०९ दोषहानगुणोपादानप्रकाशः

अथ

शृङ्गारप्रकाशे नवमः प्रकाशः

दोषहानगुणोपादानप्रकाशो नाम

तत्र अभिधाविवक्षादिभिर्निरूपिते शब्दार्थयोः साहित्ये वाक्यस्य प्रयोगयोग्यता प्रयोगानर्हता च निश्चीयते। यदाह—‘एकः शब्दः सम्यक्प्रयुक्तः स्वर्गे लोके कामधुग्भवति’ (मभा. ६.१.८४)। दुष्प्रयुक्तः पुनरधर्माय सम्पद्यते। सम्यक्प्रयोगश्चास्य तदोपपद्यते यदा दोषहानं गुणोपादानमलङ्कारयोगो रसावियोगश्च भवति। तेषां च प्रथमं दोषहानमेव विधेयम्। यतः कमनीयरूपादिसम्पदुपेतमपि वपुः कुष्ठबिन्दुनैकेनापि दौर्भाग्यमनुभवति। उक्तं च—(काव्याद. १.७)

तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन।
स्याद् वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम्॥ १॥

किं च— (भामहा. १.१२)

नाकवित्वमधर्माय मृतये दण्डनाय वा।
कुकवित्वं पुनस्साक्षान्मृतिमाहुर्मनीषिणः॥ २॥

(९. दोषहानम्)

दोषास्त्रिधा १. पददोषाः, २. वाक्यदोषाः, ३. वाक्यार्थदोषाश्च।

तत्र च वाक्यस्य प्रयोगयोग्यतायाः प्रयोगानर्हतायाश्च निश्चयार्थं विमर्शे पदगतदोषनिरूपणमनिपुणोपज्ञमिव विज्ञायते। न हि वाक्यावस्थायां पदानि पदार्था वा विद्यन्ते। यथा हि चित्रे नीलपीतरक्तादयः. पानके गुडामलकमरीचादयः, ग्रामरागे षड्जर्षभगान्धारादयः चित्रादिभ्यः पृथक्त्वेन नावभासन्ते, तथा वाक्येऽपि क्रियाकारकविशेषणादिपदानि तदर्था वा न वाक्यवाक्यार्थाभ्यां भेदेनैव प्रतीयन्ते।

वाक्यार्थो हि पदपर्यायैरखण्ड एवाभिधीयमानो दृश्यते। तद्यथा— मुण्डं करोति मुण्डयति, श्‍लोकैरुपस्तौति उपश्लोकयति, श्रुत्वा च्छन्दोऽधीते श्रोत्रियः, परस्य क्षेत्रेऽतिचरन् चिकित्स्यते क्षेत्रियः, स्त्रुघ्नमभिनिष्क्रामति द्वारं स्रौघ्‍नम्, कलापिषूद्‌भिद्यमानकलापेषु विगतकलापेषु वा देयमृणं कालापकम्, केशेषु केशेषु च गृहीत्वा प्रवृत्तं युद्धं केशाकेशि, गौरवाय ह्वायकमिच्छति जिह्वायकीयिषति, अश्नीत पिबत इति सातत्येन यस्यां क्रियायां तामात्मनः इच्छत्यश्नीतपिबतीयति, दक्षिणे पार्श्वे लुब्धेन विषदिग्धेन शरेण मर्मणि निर्मितं व्रणं यस्य मृगस्य स दक्षिणेर्मा, दक्षिणात् समुद्रादद्रिराजं हिमवन्तं यावद् योजनानां दशशतीं विजयमानः समस्तरत्‍नानां य आयतनं स चक्रवर्ती। यो राजसूययाजी य ईश्वरो मण्डलस्य सकलस्य यश्चाज्ञयैव राज्ञः प्रशास्ति संराट् स विज्ञेय इति। अपि च ललाटं पश्यति लालटिकः, कुक्कुटीं चरतीति कौक्कुटिकः; तत्र ललाटदर्शनेन दूरे अवस्थानं लक्ष्यते, तेनानुपश्लेषकार्येषु चानुपस्थानम्; यः सेवकः स्वामिनः कार्येषु नोपयुज्यते, ललाटमेव वा यः कोपप्रसादसंरक्षणाय पश्यति स लालाटिक इत्युच्यते। तथा कुक्कुटीशब्देन कुक्कुटीपातो लक्ष्यते, तेन देशस्याल्पता; यो हि भिक्षुरविक्षिप्‍तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छंस्तावत्येव देशे चरति, यो वा तथाविधमात्मानमतथाविधोऽपि संदर्शयति, कुक्कुटीपातानां दाम्भिकानां चेष्टां वाचरति यस्सः कौक्कुटिक उच्यते।

एवं लोके लज्जाकरत्वादप्रकाश्यत्वेन कूपे प्रक्षेपणमिवार्हति यदकार्यं तत्कौपीनम्, तदिव यद्‍गूहनीयमङ्ग तदपि कौपीनम्; तस्य यदाच्छादकं वस्त्रखण्डं वल्कलादि तदपि कौपीनमेवोच्यते। किं च सिद्धस्यान्नस्य वर्धनायानाहूतापि योपतिष्ठते सा वध्रिका; तद्वदप्रार्थितोऽपि यः परिकर्मणि व्याप्रियते सोऽपि निन्द्यत्वेन वध्रिकेव वध्रिका; प्रशस्योऽपि विरुद्धलक्षणया हतभग्‍नादिवद्(?) यः तद्‍व्यपदेशभाग्भवति सोऽपि वर्धिका दर्शनीयो मनुष्य इति वर्धिकेत्येवोच्यते। तथा—

‘अर्धं जरत्याः कश्चित् कामयतेऽर्धं परिहरति, एवं कश्चित् कार्यस्यार्धमाद्रियते अर्धमवजहाति, तत्रार्धमिव जरत्या यदर्धं कार्यस्य तस्य कामिन इव यदनुष्ठानं तदर्धजरतीयमित्युच्यते।’ यथा चाविजानतोऽपि घुणकीटस्य यदृच्छया काष्ठमुत्किरतः कदाचिदक्षरमुत्तिष्ठति, तद्वदशास्त्रज्ञस्य यादृच्छिकं यदनवद्यकर्मनिर्माणं तद्‍घुणाक्षरीयमित्युच्यते।

एवं च यथा पदपर्यायवाक्यानां अखण्ड एवाविभक्तोद्देशविभाग एकोऽर्थोऽभिधे— यस्तथा देवदत्त गामभ्याज शुक्लां दण्डेनेत्येवमादीनां पदपर्यायाणामपि वाक्यानां सन्निविष्टेऽनेकशक्तिरूपः सर्वोपाधिविशिष्टक्रियात्मा नष्टोद्देशविभाग एक एव अभिधेयो भवति। पदानां तु प्रकृतिप्रत्ययादिवदविद्वत्प्रतिपत्त्यर्थमेव अन्वयव्य— तिरेकाभ्यां व्यावहारिकोऽर्थापोद्धारः शब्दापोद्धारश्च क्रियते। अपोद्धृतानां च विनिविष्टभेदानामिव पुनर्योगो विधीयते। न चैतावता तद्गतदोषगुणनिरूपणमपि विधेयं भवति। न हि दर्शनीयं चित्रं स्वादु पानकं श्राव्यो ग्रामराग इति वक्तव्ये कश्चिदभिधत्ते शोभना नीलदयो गुडादयः षड्जादयो वेति।

उच्यते— अप्यायुष्मान् पदपदार्थानामिव वाक्यावस्थायां, वाक्यवाक्यार्था— नामप्यवान्तरवाक्यावस्थायामसत्यत्वं मन्यते? यथा दुह्यतां गौः, उपाध्यायस्तत्पयसा भुक्त्वा मामध्यापयतु, येन मामधियानं दृष्ट्वा पिता तुष्यति, तुष्टश्च मोदकान्मे ददातीति।

किं चातः?

यदि मन्यते, पदैः किमपराद्धं, येन तद्‌गतदोषगुणनिरूपणं न मृष्यते ?

अथ न मन्यते, तथापि पदैः किमपराद्धम्, येन तुल्येऽप्यारम्भकत्वे पदानामेवासत्यत्वमभ्युपगम्यते, न वाक्यानाम्।

अथ वाक्यान्यप्यवान्तरवाक्यावस्थायामसत्यानि? तर्हि अवान्तरवाक्यानामपि महावाक्यावस्थायां, महावाक्यानामपि विद्यास्थानावस्थायां, विद्यास्थानानामपि शब्दब्रह्मावस्थायां, शब्दब्रह्मणोऽपि परब्रह्मावस्थायां न सत्यत्वमिति न कस्यचित् किंचिदपि विचार्यं भवति।

अथाभेदवादिनामपि व्यवहारार्थमवश्‍यमेव भेदोऽभ्युपगन्तव्यः तद्गतदोषगुण— विचारणा चानुष्ठेया।

तर्ह्यसौ पदात् प्रभृत्येवारभ्यमाणा श्रेयसीति नस्तर्कः। पदेषु हि निर्दोषेषु गुणवत्सु च वाक्यमपि तदारब्धं तथाविधमेव भवति। यदाह—यादृशाद् वै जायते तादृश्‍येव भवति।

न च पदस्यात्यन्तमसत्यत्वं भवानपि मन्यते, योऽभिद्यमानावप्यविद्व— त्प्रतिपत्त्यर्थमन्वयव्यतिरेकाभ्यामपोद्ध‍ृत्य पदपदार्थौ भिन्नाविव पुनर्योजयति। यदि च सर्वथैवासत्यत्वमवाचकत्वं च पदानामभ्युपेयते, तत्तदारब्धवाक्यानामपि तथात्वे सर्वव्यवहारोच्छेदः प्राप्नोति॥

अपि चाखण्डवाक्यार्थपक्षे य एते पदार्थोपनिबन्धनाः वाक्यार्थविशेष— प्रतिपत्तिहेतवो वाक्येषु धर्मास्संदृश्‍यन्ते, तेऽपि पदानामानर्थक्यात् न प्राप्नुवन्ति।

के पुनरेते?

(वाक्यधर्माः —४८)

प्रधानं, शेषः, प्रयोजकम्, अप्रयोजकम्, नान्तरीयकम्, मुख्यम्, गौणम्, व्यापकम्, लघु, गुरु, अर्थवादः, अनुवादः, भेदविवक्षा, अभेदविवक्षा, व्यवहितकल्पना, उपचारकल्पना, तद्‌भावापत्तिः, योग्यतापत्तिः, सम्बन्धाबाधनं, विकल्पः, समुच्चयः, नियमः, निषेधः, प्रतिनिधिः, ऊहः, बाधः, तन्त्रम्, प्रसङ्गः, आवृत्तिः, भेदः, (अतिदेशः)१ सामान्यातिदेशः, विशेषातिदेशः, अधिकारः, अध्याहारः, विपरिणामः, वाक्यशेषः, अवधिः, अपोद्धारः, अनिर्ज्ञातप्रश्नः, क्रियान्तरव्युदासः, लिङ्गाद् विभेदः, लिङ्गादिभेदः, शब्दान्तरादिभेदः, शक्त्यादिभेदः, श्रुत्यादिविनियोगः, श्रुत्यादिबलाबलम्, श्रुत्यादिक्रमः, क्रमसम्भेद इति।

(१—२ प्रधानम्, शेषः)

तत्र साध्यमपरार्थं प्रधानं, सिद्धं पुनः परार्थं शेषः।

स चायं प्रधानशेषभावः शब्दशक्तेर्महिम्ना प्रवर्तमानो वस्तुनस्तथात्वमनपेक्ष्यैव प्रकाशते। तथा हि—

गुरुः प्रधानं परिचर्यमाणः शिष्यानुशिष्टौ स गुणत्वमेति।
तद्वद् गुडो भक्षयतौ प्रधानं, प्रीतौ पुनः स्यात् पुरुषस्य सोऽङ्गम् ॥ ३ ॥

इह तु सर्वमेव वाक्यजातमुदाहरणम्। न हि प्रधानगुणभावमन्तरेण वाक्ये पदानां समन्वयो भवति। तत्र साध्यत्वात् प्रधानं क्रिया, सिद्धत्वादप्रधानं कारकाणि।

क्वचित्तु कियाया अपि शेषत्वं भवति। यथा—(मामा. १.३०)

स्तिमितविकसितानामुल्लसद्‌भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम्।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥ ४ ॥

यथा वा— (सक. ४.१२८) १. मूले अतिदेशस्य स्थाने ‘सामान्यातिदेशः विशेषातिदेश’ इति लेखः। रा. पृ. ४९७, द्र. अत्र पृ.४७० प्रियोऽसि प्राज्ञोऽसि प्रभुरसि कुलीनोऽस्यसि युवा युवत्यस्त्वामेवं कति न पतिमुर्वीश! वृणते।
अतश्चैतां कीर्तिं रघुनहुषमान्धातृमहिषीं पराम्रष्टुं वृद्धामधिगतनयो नार्हति भवान् ॥ ५ ॥

(३. प्रयोजकम्)

येन प्रयुक्तः प्रवर्तते तत् प्रयोजकम् (शाभा. ४.१.२२)। तद् यथा—‘स्वर्गो यागस्य, गार्हस्थ्यमर्थार्जनस्य, अतिथयः पाकस्य, राजा छत्रच्छायाया’ (वाप. २) इति। तच्च न केवलं श्रेयस्येव प्रवर्तयति, अपि त्वश्रेयस्यपि। यथा—(मामा.५.२७)

त्वत्पादपङ्कजपरिग्रहपुण्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः।
भ्राम्यन्नृमांसपणनाय परेतभूमावाकर्ण्य भीरु रुदितानि तवागतोऽस्मि ॥ ६ ॥

यथा वा—

अस्याः स्नेहभृतेन वानरपतिस्सेतौ मया क्लेशितो भ्राता मद्‌वदनैकवीक्षणपरः प्राणानयं त्याजितः।
दायादेन सह प्रवृत्तकलहे जात्यैव मुक्तायुधे निर्वैरे च निरागसि द्विषि तथा मुक्तः शरो वालिनि ॥ ७ ॥

(४. अप्रयोजकम्)

स्वयं प्रयोक्‍तुमसमर्थोऽन्यप्रयुक्तेन कर्मणा यः सम्बध्यते सोऽप्रयोजकः। तद्यथा मांसप्रयुक्ते पाके घृतादिभिरस्थीन्यप्रयोजकानि सम्बध्यन्ते। स्नातृप्रयुक्तेन स्नानीयेना— प्रयोजिका स्नानशाटी युज्यते। राजप्रयुक्तया छत्रच्छाययाऽप्रयोजकोऽपि हस्ती सङ्गच्छत’ इति। इदं चाप्रयोजकत्वमवास्तवमपि क्वचिदुक्तिमात्रेण दृश्यते। यथा—

णोक्खी भल्ली स वंमहेण णिम्मिअ तइलोके वि।
जेहि विमुकी ते वि मुअ जह ण लग्गी ते वि ॥ ८ ॥

(नवीना भल्ली सा मन्मथेन निर्मिता त्रैलोक्येऽपि।
येभ्यो विमुक्ताः तेऽपि मृताः येभ्यो न लग्ना, तेऽपि ॥)

यथा वा—

मुक्ताः कन्धरया धृताः, स्तनतटेनोत्तुङ्गता कुम्भयो— रूरुभ्यां परिणाहिता क्रमवती हस्तस्य, पद्‍भ्यां गतिः।
एतद् वः करिघातिनस्तु कठिनं चर्मैव, कोऽयं हठ— श्चण्डीति त्रिपुरारिकेलिवचनैरार्यास्मितं पातु वः ॥ ९ ॥

(५. नान्तरीयकम्)

यत्सम्बन्धमन्तरेण क्रिया प्रधानेन सम्बध्यते तन्नान्तरीयकम्। तद्यथा— ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्’; (वाजिनस्य) पुनरनुनिष्पादित्वा— न्नान्तरीयकेण वाजिनेन सम्बध्यते। ओदनार्थे च पाके नान्तरीयकेण आचामादिना मक्षिकादयोऽनुगृह्यन्ते, अग्न्यर्थे निर्मथने नान्तरीयकेण धूमेन होतुरक्षिणी उपहन्येते। तदेतत् क्वचित् कविप्रयोगेषु वास्तवमवास्तवं च दृश्यते।

वास्तवं यथा— (रघु. ७.२६)

हविःशमीपल्लवलाजगन्धिः पुण्यः कृशानोरुदियाय धूमः।
कर्णान्तसंसर्पिशिखस्स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ १० ॥

अवास्तवं यथा—(गास. ३.१५)

सच्चं भणामि वालअ णिअअं चिअ वल्लहं जीअं।
तं तुइ विणा ण होइ त्ति तेण कुलअ/कुविअ कुविअंपसाएमि ॥

(सत्यं भणामि बालक नियतमेव वल्लभं जीवितम्।
तत् त्वया विना न भवतीति तेन कुलजं कुपितं प्रसादयामि ॥)

रूढ्या यत्रासदर्थोऽपि लोके शब्दो निवेशितः।
स मुख्यस्तत्र तत्साम्याद् गौणोऽन्यत्र स्खलद्‍गतिः ॥ १२ ॥

(प्र.वा.प्रत्य.३७) (६. मुख्यम्)

तत्र मुख्यं यथा— गौरनुबन्ध्य इति। अत्र गोशब्दो मुख्यवृत्त्या सास्नादिमत्पदार्थे वर्तते।

(७. गौणम्)

गौणं यथा— गौर्वाहीक इति। अत्र गोशब्द एव तिष्ठन्मूत्रादिगुणसम्पदा बाहीके वर्तमानो गौणीं वृत्तिमनुभवति। तत्र कविप्रयोगे मुख्यं यथा—

जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दुस्त्रवदमृतनिवृत्तप्रेतभावैः कपालैः।
विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेः परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः ॥ १३ ॥

गौणं यथा—(उराच. १.३८)

इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो— रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो, यदि परमसह्यस्तु विरहः ॥ १४ ॥

(८. व्यापकम्)

अनेकविषयं व्यापकम्। तद्यथा— अातुरानातुरयोर्भोजनप्रक्लृप्तावातुरभोजन— मनातुरोऽपि प्रतिपद्यते। यथा— (गास. ३.२५)

अद्धच्छिपेच्छिअं मा करज्ज साहाइअं पुलोएसु।
सो वि सुदिठ्ठो होहिइ तुमं पि मुद्धा कलिज्जिहिसि ॥ १५ ॥

(अर्धाक्षिप्रेक्षितं मा कुरु स्वाभाविकं प्रलोकय।
सोऽपि सृदृष्टो भविष्यति त्वमपि मुग्धा कलयिष्यसे ॥)

एतेन बहुविषयमपि व्याख्यातम्। तद् द्विविधं क्रियाविषयं कारकविषयं च। तयोराद्यं यथा— (कुमा. ३.२०)

द्यूते पणः प्रणयकेलिषु कण्ठपाशः क्रीडापरिश्रमहरं व्यजनं रतान्ते।
शय्या निशीथकलहे हरिणेक्षणायाः लब्धं मया विधिवशादिदमुत्तरीयम् ॥ १६ ॥

द्वितीयं यथा—

सीसे सेहरु खणु विणिम्मविदुखणु कंठे पालंबु किदु रइए।
विहिदु खणु मुंडमालिए जं पणएण तं णमहु कुसुमदाम—कोदंडु कामहो ॥ १७ ॥

(शीर्षे शेखरः क्षणं विनिर्मापितः क्षणं कण्ठे प्रालम्बः कृतो रत्या।
रचिता क्षणं मुण्डमालिका यत् प्रणयेन तन्नमत कुसुमदामकोदण्डं कामस्य ॥)

(९. लघु)

संक्षिप्ताभिधानं लघु वीप्सा, एकशेषः, संज्ञा, कर्मधारयाद् बहुव्रीहिः इत्यादि।

(१०. गुरु)

तद्‍‍विपरीतं गुरु, अवीप्सा, अनेकशेषः, असंज्ञा, कर्मधारयान्मत्वर्थीय इति। तेषु— वीप्सया लघुर्यथा—(गास. ६.३०)

जं जं पुलोएमि दिसं पुरओ लिहिअ व्व दीससे तत्तो।
तुह पडिमापरिपाडिं वहइ व सअलं दिसावलअं॥ १८॥

(यां यां प्रलोकयामि दिशं पुरतो लिखित इव दृश्‍यते तत्र।
तव प्रतिमापरिपाटी वहतीव सकलं दिशावलयम्॥)

अवीप्सया गुरुर्यथा—(मामा. १.४३)

पश्‍यामि तामित इतश्च पुरश्च पश्चा— दन्तर्बहिः पुरत एव च वर्तमानाम्।
उद्बुद्धमुग्धकनकाब्जनिभं वहन्ती— मासङ्ग—तिर्यगपवर्तितदृष्टि वक्त्रम्॥ १९॥

एकशेषेण लघु, अनेकशेषेण गुरु। तदुभयमेकश्लोके पर्यायपरिक्षेपाभ्यां यथा—

अद्यौवावां रणमुपगतौ तातमम्बां च दृष्टा स्पृष्टस्ताभ्यां शिरसि विनतोऽहं च दुश्शासनश्च।
तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां पार्श्वं पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा॥ २०॥

(वेसं.४.१५) संज्ञया लघु यथा—

खात्मेन्दुवह्निमरुदर्कमहीपयोभि— रष्टाभिरेव तनुभिर्भवता समस्ते।
ग्रस्ते जगत्यपरमिच्छति योऽत्र वस्तु कोऽन्यो हतत्रपतया सदृशोऽस्ति तेन॥ २१॥

असंज्ञया गुरु यथा— (शाकु. १.१)

या सृष्टिः स्त्रष्टुराद्या बहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम्।
यामाहुः सर्वभूतप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्न(नाँ)स्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥ २२॥

आभ्यामुभययोगे गुरुलघुभेदोऽपि व्याख्यातः। यथा— १. जलमुचां मेघानां यौ पथ्याधारौ जलाकाशौ। पथ्यमशनं जलम्, आधार आकाशः। ‘॰हारावि’ति— जोशेर—राघवौ। हरज॰ इति, दहवि॰ इति च जो. पथ्याधारौ१ हर! जलमुचां यौ च, यौ पङ्कजानां मित्रामित्रौ, वरद! हविषां दायकग्राहकौ च।
यौ गन्धस्य प्रजन—वहनौ तामहं तुष्टिहेतो— रष्टौ वन्दे त्रिभुवनतनोर्मूर्तिभेदाँस्तवैतान्॥ २३॥

कर्मधारय बहुव्रीहिणा लघुर्यथा—

यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥ २४॥ मेघ.

कर्मधारयमत्वर्थीयेन गुरुर्यथा—

आकैलासाद् बिसकिसलयच्देदपाथेयवन्तः
संपत्स्यन्ते नभसि भवतो राजहंसास्सहायाः॥ २५॥ मेघ.

आदिग्रहणात् समासवाक्यादिषु गुरुत्वलघुत्वाभ्यां ग्रन्थगौरवलाघवे प्रतिपत्तिगौरवलाघवे च द्रष्टव्ये। तत्र समासगुरुत्वे ग्रन्थलाघवं प्रतिपत्तिगौरवं च यथा—

विलासमसृणोल्लसन्मुसललोलदोःकन्दली— परस्परपरिस्खलद्‌वलयनिस्वनोद्दन्तुराः।
हरन्ति कलहुङ्कृतिप्रसभकम्पितोरुस्तन— त्रुटद्‌गमकसङ्कुलाः कलमकण्डनीगीतयः॥ २६॥

समासलघुत्वे ग्रन्थगौरवं प्रतिपत्तिलाघवं च यथा—

सिकतिल—तलास्सान्द्रच्छायास्तटान्तविलम्बिनः शिशिरमरुतां लीलावासाः क्‍वणज्जलरङ्कवः।
अविनयवतीनिर्विच्छेदस्मरव्ययदायिनः कथय मुरले ! केनामी ते कृता निचुलद्रुमाः॥ २७॥

वाक्यलाघवे प्रतिपत्तिगौरवं यथा—

पतिश्वशुरता ज्येष्ठे पतिदेवरतानुजे।
मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु॥ २८॥

वाक्यगौरवे प्रतिपत्तिलाघवं यथा—

आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत्।
हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथंचन ततः कर्णावतंसीकृतम्॥ २९॥

एतेन क्‍वचिद्वाक्यलाघवेऽपि प्रतिपत्तिलाघवं व्याख्यातम्। यथा—(सेब.१.४२)

तं दइआहिण्णाणं जम्मि वि अंगम्मि राहवेण ण णिमिअं।
सीआपरिमट्टेण व वूढो तेण वि णिरंतरं रोमंचो॥ ३०॥

(तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न स्थापितम्।
सीतापरिमृष्टेनेव व्यूढस्तेनापि निरन्तरं रोमाञ्चः॥)

(११. अर्थवादः)

स्तुतिनिन्दार्थमतिशयोक्तिरर्थवादः। तद्यथा— मनोजवोऽश्वः, विश्वव्यापिनी तृष्णा इति। यथा च स्तुतौ—

कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि।
यत्र हंसवयांसीव भुवनानि चतुर्दश॥ ३१॥

यथा वा निन्दायाम्—

येषां प्राणिवधः क्रीडा नर्म मर्मच्छदो गिरः।
परापवादः कर्तव्यस्ते मृत्योरपि मृत्यवः॥ ३२॥

(१२. अनुवादः)

सिद्धस्य विधिनिषेधार्थमुच्चारणमनुवादः। तद् यथा कथमीदृशमनीदृशोऽभिदधीत, कथमेवंविधायस्तवायमेवंविधः पतिरिति। यथा च विधौ—

तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्‌दुकूलं दधानः।
मदधिवसतिमागाः कामिनां मण्डनश्री— र्व्रजति हि सफलत्वं वल्लभालोकनेन॥ ३३॥

यथा वा निषेधे—

यदार्थ कामं भवता स याच्यतामिति क्षमं नैतदनल्पचेतसाम्।
कथं प्रसह्याहरणैषिणां प्रियाः परावनतया मलिनीकृताः श्रियः॥ ३४॥

(१३. भेदविवक्षा)

यत्राङ्गाङ्गिभावादिना भेदो विवक्ष्यते सा भेदविवक्षा। यथा— अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्त इति। यथा च— (कु.सं. २.१०)

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे॥ ३५॥

(१४. अभेदविवक्षा)

तद्विपर्यये अभेदविवक्षा यथा— तानेव शालीन् भुञ्ज्महे ये मगधेषु, तानेव शाटकानाच्छादयामः ये पाटलीपुत्रे, तदेवेदं कार्षापणं यन्मधुरायां दृष्टमिति। यथा—

रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम्।
न कारणत्‌स्वाद् विभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात्॥ ३६॥

(रघु.३) (१५. व्यवहितकल्पना)

यत्र सन्निहितस्यायोग्यतायां व्यवहितमाश्रीयते सा व्यवहितकल्पना, यथा च प्रविश पिण्डिमिति प्रवेशनक्रिया सन्निहितायामप्ययोग्ययां पिण्डयामसम्भवन्ती व्यवहितमपि योग्यं गृहादिकमपेक्षते। एवं पिण्डीमित्येतदपि कर्मपदं सन्निहितायामपि प्रवेशनक्रियायामयोग्यायामसम्भवद् व्यवहितामपि योग्यां भक्षयेत्यादिकां क्रियामपेक्षते। यथा च मेघदूताद्यश्‍लोके कश्चिद् यक्षः शापेनास्तंगमितमहिमा रामगिर्याश्रमेषु वसतिं चक्र इति।

(१६. उपचारकल्पना)

यत्रान्यधर्माः सति निमित्तेऽन्यत्रोपचर्यन्ते सा उपचारकल्पना। यथा कालोऽतिक्रामति, मञ्चाः क्रोशन्ति। यथा वा—(वारा. ५.३४.६)

कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम्।
एति जीवन्तमानन्दो नरं वर्षशतादपि॥ ३७॥

(१७. तद्‌भावापत्तिः)

विपर्ययादेरतस्मिंस्तदिति व्यपदेशस्तद्भावापत्तिः। यथा शुक्तिकायां रजतमिति, मृगतृष्णिकायां जलमिति, रज्जावहिरिति। यथा च—

चंद्रहिवपि वाविहि कूपि सरिपल्लति तल्लितलाइ।
चंदहकच चकोडिआकेण हआसे माइ॥ ३८॥

(चन्द्रवपुषि वाप्यां कूपे सरसि पल्वले तटाकिकायां तटाके।
चन्द्रस्य कृतोऽग्निः केन हताशेन मातः॥)

(१८. योग्यतापत्तिः)

अधिकारित्वापादनं योग्यतापत्तिः। यथा दर्भाणां स्थाने शरैः प्रस्तरितव्यम्, ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति’ इति। यथा च—(मेघ. ५६)

शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः।
निर्ह्लादी ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समस्तः॥ ३९॥

(१९. सम्बन्धाबाधनम्)

विशेषश्रुत्या सामान्यश्रुतेरबाधः सम्बन्धाबाधनम्। यथा ब्राह्मणा भुञ्जतां माठरकौण्डिन्यौ परिवेविष्टामिति। यथा च—(कुसं.)

