
विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम्।
चरितं यन्नैकविधं तज्ज्ञेयं प्रकरणं कृतिभिः॥ २१३॥
नोदात्तनृपोपेतं न दिव्यचरितं न राजसम्भोगम्।
बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं लोके॥ २१४॥
दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम्।
मन्दकुलस्त्रीचरितं कार्यं कार्यं प्रकरणे तु॥ २१५॥
सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम्।
गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या॥ २१६॥
यदि वेशयुवतियुक्तं न कुलस्त्रीसङ्गमर्हति कदाचित्।
अथ कुलवधूप्रयुक्तं न वेशयुवतिर्भवेत्तत्र॥ २१७॥
यदि वा कारणयुक्त्या वेशकुलस्त्रीसमागमोऽपि स्यात्।
अविकृतभाषाचारं तत्र तु पाठ्यं प्रयोक्तव्यम्॥ २१८॥
मध्यमपुरुषैर्नित्यं योज्यो विष्कम्भकोऽत्र तन्त्रज्ञैः।
संस्कृतवचनानुगतः संक्षेपार्थः प्रवेशकवत्॥ २१९॥
अङ्कान्तरालविहितप्रवेशकोऽर्थक्रियामभिसमीक्ष्य।
संक्षेपात् सन्धीनामर्थानां चैव कर्तव्यः॥ २२०॥
अङ्के प्रवेशके वा प्रकरणमाश्रित्य नाटकं वापि।
न वधः कर्तव्यो वै यस्तत्र तु नायकः ख्यातः॥ २२१॥
अपसरणमेव कार्यं ग्रहणं वा सन्धिरेव वा योज्यः।
कार्यं श्लेषैर्बहुभिर्यथारसं नाट्यतत्त्वज्ञैः॥ २२२॥
प्रकरणनाटकविषये पञ्चाद्या दशपरा भवत्यङ्काः।
अङ्कान्तरसन्धिषु च प्रवेशकास्तेषु तावन्तः॥ २२३॥
न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा।
ये तत्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः॥ २२४॥
व्यायोगेहामृगसमवकारडिमसंज्ञितानि काव्यानि।
दशभिर्द्वादशभिर्वा षोडशभिर्वापि पुरुषैः स्युः॥ २२५॥
(३. व्यायोगः)
व्यायोगस्तत्र बुधैः कार्यः प्रख्यातनायकशरीरः।
अल्पस्त्रीजनयुक्तः स्यादेकाहप्रयोज्यश्च॥ २२६॥
बहवस्तत्र तु पुरुषा व्यायच्छन्ते कथाशरीरवशात्।
न च तत्प्रमाणनियमः किञ्चैकाङ्कौ विधातव्यः॥ २२७॥
न स दिव्यनायककृतः कार्यो राजर्षिनायकनिबन्धः।
युद्धनियुद्धाधर्षणसङ्घर्षयुतश्च कर्तव्यः॥ २२८॥
एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः॥ २२९॥
(४. ईहामृगः)
वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि।
दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः॥ २३०॥
सुविहितवस्तुनिबन्धो विप्रत्ययकारकश्चैव।
उद्धतपुरुषप्रायस्त्रीरोषग्रथितकाव्यबन्धश्च ॥ २३१॥
संक्षोभविद्रवकृतः संस्फोटकृतश्च स ज्ञेयः।
तत्र च वधेप्सितानां वधोऽप्युदग्रो भवेन्न पुरुषाणाम्॥ २३२॥
किञ्चिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम्।
स्त्रीभेदनापहरणोपमर्दनप्राप्तवस्तुशृङ्गारः॥ २३३॥
ईहामृगो विधेयश्चतुरङ्कविभूषितस्तज्ज्ञैः।
यद् व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव॥ २३४॥
ईहामृगेऽपि ते स्युः केवलममरस्त्रिया योगः।
ईहामृगस्य लक्षणमित्युक्तमिदं मया समासेन॥ २३५॥
(५. समवकारः)
वक्ष्याम्यतःपरमहं लक्षणयुक्त्या समवकारम्।
देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव।
त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिशृङ्गारः॥ २३६॥
द्वादशनायकबहुलो ह्यष्टादशनाडिकाप्रमाणश्च।
वक्ष्याम्यस्याङ्कविधिं यावत्यो नाडिका यत्र॥ २३७॥
अङ्कोऽत्र सप्रहसनः सविद्रवः सकपटः सवीथीकः।
द्वादशनाडीयुक्तः प्रथमः कार्यः क्रियोपेतः॥ २३८॥
कार्यस्तथा द्वितीयस्समाश्रितो नाडिकाश्चतस्रस्तु।
वस्तुसमापनविहितो द्विनाडिकः स्यात् तृतीयोऽस्मिन्॥ २३९॥
नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूर्तार्धम्।
तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम्॥ २४०॥
अङ्केऽङ्के सम्बन्धः कर्तव्यः काव्यबन्धमासाद्य।
अर्थं हि समवकारेष्वप्रतिसम्बन्धमिच्छन्ति॥ २४१॥
वस्तुगतिक्रमविहितो दैववशाद्वा परप्रयुक्तो वा।
सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटोऽत्र विज्ञेयः॥ २४२॥
युद्धजलसंभ्रमो वा वाय्वग्निगजेन्द्रसंभ्रमकृतो वा।
नगरोपरोधजो विज्ञेयो विद्रवस्त्रिविधः॥ २४३॥
विविधश्चात्र विधिज्ञैः पृथक्पृथकक्काव्यबन्धविहितार्थः।
त्रिविधकृतः शृङ्गारो ज्ञेयो धर्मार्थकामेषु॥ २४४॥
यस्मिन् धर्मप्रापकमात्महितं भवति साधनं बहुधा।
व्रतनियमतपोयुक्तो ज्ञेयोऽसौ धर्मशृङ्गारः॥ २४५॥
अर्थस्याप्तिर्यस्मिन् भवति च बहुधा स चार्थशृङ्गारः।
स्त्रीसंप्रयोगविषये ह्यर्थार्थमपीष्यतेऽभिरतिः॥ २४६॥
कन्याविलोभनकृतः प्राप्तौ स्त्रीपुंसयोः स रत्यैव।
निभृतं सावेगं वा विज्ञेयः कामशृङ्गारः॥ २४७॥
उष्णिग्गायत्र्याद्यान्यन्यानि च यानि बन्धकुटिलानि।
वृत्तानि समवकारे कविभिस्तानि प्रयोज्यानि॥ २४८॥
एवं कार्यः प्राज्ञैर्नानारससंश्रयः समवकारः।
(६. डिमः) डिमलक्षणं तु भूयो लक्षणयुक्त्या प्रवक्ष्यामि॥ २४९॥
शृङ्गारहास्यवर्जं शैषैः सर्वै रसैस्समायुक्तः।
दीप्तरसकाव्ययोनिश्चतुरङ्को वै डिमः कार्यः॥ २५०॥
प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकर्श्चेव।
रौद्रभयानकबीभत्सवीरकरुणाद्भुतोपेतः ॥ २५१॥
मायेन्द्रजालबहुलो बहुपुंसो(पुस्तो)त्थानसंयुक्तः।
देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ २५२॥
निर्घातोल्कापातैरुपरागैश्चन्द्रसूर्ययोर्युक्तः।
युद्धनियुद्धनिबद्धः संस्फो(सम्फे)टकुतश्च कर्तव्यः॥ २५३॥
सात्वत्यारभटीभ्यां वृत्तिभ्यामन्वितो डिमः कार्यः।
षोडशनायकबहुलस्तज्ज्ञैर्नानाश्रयविशेषः॥ २५४॥
डिमलक्षणमप्यभिहितमिदमुद्देशक्रमेण संक्षेपात्।
उत्सृष्टिकाङ्कभाणप्रहसनवीथीरथो वक्ष्ये॥ २५५॥
(७. उत्सृष्टिकाङ्कः)
प्रख्यातवस्तुविषयस्तेष्वप्रख्यातवस्तुविषयो वा।
दिव्यपुरुषैर्वियुक्तश्शेषैश्च समन्वितः पुंभिः॥ २५६॥
करुणरसप्रायकृतो नियुद्धयुद्धोद्धतप्रहारश्च।
स्त्रीपरिदेवितबहुलो निर्वेदितवाक्यभाषश्च॥ २५७॥
