अथ
श्रृङ्गारप्रकाशे दशमः प्रकाशः
शब्दार्थोभयालङ्कारप्रकाशो नाम
(११. अलङ्कारयोगः)
अथ अपास्तदोषस्य उपात्तगुणस्य च काव्यशरीरस्य चारुत्वोत्कर्षसिद्धये प्राप्तकालः अलङ्कारयोग उच्यते। यतः—
दीर्घापाङ्गं नयनयुगळं भूषयत्यञ्जनश्रीः
तुङ्गाभोगौ प्रभवति कुचावर्चितुं हारयष्टिः।
मध्यक्षामे वपुषि लभते स्थाम कूर्पासलक्ष्मीः
श्रोणीबिम्बे गुरुणि रशनादामशोभां बिभर्ति॥१॥
अलङ्काराश्च त्रिधा— बाह्याः, आभ्यन्तराः, बाह्याभ्यन्तराश्च। तेषु —
बाह्या वस्त्रमाल्यविभूषणादयः।
आन्तरा दन्तपरिकर्मनखच्छेदालककल्पनादयः।
बाह्याभ्यन्तराः स्नानधूपविलेपनाञ्जनमुखवासताम्बूलोपयोगादयः शरीरे।
काव्यशरीरेऽपि —
१. वस्त्रमाल्यभूषणादिस्थानीया जात्यादयः शब्दालङ्काराः।
२. दन्तपरिकर्मादिस्थानीयाः स्वभावाख्यानादयः अर्थालङ्काराः।
३. स्नानधूपविलेपनादिस्थानीया उपमादयः उभयालङ्काराः बाह्याभ्यन्तरोभयालङ्कारव्यपदेशं लभन्ते।
(१. शब्दालङ्काराः —२४)
ये शब्दमेव व्युत्पत्त्यादिना भूषयन्ति ते शब्दालङ्काराः चतुर्विंशतिः —
‘जातिः, गतिः, रीतिः, वृत्तिः, रचना, घटना, मुद्रा, छाया, युक्तिः, उक्तिः, भणितिः, पठितिः, श्रव्यत्वं, प्रेक्ष्यत्वम्, अभिनेयत्वम्, अध्येयत्वं, वाकोवाक्यं, प्रश्नोत्तरं, प्रहेलिका, गूढं, चित्रं, श्लेषः, यमकम्, अनुप्रास’ इति। तेषु —
(१. जातिः —६)
संस्कृतप्राकृतादिर्जातिः। सा षोढा— शुद्धा, मिश्रा, सङ्कीर्णा, साधारणी असाधारणी, अपभ्रष्टा चेति। तत्र — शुद्धा यथा—
स एष भुवनत्रयप्रथितसंयमश्शङ्करो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम्।
अनेन किल निर्जिता वयमिति प्रियायाः करं
करेण परिताडयन् जयति जातहासः स्मरः॥ २॥
मिश्रा यथा—
इति स्तुतगुणः शिवो हरिविरिञ्चिनारायणैः
करोतु भवतां विभुर्भवसमुद्रपोतायितम्।
उमाअ उवणे अवो सअलकज्जकल्लाणिणी
सिवा सिवपरा परं परममङ्गला मङ्गलम्॥ ३॥
सङ्कीर्णा यथा—
अकट—गुमटी चन्द्रज्योत्स्ना कलं किल कोइलो
लवइ अ मुहुर्याम्यो वायुर्निवाअर वाइ अ।
अवि सखि अला रक्ताशोकस्तवापि मनोमुदे
नकजनकजं मानेनाद्य प्रियं प्रति जाहुदा॥ ४॥
(अहो मनोज्ञा चन्द्रज्योत्स्ना कलं किल कोकिलो
लपति च मुहुर्याम्यो वायुः निर्वारको वाति च।
अपि सखि आगतो रक्ताशोकस्तवापि मनोमुदे
नार्थोनार्थ मानेनाद्य प्रियं प्रति यामः॥)
साधारणी यथा—(रुद्रट. ४.२१)
क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति।
भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति॥ ५॥
असाधारणी यथा—
भीष्मप्रोक्तानि वाक्यानि विद्वद्वक्त्रेषु शेरते।
गोसे तिविञ्छिरिच्छोली तल्ल तूहे विवल्लिदा॥ ६॥
अपभ्रष्टा यथा—
मुद्धे गहणअ गेण्हउ तं धरि मुद्दं णिए हत्थे।
णिच्चउ सुन्दरि तुह उवरि मम सुरअप्पहा अत्थि॥ ७॥
(मुग्धे ग्रहणकं (रतमूल्यं) गृहाण त्वं धारय मुद्रां निजे हस्ते।
निश्चयः सुन्दरि तवोपरि मम सुरतस्पृहा अस्ति॥)
अस्या अपि ह्यनुकरणे साधुत्वमिष्यते॥
(२. गतिः —६)
गद्यपद्यमिश्रादिर्गतिः। सा षोढा—
द्रुता, मध्या, विलम्बिता, द्रुतमध्या, द्रुतविलम्बिता, मध्यविलम्बितेति। तत्र— पद्ये द्रुता यथा—
अयि विजहीहि दृढोपगूहनं त्यज नवसङ्गमभीरु ! वल्लभम्।
अरुणकरोद्गम एष वर्तते वरतनु ! सम्प्रवदन्ति कुक्कुटाः॥ ८॥
मध्या यथा—
आसीद्दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः।
प्रथयन्ति बलं बाह्वोः सितच्छत्रस्मिताः श्रियः॥ ९॥
विलम्बिता यथा— (प्रप्राभा. मङ्गलश्लोकः)
प्रणम्य हेतुमीश्वरं मुनिं कणादमन्नतः।
पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः॥ १०॥
द्रुतमध्या यथा—(रघु. ९.६७)
अथ तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्मीचकार।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः॥ ११॥
द्रुतविलम्बिता यथा—
अवतु वः सवितुस्तुरगावली समभिलङ्घिततुङ्गपयोधरा।
स्फुरितमध्यगतारुणनायका मरकतैकलतेव नभःश्रियः॥ १२॥
मध्यविलम्बिता यथा—(राच. ११.११६)
दुन्दुभयो दिवि दध्वनुरुच्चैरुच्चकराः कपयश्च ववल्गुः।
सिद्धनिकायकराब्जविमुक्तं माल्यमथाङ्गदमूर्ध्नि पपात॥ १३॥
एवं गद्येऽपि लघुगुरुमिश्रवर्णविन्यासभूयस्त्वेन द्रुतविलंम्बितमध्यादिगतयो गवेषणीयाः॥
(३. रीतिः —६)
विदर्भादीनां वाक्यरचनावर्त्म रीतिः। सा षोढा—
वैदर्भी, पाञ्चाली, गौडीया, आवन्तिका, लाटीया, मागधी च। तासु — असमस्तपदा वैदर्भी, यथा—(कुसं. ५.४)
मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः॥ १४॥
समस्तपञ्चषपदा पाञ्चाली, यथा—
गात्राभिघातदलिताङ्गदजर्जराणां गण्डस्थलीलुठितकुण्डलताडितनाम्।
क्षोभस्फुटन्मुकुटकोटिविघट्टितानां नादोऽभवज्झणझणामुखरो मणीनाम्॥ १५॥
यथाशक्ति समस्तपदा गौडीया, यथा—
यस्यावस्कन्दलीलाचलितबलपरिस्पन्दखर्वीकृतोर्वी— संरम्भस्तम्भनाग्रोन्नमितभरनमत्कन्धरासन्धिरासीत् ।
शेषो विस्फारफुल्लस्फुटपृथुलफणाफूत्कृताग्निस्फुलिङ्ग— स्फूर्जत्सन्दोहसन्देहितविकटशिखामण्डलीरत्नखण्डः ॥ १६॥
वैदर्भादीनामन्तरालरीतिरावन्तिका, यथा
एतानि निस्सहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति पदानि तस्याः।
एते च मार्गतरवः प्रथयन्ति ताप— मालम्बितोज्झितपरिग्लपितैः प्रवालेः॥ १७॥
मिश्ररीतिर्लाटीया, यथा—
अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम्।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि॥ १८॥
खण्डरीतिर्मागधी, यथा—
करिकबलनशिष्टैः शाखिशाखाग्रपत्रैररुणसरणयोऽमी सर्वतो भीषयन्ते।
चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादाः॥ १९॥
(४. वृत्तिः —६)
विकासविक्षेपविस्तरसङ्कोचेषु चेतसो वर्त्तयित्री वृत्तिः। सा षोढा—
कैशिकी, आरभटी, भारती, सात्वती, मध्यमारभटी, मध्यमकैशिकी च। तासु सुकुमारसन्दर्भार्था कैशिकी, यथा—
शशिरुचिषु दलेषु नागवल्ल्या विचकिलदामनि चन्दने च हृद्ये।
कुवलयिनि पुराणसीधुपात्रे तरलदृशामपतन् दृशः प्रिये च॥ २०॥
प्रौढसन्दर्भार्था आरभटी, यथा—(पृ. ३४१ (वेसं. ३.३२) )
‘यो यश्शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनाम्’ इत्यादि।
सुकुमारेऽर्थे नातिप्रौढसन्दर्भा भारती, यथा—(वेसं. १.३)
उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीबारमंसं वहन्त्याः।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालम्ब्य नीतं वपुरलसलसद्बाहु लक्ष्म्या पुनातु॥ २१॥
प्रौढेऽर्थे नातिसुकुमारसन्दर्भा सात्वती, यथा—
वन्द्यौ द्वावपि तावनार्यचरितप्राप्तप्रतिष्ठोदयौ भीमो भीमपराक्रमः स च मुनिर्भास्वत्कुठारायुधः।
एकेनामृतवद् विदार्य करजैः पीतान्यसृञ्जि द्विषा— मन्येनापि हताहितास्त्रसरसि स्नातं क्रुधः शान्तये॥ २२॥
सुकुमारेऽर्थे प्रौढोक्तिः मध्यमकैशिकी, यथा—
किं द्वारि दैवहतिके ! सहकारकेण संवर्धितेन विषपादप एष पापः।
अस्मिन् मनागपि विकसविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः॥ २३॥
प्रौढेऽर्थे सुकुमारोक्तिर्मध्यमारभटी, यथा—(कामी.)
त्वं नागराज ! बहुशोऽस्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः।
सोढाविषह्यवृषवाहनयोगलीला— पर्यङ्कबन्धनविधेस्तव कोऽतिभारः॥ २४॥
(५. रचना —६)
यथावच्छब्दार्थयोर्निवेशो रचना। सा षोढा —
शब्दरचना, अर्थरचना, पर्यायरचना, पदरचना, वाक्यरचना, क्रमरचना चेति। तासु— शब्दरचना यथा—
तवाभिषेके मदनातुराया हस्ताच्च्युतो हेमघटो युवत्याः।
सोपानमासाद्य करोति शब्दं टंटं टटंटं टटटं टटंटम्॥ २५॥
अर्थरचना यथा—
दिक्कालात्मसमैव यस्य१ विभुता, २यस्तत्र विद्यतते, यत्राऽमुष्य सुधीभवन्ति किरणा३, राशोः स यासामभूत्४।
यस्तत्पित्तमुषःसु५ यश्च ६हविषे, यश्चास्य* जीवातवे७ वोढा यद्गुणमेष८ मन्मथरिपोस्ताः पान्तु वो मूर्त्तयः॥ २६॥१
पर्यायरचना यथा—
कणइल्लि च्चिअ जाणइ कुंतपलप्पाइ कीरसंलवइ।
पूसअभासं मुंचसु ण हु रे हं धव्ववाआढी॥ २७॥
(शुक्येव जानाति शुकप्रलपितानि कीरसंलापिनि !
कीरभाषां मुञ्च न खलु रे अहं धृष्टशुकी॥)
पदरचना यथा—(कामी.)
लोलल्लाङ्गुलवल्लीवलयितवकुवलानोकहस्कन्धलोलै— र्गोलाङ्गुलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु।
खण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेला— मालम्ब्योत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाः॥ २८॥
वाक्यरचना यथा—
पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे।
मध्यमेषु च पाञ्चाल्याः त्रितयं त्रितयं त्रिषु॥ २९॥
१. व्योम २. सूर्य ३. चन्द्रः ४. आपः ५. अग्नि ६. यजमानः ७. वायुः ८. पृथिवी। * ज्योशेररावघयोस्तु पाठः— यत्तत्पित्तमुषः स यस्य हविषे द्र.स.क. २.५३. उ. रत्नेश्वरः। क्रमरचना यथा—
नीलाब्जानां नयनयुगलद्राघिमा दत्तपत्रः कुम्भावैभौ कुचपरिकरः पूर्वपक्षीचकार।
भ्रूविभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादीद् वक्त्रज्योत्स्ना शशधररुचं दूषयामास यस्याः॥ ३०॥
(६. घटना —६)
पदार्थानां परस्परमुपश्लेषो घटना। सा षोढा—
प्रक्रान्तघटना, अप्रक्रान्तघटना, अतिक्रान्तघटना, पदघटना, वाक्यघटना, प्रकीर्णघटना चेति। तासु —
प्रक्रान्तघटना यथा—(कुसं. ६.३)
स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम्।
ऋषीञ् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः॥ ३१॥
अप्रकान्तघटना यथा—
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
निषादस्य च संवादमृषेः संवरणस्य च॥ ३२॥
अतिक्रान्तघटना यथा—(राच.१.१८)
तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि।
स्मितार्द्रमुकुलोद्भेदाः कदम्बबनराजयः॥ ३३॥
पदघटना यथा—
छिन्नेन पतता वह्नौ यन्मुखेन हठात्कृते।
स्वेति हेति हरेणोक्तेः स्वाहाऽऽसीत् सैष रावणः॥ ३४॥
वाक्यघटना यथा—(विक्र. ४.३३)
हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता।
विभावितैकदेशेन देयं यदभियुज्यते॥ ३५॥
प्रकीर्णघटना यथा—(माघ. ३.७४)
साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी।
तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ददर्श॥ ३६॥
(७. मुद्रा —६)
साभिप्रायवचनविनिवेशो मु्द्रा। षोढा—
पदमुद्रा, विभक्तिमुद्रा, वचनमुद्रा, वाक्यमुद्रा, समुच्चयमुद्रा, संवृतिमुद्रा चेति। तासु पदमुद्रा यथा—(बारा. १.४०)
निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी भ्रूयुग्मस्य सनाभि गन्मथधनुर्ज्योत्स्ना स्मितस्याञ्चलः।
सङ्गीतस्य च मत्तकोकिलरुतान्युच्छिष्टमेणीदृशः सर्वाङ्गीणमहो विधेः परिणतं विज्ञानचित्रं चिरात्॥ ३७॥
विभक्तिमुद्रा यथा—(विसा. १.८)
श्रियः प्रसूते विपदो रुणाद्धि यशांसि सूते मलिनं प्रमार्ष्टि।
संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः॥ ३८॥
वचनमुद्रा यथा—(उराच. १.९)
विश्वम्भरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते।
तेषां वधूस्त्वमसि नन्दिनि ! पार्थिवानां येषां कुलेषु सविता च गुरुर्वयं च॥ ३९॥
वाक्यमुद्रा यथा—
यत् स्वच्छे सलिलात्मनि प्रतिफलेद्देवे त्रियामापतौ पीयूषाकृति पर्यवस्यति किल ज्योत्स्नेति तत्त्वान्तरम्।
तिग्मं धाम चिरं चकास्ति दिवि यत् तत्रास्ति दिव्यः पुमान् यं विज्ञातवतां त्रुटनित निखिला भूयो भवग्रन्थयः॥ ४०॥
समुच्चयमुद्रा यथा—(हव.)
जातश्चायं मुखेन्दुस्ते भ्रुकुटीप्रणयी पुरः।
गतं च वसुदेवस्य कुलं नामावशेषताम्॥ ४१॥
संवृतिमुद्रा यथा—
मणिरत्नं प्रसेनस्य तच्चानार्येण विष्णुना।
लब्धं येनाद्य योगेन किं कीर्तितेन वः॥ ४२॥
(८. छाया —६)
अन्योक्तीनामनुकरणं छाया। सा षोढा—
लोकोक्तिच्छाया, छोकोक्तिच्छाया, मुग्धोक्तिच्छाया, पोटोक्तिच्छाया, स्खलितोक्तिच्छाया, असमञ्जसोक्तिच्छाया चेति। तासु—
लोकोक्तिच्छाया यथा—(मेघ.१०७)
शापान्ते मे भुजगशयनादुत्थिते शार्ङ्गपाणौ मासानन्यान् गमय चतुरो लोचने मीलयित्वा।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥ ४३॥
छेकोक्तिच्छाया यथा—
यो हि दीर्घासिताक्षस्य विलासवलितभ्रुवः।
कान्तामुखस्यावशगस्तस्मै नृपशवे नमः॥ ४४॥
मुग्धोक्तिच्छाया यथा—
किं स स्वर्गे तरुः कोऽपि यस्य पुष्पं निशाकरः।
ते वृक्षाः कीदृशा मातर्येषां मुक्ताफलं फलम्॥ ४५॥
पोटोक्तिच्छाया यथा—
तिलकमसहाम्मि सोढुं घनसारेणातिसारदोषो मे।
लम्भयति च दौर्वर्ण्यं कुङ्कुमरागो ममाङ्गानि॥ ४६॥
स्खलितोक्तिच्छाया यथा—
पिपि प्रिय सस स्वयं मुमु मुखासवं देहि मे तत त्यज दुदु द्रुतं भभभ भाजनं काञ्चनम्।
इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्यैयत॥ ४७॥
असमञ्जसोक्तिच्छाया यथा—
दृष्टः कथं सुतनु किं कुरुते किमस्मद्— वार्ता स पृच्छति शृणोति निवेद्यमानाम्।
आस्तां किमस्य कथया कथयाशु ताव— दत्रागमिष्यति न वा खलु सोऽभिमानी॥ ४८॥
(९. युक्तिः —६)
शब्दस्यार्थस्य वा परस्परमयुज्यमानस्य योजनं युक्तिः। सा षोढा—
पदविषया, पदार्थविषया, वाक्यविषया, वाक्यार्थविषया, प्रकरणविषया, प्रबन्धविषया चेति। तासु —
योगवृत्तिपरम्परा अङ्गाङ्गिभावपरम्परा पर्यायपरम्परेत्यादि। पदविषया यथा—(सूश.)
जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणु।
रक्ताः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य॥ ४९॥
लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये।
भक्तिप्रह्वाय दातुं मुकुलपुटकुटोकोटरक्रोटरक्रोडलीनाम्॥ ५०॥
(सूश.) तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास॥ ५१॥
(माघ. ३.३३) जातिक्रियागुणद्रव्याणां युक्तिः, पदार्थविषया यथा—
स्त्रीपुंनपुंसमनघं भवमानतोऽस्मि॥ ५२॥
शैलाधिराजतनया न ययौ न तस्थौ॥ ५३॥
(कुसं. ५.८५) साब्भ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम्॥ ५४॥
(मेघ. ८९) पायादेकं मदनविजयद्वेषिणस्तद् वपुर्वः॥ ५५॥
वाक्यगर्भो वाक्यसमुच्चयः वाक्यसंवृतिरित्यादिः वाक्यविषया, यथा—
दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते (द्र. ७.१४८)
क्रियासमुच्चयसमभिव्याहाराभ्यासादिभिः वाक्यार्थविषया, यथा—(माघ. १.५१)
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्निश दिवः॥ ५६॥
अश्रद्धेयपर्वतादिवर्णनोत्पत्तिहेतुः प्रकरणविषया, यथा—(माघ. ४.१०)
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः॥ ५७॥
प्रबन्धव्यापिवस्तूपपत्तिहेतुः प्रबन्धविषया, यथा—(मेघ.५)
धूमज्योतिस्सलिलमरुतां सन्निपातः क्व मेघ— स्सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्ता हि प्रकृति(प्रणय)कृपणाश्चेतनाचेतनेषु॥ ५८॥
(१०. उक्तिः —६)
विधिनिषेधादेरभिधाम् उक्तिः। षोढा—
विधिः, निषेधः, अधिकारः, परिसङ्ख्या, विकल्पः, नियम इति। तेषु— अप्राप्तौ प्रापणवचनं विधिः, यथा—(शाकु. ४.१८)
शुश्रूषस्व गुरून् कुरु प्रियसखीवृतिं सपत्नीजने॥ ५९॥
इत्यादि प्राप्तौ निवारणं निषेधः, यथा—(शाकु. ४.१८) भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः॥ ६०॥
विधिनेषेधयोग्यताधिकारः, यथा—(शाकु. ४.१८)
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सोकिनी।
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥ ६१॥
विधिनिषेधाभ्यां शेषप्रतिषेधाभ्यनुज्ञाने परिसङ्ख्या, यथा—
पञ्च पञ्चनखा भक्ष्या वामेनाक्ष्णा न पश्यति।
काठिन्यमस्याः कुचयोः किमसद्यन्न रोचते॥ ६२॥
जातिक्रियागुणद्रव्येषु उभयावलम्बी विकल्पः, यथा—(मनु. ६.६)
पुत्रेषु दारान्निक्षिप्य वनं गच्छेत् सहैव वा॥ ६३॥
धर्मार्थकामान् धर्मं वा ब्रह्म वा ब्राह्मणश्चरेत्॥ ६४॥
अयोगान्ययोगात्यन्तायोगव्यवच्छेदो नियमः, यथा—
विवादोऽपार्थ एवायं पार्थ एव धनुर्धरः।
यो न केवलमात्मीयैः परैरप्यभिनन्द्यते॥ ६५॥
(११. भणितिः —६)
उक्तेरेव प्रकारान्तराख्यानं भणितिः। सा षोढा—
सम्भावनाभणितिः, असम्भावनाभणितिः, कल्पनाभणितिः, आश्चर्यभणितिः, संवृतिभणितिः, विशेषभणितिरिति। तासु —
सम्भावनाभणितिः—(विसा. ३.१४)
सद्योद्रावितकेतकोदरदलस्त्रोतःश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत्।
उत्सेक्या कलशीभिरञ्जलिपुटैः पेया मृणालाङ्कुरै— र्मातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका॥ ६६॥
असम्भावनाभणितिर्यथा—(विसा. १.२०)
क्व पेयं ज्योत्स्नाम्भो वदनबिसवल्लीसरणिभि— र्मृणालीतन्तुभ्यः सिचयरचना कुत्र भवति।
क्व वा पारीमेयो बत बकुलदाम्नां परिमलः कथं स्वप्नं साक्षात् कुवलयदृशं कल्पयतु ताम्॥ ६७॥
कल्पनाभणितिः यथा—
दृश्यं दृशां सहस्त्रैर्मनसामयुतैर्विभावनीयं च।
सुकृतशतकोटिभोग्यं किमपि वयः सुभ्रुवः स्वदते॥ ६८॥
आश्चर्यभणितिर्यथा—
ज्योतिर्भ्यस्तदिदं तमस्समुदितं जातेऽयमद्भ्यश्शिखी पीयूषादिदमुत्थितं विषमयं छायाप्तजन्माऽऽतपः।
को नामास्य विधिः प्रसान्तिषु भवेद् गाढं द्रढीयानयं ग्रन्थिर्यत् प्रियतोऽपि विप्रियमिदं सख्यः कृतं सान्त्वनैः॥ ६९॥
संवृतिभणितिर्यथा—(विक्र. २.३)
आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः।
उपमानस्यापि सखे ! प्रत्युपमानं वपुस्तस्याः॥ ७०॥
विशेषभणितिर्यथा—(माघ. २.१६)
रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ।
वहन् हली मदक्षीबः पानगोष्ठ्यां पुनातु वः॥ ७१॥
(१२. पठितिः —६)
काक्वादिना वाक्योच्चारणं पठितिः। सा षोढा—
काकुः, स्वरः, विच्छेद, कान्तिः, अभिनयः, अपदेश इति। तासु— काकुर्यथा—(वेसं. २.२०)
म्यस्ता न भ्रुकुटिर्न बाष्पसलिलेनाच्छादिते लोचने नीतं नाननमन्यतः सशपथं नाहं स्पृशन् वारितः।
तन्व्या मग्नपयोधरं भयवशादाविद्धमालिङ्गितं भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम॥ ७२॥
स्वरो यथा—
सुभ्रु! त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां॥
॥ ७३॥ (पृ.३६०) विच्छेदो यथा—(ध्वन्यालोक २.२२/२३)
येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतः॥ ७४॥
कान्तिर्यथा—(कीव. १.१०)
यस्यारिजातं नृपतेरपश्यदवलम्बनम्।
ययौ निर्झरसम्भोगैरपश्यदबलं वनम्॥ ७५॥
अभिनयो यथा—
एद्दहमेत्तत्थणिआ॥ ७६॥
(पृ॰ ३६४) अपदेशो यथा—
इतः स दैत्यः प्राप्तश्रीः॥ ७७॥
(कुसं. २.५५) (१३. श्रव्यम् —६)
श्रुतिसुखमात्रजननं श्रव्यम्। तत्षोढा—
आशीः, नान्दी, नमस्कृतिः, वस्तुनिर्देशः, ध्रुवा, आक्षिप्तिकेत्यादि। तत्र लिङ्लोड्वाच्योऽर्थविशेष आशीः, यथा—
भूयाद् वः श्रेयसे देवः पार्वतीदयितो हरः॥ ७८॥
पातु वः परमं ज्योतिरवाङ्मनसगोचरम्॥ ७९॥
(काव्याद. २.३५७) रङ्गमङ्गलान्तस्वस्त्ययनं नान्दी, यथा—(कम. १.१)
भद्दं भोदु सरस्सईअ कइणो णंदंतु वासाइणो अण्णाणं पि परं पअट्ठदु वरा वाणी छइल्लप्पिआ।
वच्छोमी तह माअही फुरदु णो सा किं अ पंचालिआ रीदीयो विलिहंतु कव्वकुसला जोह्णं चओरा विअ॥ ८०॥
(भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः अन्येषामपि परं प्रवर्ततां वरा वाणी विदग्धप्रिया।
वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव॥)
स्तुतिर्नमोवाक्यं वा नमस्क्रिया, यथा—
जयति ब्रह्मभूः शम्भुः॥ ८१॥
वन्देमहि महेश्वरम्॥ ८२॥
इदं गुरुभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे॥ ८३॥
(उराच. १.१) कथाशरीरव्यापिनो नायकादेरभिधानं वस्तुनिर्देशः, यथा—
अस्त्युद्दामजटाभारभ्रान्तगङ्गाम्बुशेखरः।
आदिदेवो हरो नाम सृष्टिसंहारकारणम्॥ ८४॥
पात्रप्रवेशादिसूचकं वाक्यं ध्रुवा, यथा
मअ—वह—णिमित्त—णिग्गअ—मइन्द—सुण्णं गुहं णिएऊण।
लद्धावसरो गहिऊण मोत्तिआइं गओ वाहो॥ ८५॥
(मुगवधनिमित्तनिर्गतमृगेन्द्रशून्यां गुहां निरूप्य।
लब्धावसरो गृहीत्वा मौक्तिकानि गतो व्याधः॥)
अभिधित्सितरागविशेषप्रयोगमात्रफलं वचनमाक्षिप्तिका, यथा—
पअपीडिअमहिसासुरदेहेहिं भुअणभअलुआवअ/ससिलेहिं।
सुरसुहदेत्तवलिअधवलच्छिहिं जअइ सहासं वअणु महलच्छिहिं॥ ८६॥
(पदपीडितमहिषासुरदेहाया भुवनभयलावकशशिलेखायाः।
सुरसुखदातृवलितधवलाक्ष्या जयति सहासं वदनं महालक्ष्म्याः॥)
(१४. प्रेक्ष्यम् —६)
प्रेक्षानिमित्तं वाचिकाद्यभिनयरहितमाङ्गिकैकनिर्वर्त्यं प्रस्थानडोम्बलिकादिवाक्यं प्रेक्ष्यम्। तत्षोढा— लास्यं, ताण्डवं, छलिकं, शम्या, हल्लीसकं, रास इति। तेषु श्रृङ्गाररसप्रधानं लास्यं, यथा—
उच्चिउ वालीयिअ पन्थहिं जंतउ।
पेक्खमि हत्थं होइ जइ लोअणवंतउ॥ ८७॥
(उच्चा पालिः प्रियः पथा याति।
प्रेक्षे हस्तो भवति यदि लोचनवान्॥)
रौद्रवीरप्रधानं ताण्डवं, यथा—
सुअवहवइअरु णिसुणिउ दारुणु रोसविसट्ठपहाररुहिरारुणु।
जलिउ जाणइ णरु रिउसंतावणु अणलसरिच्छ जइ होइ महारणु॥ ८८॥
(सुतवधव्यतिकरं निशम्य दारुणं रोषविसृष्टप्रहाररुधिरारुणः।
ज्वलितो जायते नरो रिपुसंतापनोऽनलसदृशो यदि भवति महारणः॥)
उभयात्मकं छलिकम्, यथा—
णिसुणिउ पच्छा त्तुरअरउ भुण्डि हिंसि हसंति।
णिअकंतडाढजुअलेहिं पुणु पुणु णअण वलंति॥ ८९॥
(निशम्य पश्चात्तुरगरवं शूकर्याः सहसा इति।
निजकान्तदंष्ट्रायुगले पुनःपुनर्नयने वलतः॥)
लास्यमेव देवकिन्नरविषयं शम्या, यथा—
वीहेसि हरिमुहि अवि होहि मं गले लेहि सइ।
कन्दइ रिठ्ठासुरमारिउ कण्ठवलिउ ण पइ॥ ९०॥
{बिभेषि हरिमुखि अपि भव मां गले गृहाण स्वयम्।
क्रन्दति अरिष्टासुरो मारितः कण्ठवलितो न पतिःत्वया॥}
मण्डलेन हि यत् स्त्रीणां गीतं/नृत्त्यं हल्लीसकं तु तत्।
तत्र नेता भवेदेको गोपस्त्रीणां हरिर्यथा॥ ९१॥
तद् यथा—
चंदणधूसरअं आउलिअलोअणअं हासपरम्मुहअं णीसासकिलालिअं।
दुम्मणदुम्मणअं सङ्कामिअमण्डणअं माणिणि आणणअं किं तु करठ्ठिअं॥ ९२॥
(चन्दनधूसरकमाकुलितलोचनं हासपराङ्मुखं निःश्वासक्लान्तम्।
दुर्मनसां दुर्मनस्कं संक्रामितमण्डनं मानिनि! आननकं किं तव करस्थितम्॥)
तदेव तालबन्धविशेषयुक्तं रासः, यथा—
अइ दुम्मण दुम्मणआ अज्ज किणो पुच्छामि तुमं।
जेण जिविज्जइ जेण विलासो पलिहिज्जइ कीस जणो॥ ९३॥
(अयि दुर्मनः दुर्मनस्क! अद्य किं नो पृच्छामि त्वाम्।
येन जीव्यते येन विलासः परिह्रियते कस्माज्ज॥)
(१५. अभिनेयम् —६)
दशरूपकविषयमेव अभिनेयम्। अभिनयस्तु षोढा—
आङ्गिकः, वाचिकः, आहार्यः, सात्त्विकः, सामान्यः, चित्र इति। तत्र आङ्गिको यथा—(उरा. २.१०)
दोर्दण्डाः क्व नु धृताङ्गदाः क्व नु शिरानद्धौ भुजौ द्वाविमौ वक्त्राणि क्व नु कान्तिमन्ति वलिमत् क्वेदं ममैकं मुखम्।
वाचस्ताः क्व जितार्णवध्वनिघनाः क्वायं वचस्संयमो हेलाकम्पितभूधरः क्व चरणन्यासः क्व मन्दा गतिः॥ ९४॥
वाचिको यथा—(रत्ना. २.१)
दुर्वारां मदनशरव्यथां वहन्त्या तन्वङ्गया यदभिहितं पुरः सखीनाम्।
तद् भूयः शिशुशुकशारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति॥ ९५॥
आहार्यो यथा—
चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतः (उराच. ४.२०)
सात्त्विको यथा—(मामा. १.३५)
वारंवारं तिरयति दृशोरुद्वमन् बाष्पपूर— स्तत्संकल्पोपहितजडिम स्तम्भमभ्येति गात्रम्।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि॥ ९६॥
उक्तानां चतुर्णामपि प्रयोगे सामान्यः, यथा—(मामा. ५.३८)
राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम्।
आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया— त्क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तते॥ ९७॥
हस्ताध्यायपदाध्याययोः अकथिताङ्गिकाद्यभिनयविशेषश्चित्रः, यथा—)
व्यतिकर इव भीमस्तामसो वैद्युतश्च क्षणमुपहतचक्षुर्वुत्तिरुद्भूय शान्तः।
कथमिह न वयस्यस्तत् किमेतत् किमन्यत् प्रभवति हि महिम्ना स्वेन योगेश्वरीयम्॥ ९८॥
(मामा.९.५४,१०.८) (१६. अध्येयम् —६)
विधिनिषेधव्युत्पत्तिहेतुरध्येयम्। तत्तु षोढा—
काव्यं, शास्त्रम्, इतिहासः, काव्यशास्त्रं, काव्येतिहासः, शास्त्रेतिहास इति। तेषु उक्तिप्रधानं काव्यं, यथा—
यदि स्मरामि तां तन्वीं जीविताशा कुतो मम।
अथ विस्मृत्य जीवामि जीवितव्यसनेन किम्॥ ९९॥
विधायकादिशब्दप्रधानं शास्त्रं, यथा—(बृहत्सं ७०.१)
स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः पादौ समोपचितचारुनिगूढगुल्फौ।
श्लिष्टाङ्गुली कमलकान्तितलौ च यस्या— स्तामुद्वहेद् यदि भुवोऽधिपतित्वमिच्छेत्॥ १००॥
अर्थप्रधान इतिहासः, यथा—
हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाऽप्युदैक्षत।
भयभ्रान्तैस्सुरैश्चक्रे तस्यै तस्यै दिशे नमः॥ १०१॥
शास्त्रे काव्यविनिवेशः काव्यशास्त्रं, यथा—
नान्दीपदानि रतनाटकविघ्नशान्तावाज्ञाक्षराणि परमाण्यथवा स्मरस्य।
दष्टेऽधरे प्रणयिना विधुताग्रपाणिसीत्कारशुष्करुदितानि जयन्ति नार्याः॥ १०२॥
इतिहासे काव्यविनिवेशः काव्येतिहासः, यथा—(माघ. १.४६)
स सञ्चरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः॥ १०३॥
इतिहासे शास्त्रार्थविनिवेशनं शास्त्रेतिहासः, यथा—(महाभा. १८.५.३८)
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्॥ १०४॥
(१७. वाकोवाक्यम् —६)
उक्तिप्रत्युक्तिर्वाकोवाक्यम्। सा षोढा—
ऋजूक्तिः, वक्रोक्तिः, वैयात्योक्तिः, गूढोक्तिः, प्रश्नोत्तरोक्तिः, चित्रोक्तिः इति। तासु
ऋजूक्तिर्यथा—(अमरु. ५७, पृ. ५११)
बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं॥ १०५॥
वक्रोक्तिर्यथा—
केयं मूर्ध्न्यन्धकारे तिमिरमिह कुतः सुभ्रु कान्तेन्दुयुक्ते कान्ताप्यत्रैव कामिन्ननु भवति मया पृष्ठमेतावदेव।
नाहं द्वन्द्व करोमि व्यपनय शिरसस्तूर्णमेनामिदानी— मेवं प्रोक्ते भवान्या प्रतिवचनजडः पातु वो मन्मथारिः॥ १०६॥
वैयात्योक्तिर्यथा—
कुशलं राधे! सुखितोऽसि कंस! कंसः क्व, स क्व, सा राधा।
इति पालीप्रतिवचनैर्विलक्षहासो हरेर्जयति॥१०७॥
गूढोक्तिर्यथा—
केशव! यमुनातीरे व्याहृतवानुषसि हंसिकां कोऽद्य।
कान्ताविरहभयातुरहृदयः प्रायः प्रियेऽहं सः॥ १०८॥
प्रश्नोत्तरोक्तिर्यथा—(अमरु. ७१)
क्व प्रस्थितासि करभोरु! घने निशीथे प्राणेश्वरो वसति यत्र जनः प्रियो मे।
एकाकिनी वद कथं न बिभेषि बाले! नन्वस्ति पुङ्खितशरो मदनः सहायः॥ १०९॥
चित्रोक्तिर्यथा—
कोऽयं कामिनि! भूषणं कितव ते शोणः कथं कुङ्कुमात् स्कूर्पासान्तरितः प्रिये विनिमयं पश्यापरं क्वास्ति मे।
पश्यामीत्यभिधाय सान्द्रपुलको मृद्न मृडान्याः स्तनौ हस्तेन प्रतिनिर्जितेन्दुरवतात् द्यूते हसन् वो हरः॥ ११०॥
(१८. प्रश्नोत्तरम् —६)