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे।
मास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम्॥ ४०॥

(२०. विकल्पः)

द्वयोस्तुल्यबलयोः पर्यायेण प्राप्‍तिर्विचारणा वा विकल्पः। यथा व्रीहिभिर्वा यवैर्वा जुहुयात्, ‘हन्ताहं पृथिवीमिमां नि दधानीह वेह वा’ (ऋवे. १०.११९.९) इति। यथा च पर्यायप्राप्‍तौ—(वेसं. २.३)

गुप्‍त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः।
करोति महतीं प्रीतिमपकारोऽपकारिषु॥ ४१॥

यथा वा विचारणायाम्—(कुसं. ५.७८)

विभूषणोद्‌भासि पिनद्धभोगि वा गजाजिनालम्बि दूकूलधारि वा।
कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः॥ ४२॥

(२१. समुच्चयः)

तुल्यबलानामविरोधिनां भिन्नप्रयोजनानामेकार्थपरतयोपादानं समुच्चयः। यथा देवदत्तं भोजय, लवणेन सर्पिषा शाकेनेति। गुणादिसमुच्चयः पुनरभेदेन भेदेन च दृश्‍यते। अभेदेन यथा—

श्लाध्यान्वयेति नयनोत्सवकारिणीति निर्व्यूढसौहृदभरेति गुणोज्ज्वलेति।
एकैकमत्र हि वशीकरणं गरीयो युष्माकमेवमियमित्यथ किं ब्रवीमि॥ ४३॥

भेदेन यथा—

कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वप्रखण्डितम्।

प्रकृतिसुभगा ह्येते भावा मदस्य च हेतवो व्रजति पुरुषो यैरुन्मादं त एव तवाङ्कुशाः॥ ४४॥

(२२. नियमः)

अनेकप्राप्‍तावयोगान्ययोगव्यवच्छेदेनावधारणं नियमः । यथा शङ्खः पाण्डर एव, पार्थ एव धनुर्धर इति। स च क्‍वचित् सार्वकालिकः क्‍वचिन्नियतकालः। यथा— (कुसं. ३.१९)

अस्मिन् सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम्।
अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म॥४५॥

यथा च— (कुसं. ५.६७)

त्वमेव तावत् परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः।
वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च॥ ४६॥

(२३. निषेधः)

प्रसज्यप्रतिषेधः पर्युदासो वा निषेधः। तयोर्यत्रासामर्थ्यं वाक्यभेदश्च स प्रसज्यप्रतिषेधः। यथा असूर्यंपश्या राजदाराः, अब्राह्मणको देशः, ‘सुडनपुंसकस्य’ (१.१.४३) इति। यत्र सामर्थ्यमेकवाक्यता च स पर्युदासः। यथा अब्राह्मणः, अनेकः, अपचसि त्वं वृषलेति। स चोभयरूपोऽपि प्रागभावादिभेदाद् भिद्यते। यथा—(रघु. १८.४३)

पर्यन्तसञ्चारितचामरस्य कपोललोलोभयकाकपक्षात्।
तस्याननादुच्चरितोऽपवादश्चस्खाल वेलास्वपि नार्णवानाम्॥ ४७॥

यथा च— (रघु. १८.४८)

अनश्नुवानेन युगोपमानमलब्धमौर्वीकिणलाञ्छनेन।
अस्पृष्टखड्गत्सरुणापि चासीद् रक्षावती तस्य भुजेन भूमिः॥ ४८॥

(२४. प्रतिनिधिः)

मुख्याभावे तदर्थकारिणः सदृशस्य प्रतिनिधानं प्रतिनिधिः। यथा व्रीह्यभावे नीवाराः, कुशाभावे काशाः प्रतिनिधीयन्त इति।

ननु च क्रियासु सामर्थ्यमात्रेण प्राप्‍ता व्रीह्यादयः पुनः श्रुत्यादिभिर्नियम्यमाना नीवारादीनां निवर्तका विज्ञायन्ते। तत्र यथैवान्यानि द्रव्याणि अयज्ञीयानि च पलाण्ड्वादीनि सत्यप्यर्थित्वे ‘दृष्टेऽपि सामर्थ्ये शास्त्रेणापर्युदस्तस्याधिकारो युक्त’ इति न्यायाद् वचनान्तराभावाच्च न प्रतिनिधीयन्ते; तथा नीवारादीनामपि व्रीह्यादिर्नियमैर्निषिद्ध— त्वाद् वचनान्तराभावाच्च नास्त्येव प्रतिनिधिरिति किमिदं दूषणं प्रतिनिधिर्न प्राप्नोतीति।

उच्यते — ‘यजेतेति यागे द्रव्यत्वमेव यजतिक्रियारूपैकदेशभावादङ्गत्वेन प्राप्‍तसन्निधानं, व्रीहित्वादयस्तु सामान्यविशेषाः सामर्थ्यप्राप्‍तसन्निधाना अपि क्रियारूपेणानुपादानाद् द्रव्यत्ववदङ्गभावेन प्रतीयन्ते। तत्र व्रीहिशब्दो हि अधिकार्था— ध्यावापायोपादीयमानो द्रव्यत्वसहचारिणो नीवारादीन्न बाधते। न हि तन्निवृत्तौ तस्य व्यापारोऽस्ति, नाप्यभ्यनुज्ञायाम्। अतः शिष्टाचरितो लोकप्रसिद्धश्च प्रतिनिधिरस्त्येवेति।

यदि तर्हि व्रीहिश्रुतिर्न नियमार्था, नीवारादीनां विकल्पः प्राप्नोति।

नैवम्, असम्भवो नामायं नियमसदृशफलोऽन्य एव बाधविशेषः, यमसम्भवनियम इत्यामनन्ति। तत्र व्रीहित्वमधिकं शब्देनाङ्गभावमापद्यते; अतोऽप्रतिषिद्धान्यपि श्रुत्या नीवारत्वादीनि विरुद्धैकार्थ समवायित्वान्न सम्भवन्ति। सम्भवेऽपि काममविरोधात् सामर्थ्यप्राप्‍तसन्निधानानि विना शब्दव्यापारेण समुच्चीयेरन्, न तु विकल्प्येरन्।

तत्रैतत् स्यात् यथा द्रव्यत्वं नियतसन्निधानं क्रियापदार्थैकदेशभूतमेव क्रियाशब्देन लक्ष्यते, तथा सर्वेऽपि व्रीहित्वादयो द्रव्यत्वसहचारिणो विशेषाः क्रियापदार्थैकदेशभूता एव क्रियाशब्देन कस्मान्न लक्ष्यन्ते?

नैवम्, न हि सर्वेषां वस्तुत्वेन सतामर्थानां शब्दोऽभिधायको भवति। विवक्षानिबन्धनं हि वस्तुसतामप्यर्थानामभिधानं, विवक्षा च शब्दसामर्थ्यनिबन्धना; तत्र यथैव द्रव्यत्वसहचारिणो नियतसन्निधाना अपि शुक्लादयो गुणाः सत्यपि द्रव्यवदुपयोगे शब्दशक्त‍यनुरोधात् क्रियाशब्देनाङ्गत्वेन प्रत्याययितुमशक्यत्वाद— विवक्षिताः, तथैव शब्दशक्त‍यनुरोधाद्व्रीहित्वादीनां द्रव्यत्वसहचारिणामुपयोगवतां भेदानामङ्गत्वेनाविवक्षाया नियमाभावाच्छास्त्रेण (अ)पर्युदस्ते विशेषान्तरसहचारिणि द्रव्यत्वे नित्यस्य कर्मणोऽङ्गमात्रासन्निधाने मा भूदप्रवृत्तिः, काम्यस्य वा सन्निहितेष्वङ्गेषु प्रवृत्तस्य मा भूदङ्गभ्रेषे विच्छेद इति शास्त्रेणापर्युदस्तः प्रतिनिधिः प्रथमकल्पाभाव उपादीयते। स तु पदार्थसद्‍भाव एव युज्यते। यस्य तु पुत्रीयतीतिवत् क्रियाविशेष एव शक्तिद्रव्यसंसर्गभिन्न एको वाक्यार्थः, तस्य अविभक्तशब्दार्थत्वादभ्रेषेऽपि तस्मिन्नर्थात्मन्यविकले निवृत्तेरङ्गान्तरप्रतिनिधानेऽपि पटीयतीतिवदविद्यमानोद्देशविभागं क्रियान्तरं प्रतिनिहितं स्यात्। अप्रतिनिधेया च क्रियेति।

ननु व्रीहित्वादयोऽप्यप्रतिनिधेया एव। यदाह—(वाप.जा. ७८)

जातीनां च गुणानां च तुल्येऽङ्गत्वे क्रियां प्रति।
गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः॥ ४९॥

मैवं वोचः। कर्तापि नाम नाप्रतिनिधेयः, किं पुनरन्ये। तद्यथा—(रघु. १५.६१)

श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः।
अनन्यजानेरासीद् यत् सैव जाया हिरण्मयी॥ ५०॥

यथा वा—(मवीच. १.१५)

अयं च यजमानेन यक्ष्यमाणस्य मे गृहात्।
प्रहितस्तेन वात्सल्यादनुजन्मा कुशध्वजः॥ ५१॥

क्रियायास्तु प्रतिनिधिर्नास्त्येव, यदि च स्याद् वाक्यान्तरमेव तत् स्यादिति।

(२५. ऊहः)

प्रकृतौ समर्थानां मन्त्रवाक्यानां विकारेषु सामर्थ्याभावात् सर्वलोप एकदेशानिवृत्तावपि क्रियायां मुख्यवृत्तिव्यतिक्रमेण वार्थान्तरोपादाने प्रसक्ते शब्दान्तरस्यार्थान्तरवृत्तेः समर्थस्योपादाने प्रकृतिरूपलिङ्गविभक्तिवचनान्तराणां विमृश्योपादानम् ऊहः। तद्यथा— ‘आग्नेयमष्टाकपालं पुरोडाशं निर्वपेद्’ इति प्रकृतियोगे ‘अग्नये त्वा जुष्टं निर्वपामि’ इत्यत्राग्निशब्दः समर्थो दृष्टः। स ‘सौर्यं चरुं निर्वपेत् ब्रह्मवर्चसकाम’ इति विकृतियागे समर्थः; तत्र यदि तूष्णीमेवोपादानं क्रियेत, शब्दवती प्रकृतिरशब्दो विकारः स्यात्। अथ देवता नैवोपादीयेत, प्रकृतौ देवतायाः श्रवणाद् द्वैगुण्यं प्रसज्येत। तत्र द्रव्यदेवतात्यागो यागो न स्यात्।

अथाग्निशब्द एवोपादीयेत, मुख्यार्थे वृत्तः सूर्यार्थं न प्रत्याययेत्।

अथाप्यस्य गुणादर्थान्तरे सूर्ये मुख्यवृत्तिव्यतिक्रमेण प्रयोग आश्रीयेत्, प्रकृतिविपरीता शब्दप्रवृत्तिराश्रिता स्यात्। स्याच्च विकृतिः कर्तव्या; तस्मादत्र शब्दान्तरमेव तद्‍‌विभक्तिकमुपादीयते, ‘सूर्याय त्वा जुष्टं निर्वपामि’ इति। आश्रयभेदाच्च लिङ्गवचनमूहः। तद्यथा— देवीरापः शुद्धा यूयं’ ‘देव आज्यं शुद्धं त्वम्’।

विभक्त‍यन्तराणामपि—‘आयुराशास्ते, ‘ऊह आयुराशासाते आयुराशासत’ इति। येषां तु प्रकृतावेव सामर्थ्यं नास्ति तद्यथा—‘वायवः स्थ’ इति, प्रकृतावेव बहुवचनेनैको वत्सोऽभिधीयते, तेषामसामर्थ्याद् विकृतावूहो न भवति; तथैकस्मिन्नेव प्रकृतिपाशे पाशानिति बहुवचनान्तः श्रूयते ‘अदितिः पाशान् प्रमुमोक्तु’ इति। वाजसनेयिनां त्वेकेषां एकवचनान्तः पठ्यते, ‘अदितिः पाशम्’ इति, तेषामूहः प्राप्नोति यदि, एतन्नास्ति अदितिरशनापाशेषु नोह इति। क्‍वचित् पुनरूहः प्राप्‍तोऽपि निषिध्यते।

अङ्गानि ज्ञातिनामानि उपमा इन्द्रियाणि च
एतान्यूहं न गच्छन्ति अध्रिगौ विषमं हि तत्॥ ५२॥

तत्राध्रिगोरन्यत्राङ्गानामनूहो यथा— ‘यत्पशुर्मायुमकृतोरो वा पद्भिराहते, अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः’ इत्यूहे यत्पशू मायुमकृषातामुरो वा पद्भिराहसातां, यत्पशवो मायुमकृषतोरो वा पद्भिराहसत इति। ज्ञातिनाम्नामनूहो यथा —‘अनु त्वा माता मन्यतामनु पितानु भ्रातानु सखा सयूथ्य’ इत्यूहे ‘अनु वां माता मन्यतामनु वो माता मन्यतामि’ति। उपमानामनूहो यथा ‘कश्यपेवासां च्छिद्रे श्रेणी’ ‘श्येनमस्य वक्षः कृणुतात्’ इत्यूहे श्येनमनयोः वक्षः कृणुतात्, श्येनमेषां वक्षः कृणुतादिति। इन्द्रियाणामनूहो यथा—‘सूर्यं चक्षुर्गमयतात्, वातं प्राणमन्ववसृजतात्, अन्तरिक्षममुं दिशः श्रोत्रं पृथिवीं शरीरम्’, ‘एकधास्य त्वचमाच्छ्यतात्’, ‘पुरा नाभ्या अपिशसो वपामुत्खिदतात्’, ‘अन्तरेवोष्माणं वारयतात्’ इत्यूहे एकधानयोस्त्वचमाच्छ्यतात् एकधैषां त्वचमाच्छ्यतादिति। तदिदमुक्तम्—(माघ. १४.२३)

नाञ्जसा निगदितं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे।
तत्र कर्मणि विपर्यणीनमन् मन्त्रमूहकुशलाः प्रयोगिणः॥ ५३॥

ऊहश्च मन्त्रादन्यत्रापि भाषायां भवति। तद्यथा—(उराच. ४.२०)

चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम्।
मौर्व्या मेखलया नियन्त्रितमधोवासश्च माञ्जिष्टकं पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः॥ ५४॥

इत्युत्तरचरिते लवमेकमुद्दिश्य भवभूतिर्जनकमेतच्छ्‌लोकं पाठितवान्। तमेव पश्चाद् वीरचरिते धत्तस्त्वचं रौरवीमित्यूहयित्वा रामलक्ष्मणौ द्वावुद्दिश्य कुशध्वजमपीपठत्। अत्राप्युरः पाणिवासः कार्मुकादीनामूहो न भवति, सम्बन्धिभेदेनैव भेदसिद्धेः; भेदेन हि प्रतिपत्तव्येऽर्थे न यावदभेदेऽपि भवति तावन्न भिद्यते।

(२६. बाधः)

अर्थित्वात् सामान्योपदेशाभेद सति प्रवृत्तिसम्भवे वचनादसमीवाच्चरितार्थत्वात् फलाभावाद् विशेषे प्रत्यक्षश्रुतेः परिसङ्ख्यादिभ्यश्च दृष्टादृष्टार्थेषु कर्मसु तुल्यबलानां विरोधिनामविरोधिनां वार्थानामप्राप्‍त्यनुमानं बाधः। तद्यथा — अर्थित्वात् सामान्येन प्रवृत्तस्य मांसभक्षणस्य वचनाद् बाधः अभक्ष्यो ग्राम्यकुक्कुट इति; तथा गुरुवद् गुरुपुत्रे वर्तितव्यमिति सामान्योपदेशात् प्रवृत्तस्योच्छिष्टभोजनस्य अन्यत्रोच्छिष्ट— भोजनादिति। एवम् ‘अष्टाश्रिर्यूपो भवति’ इति सामान्योपदेशात् प्रवृत्तमष्टाश्रित्वं ‘चतुरश्रो वाजपेययूप’ इति द्वयोरसम्भवात् तद्‍‌विरोधी बाध्यते। ‘व्रीहीनवहन्ति’ इति सामान्योपदेशादर्थित्वाच्च प्रवृत्तं प्राकृतमवहननं नखनिर्भिन्नानां नखावपूतानां चरुर्भवतीति विकृतौ नखैरेव अवघातप्रयोजनस्य कृतत्वाच्चरितार्थत्वेन अविरोध्यपि बाध्यते। एवं ‘शतकृष्णलश्चरुर्भवति’ इति कृष्णलेषु फलाभावादेव नावघातः क्रियते। ब्राह्मणेभ्यो दधि दीयतामिति सामान्योपदेशात् कौण्डिन्येऽपि प्रसक्तं दधिदानमनिषिद्धं सम्भाव्य चरितार्थं फलवदविरुद्धं च, तक्रं कौण्डिन्यायेति विशेषे प्रत्यक्षश्रुतेस्तक्रदानेन बाध्यते। अर्थित्वात् पञ्चनखानामपञ्चनखानां च भक्षणं प्रसक्तं, भक्षणमविरुद्धमपि ‘पञ्च पञ्चनखा भक्ष्या’ इति परिसङ्ख्यया बाध्यते। आदिग्रहणाद् ‘वामेनाक्ष्णैष पश्यति’, ‘काठिन्यमस्याः कुचयोः किमसद् यन्न रोचते’, इत्यादिविशेषस्य वाचकमवगन्तव्यम्। भूयांश्च बाधस्य कविवाक्येष्वपि प्रयोगः। सोऽर्थित्वात् प्रवृत्तौ वचनतो यथा—

मृत्यो! किं मर्तुमिच्छुर्भगवति! भवती न क्षमा, शक्र! चक्री वार्यः, कार्यो न पूषन्नसदृशकलहो, नन्वयं कालकूटः।१
इत्यादावेव देवान् दमयितुमनसः पान्तु वश्चन्द्रमौले— स्त्रैलोक्याऽकाण्ड—चण्ड—प्रलय—कर—गर—ग्रास—गृघ्‍नोर्वचांसि॥ ५५॥

सामान्यश्रुतेः प्रतीतौ वचनतो यथा—

पद्‍भ्यामूरुयुगं विभज्य भुजयोर्मध्यं निपीड्योरसा पार्श्वेषु प्रसभं प्रहृत्य नखरैर्दन्तैर्विलूयाऽधरम्।
सुप्‍तानप्यवबोध्य युष्मदहितान् भूयोऽपि भुङ्क्ते वने किं कान्ता सुरतैषिणी? न हि न हि व्याघ्री करालानना॥ ५६॥

१. अत्र राघवः — मृत्युः किं कर्तुमिच्छुर्भगवति भवती न क्षमा, शक्र चक्री वार्याः(र्य) कार्यो न पूषन्नसदृशकलहो, नन्वयं कालकूटः। २. काठा = कठा, शतपथिका(?), ३. समाजेष्वनेक(?) x x x, (२७. तन्त्रम्)

यत्रार्थिनः सर्वे प्रयोजकाभेदेनावृत्त्या वा प्रतिपत्तव्यमर्थं सम्भवाल्लाघवा— च्चैकमेव प्रयोजयन्ति, तत् तन्त्रम्। तद्यथा— काठाध्ययनं शतपथिकायां२, शालायामेकं प्रदीपं व्याकरणाध्यायिनः, समाजेष्वनेकचेतनम्(तेजनम्)३ वाद्यकर्मतूर्योपजीविनः। अभेदैकत्वसङ्ख्यां सङ्ख्यान्तरेषु तन्त्रिणीं मन्यन्ते यथा आस्यते भवद्‍भ्यां, आस्यते भवद्धिः। प्रश्‍ने तु बहुत्वसङ्ख्या पूर्वसंख्यां१ यथा— कति भवतः पुत्राः। नपुंसकं स्त्रीनपुंसयोः। यथा— किं जातमस्य। सामान्यविशेषसम्बन्धयोर्विभक्तिर्यथा — गोस्वामी व्रजतीति। द्वितीया कर्माख्यं सम्बन्धविशेषम—भिदधानाऽविशिष्ट—सम्बन्धिपदप्रयोगे तन्त्रेण नियते सम्बन्धिनी प्रकृते वर्तमानं शेषसम्बन्धमुपगृह्‍णाति। यदि तु गवां स्वामी व्रजतीति षष्ठ्या सम्बन्धमात्रमुच्येत निर्ज्ञाते स्वस्वामिभावे व्रजिक्रियाकर्तानियमेन प्रतीयेत तदा इष्यते ग्रामो गन्तुम्, पक्त्वा (अत्र) ओदनो भुज्यत इति प्रधानक्रियाविषयाद् धातोरुत्पद्यमानः प्रत्ययस्तन्त्रेण गुणक्रियाविषयामपि शक्तिमभ्यन्तरीकरोति। अनभिहिता वा गुणविषया शक्तिः प्रधानानुरोधादभिहितवत् प्रकाशत इति।

यच्चैकमेव पदं, वाक्यं, प्रकरणं, प्रबन्धो वा द्वयोरर्थयोः प्रयुज्यते तदपि तन्त्रम्। तत्र— पदं यथा— (काव्याद. २.३११)

असावुदयमारूढः कान्तिमान् रक्तमण्डलः।
राजा हरति लोकस्य हृदयं मृदुभिः करैः॥ ५७॥

वाक्यं यथा—

द्वारं खड्‌गिभिरावृतं बहिरपि प्रक्लिन्नगण्डैर्गजै— रन्तः कञ्चुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः।
आक्रान्तं महिषीभिरेव शयनं त्वद्‍‌विद्विषां मन्दिरे राजन्! सैव चिरन्तनप्रणयिनी शून्येऽपि राज्यस्थितिः॥ ५८॥

कः पुनरस्य पूर्वस्माद् विशेषः?

उच्यते—पूर्वत्र राजेति पदमुभयार्थमुपात्तविषयावच्छिन्नमर्थद्वयेन सम्बध्यते। इह तु ‘त्वद्विद्विषां मन्दिरे राजन् सैव चिरन्तनप्रणयिनी शून्येऽपि राज्यस्थितिः’, इत्येकार्थमेव वाक्यं ‘द्वारं खड्‌गिभिरावृतम्’ इत्यादिवाक्यैरुपात्तेनार्थद्वयेन सम्बध्यत इति। १. संख्यापूर्वे पूर्वे संख्ये प्रकरणं यथा शिशुपालवधे— (माघ. १६.२)

अभिधाय तथा तदप्रियं शिशुपालोऽनुशयं परं गतः।
भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम्॥ ५९॥

इत्यादि दूतवचनं सन्ध्यर्थेन च विग्रहार्थेन च सङ्गच्छत इति। प्रबन्धो यथा—

उदारमहिमा रामः प्रजानां हर्षवर्धनः।
धर्मप्रभव इत्यासीत् ख्यातो भरतपूर्वजः॥ ६०॥

रामायणमहाभारतयोर्दण्डिद्विसन्धानमिति। एतेन बहुविषयमपि वाक्यादिकं व्याख्यातम्; तद्यथा— (कुसं. २.१८)

स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः।
युगपद् युगबाहुभ्यः प्राप्‍तेभ्यः प्राज्यविक्रमाः॥ ६१॥

इत्यादि प्रकरणं भगवता चतुर्मुखेन चतुर्भिरपि मुखैर्युगपदुच्चारितं चतसृष्वपि दिक्ष्ववस्थितैरिन्द्रादिभिः सम्बध्यमानं चरितार्थतामापादयति।

(२८. प्रसङ्गः)

यत्र सम्भविना कार्येण द्वयोरर्थिनोः प्रयोजकत्वेन निर्ज्ञातसामर्थ्य— योरन्यतरप्रयुक्तेनाप्यपरोऽपि सम्बध्यमानः कृतार्थत्वात् पृथक्प्रयोजकतां न प्रतिपद्यते तत्प्रासङ्गिकम्। तद्यथा अयमुपाध्यायोऽस्माभिरात्माध्यापनार्थमानीतः, त्वमप्यत्रैवाधीष्व; एतेन धनवन्तः कान्तारेषु गृहीतानुयात्रिकाः प्रतिष्ठन्ते, तदेतैरेव कृतरक्षासंविधानो गच्छ; अयं चतुष्पथे केनचिद् बलिप्रदीप उपहृतः, एतदुद्द्योतेनैव सन्तमसे रथ्यामतिक्राम; अयं देवतार्थः प्रदीपः, अनेनैव व्याख्यानं चिन्तय; तथा ‘वत्स मकरन्द अनेनैव मालतीनैपथ्येनापवारितः प्रवर्तस्व परिणयायात्मानमात्मनः’ इति। एवम् ‘आम्राश्च सिक्ताः पितरश्च प्रीणिता’ इति यच्चान्यदाचक्षाणोऽन्यदप्याचष्टे तदपि प्रासङ्गिकम्। तद्यथा कुमारसम्भवे कामसंस्थानं कथयन् धनुश्शिक्षामुपदिशति—

स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम्।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्॥

(कुसं.३.७०) एवं भट्टिकाव्ये रामकथां वर्णयन् शब्दानुशासनमुदाहरति— (भका. ११.१८)

भ्रेमुर्ववल्गुर्ननृतुर्जगर्जुर्जगुः समुत्पुप्लुविरे निषेदुः।
आस्फोटयाञ्चक्रुरभिप्रणेमू रेजुर्ननन्दुर्विययुस्समीयुः॥ ६३॥

एवं धर्माभ्युदयादौ धर्मशास्त्रम्; मुद्राराक्षसादावर्थशास्त्रम्; मालतीमाधवादौ कामशास्त्रम्; अन्तरात्मचरितादौ मोक्षशास्त्रम्; महाभारतादौ धर्मार्थकाममोक्षशास्त्राणि प्रासङ्गिकानीत्यलमतिप्रसङ्गेन।

(२९. आवृत्तिः)

एकस्य कारकक्रियादेः पदार्थस्याभिन्नरूपस्यैव पर्यायेणानेकत्र वर्तनम् आवृत्तिः। तत्र यथैकं पात्रमसहभुजां भुजिक्रियायामधिकरणभावमावृत्त्या प्रतिपद्यते, एकं वस्त्रमाभरणं वा रङ्गभूमिषु नटानामुपयोगाय कल्पते, एवं व्यायामाड्गमायुजीविना— मभ्यासं प्रत्युपकरोति, यथा च सहस्रमृषय एकां कपिलामावृत्त्या दत्त्वा सर्वे सहस्त्रदक्षिणा बभूवुः, तथैकं क्रियापदं कारकपदं वा प्रतिवाक्यमावर्तमानमाकाङ्क्षां निराकरोति। तयोः —

क्रियापदावृत्तिर्यथा—

शशिना च निशा निशया च शशी शशिना निशया च यथा गगनम्।
भवता च सभा सभया च भवान् भवता सभया च विभाति जगत्॥

कारकपदावृत्तिर्यथा—

सीतावेश्म यतो निरीक्ष्य हरते दृष्टिं झटित्याकुला— मन्योन्यार्पितचञ्चुदत्तकबलैः पारावतैर्दूयते।
इन्दोर्दूरत एव नश्यति विशत्यन्तर्गृहं दुःखितः प्रच्छाद्याननमञ्चलेन रजनीष्वस्तत्रपं रोदिति॥ ६५॥

(३०. भेदः)

यत्र अभेदेनाप्युपात्तोऽर्थः शब्दो वा स्वरूपसामर्थ्यादिभिरनेकत्वमापद्यते स भेदः।

तत्र अर्थभेदो यथा— ब्राह्मणेभ्यः पाद्यमाचमनीयं भोजनं च दीयतामित्यभेदेनापि श्रुतानि पाद्याचमनभोजनानि स्वरूपसामर्थ्याद् भेदेन व्यवतिष्ठन्ते। यथा ‘पितॄणां राजतं पात्रं देवानां तु हिरण्मयम्’ इत्यभेदेनापि उपादाने भिन्नान्येव पात्राणि ब्राह्मणानां सहभुजां भुजिक्रियायामधिकरणभावं प्रतिपद्यन्ते। गृहस्थान् पत्‍न्य आर्यावर्ते सम्भोगसम्पादनाय भेदेनैवोपासत इति। अथ कविप्रयोगेषु क्रियाभेदे यथा—

लवङ्गमालाकलितावतंसास्ते नालिकेरान्तरपः पिबन्तः।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमापुः॥ ६६॥

(माघ.३.८१) कारकभेदो यथा—(माघ. १०.३९)

स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय।
सन्नतिं दधति पेतुरजस्त्रं दृष्टयः प्रियतमे शयने च॥ ६७॥

अथ शब्दभेदः। स द्विधा— वाक्यभेदः पदभेदश्च।

तयोर्वाक्यभेदः प्राकृतो वैकृतश्च। प्राकृतो यथा पश्य मृगो धावति, अयं दण्डो हरानेन फलानि इति। अत्र प्रथमोदाहरणे पश्येत्येकं वाक्यं मृगो धावतीति द्वितीयम्, द्वितीये अयं दण्ड इत्येकं, हरानेन फलानीति च द्वितीयम्, प्रकृतिस्थ एव सन्दर्भे पृथक् क्रियते। अन्यथैकवाक्यतायां पश्येति क्रियायाः कर्मपदाभावादप्रयोगार्हता, हरेत्यस्याश्च ‘तिङ्ङतिङः’ इति निघातः प्राप्नोति। कविप्रयोगेष्वपि चैतद् दृश्यते, तद्यथा— (कुसं. ८.६४)

पश्य पार्वति! पयोदपङ्क्तिभिर्व्यस्तपङ्कमिव जातमेकतः।
खं हृतातपजलं विवस्वता भाति किंञ्चिदिव शेषवत् सरः॥ ६८॥

वैकृतस्तु लोके शास्त्रे वेदे च। यथा— ‘ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौष— धयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा (तै.सं. ३.४.७)। अत्रैकमेव ताद् वाक्यं, ऋताषाडृतधामाग्निर्गन्धर्वस्स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा, तस्याप्सरस ऊर्जो नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्यः स्वाहा। अत्र लिङ्गविभक्तिविपरिणामाद् वैकृतत्वं शास्त्रे यथा—(मभा. पस्पशा)

यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद् व्यवहारकाले।
सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः॥ ६९॥

अत्र वाग्योगविदितिपर्यन्तमेकं वाक्यं, दुष्यति चापशब्दैरिति द्वितीयम्।

किं वाग्योगविदेव दुष्यति ?

नैवम्, अवाग्योगविदित्यस्य वैकृतत्वाद् वाक्यविशेषः क्रियते।

किं कारणम् ?