नातिव्यायतचेष्टः सात्वत्यारभटिकैशिकीहीनः।
कार्यः काव्यविधिज्ञैस्सततमिहोत्सृष्टिकाङ्कस्तु॥ २५८॥
(८. भाणः)
धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव।
वस्तुसमाङ्कः कार्यः सततं काव्ये बुधैर्भाणः॥ २५९॥
आत्मानुभूतशंशी परसंश्रयवर्णनाविशेषयुतः।
विविधाश्रयश्च भाणो विज्ञेयः सैकहार्यश्च॥ २६०॥
परवचनमात्मसंस्थं परवचनैः सोत्तरैर्ग्रथितवाक्यम्।
आकाशपुरुषकथितैरङ्गविकारैरिहाभिनयेत् ॥ २६१॥
(९. प्रहसनम्)
प्रहसनमिह विज्ञेयं द्विविधं शुद्धं च सङ्कीर्णम्।
वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम्॥ २६२॥
लोकोपचारयुक्ता या वार्ता यश्च दम्भसंयोगः।
स प्रहसने प्रयोज्यो धूर्तजनविवादसम्पन्नः॥ २६३॥
भगवत्तापसविप्रैरन्यैरपि हासवादसम्पन्नम्।
नीचजनसंप्रयुक्तं परिहासाभाषणप्रायम्॥ २६४॥
वेश्यानपुंसकविटैर्वातिकदासीजनेन संकीर्णम्।
अनिभृतवेषपरिच्छदचेष्टितकरणैश्च संपन्नम्॥ २६५॥
अविकृतभाषाचारं विशेषभाषोपहासरचितपदम्।
नियतगतिवस्तुविषयं शुद्धमिह प्रहसनं भवति॥ २६६॥
उद्घात्यकादिभिरिदं वीथ्यङ्गैर्मिश्रितं भवेन्मिश्रम्।
(१०. वीथी) वीथी स्यादेकाङ्का द्विपात्रहार्यैकहार्या वा॥ २६७॥
सर्वरसलक्षणाढ्या समन्विताङ्गैरियं त्रयोदशभिः।
प्रथमो(अधमो)त्तममध्यमाभिर्युक्तः स्यात् प्रकृतिभिस्तिसृभिः॥ २६८॥
इति दशरूपकमेतद् भरताचार्यानुसारतो गदितम्।
(११. नाटिका) प्रकरणनाटकभेदो रूपकमिह नाटिका भवति॥ २६९॥
स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी।
बहुगीतनृत्तवाद्या रतिसंभोगात्मिका चैव।
राजोपचारयुक्ता शृङ्गाराभिनयभावसंयुक्ता॥ २७०॥
नायकदेवीपरिजनसमन्विता नाटकप्रकृतिः।
(१२. सट्टकः) प्रकरणसमुद्भवा पुनरुत्पाद्यं वस्तु नायकं नृपतिम्॥ २७१॥
अन्तःपुरसङ्गीतककन्यामधिकृत्य कर्तव्या।
विष्कम्भकप्रवेशकरहितो यस्त्वेकभाषया भवति॥ २७२॥
अप्राकृत—संस्कृतया स सट्टको नाटिकाप्रतिमः।
काव्यं गोपुच्छाग्रं कर्तव्यं नाटिकादिषु प्राज्ञैः॥ २७३॥
ये तूदात्ता भावास्ते सर्वे पृष्ठतः कार्याः।
सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम्॥ २७४॥
निर्वहणे कर्तव्यो नित्यं हि रसोऽद्भुतस्तज्ज्ञैः।
यद्दिव्यनायककृतं काव्यं संग्रामबन्धवधयुक्तम्॥ २७५॥
तद् भारतेऽत्र वर्षे कर्तव्यं काव्यबन्धेषु।
तस्माद् भारतमिष्टं वर्षेष्वन्येषु नित्यकालं हि॥ २७६॥
हृद्या सर्वा भूमिः शुभगन्धा हेमरत्नमयी।
उपवनगमनक्रीडाविहारनारीरतिप्रमोदाः स्युः॥ २७७॥
तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः।
ये चैषामधिवासाः पुराणवादेषु पर्वताः कथिताः।
सम्भोगस्तेषु भवेत् कर्मारम्भस्तथा तस्मिन्॥ २७८॥
वाक्यार्थाभिनयोऽयं प्रकीर्तितो नाटकादिभेदेन।
द्वादशविधपदार्थाभिनयमथ यथास्थितं वक्ष्ये॥ २७९॥
(पदार्थाभिनयः)
तत्र श्रीरिव दानवशत्रोर्यस्मिन् कुलाङ्गना पत्युः।
वर्णयति शौर्यधैर्यप्रभृतिगुणानग्रतस्सख्याः॥ २८०॥
पत्या च विप्रलब्धा गातव्ये तं क्रमादुपालभते।
श्रीगदितमिति १३ मनीषिभिरुदाहृतोऽसौ पदाभिनयः॥ २८१॥
चौर्यरतप्रतिभेदं यूनोरनुरागवर्णनं वापि।
यत्र ग्राम्यकथाभिः कुरुते किल दूतिका रहसि॥ २८२॥
मन्त्रयति च तद्विषय(ये) न्यग्जातित्वेन याचते च वसु।
लब्ध्वापि लब्धुमिच्छति दुर्मिलिका१४ नाम सा भवति॥ २८३॥
प्रथमानुरागमानप्रवासशृङ्गारसंश्रयं यत् स्यात्।
प्रावृड्वसन्तवर्णनपरमन्यद् वापि सोत्कण्ठम्॥ २८४॥
अन्ते वीररसाढ्यैर्निबद्धमेतच्चतुर्भिरपसारैः।
प्रस्थानमित१५ ब्रुवते प्रवासमुपलक्षयेत् सुधियः॥ २८५॥
आक्षिप्तिकाथ वर्णो मात्रा ध्रुवकोऽथ भग्नतालश्च।
पद्धतिकाच्छर्धनिका यत्र स्युस्तदिह १६काव्यमिति॥ २८६॥
युक्तं लयान्तरैर्यच्च ध्वनिकास्थाननिर्मितैर्भवति।
काव्यमिति; विविधरागं चित्रमिति तदुच्यते कृतिभिः॥ २८७॥
हरिहरभानुभवानीस्कन्दप्रमथाधिपस्तुतिनिबन्धः।
उद्धतकरणप्रायः स्त्रीवर्जो वर्णनायुक्तः॥ २८८॥
धवलगुणकीर्तनपरैर्गाथारम्भादिभिः स्तुतिनिबन्धः।
गायनसहोक्तियुक्तोदन्तेन विभूषितप्रायः॥ २८९॥
त्रिचतुःपञ्चवितालैर्विश्रामैः सप्तभिः परिच्छिन्नः।
अर्धोद्ग्राहनिवारणसंख्यातैः कुत्रचिन्नियतः॥ २९०॥
समविश्रामैर्द्विपथैर्विभूषितः पञ्चमे विपरिवर्ते।
गाथामात्राद्विपथकपाठ्येनालङ्कृतो भवति॥ २९१॥
वर्णोऽथ मत्तपाली सभग्नताला त्वनन्तरं गाथा।
अनुभग्नतालमात्रे प्रथमे स्याद् भग्नतालश्च॥ २९२॥
मात्रानु च मार्गणिका मात्राथ ततोऽनु भग्नतालश्च।
गाथाद्विपथवहन्तो विश्रामे स्याद् द्वितीये तु॥ २९३॥
मात्रा विषमच्छिन्ना सभग्नतालाथ भवति रध्वाथ्या च।
मार्गणिकेत्येवं स्यात् तालविधानं तृतीये तु॥ २९४॥
मात्राद्विपथवहन्तो रध्वाथ्यावस्थापनं चतुर्थे स्युः।
रध्वा/थ्याथ भग्नतालो मार्गणिकाद्विपथविषमाश्च॥ २९५॥
पञ्चमके षष्ठेऽप्यथ रध्वा/थ्यानु च भग्नतालः स्यात्।
द्विपथकमार्गणिके च स्यातामथ सप्तमे शृणुत॥ २९६॥
रध्वा/थ्याथ भग्नतालश्शुद्धे भाणे क्रमः प्रदिष्टोऽयम्।
सङ्कीर्णभाणभणितिः कार्या स्यादुभयसंयोगात्।
किञ्चिदनुद्धतभावात् तालक्रमवर्जनाच्च चित्रोऽयम्॥ २९७॥
इति शुद्धः संकीर्णश्चित्रश्च मतस्त्रिधा भाणः।
यदि वैष शुद्धवाचा शुद्धः संकीर्णयाथ संकीर्णः॥ २९८॥
सर्वाभिर्भाषाभिश्चित्रैश्च विचेष्टितैश्चित्रः।
अयमुद्धतोऽथ ललितो भाणो ललितोद्धतश्च सम्भवति॥ २९९॥
अर्थानामौद्धत्याल्लालित्यादुभयभावाच्च।
यद् दुष्करमभिनेयं चित्रं चात्युद्भटं च यद् भवति।
तद्भाणकेऽभिधेय१७ युतमनुतालैर्वितालैश्च॥ ३००॥
सोऽत्रैवान्तर्भाव्यो यो भाणो नन्दिमालिनामा स्यात्।
भिन्नः कैश्चित् कथितो भरतमतं सम्यगविदित्वा॥ ३०१॥
आकाशपुरुषमुद्दिश्य वस्तु यत् पठ्यतेऽथवा क्रियते।
विश्लिष्टोद्भटभावप्रयोगमिह नन्दिमाली सः॥ ३०२॥
प्रायो हरिचरितयुता स्वीकृतगाथादिवर्णमात्रा च।