विदग्धगोष्ठीविनोदहेतुः पर्यनुयोगनिर्भेदः प्रश्नोत्तरम्। तत्षोढा— बहिःप्रश्नम्, अन्तःप्रश्नम्, बहिरन्तःप्रश्नम्, जातिप्रश्नम्, पृष्टप्रश्नम्, उत्तरप्रश्नमिति। तेषु —
बहिःप्रश्नं यथा—(मज्जन्मकरः)
भद्र! माणवकाख्याहि कीदृशः खलु ते पिता।
वेलान्दोलितकल्लोलः कीदृशश्च महोदधिः॥ १११॥
अन्तःप्रश्नं यथा—
काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम्।
कथमुक्तं न जानासि कदर्थयसि यत्सखे॥ ११२॥१
१. कथमुक्तं ‘क+थ’—वर्णाभ्यां ‘कदर्थयसी’—ति क्रियापदे विद्यमानाभ्यां मुक्तं ताभ्यां हीनं ‘दर्यसि’ इति यत् तदेवात्रोत्तरम्। बहिरन्तःप्रश्नं यथा—
सुभद्रां क उपायंस्त प्रश्नेऽमुष्मिन् य उत्तरः।
(‘नर’ इति) स कीदृक्कपिमाचष्टे व्योम्नि पर्णस्थितिः कुतः१॥
(‘वा’—पर इति) जातिप्रश्नं यथा—(हैमवार—करञ्जिना)
कीदृशा भूमिभागेन राजा स्नातोऽनुमीयते।
प्राङ्गणं कुरुतेत्युक्ताः किमाहुस्तदनिच्छवः॥ ११४॥
सेयं गतप्रत्यागतजाति।
पृष्टप्रश्नं यथा— (सक. पृ.३०३—४)
को सो जोअणवाओ को दंडाणं दुवे सहस्साइं।
(कस्स योजनपादः को दण्डानां द्वे सहस्त्रे।)
का काली का मधुरा किं शुकपृथुकाननच्छायम्॥ ११५॥
उत्तरप्रश्नं यथा—
किं वसन्तसमये वनभक्षः पृष्टवान् सपृथुलोमविलेखः।
उत्तरं च किमवापतुरेतौ काननादतिमिरादपि कालम् (ली)॥ ११६॥
(१९. प्रहेलिका —६)
प्रश्न एवानुत्तर प्रहेलिका। सा षोढा—
च्युताक्षरा, दत्ताक्षरा, च्युतदत्ताक्षरा, अक्षरमुष्टिः, बिन्दुमती, अर्थप्रहेलिका च। तासु च्युताक्षरा यथा— (विहङ्गिका हारेण)
पयोधरभराक्रान्ता संनमन्ती पदे पदे।
पदमेकं न का याति यदि हारेण वर्जिता॥ ११७॥
दत्ताक्षरा यथा—(शम्बरः)
प्ररूढयौवनः कोऽयं कान्तयानुगतः सुखी।
वने प्रयाति निश्शङ्कं शबरः सत्त्वसंकुले॥ ११८॥
च्युतदत्ताक्षरा यथा—
विदग्धः सरसो रागी नितम्बोपरि संस्थितः।
तन्वङ्ग्यालिङ्गितः कण्ठे कलं कूजति को विटः॥ ११९॥ (घटः)
१. व्योम्नि पर्णस्थितिर्वायुतो भवति। स नरयुक्तः ‘वानर’—रूपः कपिमाचष्टे। श्लोकादेरक्षरव्यत्यासेन कथनमक्षरमुष्टिः। यथा—
अतिः अतिः अन्म अलं प्रीद्य रद्य जद्य फद्य। मेलामेला मेलं मेलं फसफसफसफसः॥ १२०॥
अद्य मे सफला प्रीतिरद्य मे सफला रतिः।
अद्य मे सफलं जन्म अद्य मे सफलं फलम्॥ १२१॥
यथास्थितस्वरानुस्वारविसर्गसंयोगस्योक्तार्थस्य च श्लोकादेः कादिवर्णस्थाने बिन्दुविनिवेशो बिन्दुमती। तद्यथा—
तवापवादः प्रत्यब्धि पताका प्रतिसङ्गरम्।
फलं प्रत्यद्भुतोपायं यशांसि न तु न क्वचित्॥ १२२॥
अत्रार्थे, {/?/ /?/}
निर्भेदः —
ठुठठा ठुठठा ठाठा ठुंठुठे ठुंठठे ठठा।
ठाठठे ठाठठे ठिंठिं ठंठंठिठठिठीठठः॥१२३॥
उदधावुदधावाज्ञा संयुगे संयुगे जयः।
साहसे साहसे सिद्धिः सर्वत्र तव कीर्त्तयः॥ १२४॥
अर्थप्रहेलिका यथा—(पक्वमाम्रफलम्) (सक. २.३५८—३६५)
उत्तप्तकाञ्चनच्छायं संदष्टदशनच्छदम्।
सरसं चुम्ब्यते हृष्टैर्वृद्धैरपि किमुज्ज्वलम्॥ १२५॥
(२०. गूढम् —६)
गुप्तक्रियापदादिप्रयोगो गूढम्। तत्षोढा—
क्रियागूढं, कारकगूढं, संबन्धगूढं, वस्तुगूढं, पादगूढम्, अभिप्रायगूढं चेति। तेषु क्रियागूढं यथा—(न स्थ)
स्तनजघनभराभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः।
कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः॥ १२६॥
कारकगूढं यथा—
पिबतस्ते शरावेण वारि कह्लारशीतलम्।
केनेमौ दुर्विदग्धेन हृदये विनिवेशितौ॥ १२७॥
(शरौ) सम्बन्धगूढं यथा—(काव्याद. ३.१०८)
न मयागोरसाभिज्ञं चेतः कस्मात् प्रकुप्यसि।
अस्थानरुदितैरेभिरलमालोहितेक्षणे॥ १२८॥
वस्तुगूढं यथा—(दासी असि)
पानीयं पातुमिच्छामि श्यामे कमललोचने।
यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम्॥ १२९॥
पादगूढं यथा—(किराता. १५.४३)
द्युवियद्गामिनी तारसंरावविहतश्रुतिः।
हैमीषुमाला शुशुभे ‘विद्युतामिव संहतिः’॥ १३०॥
अभिप्रायगूढं यथा—
जइ देवरेण भणिआ खग्गं घेत्तूण राउलं वच्च।
ता किं सेवअवहुए हसिऊण वलोइअं असणं॥ १३१॥
(यदि देवरेण भणिता खङ्गं गृहीत्वा राजकुलं व्रज।
तत्किं सेवकवध्वा हसित्वावलोकितं शयनम्॥)
(सक. २.३६६–३७०)
निरीक्षितमनेनेह पुरुषायितलक्ष्म च।
पादलाक्षादिकं तेन नियुङ्क्ते मां न कर्मणि॥ १३२॥
इति। (२१. चित्रम् —६)
स्वरस्थानवर्णगतिबन्धाकारनियमश्चित्रम्। तत् षोढा स्वरादिनियमभेदात्। तेषु— चतुस्स्वरं यथा—(काव्याद. ३.८४)
आम्नायानामाहान्त्या वाग्गीतीरीतीः प्रीतीभीतीः।
भोगो रोगो मोहो मोदो ध्येये वेच्छेत् क्षेमे देशे॥ १३३॥
त्रिस्थानं यथा—(काव्याद. ३.८९)
अलिनीलालकलतं कं न हन्ति घनस्तनि!।
आननं नलिनच्छायनयनं शशिकान्ति ते॥ १३४॥
द्विवर्णं यथा—(माघ. १९.६६)
भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः॥ १३५॥
गतिचित्रं यथा—(माघ. १९.४४) गतप्रत्यागतार्थ(र्ध)म्
वारणागगभीरा सा साराभीगगणारवा।
कारितारिवधा सेना नासेधावरितारिका॥ १३६॥
बन्धचित्रं यथा—(माघ. १९.२९) मुरजबन्धः
सा सेना गमनारम्भे रसेनासीदनारता।
तारनादजना मत्तधीरनागमनामया॥ १३७॥
याश्रिता पावनतया यातनाच्छिदनीचया।
याचनीया धिया मायायामायासं स्तुता श्रिया॥ १३८॥
(देश. ४) पद्मम् (२२. श्लेषः —६)
द्वयोस्तन्त्रेणाभिधानं श्लेषः। स षोढा—
प्रकृतिश्लेषः, प्रत्ययश्लेषः, विभक्तिश्लेषः, वचनश्लेषः, पदश्लेषः, भाषाश्लेषः इति। तेषु —
प्रकृतिश्लेषो यथा—
त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः।
अनाख्यातं न ते किञ्चिदतस्त्वं नोपमीयसे॥ १३९॥
प्रत्ययश्लेषो यथा—
तस्या विनापि हारेण निसर्गादेव हारिणौ।
जनयामासतुः कस्य विस्मयं न पयोधरौ॥ १४०॥
विभक्तिश्लेषो यथा—
विषं निजगले येन बभ्रे च भुजगप्रभुः।
देहे योनाङ्गजो दध्रे जाया च स जयत्यजः॥ १४१॥
वचनश्लेषो यथा—
तनुत्वरमणीयस्य मध्यस्य च भुजस्य च।
अभवन्नितरां तस्या वलयः कान्तिवृद्धये॥ १४२॥
पदश्लेषो यथा—(काव्याद. २.२९)
अरिमेदः पलाशश्च बाहुः कल्पद्रुमश्च ते।
बालेवोद्यानमालेयं सालकाननशोभिनी॥ १४३॥
भाषाश्लेषो यथा—(रुद्रटा. ४.१५)
धीरागच्छदुमे हतमुदुद्धरवारिसदस्सु।
अभ्रमदप्प्रसराभरणुरविकिरणा तेजस्सु॥ १४४॥
(२३. यमकम्—६)
भिन्नार्थेकरूपा च वर्णसङ्घातावृर्त्तिर्यमकम्। तत् षोढा—
स्थानयमकम्, अस्थानयमकं, व्यपेतम्, अव्यपेतं, समुद्रकः, पादयमकमिति। तत्र पादानामादिमध्यान्ताः स्थानम्। तेषु —
शब्दसङ्घातावृत्ति स्थानयमकं, यथा—(काव्याद. ३.३४)
सालं सालम्बकलिकासालंसालं न वीक्षितुम्।
नालीनालीनवकुलानाली नालीकिनीरपि॥ १४५॥
अस्थानयमकं यथा—(रुद्रटा. ३.५७)
कमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम्।
तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम्॥ १४६॥
व्यवहितं व्यपेतयमकं यथा—(काव्याद. ३.२९)
कमलेः समकेशं ते कमलेर्ष्याकरं मुखम्।
कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु॥ १४७॥
अव्यवहितमव्यपेतयमकं यथा—(काव्याद. ३.१८)
रमणी रमणीया मे पाटलापाटलांशुका।
वारुणीवारुणीभूतसौरभाः सौरभास्पदम्॥ १४८॥
समुद्रको यथा—(पृ॰द्र. ३६२)
कान्तारतरुतलासितमृगयुवरचितान्तरा हरति वनान्ता॥ १४९॥
पादयमकं यथा—
कमलमलिरमुञ्चदुत्पलकलिकातरलोलमुत्पलाशकान्ते।
कान्ते स्म चक्षुरलिकुलकलिकातरलोलमुत्पलशकान्ते॥ १५०॥
(२४. अनुप्रासः —६)
वर्णानामनतिदूरान्तरमावृत्तिरनुप्रासः। स षोढा— वर्णानुप्रासः, स्थानानुप्रासः, पदानुप्रासः, नामानुप्रासः, पादानुप्रासः, व्यवहितानुप्रास इति। तत्र—
वर्णानुप्रासो यथा—
शिञ्जानमञ्जुमञ्जीरकाञ्चीसञ्चारचारवः।
रमयन्ति मनः कान्ता नितान्तं योगिनामपि॥ १५१॥
स्थानानुप्रासो यथा—(काव्याद. १.५३)
एष राजा यदा लक्ष्मीं प्राप्तवान् ब्राह्मणप्रियः।
तदाप्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत्॥ १५२॥
पदानुप्रासो यथा—
अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि।
इति न भजते वस्तु प्रायः परस्परसंकरं तदियमबला धत्ते लक्ष्मीं कथं सकलात्मिकाम्॥ १५३॥
नामानुप्रासो यथा—
कृत्वा कृत्वा कलकलं मारुतेन चलाचलः।
मातर्गुलुगुलायन्ते गजा इव घनाघनाः॥ १५४॥
पादानुप्रासो यथा—(काव्याद. १.३)
रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम्।
तावेव यदि न स्यातां तपसा किं प्रयोजनम्॥ १५५॥
व्यवहितानुप्रासो यथा—
प्रकाशो यशसा देवः प्रकाशो महसा रविः।
दुस्सहो द्विषतां स्वामी दुस्सहस्तमसां स च॥ १५६॥
चतुर्विंशतिरित्युक्ताः शब्दालङ्कारजातयः।
जात्यादिभेदतः पद्ये गद्येऽप्यासामयं क्रमः॥ १५७॥
इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा।
वाचामेव प्रसादेन लोकयात्रा प्रवर्तते॥ १५८॥
(काव्याद. १.३,४)
इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम्।
यदि शब्दाह्वयं ज्योतिरासंसारान्न दीप्यते॥ १५९॥
गतयस्तस्य यास्तिस्त्रो द्रुतमध्यविलम्बिताः।
लयान् पदगतेः प्राहुस्तान् गीते गीतवेदिनः॥ १६०॥
रीतयो वाङ्मयप्राणा हृदयं तस्य वृत्तयः।
रचनादित्रयं मूर्तिरनुप्रासस्तु जीवितम्॥ १६१॥
उक्तयो दैवतं छायामुद्राभणितयो वृतिः।
पठितिः श्रव्यता प्रेक्षाभिनयोऽध्ययनं धृतिः॥ १६२॥
श्लेषः पुष्णाति सर्वासु प्रायो वक्रोक्तिषु श्रियम्।
वाकोवाक्येन हृष्यन्ति मनांसि कृषतामपि॥ १६३॥
(काव्याद. २.३६२)
विनयेन विना का श्री. का निशा शशिना विना।
विना यमकचित्राभ्यां कीदृशीव विदग्धता॥ १६४॥
(काव्यालङ्कार १.४)
गूढं गूढचतुर्थादि वादिनां दर्पशान्तये।
प्रश्नोत्तरं तु नाम्नापि विदग्धमुखमण्डनम्॥ १६५॥
क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे।
परव्यामोहने चापि सोपयोगाः प्रहेलिकाः॥ १६६॥
(काव्याद. ३.९७)
यथामति यथायुक्ति यथौचित्यं यथारुचि।
कवेः पात्रस्य चैतासां प्रयोग उपपद्यते॥ १६७॥
यादृग् गद्यविधौ बाणः पद्यबन्धे न तादृशः।
प्रतिमार्गमियं देवी विचित्रा हि सरस्वती॥ १६८॥
संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः।
शक्यो रचयितुं कश्चिदपभ्रंशेन जायते॥ १६९॥
(काव्यमीमांसा)
पैशाच्या शौरसेन्यान्यो मागध्यान्यो निबध्यते।
द्वित्राभिः कोऽपि भाषाभिः सर्वाभिरपि कश्चन॥ १७०॥
कश्चिद् गद्येन पद्येन कश्चिन्मिश्रेण शक्यते।
निबद्धुं कश्चन द्वाभ्यां कश्चित्तु पथिभिस्त्रिभिः॥ १७१॥
संस्कृतेनैव केऽप्याहुः प्राकृतेनैव केचन।
साधारण्यादिभिः केचित् केचन म्लेच्छभाषया॥ १७२॥
न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नाप्राकृतं वदेत्।
सङ्कीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम्॥ १७३॥
वदन्ति संस्कृतं देवा प्राकृतं किन्नरादयः।
पैशाचाद्यं पिशाचाद्या मागधं हीनजातयः॥ १७४॥
केऽभूवन्नाढ्यराजस्य राज्ये प्राकृतभाषिणः।
काले श्रीसाहसाङ्कस्य के न संस्कृतवेदिनः॥ १७५॥
नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया।
कथा गोष्ठीषु कथयन् लोके बहुमतो भवेत्॥ १७६॥
शृण्वन्ति लटहं लाटाः प्राकृतं संस्कृतद्विषः।
अपभ्रंशेन तुष्यन्ति स्वेन नान्येन घूर्जराः॥ १७७॥
(काव्यमीमांसा)
ब्रह्मन् विज्ञापयामि त्वां स्वाधिकारजिहासया।
गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती॥ १७८॥
द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव।
संस्कारपूतेन वरं वरेण्या वधूं सुखग्राह्यनिबन्धनेन॥
(कुसं. ७.९०)
एतद् ग्राह्यं सुरभि कुसुमं ग्राह्यमेतन्न धेयं धत्ते शोभां विरचितमिदं स्थानमेवैतदस्य।
मालाकारो रचयति यथा साधु विज्ञाय मालां योज्यं काव्येष्ववहितधिया तद्वदेवाभिधानम्॥ १८०॥
(भामहा. १.५९)
गिरः श्रव्या दिव्याः प्रकृतिमधुराः प्राकृतधुराः सुभव्योऽपभ्रंशः सरसरचनं भूतवचनम्।
विदग्धानामिष्टे मगधमथुरावासिभणिती निबन्धा यस्तेषां स खलु कविराजो विजयते॥ १८१॥
(बारा. १.११) (२. अर्थालङ्काराः —२४)
अर्थमेव ये व्युत्पत्त्यादिना भूषयन्ति तेऽर्थालङ्काराश्चतुर्विंशतिः। तद्यथा—
जातिः सूक्ष्मः, सारः, समाहितं, भावः, विभावना, हेतुः, अहेतुः, सम्भवः, विरोधः, दृष्टान्तः, व्यतिरेकः, अन्योन्यं, परिवृत्तिः, मीलितं, वितर्कः, स्मरणं, भ्रान्तिः, उपमानम्, अनुमानम्, अर्थापत्तिः, अभावः, आगमः, प्रत्यक्षमिति। तत्र—
(१. जातिः)
नानावस्थानि जायन्ते यानि रूपाणि वस्तुनः।
स्वेभ्यः स्वेभ्यो निसर्गेभ्यस्तानि जातिं प्रचक्षते॥ १८२॥
(काव्याद. २.८)
अर्थव्यक्तेरियं भेदमियता प्रतिपद्यते।
जायमानमियं वक्ति रूपं सा सार्वकालिकम्॥ १८३॥
स्वरूपमाश्रयो हेतुरिति तद्भेदहेतवः।
ते संस्थानादयस्तेषु सा विशेषेण शोभते॥ १८४॥
(स. क. ३) तत्र — संस्थानम्, अवस्थानं, वेषो, व्यापार इत्यादयः स्वरूपं, मुग्धाङ्गनाः, शिशवः, तिर्यञ्च, हीनपात्राणीत्यादय आश्रयः, देशः, कालः, शक्तिः, साधनमित्यादयो हेतुः (सक.३.७)। तेषु —
संस्थानं यथा—(कुसं. ३.७०)
स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम्।
ददर्शं चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्॥ १८५॥
अवस्थानं यथा—(सक. ३.८.२)
पादावष्टम्भनम्रीकृतमहिषतनोरुल्लसद्बाहुमूलं शूलं प्रोल्लासयन्त्याः सुललितवपुषो मध्यभागस्य चण्ड्याः।
विश्लिष्टस्पष्टदृष्टोन्नतविरलवलिव्यक्तगौरान्तराला— स्तिस्त्रो वः पान्तु लेखाः क्रमवशविकसत्कञ्चुकप्रान्तमुक्ताः॥ १८६॥
वेषो यथा—(गास. ८२६ वे.)