यो वाग्योगवित् स नापशब्दं करोति, यदाह ज्ञानं तस्य शरणमिति (मभा. पस्प.)।

नन्ववाग्योगविदोऽप्यज्ञानं शरणं यदा ह्यसौ जानन्नपशब्दं प्रयुङ्क्ते तदा दुष्टः स्यात्, न पुनरजानन्नेवम्।

नाज्ञानमत्यन्ताय शरणं भवितुमर्हति। यो हि अजानन् ब्राह्मणं हन्यात् सोऽपि मन्ये पतितः स्यादिति।

अथ लोके वैकृतो वाक्यभेदः प्राकृतश्च पदभेदः। यथा—

जं तुज्झ सई जाआ असईओ जं च सुहअ अम्हे वि।
ता किं फुट्टउ पिल्लं/बीअं तुज्ज समाणो जुआ णत्थि॥ ७०॥

(यत्तव सती जाया असत्यो यच्च सुभग वयमपि।
तत् कि स्फुटतु बिल्वं/बीजं तव समानो युवा नास्ति॥)

जायन्ते च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः।
परार्थबद्धकक्ष्याणां त्वादृशामुद्भवः कुतः॥ ७१॥

(नागा. ४.१५) अत्राद्योदाहरणे तत्किं स्फुटतु बिल्वमित्येतत्पर्यन्तमेकं वाक्यम्। तत्र बिल्वस्फुटनेनात्र रहस्यभेदोऽभिमतः, यथा बिल्वमस्फुटितमन्तः पक्‍वमपक्‍वं मधुर— ममधुरं सुरभि न सुरभीति वा न ज्ञायते, एवं यत् तव जाया सती वयमसत्य इत्येतद् रहस्यमभिन्नं न ज्ञायते।

स किं रहस्यभेदो भवतु?

भवत्वित्युक्ते द्वितीयं वाक्यं तव समानो युवा नास्ति। यदि ह्यस्माकमपि त्वत्तुल्यो भर्ता भवेत् त्वज्जायेव वयमप्यसत्यो न स्यामेति। द्वितीयोदाहरणे तु ‘क्षुद्रजन्तव’ इत्येतत् पदं भिद्यते क्षुद्रेति जन्तव इति च। अन्यथा हि राज्ञा लुप्‍तशासनग्रामः स्यादग्रजन्मनः, तं प्रत्येतद् वचो न भवतीति॥

(३१. सामान्यातिदेशः, ३२. विशेषातिदेशः)

अन्यधर्माणामन्यत्र प्रापणमतिदेशः। द्विधा— सामान्यातिदेशो विशेषातिदेशश्च। तयोर्यत्र अन्यत्र रूढसम्बद्धा धर्माः प्रसिद्धेरनुमेयभेदसम्भवैः सम्बन्धिभिर्व्यपदिष्टा निर्ज्ञातभेदेष्वर्थेषु प्राप्यन्ते स सामान्यातिदेशः। यथा— ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति। तत्र यावन्तमर्थं ब्राह्मणशब्दो न व्यभिचरति तावत्यर्थे यानि प्रसिद्धसम्बन्धानि कार्याण्यग्रभोजनादीनि तान्यत्यन्तमलब्धब्राह्मणव्यपदेशे क्षत्रिये— ऽतिदिश्यन्ते। तत्र सामान्यब्राह्मणशब्दो न व्यभिचरित, माठरत्वादींस्तु व्यभिचरति। न हि कठे माठरत्वमस्ति। सन्निहितेष्वपि च निर्ज्ञातेषु वा विशेषेषु कश्चिदेवार्थात्मा केनचिच्छब्देन संस्प्रष्टुं शक्यते, विशिष्टभागाभिनिवेशीनि हि रूपविशेषयुक्तान्य— भिधानानि इति। सामान्येन च ब्राह्मणशब्दस्य प्रत्यक्षोऽभिसम्बन्धः, आनुमानिकस्तु विशेषैः। माठरवदस्मिन् कठे वर्तितव्यमित्ययमपि सामान्यातिदेश एव। न ह्यत्रापि माठरस्याभिरूप्यादयो विशेषा आश्रीयन्ते। एवं विशिष्टवदस्मिन् वर्तितव्यमित्यत्रापि यद्‍‌विशिष्टेषु विशिष्टत्वं तदाश्रीयते। सोऽपि सामान्यातिदेशो, न विशेषातिदेशः।

तदाह—

सामान्यमात्रं शब्दार्थो विशेषा व्यभिचारिणः।
सामर्थ्यमन्तरेणातो विशेषो नातिदिश्‍यते॥ ७२॥

(वाप.) यत्र तु सामर्थ्याद् विशेषधर्माणामन्यत्र प्रापणं स विशेषातिदेशः। तद्यथा— ब्राह्मणवदस्मिन् ब्राह्मणे वर्तितव्यमिति। तत्र हि सामान्यकार्यप्रतिपत्तिर्ब्राह्मणादेव सिद्धा; यैनैव हेतुनोपमाने कार्यविशेषसिद्धिरविशिष्टोऽसौ हेतुऽरुपमेयेऽपि। तस्माद् विशिष्टब्राह्मणविषयाणि कार्याण्यतिदिश्‍यन्ते। ये च ब्राह्मणेषु ब्राह्मणवदेव वर्तन्ते तान् प्रति अयमेवंभूतोऽतिदेशो विज्ञायते। येषां तु बुद्धिसम्भेदात् प्रमादाद् वा प्रवृत्तिसङ्करस्तेषु नियम एव क्रियते। तथा च ब्राह्मणमर्हति वृत्तमिति ‘तदर्हम्’ (५.१.११७) इति सूत्रेणाचार्येणायमेवार्थो भेदेन निदर्शनायान्यथैव प्रक्रान्तः। स च तद्धितेषु वत्यर्थप्रस्तावे निर्णीतः पुरस्तादिति ?

अथ यत्र ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमित्यतिदेशः, किं तेन क्षत्रियेण तद्वति ग्रामे अब्राह्मणको ग्राम इति व्यपदेशः क्रियते ?

नेत्याह, व्यपदेशमात्रमपि कार्यमतिदेशस्येति।

अथ तद्वदेव ब्रह्महत्यादिप्रायश्चित्तं कर्तव्यं,

नेत्याह; यावति हि विषये तस्यातिदेष्टरि सिद्धं तावत्तत्रानुषज्यते; न ह्यस्मादतिदेशाद् ब्राह्मण्युपयमनप्रतिपत्तिर्भवति।

एवंप्रकारेषु ह्यतिदेशस्यातिदेष्टुः न कामचारः, स्मृत्यधीनत्वात्। यदि तु स्मृतिरेवंभूता स्यात् तदपि तदानुष्ठीयेत, यदा/था क्षत्रियवैश्‍यौ सवनगतौ हत्वा ब्रह्महत्याप्रायश्चित्तं कुर्यादिति।

किं पुनरयमतिदेशो वत्यादिमन्तरेणापि भवति ?

बाढम्। यथा अब्रह्मदत्तेऽप्येष ब्रह्मदत्त इति। तत्र भूतानां वा ब्रह्मदत्तविषयाणां क्रियागुणानामब्रह्मदत्ते समारोपाद् भाविनां वा रूढसम्बन्धानामिव बुद्ध‍यादिभिः संबन्धात् तन्निमित्तमुपामानोपमेयलक्षणं सम्बन्धमभ्यन्तरीकृत्योपचारेण ब्रह्मदत्तशब्दः प्रयुज्यते।

ननु च उशीनरवन् मद्रेषु यवा इति नात्र अन्यधर्माणामन्यत्रारोपणं (मभा. १.१.५७), अपि तु यवा एव मद्रेषु सन्ति न सन्तीति वा गम्यते। तथा हि— यद्युशीनरेषु तन्निष्पत्तिः निर्ज्ञाता तदा सन्तीति गम्यते। अथानिष्पत्तिस्तदा न सन्तीति गम्यते।

नैवम्। अत्राप्यन्यधर्माणामेवान्यत्र प्रापणं यावेवोशीनरयवानां भावाभावौ प्रसिद्धौ तावेव मद्रयवेष्वतिदिश्‍येते।

कथं पुनरमभिन्नरूपो वतिः क्‍वचित् प्रकृत्यर्थधर्मानन्यत्रातिदिशति क्‍वचित् सम्बन्धिधर्मान् ?

उच्यते यत्र ‘तेन तुल्यं क्रिया चेद्वतिः’ तत्र प्रकृत्यर्थधर्मान्; यत्र तु ‘तत्र तस्येव’ तत्राधेयसम्बन्धिधर्मानिति।

तदेवमुपमानेषु प्रसिद्धा धर्माः उपमेयेष्वारोप्यन्त इत्यतिदेशार्थः। प्रसिद्धिश्च क्‍वचिल्लोकापेक्षया, क्‍वचित्प्रयोक्त्रपेक्षया, क्‍वचित्प्रत्यक्षादिप्रमाणापेक्षयेति। तत्र लोकपेक्षया यथा—

जोण्हाए व्व मिअंकं कित्तीएँ सुअरिसं पहाए व्व रइं।
सेलं महाणई व सिरीअ चिरणिग्गआइ वि अमुच्‍चंतं॥ ७३॥

(ज्योत्स्‍ययेव मृगाङ्कं कीर्त्त्येव सुपुरुषं प्रभयेव रविम्।
शैलं महानद्येव श्रिया चिरनिर्गतयाप्यमुच्यमानम्॥)

यथा वा— (माघ. १४.१६)

यस्तवेह सवने न भूपतिः कर्म कर्मकरवत् करिष्यति।
तस्य नेष्यति वपुः कबन्धतां बन्धुरेष जगतां सुदर्शनः॥ ७४॥

प्रयोक्त्रपेक्षया यथा—

अहमिव शून्यमरण्यं वयमिव तनुतां गतानि तोयानि।
अस्माकमिवोच्छ्‌वासा दिवसा दीर्घाश्च तप्‍ताश्च॥ ७५॥

प्रत्यक्षादिप्रमाणापेक्षया यथा—(अम.श. १६०)

दृष्टे लोचनवन्मनाङ् मुकुलितं पार्श्वस्थिते वक्त्रव— न्‍न्यग्भूतं बहिरासितं पुलकवत् स्पर्शं समातन्वति।
नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि॥ ७६॥

(३३. अधिकारः)

क्रियासु योग्यत्वम् अधिकारः।

कः पुनर्यौग्यः ?

अर्थी समर्थः शास्त्रेणापर्युदस्त इति। तथा अर्थित्वमधिकारकाणम्; परं हि पुरुषार्थं मोक्षमाचक्षते, तस्मादप्यनर्थी जुगुप्सते प्रमाद्यति च। तद्यथा—

अपि बृन्दावने शून्ये सृगालत्वं परीप्सति।
न तु निर्विषयं मोक्षं कदाचिदपि गौतमः॥ ७७॥

सत्यपि चार्थित्वे सामर्थ्यमधिकारकारणं, समुत्पन्नायामतिशयेन दिदृक्षायाम् असमर्थत्वेन अन्धा रूपदर्शने नाधिक्रियन्ते। अर्थिनः खल्वपि क्‍वचित् समर्थाश्च कर्मसु शास्त्रेण पर्युदासात् क्षुद्रशूद्राः क्षोत्रियादयः त्रय्यादिषु नाधिक्रियन्ते। अदृष्टार्थविषये हि सामर्थ्यासामर्थ्ये शास्त्रादेव समधिगम्येते। तस्मात् प्रधानमधिकारकारणं शास्त्रोपदेशमाचक्षते। तत्रोदाहरण्— (म.वी.च. १.३१)

साधारण्यान्निरातङ्कः कन्यामन्योऽपि याचते।
किं पुनर्जगतां जेता प्रपौत्रः परमेष्ठिनः॥ ७८॥

यथा च—(माघ. १.३८)

उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वम्भर ! विश्वमीशिषे।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः॥ ७९॥

(३४. अध्याहारः)

वाक्यस्य न्यूनतायामाकाङ्क्षानिवृत्तये विशिष्टक्रियाकारकपदादेरुपादानम् अध्याहारः। यथा द्वारं द्वारमित्युक्ते संव्रियतामपाव्रियतां वेत्यध्याह्रियते; तथा वर्षत्युदेतीत्युक्ते देवः सूर्य इति। यथा च—

यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा।
यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः॥ ८०॥

इति। यथा वा—

यो न ददाति न यजते न जयति न जुहोति नात्ति नाधीते।
न धिनोति नाधितिष्ठति न चकास्ति न शास्ति किं तेन॥ ८१॥

(३५. विपरिणामः)

लिङ्गविभक्तिवचनादेरन्यथोपात्तस्यार्थान्तरानुरोधादपुनरुच्‍चारितस्यैवान्यथाभि— सम्बन्धो विपरिणामः। तेषु लिङ्गविपरिणामो यथा— (मामा. १.३०)

मा मूमुहत् खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत्।
इत्यादि नन्विह निरर्थकमेव यस्मिन् कामश्च जृम्भितगुणो नवयौवनं च॥

विभक्तिविपरिणामो यथा—(किराता. १.१)

श्रियः कुरूणामधिपस्य पालिनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम्।
स वर्णिलिङ्गी विदितस्समाययौ युधिष्ठिरं द्वैतवने वनेचरः॥ ८३॥

वचनविपरिणामो यथा—(म.वी.च. १.४५)

सर्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्ष— स्तत्सङ्घट्टाद् विघटितबृहत्खण्डमुच्‍चण्डरोचिः।
एवं वेगात् कुलिशमकरोद् व्योम विद्युत्सहस्त्रै— र्भर्तुर्वज्रज्वलनकपिशास्ते च रोषाट्टहासाः॥ ८४॥

(३६. वाक्यशेषः)

सर्ववाक्यानां विधिनिषेधपर्यवसायित्वात् साक्षादश्रुतावपि तदुपकल्पनं वाक्यशेषः। तद्यथा — आर्यनिवासोऽयं देश इत्युक्ते इहैव स्थातव्यं, मध्याह्नो वर्तत इत्युक्ते इहैव भोक्तव्यं, सचोरः, पन्था इत्युक्ते न गन्तव्यं, ग्राहाः सरित्यस्यामित्युक्ते न स्‍नातव्यमिति वाक्यशेषो भवति। यथा च— (उराच. ३.२६)

त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण॥ ८५॥

यथा वा— (बा.रा. २.४१)

वन्द्यः पितेव स भवान्नलकूबरस्य रम्भा स्‍नुषा धनपतेरिव सा तवापि।
यत्त्वन्यदत्र हृदयान्न तदेति कण्ठं दोषास्तथापि यदि तत्स्मृत एष रुद्र॥ ८६॥

कः पुनरध्याहारवाक्यशेषयोर्विशेषः ?

शब्दाकाङ्क्षानिवर्तकोऽध्याहारः, अर्थाकाङ्क्षानिवर्तको वाक्यशेष इति।

यद्येवमनन्तरश्लोकयोरध्याहारोदाहरणताप्रसङ्गः। तथा हि — तामेव त्वं तथाग्‍नौ विशुद्धामाहितगर्भामनागसं विस्त्रब्धां च धर्मपत्नीमत्याक्षीरिति प्रथमश्लोको, कामयमानायामपि च स्‍नुषायां अकामतोऽपि यत्प्रधर्षणं तन्महापातकेषु प्रकृष्यते, किमङ्ग ! पुनरकामयमानायाः शपन्त्याः क्रोशन्त्याश्च हठेनेति द्वितीयश्लोके वाक्यस्यैवापरिपूर्णभावेनाकाङ्गितमध्याह्रियते।

तन्न; ‘शान्तमथा किमतः परेण’, ‘यत्त्वन्यदत्र हृदयान्न तदेति कण्ठम्’, इत्यनेन शब्दाकाङ्क्षाया निवर्तितत्वात्।

अर्थाकाङ्क्षा तु विद्यते। तत्र तु यथोक्त एव वाकर्यशेषो भवति अथैव प्रत्युक्षानुमानोपमानशब्दैरनुपलभ्यमानः किंप्रमाणविषयः स्यात् ?

अध्याहारवच्छुतार्थापत्तिप्रमेय इति।

ननु श्रुतार्थापत्तिर्नाम वाक्यैकदेशविषयं वाक्यशेषविषयं वा किंचित् प्रमाणमस्ति ?

अस्तु वा, तथापि तत्प्रवर्तमानमर्थानुपपत्त्या प्रपत्स्यति। अर्थानुपपत्तिश्चाऽ— र्थान्तरमन्तरेण नोपशाम्यतीति तदेव कल्पनीयं भवति।

अथ शब्दस्यानुपपत्त्या शब्द एव कल्प्यते ?

तन्न, श्रोत्रप्रत्यक्षसमधिगतस्य स्वरूपेणानुपपत्तेरभावादर्थानुपपत्तिनिबन्धनमेवानु— पपद्यमानत्वम्, तच्‍चार्थकल्पन एवोपपद्यते।

न चैतद् वाच्यम्, कल्प्यमानस्यार्थस्यावैदिकत्वं प्राप्‍नोति। श्रूयमाणस्यैव हि शब्दस्यायमिषोरिव दीर्घदीर्घो व्यापारः। अविरतव्यापार एव हि शब्दे सा प्रतीतिरुदयते; तद्‍व्यापारविरतौ नोदेति, तदुत्पादकारणानुपलब्धेः। लोकश्च वृद्धव्यवहारतः शब्दार्थेषु व्युत्पद्यमानस्तथाभूतवाक्यव्यवहारिणो वृद्धान् पश्‍यन् वाक्यस्यैव तादृशि वाक्यार्थे सामर्थ्यमवधारयति। वाक्यार्थश्चेह विधिनिषेधादिरूप आख्याताद्यर्थः। तदनुवर्तीनि तु पदानि तस्मिन्नैमित्तिके निमित्तानि भवन्ति। नैमित्तिकानुकूलतया च क्‍वचिदश्रूयमाणान्यपि तानि विश्वजिदादौ स्वर्गकामादिपदवन्निमित्तभावेनाद्रियन्ते, क्‍वचिच्छ्रूयमाणान्यप्यननुकूलतया ‘यस्योभयं हविरार्तिमार्च्छेद्’ इत्यादिवत् परिह्रियन्ते। क्‍वचिदन्यथास्थितानि ‘प्रयोजशेषेण हवींष्यभिघारयति’ इतिवद् विध्यनुरोधात् प्रयोजशेषं हवींष्यभिधारयेदित्यन्यथावस्थाप्यते। तस्माद् यथा प्रथमावगतघनाकार— वाक्यार्थानुसारेण सतामसतां वा पदार्थानां निमित्तभावव्यवस्था तथैवाश्रूयमाणतथा— विधैकदेशादपि वाक्यात् तदर्थावगतिर्भविष्यतीति किं श्रुतार्थापत्त्या ?

एवं च न वाक्यशेषाध्याहारसोपानव्यवहितस्यार्थस्य शाब्दत्वम्, अपि तु साक्षादेव भवति।

नन्वेवमश्रूयमाणेषु निमित्तेषु कुतस्तदर्थमवगच्छामः ? अनवगच्छन्तश्च कीदृशं नैमित्तिकमवकल्पयामः ?

उच्यते—‘श्रुतेष्वपि पदेषु तेषां निमित्तभावो न स्वमहिम्‍नाऽवकल्पते।

किं तर्हि ?

नैमित्तिकानुसारेण। स चाश्रुतेष्वपि भविष्यति। तथा हि— न यजौ करणविभक्तिः श्रूयते, न स्वर्गे कर्मविभक्तिः, अथ चार्थः प्रतीयते। एवं ‘विश्वजिता यजेत’ इति नैमित्तिकबलादेव स्वर्गकामादिपदाध्याहारार्थमुक्तश्लोकयोश्च यथोपन्य— स्तवाक्यशेषार्थं प्रत्येष्याम इति।

अत्र समाधीयते, यत्तावदुक्तमर्थानुपपत्त्यार्थान्तरमेव कल्पनीयमिति, तत्र नार्थमात्रस्यानुपपत्तिः।

किं तर्हि ? शब्दार्थस्य।

स च शब्दकल्पनापूर्वकार्थप्रतिपत्तिव्यतिरेकेण नोपपन्‍नो भवति। यच्‍चोक्तं न स्वरूपेण शब्दस्य काचिदनुपपत्तिरिति, सत्यं तत्। किं तु सार्थद्वारिकापि शब्दानुपपत्तिर्न शब्दान्तरकल्पनां विनोपशाम्यति। न ह्योदनं प्रत्यक्षेणापि प्रतियतः पचतीत्युक्ते कर्मपदापेक्षा न भवति।

यच्‍चोक्तं कल्प्यमानस्यार्थस्यावैदिकत्वं मा भूदिति श्रूयमाणस्यैव शब्दस्यायमिषोरिव दीर्घदीर्घो व्यापार इति, तदपि न सम्यक्, तस्य तथाविधार्थप्रत्यायनासामर्थ्यात्। स हि तमर्थं प्रत्याययन्नभिधाशक्त्या वा प्रत्याययेत् तात्पर्यशक्त्या वा ?

न तावदभिधाशक्त‍या, तस्याः पदार्थप्रतिपादनमात्र एवोपक्षीणत्वात्।

नापि तात्पर्यशक्त्या। तात्पर्यशक्तिर्हि प्रतीयमानार्थविषया तत्रैव प्रकाशते, यत्र वाक्यवाक्यार्थयोः परिपूर्णत्वं भवति; यथा ‘विषं भुङ्क्ष्व, मा चास्य गृहे भुक्था’ इति। अत्र तु परिपूर्णे वाक्ये नार्थः परिपूर्ण इति तात्पर्यशक्तेरवकाशः। न हि तां तथाविधां त्वमत्याक्षीरित्यादिपदप्रयोगं विना वाक्यार्थस्य परिपूर्णत्वं भवति, तस्मादवश्यमेवार्थस्य शाब्दत्वसिद्धयेऽध्याहारवाक्यशेषादिशब्दकल्पना अभ्युपेया। तस्यां च सत्यां तत एवार्थसिद्धेः किमर्थकल्पनयेति।

न च श्रूयमाणस्यैव शब्दस्यायमर्थ इति शक्यमभिधातुम्, तस्य ह्यनुपपद्यमान एवार्थो, न पुनरुपपादकः। किंच पदार्थानामेव वाक्यार्थत्वात्, कल्प्यमान— वाक्यार्थगतपदार्थाभिधायिनां पदानां सत्त्वमभिधातव्यम्। न च श्रूयमाणे वाक्ये तानि तथाभूतानि सन्ति। अपि चायमेवंविधो बोधस्तिरश्चामनुपजायमानत्वान्नाशब्दज्ञस्य भवति। तदस्य सविकल्पकज्ञानात् पूर्वकालभाविना शब्दविज्ञानेन भाव्यम्।

न चेहार्थापत्तेः शब्दविषयत्वं न अभ्युपेयते। न चेहार्थापत्तिव्यतिरेकेण सविकल्पकप्रत्यक्षादिप्रमाणवच्छब्दसहचरितार्थदर्शनादिनिमित्तकं स्मृत्याद्युपायान्तरं शब्दावगतावस्ति। तस्मादर्थापत्त्या पूर्वं शब्द एव प्रत्येतव्यः। तस्मिंश्च प्रतिपन्ने तत एवार्थावगमोऽपि भविष्यतीति न तात्पर्यतः श्रूयमाण एव शब्दः परिक्लेशनीयः। यदि च श्रुतार्थापत्तेः शब्दविषयत्वं नाभ्युपेयते तद् ‘उपदेशे यथोपदेश कार्यमतिदेशे तु यथाकार्यमुपदेश (न्या.म.) इति न्यायादतिदेशागताग्न्यादिपदार्थानुपपत्तौ ‘अग्‍नये त्वा जुष्टं निर्वपामि’ इत्यादिवाक्येषु सूर्यायेत्यादिपदानामूहो न स्यात्। तस्मादवश्यमेव अध्याहारवाक्यशेषादिसिद्धये श्रुतार्थापत्तिरभ्युपगन्तव्येति।

(३७. अवधिः)

अस्यैतावतः शब्दस्यायमर्थोऽस्मिन्नर्थे चायमेतावाञ्छब्द इति बुद्धिनिबन्धनम् अवधिः। तद्यथा— काले नदन्ति नागाः, श्वेतो धावति, अलम्बुसानां याता इति। यदा पदानामवधिः तदा समये शब्दायन्ते फणिनः, शुक्लो धावति, अलम्बुसानां गन्तेत्यर्थः प्रतीयते। यदा तु ‘कालेन दन्तिना अगाः’, ‘श्वा इतः धावति’, ‘अलं बुसानां याता’ इति, तदा ‘कृष्णेन करिणा गतवानसि’, ‘कौलेयकोऽत्र वेगेन सरति’, ‘समर्थो बुसानां गन्ता’ इत्यर्थान्तरप्रतीतिः। तमिममलङ्कारेषु तद्विदः शब्दश्लेषमामनन्ति; यथा—

येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः।
यस्याहुश्शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः॥ ८७॥

(३८. अपोद्धारः)

पदार्थसमवायिनोऽर्थविशेषस्य शब्दान्तरेण पृथक्करणम् अपोद्धारः। यथा—‘वायव्यं श्वेतमालभेत, वायुर्वै क्षेपिष्ठा देवता’ इति। एवं च वृत्तिच्छन्नस्य सर्वनाम्‍नानुसन्धानं भवति। तद्यथा— (कुसं. ७.१९)

पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान॥ ८८॥

अत्रानेनेति सर्वनाम्‍ना रञ्जयित्वेति श्रुतौ समवेतश्चरणरागः पृथगपोद्‍ध्रियते।

(३९. अनिर्ज्ञातप्रश्‍नः)

प्रसिद्धपदार्थावधारणेऽप्रसिद्धपदार्थपर्यनुयोगः अनिर्ज्ञातप्रश्‍नः। यथा वनात् पिक आनीयतां, जीर्णवरासी वृषलाय दीयतामित्युक्ते कोऽयं पिको नाम यो वनादानेयः, का वा वरासी या वृषलाय दातव्येति। एतेन प्रसिद्धाभिधानार्थावधारणे अप्रसिद्धाभिधानार्थपर्यनुयोगो व्याख्यातः। यथा— (शाकु. ५.१३)

कास्विदवकुण्ठनवती नातिपरिस्फुटशरीरलावण्या।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥ ८९॥

(४०. क्रियान्तरव्युदासः)

सामर्थ्यार्थित्वादेः क्‍वचिदयोग्यता क्रियान्तरव्युदासः, यथोच्यते—‘क्‍वचित् कश्चित् प्रगल्भते’, ‘न सर्वः सर्वं जानाति’; ‘किमपि कस्मैचिद्रोचते’, ‘भिन्नरुचिर्हि लोक’ (रघु. ६.३०) इति। यथा च—(शाकु. ५.२८)

कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव।
वशिनां हि परपरिग्रहसम्पर्कपराङ्मुखी वृत्तिः॥ ९०॥

(४१. लिङ्गाद् भेदः)

शब्दान्तरोपलब्धवस्तुसामर्थ्यात् सामान्याक्षिप्‍तस्य विशेषेऽवस्थापनं लिङ्गाद् भेदः। यथा ‘अक्ताः शर्करा उपदधाति, तेजो वै घृतम्’ इति शर्कराणां घृताक्तत्वं प्रतीयते। यथा च—

न त्वं पुत्र ! पितुर्बिभेषि न च मे किंचिद् विधत्से वचः क्‍वेदं बालविरुद्धसाहसमिति व्याहृत्य सावेगया।
उत्तीर्णस्य जयन्ति दान्तभुजगस्याश्लिष्य मात्रा हरे— र्निर्धूताश्चलकाकपक्षशिखरव्यासङ्गिनोऽम्भःकणाः ॥ ९१॥

अत्र दान्तभुजगस्येत्यम्भः कणा इति च लिङ्गाद् यमुनाह्रदादुत्तीर्णस्येति विशेषो गम्यते।

(४२. लिङ्गादिभेदः)

लिङ्गमर्थः प्रकरणमौचित्यं देशः काल इति लिङ्गादयः। तेभ्यः सामान्यशब्दानां विशेषाध्यवसायो लिङ्गादिभेदः। स

लिङ्गाद् यथा— धेनुरानीयतां सवत्सा सबर्करा सकिशोरेति, गौरजा बडबा च प्रतीयते।

अर्थाद् यथा— अञ्जलिना सूर्यमुपतिष्ठते, अञ्जलिना पयः पिबति, अञ्जलिना लाजान् जुहोतीति अर्थानुरोधात् तथातथा पाणिसन्निवेशः प्रतीयते।

प्रकरणाद्यथा— सैन्धवमानय, गोपालकमानयेत्युक्ते भोजने लवणं, प्रयाणेऽश्वः, अध्यापने पुत्रः, पाशुपाल्ये तु गोपविशेषः प्रतीयते।

औचित्याद् यथा— करभोरूः शिखरदशना पुण्डरीकमुखी इति; उपमेयौचित्यात् करभादिशब्दैर्धनुष्कोटिकुन्दकुट्मल—कमलानि प्रतीयन्ते, नोष्ट्राचलाग्रच्छत्राणि।

देशतो यथा— हरिररण्ये, हरिर्द्वारकायां, हरिरमरावत्यामिति सिंहविष्णुवासवाः प्रतीयन्ते।

कालतो यथा— ‘दिवा हस्तोऽयमित्युक्ते पाणिः प्रतीयते, न नक्षत्रम्, रात्रौ पतङ्ग इत्युक्ते शलभो, न सूर्यः, त्रेतायामर्जुन इत्युक्ते कार्तवीर्यो न कौन्तेय इति।

अस्य चोपलक्षणत्वात् साहचर्यादिभिरपि पदार्थावच्छेदो भवति। तद्यथा—

लक्ष्मणानुगतो भाति शशी राम इवापरः।
कौसल्येव बिभर्ति द्यौरभिषेकोज्ज्वलां श्रियम्॥ ९२॥

यथा च—(काव्याद. १.६)

गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः।
दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति॥ ९३॥

(४३. शब्दान्तरादिभेदः)

शब्दान्तरमभ्यासः सङ्ख्या संज्ञा गुणः प्रकरणमिति शब्दान्तरादयः; तेभ्यः क्रियादीनामनेकत्वं शब्दान्तरादिभेदः। तेषु शब्दान्तरात् क्रियाभेदो यथा—

आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगः स्पर्धते खं व्यालेढि विवेष्टते क्षितितले कुञ्जोदरे लीयते।
अन्तर्भ्राम्यति कोटरस्य विसरत्यालम्बते वीरुधः किं तद् यन्न करोति मारुतवशं यातः कृशानुर्वने॥ ९४॥

अभ्यासात् क्रियाभेदो यथा—(गा.स. ९०२)

जाणिमि कआवराहं जाणिमि अलिआइ भणइ सअलाइं।
अणुणेंते उण जाणे कआवराहं व अप्पाणं॥ ९५॥

(जानामि कृतापराधं जानामि अलीकानि भणति सकलानि।
अनुनयति पुनर्जाने कृतापराधमिवात्मानम्॥)

इति। सङ्ख्याया द्रव्यभेदो यथा—

त्रयोऽग्‍नयस्‍त्रयो वेदास्‍त्रयो देवास्‍त्रयो गुणाः।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु पूजिताः॥ ९६॥

संज्ञातो द्रव्यभेदो यथा—(म.वी.च. १.२०)

लाङ्गलोल्लिख्यमानाया यज्ञभूमेः समुद्गता।
सीतेयमूर्मिलेयं तु द्वितीया जनकात्मजा॥ ९७॥

गुणाद् द्रव्यभेदो यथा—

इन्द्रनीलनिभः पृष्ठे क्रोडे कुमुदपाण्डरः।
गङ्गायमुनयोरेष सारङ्गस्सङ्गमोपमः॥ ९८॥

प्रकरणात् क्रियाविशेषभेदो यथा—(रघु. १२.४५)

एको दाशरथिः कामं यातुधानाः सहस्त्रशः।
ते तु यावन्त एवाजौ तावद्धा ददृशे स तैः॥ ९९॥

(४४. शक्त्यादिभेदः)

शक्तिः शक्तिव्यापारः क्रियाफलं क्रियासम्बन्धिनः सहचारिण इति शक्त्यादयः। तेषां वास्तव औपाधिको वा भेदेनावभासः शक्त्यादिभेदः। तत्र

वास्तवः शक्तिभेदो यथा— अग्‍निः काष्ठानि दहति, ओदनं पचति, पदार्थान् प्रकाशयति, सर्पिरग्‍निं दीपयति, पित्तं शमयति, शरीरमाप्याययतीति।

वास्तवः शक्तिव्यापरो यथा— आभ्यां लब्धम्; आभ्यां क्रीतम्, आभ्यां पक्‍वः, आभ्यां दत्तमित्यत्राभ्यामित्यस्य लब्धादिपदसन्निधेरपादानकरणकर्तृसम्प्रदान— विषयोऽभिधाव्यापारो भिद्यते। एवं पयः पयो जरयति (मभा. १.२.६४) इति कर्तृकर्मविशेषविषयः, गावौ गावौ श्रयेते इति स एव द्वित्वावच्छिन्नः, पयः(यांसि) पयोऽन्वेषयति इति बहुत्वैकत्वावच्छिन्नः। एवं कार्माधिकरणादिविषयोऽपि कुण्डे कुण्डे निधेहीत्यादिरवगन्तव्य इति।

वास्तवः क्रियाफलभेदो यथा— एकस्मिन्नेव यागे यजमानस्य धर्मः, ऋत्विजामर्थः, अन्नभुजां कामः, पशूनां मोक्षः; एकस्मिन्नपि सङ्ग्रामे भृत्यानां धर्मः, राज्ञामर्थः, क्रव्यादां कामः, अभिमुखहतानां मोक्ष इति।

औपाधिकः क्रियाभेदो यथा— उष्ट्रासिका आस्यन्ते, हतशायिकाश्शय्यन्ते, रैपोषं पुष्यति, समूलकाषं कषति; यथा च भवेदपि भवेत् स्यादपि स्यादिति।

औपाधिकः सम्बन्धिभेदो यथा—सम्पन्नो यवो यवनेषु, शुष्कस्तुरुष्केषु, विनष्टः सुराष्ट्रेषु; परुत् भवान् पटुरासीत् पटुतर ऐषमः, अन्य एवासि सम्पन्न इति।

यथा च—(रघु. ६.५)

तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्षः।
सहस्रधात्मा व्यरुचद् विभक्तः पयोमुचां पङ्‌क्तिषु विद्युतेव॥ १००॥

औपाधिकः सहचारिभेदो यथा—

मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे।
बाहू प्रलम्बावङ्गेषु वङ्गेषु चरणौ दृढौ॥ १०१॥

यथा च—(माघ. ३.१४)

दैत्याधिपप्राणमुषां नखानामुपेयुषां भूषणतां क्षतेन।
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम्॥ १०२॥

(४५. श्रुत्यादिविनियोगः)

श्रुतिः लिङ्गं वाक्यं प्रकरणं स्थानं समाख्येति श्रुत्यादयः। तैः प्रधानाङ्गत्वापादनं श्रुत्यादिविनियोगः। स

श्रुतितो यथा— पशुना रुद्रं यजते; अत्र पशुनेति तृतीयाश्रुत्या रुद्रयागे पशोरङ्गभावः प्रतिपाद्यते।

लिङ्गतो यथा— ‘बर्हिर्देवसदनं दामि’ इति; अत्र दामीति लवनलिङ्गादनेन मन्त्रेण बहींषि लुनीयादिति प्रतीयते।

वाक्यतो यथा— श्वेतं छागमालभेत; अत्रैकवाक्योपादानाच्छ्‌वेतगुणस्य छागावच्छेदकत्वेन क्रियाङ्गभावो अव गम्यते।

प्रकरणतो यथा— समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकारं यजति, इति प्रयाजानां दर्शपूर्णमासप्रकरणे पठितानां तदङ्गत्वमवगम्यते।

स्थानतो यथा— मार्जनाघमर्षणोपस्थानजपहोमादिस्थानेषु पठितानां मन्त्राणां तत्रैवाङ्गभावो भवति।

समाख्यातो यथा— हौत्रं कर्म, आध्वर्यवं कर्म, औद्गात्रं कर्मेत्यन्वर्थसंज्ञा— बलाद्धौत्रादीनामेव तेष्वङ्गभावो भवति।

श्रुत्यादयश्च क्‍वचित्समस्ताः क्‍वचिद्व‍यस्ता एव विनियोजयन्ति।

समस्ता यथा—(रघु. ६.६३)

अनेन कल्याणि! करे गृहीते महाकुलीनेन महीव गुर्वी।
रत्‍नानुविद्धार्णवमेखलाया दिशः सपत्‍नी भव दक्षिणस्याः॥ १०३॥

व्यस्ता यथा—(किराता ३.४८)

स क्षत्रियस्त्राणसहः क्षताद् यस्तत् कार्मुकं कर्मसु यस्य शक्तिः।
वहन् द्वयीमप्यफलेऽर्थजाते करोत्यसत्कारहतामिवोक्तिम्॥ १०४॥

(४६. श्रुत्यादिबलाबलम्)

‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौबैल्यमर्थविप्रकर्षाद्’ (पू. मी. ३.३.१४) इति श्रुत्यादिबलाबलं तदप्यखण्डवाक्यार्थपक्षे असमर्थितमेव भवति। यतः— (वाप. २.७२)

अखण्डमेव वाक्यं चेदविभक्तार्थमिष्यते।
तत् सर्वं श्रुतिभूतत्वान्न श्रुत्यैव विरोत्स्यते॥ १०५॥

न च श्रुतिर्लिङ्गवाक्यादि न विरुणद्धि। तत्र श्रुत्या लिङ्गविरोधो यथा—‘ऐन्द्रया गार्हपत्यमुपतिष्ठते’ (मै.सं. ३.२४); ऐन्द्रया ऋचा इन्द्रप्रकाशनसामर्थ्यलक्षणा— ल्लिङ्गादिन्द्रोपस्थानविनियोगो गार्हपत्यमिति द्वितीयाश्रुत्या बाध्यते; तेनैन्द्रयाप्येतया गार्हपत्यस्यैवोपस्थानं भवति। श्रुत्या वाक्यविरोधो यथा—‘पयसा भुङ्क्तां देवदत्तः शृतेन।’ अत्र विशेषणविशेष्यभावेन वाक्यप्रापितस्य पयोविषयस्य श्रपणस्यासम्भवेऽपि श्रुतिप्रापितं पयस उपसेचनत्वं न निवर्तते। न चोपसेचनत्वेन यदप्रसिद्धमुदकादिकं, तेन शृतेन श्रपणस्यानुग्रहो भवत्विति युज्यते। श्रुतिवाक्यार्थविकल्पसम्भवे श्रुत्यर्थ एव क्रियते, न वाक्यार्थः, अर्थविप्रकर्षात्। ननु च शृतेनेत्यपि तृतीयान्तमेव। तत्र यथा ‘अरुणयैकहायन्या पिङाक्ष्या सोमं क्रीणाति’ इत्यारुण्यादयः स्वाश्रयमवच्छिन्दन्तः श्रुत्या क्रयेण सम्बध्यन्ते, तथा श्रपणमपि श्रुत्यैव भोजनेन सम्भन्त्स्यत इति।

विषम उपन्यासः। तत्र हि ‘अरुणयैकहायन्या पिङ्गाक्ष्या’ इति प्रशस्तगवीविषयाणि विशेषणान्येव श्रूयन्ते, न विशेष्यं शाबलेयादि। ततश्च यैरेवा— साधारणविशेषणैररुणादिभिर्नीलग्रीवत्रिलोचनार्धनारीश्वरादिभिरिव महेश्वरादि विशेष्यं शाबलेयादि यदवगम्यते, नैव तेषां बाधो भवति। तदग्रहे तस्याग्रहणात्। नापि विकल्पः, समुदितानामेवावच्छेदनिमित्तत्वात्। इह तूभयं श्रूयते, विशेष्यं विशेषणं च, पयसेति विशेष्यं, शृतेनेति विशेषणम्। विशेषणविशेष्ययोश्च विकल्पसम्भवे विशेष्यमेवोपादीयते, न विशेषणमिति मृषैवोपालब्धाः स्मः।

अपि च द्विविध इहानुष्ठेयः शब्दार्थः दृष्टविषयोऽदृष्टविषयश्च। तत्रादृष्टविषये यथोक्ताकरणेन मा भूद् विफल इति निवापाञ्जलिप्रदानवदन्यूनाधिक एव अनुष्ठीयते। दृष्टविषये पुनरदृष्टनियमाभावेन शक्यते शक्तिरुल्लङघयितुम्। तत्र नायं नियमो यदुत शृतेनैव पयसा भोक्तव्यं, न चाशृतेन पयसा भुजिक्रिया न निर्वर्तते। न च निर्वृत्ता फलं न निर्वर्तयति। तस्माद् अशृतमपि पय एवोपादीयते, न तु शृतमप्युदकादीति॥

ननु च लिङ्गेनापि श्रुतिबाधो दृश्यते। तद्यथा— पच्यतां पिष्यतामवहन्यता— मतिथिरायात इति। अत्र हि पाकपेषणावघाताः श्रुत्यातिथिविषयतयोपस्थापिता लिङ्गेन पाकपेषणावघातार्हव्रीह्यादिविषयतयोपस्थाप्यन्ते।

अत्रापि ब्रूमः—कामं पुनरिहातिथिविषयां श्रुतिमायुष्मान् मन्यते पच्यतामतिथिरायात इति। तत्र यदि पूर्वाम्, उत्तरस्या विषयो वक्तव्यः। अथोत्तराम्, कथमाद्याः पाकादयोऽतिथिविषया इति?

किं ब्रवीषि? अतिथिविशेषणानुकारित्वेनैकवाक्यभ्रान्तिकारिणा आयात इति पदेन विप्रलब्धोऽसि।

कियदिदं ते, यतोऽद्यापि श्रुत्यर्थमपि ना(व)बुध्यसे। श्रुतिर्हि नामानेकपदनिबन्धन एव शब्दविषयो विध्यादिरर्थः। स च स्वार्थसिद्धये कर्मकरणकर्त्र— धिकरणादिकं यदाक्षिपति स सर्वः श्रुत्यर्थो भवति। तद्यथा अवहन्यतामित्युक्ते व्रीह्यादि, ‘सोमं क्रीणाति’ इत्युक्‍ते गवादि, वर्षतीत्युक्ते देवादि, सूर्य उदेतीत्युक्ते प्राच्यादि। तच्च द्रव्यमेव न गुणः। स त्वर्थसामर्थ्यात् सन्निहितोऽपि श्रुतिपदानाक्षिप्‍तः श्रुतारुणादिशब्दसन्निधाने व्यापारवान् प्रतीयत इति यत्‍नान्तरप्रापितत्वाच्छुत्यर्थविलक्षणो वाक्यार्थविषयता क्रियाङ्गभावमनुभवति।

तदुक्तम् — (वाप. २.७३, ७४)

सामर्थ्यप्रापितं यच्च व्यक्त्यर्थमनुषज्यते।
श्रुतिरेवानुषङ्गे सा बाधिका लिङ्गवाक्ययोः॥ १०६॥

अनाक्षिप्‍तोऽरुणादिर्यः सन्निधानेन गम्यते।
स यत्‍नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः॥ १०७॥

इति। एतेन लिङ्गाद्यनुपात्तयापि श्रुत्या लिङ्गादिबाधो व्याख्यातः।

तद्यथा—(कुसं. ५.६४)

यथाश्रुतं वेदविदां वर! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः।
तपः किलेदं तदवाप्‍तिसाधनं मनोरथानामगतिर्न विद्यते॥ १०८॥

यथा वा—(कुसं. ५.८२)

अलं विवादेन यथाश्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते॥ १०९॥

(४७. श्रुत्यादिक्रमः)

श्रुत्यर्थपाठस्थानमुख्यप्रवृत्त्यादिभिः पदार्थानां यागादिकर्मसु परिपाट्‍यावस्थापनं श्रुत्यादिक्रमः। तत्र—

श्रुतिक्रमो यथा— ‘अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति’।

अर्थक्रमो यथा— ‘अग्‍निहोत्रं जुहोति, यवागूं पचति’।

पाठक्रमो यथा— ‘धर्मार्थकामानां समवाये पूर्वः पूर्वो गरीयान्’ (कामसू. १.२)।

स्थानक्रमो यथा— ‘भूर्भुवःस्वर्लोकाँस्तर्पयति’।

मुख्यक्रमो यथा— ‘देवानृषीन् मनुष्यानर्चयति’।

प्रवृत्तिक्रमो यथा— ‘प्राग्वदनोऽघमर्षणादीनि जपति’।

(४८. क्रमसम्भेदः)

एषामन्योन्यसङ्करः क्रमसम्भेदः। तत्र— श्रौतार्थक्रमसङ्करो यथा—

प्रथममरुणच्छायस्तावत्ततः कनकप्रभ—
स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः।
प्रभवति पुनर्ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः॥ ११०॥

स्थानार्थसङ्करो यथा— (कुसं. ५.६४)

स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सङ्गनिपातचूर्णिताः।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः॥ १११॥

पाठस्थानसङ्करो यथा—

हृत्कण्ठवक्त्रश्रोत्रेषु कस्य नावस्थितं तव।
श्रीखण्डहारकर्पूरदन्तपत्रप्रभं यशः॥ ११२॥

श्रौतार्थप्रावर्तिकक्रमसङ्करो यथा—(माघ. ९.२९)

प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः।
दधति स्फुटं क्रमश एव न तु प्रथितौजसोऽपि सहसोपचयम्॥ ११३॥

श्रौतार्थपाठसङ्करो यथा—

क्‍वाप्यस्ताद्रिदरीषु पूष्णि पतिते सान्ध्ये च धाम्‍नि क्रमात्
किंचित्किंचिदुदञ्चति प्रतिकलं मन्दासु दृक्छक्तिषु।
एताः पक्वपरूषकच्छविमुषः पूर्वं ततस्त्यायता
जायन्ते तमसा दिशः परिणमज्जम्बूफलश्यामलाः॥ ११४॥

श्रौतार्थमुख्यसङ्करो यथा—

श्रुत्वा यं सहसाऽऽगतं निजपुरात् त्रासेन निर्गच्छतां
शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः
शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि
क्रीडाद्रौ च सशाद्वले विवलितग्रीवैर्विमुक्ता दृशः॥ ११५॥

श्रौतार्थस्थानमुख्यसङ्करो यथा—

आयाते दयिते मरुस्थलभुवां सञ्चिन्त्य दुर्लङ्घतां
गेहिन्या परितोषबाष्पतरलामासज्य दृष्टि मुखे।
दत्त्वा पीलुशमीकरीरकबलान् स्वेनाञ्चलेनादरा—
दुन्मृष्टं करभस्य केसरजटाभाराग्रलग्‍नं रजः॥ ११६॥

श्रौतार्थपाठप्रवृत्तिसङ्करो यथा—

दृष्टे लोचनवन्मनाङ् मुकुलितं पार्श्वस्थिते वक्त्रतव्॥ ११७॥

(द्र.पृ. ४७२) आदिग्रहणाद्विप्रकर्षादिभिरपि श्रुत्यादिक्रमसम्भेदो यथा—(माघ. १.३)

चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः॥ ११८॥

प्राधान्यादिभिरपि यथा—कुसं. ७.४६

कम्पेन मूर्ध्‍नः शतपत्रयोनिं वाचा हरि वृत्रहणं स्मितेन।
आलोकमात्रेण सुरानशेषान् सम्भावयामास यथाप्रधानम्॥ ११९॥

औचित्यादिभिरपि यथा—(रघु. १३.७२)

दुर्जातबन्धुरयमृक्षहरीश्वरो मे
पौलस्त्य एष समरेषु पुरः प्रहर्ता।
इत्यादरेण कथितौ रघुनन्दनेन
व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे॥ १२०॥

वयःश्रुतादिभिरपि यथा—(राच. १५.३६)

मूर्ध्‍ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापती—
नाश्वास्याश्रुमुखान्मुहुः प्रियसखान् प्रेष्यान् समादिश्य च।
आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने
रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन् मारुतिः॥ १२१॥

तदेवमेते ये पुरस्तादुपवर्णिताः ये चैवंप्रकाराः समाहारेतरेतरयोगैक— शेषान्वाच्यादयो वाक्यगतानां पदार्थानामनुग्राहिणो धर्माः ते सर्वेऽप्यविद्यमाने— द्देशविभागेन एकेन वाक्याख्येन शब्देनाभिधीयमानेऽवयवाभावाद् अनपोद्धार्य— शक्तिमात्रपरिग्रहे क्रियात्मन्येव केवले प्रतिज्ञाय माने न सम्भवन्ति। तस्मात् प्रविभक्तरूपाणामप्यव्यभिचरितावाधि विभागानां चतुर्णां पञ्चानां वा पदजातानाम् असङ्कीर्णैर्वाच्यद्योत्यगमनीयैरर्थैर्भवितव्यमिति। यस्याप्येकः सन्निविष्टानेकशक्तिरूप— सर्वोपाधिविशिष्टः क्रियात्मा व्यावहारिकाभ्यां अन्वयव्यतिरेकाभ्यां प्रकल्पितोद्देश— विभागेनैकेन वाक्याख्येन शब्देनाभिधीयते, तस्यापि यावानयं पदश्रुतिरूपभेदेन पदार्थरूपभेदेन च व्यवहारः पुरस्तादुपन्यस्तः स सर्व एकस्मादर्थात् श्रुतिरूपाणि बुद्ध‍यन्तरैः कृतप्रविभागान्यपोद्ध‍ृत्यायोद्ध‍ृत्य प्रकृतिप्रत्ययादिवत् श्रुतिरूपप्रविभागे क्रियमाणे न विरुध्यते। तत्र च—

रूपनाशे पदानां स्यात् कथं चावधिकल्पना।
अगृहीतावधौ शब्दे कथं चार्थो विविच्यते॥ १२२॥

तथा हि भागे सादृश्यं भागे भेदोऽवसीयते।
भागाभावेऽपि वाक्यानामत्यन्तं भिन्नधर्मणाम्॥ १२३॥

एकस्य भागे सादृश्यं भागे भेदश्च लक्ष्यते।
निर्भागस्य प्रकाशस्य निर्भागेनैव चेतसा॥ १२४॥

अप्रसिद्धं तु यं भागमदृष्टमनुपश्यति।
सर्वत्रासंविदं मूढस्तावति प्रतिपद्यते॥ १२५॥

यतः पिकादियोगेन वाक्येऽत्यन्तविलक्षणे।
सदृशस्येव संज्ञानमसतोऽर्थस्य मन्यते॥ १२६॥

गवये नरसिंहे वाप्येकज्ञानावृते यथा।
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते॥ १२७॥

यथैवैकस्य गन्धस्य भेदेन परिकल्पना।
पुष्पादिषु तथा वाक्येऽप्यर्थभेदस्य कल्पना॥ १२८॥

अतोऽखण्डेऽपि वाक्यार्थे शक्तिभेदादपोद्ध‍ृते।
वाक्यान्तरविभागेन यथोक्तं न विरुध्यते॥

(वाप. २.८८–९५) तस्माद् युक्तैव पदगतदोषगुणनिरूपणेति।

(पददोषाः —१६)

तत्र पदवाक्यवाक्यार्थदोषेषु पददोषाः षोडश—

असाधु, अप्रयुक्तं, कष्टम्, अनर्थकम्, अन्यार्थकम्, अपुष्टार्थकम्, असमर्थम्, अप्रतीतं, क्लिष्टं, गूढार्थं, नेयार्थं, सन्दिग्धं, विरुद्धम्, अप्रयोजकं, देश्यं, ग्राम्यमिति। तेषु —

१. शब्दानुशासनविरुद्धमसाधु, यथा—

भूरिभारभराक्रान्ते बाधति स्कन्ध एष ते।
न तथा बाधते स्कन्धो यथा बाधति बाधते॥ १३०॥

२. कविभिरनिबद्धमप्रयुक्तम्, यथा—

कामचीकमथाः केऽमी त्वामजिह्वायकीयिषम्।
स सस्ति किं वचन्तीमे कम्बः शम्बं धरिष्यति॥ १३१॥

३. श्रुतिविरसं कष्टम्, यथा—(भामहा. १.५३)

वर्वर्ष्टि जलदो यत्र यत्र दर्धर्ष्टि चातकः।
यत्राश्वकर्णः पोफुल्ति स कालो मामजिह्लदत्॥ १३२॥

४. पादपूरणमात्रार्थमनर्थकम्, यथा—

बिभर्ति यश्च देहार्धे प्रियामिन्दुं तु मूर्धनि।
स वै देवः खलु त्वां हि पुनातु मदनान्तकः॥ १३३॥

५. रूढिच्युतमन्यार्थकं, यथा—

ते दुःखमुच्चावचमावहन्ति ये प्रस्मरन्ति प्रियसङ्गमानाम्।
अत्राङ्प्रपूर्वौ वहतिस्मृधातू स्वार्थे प्रयुक्तौ न च तत्र रूढिः॥ १३४॥

६. तुच्छाभिधेयमपुष्टार्थम्, यथा—

शतार्धपञ्चांशभुजो द्वादशार्धार्धलोचनः।
विंशत्यर्धार्धमूर्धा वः पुनातु परमेश्वरः॥ १३५॥

७. अवाचकमसमर्थं, यथा—

जलं जलधरे क्षारमयं वर्षति वारिधिः।
इदं बृंहितमश्वानां ककुद्मानेष हेषते॥ १३६॥

८. शास्त्रमात्रप्रयुक्तमप्रतीतम्, यथा—

किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः।
गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः॥ १३७॥

९. व्यवहितार्थप्रत्ययं क्लिष्टम्, यथा—(काव्याद. ३.१२०)

विजितात्मभवद्वेषिगुरुपादहतो जनः।
हिमापहामित्रधरैर्व्याप्‍तं व्योमाभिनन्दति॥ १३८॥

१०. अप्रसिद्धार्थप्रयुक्तं गुढार्थं, यथा—

सहस्रगोरिवानीकं भवतो दुस्सहं परैः।
गोशब्दस्याक्षिवाचित्वादिहेन्द्रो हि सहस्रगुः॥ १३९॥

११. सङे्कतकल्पिताभिधेयं नेयार्थम्, यथा—

सपदि पङ्‌क्तिविहङ्गमनामभृत्तनयसैन्यमुलूकजिता जितम्।
अयमिहार्थ उलूकजिदिन्द्रजिद् बलमनेन च दाशरथेर्जितम्॥ १४०॥

१२. अनिश्चयकृत् सन्दिग्धम्, यथा—

नीललोहितमूर्तिर्यो दहत्यन्ते जगत्त्रयम्।
स एष हि महादेव इत्युक्ते हि न निश्चितम्।
विभावसुर्विवस्वान्वा वृषाङ्को वा प्रतीयते॥ १४१॥

१३. विपरीतकल्पनं विरुद्धम्, यथा—

अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः।
इति स्तुत्यर्थमेवैतदस्तुत्यर्थे विकल्प्यते॥ १४२॥

१४. अविशेषाधायकमप्रयोजकम्, यथा—

तमालश्यामलं क्षारमत्यच्छमतिफेनिलम्।
कालेन लङ्घयामास हनूमानेष सागरम्॥ १४३॥

१५. अव्युत्पत्तिमद्देश्यम्, यथा—

गल्लौ लावण्यतल्लौ ते लडहौ मडहौ भुजौ।
नेत्रे वोसट्टकंदोट्टमोट्टायितसखे सखि!॥ १४४॥

१६. अश्लीलामङ्गलघृणावदर्थं ग्राम्यम्।

तत्रासभ्यमसभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम् तत्रासभ्यं यथा—

छत्राकारशिराः सिरालसरलस्थूलप्रकाण्डो महान्
मध्येसूर्यसुताभ्रसिन्धु—विपुलाभोगो वटः पातु वः।
कायैक्ये विकटप्रसारितमहाजङ्घं महीसुप्‍तयो—
र्यः खण्डेन्दुकिरीटकैटभजितोः काटश्रियं कर्षति॥ १४५॥

असभ्यार्थान्तरं यथा—

विद्यामभ्यस्यतो रात्रावेति या भवतः प्रिया।
वनिता गुह्यकेशानां कथं ते पेलवं धनम्॥ १४६॥

असभ्यस्मृतिहेतुर्यथा—(भामहा. १.५९)

उत्कम्पयसि मां चूत! पिकवाक्कटवेन किम्।
कृतः कृकाटिकायां ते पादः प्राणेन यास्यता॥ १४७॥

अप्रशस्तमप्रशस्तार्थान्तरमप्रशस्तस्मृतिहेतुश्चामङ्गलार्थम्। तेषु— अप्रशस्तं यथा—

खेटके भक्तसूपस्य वलभ्यां पत्तनस्य च।
अतृप्‍तोऽहं मरिष्यामि हेहले भाषितस्य च॥ १४८॥

अप्रशस्तार्थन्तरं यथा—

प्रवासयति या कान्तं वसन्ते गृहसंस्थितम्।
विनाशपथदानेन पिशाची सा न साऽङ्गना॥ १४९॥

अप्रशस्तस्मृतिहेतुर्यथा—

मारीचोऽयं मुनिर्यस्य कृत्याः कालान्तकालये।
पत्‍न्यां सङ्क्रन्दनादीनां सुतानामाप्‍तयेऽभवन्॥ १५०॥

घृणावद् घृणावदर्थान्तरं घृणावत्स्मृतिहेतुश्च।

घृणावदर्थं यथा—

पर्दते हदते स्तन्यं वपत्येष स्तनन्धयः।
मुहुरुत्कौति निष्ठीवत्यात्तगर्भा पुनर्वधूः॥ १५१॥

घृणावदर्थान्तरं यथा—

बाष्पक्लिन्नाविमौ गण्डौ विपूयापाण्डरौ तव।
प्रियोऽग्रे विष्टितः पुत्रि! स्मितवर्चोभिरर्चति॥ १५२॥

घृणावत्स्मृतिहेतुर्यथा—

प्रत्यार्द्रयन्तो रूढानि मदनेषुव्रणानि नः।
हृदयं क्लेदयन्त्येते पुरीषण्डमहाद्रुमाः॥ १५३॥

(वाक्यदोषाः —१६)

वाक्यदोषाः षोडश— शब्दहीनं, पुनरुक्तिमत्, अपक्रमं, भिन्नवृत्तं, यतिभ्रष्टं, विसन्धि, व्याकीर्णं, सङ्कीर्णं, गर्भितम्, अपदम्, अशरीरम्, ऊनोपमम्, अधिकोपमम्, भिन्नलिङ्गं, भिन्नवचनं, श्लेषादिगुणविपरीतं चेति। तेषु—

१. अपशब्दवच्छब्दहीनं यथा— (किराता. ८.२४)

समुच्छ्‌वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीवि नाभिभिः।
दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभारादुदराणि नम्रताम्॥ १५४॥

२. अभिन्नपदपदार्थं पुनरुक्तिमद्, यथा—(काव्याद. ४.१३)

उत्कामुन्मनयन्त्येते गम्भीराः स्तनयित्‍नवः।
अम्भोधरास्तटित्वन्तो गम्भीराः स्तनयित्‍नवः॥ १५५॥

३. क्रमभ्रष्टमपक्रमम्, यथा—

कान्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ।
तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम्॥ १५६॥

४. छन्दोभङ्गवद्भिन्नवृत्तं, यथा—(बृ.उ. ५.५.१७)

यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः।
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः॥ १५७॥

५. अस्थानविरतिर्यत्र तत् यतिभ्रष्टम्, यथा—

ब्रह्मोन्द्रोपेन्द्रादिगीर्वाणवन्द्यो भक्तानां भूयाच्छ्रिये चन्द्रचूडः।
स्त्रीणां सङ्गीतं समाकर्णयन्केतूदस्ताम्भोदं सदोऽध्यास्त ईशः॥ १५८॥

६. विसंहितं विरूपसन्धि च विसन्धि, यथा—यथा—काव्याद. ४.३७

मेघानिलेन अमुना एतस्मिन्नद्रिकानने।
मञ्ञर्युद्गमगर्भासौ तर्वाल्युर्वी विधूयते॥ १५९॥