सुकुमारतः प्रयोगाद् भाणोऽपि हि भाणिका१८ भवति॥ ३०३॥
दिव्याभिश्चारीभिर्विवर्जिता ललितकरणसंयुक्ता।
तालान्तरालनृत्ता क्वचिदपि रध्वा/यादिसङ्कलिता॥ ३०४॥
अर्धोद्ग्राहनिवारणगायनसहवचनमत्तपालीभिः।
विश्रामैश्च विहीना स्त्रीयोज्या वर्जितैः/तस्तालैः॥ ३०५॥
वस्तूनि भाणिकाया नव दश वा नियमतो विधीयन्ते।
नवमाद्यपञ्चमेषु स्थानेषु च भग्नतालः स्यात्॥ ३०६॥
स्थानान्तरेषु चास्यां लयतालविधिर्यदृच्छया क्रियते।
विविधवचोविन्यासैस्सभ्यजनोत्साहसम्पत्तिः ॥ ३०७॥
गोष्ठे यत्तु विहरतश्चेष्टितमिह कैटभद्विषः किंचित्।
रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति १९गोष्ठीति॥ ३०८॥
यन्मण्डलेन नृत्तं स्त्रीणां २०हल्लीसकं तु तत् प्राहुः।
तत्रैको नेता स्याद् गोपस्त्रीणामिव मुरारिः॥ ३०९॥
यस्य पदार्थाभिनयं ललितलयं सदसि नर्तकी कुरुते।
तन्नर्तनकं२१ शम्यालास्यच्छलिकद्विपद्यादि॥ ३१०॥
रथ्यासमाजचत्वरसुरालयादौ प्रवर्त्यते बहुभिः।
पात्रविशेषैर्यत् तत् प्रेक्षणकं२२ कामदहनादि॥ ३११॥
षोडश द्वादशाष्टौ वा यस्मिन् नृत्यन्ति नायिकाः।
पिण्डीबन्धादिविन्यासै रासकं२३ तदुदाहृतम्॥ ३१२॥
पिण्डनात्तु भवेत्पिण्डी गुम्फनाच्छुङ्खला भवेत्।
भेदनाद् भेद्यको जातो लता जालापनोदनः॥ ३१३॥
एते नृत्तात्मकाः कार्या नाट्यवन्तः क्रियाविधौ।
सुकुमारोद्धतैरङ्गैर्गायिकाभिर्विलक्षणाः ॥ ३१४॥
वाक्यस्यावधयो ह्येते पिण्ड्याद्या ब्रह्मणोऽङ्गजाः।
न पदैरभिधीयन्ते ह्यनुकार्यानुरूपिणः॥ ३१५॥
कामिनीभिर्भुवो भर्तुश्चेष्टितं यत्तु नृत्यते।
रागाद् वसन्तमासाद्य स ज्ञेयो नाट्यरासकः२४॥ ३१६॥
चर्चरीति च तामाहुर्वर्णतालेन तत्र तु।
प्रविशेत् कामिनीयुग्मं समचार्यदिशिक्षितम्॥ ३१७॥
वामदक्षिणसञ्चारैरङ्गैस्तेन परिष्कृतम्।
ततस्तदेव वर्णं तदालीढद्वयसंस्थितम्॥ ३१८॥
छोटिकाभिर्द्रुतं तालं वादकानां प्रदर्शयेत्।
पञ्चघातकसंज्ञोऽर्थश्छेदः तस्मात् प्रवर्तते॥ ३१९॥
नृत्तेन विभजेत् खण्डैश्चतुर्भिस्त्रिभिरेव वा।
अन्योन्याङ्किसञ्चारैर्हस्ततालैर्मिथः कृतैः॥ ३२०॥
परिक्रम्य च निष्क्रामेत् ततोऽन्यद् द्वितयं विशेत्।
एककालं तु निस्सन्धिप्रवेशो निर्गमस्तयोः॥ ३२१॥
पुष्पाञ्जलिप्रयोगं तु मात्रातालेन योजयेत्।
उभयोः पार्श्वयोः पश्चात् पात्राणि प्रविशन्ति च॥ ३२२॥
यद् दार्पणकतालेन रथ्यावर्णादिवर्णकैः।
शुष्कगीतप्रयोगं तु ततो गायन्ति गायनाः॥ ३२३॥
लताख्यैर्भेद्यकैर्गुल्मैर्नानावृ/नृत्तप्रदर्शकैः ।
पात्रैरेकत्र संयुक्तं पिण्डीबन्धं तु कारयेत्॥ ३२४॥
ततो वलिनिकातालं शुष्कवर्णप्रयोगतः।
मुरजाक्षरवाद्यैस्तु हन्याद्दण्डं तु दण्डकैः॥ ३२५॥
एवं नृत्तक्रमेणान्यो ह्यपसारस्समाप्यते।
अपसारत्रयं चान्यत् कल्प्यते साम्प्रतं मया॥ ३२६॥
तत्रापि पूर्ववन्नृत्तं कामतस्तु लयक्रमः।
कथितो रासकप्रान्ते शुभार्थो वचनक्रमः॥ ३२७॥
लब्ध्वा दुग्धमहोदधौ सुरगणैः पीत्वाऽमृतं यस्तदा पिण्डीशृङ्खलिकाविशेषविहितो युक्तो लताभेद्यकैः।
चित्रातोद्यपदक्रमैर्लययुतो भेदद्वयालङ्कृत— श्चारीखण्डसुमण्डलैरनुगतः सोऽयं मतो रासकः॥ ३२८॥
(श्रव्यप्रबन्धः —२४)
अथानभिनेयभेदाः। तेषु—
कन्यापहारसङ्गरसमागमाभ्युदयभूषितं यस्याम्।
नायकचरितं ब्रूते नायक एवास्य वानुचरः॥ ३२१॥
वक्त्रापरवक्त्रवती सोच्छ्वासा संस्कृतेन गद्येन।
साऽऽख्यायिकेति कथिता माधविका—हर्षचरितादि॥ ३३०॥
नल—सावित्री—षोडशराजोपाख्यानवत् प्रबन्धान्तः।
अन्यप्रबोधनार्थं यदुपाख्याति तदुपाख्यानम्॥ ३३१॥
आख्यानकसंज्ञां तल्लभते यद्यभिनयन् पठन् गायन्।
ग्रन्थिक एकः कथयति गोविन्दवदवहिते सदसि॥ ३३२॥
निश्चीयते तिरश्चामतिरश्चां वा यत्र चेष्टाभिः।
कार्यमकार्यं वा तन्निदर्शनं पञ्चतन्त्रादि॥ ३३३॥
धूर्तविट—कुट्टनीमतमयूरमार्जारिकादि यल्लोके।
कार्याकार्यनिरूपणरूपमिह निदर्शनं तदपि॥ ३३४॥
यत्र द्वयोर्विवादः प्रधानमधिकृत्य जायते सदसि।
सार्धप्राकृतरचिता प्रवह्लिका चेटकप्रभृति॥ ३३५॥
क्षुद्रकथा मन्थुल्ली येह महाराष्ट्रभाषया भवति।
गोरोचनेव कार्या सानङ्गवतीव वा कविभिः॥ ३३६॥
यस्यामुपहासः स्यात् पुरोहितामात्यतापसादीनाम्।
प्रारब्धानिर्वाहे सापि हि मन्थुल्लिका भवति॥ ३३७॥
मणिकुल्यायां जलमिव न लक्ष्यते यत्र पूर्वतो वस्तु।
पश्चात् प्रकाशते सा मणिकुल्या मत्स्यहसितादि॥ ३३८॥
याऽनियमितगतिभाषा दिव्यादिव्योभयेतिवृत्तवती।
कादम्बरीव लीलावतीव वा सा कथा कथिता॥ ३३९॥
पर्यायेण बहूनां यत्र प्रतियोगिनां कथाकुशलैः।
श्रूयन्ते शूद्रकवज्जिगीषुभिः परिकथा सा तु॥ ३४०॥
ग्रन्थान्तरप्रसिद्धं यस्यामितिवृत्तमुच्यते विबुधैः।
मध्यादुपान्ततो वा सा खण्डकथा यथेन्दुमती॥ ३४१॥
यत्राश्रित्य कथान्तरमतिप्रसिद्धं निबध्यते कविभिः।
चरितं विचित्रमन्यत् सोपकथा चित्रलेखादि॥ ३४२॥
लम्भाङ्किताद्भुतार्था पिशाचभाषामयी महाविषया।
नरवाहनदत्तादेश्चरितमिव बृहत्कथा भवति॥ ३४३॥
याऽऽख्यायिकैव साङ्का सोच्छ्वासा दिव्यपद्यगद्यमयी।
सा दमयन्ती—वासवदत्तादिरिहोच्यते चम्पूः॥ ३४४॥
यस्मिन्नितिहासार्थाश्छन्दोभिस्संस्कृतेन बध्यन्ते।
बहवः स पर्वबन्धो भवति महाभारतप्रभृतिः॥ ३४५॥
यत्रेतिहासमखिलं यथास्थितं चैकमेव भाषन्ते।
ऋषयस्य काण्डबन्धो रामायणसन्निभो भवति॥ ३४६॥
यस्मिन्नितिहासार्थान् अपेशलान् पेशलान् कविः कुरुते।
स हयग्रीववधादिप्रबन्ध इव सर्गबन्धः स्यात्॥ ३४७॥
यः सर्गबन्धतुल्यो निबध्यते प्राकृतेन शुद्धेन।
आश्वासकबन्धोऽसौ विज्ञेयः सेतुबन्धादिः॥ ३४८॥
योऽपभ्रंशनिबन्धो मात्राच्छन्दोभिरभिमतोऽल्पधियाम्।
वाच्यस्स सन्धिबन्धश्चतुर्मुखोक्ताब्धिमथनादि॥ ३४९॥
य इह द्विचारिकावाग्ग्राम्यगिरा गीयते गभीरोक्तः।
सोऽवस्कन्धकबन्धोऽभिधीयते भीमकुल्यादि॥ ३५०॥
यत्रार्थश्शास्त्राणां काव्येऽभिनिवेश्यते महाकविभिः।
तद्भट्टिकाव्यमुद्राराक्षसवत् काव्यशास्त्रं स्यात्॥ ३५१॥