षणपिट्ठधूसरत्थणि महुअतंबच्छि कुवलआहरेण।
कण्णकअचूअमंजरि पुत्ति तुए मंडिओ गामो॥ १८७॥
(क्षणपिष्टधूसरस्तनि! मधुमदताम्राक्षि! कुवलयाभरणे!।
कर्णकृतचूतमञ्जरि! पुत्रि! त्वया मण्डितो ग्रामः॥)
व्यापारो यथा—(माघ. ५.१५)
अग्रे गतेन वसतिं परिगृह्य रम्या— मापात्य सैनिकनिराकरणाकुलेन।
यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरा— दुद्वाहुना जुहुविरे मुहुरात्मवर्ग्याः॥ १८८॥
मुग्धाङ्गना यथा—(गास. २.४५)
सहिआहिं भण्णमाणा थणए लग्गं कुसुंभपुप्फं ति।
मुद्धवहुआ हसिज्जई पप्फोडंती णहवआहं॥ १८९॥
(सखीभिर्भण्यमाना स्तने लग्नं कुसुम्भपुष्पमिति।
मुग्धवधूर्हस्यते प्रस्फोटयन्ती नखपदानि॥)
शिशुर्यथा—(भामहा. २.९४)
आक्रोशन्नाह्वयन्ननाधावन् मण्डलं रुदन्।
गाः कालयति दण्डेन डिम्भः सस्यावतारिणीः॥ १९०॥
तिर्यग् यथा—(सक. ३.८.७)
लिढव्यस्तविपाण्डुराग्रनखयोराकर्णदीर्णं मुखं विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नद्विपः।
एतस्मिन् मदगन्धवासितसटः सावज्ञतिर्यग्वल— त्सृक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः॥ १९१॥
हीनपात्रं यथा—(सक. ३.८.८)
भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्गीयते स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः।
इत्यालोच्य चिरं दृशा करुणया शीतातुरेण स्तुतः पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः॥ १९२॥
देशो यथा—(सक. ३.८.९)
इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः क्रीडालोलद्विरदरदनारुग्णतरवः।
लताकुञ्जे यासामुपनदि रतिक्लान्तशबरी— कपोलस्वेदाम्भः—परिचयनुदो वान्ति मरुतः॥ १९३॥
कालो यथा—(सक. ३.८.१०)
कम्पन्ते कपयो भृशं जडकृशं गोऽजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति।
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत् स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति॥ १९४॥
शक्तिर्यथा—(काव्याद. २.११, सक. ३.८.११)
बन्धन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम्।
नेत्रे निमीलयन्नेष प्रियास्पर्शः प्रवर्तते॥ १९५॥
साधनं यथा—(सक. ३.८.१२)
उपनिहितहलीषासार्गलद्वारमारात् परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम्।
पवनरयतिश्चीर्वारिधाराः प्रतीच्छन् विशतिवलितश्रृङ्गः पामरागारमुक्षा॥
(२. सूक्ष्मः)
इङ्गिताकारलक्ष्योऽर्थः सूक्ष्मः सूक्ष्मगुणात्तु सः।
सूक्ष्मात् प्रत्यक्षतः सूक्ष्मोऽप्रत्यक्ष इति भिद्यते॥ १९७॥
स द्विधा— अभिधीयमानः प्रतीयमानश्च। तत्र —
अभिधीयमान इङ्गितलक्ष्यो यथा—(रघु. ६.१२)
तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः।
प्रवालशोभा इव पादापानां श्रृङ्गारचेष्टा विविधा बभूवुः॥ १९८॥
स एव आकारलक्ष्यो यथा—(रघु. ६.८१)
सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम्।
रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः॥ १९९॥
स एव उभयलक्ष्यो यथा—(सक. ३.५०)
त्वदर्पितदृशस्तस्या गीतगोष्ठ्यामवर्धत।
उद्दामरागपिशुना छाया कापि मुखाम्बुजे॥ २००॥
प्रतीयमान इङ्गितलक्ष्यो यथा—(गास. ५.१६)
वाहित्ता पडिवअणं ण देइ रूसेइ एक्कमेक्कस्स।
असई कज्जेण विणा पइप्पमाणे णईकच्छे॥ २०१॥
(व्याहृता प्रतिवचनं न ददाति रुष्यत्येकैकस्मिन्।
असती कार्येण विना प्रदीप्यमाने नदीकच्छे॥)
स एव आकारलक्ष्यो यथा—(गास. २.८०)
सामइ सामलीए अद्धच्छिपलोअरीअ मुहसोहा।
जंबूदलकअकण्णावअंसभमिरे हलिअउत्ते॥ २०२॥
{श्यामायाः श्यामलतया लायते अर्धाक्षिप्रलोकनशीलाया मुखशोभा।
जम्बूदलकृतकर्णावतंसभ्रमणशीले/कर्णावतंसभृते हालिकपुत्रे॥}
स एव उभयलक्ष्यो यथा—(किराता. ७.१४)
प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता।
न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम्॥ २०३॥
(३. सारः)
फल्गुनिरासेन अफल्गुनिर्धारणं सारः।
स द्विधा— धर्मरूपो धर्मिरूपश्च। तयोः —
धर्मरूपो यथा—
दानं वित्तादृतं वाचः॥ २०४॥
(पृ.द्र. ३६६) यथा वा—(सक. ३.५६)
पोढमहिलाण जं जं सुसिक्खिअं तं रए सुहावेइ।
जं जं असिक्खिअं णववहूण तंतं रइं देइ॥ २०५॥
(प्रौढमहिलानां यद्यत्सुशिक्षितं तद् रते सुखयति।
यद्यदशिक्षितं नववधूनां तत्तद् रतिं ददाति॥)
धर्मिरूपो यथा—(रुद्रट. ७.९७)
राज्ये सारं वसुधा वसुधायां पत्तनं पुरे सौधम्।
सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वम्॥ २०६॥
यथा वा—
मधु च विकसितोत्पलावतंसं शशिकरपल्लवितं च हर्म्यपृष्ठम्।
मदनजनितविभ्रमा च कान्ता सुखमिदमर्थवतां विभूतयोऽन्याः॥ २०७॥
(४. समाहितम्)
कार्यारम्भे सहकारिकारणावाप्तिः समाहितम्। सा द्विधा—
आकस्मिकी, बुद्धिपूर्विका च। तयोः —
आकस्मिकी यथा—(काव्याद. २.२९९)
मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम्॥ २०८॥
यथा वा—(किराता. २.५४)
अनुशासतिमित्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम्।
स्वयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः॥ २०९॥
बुद्धिपूर्विका यथा—
कल्पान्ते शमितत्रिविक्रममहाकङ्कालबद्धस्फुर— च्छेष-स्यूत-नृसिंह-वक्र-नखर-प्रोतादिकोलामिषः।
विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन् धीवरतां गतः स्यतु जगन्मोहं महाभैरवः॥ २१०॥
यथा वा—(सक. ३.१०५)
मूले पञ्च ततश्चतुष्टयमिति स्त्रक्संनिवेशैः शिरः— पुष्पैरन्यतमावलोकनमितैरुच्छोणितैरर्चिते ।
हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमारोपयन् शम्भोरद्भुतसाहसैकरसिकः कैर्न स्तुतो रावणः॥ २११॥
(५. भावः)
अभिप्रायानुकुलः प्रवृत्तिविशेषो भावः। स द्विधा— सोद्भेदो निरुद्भेदश्च। तयोः सोद्भेदो यथा—(गास. २.३०)
सालोए च्चिअ सूरे घरिणी घरसामिअस्स घेत्तूण।
णेच्छंतस्स वि पाए धुअइ हसंती हसंतस्स॥ २१२॥
(सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा।
अनिच्छतोऽपि पादौ धावति हसन्ती हसतः॥)
यथा वा—(गास. २.१००)
भद्द/गेणह पुलोएह इमं विअसिअवअणा पिअस्स ओप्पेइ।
घरिणी सुअपढमुब्भिण्णदंतजुअलंकिअं बोरम्॥ २१३॥
(भद्र प्रलोकयेमं विकसितनयना प्रियायार्पयति।
गृहिणी सुतप्रथमोद्भिन्नदन्तयुगलाङ्कितं बदरम्॥)
निरुद्भेदो यथा—(गास. २.७)
गोला—अड—ठ्ठिअं पेच्छिऊण गहवइ—सुअं हलिअसोण्हा।
आढत्ता उत्तरिउं दुक्खुत्ताराए पअवीए॥ २१४॥
(गोदातटस्थितं प्रेक्ष्य गृहपतिसुतं हालिकस्नुषा।
आरब्धा उत्तरितुं दुःखोत्तारया पदव्या॥)
यथा वा—(सक. ३.१४०)
सालिवणगोविआए उड्डीयं/वंतीअ पूसविंदाइं।
सव्वंगसुंदरीएं वि पहिआ अछीह पेच्छंति॥ २१५॥
(शालिवनगोपिकाया उड्डाययन्त्याः शुकबृन्दानि।
सर्वाङ्गसुन्दर्या अपि पथिका अक्षिणी एव प्रेक्षन्ते॥)
हृद्यं सूक्ष्मं च भाव एव। तयोर्हृद्यं यथा— (गास. ९१६ वे.)
हिअए रोसुग्गिण्णं पाअप्पहरं सिरेण पत्थंतो।
ण हओ दइओ माणांसिणीए थोरस्सुअं रुण्णं॥ २१६॥
(हृदये रोषोद्गीर्णं पादप्रहारं शिरसा प्रार्थितवान्।
न हतो दयितो मनस्विन्या स्थूलाश्रुकं रुदितम्॥)
सूक्ष्मो यथा—(काव्याद. २.२६१)
कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम्।
अवेत्य कान्तमबला लीलापद्मं न्यमीलयत्॥ २१७॥
(६. विभावना)
प्रसिद्धहेतुत्यागेन हेत्वन्तरविभानम्।
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना॥ २१८॥
तयोराद्या यथा—(कुसं. १.३१)
असम्भृतं मण्डनमङ्ग्यष्टेरनासवाख्यं करणं मदस्य।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात् परं साथ वयः प्रपेदे॥ २१९॥
यथा वा—(काव्याद. २.२००)
अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम्।
अप्रसादितसूक्ष्माम्बु जगदासीन्मनोहरम्॥ २२०॥
द्वितीया यथा—
णमह अवट्ठिअतुङ्गं॥ २२१॥
(सेब. १.१) (द्र॰ ३.६०;७.२०१) यथा वा—(कुसं. १.१०)
वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः॥ २२२॥
(७. हेतुः)
प्रवृत्तिनिवृत्त्योर्निबन्धनं हेतुः। स षोढा—
प्रवर्तकः, निवर्तकः, प्रयोजकः, ज्ञापकः, अभावहेतुश्चित्रहेतुश्च। तत्र —
प्रवर्तको यथा—
जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते।
गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभावाश्च सम्पदः॥ २२३॥
निवर्तको यथा—(शाकु. ६.२२)
प्रजागरात् खिलीभूतस्तस्याः स्वप्ने समागमः।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि॥ २२४॥
प्रयोजको यथा—(काव्याद. २.१४३)
मानयोग्यां करोमीति प्रियस्थाने स्थितां सखीम्।
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा॥ २२५॥
ज्ञापको यथा—(सक. ३.१५३)
गज्जंते खे मेहा फुल्ला णीवा पणच्चिआ मोरा।
णठ्ठो चंदुज्जोओ वासारत्तो हला पत्तो॥ २२६॥
(गर्जन्ति खे मेघाः, फुल्ला नीपाः, प्रणर्तिता मयूराः।
नष्टश्चन्द्रोद्द्योतो वर्षर्तुः सखि प्राप्तः॥)
अभावहेतुर्यथा—(काव्याद. २.२४७)
अनभ्यासेन विद्यानामसंसर्गेण धीमताम्।
अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम्॥ २२७॥
चित्रहेतुर्यथा—(अमरु.३४)
सा बाला वयमप्रगल्भमनसः, सा स्त्री वयं कातराः, सा पीनोन्नतिमत्ययोधरभरं धत्ते सखेदा वयम्।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं, दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम्॥ २२८॥
(८. अहेतुः)
सत्यपि सामर्थ्येऽनुत्पादितस्वकार्यो व्याहतश्च हेतुरहेतुः। तयोः—
अनुत्पादितस्वकार्यो यथा—
न विरचिता ललाटतटलास्यकरी भ्रुकुटि— र्न परुषहुङ्कृतेन मधुरस्मितमन्तरितम्।
न तव निशुम्भसम्भ्रमवशादपि दारुणया भगवति चेष्टया कलुषितं वदनाम्बुरुहम्॥ २२९॥
(सक.३.४३) यथा वा—(ध्व. १.१३,१४)
अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः।
अहो दैवगतिश्चित्रा तथापि न समागमः॥ २३०॥
व्याहतो यथा—(मेघ. ६९)
नीवीबन्धोच्छ्वसितशिथिलं यत्र यक्षाङ्गनानां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु।
अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः॥ २३१॥
यथा वा—(सक. ३.४६)
शम्भोरुद्धनृत्तकर्मणि करे कङ्कालमाद्यं हरेः संघट्टस्फुटितेन्दुमण्डलगलत्पीयूषसञ्जीवितम् ।
तत्कालप्रणते मुरद्विषि नवे दृष्ट्वा विलासं श्रियः कुर्वत्कोपकषायितेन मनसा मिथ्योत्प्लुतीः पातु वः॥ २३२॥
(९. सम्भवः)
प्रबलकारणकलापदर्शनादिदमेवं भवेदिति ज्ञानं सम्भवः।
स चतुर्धा— विधिरूपो, निषेधरूप उभयरूपोऽनुभयरूपश्च। तेषु —
विधिरूपो यथा— (मेघ.४६)
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम्।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी— रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्॥ २३३॥
निषेधरूपो यथा—(किराता. १६.२३)
परस्य भूयान् विवरेऽभियोगः प्रसह्य संरक्षणमात्मरन्ध्रे।
भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा न सम्भवत्येव वनेचरेषु॥ २३४॥
उभयरूपो यथा—(मेघ. २२)
उत्पश्यामि द्रुतमपि सखे ! मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभो पर्वते पर्वते ते।
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत्॥ २३५॥
अनुभयरूपो यथा—(मेघ.५१)
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयोस्तिर्यगम्भः।
संसर्पन्त्या सपदि भवतः स्त्रोतसि च्छायया सा स्यादस्थानोपगतयमुनासङ्गमेनाभिरामा ॥ २३६॥
(१०. विरोधः)
पदार्थानां परस्परासङ्गतिर्विरोधः। यथा— (सक. ३.६०)
क्व युवतिमार्दवं क्व च महाहवदारुणता क्व च वलयी करः क्व करिदन्तजमुष्टिरसिः।
क्व च नवयौवनं क्व कुसुमायुधनिस्स्पृहता तव ललनाविचेष्टितविरुद्धमहो ललितम्॥ २३७॥
यथा वा—
दिग्वासा यदि तत् किमस्य धनुषा सास्त्रस्य किं भस्मना भस्माथास्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम्।
इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो भृङ्गी सान्द्रशिरावनद्धपरुषं धत्तेऽस्थिरशेषं वपुः॥ २३८॥
विषमम्, असङ्गतिः, प्रत्यनीकम् अधिकं च विरोध एव। तेषु —
विषमं यथा— (काद.)
दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः।
चकार यस्याध्वरधूमसञ्चयोमलीमसः शुक्लतरं निजं यशः॥ २३९॥
असङ्गतिर्यथा— (सक. ३.६२)
सा उप्पडी गोट्ठउहि॥ २४०॥ (द्र॰ ८.०५, पृ.३९८)
प्रत्यनीकं यथा—(रुद्रटा. ७.५५)
उत्कण्ठा सन्तापो रणरणको जागरस्तनोस्तनुता।
फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा॥ २४१॥
अधिकं यथा—(रघु. १२.४५)
एको दशरथिः कामं यातुधानाः सहस्त्रशः।
ते तु यावन्त एवाजौ तावद्धा ददृशे स तैः॥ २४२॥
(११. दृष्टान्तः)
उक्तार्थप्रसिद्धये प्रसिद्धतत्तुल्यार्थप्रदर्शनं दृष्टान्तः।
स चतुर्धा— पूर्वः, उत्तरः, समः, विपरीतश्च। तेषु —
पूर्वो यथा—(सक. ३.८९)
ण उव वरकोअण्डदण्डए पुति माणुसे वि एमेअ।
गुणविज्जए ण जाअइ वंसुप्पण्णे वि टङ्कारो॥ २४३॥
(न पुनर्वरकोदण्डदण्डके पुत्रि ! मानुषेऽप्येवमेव।
गुणवर्जिते न जायते वंशोत्पन्नेऽपि टङ्कारः॥)
उत्तरो यथा—(सक. ३.८६)
हिअअ तिरच्छीयइ संमुह॥ २४४॥
(द्र. ८.०९; पृ. ३९९) समो यथा—(काव्याद. २.३५०)
याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम्।
सद्यो राजविरुद्धानां दर्शयन्ती दुरन्तताम्॥ २४५॥
विपरीतो यथा—(मुरा. १.२१)
उपरिघनं घनपटलं दूरे दयिता किमेतदापतितम्।
हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि॥ २४६॥
(१२. व्यतिरेकः)
सदृशयोर्भेदकथनं व्यतिरेकः।
स षोढा—एकव्यतिरेकः, उभयव्यतिरेकः, सदृशव्यतिरेकः, असदृशव्यतिरेकः, स्वजातिव्यतिरेकः, स्वव्यक्तिव्यतिरेक इति। तत्र—
एकव्यतिरेको यथा— (रुद्रटा. ५.८७)
सकलङ्केन जडेन च साम्यं दोषाकरेण ते कीदृक्।
अभुजङ्गः समनयनः कथमुपमेयो हरेणासि॥ २४७॥
उभयव्यतिरेको यथा— (काव्याद. २.१८३)
अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानापि।
असावञ्जनसंकाशस्त्वं तु चामीकरच्छविः॥ २४८॥
सदृशव्यतिरेको यथा— (काव्याद. २.१९४)
चन्द्रोऽयमम्बरोत्तंसो हंसोऽयं तोयभूषणम्।
नभा नक्षत्रमालीदमिदमुत्कुमुदं पयः॥ २४९॥
असदृशव्यतिरेको यथा— (काव्याद. २.१९९)
अभ्रूविलासमस्पृष्टमदरागं मृगेक्षणम्।
इदं तु नयनद्वन्द्वं तव तद्गुणभूषितम्॥ २५०॥
स्वजातिव्यतिरेको यथा— (काव्याद. २.१९७)
अरत्नालोकसंहार्यमवार्यं सूर्यरश्मिभिः।
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः॥ २५१॥
स्वव्यक्तिव्यतिरेको यथा— (सक. ३.९१)
अण्णोण्णोहिं सुचरिअसअहिं अणुदिण वड्ढिइअ माणु।
अप्पण वि ण हु महु पि अह अप्पाणेण समाणु॥ २५२॥
(अन्योन्यैः सुचरितशतैरनुदिनं वर्धते मानः।
आत्मापि न खलु महानपि अथात्मना समानः॥)
(१३. अयोन्यम्)
परस्परमुपकार्योपकारकादिभावोऽन्योन्यम्।
तत्त्रिधा—अभिधीयमानं, प्रतीयमानम् उभयरूपं चेति। तेषु —
अभिधीयमानं यथा— (कुसं. १.४२)
कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य।
अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः॥ २५३॥
प्रतीयमानं यथा— (गास. २.६१)
उद्धच्छो पिअइ जलं जह जह विरलंगुली चिरं पहिओ।
पावालिआ वि तह तह धारं तणुअं पि तणुएई॥ २५४॥
(ऊर्ध्वाक्षः पिबति जलं यथा यथा विरलाङ्गुलिश्चिरं पथिकः।
प्रपापालिकापि तथा तथा धारां तनुकामपि तनूकरोति॥)
उभयरूपं यथा—(गास. २.९३)
गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुक्को।
अणुअंपाणिद्दोसं तेण वि सा गाढमुअवऊढा॥ २५५॥
(गोदाविषमावतारच्छलेन आत्मा उरसि तस्य मुक्तः।
अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा॥)
अन्योन्यचूलिका, अन्योन्यभ्रान्तिः, अन्योन्यैकता चान्योन्यमेव। तत्रात्र—
अन्योन्यचूलिका यथा—(सक. ३.७५)
शशिना च निशा निशया च शशी शशिना निशया च यथा गगनम्।
भवता च सभा सभया च भवान् भवता सभया च विभाति जगत्॥ २५६॥
अन्योन्यभ्रान्तिर्यथा—
जम्बूनां कुसुमोदरे नवमधुन्यारब्धपानोत्सवाः कीराः पक्वफलाशया मधुकरीश्चुम्बन्ति मुञ्चन्ति च।
एतेषामपि नीलकिंशुकदलैरेभिः समानत्विषां पुष्पभ्रान्तिभिरापतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः॥ २५७॥
अन्योन्यैकता यथा—(माघ. १.२२)
प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः।
परस्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः॥ २५८॥
(१४. परिवृत्तिः)
गुणद्रव्याणां व्यत्ययविनिमयौ परिवृत्तिः। सा त्रिधा—
व्यत्ययवती, विनिमयवती, उभयवती च। तेषु —
व्यत्ययवती यथा—(गास. २.६)
जो तीअ अहरराओ रत्तिं उव्वासिओ पिअअमेण।
सो च्चिअ दीसइ गोसे सवत्तिणअणेषु संकंतो॥ २५९॥
(यस्तस्या अधररागो रात्रावुद्वासितः प्रियतमेन।
स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः॥)
यथा वा—(माघ. ११.६४)
कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमाँश्चक्रवाकः।
उदयमहिमरशिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः॥२६०॥
विनिमयवती यथा—(किराता. ७.३५)
प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा।
किञ्जल्कव्यतिकरताम्रदानलेखैरुत्तेरुः सरसिजगन्धिभिः कपोलैः॥ २६१॥
यथा वा—(राच. २.७)
तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिह शोच्यतेऽधुना।
येन जर्जरकलेबरव्ययात् क्रीतमिन्दुकिरणोज्ज्वलं यशः॥ २६२॥
उभयवती यथा—(किराता. ९.६०)
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने॥ २६३॥
यथा वा—(सक. ३.८३)
किं चित्रं यदि देवेन भूभृतः करदीकृताः।
देवोऽपि दापितः किं तैर्न पुनः पृष्ठतः करम्॥ २६४॥
(१५. मीलितम्)
वस्तुना वस्त्वन्तरतिरस्कारो मीलितम्। यथा— (सक. ३.१२६)
एंतो वि ण सच्चविओ गोसे पसरंतपल्लवारुणच्छाओ।
मज्जणतंबेसु मओ तह मअतंबेसु लोअणेसु अमरिसो॥ २६५॥
(आगच्छन्नपि न दृष्टः प्रातः प्रसरत्पल्लवारुणच्छायः।
मज्जनताम्रयोर्मदस्तथा मदताम्रयोर्लोचनयोरमर्षः॥)
यथा वा— (गास. ४.२३)
पिअदंसणेण सुहरस—मुउलिअ जइ से ण होंति णअणाइं।
ता केण कण्णरइअं लक्खिज्जइ कुवलअं तिस्सा॥ २६६॥
(प्रियदर्शनेन सुखरसमुकुलिते यद्यस्या न भवेतां नयने।
तत् केन कर्णरचितं लक्ष्येत कुवलयं तस्याः॥)
पिहितम्, अपिहितं, तद्गुणोऽतद्गुण इतीमान्यपि मीलितान्येव। तेषु — पिहितं यथा—
पअडिअसणेहसब्भावविब्भमं तीअ जह तुमं दिट्ठो।
संवरणवावडाए अण्णो वि जणो तह च्चेअ॥ २६७॥
(प्रकटितस्नेहसद्भावविभ्रमं तया यथा त्वं दृष्टः।
संवरणव्यापृतया अन्योऽपि जनस्तथा चैव॥)
(गास.२.९९) अपिहितं यथा—(गास. ७२० वे.)