७. विघटितविभक्ति व्याकीर्णम्, यथा—(काव्याद. ३.११०)

दण्डे चुम्बति पद्मिन्या हंसः कर्कशकण्टके।
मुखं वल्गुरवं कुर्वन् तुण्डेनाङ्गानि घट्टयन्॥ १६०॥

८. वाक्यान्तरपदव्यामिश्रं सङ्कीर्णम्, यथा—

काअं खाअइ खुहिओ कूरं फेल्लेइ णिब्भरं रुट्ठो।
सुणअं गोण्हाइ कंठे हक्केइ अ णत्तिअं ठेरो॥ १६१॥

(काकं खादति क्षुधितः क्रूरं क्षिपति निर्भरं रुष्टः।
श्वानं गृह्‍णाति कण्ठे भीषयते नप्‍तारं स्थविरः॥)

९. वाक्यान्तरगर्भं गर्भितम्, यथा—(रुद्रट. ६४४)

योग्यो यस्ते पुत्रः सोऽयं दशावदन लक्ष्मणेन मया।
रक्षैनं यदि शक्तिर्मृत्युवशं नीयते विवशः॥ १६२॥

१०. भिन्नभाषप्रकृत्यादिकमपदम्। यथा—

आउज्झिअ पिट्टिअए जह कुक्कुलि णाम मज्झ भत्ताले।
पेच्छं/क्खंतह लाउलकंणिआह हा कस्य कंदेमि॥ १६३॥

(आवार्ज्य ताड्यते यथा कुर्करी नाम मम भर्ता।
प्रक्षन्ते राजकुलभृत्या हा कस्य क्रन्दामि॥)

११. निष्क्रियमशरीरं, यथा—

सेलसुआरुद्धद्धं मुद्धाणाबद्धमुद्धससिळेहं।
सीसपडिच्छिअगंगं संझापणअं पमहणाहं॥ १६४॥

(शैलसुतारुद्धार्धं मूर्धाबद्धमुग्धशशिलेखम्।
शीर्षप्रतिष्ठितगङ्गं सन्ध्याप्रणतं प्रमथनाथम्॥)

१२. ऊनोपमानविशेषणमूनोपमम्, यथा—(रुद्रट. १.३६)

संहअचक्काअ—जुआ विअसिअ—कमला मुणालसंछण्णा।
वावी वहु व्व रोअण—विलित्त—थणआ सुहावेइ॥ १६५॥

(सङ्गतचक्राह्वयुगा विकसितकमला मृणालसंछना।
वापी वधूरिव रोचनाविलिप्‍तस्तनी सुखयति॥)

१३. अधिकोपमानविशेषणमधिकोपमम्, यथा—

अहिणव—मणहर—विरइअ—वलअ—विहूसा विहाइ णववहुआ।
कुंदलए व्व समुप्फुल्लगुच्छपरिलिंतभमरगणा॥ १६६॥

(अभिनवमनोहरविरचितवलयविभूषा विभाति नववधूः।
कुन्दलतेव समुत्फुल्लगुच्छपरिलीयमानभ्रमरगणा॥)

१४. भिन्नलिङ्गोपमं भिन्नलिङ्गम्, यथा—(भामहा. २.५३)

अविगाह्योऽसि नारीणामनन्यमनसामपि।
विषमोपलभिन्नोर्मिरापगेवोत्तितीर्षताम् ॥ १६७॥

१५. भिन्नवचनोपमं भिन्नवचनम्, यथा—(काव्याद. २.५५)

सरांसीवामलं व्योम काशा इव सितः शशी।
शशीव धवला हंसाः हंसीव धवला दिशः॥ १६८॥

गुणविपर्ययस्त्रिधा—शब्दप्रधानः, अर्थप्रधानः, उभयप्रधानश्च। तत्र श्लेषसमता—

१६. सौकुमार्यविपर्ययः शब्दप्रधानः। तेषु—

श्लेषविपर्ययाच्छिथिलं यथा—(काव्याद. १.४३)

आलीयं मालतीमाला लोलालिकलिला मनः।
निर्मूलयति मे मूलात् तमालमलिने वने॥ १६९॥

समताविपर्ययो विषमम् यथा—(काव्याद. २.५५)

कोकिलालापवाचालो मामेति मलयनिलः।
उच्‍चलच्छीकराच्छाच्छनिर्झराम्भः कणोक्षितः॥ १७०॥

सौकुमार्यविपर्ययोऽसुकुमारम्, यथा—(काव्याद. १.४८)

असितर्तितुगद्रिच्छित्स्वःक्षितां पतिरद्विदृक्।
अमिद्भिः शुभ्रदृग्दृष्टैर्द्विषो जेघ्‍नीयिषीष्ट वः॥ १७१॥

प्रसादार्थव्यक्तिकान्तिविपर्ययोऽर्थप्रधानः। तेषु—

प्रसादविपर्ययोऽप्रसन्नम्, यथा—

अनङ्गकमलञ्चके मयमाना मरालिका।
पश्‍ /यस्यानत्यर्जुनाब्जन्मसदृशाङ्को वलक्षगुः॥ १७२॥

(काव्याद.१.४४) अर्थव्यक्तिविपर्ययो नेयार्थम्, यथा—(काव्याद. १.७४)

मही महावराहेण लोहितादुद्धृतोदधेः।
इतीयत्येव निर्दिष्टे नेया लौहित्यहेतवः॥ १७३॥

कान्तिविपर्ययो ग्राम्यम्, यथा—(काव्याद. १.६१)

कन्ये कामयमानं मां त्वं न कामयसे कथम्।
इति ग्राम्योऽयमर्थोक्तिःर्वैरस्यायैव कल्पते॥ १७४॥

ओजोमाधुर्यौदार्यविपर्यय उभयप्रधानः। तेषु —

ओजोविपर्ययः खण्डितरीतिरसमस्तं, यथा—

स्मरः खरः खलः कान्तः कायः कोपश्च नः कृशः।
च्युतो मानोऽधिको रागो मोहो जातोऽसवो गताः॥

(काव्याद. १.५९) माधुर्यविपर्ययः खण्डितरीतिरनिर्व्यूढम्, यथा—

नखिनां च नदीनां च शृङ्गिणां शस्त्रिणां तथा।
विश्वासो नोपगन्तव्यः स्त्रीषु राजकुलेषु च॥ १७६॥

औदार्यविपर्ययः खण्डितरीतिरनलङ्कारम्। यथा—

दीर्घपुच्छश्चतुष्पादः ककुद्यान् लम्बकम्बलः।
गोरपत्यं बलीवर्दस्तृणान्यति मुखेन सः॥ १७७॥

(वाक्यार्थदोषाः —१६)

वाक्यार्थदोषा अपि षोडशौव—

अपार्थं, व्यर्थम्, एकार्थं, संसशयम्, अपक्रमं, खिन्नम्, अतिमात्रं, परुषं, विरसं, न्यूनोपनम्, अधिकोपनम्, असदृशोपनम्, अप्रसिद्धोपमम्, निरलङ्कारम्, अश्लीलं, विरुद्धं चेति। तेषु —

१. समुदायार्थशून्यमपार्थम्, यथा—

जरद्‍गवः कम्बलपादुकाभ्यां द्वारि स्थिति गायति मद्रकाणि।
तं ब्राह्मणी पृच्छति पुत्रकामा राजन् रुमायां लवणस्य कोऽर्घः॥ १७८॥

२. निष्प्रयोजनं गतार्थं च व्यर्थम्, यथा—(भट्टि ४.४)

आंहिषातां रघुव्याघ्रौ शरभङ्गाश्रमं, स च।
अहौषीत् स्वतनुं वह्नौ दृष्टाप्‍तौ रामलक्ष्मणौ॥ १७९॥

३. उक्ताभिन्नार्थमेकार्थम्, यथा—(माघ. ३.१२)

प्रसाधितस्याथ मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत्।
वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु॥ १८०॥

इत्युक्तार्थमेवाह—(माघ. ३.१३)

कवाटविस्तीर्णमनोरमोरः स्थलस्थितश्रीललनस्य तस्य।
आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः॥ १८१॥

४. अनिश्चयकृत्संशय्, यथा—(काव्याद. ४.१७)

मनोरथप्रियालोकरसलोलेक्षणे सखि !।
आराद्वृत्तिरियं माता न क्षमा द्रष्टुमीदृशम्॥ १८२॥

५. कमच्युतमपक्रमम्, यथा—

काराविऊण खउरं गामउडो मज्जिओ अ जिमिओ अ।
णक्खत्तत्तिहिवारे जोइसिअं पुच्छिउं चलिओ॥ १८३॥

(कारयित्वा क्षौरं ग्रामवृद्धौ मज्जितश्च भुक्तवांश्च।
नक्षत्रतिथिवारान् ज्यौतिषिकं प्रष्टुं चलितः॥)

६. जात्याद्युक्तावनिर्व्यूढं खिन्नम्, यथा—

वेवाहिऊण वहुआ साअरअं दोलिआए णिज्जंती।
रोअइ दिअरो तं संठवेइ पासेण वच्‍चंतो॥ १८४॥

(विवाह्य वधूः श्वाशुरकं दोलिकया नीयमाना।
रोदिति देवरस्तां संस्थापयति पार्श्वेन व्रजम्॥)

७. लोकातीतार्थमतिमात्रम्, यथा—

भृङ्गेण कलिकाकोशस्तथा भृशमपीडयत।
ववर्ष विपिनोत्सङ्गे गोष्पदप्रं यथा मधु॥ १८५॥

८. अतिक्रूरार्थं परुषम्, यथा—(स. क. १.५८)

खाहि विसं, मुत्तं पिअ णिज्जसु मारीए पडउ दे वज्जो।
दंतक्खंडिअथणिआ खिविऊण सुअं सवइ माआ॥ १८६॥

(खाद विषं, मूत्रं पिब नीयस्व मार्या पततु ते वज्रम।
दन्तखण्डितस्तनी क्षिप्‍त्वा सुतं शपति माता॥)

९. अप्रकृतरसं विरसम्, यथा—(रुद्रटस्य ११.१३)

तव वनवासोऽनुचितः पितृमरणशुचं जहीहि किं तपसा।
सफलय यौवनमेतन्नन्वनुरक्तेन सुतनु मया॥ १८७॥

१०. हीनोपमानं हीनोपमम्, यथा—(भामहा. २.५४)

क्‍वचिदग्रे प्रसरता क्‍वचिदापत्य निघ्‍नता।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम्॥ १८८॥

११. अधिकोपमानमधिकोपमम्, यथा—(भामहा. २.५५)

अयं पद्मासनासीनश्चक्रवाको विराजते।
युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः॥ १८९॥

१२. अतुल्योपमानमसदृशोपमम्, यथा—

णमह हरं रोसाणल—णिद्दद्ध—विअद्ध—मम्मह—सरीरं।
वित्थअ—णिअंब—णिग्गअ—गंगासोत्तं व हिमवंतं॥ १९०॥

(नमत हरं रोषानलनिर्दग्धविदग्धमन्मथशरीरम्।
विस्तृतनितम्बनिर्गतगङ्गास्त्रोतसमिव हिमवन्तम्॥)

१३. अप्रसिद्धोपमानमप्रसिद्धोपमम्, यथा—

कुमुदमिव मुखं तस्या गौरिव महिषः शशीव काव्यमिदम्।
शरदिव विभाति तरुणी विकसत्पुलकोत्करेयमिति॥ १९१॥

१४. अलङ्कारहीनं निरलङ्कारम्, यथा—

कोला खणंति मोत्थं खाअंति मअअमंसाइँ।
उलुआ हणंति काए काआ उलुए वि वाहं/यंति॥ १९२॥

(कोलाः खनन्ति मुस्तां गृध्राः खादन्ति मृतकमांसान्।
उलूका घ्‍नन्ति काकान् काका उलूकानपि वाधन्ते॥)

१५. असभ्यार्थमश्लीलम्, यथा—(भामहा. १.५१)

उद्यतस्य परं हन्तुं स्तब्धस्य विवरैषिणः।
पतनं जायतेऽवश्‍यं कृच्छ्रेण पुनरुन्नतिः॥ १९३॥

१६. विरोधस्त्रिधा— प्रत्यक्षविरोधोऽनुमानविरोध आगमविरोधश्च। तत्र— देशकाललोकादिप्रतीतः प्रत्यक्षविरोधः। तेषु —

देशविरुद्धं यथा—

सुराष्ट्रेष्वस्ति नगरी मधुरा नाम विश्रुता।
अक्षोट नारिकेलाङ्का यस्याः पर्यन्तभूमयः॥ १९४॥

कालविरुद्धं यथा—(काव्याद. ४.४५)

पद्मिनी नक्तमुन्निद्रा स्फुटत्यह्नि कुमुदती।
मधुरुत्फुल्लनिचुलो निदोघो मेधदुर्दिनः॥ १९५॥

लोकविरुद्धं यथा—(काव्याद. ४. ५०)

आधूतकेसरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः।
गुरुसारोऽयमेरण्डो निस्तारः खदिरद्रुमः॥ १९६॥

युक्त्यौचित्यप्रतिज्ञादिकृतोऽनुमानाविरोधः। तत्र—

युक्तिविरुद्धं यथा—

सुरहि—महु—पाण—लंपड—भमर—गणाबद्ध—मंडलीबंधं।
कस्स मणं णाणंदह कुम्मीपुट्टठ्ठिअं कमलं॥ १९७॥

(सुरभिमधुपानलम्पटभ्रमरगणाबद्धमण्डलीबद्धम्।
कस्य मनो नानन्दयति कूर्मीपृष्ठस्थितं कमलम्॥)

औचित्यविरुद्धं यथा—

पट्टंसुउत्तरिज्जेण पामरो पामरीए वरिमुसइ।
अइगरुअ—कूर—कुंभीभरेण सेओल्लिअं वअणं॥ १९८॥

(पट्टांशुक्तोत्तरीयेण पामरः पामर्याः प्रोञ्छति।
अतिगुरुककूरकुम्भीभरेण स्वेदार्द्रितं वदनम्॥)

प्रतिज्ञाविरुद्धं यथा—

यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता।
माता च मम वन्ध्यासीत्स्मराभोऽनुपमो भवान्॥ १९९॥

धर्मार्थकामादिशास्त्रकृत आगमविरोधः। तत्र—

धर्मशास्त्रविरुद्धं यथा—(काव्याद. ४.५६)

असावनुपनीतोऽपि वेदानधिजगे गुरोः।
स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते॥ २००॥

अर्थशास्त्रविरुद्धं यथा—

कामोपभोगसाफल्यफलो राज्ञां महीजयः।
अहङ्कारेण जीयन्ते द्विषन्तः किं नयश्रिया॥ २०१॥

कामशास्त्रविरुद्धं कालशास्त्रविरुद्धं कामविरुद्धम्, यथा—

तवोत्तरोष्ठे बिम्बोष्ठि ! दशानाङ्कोऽतिशोभते।
पूर्णसप्‍तस्वरः सोऽयं भिन्नमार्गः प्रवर्तते॥ २०२॥

(१०. गुणोपादानम्)

निर्दोषस्य च काव्यस्य शरीरवस्तुनः (शरीरस्येव) कामनीयकोपपत्ता— वयमुपायो यदुणोपादानमलङ्कारयोगश्च। तदाह—

युवतेरिव रूपमङ्ग ! काव्यं स्वदते शुद्धगुणं तदप्यतीव।
विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः॥ २०३॥

तत्र च गुणोपादानालङ्कारयोगयोर्गुणोपादानं गरीयः। अतस्तदेव प्रथममुच्यते। तदाह—

यदि भवति वचश्‍च्युतं वपुरिव यौवनवन्ध्यमङ्गनायाः।
अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते॥ २०४॥

अयमेव गुणालङ्कारयोर्विशेषो यदुणोपादाने नियमोऽलङ्कारयोगे तु कामचार इति।

गुणाश्च युवत्याः शरीरेषु त्रिविधास्तदर्थिनामादरातिशयहेतवो भवन्ति बाह्या आन्तरा वैशोषिकाश्च। तत्र—

अन्ववायवयोरूपलावण्यादयो बाह्याः,

शीलवैदग्ध्यमाहाभाग्यसौभाग्यादयश्चान्तराः,

ये तु दोषा अप्याश्रयविशेषावस्थाविशेषाद्युपाधेर्गुणत्वमाश्रयन्ते ते वैशोषिकाः।

यथाच्यते—

सामण्णसुंदरीणं विब्भममावइह अविणओ च्‍चेअ।
धूमो च्‍चिअ पज्जलिआहि बहुमओ सुरहिदारूणं॥ २०५॥

(सामान्यसुन्दरीणां विभ्रममावहत्यविनयं एव।
धूम एव प्रज्वलितानां बहुमतः सुरभिदारूणाम्॥)

(१. शब्दगुणाः —२४)

काव्यशरीरेऽपि ते त्रिधैव। तत्र —

बाह्यश्शब्दगुणाः, ते ह्यन्ववायादिवद् बाह्यत्वेनावभासन्ते।

आन्तरा अर्थगुणाः, ते सौशील्यादिवद्विमर्शेन ज्ञायन्ते।

वैशेषिका दोषगुणाः, ते हि पात्रविशेषाद्युपाधेः दोषा अपि गुणत्वेन विख्यायन्त इति। तत्र

शब्दगुणाश्चतुर्विंशतिः—

श्लेषः, प्रसादः, समता, माधुर्यं, सौकुमार्यम्, अर्थव्यक्तिः, कान्तिः, उदारता, उदात्तत्वम्, ओजः, और्जित्यं, प्रेयः, सुशब्दता, समाधिः, सौक्ष्म्यं, गाम्भीर्यं, विस्तरः, संक्षेपः, संमितत्वं, भाविकत्वं, गतिः, रीतिः, उक्तिः, प्रौढिरिति। तेषु—

१. सुश्लिष्टपदता श्लेषः, यथा—(माघ. ३.८)

उभौ यदि व्योम्‍नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम्।
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥ २०६॥

२. प्रसिद्धार्थपदता प्रसादः, यथा—(शाकु. २.६)

गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु।
विस्त्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्लवे विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्‌धनुः॥ २०७॥

३. मृदुस्फुटोन्मिश्रवर्णबन्धानामवैषम्यं समता यथा—

यच्‍चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटापटले हरस्य।
तद् वः पुनातु हिमशैलशिलानिकुञ्जझात्कारडम्बरविरावि सुरापगाम्भः॥

४. पृथक्पदता माधुर्यं, यथा—(कुसं. ५.२४)

स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः॥

५. अनिष्ठुराक्षरप्रायता सौकुमार्यम, यथा—(काव्याद. १.७०)

मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि॥ २१०॥

६. सम्पूर्णवाक्यत्वमर्थव्यक्तिः, यथा—(रघु. १.१)

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥ २११॥

७. बन्धोज्ज्वलता कान्तिः, यथा—

निरानन्दः कौन्दे मधुनि विधुरो बालवकुले न साले सालम्बो लवमपि लवङ्गे न रमते।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरन् लक्ष्मीलीलाकमलमधुपानं मधुकरः॥ २१२॥

८. बन्धविकटत्वमुदारता, यथा—

आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेढि विवेष्टते क्षितितले कुञ्जोदरे लीयते।
अन्तर्भ्राम्यति कोटरस्य विसरत्यालम्बते वीरुधः किं तग्द्यन्न करोति मारुतवशं यातः कृशानुर्वने॥ २१३॥

९. श्लाघ्यविशेषणयोग उदात्तत्वं, यथा—

श्रुत्वा यं सहसाऽऽगतं निजपुरात्त्रासेन निर्गच्छतां शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः।
शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडाद्रौ च सशाद्वले विवलित ग्रीवैर्विमुक्ता दृशः॥ २१४॥

१०. समासभूयस्त्वमोजः, यथा—

जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दुस्त्रवदमृतनिवृत्तप्रेतभावैः कपालैः।
विरचितनुतिबन्धो मूर्घ्‍नि सद्यः पुरारेः परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः॥

११. बन्धगाढत्वमौर्जित्यं, यथा—

अस्मिन्नीषद्‍वलितविततस्तोकविच्छिन्नभुग्‍न किञ्चिल्लीलोपचितविततः पुञ्चितश्चोच्छ्रितश्च।
धूमोद्‍गारस्तरुणमहिषस्कन्धनीलो दवाग्‍नेः स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान्॥ २१६॥

१२. वार्ताभिधानवर्णनादौ मनःप्रियार्थपदोपाख्यानं प्रेयः, यथा—(भोजस्य)

सौजन्याम्बुनिधे ! बुधप्रिय ! गुणप्राकार ! धर्मद्रुम प्रारोह ! प्रतिपन्नवत्सल ! महात्यागिन् ! विवेकाश्रय !।
लक्ष्म्यावास ! मनस्विनीमनसिजव्यापारलीलागुरे ! श्रीमन्मुञ्ज ! किमित्यमुं जनमुपस्प्रष्टुं दृशा नार्हसि॥ २१७॥

१३. सुप्‍तिङ्व्युत्पत्तिः सुशब्दता, यथा—

तस्याजीवनिरस्तु मातरवमा जीवस्य मा जीवतो भूयाद् वा जननिः किमम्ब ! जनिना जन्तोर्वृथा जन्मनः।
यस्त्वामेव न वन्दते न यजते नोपैति नालोकते नोपस्तौति न मन्यते न मनुते नाध्येति नो ध्यायति॥ २१८॥

१४. अन्यधर्मस्यान्यत्रारोपणं समाधिः, यथा—

प्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति तालोपरिणतिम्।
परिम्लानप्रायामनुवदति दृष्टिः कमलिनीं नवीनस्तन्वङ्ग्या मनसिजविकारो विजयते॥ २१९॥

१५. शब्दानामन्तः सञ्जल्परूपता सौक्ष्म्यम्, यथा—(माघ. १८.६६)

केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि।
धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः॥ २२०॥

१६. ध्वनिमत्ता गाम्भीर्यम्, यथा—

मौलौ धारय पुण्डरीकममितं तन्वात्मनो विक्रमं चक्राङ्कं वह पादयुग्ममवनीं दोष्णा समभ्युद्धर।
लक्ष्मीं भ्रूनिकटे निवेशय भव ज्यायान् दिवौकस्पतेः विश्वान्तःकरणैकचोर ! तदपि ज्ञातो हरिः खल्वसि॥ २२१॥

१७. व्यासाभिधानं विस्तरः यथा—

जनः पुण्यैर्यायाज्जलधिजलभावं जलमुचः तथावस्थं चैनं निदधतु शुभैः शुक्तिवदने।
ततस्तां श्रेयोभिः परिणतिमसौ विन्दतु यया रुचिं तन्वन् पीनस्तनि ! हृदि तवायं विलुठति॥ २२२॥

१८. समासाभिधानं संक्षेपः, यथा—(रघु. १२.७८)

स मारुतिसमानीतमहौषधिहतव्यथः।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः॥ २२३॥

१९. यावदर्थपदता सम्मितत्वम्, यथा—

केचिद् वास्तुनि नो वाचि, केचिद् वाचि न वस्तुनि।
वाचि वस्तुनि चाप्यन्ये, नान्ये वाचि न वस्तुनि॥ २२४॥

२०. भावतो वाक्प्रवृत्तिर्भाविकत्वम्, यथा—(म.वी.च. १.५५)

एह्येहि वत्स! रघुनन्दन! रामचन्द्र! चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम्।
आरोप्य वा हृदि दिवानिशमुद्‍वहामि वन्देऽथवा चरणपुष्करकद्वयं ते॥

२१. आरोहावरोहक्रमो गतिः, यथा—

वराहः कल्याणं वितरतु स वो यस्य शशभृ— त्कलाकोटीकान्तं क्रमविगलदभ्युद्ध‍ृतिभिया।
मिथः संमूर्छद्भिश्चतुरुदधि—कल्लोल—पटलै— रनामृष्टं दंष्ट्राशिखरमधिशेते वसुमती॥ २२६॥

२२. उपक्रमाभेदो रीतिः, यथा—

ग्राव्णा नासि गिरेः क्षता न पयसा नार्तासि न म्लापिता न श्वासैः फणिनोऽसि न त्वदनुगा नायासिता कापि न।
स्वं वेश्म प्रति गच्छतोरिति मुहुः श्रीशार्ङ्गिणोः सस्पृहं सा प्रश्नोत्तरयुग्मपङ्क्तिरुभयोरत्यायता पातु वः॥ २२७॥

२३. भणितिविशेष उक्तिः, यथा—

कुशलं तस्याः जीवति, कुशलं पृच्छामि, जीवतीत्युक्तम्।
पुनरपि तदेव कथयसि, मृतां नु कथयामि या श्वसिति॥ २२८॥

२४. उक्तिपरिपाकः प्रौढिः, यथा—

अभ्युद्ध‍ृता वसुमती दलितं रिपूरः क्षिप्‍तक्रमं कबलिता बलिराजलक्ष्मीः।
अत्रैकजन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत् पुरुषः पुराणः॥

(२. अर्थगुणाः —२४)

अर्थगुणा अप्येत एव चतुर्विंशतिः। तेषु —

१. संविधान(सु)सूत्रता श्लेषः, यथा—

दृष्ट्वैकासनङ्गते प्रियतमे पश्चादुपेत्यादरा— देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः।
ईषद्‍वक्रितकन्धरः सपुलकं स्वेदोल्लसन्मानसा— मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥ २३०॥ (अमरु.)

२. अर्थस्य प्राकट्यं प्रसादः, यथा—

अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम्।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्‌कुपितकपिकपोलक्रोडताम्रस्तमंसि॥

३. क्रमवतामवैषम्यं समता, यथा—(विक्र. २.७)

अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयो— र्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति।
ईषद्‍ब्रद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता॥ २३२॥

४. क्रोधादावप्यतीव्रता माधुर्यम्, यथा—(रत्नाव. २.१९)

भ्रूभेदे सहसोद्गतेऽपि वदनं नीतं परां नम्रता— मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम्।
अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विष्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः॥ २३३॥

५. अनिष्ठुरता सौकुमार्यम्, यथा—(बा.रा. ६.३४)

सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी गत्वा जयात् त्रिचतुराणि पदानि सीता।
गन्तव्यमद्य कियदित्यसकृद् ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्॥

६. स्वरूपाभिधानमर्थव्यक्तिः, यथा—

पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलक्तकलोहिताभिः।
गोरोचनाहरितबभ्रुबहिः पलाशमामोदते कुमुदमम्भसि पल्वलस्य॥

७. दीप्‍तरसत्वं कान्तिः, यथा—

मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वस्तलिखिता मम मञ्जरीति।
अन्यापि किं सखि न भाजनमीदृशानां वैरी न चेद् भवति वेपथुरन्तरायः॥

८. व्रिभवोत्कर्ष उदारता, यथा—(शाकु. ७.१२)

प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया।
ध्यानं रतनशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यद् वाञ्छन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी॥ २३७॥

९. आशयोत्कर्ष उदात्तत्वम्, यथा—

पात्रे पुरोवर्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलये च देये।
व्रीडास्मितं तस्य तदा तदासीच्चमत्कृतो येन स एव देवः॥ २३८॥

१०. अर्थाध्यवसायविशेष ओजः, यथा—(मवीच. २.३४)

तान्येव यदि भूतानि ता एव यदि शक्तयः।
ततः परशुरामस्य न प्रतीमः पराभवम्॥ २३९॥

११. रूढाहङ्कारतौर्जित्यम्, यथा—(कुसं. ६.८२)

उमा वधूर्भवान् दाता याचितार इमे वयम्।
वरः शम्भुरलं ह्येष त्वत्कुलोद्भूतये विधिः॥ २४०॥

१२. अर्थस्याभीष्टता प्रेयः, यथा—

रसवदमृतं कस्सन्देहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम्।
सकृदपि पुनर्मध्यस्थस्सन् रसान्तरविज्जनो वदतु यदिहान्यत् स्वादु स्यात् प्रियादशनच्छदात्॥ २४१॥

१३. दारुणार्थस्यादारुणार्थपर्यायस्सुशब्दता, यथा—

देवव्रते वाञ्छति दीर्घनिद्रां द्रोणे च कर्णे च यशोऽवशेषे।
लक्ष्मीसहायस्य तवाद्य वत्स! वात्सल्यवान् द्रौणिरयं सहायः॥ २४२॥

१४. व्याजावलम्बनं समाधिः, यथा—(शाकु. २.१३)

दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा।
आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम्॥ २४३॥

१५. सूक्ष्मार्थदृष्टिः सौक्ष्म्यम्, यथा—

अन्योन्यसंवलितमांसलदन्तकान्ति सोल्लासमाविरलसं वलितार्धतारम्।
लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति॥

१६. शास्त्रार्थसव्यपेक्षता गाम्भीर्यम्, यथा—(माघ. ४.५५)

मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः।
ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्ध‍ुम्॥ २४५॥

१७. अर्थविकासो विस्तरः, यथा—

संग्रामाङ्गणसङ्गतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद् यत्समासादितम्।
कोदण्डेन शराश्शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च सप्‍ताब्धयः॥ २४६॥

१८. अर्थसङ्कोचः सङ्क्षेपः, यथा—

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥ २४७॥

१९. तुल्यशब्दार्थविभागः सम्मितत्वम्, यथा—

इन्दुर्मू्र्घ्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः स्तने देयाद् वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः।
संवादः प्रणवेन यस्य दलता कायैकतायां तयो— रूर्ध्वद्वारविचिन्तितेन च हृदि ध्यातः स्वरूपेण च॥ २४८॥

२०. साभिप्रायोक्तिः भाविकत्वम्, यथा—

दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्‍गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति।
एकाकिन्यपि यामि तद् वरमितः स्त्रोतस्स्तमालाकुलं नीरन्ध्राः पुनरालिखन्तु जठरच्छेदा नलग्रन्थयः॥ २४९॥

२१. अर्थादर्थान्तरावगमो गतिः, यथा—

शुभे कोऽयं वृद्धो गृहपरिबृढः किं तव पिता न मे भर्ता रात्रौ व्यपगतदृगन्यच्च बधिरः।
हुहुंहुं श्रान्तोऽहं शिशयिषुरिहैवापवरके क्‍व यामिन्यां यासि स्वपिहि ननु निर्दंशमशके॥ २५०॥