शास्त्रं यत्र कवीनां रहस्यमुपकल्पयन्त्यनल्पधियः।
तद्रतिविलासकामन्दकीयवच्छास्त्रकाव्यं तु॥ ३५२॥
कोश इव यः सुभाषितरत्नसमूहात्मकः समुद्ध्रियते।
महतः काव्याम्भोधेः स कोश इह सप्तशतिकादि॥ ३५३॥
एकप्रघट्टके यस्त्वेककृतो भवति सूक्तिसमुदायः।
सङ्घातस्स निगदितो बृन्दावनमेघदूतादि॥ ३५४॥
यस्यां सन्धीयन्ते मनीषिभिर्विप्रकीर्णवृत्तान्ताः।
सा संहितेति गदिता यदुवंशदिलीपवंशादि॥ ३५५॥
यस्मिन्नशेषविद्यास्थानार्थविभूतयः प्रकाशन्ते।
संहत्य स साहित्यप्रकाशः १एतादृशो भवति॥ ३५६॥
१. एतादृश शृङ्गारप्रकाशसदृशः। एतस्मिन् हि शृङ्गारप्रकाशे सुप्रकाशमेवाशेषशास्त्रार्थसम्पदुपनिषदाम् अखिलकलाकाव्यौचित्यकल्पनारहस्यानां च सन्निवेशो दृश्यते।
अथैतेषामुभयेषामपि प्रबन्धस्कन्धभेदानामवैशेषिको वैशेषिकश्च गुणालङ्कार— लक्षणयोगो रसावियोगहेतुर्भवति। तत्र
गुणो द्वेधा — शब्दगुणोऽर्थगुणश्च।
अलङ्कारोऽपि शब्दालङ्कारोऽर्थालङ्कारश्च। ताभ्यामुभयगुणालङ्कारा व्याख्यातः(ताः)।
त एते गुणा अलङ्काराश्चाविशेषेण। लक्षणं तु त्रिविधमपि विशेषेण व्याख्यायते। तत्र— महाकाव्यादौ यथासम्भवम्, असंक्षिप्तग्रन्थत्वमविषमबन्धत्वं, श्रव्यवृत्तत्वम्, अनतिविस्तीर्णसर्गादित्वम्, सुश्लिष्टसन्धित्वं चेति शब्दगुणाः।
चतुर्वर्गसुफलायत्तत्वं, चतुरोदात्तनायकत्वं, रसभावनिरन्तरत्वं, विधिनिषेधव्यु— त्पादकत्वं, सुसूत्रसंविधानकत्वमित्यर्थगुणाः।
रसानुरूपसन्दर्भत्वं पात्रानुरूपभाषत्वमर्थानुरूपच्छन्दस्त्वं समस्तलोकरञ्जकत्वं सदलङ्कारवाक्यत्वमित्युभयगुणाः;
नमस्काराद्युपक्रमत्वं, संबन्धादिमदादिवाक्यत्वं, दुष्कर(सम)संस्कृतादिवाक्यत्वं, भिन्नवृत्तसर्गान्तत्वं, कविभावाङ्कितसमाप्तित्वमिति शब्दालङ्काराः।
नगराश्रमशैलसैन्यावासार्णवादिवर्णनम्, ऋतुरात्रिन्दिवार्कास्तमयचन्द्रोदयादि— वर्णनं, नायकनायिकाकुमारसहायवाहनादिवर्णनम्, मन्त्रदूतप्रयाणसङ्ग्रामाभ्युदया— दिवर्णनं, वनविहारजलक्रीडामधुपानमानापगमरतोत्सवादिवर्णनमित्यर्थालङ्काराः।
बीजबिन्दुपताकाप्रकरीकार्योपकल्पनं, गर्भाङ्कचूलिकाङ्कावतारविष्कम्भक— प्रवेशकविधानं, देशकालपात्रचेष्टाकथान्तरानुषञ्जनं, द्विसन्धानं, मार्गद्वयानुवर्तन— मित्युभयालङ्काराः।
तत्रासङ्क्षिप्तग्रन्थत्वमित्यनेन ग्रन्थगौरवमाचक्षाणः कथारसविच्छेदशङ्किनां मनांस्यावर्जयति।
अविषमबन्धत्वमित्यनेन शब्दसन्दर्भवेदिनां मनोमुदमादधाति।
श्रव्यवृत्तत्वमित्यनेन यद्यपि पद्यभेदत्वान्महाकाव्यादेः सर्वापि चतुष्पदी समाकृष्टा, तथापि यान्येव श्रुतिसुखमुपजनयन्ति वृत्तानि तान्येव निबन्धनीयानीति दर्शयन् श्रोतृजनं प्रोत्साहयति।
अनतिविस्तीर्णसर्गादित्वमित्यनेन ग्रन्थविस्तरभीरूणां चित्तमाकर्षयति। सुश्लिष्टसन्धित्वमित्यनेन तु सर्गादीनां परस्परमेकवाक्यतया महावाक्यात्मकस्य प्रबन्धस्योपकारित्वं दर्शयति।
चतुर्वर्गफलायत्तत्वमित्यनेन चत्वारो वर्गा धर्मार्थकाममोक्षाः, त एव व्यस्ताः समस्ता वा फलं, तत्साधनोपायविषयं महाकाव्यादीति ज्ञापयन् मुक्तकादिभ्यो भेदमाचष्टे।
चतुरोदात्तनायकत्वमित्यनेन कथाशरीरव्यापिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमभिदधान आशयविभूत्योरप्युत्कर्षमभिदधाति।
रसभावनिरन्तरत्वमित्यनेन रसग्रहणेनापि तत्कारणभूतानां भावानां परिग्रहे पृथग्भावग्रहणेन रसभावानां परस्परं कार्यकारणभावमभिदधद् रसेभ्यो भावा भावेभ्यो रसा रसेभ्यश्च रसा इति नैरन्तर्यस्य, रसभावबहुत्वस्यान्वयेन भोजनस्येवैकरसस्य प्रबन्धस्यापि वैरस्यमपाकरोति।
विधिनिषेधव्युत्पादकत्वेन तु गुणवतो नायकस्योत्कर्षप्रकाशनेन दोषवतश्चोच्छेदप्रदर्शनेन जिगीषुणा गुणवतैव भाव्यं, न दोषवतेति व्युत्पादयति।
सुसूत्रसंविधानकत्वमित्यनेन प्रोक्तलक्षणा वक्ष्यमाणलक्षणाश्च पदार्थास्तथा निबन्धनीयाः, यथा प्रबन्धस्य शोभायै भवन्तीति कवीन् शिक्षयति।
रसानुरूपसन्दर्भत्वमित्यनेन रतिप्रकर्षे कोमल उत्साहप्रकर्षे प्रौढः क्रोधप्रकर्षे कठोरः शोकप्रकर्षे मृदुः विस्मयप्रकर्षे तु स्फुटः शब्दसन्दर्भो विरचनीय इत्युपदिशन् ‘नैकमोजः प्रसादो वा रसभावविदः कवेः’ (माघ. २.८३) इति ख्यापयति।
पात्रानुरूपभाषत्वमित्यनेन उत्तमपात्राणि संस्कृतेन १उत्तमाधमानि प्राकृतेन, मध्यमानि शौरसेन्या जघन्यान्यपभ्रंशेन तदपराणि मागधिकया भाषन्त इति ज्ञापयन् भिन्नभाषेषु भाषाचित्राणामवकाशं ददाति। १. चेट्याद्यपेक्षयोत्तमत्वं नायकाद्यपेक्षया चाधमत्वमिति राजमहिष्यादयोऽत्र ग्राह्याः उत्तमेष्वधमानीति विगृह्य। अर्थानुरूपच्छन्दस्त्वमित्यनेन शृङ्गारे द्रुतविलम्बितादयो, वीरे वसन्ततिल— कादयः, करुणे वैतालीयादयः, रौद्रे स्रग्धरादयः, सर्वत्र शार्दूलविक्रीडितादयो निबन्धनीया इत्युपदिशति।
समस्तलोकरञ्जकत्वमित्यनेन अलौकिकतां परिहरन् कीर्त्तिप्रीतिनिबन्धनस्य प्रबन्धस्य लोके प्रतिष्ठया कवेः प्रयासवैयर्थ्यमपाकरोति।
सदलङ्कारवाक्यत्वमित्यनेन तु यद्यप्युपात्तलक्षणानां शब्दार्थोभयगुणानां स्वरूपसौन्दर्येणैव काव्यशोभाकरत्वं तथाप्यलङ्कारवत्तैवैनं भारमुद्वोढुमलमित्येतदुपर्युप— देशेनोपपादयति।
तेऽमी शब्दार्थोभयगुणा महाकाव्येषु रसावियोगहेतवो भवन्ति।
एवमलङ्कारा अपि।
तत्र नमस्काराद्युपक्रमत्वमित्यनेन नमस्कारः स्तुतिराशीर्वस्तुनिर्देशो वस्तूपक्षेप इत्युपलक्ष्यन्ते। तत्र
नमस्कारो यथा हर्षचरिते—
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे॥ ३५७॥
स्तुतिर्यथा रघुवंशे—(रघु.१.१)
वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥ ३५८॥
आशीर्यथा हरिविलासे—
ओमित्येतत्परं ब्रह्म श्रुतीनां मुखमक्षरम्।
प्रसीदत् सतां स्वान्तेष्वेकं त्रिपुरुषीमयम्॥ ३५९॥
वस्तुनिर्देशो यथा हयग्रीववधे—