दिठ्ठा इ जंण दिठ्ठो आलविआए वि जंण आलविओ।
उवआरो जं ण कओ तं चिअ कलिअं छइल्लेहिं॥ २६८॥
(दृष्टयापि यन्न दृष्ट आलपितयापि यन्नालपितः।
उपचारो यन्न कृतस्तदेव च कलितं छेकैः॥)
तद्गुणो यथा—(सक. ३.१३०)
गोरंगउ तरुणीअणु जोण्हइ अहिसरइ सिअणेवच्छपडिच्छिउ वल्लहवद्धरइ।
तच्छाअहिं पुणु चलिअउ सामलगत्तु तहिं मअणु मंतिअहिं॥ २६९॥
(गौराङ्गस्तरुणीजनो ज्योत्स्नायामभिसरति सितनेपंथ्यपरिच्छन्नो वल्लभबद्धरतिः।
तच्छायासु पुनश्चलितः श्यामलगात्रस्तत्र मदनो मन्त्र्यभूत्॥)
अतद्गुणो यथा—(सक. ३.१३१)
कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते।
कीर्त्या ते धवलीकृते त्रिभुवने क्ष्मापाल ! लक्ष्मीः पुरः कृष्णं वीक्ष्य बलोऽयमित्युपहितव्रीडं शनैर्जल्पति॥ २७०॥
(१६. वितर्कः)
सन्देहनिर्णयान्तरालवर्त्यूहो वितर्कः।
स द्विधा— निर्णयान्तोऽनिर्णयान्तश्च। तयोः —
निर्णयान्तस्त्रिधा तत्त्वानुपाती, अत्तत्त्वानुपाती, उभयात्मकश्च।
अनिर्णयान्तोऽपि त्रिधा मिथ्यारूपः, अमिथ्यारूपः उभयात्मकश्च। तेषु —
निर्णयान्तस्तत्त्वानुपाती यथा—(उराच. २.२९)
मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतस्स वज्रपतनाद् भीतो महेन्द्रादपि।
तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं आ ज्ञातं स जटायुरेव जरसा क्लिष्टो वधं वाञ्छति॥ २७१॥
अतत्त्वानुपाती यथा—(विक्र.१.८)
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तप्रभः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः।
वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः॥ २७२॥
उभयात्मको यथा—(शाकु.२.९)
चित्रे निवेश्य परिकल्पितसत्त्वयोगा रूपोच्चयेन रचिता मनसा कृता नु।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः॥ २७३॥
अनिर्णयान्तमिथ्यारूपो यथा—(मेघ. १४)
अद्रेः शङ्गं हरति पवनः किंस्विदित्युन्मुखीभि— र्दृष्टोच्छ्रायश्चकितचकितं मुग्धसिद्धाङ्गनाभिः।
स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान्॥ २७४॥
अमिथ्यारूपो यथा— (किराता. १८.९)
अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना।
समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः॥ २७५॥
उभयात्मको यथा—(किराता. १६.१८)
माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः।
गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते॥ २७६॥
(१७. स्मरणम्)
सादृशादृष्टचिन्तादेरनुभूतपदार्थज्ञानोत्पत्तिः स्मरणम्। तत् — सदृशाद्यथा—(राच. १.१९)
अदृश्यन्त पुरस्तेन खेलत्खञ्जनपङ्क्तयः।
अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः॥ २७७॥
अदृष्टाद् यथा—(शाकु. ६.८)
मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः।
मनसिजेन सखे ! प्रहरिष्यता धनुषि चूतशरश्च निवेशितः॥ २७८॥
चिन्ताया यथा—(उराच. २.२७)
पुरा यत्र स्त्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति॥ २७९॥
आदिग्रहणात्परप्रयत्नतो यथा—(शाकु. ६.२१)
दर्शनपथमायाता साक्षादिव तन्मयेन हृदयेन।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता॥ २८०॥
स्वप्नस्मृतिः, प्रत्यभिज्ञानं च स्मरणमेव। तयोः —
स्वप्नस्मृतिर्यथा—(विसा. १.१५)
जाने स्वप्नविधौ ममाद्य चुलुकोत्सेक्यं पुरस्तादभूत् प्रत्यूषे परिवेषमण्डलमिव ज्योत्स्नासपत्नं महः।
तस्यान्तर्नखनिस्तुषीकृतशरच्चन्द्रप्रभैरङ्गकै— र्दृष्टा काप्यबला बलात् कृतवती सा मन्मथं मन्मथम्॥ २८१॥
प्रत्यभिज्ञानं यथा—(उराच. ३.४०)
गृहीतो यः पूर्वं परिणयविधौ कङ्कणधरः सुधासूतेः पादैरमृतशिशिरैर्यः परिचितः।
स एवायं तस्यास्तदितारकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दलनिभः॥ २८२॥
(१८. भ्रान्तिः)
विपर्ययज्ञानं भ्रान्तिः। सा द्विधा— अतत्त्वे तत्त्वरूपा, तत्त्वे अतत्त्वरूपा च। अतत्त्वे तत्त्वरूपा त्रिधा— अबाधिता, बाधिता कारणबाधिता च। तासु—
अबाधिता यथा—(सक. ३.१०८)
मोहविरमे सरोसं थोरत्थणमंडले सुरवहूणं।
जेण करिकुंभसंभावणाइ दिठ्ठी परिट्ठविआ॥ २८३॥
(मोहविरमे सरोषं स्थूलस्तनमण्डले सुरवधूनाम्।
येन करिकुम्भसम्भावनया दृष्टिः परिस्थापिता॥)
बाधिता यथा—(गास.३.६३)
हसिअं सहत्थतालं सुक्खवडं उवगएहि पहिएहि।
पत्थप्फलसारिच्छे उड्डीणे पूसवंदस्सिं/म्मि॥ २८४॥
(हसितं सहस्ततालं शुष्कवटमुपगतैः पथिकैः।
पत्रफलसदृक्षे उड्डीने शुकवृन्देऽस्मिन्/वृन्दे॥)
कारणबाधिता यथा—(सक. ३.११०)
कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम्।
असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ् जयति जनितव्रीडाहासः प्रियाहसितो हरिः॥ २८५॥
तत्त्वे अतत्त्वरूपापि त्रिधा— हानहेतुः, उपादानहेतुः, उपेक्षाहेतुश्च। तासु— हानहेतुर्यथा—(सक. ३.१११)
सो मुद्धमओ मअतण्हिआहिं तह दूमि तुह आसाहिं/दूमिओ हआसाहिं।
जह संभावमईण वि णईण परंमुहो जाओ॥ २८६॥
(स मुग्धमृगो मृगतृष्णिकाभिस्तथा दूनस्त्वदाशाभिः।
यथा सद्भावमयीष्वपि नदीषु पराङ्मुखो जातः॥)
उपादानहेतुर्यथा—(विक्रमो. ४.३९)
समर्थये यत् प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा।
अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभाविताप्रियः॥ २८७॥
उपेक्षाहेतुर्यथा—(माघ. ३.५१)
चिक्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम्।
मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने॥ २८८॥
भ्रान्तिमान्, भ्रान्तिमाला, उपमाभ्रान्तिः, भ्रान्त्यतिशयश्च भ्रान्तिरेव। तेषु — भ्रान्तिमान् यथा—
कपाले मार्जारः पय इति कराल्ँलेढि शशिन— स्तरुच्छिद्रप्रोतान् बिसमिति करी संकलयति।
रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति॥ २८९॥
भ्रान्तिमाला यथा—(सक. ३.११५)
नीलेन्दीवरशङ्क्या नयनयोर्बन्धूकबुद्धयाधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः।
लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति॥ २९०॥
उपमाभ्रान्तिर्यथा—(विक्रमो. ४.७)
हृतोष्ठरागैर्नयनोदबिन्दुभिर्निमग्ननाभेर्निपतद्भिरङ्कितम् ।
च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम्॥ २९१॥
भ्रान्त्यतिशयो यथा—(सक. ३.११७)
दिश्याद् धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी शाशाङ्की कलिका जलभ्रमिवशाद् द्राग्दृष्टनष्टा मुदम्।
यां चञ्चच्छफरीभ्रमेण मुकुलीकुर्वन् फणालीं मुहु— र्मुह्यल्ँलक्ष्यमहिर्जिघृक्षतितमामाकुञ्चनप्राञ्चनैः ॥ २९२॥
अनध्यवसायोऽपि भ्रान्तिरेव। यथा—(सक. ३.११९)
उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयो— स्तदूर्घ्वं रत्नाश्मस्थलमथ दुरूहं किमपि तत्।
ततः कुम्भौ पश्चाद् बिसकिसलये कन्दलमये तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदम्॥ २९३॥
यथा वा—(सक. ३.११८)
विरहिणिजणह दअंतेण णावइ तक्खणि छाइज्जइ अलिणिवहेहिं चेत्तेण चूअवणी।
तह तासु वि मअरंदेहिं संदाणिअइ जह ण क्लंबु ण अंबु ण जंबू जाणिअइ॥ २९४॥
(विरहिणीजनस्य दयमानेन प्रतिभाति ननु तत्क्षणे छाद्यतेऽलिनिवहैश्चैत्रेण चूतवनी।
तथा तास्वपि मकरन्दैः सन्दान्यते यथा न कदम्बो नाम्रो न जम्बूर्ज्ञायते॥)
(१९. उपमानम्)
सदृशात् सदृशप्रतिपत्तिरुपमानम्। यथा—
तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले।
समूहस्तारकाणां यः शकटाकारमाश्रितः॥ २९५॥
यथा वा—(मवीच.१.४५)
सर्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्ष— स्तत्संघट्टाद् विघटितबुहत्खण्डमुच्चण्डरोचिः।
एवं वेगात् कुलिशमकरोद् व्योम विद्युत्सहस्रै— र्भर्तुर्वज्रज्वलनकपिशास्ते च रोषाट्टहासाः॥ २९६॥
अभिनयोऽप्युपमानमेव। यथा—(गास. ३.५७)
वइविवरणिग्गअदलो एरंडो साहइ व्व तरुणाणं।
एत्थ घरे हलिअबहू एद्दहमेत्तत्थणी वसइ॥ २९७॥
(वृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणानाम्।
अत्र गृहे हलिकवधूरेतावन्मात्रस्तनी वसति॥)
एतेन प्रतिबिम्बमुद्रालेख्यादयो व्याख्याताः। तेषु —
प्रतिबिम्बो यथा—(कुसं. ८.११)
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः।
वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया॥ २९८॥
मुद्रा यथा—(किराता. १०.७)
सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः।
क्षितिषु ददृशिरे जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि॥ २९९॥
आलेख्यं यथा—
तवालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णासुतमपि।
अथ स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति॥ ३००॥
अथास्योपमाभेदः। को भेदः ?