२२. अर्थोत्पत्त्यादिक्रियाक्रमो रीतिः, यथा—

प्रथममरुणच्छायस्तावत्ततः कनकप्रभ— स्तदनुविरहोत्ताम्यत्तन्वीकपोलतलद्युतिः।
प्रभवति पुनर्ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः॥ २५१॥

२३. भङ्ग्या इष्टाभिधानमुक्तिः, यथा—

त्वमेवंसौन्दर्या स च रुचिरतायां परिचितः कलानां सीमानं परमिह युवामेव भजथः।
अपि द्वन्द्वं दिष्ट्या तदिति सुभगे् संवदति वा— मतः शेषं चेत् स्याज्जितमिह तदानीं गुणितया॥ २५२॥

२४. विवक्षितार्थनिर्वहणं प्रौढिः, यथा—

त्वद्वक्त्रेन्दुविलोकनाकुलधिया धात्रा त्वदीयां श्रियं निक्षिप्य प्रतिराजकेषु विदुषां लक्ष्म्या त्वमापूरितः।
तेनैते नियतं दरिद्रति गृहेष्वेषामियं दृश्यते नैनामाद्रियसे त्वमिच्छसि तु तां त्वामेव सा धावति॥ २५३॥

(३. दोषगुणाः)

पदादिदोषाणामनुकरणादिषु गुणत्वापत्तये दोषगुणाः। तेऽपि प्राग्वदेव त्रिविधा अपि प्रत्येकं चतुर्विंशतिधा। तत्र — पददोषेषु —

(पददोषानामदोषत्वम्)

१. असाधोर्म्लिष्टम्लेच्छितादेरनुकरणे गुणत्वं, यथा—

उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुंहुं मुञ्च मममेति च मन्दं जल्पितं जयति मानवतीनाम्॥ २५४॥

२. अनुकरण एवाप्रयुक्तस्य गुणत्वं, यथा—(मभा. ३.१.४८)

दिवं पत्काषिणो यान्ति येऽचीकमत भाषिणः।
पत्काषिणोऽपि नो यान्ति ये वचन्ति प्रयुञ्जते॥ २५५॥

३. श्रुतिविरसं कष्टम्; तस्य दुर्वाचकानुप्रासे गुणत्वं, यथा—

त्वाष्ट्रास्त्वाष्ट्रारिराष्ट्रे न भ्राष्ट्रे नादंष्ट्रिणो जनाः।
धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे तु नोष्ट्रिणः॥ २५६॥

४. पादपूरणाद्यर्थमनर्थकम्; तस्य यमकादौ गुणत्वं, यथा—

‘योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम्।’
‘बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न॥ २५७॥’

५. रूढिच्युतमन्यार्थम्; तस्य प्रहेलिकादिषु गुणत्वं, यथा—

खातयः कनि काले ते स्फातयः स्फार्हवल्गवः।
चन्द्रे साक्षाद्भवन्त्यत्र तायवो मम धारिणः॥ २५८॥

६. तुच्छाभिधेयमपुष्टार्थम्; तस्य छन्दोऽनुरोधादौ गुणत्वं, यथा—

‘द्विरष्टवर्षाकृतिमेनमर्थिनामुशन्ति कल्पोपपदं महीरुहम्॥ २५९॥’

‘यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते॥ २६०॥’

७. अवाचकमसमर्थम्; तस्य सीत्कृतादौ गुणत्वं, यथा—(माघ. १०.६४)

आशु लम्बितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या।
रक्तवैणिककराहततन्त्रीमण्डलक्‍वणितचारु चुकूजे॥ २६१॥

८. शास्त्रमात्रप्रसिद्धमप्रतीतम्; तस्य तद्विद्यसम्भाषणादौ गुणत्वं, यथा—(माघ. २.२८)

सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम्।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम्॥ २६२॥

९. व्यवहितार्थप्रत्ययकृत् क्लिष्टम्; तस्य झटित्यर्थप्रतीतौ गुणत्वं, यथा— (रघु.१३.१)

‘अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः॥ २६३॥’

‘पितुः पदं मध्यममुत्पतन्ती’॥ २६४॥

(विक्र. १.२०) काञ्चीगुणस्थानमनिन्दितायाः’॥ २६५॥

(कुसं. १.२७) १०. अप्रसिद्धार्थप्रयुक्तं गूढार्थम्; तस्य तद‌‌्व्याख्यानादौ गुणत्वं, यथा—

अम्हारिसा वि कइणो कइणो हलिबुढ्‌ढसालिपमुहा इ।
मंडुक्कमक्कडा वि हु होंति हरी—सप्प—सीहा वि॥ २६६॥

(अस्मादृशा अपि कवयः कवयो हरिवृद्धशालिप्रमुखा अपि।
मण्डूकमर्कटा अपि खलु भवन्ति हरिः सर्पसिंहा अपि॥)

११. सङ्केतकल्पिताभिधेयं नेयार्थम्; तस्य प्रहेलिकादिषु गुणत्वं, यथा—

मोरु कलावेण वहइ तह णामह सरिणाउ।
उस्सीसा पाअंतिगओ अणुणत्तिहिं जणु णाउ॥ २६७॥

(मयूरः कलापेन वहति तस्य नाम्नः सदृशनामा।
उच्छीर्षात् पादान्तगतोऽनुनक्तं यथा नौका॥)

१२. अनिश्चयकृत् सन्दिग्धम्; तस्य प्रकरणादिभिर्विशेषावगमे गुणत्वं, यथा—(कुसं. १.२७)

‘महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्‍तिम्॥ २६८॥’

‘स शार्ङ्गचक्रासिगदाब्जपाणिर्मेघच्छविः पातु जगन्ति शौरिः॥ २६९॥’

१३. विपरीतकल्पन विरुद्धम्; तस्य तद्विधाभिधाने गुणत्वं, यथा— (माघ. १६.२)

अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः।
भवतोऽभिमनास्समीहते सरुषः कर्तुमुपेत्य माननाम्॥ २७०॥

१४. अविशेषाभिधायकमप्रयोजकम्; तस्य स्वरूपाभिधानादौ गुणत्वं, यथा—(कुसं. ६.३६)

‘त आकाशमसिश्याममुत्पत्य परमर्षयः॥ २७१॥’

‘साग्रं वर्षसहस्त्रं स तपस्तेपे महामनाः॥ २७२॥’

१५. अव्युत्पत्तिमद्देश्यम्; (तस्य) कविभिरङ्गीकृतत्वे गुणत्वं, यथा—(मामा. ५.२२)

षण्डेषूद्दण्डपिण्डीतगरतरलनाः प्रापिरे येन वेला— मालम्ब्योत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाः।
पातालप्रतिमल्लगल्लविवरप्रक्षिप्‍तसप्‍तार्णवं वन्दे नन्दितनीलकण्ठपरिषद्‍व्यक्तर्द्धि वः क्रीडितम्॥ २७३॥

‘किरन्तः कावेरीलडहलरीशीकरकणान्॥ २७४॥’

१६. अश्लीलामङ्गलघृणावदर्थं ग्राम्यम्; तस्य संवीतगुप्‍तलक्षितादौ न दोषः।

संवीतस्य हि लोके तु न दोषान्वेषणं क्षमम्।
शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना॥ २७५॥

तत्रासभ्यमसभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम्। तत्र—

१७. आद्यस्य तु गुणत्वं, यथा—

तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व।
योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम्॥

(कुसं. ३.१६) १८. द्वितीयस्य गुणत्वं, यथा—

‘सुदुस्त्यजा यद्यपि जन्मभूमिः’॥ २७७॥,

‘जनैरसम्बाधमयांबभूवे ॥ २७८॥’

‘स तेऽनुनेयः सुभगोऽभिमानी’॥ २७९॥,

‘भगिन्ययं नः प्रथमाभिसन्धिः॥ २८०॥’

१९. तृतीयस्य गुणत्वं, यथा—

ब्रह्माण्डकारणं योऽप्सु निदधे वीर्यमात्मनः।
उपस्थानं करोम्येष तस्मै शेषाहिशायिने॥ २८१॥

अमङ्गलार्थममङ्गलार्थान्तरममङ्गलस्मृतिहेतुश्चामङ्गलार्थम्; तत्र—

२०. आद्यस्य गुणत्वं, यथा—

भद्रे! मारि प्रशस्तं वद सदसि मुदा नृत्य कृत्ये! मुहूर्तं मृत्यो! रत्नैश्चतुष्कं विरचय रचयारात्रिकं कालरात्रि!।
चामुण्डे! मुण्डमालामुपनय विनयस्वायतां भैरवीर्ष्या— मेवं देवे भवानीं वहति परिजनव्याहृतिस्त्रायतां व॥ २८२॥

२१. द्वितीयस्य गुणत्वं, यथा—(वेसं. १.६)

सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे॥ २८३॥

२२. तृतीयस्य गुणत्वं, यथा—

कोऽभिप्रेतः सुसंस्थानस्तस्या इति न निश्चयः।
आशापिशाचिकैषा तु कुमारी मां वरिष्यति॥ २८४॥

२३. घृणावद् घृणावदर्थान्तरं घृणावत्स्मृतिहेतुश्च घृणावदर्थम्।

निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम्।
अतिसुन्दरमन्यत्र ग्राम्यकक्ष्यां विगाहते॥ २८५॥

(काव्याद. १.२४) यथा—(काव्याद. १.९६)

पद्मान्यर्काशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः।
भूयो वमन्तीव मुखैरुद्गीर्णारुणरेणुभिः॥ २८६॥

किञ्चिदाश्रयसौन्दर्याद्धत्ते शोभामसाध्वपि।
कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम्॥ २८७॥

(काव्याद. १.५५) यथा—(म.वी.च. १.३५)

आन्त्रप्रोतबृहत्कपालनलकक्रूरक्‍वणत्कङ्कण— प्रायप्रेङ्खितभूरिभूषणरवैराघोषयन्त्यम्बरम्।
पीतोचछर्दितरक्तकर्दमघनप्रारभारघोरोल्ललद्— व्यालोलस्तनभारभैरववपुर्बन्धोद्धतं धावति॥ २८८॥

सन्निवेशविशेषाच्च दुरुक्तमपि शोभते।
नीलं पलाशमाबद्धमन्तराले स्रजामिव॥ २८९॥

(भामहा. १.५४) यथा—(मामा. ५.१८)

आन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल— व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्त्रजः।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिब— न्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः॥ २९०॥

२४. एतेन द्वितीयतृतीययोरपि गुणत्वं व्याख्यातम्।

यथा—

मुखमापाण्डुगण्डं ते मदक्लिन्नकटः करी।
विशांपते! विशिष्टोऽपि सफलं ब्रह्मवर्चसम्॥ २९१॥

यथा च—

वर्षिष्ठाय यविष्ठाय प्रवीर्याय प्रचेतसे।
नमः कपर्दिने नीललोहितायाग्निरेतसे॥ २९२॥

(वाक्यदोषाणामदोषत्वम्)

अथ वाक्यदोषाणामदोषः, तत्र

१. शब्दहीनस्य क्‍वचिद् विवक्षातो गुणत्वम्। यथा—

आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम्।
कोशदण्डसमग्राणां किमेषामस्ति दुष्करम्॥ २९३॥

(काव्याद. २.३६१) इदं हि शास्त्रमाहात्म्यदर्शनालसचेतसाम्।
अपभाषणवद्भाति न च सौभाग्यमुज्झति॥ २९४॥

(काव्याद. ४.२८) अनुकम्पाद्यतिशयो यदि कश्चिद्विवक्ष्यते।
न दोषः पुनरुक्तोऽपि प्रत्युतेयमलङ्क्रिया॥ २९५॥

(काव्याद. ४.१४) यथा—(काव्याद. ४.१५)

हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी॥ २९६॥

२. यत्नः सम्बन्धनिर्ज्ञातहेतुः कोऽपि कृतो यदि।
क्रमलङ्घनमप्याहुर्निर्दोषं सूरयो यथा॥ २९७॥

(कांव्याद. ४.२३) बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु।
आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः॥ २९८॥

(काव्याद. ४.२४) यदा तीव्रप्रयत्नेन संयोगादेरगौरवम्।
न च्छन्दोभङ्गमप्याहुस्तददोषाय सूरयः॥ २९९॥

जह ण्हाउं ओइण्णे अब्भन्तमुल्हासिअमंसुअद्धन्तं।
तह अण ण्हाओ सि तुमं सच्छे गोलाणईतूहे॥ ३००॥

(यथा स्नातुमवतीर्णे आर्द्रीभूतमुल्लासितमंशुकार्धान्तम्।
तथा च न स्नातो भवसि त्वं स्वच्छे गोदानदीतीर्थे॥)

३. अस्थानविंरति यतिभ्रष्टम्—

स्वरसन्ध्यकृते प्रायो धातुभेदे तदिष्यते।
नामभेदे च शेषेषु न दोष इति तद्विदः॥ ३०१॥

यथा—

‘शोभां पुष्यत्ययमभिनवः सुन्दरीणां प्रबोधः’॥ ३०२॥

‘किञ्चिद् भावालसमसरलप्रेक्षितं कामिनीनाम्॥ ३०३॥

कार्याकार्याण्ययमविकलान्यागमेनैव पश्‍यन्।
वश्‍यामुर्वीं वहति नृप इत्यस्ति चैवं प्रयोगः॥ ३०४॥ (काव्याद. ४.३०)

अत्र च— (काव्याद. ४.३१)

लुप्‍ते पदान्ते शेषस्य पदत्वं निश्चितं यथा।
तथा सन्धिविकारान्तं पदमेवेति वर्ण्यते॥ ३०५॥

४. विरूपसन्धि विसन्धि— (काव्याद. ४.३६)

न संहितां विवक्षामीत्यसन्धानं पदेषु यत्।
तद् विसन्धीति निर्दिष्टं न प्रगृह्यादिहेतुकम्॥ ३०६॥

यथा—(कासूवृ. २.२.८)

‘कमले इव लोचने इमे अनुबन्धाति विलासपद्धतिः॥ ३०७॥’

‘स इतोऽन्य ऋतावृतप्रियो
न ऋचस्त्वं न यजूंषि ऊहसे॥ ३०८॥’

पदानां व्युत्क्रमो यत्र क्रमेण व्युत्क्रमेण वा।
तद् व्याकीर्णं विदुस्तस्य न दोषः कोऽपि तद् यथा॥ ३०९॥

जुगुप्सत स्मैनमदुष्टभावं मैवं भवानक्षतसाधुवृत्तः।
इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः॥ (जाह. १.८५)

५. पर्यायेण द्वयोर्यत्र वाक्यं प्रश्‍नोत्तरादिषु।
सङ्कीर्णं तन्न दोषाय वाकोवाक्यविदो विदुः॥ ३११॥

(यथा)— (अमरुक. ५७)

बाले! नाथ! विमुञ्च मानिनि! रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि।
तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते
नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते॥ ३१२॥

६. वाक्यान्तरसगर्भं यत् तद् वाक्यं गर्भितं विदुः।
रसान्तरविरस्कारे तदिष्टं नेष्टमन्यथा॥ ३१३॥

यथा—

दिङ्‍मातङ्गघटाविभक्तचतुराघाटा मही साध्यते. (पृ. ३६२)

७. देशभाषाप्रभेदेन प्रकृत्यादिभिदापि वा।
अपदं तस्य चानुज्ञा भाषाचित्रेषु तद्यथा॥ ३१४॥

हा तो जो ज्जलदेउ नैव पदनः साक्षादयं भूतले
तत्किं दीसइ सच्चमा हतवपुः कामः किल श्रूयते।
ऐ पच्छा किअलेउ भूतपतिना गौरीविवाहोत्सवे
ऐसें सच्च जि बोल्लु हस्तकटकः किं दर्पणेनेक्ष्यते॥ ३१५॥

८. अशरीरं क्रियाहीनं क्रियापेक्षा न यत्र तु।
यत्रास्त्यादेरपेक्षा वा न दोषस्तत्र तद्यथा॥ ३१६॥

कियन्मात्रं जलं विप्र जानुदघ्‍नं नराधिप।
तथापीयमवस्था ते न सर्वत्र भवादृशाः॥ ३१७॥

यत्रोपमाने धर्माः स्युर्नोपमेयेन सम्मिताः।
तदूनोपममित्याहुस्तत्प्रसिद्धौ न दुष्यति॥ ३१८॥

यथा— (भामहा. २.४१,४२,४३,४४)

स मारुताकम्पितपीतवासा बिभ्रत् सलीलं शशिभासमब्जम्।
यदुप्रवीरः प्रगृहीतशार्ङ्गः सेन्द्रायुधो मेघ इवाबभासे॥ ३१९॥

शक्रचापग्रहादत्र दर्शितं किल कार्मुकम्।
वासः शङ्खानुपादानादूनमित्यत्र चोच्यते॥ ३२०॥

सर्वं सर्वेण सारूप्यं नास्ति भावस्य कस्यचित्।
यथोपपत्ति कृतिभिरुपमानं प्रयुज्यते॥ ३२१॥

अखण्डमण्डलः क्‍वेन्दुः क्‍व कान्ताननमद्युति।
यत्किंचित्कान्तिसाम्यात्तु शशिनेवोपमीयते॥ ३२२॥

९. तेनाधिकोपमं व्याख्यातम्। यथा—(भामहा. २.५८, ५९)

स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः।
शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः॥ ३२३॥

शशिनो ग्रहणादेतदाधिक्यं किल न ह्ययम्।
निर्दिष्ट उपमेयेऽर्थे वाच्यो वा जलजोऽत्र तु॥ ३२४॥

न सर्वसारूप्यमयं विस्तरेणोदितो विधिः।
अभिप्रायात्कवेर्वात्र विधेया जलजे मतिः॥ ३२५॥

(भामहा. २.६०) भिन्नलिङ्गत्वमप्याहुरुपमादूषणं तथा।
वचोभेदो न दोषाय यत्रोद्वोगो न धीमताम्॥ ३२६॥

(काव्याद. २.५१) तत्र लिङ्गभेदे न दोषो यथा—

अन्यदा भूषणं पुंसः शमो लज्जेव योषितः।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव॥ ३२७॥

(माघ. २.४४) वचनभेदे न दोषो यथा—

आज्ञा इव जगन्मृत्योः प्राणा इव नयश्रियः।
गृहा इव तपस्सिद्धेर्दारा इव विभोर्गतिः॥ ३२८॥

१०. श्लिष्टमस्पृष्टशैथिल्यं शिथिलं तद्विपर्ययः।
गौडीयैरिष्यते तत्तु बन्धप्राशस्त्यगौरवात्॥ ३२९॥

(काव्याद. १.४३) यथा—(काव्याद. १.४४)

लीलाविलोलललनाललितालकलालसाः।
विलुप्‍तमालतीमाला जलकालानिला ववुः॥ ३३०॥

११. अनालोच्यैव वैषम्यमर्थालङ्कारडम्बरौ।
अवेक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः॥ ३३१॥ (काव्याद. १.५०)

यथा—(काव्याद. १.४९)

चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः।
स्पर्धते रुद्धमद्धैर्यो वररामाननानिलैः॥ ३३२॥

दीप्‍तमित्यपरैर्भूम्‍ना कठोरमपि बध्यते।
न्यक्षेण पक्षः क्षपितः क्षत्रियाणां क्षणादिति॥ ३३३॥

(काव्याद. १.७२) १२. आविद्वदङ्गनाबालप्रसिद्धार्थं प्रसादवत्।
विपर्ययोऽस्याप्रसन्नं चित्रादौ तन्न दुष्यति॥ ३३४॥

(भामह. २.३) यथा—(देवीश.)

याश्रिता पावनतया यातनाच्छिदनीचया
याचनीया धिया मायायामायासं स्तुता श्रिया॥ ३३५॥

१३. अध्याहारादिगम्यार्थे नेयार्थमिति तद्विदुः।
प्रसिद्धेर्गम्यते यस्मिन्न च तद्दोषवद्यथा॥ ३३६॥

मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा।
वाहिनीजलभरः कुलिशं वा स्विस्ति तेऽस्तु लतया सह वृक्ष॥ ३३७॥

१४. असभ्यार्थं मतं ग्राम्यं तद् ग्राम्योक्‍त्यैव दुष्यति।
विदग्धोक्तौ तु तस्याहुर्गुणवत्त्वं मनीषिणः॥ ३३८॥

यथा—(काव्याद. १.६४)

कामं कन्दर्पचण्डालो मयि वामाक्षि निर्दयः।
त्वयि निर्मत्सरो दिष्ट्‍येत्येवमादि यथोदितम्॥ ३३९॥

१५. ओजः समासभूयस्त्वं तद्दीप्‍तार्थेषु बध्यते।
विपर्ययोऽस्यासमस्तं दीप्‍तार्थं चैन्न दोषभाक्॥ ३४०॥

यथा—(वेसं. ३.२२)

यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां
यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः
क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम्॥ ३४१॥

१६. समस्तमसमस्तं वा न निर्वहति यद् वचः।
तदनिर्व्यूढमस्यापि न दोषः क्वापि तद्यथा॥ ३४२॥

प्रसीद चण्डि! त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः।
किमर्थमुत्कम्पितपीवरस्तनद्वयं त्वया लुप्‍तविलासमास्यते॥ ३४३॥

१७. अनलङ्कारमित्याहुरलङ्कारोज्झितं वचः।
पूर्वोत्तरानुसन्धाने तस्य साधुत्वमिष्यते॥ ३४४॥

यथा—(माघ. २.६८)

निशम्य ताः शेषगवीरभिधातुमधोक्षजः।
शिष्याय बृहतां पत्युः प्रस्तावमदिशद् दृशा॥ ३४५॥

(वाक्यार्थदोषाणामदोषः)

अथ वाक्यार्थदोषाणामदोषः। तत्र च —

१. समुदायार्थशून्यं यत् तदपार्थं प्रचक्षते।
तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दुष्यति॥ ३४६॥ (काव्याद. ४.५)

यथा—

क्‍वाकार्यं शशलक्ष्मणः क्‍व च कुलं भूयोऽपि दृश्‍येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम्।
किं वक्ष्यन्त्यपकल्पषाः कतधियो रेखैव सान्यादृशी
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति॥ ३४७॥

२. यदप्रयोजनं यच्च गतार्थे व्यर्थमेव तत्।
तस्यापि क्‍वापि निर्दोषः प्रयोगो दृश्‍यते यथा॥ ३४८॥

गीता विदुरवाक्यानि धर्माः शान्तनवेरिताः।
न श्रुता भारते येन तस्य जन्म निरर्थकम्॥ ३४९॥

हृत्कण्ठवक्त्रश्रोत्रेषु कस्य नावस्थितं तव।
श्रीखण्डहारकर्पूरदन्तपत्रप्रभं यशः॥ ३५०॥

३. अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीर्त्यते।
तदेकार्थं रसाक्षिप्‍तचेतसां तन्न दुष्यति॥ ३५१॥

यथा—(मामा. ५.३०)

असारं संसारं परिमुषितरत्‍नं त्रिभुवनं
निरालोकं लोकं मरणशरणं बान्धवजनम्।
अदर्पं कन्दर्पं जननयननिर्माणमफलं
जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः॥ ३५२॥

४. संशयायैव सन्दिग्धं यदि जातु प्रयुज्यते।
स्यादलङ्कार एवासौ न दोषस्तत्र तद्यथा॥ ३५३॥

कत्तो लम्भइ पंथिअ सत्थरअं एत्थ गामणिघरम्मि।
उण्णअपओहरे पेक्खिऊण जइ वससि ता वससु॥ ३५४॥

(गास.वे. ८७९) (कुतो लभ्यते पथिक स्रस्तरकमत्र ग्रामणीगृहे।
उन्नतपयोधरान् प्रेक्ष्य यदि वससि तद् वस॥)

५. वाक्ये प्रबन्धे चार्थानां पौर्वापर्यविपर्ययः।
दोषः सोऽपक्रमो नाम चित्रहेतौ न दुष्यति॥ ३५५॥

यथा—(काव्याद. २.२५७)

पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम्।
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः॥ ३५६॥

६. यस्मिन् रीतेरनिर्वाहः खिन्नं तदभिधीयते।
न दोषस्तस्य तु क्‍वापि यत्र च्छाया न हीयते॥ ३५७॥

यथा—

अभिनववधूरोषस्वादुः करीषतनूनपा—
दसरलजनाश्लेषक्रूरस्तुषारसमीस्णः।
गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवे—
र्विरहिवनितावक्त्रक्लैब्यं बिभर्ति निशाकरः॥ ३५८॥

७. लोकातीत इवार्थो यः सोऽतिमात्र इहेष्यते।
वार्तादौ तेन तुष्यन्ति विदग्धा नेतरे जनाः॥

(काव्याद. १.८५, ८९) तच्च वार्ताभिधानेषु वर्णनास्वपि विद्यते।
कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात्॥ ३६०॥

(काव्याद. १.८९) वार्ताभिधाने यथा—

गृहाणि नाम तान्येव तपोराशिर्भवादृशः।
सम्भावयति यान्येवं पावनैः पादपांसुभिः॥ ३६१॥

(काव्याद. १.८६) वर्णनायां यथा—

अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः।
अवकाशो न पर्याप्‍तस्तव बाहुलतान्तरे॥ ३६२॥ (काव्याद. १.८७)

इति संभाव्यमेवैतद्विशेषाख्यानसंस्कृतम्।
कान्तं भवति सर्वस्व लोकसीमानु वर्तिनः॥ ३६३॥

(काव्याद. १.८८) तदतिक्रमे वार्ताभिधानं यथा—(काव्याद. १.९०)

देवधिष्णयमिवाराध्यमद्यप्रभृति नो गृहम्।
युष्मत्पादरजः पातधौतनिश्शेषकल्मषम्॥ ३६४॥

वर्णना यथा—(काव्याद. १.९१)

अल्पं निर्मितमाकाशमनालोच्यैव वेधसा।
इदमेवंविधं भावि भवत्यास्स्तनजृम्भणम्॥ ३६५॥

८. इदमत्युक्तिरित्युक्तमेतद्गौडोपलालितम्।
प्रस्थानं प्राक्प्रणीतं तु सारं वैदर्भवर्त्मनः॥ ३६६॥ (काव्याद. १.९२)

परुषं निष्ठुरार्थं यदतीव हि विगर्हितम्।
विरुद्धलक्षणाद्यासु तदुक्तिषु न दुष्यति॥ ३६७॥

यथा—

हालाहलं विषं भुङ्क्ष्व सखि मा तत्र विश्वसीः।
यद्वा न दह्यसे काष्ठैः स्वल्पैस्त्वमिति मे मतिः॥ ३६८॥

९. अप्रस्तुतरसं प्राहुर्विरसं वस्तु सूरयः।
इष्टं तस्याप्यनुज्ञानमप्राधान्ये तयोर्यथा॥ ३६९॥

क्षिप्‍तो हस्तावलग्‍नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्‍णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण।
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्‍निः॥

(अमरुक. २) १०. हीनं यत्रोपमानं स्यादुपमेयं गुणाधिकम्।
हीनोपमं तदप्याहुर्न दोषः क्‍वापि तद्यथा॥ ३७१॥

ततः कुमुदनाथेन कामिनीगण्डपाण्डुना।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता॥ (महाभा. द्रोण. १८४.४६)

यत्रोपमानमुत्कृष्टमुपमेयं निकृष्यते।
ज्ञेयं तदधिकौपम्यमस्यापि क्‍वाप्यदोषता॥ ३७३॥

यथा—(काव्याद. २.५०)

कान्त्या चन्द्रमसं धाम्‍ना सूर्यं धैर्येण चार्णवम्।
राजन्ननुकरोषि त्वं सौभाग्येनापि मन्मथम्॥ ३७४॥

११. उपमानेन वैषम्याद् भवेदसदृशोपमम्।
तस्याभ्यनुज्ञामिच्छन्ति व्यतिरेकोपमादिषु॥ ३७५॥

प्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव॥

(माघ. १६.५२) यस्योपमानं लोकेषु न प्रसिद्धं तदिष्यते।
अप्रसिद्धोपमं नाम तत्कवचिन्नैव दुष्यति॥ ३७७॥

यथा—

उद्‍गर्भहूणरमणीरमणोपमर्दभग्‍नोन्नतस्तननिवेशनिभं हिमांशोः।
बिम्बं कठोरबिसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति॥ ३७८॥

१२. निरलङ्कारमित्याहुरलङ्कारोज्झितं वचः।
अर्थौर्जित्येषु तस्यापि क्‍वचिन्निर्दोषता यथा॥ ३७९॥

याञ्चां दैन्यपराभवप्रणयिनीं नेक्ष्वाकवः शिक्षिताः
सेवासंवलितः कदा रघुकुले मौलौ निबद्धोऽञ्जलिः।

सर्वं तद् विहितं तदाप्युदधिना नैवोपरोधः कृतः
पाणिः सम्प्रति मे हठात् किमपरं स्प्रष्टुं धनुर्वाञ्छति॥ ३८०॥

१३. असभ्यार्थं यदश्लीलं यदर्थान्तरवाचि वा।
तस्येह दृश्‍यते भूम्‍ना प्रयोगो नापि दृष्यति॥ ३८१॥

यथा—

अद्यापि तत्कनककुण्डलघृष्टगण्डं
वक्त्रं स्मरामि विपरीतरताभियोगे।
आन्दोलनश्रमवशस्फुटघर्मबिन्दु—
मुक्ताफलप्रकरविच्छुरितं प्रियायाः॥ ३८२॥

(चौप.१२) १४. देशोऽद्रिवनराष्ट्रादिः कालो रात्रिंदिवर्तवः।
नृत्तगीतप्रभृतयः कलाः कामार्थसंश्रयाः॥ ३८३॥