आसीद् दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः।
वदन्ति स्म बलं बाह्वोः सितच्छत्रस्मिताः श्रियः॥ ३६०॥
वस्तूपक्षेपो यथा मारीचवधे—
मअवह-णिमित्तणिग्गअ-मइंदसुण्णं गुहं णिएऊण।
लद्धावसरो गहिऊण मोत्तिआइं गओ वाहो॥ ३६१॥
(मृगवधनिमित्तनिर्गतमृगेन्द्रशून्यां गुहां निरूप्य।
लब्धावसरो गृहीत्वा मौक्तिकानि गतो व्याधः॥)
संबन्धादिमदादिवाक्यत्वमित्यनेन स्ववंशादिकीर्तनं, वक्तव्यार्थप्रतिज्ञानं, तत्प्रयोजनोपन्यासः, कविप्रशंसा, दुर्जनसुजनस्वरूपमित्यादयः संगृह्यन्ते। तत्र—
स्ववंशादिकीर्तनं यथा कादम्बर्याम्—‘बभूव वात्स्यायनवंशसंभव’ इत्युपक्रम्य,
द्विजेन तेनाक्षतकण्ठकौण्ठ्यया महामनोमोहमलीमसान्धया।
अलब्धवैदग्ध्यविलासमुग्धया धिया निबद्धेयमतिद्वयी कथा॥ ३६२॥
वक्तव्यार्थप्रतिज्ञानं यथा सेतुबन्धे—(१.१२)
तं तिअसबंदिमोक्खं समत्थतेल्लोक्कहिअअसल्लुद्धरणं।
सुणह अणुराअइण्हं सीआदुक्खक्खअं दहमुहस्स वहं॥ ३६३॥
(तं त्रिदशबन्दिमोक्षं समस्तत्रैलोक्यहृदयशल्योद्धरणम्।
शृणुतानुरागचिह्नं सीतादुःखक्षयं दशमुखस्य वधम्॥)
प्रयोजनोपन्यासो यथा तत्रैव—(सेब. १.१०)
परिवढ्ढइ विण्णाणं संभाविज्जइ जसो विढप्पंति गुणा।
सुव्वइ सुउरिसचरिअं किं तं जेण ण हरंति कव्वालावा॥ ३६४॥
(परिवर्धते विज्ञानं संभाव्यते यशोऽर्ज्यन्ते गुणाः।
श्रूयते सुपुरुषचरितं किं तद् यन्न हरन्ति काव्यालापाः॥)
कविप्रशंसा यथा रावणविजये—
सअलं चेअ णिबंधं दोहि पएहि कलुसं पसण्णं च ठिअं।
जाणंति कईण कई सुद्धसहावेहि लोअणेहि व हिअअं॥ ३६५॥
(सकलमेव निबन्धनं द्वाभ्यां पदाभ्यां कलुषं प्रसन्नं च स्थितम्।
जानन्ति कवीनां कवयः शुद्धस्वमावाभ्यां लोचनाभ्यामिव हृदयम्॥)
दुर्जनसुजनस्वरूपं यथा कादम्बर्याम्—
कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव।
मनस्तु साधुध्वनिभिः पदेपदे हरन्ति सन्तो मणिनूपुरा इव॥ ३६६॥
दुष्करसमसंस्कृतादिसर्गत्वमित्यनेन गोमूत्रिकामुरजबन्धैकाक्षरपादयमकमाषा— चित्रादय उपलक्ष्यन्ते। तेषु —
गोमूत्रिका यथा किरातार्जुनीये—(किराता. १५.१२)
नासुरोऽयं नवा नागो धरसंस्थो न राक्षसः।
नासुखोऽयं नवाभोगो धरणीस्थो हि राजसः॥ ३६७॥
मुरजबन्धो यथा शिशुपालवधे—(माघ.१९.२९)
सासेना गमनारम्भे रसेनासीदनारता।
तारनादजनामत्तधीरनागमनामया॥ ३६८॥
एकाक्षरपादो यथा (तत्रैव)—(माघ. १९.३)
जजौजोजाजिजिज्जा जी तं ततोऽतिततातितुत्।
भाभोऽभीभाभिभूभाभूरारारिररिरीररः ॥ ३६९॥
यमकं यथा तत्रैव—(माघ. १९.९)
पृथोरध्यक्षिपद् रुक्मी यया चापमुदायुधः।
तयैव वाचापगमं ययाचापमुदा युधः॥ ३७०॥
भाषाचित्रं मालतीमाधवे—(मामा. ६.११)
किं वा भणामि विच्छेददारुणायासकारिणि।
कामं कुरु वरारोहे देहि मे परिरम्भणम्॥ ३७१॥
भिन्नवृत्तसर्गान्तत्वमित्यनेन भिन्नपर्वान्तत्वं, भिन्नकाण्डान्तत्वं, भिन्नसर्गान्तत्वं, भिन्नाश्वासकान्तत्वं, भिन्नसन्ध्यन्तत्वमित्यादीन्युपसंगृह्यन्ते। सर्गग्रहणस्य छत्रिणो गच्छन्तीतिवत् सहचरितोपलक्षणत्वात्। एतेन वृत्तग्रहणेन न केवलं गणच्छन्दो मात्राक्षरच्छन्दोऽपि परिगृहीतं भवति।
ननु चाश्वासकबन्धेषु तत्समाप्तावपि न च्छन्गोभेद उपलभ्यते। तथा हि रावणविजय—हरिविजय—सेतुबन्धेषु आदितस्समाप्तिपर्यन्तमेकमेव च्छन्दो भवति। गलितकानि तु तत्र १व्यासकष्टवत् कैरपि विदग्धमानिभिरुपक्षिप्तानीति तद्विदो भाषन्ते।
मैवम्; मात्राच्छन्दसां स्कन्धकादीनां छन्दोविचितिष्वेकैकस्याप्यनन्तभेदत्वात्। अन्ये तु भिन्नवृत्ताः सर्गान्ताः पर्वकाण्डसर्गा एतेष्विति व्याचक्षते। तेनायमर्थः संपद्यते १. व्यासाष्टकवदिति तु स्यात्। पर्वणिपर्वणि काण्डेकाण्डे सर्गेसर्गे चान्यदन्यच्छन्दो निबन्धनीयमति। आश्वासकसन्धिबन्धयोस्तु सर्वत्र एकमेव च्छन्दो भवति।
तन्न सम्यक्; आश्वासकबन्धेऽपि भिन्नवृत्तान्तत्वदर्शनात्। तद्यथा हरिप्रबोधे आर्यागीतिच्छन्दोनिबन्धक आश्वासकान्ते पुष्पिताग्रा—
भगवति शयिते विभावरीणां द्युतिमपहृत्य यशोविभावरीणाम्।
गतमससितया(?) विभावरीणां सघनमहस्समताविभावरीणाम्॥ ३७२॥
सन्धिबन्धेषु च नाराचतोटकादीनि विचित्राणि च्छन्दांसि दृश्यन्ते। एकेनेव अनुष्टुब्जात्यादिना छन्दसा बहवः सर्गकाण्डादयो रघुवंश—रामायणादिषूपलभ्यन्ते। तस्मादुपक्रान्तवृत्तव्युदासेन सर्गादीनां वृत्तान्तरैरुपसंहारः कर्तव्य इत्येतदेव व्याख्यानं श्रेयः। तद्यथा कुमारसम्भवे—(कुसं.२.६४)
अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा॥ ३७३॥
कविभावाङ्कितसमाप्तिवाक्यत्वमित्यनेन ‘स्वाभिप्रायाङ्कता स्वनामाङ्कता इष्टनामाङ्कता, मङ्गलाङ्कता, आशंसाङ्कता’ च संगृह्यन्ते। तेषु —
अभिप्रायाङ्कता यथा धैर्यमाढ्यराजस्य, उत्साहः सर्वसेनस्य, अनुरागः प्रवरसेनस्येति।
स्वनामाङ्कता यथा स्वप्रबन्धेषु गोविन्दचतुर्मुखादीनां, यथा च राजशेखरस्य हरविलासे।
इष्टनामाङ्कता यथा लक्ष्म्यङ्कता किराते भारवेः, श्रयङ्कता शिशुपालवधे माघस्य, चतुर्मुख—गोविन्द—चन्द्रशेखरेष्टदेवतानामाङ्कता च पूर्वोक्तेषु पूर्वोक्तानामिति।
मङ्गलाङ्कता यथा— अभ्युदयः कृष्णचरिते, जय उषाहरणे, आनन्दः पञ्चशिखशूद्रककथायामिति।
आशंसा(ङ्कता) धर्मार्थकाममोक्षविषया। तासु
धर्मविषया यथा उत्तररामचरिते—(उ.रा.च. ७.२१)
पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि येयं कथा
मङ्गल्या च मनोहरा च जगतां मातेव गङ्गेव च।
तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः
शब्दब्रह्मविदः कवेः परिणतप्रज्ञस्य वाणीमपि॥ ३७४॥
अर्थविषया यथा—(विक्रमो. ५.२४)
परस्परविरोधिन्योरेकसंश्रयदुर्लभम् ।
संगतं श्रीसरस्वत्योर्भूतयेऽस्तु सतां भुवि॥ ३७५॥
कामविषया यथा—
मम हृदयमशङ्कितव्यलीकं समसुखदुःखमजातविप्रयोगम्।
अनुभवतु मुदः सदैव यूनां मिथुनमभीष्टतमास्तव प्रसादात्॥ ३७६॥