उच्यते—‘पदार्थयोर्गुणलेशेन सादृश्यप्रतिपत्तिरुपमा’। यदाह— (काव्याद. २.१४)
यथाकथंचित् सादृश्यं यत्रोद्भूतं प्रतीयते।
उपमां नाम तामाहुर्यथेन्दुरिव ते मुखम्॥ ३०१॥
उपमैव तिरोभूतभेदा रूपकमिष्यते।
यथा बाहुलता पाणिपद्मं चरणपल्लवम्॥ ३०२॥
(काव्याद. २.६६)
यदप्रसिद्धौ सादृश्यमुक्तिभङ्गेन केनचित्।
तत्सादृश्यं प्रकाराणामस्य संख्या न विद्यते॥ ३०३॥
तद्यथा—(सक. ४.७१)
दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः सन्तश्चेदमृतं वृथा यदि खलास्तत्कालकूटेन किम्।
किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम्॥ ३०४॥
यथा वा—(रघु. २.६)
स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः।
जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत्॥ ३०५॥
एवमन्येऽप्यन्योक्त्यादयो वक्तव्याः। ते चोभयालङ्कारे विशेषेणाग्रतो वक्ष्यन्ते। तेषूभयोः सादृश्यमिवादयः प्रतिपादयन्ति। इह तु सदृशेन सदृशः प्रतीयत इत्यस्ति भेदः।
(२०. अनुमानम्)
लिङ्गदर्शनाद् लिङ्गिज्ञानम् अनुमानम्। यथा—(रुद्रटा. ७.५७)
सावज्ञमागमिष्यन् नूनं पतितोऽसि पादयोस्तस्याः।
कथमन्यथा ललाटे यावकरसतिलकपङ्क्तिरियम्॥ ३०६॥
यथा वा—(रुद्रटा. ७.६०)
अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः।
अयमायातः कालो हन्त मृताः पथिकगेहिन्यः॥ ३०७॥
कोऽस्य ज्ञापकाद् भेद इति चेदुच्यते—‘जानन्तं प्रयुङ्क्त इति ज्ञापकः; अनु पश्चान्मीयते अनेनेत्यनुमानम्। नन्विदमपि ज्ञापयति, सत्यम्। किंत्विदमजिज्ञासुमपि ज्ञापयति, स तु जिज्ञासुमेव। यथा—(गसा.६.४२)
दीसइ ण चूअमउलं अत्ता ण अ वाइ मलअगंधवहो।
एत्तं वसंतमासं सहि जं उक्कठिअं चेअं॥ ३०८॥
(दृश्यते न चूतमुकुलमद्य न च वाति मलयगन्धवहः।
एति वसन्तमासः सखि ! यदुत्कण्ठितं चेतः॥)
अथवा प्रमितिरूपं फलमनुमानम्। यथा—
अइ सहि वक्कुलजाविरि, छुहिहिसि गोत्तस्स मत्थए छारं।
अच्चंत—दत्त—दिट्ठेण सामि वलिस्ण हसिएण॥ ३०८a॥
(अयि सखि वक्रोल्लपनशीले क्षप्स्यरिन गोत्रस्य मस्तके क्षारम्।
अत्यन्तदत्तदृष्टेन सामि=अर्ध—वलितेन हसितेन॥)
(द्र.जो.४०७)
अंबाण मंजरी णिगअ त्तिअ कस्स णु कहेमि पोद्दाए।
चित्तपरिअत्तणेण पुढमं अंहेहि विण्णाअं॥३०९॥
(आम्राणां मञ्जरी निर्गता इति कस्य नु कथयामि पुत्र्याः।
चित्तपरिवर्त्तनेन प्रथममस्माभिर्विज्ञातम्॥)
(द्र.रा.पृ.६२१) प्रमाणरूपो हेतुर्ज्ञापकः। यथा—(काव्याद. २.२४५)
अवध्यैरिन्दुपादानामसाध्यैश्चन्दनाम्भसाम् ।
देहोष्मभिः सुबोधं ते सखि ! कामातुरं मनः॥ ३१०॥
यदि वा उपात्तव्यापारोऽनुमानहेतुः यथा—(सक. २.२८)
एतानि निस्सहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति पदानि तस्याः।
एते च मार्गतरवः कथयन्ति तापमालम्बितोज्झितपरिग्लपितैः प्रवालैः॥
अनुपात्तव्यापारो ज्ञापकः। स त्रिधा—त्रिकालार्थविषयभेदात्। तेषु भूतार्थविषयो यथा—(काव्याद्. २.१२)
कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः।
जटाभिः स्निग्धताम्राभिराविरासीद् वृषध्वजः॥ ३१२॥
यथा वा—(माघ. १.७०)
स बाल आसीद् वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं सम्प्रति तेजसा रविः॥ ३१३॥
वर्तमानार्थविषयो यथा—(विसा. १.२३)
पर्वग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठो/?/दरे पञ्चमः।
किं च त्रीणि जगन्ति जिष्णुदिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः॥ ३१४॥
यथा वा—(सक. १.९०)
मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं चक्राङ्क वह पादयुग्ममवनीं दोष्णा समभ्युद्धर।
लक्ष्मीं भ्रूनिकटे निवेशय भव ज्यायान् दिवौकस्पते— र्विश्वान्तःकरणैकचोर ! तदपि ज्ञातं हरिः खल्वसि॥ ३१५॥
भविष्यदर्थविषयो यथा—(मभा. २.३.१३)
वाताय कपिला विद्युदातपायातिलोहिनी।
पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत्॥ ३१६॥
यथा वा—(विसा. १.३)
गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः कण्ठस्थाय विषाय वीर्यमहते पाणौ मणीन् बिभ्रती।
भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा रक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः॥ ३१७॥
(२१.अर्थापत्तिः)
प्रत्यक्षाद्यधिगतोऽर्थस्तथानुपपद्यमानोऽर्थान्तरं गमयतीत्यर्थापत्तिः। यथा—
निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि।
अन्यथानुपपत्त्यैव पयोधरभरस्थितेः॥ ३१८॥
(काव्याद.२.२१८) यथा वा—(सक. ३.१७१)
एतदालोक्य लोलाक्षि रूपमप्रतिमं तव।
कल्पयामः कलातत्त्वगुरुतामादिवेधसः॥ ३१९॥
(२२. अभावः)
पदार्थानामविद्यमानता अभावः, यथा—(सेब. ४.२०)
सग्गं अपारिजाअं कोत्थुहलच्छिरहिअं महुमहस्स उरं।
सुमरामि महणपुरओ अमुद्धअंदं च हरजडापब्भारं॥ ३२०॥
(स्वर्गमपारिजातं कौस्तुभलक्ष्मीरहितं मधुमथनस्योरः।
स्मरामि मथनपुरतोऽमुग्धचन्द्रं च हरजटाप्राग्भारम्॥)
यथा वा—(रघु. ८.६५)
धृतिरस्तमिता रतिश्च्युता गलितं गेयमृतुर्निरुत्सवः।
गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे॥ ३२१॥
(२३. आगमः)
आप्तवचनमागमः। यथा—
न कञ्चिदवमन्येत सर्वस्य शृणुयान्मतम्।
बालस्याप्यर्थवद् वाक्यमुपयुञ्जीत पण्डितः॥ ३२२॥
यथा वा—(कुसं. ५.८३)
निवार्यतामालि ! किमप्यसौ वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः।
न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पापभाक्॥ ३२३॥
(२४. प्रत्यक्षम्)
ऐन्द्रियं मानसं वा ज्ञानं प्रत्यक्षम्। यथा—(माघ. १०.३)
क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ।
स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥ ३२४॥
यथा वा—(मामा. १.४३)
पश्यामि तामित इतश्च पुरश्च पश्चादन्तर्बहिः परित एव च वर्तमानाम्।
उद्बुद्धमुग्धकनकाब्जनिभं वहन्तीमासङ्गितिर्यगपवर्तितदृष्टि वक्त्रम्॥ ३२५॥
इमाश्चतुर्विंशतिरर्थसंश्रयाः पृथग्विभक्ताः कविभिः स्वलङ्क्रियाः।
श्रुतीतिहासप्रभवान् विशेषतो महाप्रबन्धानुपकर्तुमीशते॥ ३२६॥
अनेकधाऽयं कविभिश्चिरन्तनैः प्रपञ्चितो भामह—वामनादिभिः।
यतोऽत्र जात्यादिरलंक्रियागणोऽभिधेयतस्तेन कृतो न विस्तरः॥ ३२७॥
अथोभयालंकृतयो मनोहराः प्रपञ्चिता यद्यपि पूर्वसूरिभिः।
तथापि तेभ्यः सविशेषमुच्यते स्वरूपमासामिह तन्निशम्यताम्॥ ३२८॥
(३. उभयालङ्काराः —२४)
शब्दविशेषद्वारकोऽर्थविशेषो येषु प्रतीयते ते उभयालङ्काराः।
तेऽपि चतुर्विंशतिरेव। तद्यथा—
उपमा, रूपकं, साम्यं, संशयः, समाधिः, समासोक्तिः, सहोक्तिः, समुच्चयः, तुल्ययोगिता, लेशः, अपह्नुतिः, अप्रस्तुतप्रशंसा, उत्प्रेक्षा, अर्थान्तरन्यासः, दीपकं, परिकरः, क्रमः, पर्यायः, अतिशयः, आक्षेपः, विशेषः, श्लेषः, भाविकः, संसृष्टिरिति। तत्र —
(१. उपमा)
प्रसिद्धयनुरोधेनार्थयोर्मिथः प्रतीयमानाभिधीयमानभूयोवयवसामान्ययोग उपमा।
सा त्रिधा— पदोपमा, वाक्योपमा प्रपञ्चोपमा च। तासु
पदोपमा द्विधा— समासोपमा, प्रत्ययोपमा च। तयोः
समासोपमा चतुर्धा— अन्तर्भूतेवार्था, अन्तर्भूतसामान्या, अन्तर्भूतोभयार्था सर्वसमासा चेति। तासु—
प्रथमा यथा—(रुद्रटा. ८.१८)
मुखमिन्दुसुन्दरं ते बिसकिसलयकोमले भुजालतिके।
जघनस्थली च सुन्दरि तव शैलशिलाविशालेयम्॥ ३२९॥
द्वितीया यथा—(गास. ३.१३)
चन्दसरिसं मुहं से अमअसरिच्छो अ मुहरसो तिस्सा।
सकअग्गहरहसुज्जलचुंबनअं कस्स सरिसं से॥ ३३०॥
(चन्द्रसदृशं मुखं तस्या अमृतसदृक्षश्च मुखरसस्तस्याः।
सकचग्रहरभसोज्ज्वलचुम्बनकं कस्य सदृशं तस्याः॥)
तृतीया यथा—(सक. ४.३)
कमलकरा रम्भोरू कुवलअणअणा मिअंकवअणा सा।
कह णु णवचंपअंत्री मुणालबाहू पिआ तवइ(दहइ)॥ ३३१॥
(कमलकरा रम्भोरूः कुवलयनयना मृगाङ्कवदना सा।
कथं नु नवचम्पकाङ्गी मृणालबाहुः प्रिया तपति(दहति)॥)
चतुर्थी यथा—(रुद्रट. ८.२०)
शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे।
दहति मनः कथमनिशं रम्भागर्भाभिरामोरूः॥ ३३२॥
प्रत्ययोपमापि चतुर्धैव।
प्रत्ययो हि कश्चिदुपमेये, कश्चिदुपमाने, कश्चित्सामान्ये, कश्चिदिवार्थे विधीयते। तत्र, उपमेये यथा—(सक. ४.५)
हंसो ध्वाङ्क्षविरावी स्यादुष्ट्रक्रोशी च कोकिलः।
खरनादी मयूरोऽपि त्वं चेद् वदसि वाग्ग्मिनि !॥ ३३३॥
उपमाने यथा—(सक. ४.६)
पूर्णेन्दुकल्पवदना मृणालीदेश्यदोर्लता।
चक्रदेशीयजघना सा स्वप्नेऽपि न दृश्यते॥ ३३४॥
सामान्ये यथा—(सक. ४.७)
सूर्यीयति सुधारश्मिरनाथति मृतायते।
मृतस्य कान्ताविरहे स्वर्गोऽपि नरकीयति॥ ३३५॥
इवार्थे यथा—(सक. ४.८)
एक एव हि भूतात्मा भूते भूते व्यवस्थितः।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्॥ ३३६॥
(उपनिषद्) वाक्योपमापि द्विधा— पदार्थयोर्वाक्यार्थयोश्च। तत्र—
पदार्थयोश्चतुर्धा— पूर्णा, लुप्ता, लुप्तपूर्णा, पूर्णलुप्ता चेति। तत्र— उपमानोपमेयसामान्यधर्मद्योतकानां चतुर्णामपि प्रयोगे पूर्णा। यथा—(रुद्रटा. ८.६)
कमलमिव चारु वदनं मृणालमिव कोमलं भुजायुगलम्।
अलिमालेव च नीला तवैव मदिरेक्षणे कबरी॥ ३३७॥
सामान्यधर्मद्योतकलोपे लुप्ता। यथा—(काव्याद. २.३६)
न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे।
न केसराणि कान्ताया इमास्ता दन्तपङ्क्तयः॥ ३३८॥
सामान्यधर्मलोपे लुप्तपूर्णा। यथा—(काव्याद. २.१६, सक. ४.११)
राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव।
रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ॥ ३३९॥
द्योतकलोपे पूर्णलुप्ता। यथा—(काव्याद. २.१९३, सक. ४.१२)
त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी।
कोमलापाटलौ तन्वि ! पल्लवश्चाधरश्च ते॥ ३४०॥
वाक्यार्थयोरपि चतुर्धैव।
एकेवादिशब्दा, अनेकेवादिशब्दा, अनिवादिशब्दा असादृश्या च। तत्र— एकेवादिशब्दा यथा—(रघु. ६.६०)
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ ३४१॥
अनेकेवशब्दा यथा—(काव्याद. २.४५)
नलिन्या इव तन्वङ्ग्यास्तस्याः पद्ममिवाननम्।
मया मधुव्रतेनेव पायम्पायमरम्यत॥ ३४२॥
अनिवादिशब्दा यथा—(काव्याद. २.४९)
दिवो जागर्ति रक्षायै पुलोमारिर्भुवो भवान्।
असुरास्तेन हन्यन्ते सावलेपा नृपास्त्वया॥ ३४३॥
असादृश्या यथा—(माघ. १६.५२)
प्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव॥ ३४४॥
वाक्योपमाया एव प्रकारः प्रपञ्चोपमा।
सापि द्विधा— प्रकृतरूपा विकृतरूपा च। तयोः
प्रकृतरूपा चतुर्धा— समस्तोपमा, एकदेशोपमा, मालोपमा रशनोपमा च। तासु समस्तोपमा यथा—(रिद्रटा. ८.३०)
अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते।
भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि॥ ३४५॥
एकदेशोपमा यथा—(रुद्रटा. ८.३१)
कमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते।
अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः॥ ३४६॥
मालोपमा यथा—(सेब. १.४८)
सोह व्व लक्खणमुहं वणमाल व्व विअंड हरिवइस्स उरम्।
कित्ति व्व पवणतणअं, आण व्व बलाईं से विलग्गइ दिदठी॥ ३४७॥
(शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः।
कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्ततस्य विलगति दृष्टिः॥)
रशनोपमा यथा—(रुद्रटटीका ८.२८)
चन्द्रायते शिक्लरुचाथ हंसो हंसायते चारुगतेन कान्ता।
कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः॥ ३४८॥
विकृतरूपापि चतुर्धैव— विपर्यासोपमा, उभयोपमा, उत्पाद्योपमा, अनन्वयोपयोपमा च। तासु —
विपर्यसोपमा यथा—(रत्ना.)
यत् त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी।
येऽपि त्वद्नमनानुसारिगतयस्ते राजहंसा गता— स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षमयते॥ ३४९॥
उभयोपमा यथा—(काव्याद. २.१८)
त्वदाननमिवाम्भोजमम्भोजमिव ते मुखम्।
निलीनां नलिनीखण्डे कथं नु त्वां लभेमहि॥ ३५०॥
उत्पाद्योपमा यथा—
सुवृत्तमुक्ताफलजालचित्रकं भवेदखण्डं यदि चन्द्रमण्डलम्।
श्रमाम्बुबिन्दूत्तरशोभा तारकं ततो मुखं तेन तवोपमीयते॥ ३५१॥
अनन्वयोपमा यथा—(काव्याद. २.२५९)
त्वन्मुखं त्वन्मुखमिव त्वददृशौ त्वददृशाविव।
त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि॥ ३५२॥
(२. रूपकम्)
उपमैवोत्पन्नसादृश्यात् तिरोभूतभेदा रूपकम्। तत् षोढा—
शब्दप्रधानम्, अर्थप्रधानम्, उभयप्रधानं, सावयवं, निरवयवं, सङ्कीर्णं च। तेषु
शब्दप्रधानं चतुर्विधम्— समस्तम्, असमस्तं, समस्तव्यस्तं, रूपकरूपकं च। तत्र समस्तं यथा—(काव्याद. २.२५९)
पाणिपद्मानि भूपानां संकोचयितुमीशते।
त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः॥ ३५३॥
असमस्तं यथा—(काव्याद. २.६७)
अङ्गुल्यः पल्लवान्यासन् कुसुमानि नखार्चिषः।
बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी॥ ३५४॥
समस्तव्यस्तं यथा—
स्मितं मुखेन्दौ ज्योत्स्ना ते प्रभाम्बु कुचकुम्भयोः।
दोर्लतापल्लवे पाणौ पुष्पं सखि नखार्चिषः॥ ३५५॥
रूपकरूपकं यथा—(काव्याद. २.९३)
मुखपङ्कजरङ्गेऽस्मिन् भ्रूलता नर्तकी तव।
लीलानाट्यामृतं दृष्टौ सखि! यूना निषिञ्चति॥ ३५६॥
अर्थप्रधानं चतुर्धा— समस्तविषयम्, एकदेशाविषयं, युक्तिमत् अयुक्तं च। तत्र समस्तविषयं यथा—(काव्याद. २.६९)
ताम्राङ्गुलिदलश्रेणिनखदिधीतिकेसरम्।
ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजम्॥ ३५७॥
एकदेशविषयं यथा—(काव्याद. २.७१)
अकस्मादेव ते चण्डि ! स्फुरिताधरपल्लवम्।
मुखं मुक्तारुचो धत्ते घर्माम्भः—कणमञ्जरीः॥ ३५८॥
युक्तिमद् यथा—(काव्याद. २.७७)
स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गमिदं मुखम्।
न कास्यनन्दनं सुभ्रु ! सुरभिश्वसितानिलम्॥ ३५९॥
अयुक्तं यथा—(काव्याद. २.७८)
इदमार्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम्।
जगन्नेत्रेन्दुरस्माकं कथं तापाय कल्पते॥ ३६०॥
उभयप्रधानं चतुर्धा— शुद्धं, सविशेषणं, रशना माला च। तत्र
शुद्धं यथा—
वेल्लितभ्रु गलद्घर्मजलमालोहितेक्षणम्।
विवृणोति मदावस्थामिदं वदनपङ्कजम्॥ ३६१॥
सविशेषणं यथा—(काव्याद. २.८१)
हरिपादः शिरोलग्नजह्नुकन्याजलांशुकः।
जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः॥ ३६२॥
रशना यथा—(रुद्रटा.८.५०)