(काव्याद. ४.४०—४२) चराचराणां भूतानां प्रवृत्तिर्लोकसंज्ञिता।
हेतुविद्यात्मको न्यायः सस्मृतिश्रुतिरागमः॥ ३८४॥

तेषु तेष्वयथारूढं यदि किञ्चित् प्रवर्तते।
कवेः प्रमादाद्देशादिविरोधीत्येतदुच्यते॥ ३८५॥

विरोधः सकलोऽप्येष कदाचित् कविकौशलात्।
व्युत्क्रम्य दोषगणनां गुणवीथीं विगाहते॥

(काव्याद. ४.५७) तत्र देशविरुद्धस्य गुणभावो यथा—

तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे।
आर्द्रांशुकप्रवालानामास्पदं सुरशाखिनाम्॥ ३८७॥

(काव्याद. ४.५८) कालविरुद्धस्य यथा—

राज्ञां विनाशपिशुनश्चचार खरमारुतः।
धून्वन् कदम्बरजसा सह सप्‍तच्छदोद्गमान्॥ ३८८॥

(काव्याद. ४.५९) लोकविरुद्धस्य यथा—

ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम्।
अबलाविरहक्‍लेशविह्वलो गणयत्ययम्॥ ३८९॥

(काव्याद. ४.६१) युक्तिविरुद्धस्य यथा—

स सङ्कोचश्चन्द्रादिव कुमुदराशेरशरणः
स सूर्यात् कोकानां विरह इव लुप्‍तप्रतिविधिः।
गुणेभ्यस्ते खेदप्रशमनपरेभ्योऽपि यदयं
खलानामुद्‍वेगस्तदिदममृतादेव मरणम्॥ ३९०॥

औचित्यविरुद्धस्य यथा—(रा.च.१९.८९)

तेनाथ नाथ दुरुदाहरणातपेन
सौम्यापि नाम परुषत्वमभिप्रपन्ना।
जज्वाल तीक्ष्णविशदाः सहसोद्गिरन्ती
वागर्चिषस्तपनकान्तिशिलेव सीता॥ ३९१॥

वचनविरुद्धस्य यथा—(काव्याद. ४.१०)

अस्ति काचिदवस्था सा साभिषङ्गस्य चेतसः।
यस्यां भवेदभिमता विरुद्धार्थापि भारती॥ ३९२॥

परदाराभिषङ्गो मे कथमार्यस्य युज्यते।
पिबामि तरलं तस्याः कदा नु दशनच्छदम्॥ (काव्याद. ४.११)

धर्मविरुद्धस्य गुणीभावो यथा—(काव्याद. ४.६३)

पञ्चानां पाण्डुपुत्राणां पत्‍नी पाञ्चालकन्यका।
सतीनामग्रणीश्चासीद्दैवो हि विधिरीदृशः॥ ३९४॥

अर्थविरुद्धस्य गुणीभावो यथा—

नीतिरापदि यद्गम्यः परस्तन्मानिमो ह्रिये।
विधुर्विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः॥ ३९५॥ (माघ. २.६१)

कामविरुद्धस्य गुणीभावो यथा—

दोलातिप्रेरणत्रस्तवधूजनमुखोद्‍गतम्।
कामिनां लयवैषम्याद् गेयं रागमवर्धयत्॥ ३९३॥ (काव्याद. ४.६०)

एवमन्येऽपि द्रष्टव्याः। तद्यथा शिरश्शेखरः, कर्णावतंसः, श्रवणकुण्डलं, पुष्पमाला, धनुर्ज्या, टङ्कारध्वनिः, करिकलभ इत्यादिना पुष्टार्थत्वमर्थविशेषप्रतीतेः। तथा हि—शिरश्शेखरादीनां प्रभृतियोगः(?), पुष्पमालायां वैशा x x x दिप्राशस्त्यं, धनुर्ज्यायामारूढिः, करिकलभे करिप्रमाणता प्रतीयते। भुवनशिरश्शेखरः, पृथ्वीकर्णावतंसः, सरस्वतीश्रवणकुण्डलं, रत्‍नमाला, धनुर्ज्या, टङ्कारध्वनिः, कुचकुम्भः, करिकलभकः इत्यादिषूपचारः।

ननु च गुणकल्पनेयं नोपचारकल्पना। तथा हि—विशेष्येषु गुणकल्पना विशेषणेषूपचारकल्पनेति प्रदर्शितं पुरस्तात्।१ न च गुणवृत्तिरुपचारवृत्तावन्तर्भवति, अपि तूपचारवृत्तिर्गुणवृत्तौ। द्विधा हि गौणी, गुणनिमित्ता उपचारनिमित्ता च। सत्यमेतत्। किंतु व्यवहितप्रतिपत्तिसाधनत्वसाधर्म्याददूरविप्रकर्षेण गौणीमप्युपचरितामेवाचक्षते।

अक्षपादस्तु ‘सहचरणस्थानतादर्थ्यादिभ्यस्तद्वदुपचार’ इति ब्रुवाणो (न्यायसू. २.२) यष्टीः प्रवेशय, मञ्चाः क्रोशन्ति, मल्लिका प्रदीप इत्यादिषु लक्षणामप्युपचारपक्षे प्रतिक्षिपति। न च लक्षणागौण्योरभेद इति वक्तव्यम्। यदाह भट्टः —

अभिधेयाविनाभूतप्रतीतिर्लक्षणेष्यते।
लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु गौणता॥ ३९७॥

(तवा. १४.२२) १. पृष्ठ ४४। तत्र लक्षणायां यथैवाकृतिवचनः शब्दः तत्सहचरितां व्यक्तिं लक्षयति तथैव यष्टिमञ्चप्रदीपादयस्तत्सम्बद्धपुरुषादिलक्षणार्थाः प्रथन्ते। गौण्यां पुनरग्‍निर्माणवकः, सिंहो देवदत्तः, गौर्बाहीकः, इत्यादिषु नाग्‍नित्वाद्यविनाभावेन माणवकादयः प्रतीयन्ते। किं तर्हि—

वह्नित्वलक्षणादर्थाद् यत्पैङ्गल्यादि गम्यते।
तेन माणवके बुद्धिः सादृश्‍यादुपजायते॥ ३९८॥

(तवा. १४.२२) ननु च न गौणमुख्ययोर्विवेको युज्यते। तथा हि— एक एवायं गोशब्दो वाक्ये क्‍वचिज्जातिविशेषाभिधायी गौरनुबन्ध्य इति, क्‍वचिज्जात्युपसर्जनद्रव्यमात्रवाची गौरानीयतामिति, क्‍वचित्परिच्छिन्न एव द्रव्यविशेषे वर्तते, अस्त्यत्र कांचिद् गां पश्‍यसीति (मभा. १.२.५८); क्‍वचित्तु रूढसम्बन्धेषु क्रियागुणेषु गोशब्दः प्रयुज्यमानो दृश्‍यते, यथा— जाड्यादौच्छिष्ट्यात् सर्वसहत्वान्महाशनत्वाद् वा गौर्बाहीक इति। तदेवं सर्वशक्तेर्गोशब्दस्यार्थप्रकरणादिभिरवच्छिद्यमानसामर्थ्यस्य पृथिव्यादाविव बाहीकेऽपि वर्तमानस्य न गौणत्वमुपपद्यते। तदाह—(वाप. २.२५३)

सर्वशक्तेस्तु तस्यैव शब्दस्यानेककर्मणः।
प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं वा प्रकल्प्यते॥ ३९९॥

तथा हि— (वाप. २.२५२)

यथा सास्‍नादिमान् पिण्डो गोशब्देनाभिधीयते।
तथा जाड्यादिगुणवान् बाहीकोऽप्यभिधीयते॥ ४००॥

यत्र स्वविषय एव शब्दः प्रयुज्यते तत्र मुख्यः। यत्र तु कुतश्चिन्निमित्तात् प्रवृत्तिनिमित्तमर्थान्तरेऽध्यस्य प्रयुज्यते तत्र गौणः।

यद्यपि जातिशब्दः तया जात्या स्वनिबन्धनभूतया विनात्यन्तानभिधेये क्रियागुणमात्रद्वारेण नान्यत्र वर्तितुमर्हति, न च शब्देनाप्रवर्तमानेन गौर्बाहीक इति सामानाधिकरण्यप्रयोगो घटते, तथापि यथा— कथंचित् सम्मोहाद् रज्जुद्रव्ये प्राप्‍ते बुद्धिविपर्ययांदर्थान्तरेऽर्थाररूपमध्यारोप्य स्वविषय एव सर्पशब्दं प्रयुङ्क्ते तथा कस्यचिदेव सदृशस्य धर्मस्य भूतस्य दर्शनाद् भाविनो वा भूतासङ्गात् प्राप्‍तरूपविपर्यासायां बुद्धौ बाहीके गोत्वमासज्य गोशब्दं सास्‍नादिमत्येव पिण्डे प्रयुङ्क्ते।

एवमप्यर्थरूपमात्रविपर्ययः, शब्दस्य तु स्वविषयव्यभिचारो न विद्यते।

न चाध्यारोपः शक्यते कर्तुम्। तथा हि — यदा तावद् भ्रान्त्या मृगतृष्णायां तोयं शुक्तिकायां रजतमध्यारोप्य तच्छब्दं प्रयुङ्क्ते तदोभयोः प्रतिपाद्यप्रतिपादकयो— र्मुख्याध्यवसानरूपेणैव तोयादिप्रतीतेस्तद्भावापत्तिर्मुख्यत्वम्; अथापि वक्ता विवेकी सन् इतरवञ्चनार्थं प्रयुङ्क्ते, श्रोता च न विविङ्क्ते, तदा तु एकस्य विवेकेना— ध्यारोपाभावादितरस्य च विपर्ययमुख्यत्वान्नैकमपि प्रति गौणत्वोपपत्तिः।

यदा तु द्वावप्यभ्रान्तौ तदोभयोः सादृश्‍यादिनिमित्तात् तन्निमित्तवत्य— र्थाध्यवसानादध्यारोपाभावः। यथैव ह्यसदृशानामर्थानां तिक्तमधुरादीनां न कथंचिदपि प्रतीत्यभावात् परस्पराध्यारोपणम्, एवं सदृशानामपि विवेकज्ञानात् नोपपद्यते। न च प्रतीतिविपरीतं ज्ञानं व्यवहाराङ्गं भवति।

न च प्रवृत्तिनिमित्तमन्तरेण शब्दो न प्रवर्तते, बुद्धिस्तु विषयमन्तरेणापि प्रवर्तत इति वक्तुमुचितम्।

न चार्थरहिता बुद्धिरात्माकारमात्रमनुभविष्यतीति वक्तव्यम्। नीलमिद— मित्यादिबुद्धिषु ग्राह्यस्य बाह्यत्वेनैवावभासात्।

अपि चायं गौणमुख्याविभागः श्रोतॄणामर्थविशेषावधारणे व्याप्रियते। ते च पदश्रवणवेलायामनध्यारोपितस्वार्थवृत्त्यैव गवादिपदमध्यवसाय बाहीकादिपदसामाना— धिकरण्यान्यथानुपपत्त्या गौणतां परिकल्पयन्ति। तत्र चैषां स्वयमनध्यारोप्यैव गोत्वं, तत्सादृश्‍यप्रतीतिर्भवति। सा च किं शब्दाद् अर्थाद् वेत्यन्विच्छतामन्वयव्यति— रेकाभ्यामर्थादिति निश्चयो जायते।

कथम्?

सिंहशब्दे ह्यनुक्तेऽपि सिंहार्थसदृशी मतिः।
जायते न त्वबुद्धेऽर्थे सिंहशब्दे श्रुतेऽपि नः॥ ४०१॥

(तवा. १.४.२५) यदा च श्रोतॄणां स्वयमेवाध्यारोपाभावस्तदा वक्तर्यपि नैवैषामियं कल्पना भवति; यथा कृतमनेन सिंहत्वमध्यारोपितमिति।

कथं तर्हि सिंहत्वाविनाभूतानेकक्रियागुणसमुदायोऽनेन देवदत्ते विवक्षितः?

यत्‍नगौरवभयान्न स्वैरभिधानैर्ब्रवीति। न चास्य समस्तस्य किंचिदेकं वाचकं १. पृष्ठ ३३४ पदमस्ति। तेनाविनाभावितया कथं तु सिंहत्वात् तत्प्रतीतिर्भवेदिति तत्तावदभिधीयते यतः स्थितया शब्दशक्‍त्या पुंसां व्यवहारो न तद्वशेन शक्‍त्यन्तरोपजन इति। किंच—(तवा. १.४.२२)

यदध्यासेन वक्तॄणां गौणी वृत्तिः प्रकल्प्यते।
वेदे सा न कथंचित् स्यादध्यारोपयितुर्विना॥ ४०२॥

एवं तर्हि सर्व एते गवादिशब्दा जातिद्रव्यगुणक्रियासमुदायवाचिनः समस्तार्थासम्भवे सास्‍नादिमदादौ प्रयुज्यमाना मुख्याः बाहीकादौ तु कतिपयगुणक्रियायोगात् प्रवर्तमाना गौणतां लभन्ते। तत्राभिधीयते—

समुदायार्थवाचित्वे नैकदेशे भवेद् गतिः।
शतशब्दान्न पञ्चाशन्मुख्यरूपेण गम्यते॥ ४०३॥

(तवा.) भवति तु जातिमात्रे दृष्टे सर्वक्रियागुणप्रत्यस्तमयेऽपि प्रयोगः प्रत्ययश्च मुख्यात्मनैव, न बाहीकादिष्विव गोशब्दादुपचरितः। अप्रसह्यकार्यपि हि कदाचिद् रोगेणोपहतः सिंह्याः पुत्रः सिंह एव। जातिवाचिता च गवादिशब्दानां १पुरस्तादुक्ता बाध्येत। क्रियागुणानां त्वानन्त्यान्न शक्यं प्रतिव्यक्ति गुणसम्बन्धोऽनुभवितुम्।

एकस्यामेव च व्यक्तौ बाल्यादिषु गुणक्रियाः।
अन्याश्चान्याश्च शक्यन्ते नाभिधातुमसङ्गतेः॥ ४०४॥

(तवा.) न चान्यत् सामान्यं शक्यते कल्पयितुम्, जात्यन्तरेऽपि क्‍वचित् कासांचित्सम्भवात्। न चानभिहितं गोत्वं गुणक्रियाणां व्यवच्छेदकं भवति, अप्रतीतेः। अभिहितं चेत् तत्प्रत्ययादेवाशेषगुणक्रियावगमादभिधानशक्‍तयनवसर इति। (तन्त्रवा.)

अन्ये तु शक्तिप्रमाणादिभिर्न्यूनं गौणम्, अतिशयवन्तं सम्पूर्णं मुख्यमित्याचक्षतें न्यूना हि देवदत्ते शक्तिः सम्पूर्णा सिंहे, अल्पं प्रमाणं कूपे महत् समुद्र इति। (वाप. २.२५३)

तत्रापरे ब्रुवते (तवा.)—शब्दाभिधेयतया न्यूनमधिकं वा विज्ञायते, न तु शक्तिप्रमाणाद्युपचयापचयेन। यो हि शब्दो येनार्थेनावबद्धोऽर्थान्तरं नीयते तदुपचितमप्यर्थरूपं तच्छब्दं प्रति न्यूनमेव। तथा हि—‘कूपः समुद्रः पाटलीपुत्रः स्वर्ग’ इत्यादौ अल्पप्रमाणशक्त्यादावपि स्वार्थे कूपादिशब्दानां मुख्यत्वमेव। अतः ‘स्वार्थे प्रवर्तमानो मुख्योऽर्थान्तरे तु गौण’ इति न्याय्यम्।

तत्र जातिः गवादिशब्दानां प्रवृत्तिनिमित्तं, जातौ हि स्वार्थे प्राप्‍तस्वरूपाण्य— भिधांनानि तत्सहचरितांस्तद्वारेणैव धर्मान् संस्पृशन्ति। तत्र रूढसम्बन्धस्य प्रसिद्धसाहचर्यस्य क्रियागुणादेर्धर्मान्तरस्य दर्शनादतज्जातीयेषु जातिशब्दः प्रयुज्यमानो गौण इत्युच्यते। डित्थाडिष्वप्यनाश्रिताकृतिषु क्रियागुणनिमित्तायां शब्दप्रवृत्तावर्थान्तर— समुद्भवाद् गवादिवदेव गौणमुख्यत्वे।

अत्राहुः—अजहत्स्वार्थाः सर्वा वृत्तयः पूर्वशक्‍त्यनुसारसम्भवे शक्‍त्यन्तरकल्पने प्रमाणाभावात्; सम्भविष्यति चात्र गोत्वावगतव्यक्‍त्युपस्थापितजाड्याद्यनेक— धर्मप्रत्ययाद् बाहीके प्रत्यय इति पूर्वैव शक्तिर्निमित्तम्। अतो न संशयहेतुत्वेन व्यवहारोच्छेदकारणं प्रसिद्धहानाप्रसिद्धकल्पनमाश्रयणीयम्।

अपि च यथा गौर्बाहीक इति कृतप्रत्ययलोपो गोशब्दो बाहीकार्थान्तरे प्रवर्तमानो गौण इत्युच्यते, तथा गर्गस्यापत्यानि बहूनि गर्गाः, विदा इति प्रत्ययलोपात् प्रकृतिशब्दाः प्रत्ययार्थे वर्तमाना अर्थान्तरवचनत्वाद् गौणा भवेयुः (वाप. २.२२१) तस्मादेक एव शब्दोऽनेकमर्थं यौगपद्येन पर्यायेण वाभिधत्ते, न तु स्वार्थमुत्सृज्यार्थान्तरे प्रवर्तते। प्रसिद्ध्यप्रसिद्धिभ्यां च तस्य मुख्यगौणव्यपदेशो जायते (वाप. २.२६३)। तत्र यौगपद्येऽपि यदा प्रसिद्धेनार्थेनावच्छिद्यते शब्दस्तदा मुख्यव्यपदेशं लभते। अप्रसिद्धेन त्वर्थेन प्राप्‍तावच्छेदस्य गौणव्यपदेशो भवति। पर्यायेणापि यस्मिन् वाक्ये प्रसिद्धार्थः शब्दस्तस्त्र मुख्यः अन्यत्र तु गौणः। तदाह—

विपर्यासादिवार्थस्य यत्रार्थान्तरतामिव।
मन्यते स गवादिस्तु गौण इत्युच्यते क्‍वचित्॥ ४०५॥ (वाप. २.२७४)

तस्माल्लब्ध्वा भवतु सोऽयमिति वा संबन्धः क्रियताम्। सर्वथा यत्रार्थान्तरवाची शब्दः कुतश्चिन्निमित्तात् परित्यज्यैव स्वार्थमर्थान्तरे वर्तते, ‘यौगपद्यमतिक्रम्य पर्याये व्यवतिष्ठते।’ (वाप. २.२५१) इति प्रसिद्धिः, तस्य तथाभूतोऽर्थो गौण इति व्यपदिश्‍यते। यत्र तु लोकेऽर्थान्तरत्वेन प्रसिद्धिस्तत्र मुख्यत्वमेव। यथैव रूपादेव केचित् पदार्थाः केषुचित् कर्मसु योग्यत्वेनाश्रितशक्तयः साधनत्वेन प्रसिद्धसम्बन्धाः, ते च दर्शनमात्रादेव विशिष्टविषयास्तत्रतत्राव्यभिचारेण प्रतीयन्ते। तद्यथा— सीरासिमुसलादयः कृषिवधावहननादिषु प्रयोगैकदेशरूपत्वमिव प्रतिपन्ना गृह्यन्ते (वाप. २.२७५)।

न चैषां कर्मान्तरेषु शक्तयो न प्रभवन्ति। प्रसिद्धा तु रूपपरिकल्पितमेषां नियतक्रियाविषयसाधनत्वं व्यवस्थितं लोके। तेषु कर्मान्तरेषूपादीयमानाः साधयन्तोऽपि तदर्थं न तदङ्गत्वेन व्यपदेशं लभन्ते। तथैवैते गवादयः शब्दाः प्रत्यायकत्वस्य विच्छेदाभावाद् रूपपरिग्रहेण प्रत्यायनशक्तिमात्रपरिग्रहेण च केषुचिदर्थेषु लोके प्रसिद्धसम्बन्धाः श्रुतिमात्रादेव तद्‌विषयत्वेनावतिष्ठन्ते। प्रत्यायनशक्तिमात्रं तूपादायान्यत्र प्रयुज्यमानाः प्रत्याययन्तोऽपि तानर्थान् तत्संबन्धित्वेन लोकव्यवस्थाप्रसिद्धिं न लभन्ते।

तस्माच्छुतिमात्रेण शब्दानां येष्वर्थेषु तादर्थ्यमवसीयते तमेषां प्रसिद्धं मुख्यमर्थमाचक्षते (वाप. २.२७८)। यत्र तु श्रुतिमात्रविषयं कृतं यत्‍नमभिक्रम्य निमित्तान्तरतः प्रतीतिः तमप्रसिद्धं गौणमित्याहुः (वाप. २.२६६)। अत्राप्युच्यते— ‘प्रसिद्धिर्नाम प्रज्ञानं, न च प्रज्ञाने कश्चिद् विशेषोऽस्ति। तदुक्तम्—

प्रसिद्धिरिति विज्ञानं न चास्योनातिरिक्तता।
तस्मान्न तत्कृतः शक्यो विशेषो वक्‍तुमञ्जसा॥ ४०६॥ (तवा. ३.२.१)

अपि च पुरारात्प्रभृतीनामाख्यातसरूपाणां च प्रसिद्धार्थाभिधायिनां गौणुमख्यप्रविभागः प्रसज्येत यथा— ‘पुरा विद्योतते, नडेन स्म पुरा ब्राह्मणा अधीयते (काशिका३.२.११८) आराद्दवीयो अपसेध शत्रून् (मैसं. ३.१६३), आराच्छत्रुमप वाधस्व दूरं (ऋवे.१०.४२.७), वायुर्वायुरश्वोऽश्वस्तेन तेनेति (मभा.दी. १६०)।

किं च गवादिशब्दानामपि वागादिष्वप्रसिद्धर्गौणताप्रसङ्गः। तस्माच्छ्रोत्रगत— प्रसिद्धेर्मूलं तद्वक्तृगतं बह्वल्पप्रयोगित्वं मुख्यगौणप्रविभागाय प्रकल्पते। यस्य बहुशः प्रयोगः स मुख्यः, अल्पशस्तु प्रयुज्यमानो गौण इति।

तदपि न सम्यक्। अल्पशोऽपि प्रयुज्यमानो नासति सामर्थ्ये प्रत्याययेद्, अतः सोऽपि शब्दात् प्रतीयत इति मुख्य एव। अत्रापि च गवादीनां वागादिषु गौणताप्रसङ्गो वक्तव्यः। न च बह्वल्पप्रयोगिता मुख्यगौणत्वे हेतुः। तथा हि—

मण्डकैर्बुहुशस्तृप्‍तिः कदाचित्‌खण्डमोदकैः।
न तस्य मण्डका मुख्या गौणा वा खण्डमोदकाः॥ ४०७॥

(तवा.३.२.१) एवं तर्हि केवलादेव शब्दाद् योऽर्थः प्रतीयते स मुख्यो, यस्तु सोपपदात् स गौणः (शाभा. ३.२.१) न हि यथा केवलादग्‍निशब्दाद् ज्वलनप्रत्ययो भवत्येवं माणवकप्रत्ययः, पदान्तराधीनत्वात्। यत्रापि पदान्तरं न श्रूयते तत्राप्यर्थप्रकरणापेक्षं तदेव व्याप्रियते (तवा.)। तदुक्तम्—(वाप. २.२६४)

अर्थप्रकरणापेक्षो यो वा शब्दान्तरैस्सह।
प्रयुक्तो गमयत्यर्थं स गौण इति गीयते॥ ४०८॥

एतदप्ययुक्तं— ‘यस्य हि शब्दस्य यद्रूपं कस्यचिदर्थस्य निमित्तं सोपपदस्यापि तत्तदेव। न च शक्यं निमित्ते सति नैमित्तिकेन न भवितुम्। उपपदं तु विद्यमानमपि द्योतकतवेनापेक्ष्यते। यथैव चक्षुषः प्रकाशानुग्रहापेक्षित्वे रूपमर्थो, यथा वा मुक्तसंशयस्य मुख्यस्य वर्णक्रममात्राऽग्रहणसंस्कारस्मृतिसम्बन्धानुभवाद्यपेक्षित्वं तथात्रोपपदमपि नैव विना सामर्थ्येनापेक्षितुं शक्यते। अपेक्ष्यमाणमपि द्योतकत्वेनेति— कर्तव्यतास्थानीयत्वान्न मुख्यतां विहन्ति। तेन विनाप्युपपदेन स तस्यार्थो भवत्येव, कथंचित्तु नाभिव्यज्यते, तद्यथा गवादिशब्दानां पृथिव्यादिः।

एवं तर्हि नित्यं माणवकाग्‍निशब्दसमुदायादस्यार्थस्य प्रतीतेः अश्वकर्णादिवत् समुदायवाच्यत्वे सत्यग्न्यादेरवयवस्य तत्र गौणत्वमिति।

तदपि नास्ति। अन्वयव्यतिरेकाभ्यामर्थभेदप्रतीतेस्तत्र समुदायप्रतीतिर्भवति। यत्रावयवार्थौ तिरोधाय त्यक्तभेदः समुदायार्थ (भेद) एव प्रतीयते, गमयते त्वत्राग्‍निशब्दस्य पैङ्गल्यं, माणवकशब्दस्य तु पिण्डस्वरूपं विविक्तं वाच्यम्। अतः प्रात्यात्मिकयोरुभावपि वाच्यत्वान्मुख्याविति।

तत्रैतत्स्यात् अनुगतस्वार्थपदद्वयगम्यत्वान्नीलोत्पलवत् वाक्यार्थोऽयम्। अतश्च तस्यावयवापेक्षया गौणत्वमिति।

तदपि न। न ह्यत्राग्‍निपदार्थेग्‍नित्वमस्ति; न चानन्वितपदार्थो वाक्यार्थः सम्भवति।

अस्ति तर्हि स्वरूप एव शब्दो नित्यं वर्तते; स एवास्यान्तरङ्गोऽव्यभिचारी शब्दान्तरैश्च असाधारणोऽर्थः। तत्र चानुपदेशा प्रवृत्तिः सर्वेषाम्। स्वरूपं तु शब्दानामर्थेष्वध्यारोप्यते। यो गोशब्दः सोऽयं पिण्डः। तद्यथा— यो वृद्धिशब्दः स आदैच् इति। तत्र स्वरूपेष्वेव श्रुतयो नित्यावरुद्धाः। अर्थस्वरूपयोस्तु रूपविपर्यासमात्रे सकलकोकव्यवहारः क्रियते। नियतस्वरूपं श्रूयते; द्वितीयस्थानापन्नविपर्यासं हि स्वरूपं गौणव्यपदेशे निमित्तत्वं प्रतिपद्यते। तदाह—

तत्र स्वरूपं शब्दानां सर्वार्थेष्वनुषज्यते।
अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता॥ ४०९॥

(वाप. २.२५६) रूढ्या यत्रासदर्थोऽपि लोके शब्दो निवेशितः।
स मुख्यस्तत्र तत्साम्याद् गौणोऽन्यत्र स्खलद्‍गतिः॥

(प्र.वा.प्रत्य. ३७) अत्रापि पञ्चालस्यापत्यानि पञ्चालाः, तेषां निवासो जनपदः पञ्चालाः, पाणिनिना प्रोक्तो ग्रन्थः पाणिनीयः, तमधीते वेत्ति वा पाणिनीयः शिष्य इत्यादिषु शब्दस्वरूपस्य द्वितीयस्थानापन्नविपर्यासत्वाद् गौणत्वं प्राप्‍नोति। एवं तर्ह्यर्थभेदान्नामाख्यातशब्दानामिव श्रुतिरूपसादृश्येऽपि गवादिशब्दानां भेद एव नित्यो मुख्यः परमर्थेन विज्ञायते, दुर्ज्ञानत्वाच्च भेदस्य स्वरूपाश्रयेणैकत्वेन। प्रकृतिशब्दानां प्रत्ययार्थेषु लुबादिव्यवहारमात्रं शास्त्रेण क्रियते, गौरिव गौर्बाहीकः, चञ्चेव चञ्चा देवदत्तः। तत्र यथास्वमप्यर्थाभिधाने शास्त्रप्रवृत्त्यपेक्षया मुख्यगौणविभागः; स्वतोऽर्थे प्रवर्तमानो मुख्यः, शास्त्रेण तु नियुक्तो गौण इति।

ननु च शुक्लादिशब्दानां मतुब्लोपात् तद्वति द्रव्ये वर्तमानानां गौणताप्रसङ्गः। यतो न निमित्तवत्सु अर्थेषु निमित्तं स्वरूपप्रत्ययनिमित्तत्वं, निमित्तानि प्रतिपाद्यमानानि प्रतिलब्धरूपसम्प्रहाणीव (ण्येव?) गौणमुख्यव्यवहारमवतरन्ति। तेषां हि सत्यप्यात्मान्तरानात्मत्वे तदात्माश्रय एव व्यवहारः प्रसिद्धो लोको। एवमपि गर्गा बिदाः पञ्चाला इति प्रकृतिशब्दानां प्रत्ययार्थे शास्त्रद्वारेण प्रवृत्तेर्गौणताप्रसङ्गः। तस्मान्न कथंचिद्गौणमुख्यप्रविभागः प्रकल्पत इति।

अत्रोच्यते— ‘यः साक्षादेव शब्दात् प्रतीयते सोऽर्थो मुखमिव भवतीति मुख्य इत्युच्यते। तथा हि— ‘शाखादिभ्यो य’ (५.३.१०३) इत्येवमिवार्थे मुख्य इत्ययं शब्दप्रयोगो भवति। यस्तु खलु प्रतीतार्थावलम्बिगुणसम्बन्धव्यवधानेन गम्यते स गुणेभ्य आगत इति गौणो भवति। (शाभा. ३.२.१)

ननु च यद्गिरिशिखरमारुह्य प्रेक्षते तदपि प्रत्यक्षमेवेति न्यायाद् गुणव्य— वधानेनापि शब्दतः प्रतीयमानोऽर्थो मुख्य एवेति युज्यते। न हि सामग्रीव्यवधानं कारकाणां कारकत्वं विहन्ति; अश्वेनापि ग्रामं गच्छन् गन्तैव भवति। नैवम्; अस्त्यत्रापरोऽपि विशेषः। अनादृत्यैव माणवकप्रत्ययं ज्वलनमग्‍निशब्दात्प्रतियन्तो दृश्यन्ते। न त्वनादृत्य ज्वलनप्रत्ययं माणवकं प्रतियन्ति। कुतः पुनरेतत्? यो यो ऽग्‍निसदृशो विवक्ष्यते, तत्र तत्राग्‍निशब्दो निपतति, विगतसादृश्याच्च अपयन्नुपलक्ष्यते, अतोऽग्‍निसादृश्यमस्य प्रवृत्तौ निमित्तम्। न च ज्वलने अप्रतीते तत्सादृश्यं प्रतीयते। तस्माज्ज्वलने अग्‍निशब्दो मुख्यो माणवके तु गौण इति। तदाहुः—

प्राक्प्रतीतस्य मुख्यत्वं मुखवत्प्रथमोद्गतेः।
पश्चाद्गम्यस्य गौणत्वं गुणागमनहेतुकम्॥ ४११॥

स्वार्थे प्रवर्तमानोऽपि यस्यार्थं योऽवलम्बते।
निमित्तं तत्र मुख्यः स्यान्निमित्ती गौण इष्यते॥ ४१२॥

नन्वेवं सति खपुष्पशशविषाणादीनां स्वार्थाविनाभूतगुणाभावात् गौणप्रयोगाभावप्रसङ्गः। तथा हि—यस्तावत्खपुष्पमात्मा शशविषाणं भवत्सिद्धान्त इति प्रयोगस्तत्र कतरत् त्वयान्यत्खपुष्पादिकमात्मादिव्यतिरिक्तमग्‍निसिंहगवादिवदवधारितं यद्‍गुणद्वारेणात्मादिषु पुवर्तमाना खपुष्पादयो गौणा भवेयुः। अतः प्रथमप्रतीतत्वात् खपुष्पादेरात्मादिरर्थो न मुख्यत्वादपैति। कथमसतो मुख्यत्वमिति चेत्तुल्यमिदं गौणत्वेऽपि। उच्यते— खपुष्पशशविषाणादयः शब्दा अत्यन्ताभावाद्युपाधिषु पदार्थेषु लब्धमुख्यव्यपदेशा नास्तीत्यादिधर्मयोगादात्मादिषु प्रयुज्यमाना गौणभावं लभन्ते। तथा हि— सदसती तत्त्वे इति न्यायात्पुष्पमित्युक्ते अस्ति नास्तीति प्रसङ्गः। तत्र यथा लतादिसम्बन्धादस्तीति गम्यते तथाऽऽकाशादिसम्बन्धान्नास्तीति गम्यते। कथं तर्हि खपुष्पं नास्तीति प्रयोगः?