मोक्षविषया यथा—(शाकु. ७.३५)
प्रवर्ततां प्रकृतिहिताय पार्थिवः, सरस्वती श्रुतिमहतां महीयताम्।
ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः॥ ३७७॥
एतेनान्यदपि व्याख्यातम्। तद्यथा—
यावल्लीलावतीनामनणुमणिरणत्किङ्किणीक्वाणकूजत्— काञ्चीदामोपनद्धाः पृथुजघनतटीः पञ्चबाणोऽधिशेते।
यावच्च भ्रूविलासस्सकलजनमनोहारिणः सुन्दरीणां तस्यैवास्त्रीभवन्ति त्रिभुवनविजये तावदेवास्तु कीर्त्तिः॥ ३७८॥
नगराश्रमशैलसैन्यावासार्णववर्णनमित्यनेन अर्थालङ्कारेषु देशप्रशंसामुपदिशति। तत्र —
नगरवर्णनं यथा सेतुबन्ध—हरिविजय—शिशुपालवध—कुमारसम्भवादौ।
आश्रमवर्णनं यथा रघुवंश—किरातार्जुनीय—कादम्बरी—शाकुन्तलादौ।
शैलवर्णनं यथा किरातार्जुनीय—शिशुपालवध—सेतुबन्ध—हरिविजयादौ।
सैन्यावासवर्णनं यथा शिशुपालवध—किरातार्जुनीय—रावणविजय—रघुवंशादौ।
अर्णववर्णनं यथा सेतुबन्ध—हरिविजय—रघुवंशादौ।
ऋतुरात्रिन्दिवार्कास्तमयचन्द्रोदयादिवर्णनमित्यनेन कालावस्थोपवर्णनं लक्षयति। तत्र
ऋतुवर्णनं शरद्वसन्तग्रीष्मवर्षादिवर्णनानि सेतुबन्ध—हरिविजय—रघुवंश—हरिवंशादौ।
रात्रिवर्णनं यथा किरातार्जुनीय—कुमारसम्भव—शिशुपालवध—हयग्रीववधादौ।
दिवसवर्णनं x x x x x x
प्रभातपूर्वाह्णापराह्णमध्याह्नवर्णनानि शिशुपालवध—रामचरित—उत्तररामचरित— किरातार्जुनीयादौ।
अर्कास्तमयवर्णनं यथा कुमारसम्भव—हरिविजय—सेतुबन्धादौ।
चन्द्रोदयवर्णनं यथा कुमारसम्भव—किरातार्जुनीय—शिशुपालवध—सेतुबन्धादाविति।
नायकनायिकाकुमारसहायवाहनादिवर्णनमित्यनेन पात्रविशेषाभिनन्दनं सूचयति। तत्र
नायकवर्णनं यथा हरिविजय—रावणविजय—जानकीहरण—रघुवंशादौ।
नायिकावर्णनं यथा कुवलयाश्वचरित—कुमारसम्भव—जानकीहरण—सुभद्राहरणादौ।
कुमारवर्णनं यथा रघुवंश—उत्तरचरित—कादम्बरी—हर्षचरितादौ।
सहायवर्णनं यथा रामायण—महाभारत—बृहत्कथा—मालतीमाधवादौ।
वाहनवर्णनं यथा हर्षचरित—कादम्बरी—हरिविजय—रावणविजयादौ।
हस्त्यश्वगरुत्मत्पुष्पकादिवर्णनादि।
मन्त्रदूतप्रयाणसङ्ग्रामाभ्युदयवर्णनमित्यनेन अर्थप्रधानचेष्टानामुपदेशात् ‘चतुर्वर्गफलत्वेऽपि भूयसार्थोपदेशकृत्’ महाकाव्यादिकं भवतीत्यभिधत्ते। पुरुषकारायत्तां च नायकस्य सिद्धिं सूचयति। तत्र
मन्त्रः पञ्चाङ्गः कर्मणामारम्भोपायः पुरुषद्रव्यसम्पत् देशकालविभागः विनिपातप्रतीकारः कार्यसिद्धिश्चेति। स यथा किरातार्जुनीय—शिशुपालवध— हयग्रीववध—भट्टिकाव्यादौ।
दूतस्त्रिधा— निसृष्टार्थः, परिमितार्थः शासनहरश्च। तत्र
निसृष्टार्थो यथा उद्योगपर्वणि वासुदेवः, हरिविजये वा सत्यकः।
परिमितार्थो यथा रामायणेऽङ्गदः।
शासनहरो यथा कादम्बर्यां केयूरक इति।
प्रयाणं त्रिधा— स्वशक्त्युपचये, परव्यसने, अभिमतार्थसिद्धये च। तत्र
स्वशक्त्युपचये यथा रघुवंशे।
परव्यसने यथा जरासन्धव्यसनिनः शिशुपालस्योच्छेदाय वासुदेवस्य शिशुपालवधे।
अभिमतार्थसिद्धये यथा विष्णोः पारिजातहरणाय हरिविजये, यथा वा दिव्यास्त्रलाभायार्जुनस्य किरातार्जुनीय इति।
सङ्ग्रामस्त्रिधा— समो, विषमः, समविषम इति। तत्र
समो द्वन्द्वयुद्धे चतुरङ्गयुद्धे च। द्वन्द्वयुद्धं यथा रामरावणयोः। चतुरङ्गं यथा कुरुपाण्डवानाम्।
विषमो यथा रामस्य खरदूषणत्रिशिरोभिः सह।
चतुर्दशसहस्त्राणि चतुर्दश च रक्षसाम्।
हतान्येकेन रामेण मानुषेण पदातिना॥ ३७९॥
(वारा. ३.२६.३५) समविषमो यथा महेश्वरार्जुनयोः किरातार्जुनीये, रघुमघोनोर्वा रघुवंश इति।
अभ्युदयस्त्रिधा— अरिविजयः, स्त्रीलाभः, पुत्रोत्पत्तिरिति। तत्र—
अरिविजयो द्विधा— शत्रूच्छेदेन, तदुपनत्या च। स पूर्वो यथा रावणवधादौ।
द्वितीयो यथा हरिविजयादौ।
स्त्रीलाभो यथा इन्दुमतीस्वयंवरे।
पुत्रलाभो यथा दिलीपस्य रघुवंश इति।
वनविहारजलक्रीडामधुपानमानापगमरतोत्सवादिवर्णनमित्यनेन रसोद्दीपनविभावस्य सम्भोगशृङ्गारस्य उपदेशान्मन्त्रदूतप्रयाणसङ्ग्रामाभ्युदयादिभिस्तांस्तानर्थानधिगम्य तैस्तैर्विलासविशेषैः कामसेवया तदुपयोगः कर्तव्य इति शिक्षयति। तत्र
वनविहारो द्विधा— मृगयादिभिः पुष्पापचयादिभिश्च।
तत्राद्यो यथा दशरथस्य रघुवंशे, दुष्यन्तस्य शाकुन्तले।
द्वितीयो यथा यदूनां शिशुपालवधे, अप्सरसां वा किरातार्जुनीये इति।
जलक्रीडा द्विधा— एकस्य वा बह्वीभिः स्वयोषाभिर्बहूनां वा बह्वीभिः यथास्वमङ्गनाभिः।
तत्राद्या यथा कार्तवीर्यस्य नर्मदायां, कुशस्य वा सरय्वाम्।
द्वितीया यथा अप्सरसां वा सिद्धसिन्धौ, यदूनां वा रैवतकह्रद इति।
मधुपानं द्विधा; गोष्ठीगृहे वासभवने च।
तत्राद्यं यथा हरिविजये शिशुपालवधे च।
द्वितीयं यथा कुमारसम्भवे किरातार्जुनीये च।
मानापगमो द्विधा— प्रायत्निको नैमित्तिकश्च।
प्रायत्निको यथा हरिविजये सत्यभामायाः, रत्नावल्यां वासवदत्तायाः; नैमित्तिको यथा रामातङ्कान्निशाचरीणां सेतुबन्धे, यथा वा मलयमारुतेन्दूदयादिभ्यो महाप्रबन्धेषु।
रतोत्सवोऽपि द्विधा— सामान्यतो विशेषतश्च।
सामान्यतो यथा किरातार्जुनीये शिशुपालवधे च।
विशेषतो यथा कुमारसम्भवे जानकीहरणे चेति।
बीजबिन्दुपताकाप्रकरीकार्योपकल्पनमित्यनेन पञ्चानामर्थपुकृतीनां प्रयोगे संपूर्णम्।
प्रबन्धशरीरमध्य एवैकद्वित्रिलोपे त्वपरिपूर्णमिति उपवर्णयति। तत्र
अल्यमात्रमुपक्षिप्तं बहुधा यद् विसर्पति।
फलावसानं यच्च स्यात् तद् बीजमिह कीर्तितम्॥
(नाशा. १९.२२) तद्यथा—
धूर्तैर्यच्छ्वपचीकृतो वररुचिः सर्वज्ञकल्पोऽपि सञ् जीवन्नेव पिशाचतां च गमितो भत्स्युर्यदभ्यर्च्यधीः।
छन्दोगोऽयमिति प्रभाकरगुरुर्देशाच्च निर्वासितो मद्वृत्तान्तविजृम्भितेन महता तत् सर्वमल्पीकृतम्॥ ३८१॥
प्रयोजनानां विच्छेदे यदविच्छेदकारणम्।
यावत्समाप्ति सम्बन्धः स बिन्दुरिति कीर्तितः॥ ३८२॥
यथा—
ध्वस्ताः क्षुद्राः धार्तराष्ट्रास्समस्ताः पीतं रक्तं स्वाद् दुश्शासनस्य।