किसलयकरैर्लतानां करकमलैर्मृगदृशां जगज्जयति।
नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः॥ ३६३॥
माला यथा—(उ.रा.च. १.३८)
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो— रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः॥ ३६४॥
सावयवं चतुर्धा— सहजावयवम्, आहार्यावयवम्, उभयावयवं विषमं च।
सहजावयवं यथा—
पप्फुरिअउठ्ठदलअं तक्खणविगलिअरुहिरमहुविच्छड्ड।
उक्खडिदअंठणालं पडिअं फुडदसणकेसरं मुहकमलं॥ ३६५॥
(प्रस्फुरितोष्ठदलं तत्क्षणविगलितरुधिरमधुविच्छर्दम्।
उत्खण्डितकण्ठनालं पतितं स्फुटदशनकेसरं मुखकमलम्॥)
आहार्यावयवं यथा—
तो कुंभअण्णपडिवअणदंडपडिघट्टिआमरिसघोरविसो।
गलिअंसुअणिम्मोओ जाओ भीसणअरो दसाणणभुअओ॥ ३६६॥
(ततः कुम्भकर्णप्रतिवचनदण्डपरिघट्टितामर्षघोरविषः।
गलितांशुकनिर्मोको जातो भीषणनरो दशाननभुजगः॥)
उभयावयवं यथा—(रुद्रटटीका ८.४३)
यस्या बीजमहंकृतिर्गुरुतरो मूलं ममेति ग्रहो नित्यत्वस्मृतिरङ्कुरः सुतसुहृद्ज्ञात्यादयः पल्लवाः।
स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दु्र्गतिः सा मे तवच्चरणार्हणापरशुना तृष्णालता लूयताम्॥ ३६७॥
विषमं यथा—(काव्याद. २.८०)
मदरक्तकपोलेन मन्मथस्त्वन्मुखेन्दुना।
नर्तितभ्रुलतेनालं मर्दितुं भुवनत्रयम्॥ ३६८॥
निरवयवं चतुर्धा— साधारं, निराधारं, परम्परितं व्यतिरेकवच्च।
साधारं यथा—(सेब. १.२२)
सोहइ विसुद्धकिरणो गअणसमुद्दम्मि रअणिवेलालग्गो।
तारामुत्तावअरो फुडविहडिअमेहसिप्पिसंपुडविम्मुक्को॥ ३६९॥
(शोभते विशुद्धकिरणो गगनसमुद्रे रजनीवेलालग्नः।
तारामुक्ताप्रकरः स्फुटविघटितमेघशुक्तिसंपुटविमुक्तः॥)
निराधारं यथा—
वणराइकेसहत्था कुसुमाउहसुरहिसंचरंतधअवडा।
ससिअरमुहुत्तमेहा तमपडिहत्था विणेंत्ति धूमुप्पीडाः॥ ३७०॥
(वनराजिकेशहस्ताः कुसुमायुधसुरभिसंचरद्ध्वजपटाः।
शशिकरमुहूर्तमेघास्तमः—प्रतिहस्ता विनिर्यन्ति धूमोत्पीडाः॥)
परम्परितं यथा—
ववसाअरइपओसो. (सेब. १.१४; द्र. पृ. ३३९)
व्यतिरेकवद् यथा—(शाकु. २.१०)
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै— रनाविद्धं रत्नं मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ ३७१॥
सङ्कीर्णं चतुर्धा— सावयवसङ्कीर्णं, निरवयवसङ्कीर्णम्, उभयसङ्कीर्णं, श्लेषान्वितं च। सावयवसङ्कीर्णं यथा—(सेब. १.१७)
रइअरकेसरणिवहं सोहइ धवलब्भदलसहस्सपरिगअं।
महुमहदंसणजोग्गं पिआमहुप्पत्तिपंकअं व णहअलं॥ ३७२॥
(रविकरकेसरनिवहं शोभते धवलाभ्रदलसहस्त्रपरिगतम्।
मधुमथनदर्शनयोग्यं पितामहोत्पत्तिपङ्कजमिव नभः स्थलम्॥)
निरवयवसङ्कीर्णं यथा—
दीहो दिअहभुअंगो/विअसंतो रइबिंबफणामणिप्पहं पइरंतो।
अवरसमुद्दमुवगओ मुंचंतो कंचुअं व घम्मअ—आअवणिवहं॥ ३७३॥
(दीर्घो दिवसभुजङ्गो रविबिम्बफणामणिप्रभां प्रकिरन्/विकसमानः।
अपरसमुद्रमभिगतो मुञ्चन् कञ्चुकमिव धर्म/आतपनिवहम्॥)
उभयसङ्कीर्णं यथा—(सेब. १.१९)
धुअमेहमहुअराओ घणसमआअडि्ढओणअविमुक्काओ।
णहपाअअसाहाओ णिअअट्ठाणं व पडिगआओ दिसाओ॥ ३७४॥
(धुतमेघमधुकरा घनसमयाकृष्टावनतविमुक्ताः।
नमःपादपशाखा निजकस्थानमिव प्रतिगता दिशः॥)
श्लेषान्वितं यथा—(सेब. १.२४)
पीणपओहबरलग्गं दिसाणं पवसंतजलअसमअविइण्णं।
सोहग्गपढमइण्हं पम्माअइ/पव्वाअइ सरसणहवअं इंदधणुं॥ ३७५॥
(पीनपयोधरलग्नं दिशां प्रवसज्जलदसमयवितीर्णम्।
सौभाग्यप्रथमचिह्नं प्रम्लायति/प्रशुष्यति सरसनखपदमिन्द्रधनुः॥)
(३. साम्यम्)
प्रसिद्धसाधर्म्याभावे द्योतकाभावे उभयाभावे वा उक्तिचातुर्यादौपम्यप्रतीतिः साम्यम्। सा त्रिधा— प्रसिद्धसाधर्म्याभावः, द्योतकाभावः, उभयाभावः। तत्र प्रसिद्धसाधर्म्याभावे यथा—(रघु. ६.६७)
संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ ३७६॥
द्योतकाभावे यथा—
नैकोऽपि त्वादृशोऽद्यापि जायमानेषु राजसु।
ननु द्वितीयो नास्त्येव पारिजातस्य पादपः॥ ३७७॥
उभयाभावे यथा—(स.क. ३.१८४)
न मर्त्यलोकस्त्रिदिवात् प्रहीयते म्रियेत नाग्रे यदि वल्लभो जनः।
निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवत एव जीवति॥ ३७८॥
अस्य च साम्योत्कर्षादिभिरनन्त उक्तिप्रपञ्चः। साम्येन यथा—(शाकु. १.१६)
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य।
दूरीकृताः खलु गुणौरुद्यानलता वनलताभिः॥ ३७९॥
उत्कर्षेण यथा—(बारा. २.१७)
तद् वक्त्रं यदि मुद्रिता शशिकथा तच्चत् स्मितं का सुधा तच्चक्षुर्यदि हारितं कुवलयैस्ताश्चेद् गिरो धिङ् मधु।
हा कन्दर्पधनुर्भुवौ च यदि ते किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः’ सर्गक्रमो वेधसः॥ ३८०॥
साम्योत्कर्षाभ्यां यथा—(विसा. ३.२७)
तरङ्गय दृशोऽङ्गने ! पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम्।
क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिका— मुदञ्चय मनाङ् मुखं भवतु च द्विचन्द्रं नभः॥ ३८१॥
उपमेयापकर्षेण यथा—(रुद्रटा. ८.७८)
गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भद्रे !।
सन्तीदृशानि दिशि सरःसु ननु नीलनलिनानि॥ ३८२॥
उपमानापकर्षेण यथा—
एक्कोण्णामिअमुअभंगे विमलकवोले वअणम्मि तुअ मअच्छि तिरिञ्छणअणे।
एहु ससिबिबउ कलंगगारउ पण्डर उखित्तउ उप्परेण भमाइ अणिमञ्छणखप्परउ॥ ३८३॥
(एकोन्नामितभ्रूभङ्गे विमलकपोले वदने तव मदाक्षि तिर्यङ्नयने।
एतच्छशिबिम्बं कलङ्कागारं पाण्डरमुत्क्षिप्त— मुपरि भ्रामयित्वा निर्मञ्छनकर्परम्॥)
उभयापकर्षेण यथा—(गा.स.१.१३)
घरिणीए महाणसकम्मलग्गमसिमलिइ/मइलि—एण हत्थेण।
छित्तं मुहं हसिज्जइ, चंदावत्थं गअं पइणा॥ ३८४॥
(गृहिण्या महानसकर्मलग्नमषीमलिनितेन/मलिनेन हस्तेन।
स्पृष्टं मुखं हस्यते चन्द्रावस्था गतं पत्या॥)
उपमानस्य साम्यापकर्षो यथा—
अन्यतो नय मुहूर्तमाननं चन्द्र एष सरले ! कलामयः।
मा कदाचन कपोलयोर्मलं संक्रमय्य समतां नेष्यति॥ ३८५॥
अनुत्कर्षापकर्षं यथा—(रुद्रटा. ८.१०८)
मगं मृगाङ्कः सहजं कलङ्कं बिभर्ति तस्यास्तु मुखं कदाचित्।
आहार्यमेकं मृगनाभिपत्रमियानशेषेण तयोर्विशेषः॥ ३८६॥
एवमन्यदपि यथा—(रुद्रटा. ८.७३)
किं मरणं ! दारिद्रयं, को व्याधिर्जिवितं दरिद्रस्य।
कस्स्वर्गः ! सन्मित्रं, सुकलत्रं, सु्प्रभुः, सुसुतः,॥ ३८७॥
(४. संशयः)
उपमानोपमेययोः अत्यन्तसादृश्यात् सन्देहः संशयः। यथा—(स.क. ४.७५)
वाली भंभुरभोली उल्लसिअ णिअंसिणी गहणं सुणिअ विनिक्कन्ता णिद्दाए भेम्भली।
राहु वि तीअ मुहु जोहई पुणु जोहई गअणु भुल्लल्लेओ ण हु आणई दोण्हवि चन्दुकं वणु॥ ३८८॥
(बाला अतीव मुग्धा स्खलितनिवसना ग्रहणं श्रुत्वा विनिष्क्रान्ता निद्रया विह्वला।
राहुरपि तस्या मुखं पश्यति पुनः पश्यति गगनं भ्रान्तिमान् न खलु जानाति द्वयोश्चन्द्रः कः॥)
यथा वा—(सक. ४.७९)
मुहे मअखलिउल्लावे ण्हाणोल्लए चिउरे वेणीअंसणसारे समोत्तिअहारे उरे।
कालान्तरे तरलाच्छिहु मअणु/ण समुल्लसइ माहउ पुणु त्थणगुडरे ण मुणइ कहिं वसइ॥ ३८९॥
(मुखे मदस्खलितोल्लापे स्नानोत्प्लुते चिकुरे वेणीनिवसनसारे समौक्तिकहारे उरसि।
कालान्तरे तरलाक्ष्णोर्मदनः समुल्लसति माघे पुनः स्तनगृहे न ज्ञायते कुत्र वसति॥)
(५. समाधिः)
अन्यधर्माणामन्यत्रारोपणं समाधिः।
यथा—(सक. ५.३५७)
अवऊहिअपुब्बदिसे समअं जोण्हाए सेविअपओसमुहे।
माइ ण झिज्जउ रअणी वरदिसाइतपच्छिअम्मि मिअङ्कें॥ ३९०॥
(अवगूहितपूर्वदिशो समकं ज्योत्स्नया सेवितप्रदोषमुखे।
मातर्न क्षीयते रजनी अपरदिशाभिमुखप्रस्थिते मृगाङ्के॥)
यथा वा—
वल्लहे लहु वोलन्तइ पत्तइ पुणु बहु बलि किज्जमि तामरसिणि तुज्झ रोसहु थिरहु।
जेण णिरग्गलु जम्पइ किम्पि ण जाव जणु ताव हिमेण विसित्ति झत्थि पुलुठ्ठतनु॥ ३९१॥१
(वल्लभे लघु व्यपक्रामत्यागच्छति पुनर्बहु बलिः क्रिये तामरसानि तव रोषस्य स्थिरस्य।
येन निरर्गलं जल्पति किमपि न यावज्जन— स्तावद्धिमेन विशीर्णा झटिति प्लुष्टतनुः॥)
१. अत्र राघवः—‘मातृकासु भूयसा अपपाठः।’ इति। साधु। मूलं तु किमाधृतमिति ज्ञेयम्। मेलितमपि समाधिरेव। यथा—
देहो व्व पडइ दिअहो कण्ठच्छेओ व्व लोहिओ होइ रई।
गलइ रुहिरं व्व संझा घोलइ केसकसणं सिरम्मिअ तिमिरं॥ ३९२॥
(देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः।
गलति रुधिरमिव सन्ध्या घूर्णते केशकृष्णं शिर इव तिमिरम्॥)
यथा च—(७.५७, १०.४१७)
पल्लविअं विअ करपल्लवेहिं॥ ३९३॥
(६. समासोक्तिः)
उपमानोपमेययोरत्यन्तप्रसिद्धेरुपमानेनैव संक्षेपतोऽभिधानं समासोक्तिः।
सा द्विधा — अभिधीयमानसादृश्या, प्रतीयमानसादृश्या च। तयोः—
अभिधीयमानसदृश्या यथा—
नालस्य प्रसरो जलेष्वपि कृतावासस्य कोशे रुचि— र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः।
आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषागमे/करे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः॥ ३९४॥
यथा च—(बारा. १.४२)
इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा।
पारुष्यं कलया च कोकिलवधूकण्टेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव॥ ३९५॥
प्रतीयमानसादृश्या यथा—
उत्तुङ्गें कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किमङ्ग तस्य वचसा श्लाघासु पर्याप्यते।
बन्धुर्वा स पुराकृतः किमथवा सत्कर्मणां संचयो मार्गे रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति॥ ३९६॥
यथा च—(भ.श. ३९)
किं जातोऽसि चतुष्पथे यदि घनच्छायोऽसि किं छायया संपन्नः फलितोऽसि किं यदि फलैः पूर्णोऽसि किं संनतः।
हे सद्वृक्ष ! सहस्व सम्प्रति सखे शाखाशिखाकर्षण— क्षोभामोटनभञ्जनानि जगतः स्वैरेव दुश्चेष्टितैः॥ ३९७॥
(७. सहोक्तिः)
द्रव्यगुणाक्रियादीनां सहाभिधानं सहोक्तिः।
सा द्विधा— सादृश्यवती, असादृश्यवती च तयोः
आद्या (सादृश्यवती) यथा—(सेब. २.१४)
धीरं व जलसमूहं तिमिणिवहमिव सपक्खपव्वअलोअं।
णइसोत्ते व्व तरङ्गे रअणाइ व गरुअगुणसआइ वहहंतं॥ ३९८॥
(धैर्यमिव जलसमूहं तिमिनिवहमिव सपक्षपर्वतलोकम्।
नदीस्त्रोतांसीव तरङ्गान् रत्नानीव गुरुकगुणशतानि वहन्तम्॥)
द्वितीया (असादृश्यवती) यथा—(सेब. ५.७)
धीरेण समं जामा हिअएण समं अहिठ्ठिआ उवएसा।
उच्छाहेण सह भुआ बाहेण समं गलन्ति से उल्लावा॥ ३९९॥
(धैय्रेण समं यामा हृदयेन सममनिष्ठिता उपदेशाः।
उत्साहेन सह भुजौ बाष्पेण समं गलन्त्यस्योल्लापाः॥)
(८. समुच्चयोक्तिः)
द्रव्यगुणक्रियाणामेकत्र बहूनामारोपणं समुच्चयोक्तिः।
सा चतुर्धा— एकद्योतका, अनेकद्योतका, एकानेकद्योतका, अद्योतका च।
एकद्योतका यथा—
कलाः प्रलापा गतयो मदालसा विशुद्धविस्त्रम्भरसाः समागमाः।
तदङ्गनानां रमणीयतां ययुर्विसर्पिलज्जाविभवाश्च विभ्रमाः॥ ४००॥
अनेकद्योतका यथा—
अप्राकृतस्स कथमस्तु न विस्मयाय यस्मिन्नुवास करुणा च कृतज्ञता च।
लक्ष्मीश्च सात्त्विकगुणोज्ज्वलितं च तेजो धर्मश्च मानविनयौ च पराक्रमश्च॥ ४०१॥
एकानेकद्योतका यथा—
विचिन्त्यमानं मनसाऽपि देहिनामिदं हि लोकेषु चकास्ति दुर्लभम्।
निशा सचन्द्रा मदिरा च सोत्पला प्रियानुरागोऽभिनवं च यौवनम्॥ ४०२॥
अद्योतका यथा—
पुरं त्रिकूटं परिखा पयोनिधिः प्रभुर्दशास्यः सुभटा निशाचराः।
नरोऽभियोक्ता रिपवः प्लवङ्गमाः किमत्र वो हास्यपदे महद् भयम्॥ ४०३॥
(९. तुल्ययोगिता)
विवक्षितगुणोत्कर्षैः स्तुतिनिन्दार्थं सहाभिधानं तुल्ययोगिता। सा स्तुत्यर्था यथा—(काव्याद. ३.२८)
शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः।
यदलङ्घितमर्यादाश्चलन्तीं बिभृथ क्षितिम्॥ ४०४॥
निन्दार्था यथा—(काव्याद. २.३३२)
सङ्गतानि मृगाक्षीणां तटिद्विलसितानि च।
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम्॥ ४०५॥
(१०. लेशः)
दोषस्य गुणीभावो गुणस्य च दोषीभावो लेशः। तत्र दोषस्य गुणीभावो यथा—(काव्याद. २.२७१)
चपलो निर्दयश्चासौ जनः किं तेन मे सखि!।
आगःप्रमार्जनायैव चाटवो येन शिक्षिताः॥ ४०६॥
गुणस्य दोषीभावो यथा—(काव्याद. २.२६९)
युवैष गुणवान् राजा योग्यस्ते पतिरूर्जितः।
रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि॥ ४०७॥
व्याजस्तुतिरपि लेश एव। यथा—(काव्याद. २.३४५)
पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते।
राजन्निक्ष्वाकुवंशस्य किमिदं तव युज्यते॥ ४०८॥
यथा च—
इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि— र्दिङ्नागानां घनमदमषीभाञ्जि गण्डस्थलानि।
अद्याप्युर्वीवलयतिलक! श्यामलिम्नानुलिप्ता— न्याभासन्ते वद धवलितं किं त्वदीयैर्यशोभिः॥ ४०९॥
(११. अपह्नुतिः)
पदार्थापलापोऽपह्नुतिः।
सा द्विधा— औपम्यवती, अनौपम्या च।
औपम्यवती यथा—(गास.१.७०)
गिह्मे दवग्गिमसिमइलिआइँ दीसंति विंझसिहराइं।
आससु पउत्थवइए ण होंति णवपाउसब्भाइं॥ ४१०॥
(ग्रीष्मे दवाग्निमषीमलिनानि दृश्यन्ते विन्ध्यशिखराणि।
आश्वसिहि प्रोषितपतिके! न भवन्ति नवप्रावृडभ्राणि॥)
यथा च—
न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः।
तडिल्लतेयं न चकास्ति चञ्चला पुरः स्मरज्योतिरिदं विजृम्भते॥ ४११॥
अनौपम्या यथा—(काव्याद. २.२६६)
राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः।
अवगच्छेयुरा ज्ञातमहो शीतानिलं वनम्॥ ४१२॥
यथा च—(काव्याद. २.३६७)
आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम्।
अक्षि मे पुष्परजसा वातोद्धूतेन दूषितम्॥ ४१३॥
(१२. अप्रस्तुतप्रशंसा)
अस्तोतव्यस्याभिनन्दनमप्रस्तुतप्रशंसा। यथा—
कामं वनेषु हरिणास्तृणेन जीवन्त्ययत्नसुलभेन।
धनिषु न दैन्यं विदधति ते किल पशवो, वयं सुधियः॥ ४१४॥
यथा वा—
पङ्गो! वन्द्यस्त्वमसि न गृहं यासि योऽर्थी परेषां
धन्योऽन्ध! त्वं धनमदवतां नेक्षसे यो मुखानि।
श्लाघ्यो मूक! त्वमपि कृपणं स्तौषि नार्थाशया यः
स्तोतव्यस्त्वं बधिर! न गिरं यः खलानां शृणोषिः॥ ४१५॥
(१३. उत्प्रेक्षा)
अन्यथावस्थितस्यान्यथोत्प्रेक्षणम् उत्प्रेक्षा।
सा त्रिधा— द्रव्यविषया, गुणविषया, क्रियाविषया च। तत्र— द्रव्यविषया यथा—
देहस्था दर्पणे यस्य पश्यति प्रतिमामुमा।
अन्यार्धार्धमिवोत्पन्नमर्धनारीश्वरान्तरम्॥ ४१६॥
गुणविषया यथा—
पल्लविअं विअ करपल्लवेहिं॥ ४१७॥
(१०.३९३ इहैव) क्रियाविषया यथा—