पूर्णा कृष्णाकेशबन्धप्रतिज्ञा तिष्ठत्येकः कौरवस्योरुभङ्गः॥ ३८३॥
यस्या वृत्तं परार्थं स्यात् प्रधानस्योपकारकम्।
आत्मानुबन्धफलवत् सा पताकेति कीर्तिता॥ ३८४॥
यथा— (उराच. १.३२)
दिष्ट्या सैष महाबाहुरञ्जनानन्दवर्धनः।
यस्य वीर्येण कृतिनो वयं च भुवनानि च॥ ३८५॥
फलं प्रकल्पते यस्याः परार्थायैव केवलम्।
अनुबन्धविहीनां तां प्रकरीति विनिर्दिशेत्॥ ३८६॥
यथा—
सन्ध्याभ्रकपिशस्तत्र विराधो नाम राक्षसः।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः॥ ३८७॥
यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते।
यदर्थश्च समारम्भस्तत् कार्यमिति कीर्तितम्॥ ३८८॥
यथा—
आज्ञा कृता गुरूणां सुहृद्भिरपरिक्षतैरहं युक्तः।
दृष्टो भगवान् साक्षाद्देवी प्राप्ता प्रियं किमतः॥ ३८९॥
एषां त्वेकद्वित्रिलोपे नियम उच्यते—(नाशा. १९.१८)
एकलोपे चतुर्थस्य द्विलोपे त्रिचतुर्थयोः।
द्वितृतीयचतुर्थानां त्रिलोपे लोप इष्यते॥ ३९०॥
गर्भाङ्कचूलिकाङ्कमुखविष्कम्भकप्रवेशकविधानमित्यनेन संक्षेपाभिधानेनापि कथाशरीरस्याविच्छेदाद् रसाविच्छेदं रसान्तरतिरस्कारं च सूचयति। तत्र—
बीजार्थयुक्तिमान् अङ्को योऽङ्केष्वङ्कः प्रयुज्यते।
स नाटकेषु गर्भाङ्कोऽङ्कावतारश्च कथ्यते॥ ३९१॥
यथा बालरामायणे—(३.१२)
श्रवणैः श्रव्यमनेकैर्दृश्यं दीर्घैश्च लोचनैर्बहुभिः।
भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम्॥ ३९२॥
अन्तर्यवनिकासंस्थैः सूतादिभिरनेकधा।
अर्थोपक्षेपणं यत्र क्रियते सा हि चूलिका॥ ३९३॥
यथा वेणीसंहारे नेपथ्ये—(वेसं. ३.१९)
आचार्यस्य त्रिभुवनगुरोर्न्यस्तशस्त्रस्य शोकाद् द्रोणस्याजौ नयनसलिलच्छादिताक्षाननस्य।
मौलौ पाणिं पलितधवले न्यस्य कृत्वा नृशंसं धृष्टाद्युम्नः स्वशिबिरमयं याति सर्वे सहध्वे॥ ३९४॥
विशिष्टं मुखमङ्कस्य स्त्रिया वा पुरुषेण वा।
यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते॥ ३९५॥
यथा— मालतीमाधवे— ‘एषास्मि सौदामनी भगवतः श्रीपर्वतादुपेत्य’ इत्यादि॥
नीचमध्यमपात्राभ्यां मध्यमाभ्यां प्रयुज्यते।
तदङ्कमुखमेवेह विष्कम्भक इति स्मृतम्॥ ३९६॥
यथा—
{कामन्दकी— वत्से! अवलोकिते ! अवलोकिता— आणवेदु भअवदी (आज्ञापयतु भगवती।)}
कामन्दकी— अपि नाम कल्याणिनोरनयोर्भूरिवसुदेवरातापत्ययोर्मालतीमाधव— योरभिमतः पाणिग्रहः स्यादित्यादि। (मामा. १)
हीनाभ्यामेव पात्राभ्यामङ्कादौ यः प्रयुज्यते।
प्रवेशकस्स विज्ञेयः शौरसेन्यादिभाषया॥ ३९७॥
यथा— ततः प्रविशतश्चेट्यौ।
एका— सहि! संगीदसालापरिसरे अवलोइदादुदिआ भअवदी मंतअंती आसी। (सखि! संगीतशालापरिसरे अवलोकिताद्वितीया भगवती मन्त्रयन्ती आसीत्।)
द्वितीया— सहि! तेण किल माहवपिअवयस्सेण मअरन्देण सअलो मअरंदउज्जाणउत्तंतो भअवदीए णिवेदिदो। (सखि तेन किल माधवप्रियवयस्येन मकरन्देन सकलो मकरन्दोद्यानवृत्तान्तो भगवत्यै निवेदितः।) इत्यादि।
देशकालपात्रचेष्टाकथान्तरानुषञ्जनमित्यनेन परिपूर्णाङ्गेऽपि संविधानके देशकालाद्यविरोधेन तद्वर्णनादिकं निर्दिशति। तत्र
देशान्तरानुषञ्जनं यथा शिशुपालवधे— (माघ. ४.१०)
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः॥ ३९८॥
कालान्तरानुषञ्जनं यथा किरातार्जुनीये—(किराता. १०.१८)
सपदि हरिसखैर्वधूनिदेशाद् ध्वनितमनोरमवल्लकीमृदङ्गैः।
युगपदृतुगणस्य सन्निधानं वियति वने च यथायथं वितेने॥ ३९९॥
पात्रान्तरानुषञ्जनं यथा—(किराता. ३.२९)
करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि।
शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुह्यकस्त्वाम्॥ ४००॥
चेष्टान्तरानुषञ्जनं यथा— (किराता. १६.२)
मदस्रुतिश्यामितगण्डरेखाः क्रामन्ति विक्रान्तनराधिरूढाः।
सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः॥ ४०१॥
कथान्तरानुषञ्जनं यथा कुमारसम्भवे—(कुसं. ४.४०)
कुसुमायुधपत्नि! दुर्लभस्तव भर्ता न चिराद् भविष्यति।
शृणु येन गतः स कर्मणा शलभत्वं हरलोचनार्चिषि॥ ४०२॥
द्विसन्धानमित्यनेन वाक्यप्रकरणप्रबन्धानामनेकार्थानुसन्धानेन कवेः शक्तिविशेषं व्यञ्जयति। तत्र —
किञ्चिदेकमेव वाक्यं प्रकरणं प्रबन्धो वा द्वयोरर्थयोः संगच्छते।
किंचिदभिन्नार्थमेवोच्यमानमनेकेन श्रोत्रा सम्बन्धमनुभवति।
किञ्चित्पुनरेकमुद्दिश्याभिधीयमानमर्थभेदादन्येनापि सम्बध्यते। तत्र— आद्यस्योदाहरणं यथा मालतीमाधवे —
‘महाभाग! सुश्लिष्टगुणतया रमणीय एष सन्निवेशः। कुतूलिनी च नो भर्तृदारिका वर्तते तस्यामभिनवो विचित्रकुसुमेषुव्यापारः। तद्भवतु कृतार्थता वैदग्ध्यस्य। फलतु निर्माणस्य रमणीयता। समासादयतु सरस एव (ष) भर्तृदारिकायाः कण्ठावलम्बनमहार्घतामिति।’
द्वितीयस्य यथा शिशुपालवधे— (माघ. १६.१)
दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ।
उपगम्य हरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद् वचः॥ ४०३॥
तृतीयस्य यथा दण्डिनो धनञ्जयस्य वा द्विसन्धानप्रबन्धौ रामायणमहाभारतार्थावनुबध्नाति।
चतुर्थस्य यथा कुमारसम्भवे—(कुसं. २.१८)
स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः।
युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः॥ ४०४॥
इत्यादिप्रकरणं चतसृष्वपि दिक्ष्ववस्थितैर्दिवौकोभिर्ब्रह्मणाभिधीयमानमभिसम्बध्यते।
पञ्चमस्य यथा कीचकवधे द्रौपदी विराटमभिभाषमाणा तेनैव वाक्येन युधिष्ठिरादीनभिभाषत इति।
मार्गद्वयानुवर्तनमित्यनेन महाकवीनां समयमुपलक्षयति। तत्र—
गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम्।
निराकरणमित्येष मार्गः प्रकृतिसुन्दरः॥ ४०५॥
(काव्याद. १.२१)
वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि।
तज्जयान्नायकोत्कर्षकथनं च धिनोति नः॥ ४०६॥
(काव्याद. १.२२) किं पुनरयं नायकेन रिपोरुच्छेदः क्रियमाणो दोषवतो वा स्याद्? गुणवतो वा?
किं चातः?
यदि दोषवतस्तदा तत एवोच्छेदः। न हि शीर्यमाणनदीतटोपविष्टप्रक्षेपणे पुरुषकारः साफल्यमनुभवति। तदुक्तं ‘काष्ठमिव च घुणजग्धमविनीतपुत्रं राजकुलमनियुक्तमात्रं ‘भज्येत’।
नापि गुणवतः, तस्यानुच्छेद्यत्वात् नायकस्य द्विषतो वा न कश्चिद्विशेष इति।
नैवम्; विधिनिषेधव्युत्पत्तिफलत्वात् प्रबन्धानाम्। तथा हि— रामायणादिषु गुणवतो नायकस्य उत्कर्षप्रदर्शने न दोषः। को हि गुणार्जनं प्रति यतेत यदि गुणवतोऽप्युत्छेदः स्यात्? अपि च गुणवत्त्वे तुल्ये एकस्य जयोऽन्यस्य पराजय इति नियमनिमित्तमभिधानीयम्; तन्नान्तरेण दैवं भवितुमर्हति। दैवसम्पादितायां च सिद्धौ पुरुषकारशून्यस्य नायकस्य द्विषतो वा न कश्चिद्विशेष इति।
नैवं; विधिनिषेधव्युत्पत्तिफलत्वात् प्रबन्धानाम्। तथा हि रामायणादिषु गुणवतो नायकस्य उत्कर्षप्रदर्शनेन दोषवतश्चोच्छेदप्रकाशेन एतद्व्युत्पाद्यते रामवद् वर्तितव्यं न रावणवत्, यथा रामस्य पितुराज्ञां परिपालयतो वनवासिनोऽपि विजयः संपन्नः, रावणस्य च परदारानभिलषतःस्त्रैलोक्यविजयिनोऽप्युच्छेदः, तथान्यस्यापि संपत्स्यत इति विधिनिषेधव्युत्पत्तिः। तदनुविधानेन च महाकाव्यादिप्रबन्धानां विरचनेति।
यत्पुनरिदमुक्तं दोषवतः समुच्छेदे स्वत एव विशीर्यमाणत्वात् क इव नायकस्योत्कर्षः? को वा गुणार्जनं प्रति यतेत, यदि गुणवतोऽप्युच्छेदः स्यात्?
तत्र न पुरुषार्थविषयत्वेन दोषवत्त्वम्; नाप्युच्छेदनिमित्तत्वेन गुणवत्त्वम्; अपि तूच्छेदनिमित्तत्वेन दोषवत्त्वं, नायकोत्कर्षप्रकाशकत्वेन च प्रतिपक्षस्य च गुणसमृद्धिर्वर्ण्यते। स्थित्यतिक्रमश्च तस्योच्छेदनिमित्तं भवति। तथा च पुराणेषु हिरण्यकशिपुप्रभृतीनां देवताराधनप्राप्तमहावीर्याणां त्रैलोक्यकण्टकत्वेन समुच्छेदो दृश्यते। वंशवीर्यश्रुतादिवर्णनजनितश्च तदुत्कर्षस्तज्जयान्नायकस्यैवोत्कर्षहेतुर्भवति॥
अथ किमेतानि नगरार्णववर्णनादीनि समुच्चयप्रयोज्यानि, उत विकल्पप्रयोज्यानि? समुच्चयप्रयोज्यानीति चेत् किरातार्जुनीयादौ नगरार्णवार्कोदय— कुमारविवाहाभ्युदयादीनां भणनं; अथ विकल्पेन यथेष्टकल्पनायाम्, अलक्षणप्रसङ्गः।
तन्न; अङ्गकल्पनस्योभयथापीष्टत्वात्। यदा कथाशरीरस्य परिपूर्णाङ्गसम्भवः तदा समुच्चयेन, यदान्यथा तदा विकल्पेनेति। तत्रापि केषांचिदेवाङ्गानां विकल्पः, अपरेषां नियमेन प्रयोगः। यानि पुरुषार्थस्य कामादेरासन्नोपकारीणि तानि नियमतः प्रयुज्यन्ते। यथा— ‘मन्त्रदूतप्रयाणाजिनायकाभ्युदयादयः।’ (भामहा. १.२०)
यथा च शैलर्तूद्यानगमनजलक्रीडाचन्द्रोदयमधुपानरतोत्सवादयः। तानि च यदि कथाशरीरे न स्युः, तदा कथान्तराद्यनुषञ्जनेनापि कर्तव्यानीति प्रचक्षते। तदेतदुभयमपि तत्र तत्र नियम्यमानं शब्दलक्षणमर्थलक्षणं च वेदितव्यम्। तद्यथा—
सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम्।
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्॥ (काव्याद. १.१४–२०)
इतिहासकथोद्भूतमितरद् वा सदाश्रयम्।
चतुर्वर्गफलोपेतं चतुरोदात्तनायकम्॥ ४०८॥
नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः॥ ४०९॥
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः।
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥ ४१०॥
अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम्।
सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुमन्धिभिः॥ ४११॥
सर्वत्र भिन्नसर्गान्तैरुपेतं लोकरञ्जकम्।
काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति॥ ४१२॥
न्यूनमप्यत्र यैः कैश्चिदङ्गैः काव्यं न दुष्यति।
यद्युपात्तेषु सम्पत्तिराराधयति तद्विदः॥ ४१३॥
इति। यथा च— (नाशा. १९.१३९–१४१)
वृत्तिप्रत्यङ्गसम्पन्नं पञ्चार्थप्रकृतिक्षमम्।
पञ्चावस्थाभिनिष्पन्नैः पञ्चभिस्सन्धिभिर्युतम्॥ ४१४॥
सन्ध्यन्तरैकविंशत्या चतुष्षष्ट्यङ्गसंयुतम्।
महारसं महाभोगमुदात्तवचनान्वितम्॥ ४१५॥
महापुरुषसञ्चारं साध्वाचारजनप्रियम्।
सुश्लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम्॥ ४१६॥
मृदुशब्दाभिधानं च गुणालङ्कारसंयुतम्।
लक्षणैश्च चतुष्षष्ट्या युक्तं कुर्वीत नाटकम्॥ ४१७॥
नाटके लक्षणं यत्तु तत् स्यात् प्रकरणेऽपि च।
सट्टके नाटिकायां च किञ्चिदूनं तदुच्यते॥ ४१८॥
महाकाव्येषु ग ग ग ग ग ग ग तत्।
काव्यशास्त्रादिषु तथा तथैवाख्यायिकादिषु॥ ४१९॥
महाकाव्यादयः पद्यं गद्यमाख्यायिकादयः।
गद्यपद्यमयी चम्पूः पद्यगद्ये तथा पृथक्॥ (काव्याद.१.३१)
पञ्चसन्धि महाकाव्यं नाटकं नाटिका तथा।
आख्यायिका प्रकरणं पर्वबन्धादयश्च ये॥ ४२१॥
डिमस्समवकारश्च चतुस्सन्धी प्रकीर्तितौ।
व्यायोगेहामृगौ प्राज्ञैः संविधेयौ त्रिसन्धिकौ॥ ४२२॥
द्विसन्धि स्यात् प्रहसनं वीथ्यङ्कौ भाण एव च।
प्रवह्लिकादिषु ज्ञेया यथेष्टं सन्धिकल्पना॥ ४२३॥
न सन्धिकल्पना कोशसङ्घातादिषु विद्यते।
काव्यवर्जं समस्तेषु पदार्थाभिनयेषु च॥ ४२४॥
कैशिकीवृत्तिहीनानि डिमादीन्यष्ट लक्षयेत्।
कथादिषु यथायोगं विज्ञेया वृत्तिकल्पना॥ ४२५॥
संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादि यत्।
अवस्कन्धान्यपभ्रंशो नाटकादि तु मिश्रकम्॥
(काव्याद. १.३७)
इति संक्षेपतः प्रोक्तं महाकाव्यादिलक्षणम्।
शेषं यद् यत्र निर्दिष्टं तत् तत्रैवोपलक्षयेत्॥ ४२७॥
तन्महाकाव्यमित्याहुर्महतां च महच्च यत्।
निरुक्तमवगन्तव्यमित्थमेवापरेष्वपि ॥ ४२८॥
(भामहा. १.१९)
चतुर्वर्गफलत्वेऽपि भूयसार्थोपदेशकृत्।
महाकाव्यं भवेत् कामप्रधानास्तु कथादयः॥ ४२९॥
(भामहा. १.२१)
वाक्यप्रबन्धानुगतोऽयमुक्तो मया समासेन रसावियोगः।
अथेह येऽर्था न विवेचिताः पृथग् विभज्य ते केचिदुदाह्रियन्ते॥ ४३०॥
इति महाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे रसावियोगप्रकाशो नाम
॥ एकादशः प्रकाशः॥ ११॥
रेवाप्रसादेन सनातनेन प्रकाश एकादश एष दिष्ट्या।
साहित्यतत्त्वं प्रणिधाय चित्ते व्यशोधि, धाराधिपतेः प्रकाशे॥