सेनागजाः स्वकरपुष्करलेखनीभिर्गण्डस्थलान्मदमषीं मुहुराददानाः।
मन्ये नरेन्द्र! तव तोयधितीरतालीपत्रोदरेषु विजयस्तुतिमालिखन्ति॥ ४१८॥
मतमुत्प्रेक्षोपमोत्प्रेक्षावयवश्च उत्प्रेक्षैव। तेषु—
मतं यथा—
यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शश इति, न तन्मां प्रति तथा।
अहं त्विन्दुं मन्ये त्वदरिविरहक्लान्ततरुणी— कटाक्षोल्कापात—व्रण—किण—कलङ्काङ्कित—तनुम्॥ ४१९॥
उत्प्रेक्षोपमा यथा—(भामहा. २.९२)
किंशुकव्यपदेशेन तरुमारुद्य सर्वतः।
दग्धादग्धामरण्यानीं पश्यतीव विभावसुः॥ ४२०॥
उत्प्रेक्षावयवो यथा—(कुसं. ८.५३)
अङ्गुलीभिरिव केशसञ्चयं संनिगृह्य तिमिरं मरीचिभिः।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥ ४२१॥
(१४. अर्थान्तरन्यासः)
वस्तूपन्यस्य तत्साधनसमर्थस्य वस्तुनोऽयस्य न्यसनमर्थान्तरन्यायः। स त्रिधा— साधर्म्येण, वैधर्म्येण, विपर्ययेण च।
साधर्म्येण यथा—(काव्याद. २.१७३)
पयोमुचः परीतापं हरन्त्येते शरीरिणाम्।
नन्वात्मलाभो महतां परदुःखोपशान्तये॥ ४२२॥
वैधर्म्येण यथा—(किराता. ८.३७)
प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि॥
विपर्ययेण यथा—(गास. १.१००)
जो जस्स हिअअदइओ दुक्खं देंतो वि सो तहा तस्स/सुहं देइ।
दइअणहदूमिआणं वि वड्ढइ थणाणँ रोमञ्चो॥ ४२४॥
(यो यस्य हृदयदयितो दुःखं दददपि स तथा तस्य/सुखं ददाति।
दयितनखदूनयोरपि वर्धते स्तनयो रोमाञ्चः॥)
उभयन्यासः, प्रत्यनीकन्यासः, प्रतीकन्यासोऽपि चार्थान्तरन्यास एव। तत्र उभयन्यासो यथा—(सेब. ३.९)
ते विरला सप्पुरिसा जे अभणंता घडंति कज्जालावे।
थोअ च्चिअ ते वि दुमा जे अमुणिअकुसुमणिग्गमा देंति फलं॥ ४२५॥
(ते विरलाः सत्पुरुषा येऽभणन्ता घटयन्ति कार्यालापान्।
स्तोका एव तेऽपि द्रुमा येऽज्ञातकुसुमनिर्गमा ददति फलम्॥)
प्रत्यनीकन्यासो यथा—
विरला उवआरि च्चिअ णिरवेक्खा जलहर व्व वट्टंति।
झिज्जंति ताण विरहे विरल च्चिअ सरिप्पवाह व्व॥ ४२६॥
(विरला उपकारिण एव निरपेक्षा जलधरा इव वर्तन्ते।
क्षीयन्ते तेषां विरहे विरला एव सरित्प्रवाहा इव॥)
प्रतीकन्यासो यथा—(शाकु. ३.१)
का कथा बाणसन्धाने ज्याशब्देनैव दूरतः।
हुङ्कारेणेव धनुषः स हि विघ्नानपोहति॥ ४२७॥
(१५. दीपकम्)
जात्यादिवाचिना पदेन सर्ववाक्योपकारो दीपकम्।
तत्त्रिधा— क्रियादीपकं, कारकदीपकं, मालादीपकं च। तत्र— क्रियादीपकं यथा—(काव्याद. २.१०६)
त्वया कर्णोत्पलं कर्णे स्मरेणास्त्रं शरासने।
मया च मरणे चेतस्त्रयमेतत् समं कृतम्॥ ४२८॥
कारकदीपकं यथा—(काव्याद. २.९८)
पवनो दक्षिणः पर्णं जीर्णं हरति वीरुधाम्।
स एव च नताङ्गीनां मानभङ्गाय कल्पते॥ ४२९॥
मालादीपकं यथा—
इमिणा सरएण ससी ससिणा वि णिसा णिसाइ कुमुअवणं।
कुमअवणेण अ पुलिणं पुलिणेण अ सोहए हंसउलं॥ ४३०॥
(अनया शरदा शशी शशिनापि निशा निशया कुमुदवनम्।
कुमुदवनेन च पुलिनं पुलिनेन च हसति हंसकुलम्॥)
आवृत्तिरपि दीपकमेव। सापि त्रिधा — शब्दावृत्तिरर्थावृत्तिरुभयावृत्तिश्च। शब्दावृत्तिर्यथा—(काव्याद. २.११८)
उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम्।
यूनां चोत्कण्ठयत्यद्य मानसं मकरध्वजः॥ ४३१॥
अर्थावृत्तिर्यथा—
हृष्यति चूतेषु चिरं तुष्यति बकुलेषु मोदते मरुति।
इह हि मधौ कलकूजिषु पिकेषु च प्रीयते कामी॥ ४३२॥
उभयावृत्तिर्यथा—(मामा. ९.४)
जय देव! भुवनभावन! जय भगवन्! निखिलवरद! निगमनिधे!।
जय चारुचन्द्रशेखर! जय मदनान्तक! जयादिगुरो!॥ ४३३॥
(१६. परिकरः (एकावली च) )
क्रियापदादीनामुपस्कारः परिकरः।
स त्रिधा— क्रियापरिकरः, कारकपरिकरः, वस्तुपरिकरश्च।
क्रियापरिकरो यथा—(सेब. ४.५७)
ववसिअणिवेइअत्थो सो मारुइलद्धपच्चआगअहरिसं।
सुग्गीवेण उरत्थलवणमालामलिअमहुअरं अवऊढो॥ ४३४॥
(व्यवसितनिवेदितार्थः स मारुतिलब्धप्रत्ययागतहर्षम्।
सुग्रीवेणोरःस्थलवनमालामृदितमधुकरमुपगूढः॥)
कारकपरिकरो यथा—(सेब. ११.५४)
पडिआ अ हत्थसिढिलिअणिरोहपंडरसमूससंतकवोला।
पेल्लिअवामपओहरविसमुण्णअदाहिणत्थणी जणअ—सुआ॥ ४३५॥
(पतिता च हस्तशिथिलितनिरोधपाण्डुरसमुच्छ्वसत्कपोला।
प्रेरित/पीडितवामपयोधरविषमोन्नतदक्षिणस्तनी जनकसुता॥)
वस्तुपरिकरो यथा—
देवी पुत्रमसूत नृत्यत गणाः! किं तिष्ठतेत्युद्भुजे हर्षाद् भृङ्गिरिटावुदाहृतगिरा चामुण्डयालिङ्गिते।
पायाद् वो जितदेवदुन्दुभिघनध्वानप्रवृत्तस्तयो— रन्योन्याङ्गनिपातजर्जरतरस्थूलास्थिजन्मा रवः॥ ४३६॥
(एकावली)
एकावल्यपि परिकरविशेष एव।
सा त्रिधा— शब्दैकावली, अर्थैकावली, उभयैकावली च।
शब्दैकावली यथा—(न.च. ६.२९)
पर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतं गहनम्।
हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी॥ ४३७॥
अर्थैकावली यथा—(काव्याद. २.१०७)
शुक्लः श्वेतार्चिषो वृद्धयै पक्षः पञ्चशरस्य सः।
स च रागस्य रागोऽपि यूनां रत्युत्सवश्रियः॥ ४३८॥
उभयैकावली यथा—(रुद्रटा. ७.११०)
सलिलं विकासिकमलं कमलानि सुगन्धिमधुसमृद्धानि।
मधु लीनालिकुलाकुलमलिकुलमपि मधुररणितमिह॥ ४३९॥
(१७. क्रमः)
शब्दार्थोभयानां परिपाटिः क्रमः। तेषु— शब्दपरिपाटिर्यथा—
तस्याः प्रवृद्धलीलाभिरालापस्मितदृष्टिभिः।
जीयन्ते वल्लकीकुन्दस्रगिन्दीवरसम्पदः॥ ४४०॥
अर्थपरिपाटिर्यथा—
पायाद् वो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको यस्याकस्मिकवर्धमानवपुषस्तिग्मद्युतेर्मण्डलम्।
मौलौ रत्नरुचि श्रुतौ परिलसत्ताटङ्ककान्ति क्रमा— ज्जातं वक्षसि कौस्तुभाभमुदरे नाभीसरोजोपमम्॥ ४४१॥
उभयपरिपाटिर्यथा—
पङ्कअ पङ्कि वहेलिअ कुवलअ खित्तउ हदहिं वालिहिं बिम्ब विविल्लिओ घत्तिओ चन्दु णहहि।
करणअणाहरवअणहिं तहिं लीलावइहिं णिअसिठ्ठि वि उच्चिठ्ठीणा इं पआवइहिं॥ ४४२॥
(पङ्कजं पङ्केऽवहेल्य कुवलयं क्षिप्त्वा ह्रदे वृन्ते बिम्बं विप्रकीर्णं निरस्तश्चन्द्रो नभसि।
करनयनाधरवदनैस्तत्र लीलावत्यां निजसृष्टिरप्युत्सृष्टा किं प्रजापतिना॥)
(१८. पर्यायः)
मिषमुक्तिप्रकारोऽवसर इति पर्यायस्त्रिधा। तत्र मिषं यथा—(काव्याद. २.१६८)
दशत्यसौ परभृतः सहकारस्य मञ्जरीम्।
तमहं वारयिष्यामि युवाभ्यां स्वैरमास्यताम्॥ ४४३॥
उक्तिप्रकारो यथा—(खप्र.)
राजन् राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमार कुशलं नाद्याज्जुके भुज्यते।
इत्थं नाथ शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा— च्चित्रस्थानवलोक्य वेश्मवलभीष्वेकैकमाभाषते॥ ४४४॥
अवसरो यथा—(कुसं.४.२५)
अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवार्दितः।
रतिमभ्युपपत्तुमातुरां मधुरात्मानसदर्शयत्पुरः॥ ४४५॥
(१९. अतिशयः)
विशेषस्य विवक्षया लोकवृत्तानतिक्रमेणात्युक्तेरभिधानमतिशयः. यथा—
अहो विशालं भूपाल भुवनत्रितयोदरम्।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते॥ ४४६॥
(काव्याद.२.२१९) यथा वा—(काव्याद. २.२१७)
स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये! तव।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते॥ ४४७॥
(२०. आक्षेपः)
विधिनिषेधाभ्यां प्रतिषेधोक्तिराक्षेपः। स द्विधा— शुद्धमिश्रभेदात्। तत्र— विध्याक्षेपः शुद्धो यथा—(काव्याद. २.१४१)
गच्छ गच्छसि चेत् कान्त! पन्थानः सन्तु ते शिवाः।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान्॥ ४४८॥
मिश्रो यथा—(कुसं. ५.८२)
अलं विवादेन यथाश्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते॥ ४४९॥
निषेधाक्षेपः शुद्धो यथा—(काव्याद. २.१२३)
कुतः कुवलयं कर्णे करोषि कलभाषिणि!।
किमपाङ्गमपर्याप्तमस्मिन् कर्मणि मन्यसे॥ ४५०॥
मिश्रो यथा—
सच्चं गुरुओ गिरिणो को भणइ जलासआ ण गम्भीरा।
धीरेहिं उवमाउँ तह वि खु मह ण त्थि उच्छाहो॥ ४५१॥
(सत्यं गुरवो गिरयः को भणति जलाशया न गम्भीराः।
धीरैरुपमातुं तथापि खलु मम नास्त्युत्साहः॥)
रोधोऽपि निषेधाक्षेप एव। यथा—
किं जम्पिएण दहमुह जम्पिअसरिसं अणिव्वहन्तस्स भरं।
एत्तिअ जम्पिअसारं णिहणं अण्णे वि वज्जधारासु वआ॥ ४५२॥
(किं जल्पितेन दशमुख जल्पितसदृशमनिर्वहतो भरम्।
एतावद् जल्पितसारं निधनमन्येऽपि वज्रधारासु गताः॥)
यथा च—
पउरजुआणो गामो महुमासो जोव्वणं पई ठेरो।
जुण्णसुरा साहीणा असई मा होउ किं मरउ॥ ४५३॥
(प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः।
जीर्णसुरा स्वाधीना असती मा भवतु किं म्रियताम्॥)
(२१. विशेषोक्तिः)
आधिक्येन न्यूनतया वोत्कर्षविवक्षा विशेषोक्तिः। तत्र— आधिक्येन यथा—(विक्र. ३.११)
अयं तया रथक्षोभादंसेनांसो निपीडितः।
एकः कृती शरीरेऽस्मिन् शेषमङ्गं भुवो भरः॥ ४५४॥
न्यूनतया यथा—(काव्याद. २.३२४)
न कठोरं न वा तीक्ष्णं शस्त्रं कुसुमधन्वनः।
तथापि जितमेवाभूदमुना भुवनत्रयम्॥ ४५५॥
(२२. श्लेषः)
एकपदेनानेकार्थाभिधानं श्लेषः।
स षोढा —अभिन्नपदो, भिन्नपदश्च; अभिन्नक्रियो भिन्नक्रियश्च; अभिन्नकारको भिन्नकारकश्चेति। तेषु —
अभिन्नपदो यथा—(काव्याद. २.३२४)
असावुदयमारूढः कान्तिमान् रक्तमण्डलः।
राजा हरति लोकस्य हृदयं मृदुभिः करैः॥ ४५६॥
भिन्नपदो यथा—(काव्याद. २.३१२)
दोषाकरेण संबध्नन् नक्षत्रपथवर्तिना।
राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते॥ ४५७॥
अभिन्नक्रियो यथा—(काव्याद. २.३१६)
स्वभावमधुराः स्निग्धाः शंसन्त्यो रागमुल्बणम्।
दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान्॥ ४५८॥
भिन्नक्रियो१ यथा—(काव्याद. २.३१७)
मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः।
आकर्ण्यन्ते मदकलाः श्लिष्यन्ते चासितेक्षणाः॥ ४५९॥
अभिन्नकारको यथा—(काव्याद. २.३१९)
कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी।
याति विश्वसनीयत्वं कस्य ते कलभाषिणि॥ ४६०॥
१. भिन्नकारको इति राघवः। भिन्नकारको यथा—(काव्याद. ४.२२९)
गतिर्वेणी च नागेन वपुरूरू च रम्भया।
ओष्ठौ पाणी प्रवालैश्च तस्यास्तुल्यत्वमाययुः॥ ४६१॥
(२३. भाविकम्)
स्वाभिप्रायकथनमन्यापदेशोऽन्यभावना च भाविकम्। तेषु— स्वभिप्रायकथनं यथा—
णावज्झइ दुग्गेज्झिआ दिठ्ठम्मि जम्मि भिउडिआ जत्थ ण अव्वाहारओ घिप्पइ आहासत्तए।
विच्छुहइ अहिणिंत(द)ए जत्थ ण सो वअस्सिआ तं मे कहउ माणअं जइ मे इच्छदु(हि) जीअअं॥ ४६२॥
(नाबद्धयते दुर्गृहीता दृष्टे यस्मिन् भ्रुकुटिको यत्र नाव्याहारो गृह्यते आभाषमाणे।
विक्षुभ्यतेऽभिनिन्द्यते यत्र न स वयस्यया तं मे कथय मानं यदि मे इच्छसि जीवनम्॥)
अन्यापदेशो यथा—
आसाइअमण्णाएण जेत्तिअं चिअ विहीण।
ओरमसु वसह एह्िणं रक्खिज्जइ गहवइच्छेत्तं॥ ४६३॥
(आस्वादितमज्ञातेन यावत् तावदेव व्रीहीणाम्।
उपरम वृषभेदानीं रक्ष्यते गृहपतिक्षेत्रम्॥)
अन्यभावना यथा—(वज्जाल ५३८)
दंसणलिअं दढकं विबन्धणं दीहरं सुपरिणाहं।
होइ घरे साहीणं मुसलं घण्णाण महिलाणं॥ ४६४॥
(दंशनवलितं दृढकं विबन्धनं दीर्धं सुपरिणाहम्।
भवति गृहे स्वाधीनं मुसलं धन्यानां महिलानाम्॥)
उद्भेदोऽपि भाविकमेव। स त्रिधा—अव्यक्तो व्यक्त उभयात्मकश्च।
अव्यक्तो यथा—(अमरु. १०५)
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्॥ ४६५॥
व्यक्तो यथा—
अतिकोमलमेकतोऽन्यतः सरसाम्भोरुहनालकर्कशम्।
वहति स्फुटमेतदेव ते वचनं शाकपलाशदेश्यताम्॥ ४६६॥
उभयरूपो यथा—
प्रम्लानोत्पलकोमले! सखि! दृशौ नीलाञ्जनेनाञ्चिते कर्पूरच्छुरणाच्च गण्डफलके संवेल्लितः पाण्डिमा।
श्वासाः सन्तु च कन्दुकभ्रमिभुवः किन्तु प्रभावाहिना— मङ्गानां क्रशिमानमुत्कटममुं को नाम नोत्प्रेक्षते॥ ४६७॥
(२४. संसृष्टिः)
नानालङ्कारसङ्करः संसृष्टिः।
सा त्रिधा— व्यक्तरूपा, अव्यक्तरूपा, व्यक्ताव्यक्तरूपा च। तासु व्यक्तरूपा तिलतण्डुलवत् छायादर्शवच्च। तयोराद्या यथा—
पिनष्टीव तरङ्गाग्रैरुदधिः फेनचन्दनम्।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः॥ ४६८॥
अत्रोत्प्रेक्षाद्वयं रूपकद्वयं च तिलतण्डुलवत् सङ्कीर्णम्। द्वितीया यथा—(राच.१.५)
निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः।
परं पर्यश्रुनयनौ मम्लतुर्भ्रातरावुभौ॥ ४६९॥
अत्रादर्शे च्छायेव हेत्वलङ्कारे रामलक्ष्मणमुखयोरिन्दुपद्मौपम्यं दृश्यते। अव्यक्तरूपा क्षीरजलवत् पांसूदकवच्च। तयोराद्या यथा—
क्षीरक्षालितचन्द्रेव नीलीधौताम्बरेव च।
टङ्कोल्लिखितसूर्येव वसन्तश्रीरदृश्यत॥ ४७०॥
अत्रोपमोत्प्रेक्षे क्षीरनीरवन्मिथः संसृष्टे न व्यज्येते।
द्वितीया यथा— कृष्णार्जुनानुरक्तापि.॥ ४७१॥
(६०९ पृ.) अत्र पांसूदकयोरिव मृत्पिण्डे श्लेषविरोधयोरव्यक्तरूपयोरेव व्याजस्तुतावङ्ग— भावोऽवगम्यते। व्यक्ताव्यक्तरूपा नरसिंहवच्चित्रवर्णवच्च। तयोराद्या यथा—(रघु. ४.२९)
रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः।
भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम्॥ ४७२॥
अत्र नरसिंहजाताविव सिंहनरशरीरभागयोः परिवृत्त्यलङ्कारहेतूपमयोरङ्गभावो व्यक्ताव्यक्तरूपः परिस्फुरन्नुपलभ्यते।
द्वितीया यथा—
मयूरारावमुखरां प्रावृषं सतडिल्लताम्।
महाटवीमिवोल्लङ्घ्य तोयानि मुमुचुर्घनाः॥ ४७३॥
अत्र पटावयवस्थानां नीलादीनामिव पटावयव्याश्रिते चित्रवर्णे श्लेषरूपकोपमार्थ— श्लेषाणां पदपदार्थाश्रयाणां शरद्वर्णनवाक्याश्रयिणि समाध्यलङ्कारे व्यक्ताव्यक्त— रूपोऽङ्गाङ्गिभावः प्रतीयते॥
चतुर्विंशतिरित्येताः क्रमेणोभयसंश्रिताः।
काव्यालङ्कृतयः प्रोक्ता यथावदुपमादयः॥ ४७४॥
इह हीवादिभिः शब्दैस्सादृश्यादिः प्रतीयते।
अर्थोऽस्मात् सूरयः प्राहुरुभयालङ्कृतीरिमाः॥ ४७५॥
अलङ्क्रिया यास्त्विह शब्दसंश्रयास्ततोऽर्थभूषाभ्यधिकं प्रकृष्यते।
ततोऽभिरूपामुभयोरलङ्कृतिं वदन्ति, संसृष्टिरतोऽपि शोभते॥ ४७६॥
इति महाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे उभयालङ्कारप्रकाशो नाम
॥ दशमः प्रकाशः॥१०॥
भग्नो मम्मटभट्टकोऽत्र महति श्रीभोजराजोद्गते— ऽलङ्कारे त्रिविधोत्तमप्रसरणे दिव्यैः प्रबन्धाकरैः।
ध्वन्यध्वन्यतया प्रथां गतवतामानन्दगुप्तप्रभृ— त्यार्याणामपि भाषितान्यहह नो पर्याप्तिमाबिभ्रति॥
रेवाप्रसादोऽस्म्यहमुच्चभाग्यो यस्यासकौ वै सुलभोऽस्ति राशिः।
विधिप्रसादादथ यस्य लभ्योऽवकाशकालेऽनवकाशकोऽपि॥