पूर्वेणैवावगतेऽभावे नास्तिशब्दोऽनुवादक इति केचित्, बाधक इति केचित्।

यदि वा खस्य पुष्पमित्यवयवार्थौ प्रसिद्धौ, समासाच्च राजपुरुषादिवत् सामान्यतोदृष्टेनानुमानेन षष्ठ्यर्थस्मृतिः प्रसक्ता। न च कदाचिदाकाशस्य कुसुमानाश्रयत्वमवधारितपूर्वं तस्यैतत्संसर्गानुसन्धानं वार्यते।

एतेन नास्ति शशविषाणमित्पपि व्याख्यातम्।

अथवा शशमूर्धवर्तिनां पृथिव्यवयवानामुपर्युपरिचीयमानदृढदीर्घसन्निवेशरूपेणा— परिणतानां नीचैर्वृत्त्या यदवस्थानं सोऽस्य वाक्यस्य विषयः सम्भवतीत्यविरोधः।

न चैतद् वाच्यम् अभावो भावशब्दैर्नाभिधीयत इति। यतः—

यां निषेधाः क्रियामाहुर्न यातीत्येवमादयः।
तिष्ठतीत्यादिभिस्तैस्तु शब्दैः सैवाभिधीयते॥ ४१३॥

(तवा.) अतो लब्धमुख्यार्थानां खपुष्पशशविषाणादिशब्दानामन्यत्रापि प्रसिद्धान्यथा— वस्थायिन्यर्थे गौणः प्रयोग उपपन्नो भवति। (तवा)

ननु च सादृश्येन प्रवर्तमानो गौण इत्यभ्युपगमे — प्रकृतिषु मृद्गवकादय इति, प्रतिमासु वासुदेवादय इति, चित्रेषु पर्वतादय इति, शुक्तिकायां रजतमिति, रज्जावहिरिति, मृगतृष्णायां तोयमिति, अलातसम्पाते चक्रमिति, पयःपृषत्सूर्यरश्मिषु सुरायुधमिति, क्षुपातपादिषु गन्धर्वनगरमिति, प्रतिबिम्बे स्तम्बेरम इति, कर्णक्ष्वेडायां घोष इति आलोकाभावेऽन्धकार (वाप. २.२८७–२९५) इति च यो व्यपदेशः, तस्यापि गौणत्वं प्राप्‍नोति। एतेषामपि हि प्रवृत्तौ सादृश्यमेव निमित्तम्। तथा हि— मृद्गवकादयः कस्यचिदेव सदृशस्य धर्मस्य भावादुपमानोपमेयसम्बन्धे सति ‘इवे प्रतिकृतौ’ (५.३.९६) इत्येतत् प्रकरणविहितानां प्रत्ययानामुत्पत्तौ निमित्तत्वं लक्षन्ते। युक्तं चैतत्। यतः— (वाप. २.२९३)

मृगपश्वादिभिर्यावान् मुख्यैरर्थः प्रसाध्यते।
न तावान् मृन्मयेष्वस्ति तस्मात् ते विषयाः कनः॥ ४१४॥

एतेन प्रतिमादिषु वासुदेवादयो व्याख्याताः। तथा हि ते मुख्या वरप्रदानदानवो च्छेदादिकर्मसु साधनत्वेन व्यवतिष्ठन्ते न तथा ग्रावमया वा दारुमया वा। तदुक्तम्—

त्रैलोक्यत्राणसामर्थ्यं साक्षाद् विष्णोर्यदुच्यते।
शिल्पिभिः कल्प्यमानस्य न तदर्चासु दृश्यते॥ ४१५॥

एवं चित्रे पर्वतादिस्वरूपस्य निम्‍नोन्नतादित्वेन यद् ग्रहणं तदपि तत्सहचरितप्रपातप्रतिघातादेरभावादधः क x x x x वावस्थाने निम्‍नोन्नतवृत्तेर्निवृत्तिदर्शनादयथार्थमेवावस्थाप्यते। तदुक्तम्—

यत्र निम्‍नोन्नतं चित्रे १सरूपं पर्वतादिभिः।
न तत्र प्रतिघातादिकार्यं तद्वत्प्रवर्तते॥ ४१६॥

(वाप. २.२९०) शुक्तिकायां तु प्रत्ययाधीनेऽपि रजतरूपावधारणे क्‍वचित् तद्‌विषयाणां प्रत्ययानां व्यभिचारेण या प्रवृत्तिः सैवामुख्यभावं व्यवस्थापयति। यदाह—

यद्यपि प्रत्ययाधीनमर्थतत्त्वावधारणम्।
न सर्वः प्रत्ययस्तस्मिन् प्रसिद्ध इव जायते॥ ४१७॥

(वाप. २.२८६) १. स्वरूप० HOS रज्जुद्रव्ये यद्यपि वर्णसंस्थानद्वारेण सर्पबुद्धिः पुनःपुनरुत्पद्यते, तथापि यत्साधारणं काष्णर्यदैर्घ्यादि तदपास्य श्वासदंशादिभिरसाधारणधर्मैर्मुख्यविषयं परिच्छिद्य गौणत्वमवधार्यते। उक्तं च—

यदसाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः।
तेन भेदपरिच्छेदस्तयोः तुल्येऽपि दर्शने॥ ४१८॥

(वाप. २.२८८) मृगतृष्णायां पुनर्यद्यपि सलिलनिर्भासा चक्षुर्द्वारिका तथाभूतैव बुद्धिरुत्पद्यते, तथापि स्पर्शनस्‍नानपानादीनामभावात् तद्देशप्राप्‍तौ चादर्शनान्नेदं सलिलमिति प्रत्ययेन बाध्यते। आहुश्च—

दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः।
भेदात्तु स्पर्शनादीनां न जलं मृगतृष्णिका॥ ४१९॥ (वाप. २.२८७)

अलातचक्रेऽपि चक्रबुद्धौ चक्षुषा रूपप्रबन्धावग्रहवन्न हस्तेन स्पर्शप्रबन्धोऽव— गृह्यते। क्रियाविरामे च तस्य ज्योतिषश्चक्रवदाकारो नोपलभ्यते। अविच्छिन्ना— भिनिपातेनैव हि ज्योतिषा नित्यावरुद्ध इव प्रायेण तत्र रूपग्रहणदेशो रूपग्रहणकालश्च विभाव्यते। तस्मादपार्थं तद्‍ग्रहणमविषयो मुख्यस्य शब्दस्येति। उक्तं च—

स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य सन्ततः।
न तथाऽलातचक्रस्य विच्छिन्नं स्पृश्यते हि तत्॥ ४२०॥

(वाप. २.२९१) एवमिन्द्रायुधेऽपि यथा रात्रौ १प्रदीपदीप्‍तिसन्निपातान्नीलपीतादीनां वर्णभेदो लक्ष्यते तथा हि न सूर्यरश्मिसम्पर्काद् घनारघट्टादिपयःपृषताम् इति मिथ्यात्वान्मुख्यत्वम्। तदाह—

प्रसिद्धार्थविषर्यासनिमित्तं यच्च दृश्यते।
यस्यस्माल्लक्ष्यते भेदस्तमसत्यं प्रचक्षते॥ ४२१॥ (वाप. २.२८९)

एतेन क्षुपातपादिषु गन्धर्वनगरादयो व्याख्याताः। देशविशेषेषु क्षुपग्रावादौ विप्रकीर्यमाण आतप उपर्यवस्थिताब्भ्रप्रतिघातात् प्रतिनिवृत्तः क्षुपादीनामपचित— परिमाणानां परिमाणोपचयमावहन् गृहप्राकारतोरणोपवनसन्निवेशेनावभासमानो १. रात्रौ प्रदीप दी=रात्रौ(रवेः) प्रदीप(पृषत्सु)दी.’—राघवः गन्धर्वनगरमित्युच्यते। तत्र यथा वप्रादिभिर्मुख्येषु नगरेषु गच्छतां प्रतिघातो दस्युभयरक्षादीनि च कार्याणि प्रकल्पन्ते न तथा गन्धर्वनगरेषु, तद्देशस्थैरेव च तानि न दृश्यन्त इति न तेषां मुख्यशब्दविषयत्वम्। तदाह—

वप्रप्राकार१कल्पैश्च स्पर्शनावरणे यथा।
नगरेषु तथा नैवं गन्धर्वनगरेषु ते॥ ४२२॥ (वाप. २.२९२)

प्रतिबिम्बं तु हस्त्यादिसरूपमादर्शादिषु दृश्यमानमपि प्रमाणभेदेनायथार्थम— वसीयते। हस्त्यादिप्रमाणेन प्रकृष्टदेशव्यापिना भवितव्यम्। न चादर्शस्यान्तरियान् देशः सम्भवति। तदुक्तम्—

महानाव्रियते देशो मुख्यैः स्तम्बेरमादिभिः।
अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते॥ ४२३॥ (वाप. २.२९४)

कर्णक्ष्वेडायामप्यश्रवणत्वेन घोष इति व्यपदेशो न मुख्यः। तदाह—

कर्णौ पिघाय यः शब्दः श्रूयतेऽनाहताह्वयः।
न तस्य घोष इत्याख्या मुख्यवृत्त्योपपद्यते॥ ४२४॥

एतेनालोकाभावेऽन्घकारव्यपदेशोऽपि गौणार्थविषय एवेत्युक्तं भवति। तदुक्तम्—

यत्र न प्रथते किंचित्तत्र तावन्न विभ्रमः।
सुषुप्‍त इव, भूच्छाया तमोभावोऽथवेक्ष्यते॥ ४२५॥

अत्रोच्यते—‘आकृतिवादिनो मते प्रतिकृतिप्रतिमाचित्रादिमृद्‍गवकादिषु गवादिव्यपदेशा मुख्या एवेति न गौणतां विगाहन्ते। न हि तत्र गौणताहेतुः सादृश्यं परिस्फुरति। शुक्तिकारज्जुमृगतृष्णादिषु विपर्ययज्ञानतो य एते रजतोरगजला— दिव्यपदेशाः, तेऽपि भ्रान्तिमुख्यत्वेन तत्‍तद्‍भावापत्तयो न गौणाः। यतः—

अत्यन्तविपरीतोऽपि यदा२ योऽर्थोऽवधार्यते।
यथासम्प्रत्ययं शब्दस्तत्र मुख्यः प्रयुज्यते॥ ४२६॥

(वाप. २.२८५) आचार्याश्च पूर्वेऽपि सर्वत्र तुल्यमेव शब्दस्य प्रवृत्तिनिमित्तं भवितुमर्हतीति मन्यमाना बुद्धिप्रतिभासमात्रेणैव शब्दस्यार्थेषु प्रवृत्तिं मन्यन्ते। तद्यथा— १. त HOS २. था HOS सन्निहितरजतशकले रजतमतिर्भवति यादृशी सत्या।
भेदानध्यवसाये शुक्तावपि तादृशी स्फुरति॥ ४२७॥

अलातचक्रादिषु च त्रिषु चक्रमिव चक्रमायुधमिवायुधं नगरमिव नगरमित्यवयवशब्दानां यद्यपि गौणत्वं घटते, तथापि समुदायशब्दानामेतेष्वेवार्थेषु स्वरूपासङ्गाद् मुख्यत्वमेव।

१अग्‍नीषोमादयः शब्दा ये स्वरूपपदार्थकाः।
संज्ञिभिः संप्रयुज्यन्ते तेषां सर्वत्र मुख्यता॥ ४२८॥

अग्‍निदत्ते२ तु योऽग्‍निस्स्यात् तत्र स्वार्थोपसर्जनः।
शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते॥

(वाप. २.२८१–२८२) एवं गन्धर्वनगरादयोऽपि यदा दृष्टनष्टादिपदार्थेषु तत्साधर्म्यात् प्रयुज्यन्ते तदा गौणा भवन्ति। प्रतिबिम्बेषु यदादर्शादिप्रतिहतनयनरश्मिना स्वमुखादय एव दृश्यन्ते तथापि न गौणत्वम्, अपि तु देशान्तरावस्थानेन प्रतिभासाद् भ्रान्तिमुख्यत्वमेव; अर्थान्तरमेव च्छायारूपमुत्पद्यते; तस्य प्रतिबिम्बं मुखच्छायेति व्यपदेशे मुख्यत्वं, मुख्यमित्यादौ तु गौणत्वं भवति। कर्णक्ष्वेडायामपि यदा श्रोत्रेन्द्रियस्य बहिर्वृत्ति निरोधाज्जाठराग्‍निपच्यमानान्नरसादिशब्दः श्रूयते, अनाहताख्यं वा शब्दब्रह्मोन्मिषति, तदा तयोः घोषव्यपदेशो मुख्य एव।

किं पुनरनाहताख्यं शब्दब्रह्म?

उच्यते— ‘शब्दब्रह्मणश्चतस्त्रोऽवस्थाः, वैखरी, मध्यमा, पश्यन्ती, सूक्ष्मेति। तत्र

(वैखरी)

येयं स्थाकरणप्रयत्‍नक्रमव्यज्यमानगकारादिवर्णसमुदायात्मिका वाक् सा वैखरी। तत्र विशिष्टं खं सुखमिति दुःखमिति वा राति प्रयच्छतीति विखरो देहेन्द्रियसङ्घातः। तथा च श्रुतिः, ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशत’ (छान्दो. उ. ८.१२.१) इति।

तत्र भवा वैखरी। १. यथा ह्यग्न्य J. त(य)था ह्यग्न्या HOS, अग्‍निसोमा २. ‘अग्‍निदत्तस्तु’ HOS, (मध्यमा)

या पुनरन्तस्सञ्जल्परूपा क्रमवती श्रोत्रग्राह्यवर्णाभिव्यक्तिरूपा सा मध्यमा।

(पश्यन्ती)

या तु वर्णविभागाभावादक्रमा स्वयंप्रकाशा च सा पश्यन्ती।

(सूक्ष्मा)

या पुनरनाद्यविद्यावासनोपप्लवमानशब्दार्थभेदरहितावबोधरूपब्रह्मशब्दवाच्या स्वरूपज्योतिरेवात्मनोऽन्तरनपाया प्रकाशते सा सूक्ष्मा। तदुक्तम्—

स्थानेषु विधृते वायौ वृत्तवर्णपरिग्रहा।
वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना॥ ४३०॥

केवलं बुद्ध‍युपादानक्रमरूपानुपातिनी।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते॥ ४३१॥

अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी॥

(वाप.वृ १.१४३ पृ. २१५) श्रुतिरप्याह—

चत्वारि वाक् परिमिता पदानि
तानि विदुर्ब्राह्मणा ये मनीषिणः।
गुहा त्रीणि निहिता नेङ्गयन्ति
तुरीयं वाचो मुनष्या वदन्ति॥ ४३३॥

(ऋवे. १.१६४.४५) तत्र गुहाशयेषु त्रिषु यदेतत् सुक्ष्मेति गोयते ते तदनाहतमित्यामनन्ति। एवमालोकाभावेऽन्धकार इति प्रतीतेर्विपर्ययज्ञानत्वाच्छुक्तिकादौ रजतादिबुद्धेरिव भ्रान्तिमुख्यत्वमेव न गौणता।

ननु चोत्तरकालभाविना सम्यग्ज्ञानेन यस्य बाधः, तदेव विपर्ययज्ञानम्; अन्धकारे तु तदभावात् कथमिवैतद्युज्यते?

तत्र हीदमीदृशम्, अल्पं बहु, बहुलमच्छं, गच्छति तिष्ठति, उत्पद्यते विनश्यत्यर्थक्रियां करोतीति वस्तुधर्मनिबन्धनेन देशकालपुंविशेषेषु सर्वेष्वाबाध्यमानो प्रत्ययव्यपदेशो दृश्यते। तथा हि यत्तदानीं गिरिगुहास्वपि तमः अतसी— कुसुमश्याममासीत् तदानीमुपवनेष्वप्यञ्जनचयप्रौढं वर्तते, सम्प्रत्याच्छादिता दिशः सन्तससेनेति यादृगेतत् तत्रैकदा प्रतीतिस्तादृगन्यत्रान्यदापि, यादृगेकस्य तादृगन्यस्यापि परिदृश्यते। आलोकोत्पत्तावपि विनष्टं तम इति प्रतीतिर्, न पुनर्मिथ्यैतदिति।

किमस्याः प्रतीतेः कारणमिति चेद्, व्यवहिततमःप्रतिभासे विस्फारिते चक्षुषि दर्शनात्, तदभावे चादर्शनात्। तदेवात्र कारणम्। चक्षुष्मन्तो हि तमसि निलीयन्ते, तमः परिहरन्तोऽन्येन पथा वा गच्छन्ति।

ननु निमीलिताक्षस्यापि तमःप्रतिपत्तेर्न चक्षुषः कारणत्वम्।

अत्रैके वर्णयन्ति— निमीलिताक्षस्य बहिर्वृत्तिनिरोधादन्तःसंविलीनेन्द्रियवृत्तिः पक्ष्मणोरेव छायां गृह्‍णातीति।

न च गोलकशौक्ल्यस्यापि ग्रहणमस्ति, सामीप्यात्। अन्धस्यापि च तमः—प्रतिपत्तेर्नैतदेवमिति चेत् तन्न जानीमः। त एवात्र प्रष्टव्याः।

अन्ये त्वाहुः यथा विस्फारिताक्षस्येदमिदमीदृशं चेति स्पष्टरूपतयावगतिः, नैव निमीलिताक्षस्य, तस्य न किंचित्पश्यामीति, प्रतिपत्तिप्रत्यस्तमयात्। यद्यपि चात्र प्रतिभासः, तथापि निमित्तपर्यालोचनया तस्य मिथ्यात्वे, अन्धस्य किमायातम्? न हि स्वप्‍ने रजतज्ञानमिथ्यात्वेऽन्यदापि रजतज्ञानं मिथ्या भवितुमर्हति। अत एव चोन्मीलिताक्षस्य बाधकं विज्ञानमुत्पद्यते, न पुनस्तमसीति।

मूर्तद्रव्यच्छाया च तमः; पार्थिवं हि द्रव्यं यस्यां दिश्यालोकस्तदन्यतः छायामारभते। सा च सर्वैरपि वस्तुत्वेन प्रतीयते, व्यपदिश्यते च इयं छाया गम्यताम्, अस्यां छायायामुपविशामः, छाया मधुरशीतलेति। तदेवमखिलवस्तु— साधर्म्येणैव चक्षुषोपलक्ष्यमाणे कृष्णरूपे तमसि कथमभिधीयते न तमो नाम किंचिद् वस्तुरूपमस्तीति?

उच्यते—‘अस्त्येतत्, किंतु युक्त्या न संगच्छते। तथा हीदं तम इति साक्षात्कारेण प्रतिभासाल्लिङ्गादन्य एवायम्।

यदि परं प्रत्यक्षमेतद् विज्ञानं स्यात्?

तत्तु त्रेधा—आत्मप्रत्यक्षं मनःप्रत्यक्षमिन्द्रियप्रत्यक्षं चेति। तत्र विनैव ग्राहकान्तरमात्मनो यदपरोक्षलक्षणं विज्ञानं तदात्मप्रत्यक्षम्। तच्चानुभवस्येव स्वप्रकाशतया वा स्याद्, विषयस्येव अनुभूयमानतया (वा)। न तावत् स्वप्रकाशतया, तमसोऽनुभूयमानत्वेन प्रतिभासात्। नाप्यनुभूयमानतया, विनैवेन्द्रियैरयोगिनो विषये ग्रहणायोगात्।

केवलमनस्सहायस्यात्मनो यद्विज्ञानं तन्मनःप्रत्यक्षम्; तदप्यन्तरनुभूयमान— सुखदुःखादिविषयं वा स्यात्, बहिरनुभूतप्रियस्त्रगादिविषयं वा। न तावदान्तरम्, इदमिति बहीरूपतया तमसः प्रतिपत्तेः। नापि बाह्यम्, इन्द्रियान्तरनिरपेक्षस्य मनसो बहिर्विषयेषु ग्रहणासामर्थ्यात्।

इन्द्रियार्थमनस्सन्निकर्षजमात्मन एव यद्विज्ञानं तदिन्द्रियप्रत्यक्षम्। तत्र च चक्षुरेव रूपं गृह्‍णातीति नियमः। न चैतच्चक्षुषैव गृह्यते, निमीलिताक्षस्यापि कृष्णरूपतमःप्रतिभासात्।

निमीलिताक्षस्य न किंचित् पश्यामीति प्रतिपत्तिप्रत्यस्तमय इति चेत्, तन्न। किमक्षिणी निमील्यान्धकारं करोषीत्यादिप्रवादानामुपलब्धेः।

ननु च यदि चक्षुरिदं विज्ञानं नाधिगच्छति तद् वरमिन्द्रियान्तरकल्पना, न पुनरुपलब्धस्यापलापः?

तन्न। कृष्णरूपग्राहकेन्द्रियान्तरकल्पनायामचक्षुषोऽपि रूपोपलब्धिप्रसङ्गात्। तस्य तमस्येव शक्तिरिति चेत् रूपाविशेषे कोऽत्र व्यवस्थाहेतुः? ततश्च दूरस्थिततमोदर्शिनां निमीलिताक्षाणामपि तद्दर्शनप्रसङ्गः। विस्फारिते च चक्षुषि चक्षुषा पश्यामीति प्रतीतेरप्रसङ्गः। न च क्‍वचिदपि प्रवादे मनसोऽन्यत् षष्ठमिन्द्रियं दृश्यते।

(छाया + तमःपदार्थ)

यत्र तन्निमीलिताक्षपक्ष्मच्छायायां गृह्‍णातीति, तदाचष्टामायुष्मान् केयं छाया नामेति?

ननुक्तं पार्थिवं द्रव्यं यस्यां दिश्यालोकस्तदन्यतश्छायामारभते।

तन्न, तस्यास्तदारब्धत्वे तद्‍गुणयोगप्रसङ्गात्। ततश्च रूपमनेकप्रकारं शुक्लादि। रसः षडि्वधो मधुरादिः। गन्धो द्विविधः सुरभिरसुरभिश्च। स्पर्शोऽनुष्णाशीतत्वे सति पाकजः। ‘सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्‍निसंयोगाद् द्रवताऽद्भिस्सामान्यम्’ (वै.सू. २.१.१) इति नैमित्तिकद्रवत्वम्, अन्येऽपि च गुरुत्वकठिनत्वादयः पृथिवीधर्माः छायायां प्रसज्येरन्।

कथं तर्हि छाया आगच्छति, अस्यां छायायामुपविशामः, छाया मधुरशीतलेति च व्यपदेशो भवति?

उच्यते—‘यत्र यत्र चारकद्रव्येण तेजःप्रसरो निरूप्यते तत्र तत्र तेजोद्रव्याभावे छायेति विपर्ययप्रतीतेरुदयः। छाया मधुरशीतलेति तस्यामेवोपचरितो व्यवहारः। यथा— ‘आनन्दो ब्रह्मणो रूपम्’ (न्यायभूषणम्) इति। एतेनैतदपि निरस्तम्। तस्य मिथ्यात्वेऽन्यस्य किमायातमिति। उक्तन्यायेन द्वयोरपि मिथ्याप्रत्ययत्वात्। यदि ह्यमिथ्यैव तमो नाम वस्तुविशेषः स्यात् तदालोकसद्भावे ऽप्यन्यवस्तुवद् गृह्येत।

विरोधित्वादालोकस्य तदग्रहणमिति चेत् किमस्य विरोधिनालोकेन क्रियते, तिरोधानम्, अपसारणं, विनाशो वा?

न तावत् तिरोधानं, रूपवस्तुग्रहणे तस्यानुग्राहकत्वादतोऽन्यनीलद्रव्यवदालोके सुतरां तमसोऽपि ग्रहणप्रसङ्गः। यदि च विद्यमानमेव तमस्तिरोधीयते तस्य पदार्थाच्छादकस्वभावत्वात् तमसीवालोकेऽपि न कश्चित् कञ्चनापि पश्येत्। तमसा हि सर्वे पदार्थाः पिहितास्तमोऽप्यालोकेनेति।

न चोपलभ्यमानानामेव तिरोधायकत्वं, शब्दतिरोधायकेषु स्तिमितेषु वायुषु रूपपिधायकेषु पटलादिषु च व्यभिचारात्।

अथापसारणम्?

तदपि न; प्रदीपार्चिषान्तर्गृहमपसारिते तमसि बहिरन्धकारप्रसङ्गात्।

नापि विनाशः, आलोकेन हि विनाशिते आलोकापसारसमनन्तरमुत्पत्ति— कारणाभावे कुतस्तमसामुपलब्धिः?

न चालोकाभाव एव कारणम्, अभावस्य शून्यरूपत्वेन अनाकारकत्वात्। न चान्यदुत्पादे कारणं पश्यामः।

नन्वेवमालोकाभावमात्रमेव तम इति स्यात्।

नैवम्; न ह्यलोकाभाव एवात्र गृह्यते, अभावस्याप्रमेयत्वात्। आलोकज्ञानप्रत्यस्तमयमात्रादेव चालोकाभावव्यवहारसिद्धेः। यदि वात्राभावः प्रतिभासत इत्युच्यते, ततो यस्याभावो यत्र चाभावस्तत्पदार्थद्वयपुरस्सरमत्र प्रतिभासेन भवितव्यम्, अनवच्छिन्नस्याभावस्याप्रतिपत्तेः। न च तमसि गृह्यमाणे नियमेनालोक— स्मरणम्, अस्मर्यमाणस्य न व्यवच्छेदकत्वम्। प्रतिभासानुगुणं चालम्बनं परिकल्प्यते, न चाभावस्यातद्रूपस्य कृष्णरूपविशेषावभासिन्या तमस्सञ्चित्यानुगुण्यमस्ति।

अपि चास्मिन् पक्षे आलोकाभावपर्यायता तमश्शब्दस्य। ततश्च हस्तकरशब्दयोरिव तदर्थप्रतिभासभेदो न स्यात्। तस्मान्न किंचिदनुगृह्यते। किन्त्वग्रहण एवायं ग्रहणाभिमानः, मिथ्याज्ञानस्य विपर्ययस्वरूपत्वात्। आह च विपर्ययोदाहरणं प्रशस्तपादः ‘व्यपगतघनपटलमचलजलनिधिसदृशवपुरम्बरतलमञ्जनचूर्णपुञ्जश्यामलं शार्वरं तम’ (प्रपाभा.) इति।

नन्वेवमन्धकारप्रतीतेर्विपर्ययत्वे विपर्ययात्मिकायास्तद्भावापत्तेरिदमुदाहरणं युज्यते, न तु प्रवादात्मिकायाः। प्रवादात्मिकायां त्विदमुदाहृतं पुरस्तात् (ऋप्र. ३५७)।

तद्यथा— (शृप्र. ३५७)

गन्धर्वपुरसुरायुधकुरङ्गतृष्णान्धकाररूपाणि।
असतामसत्यदुर्ग्रहदुरापमलिनानि वृत्तानि॥ ४३४॥

उच्यते—(वाप. २.२९६)

देशकालेन्द्रियगतैर्भेदैर्यैद् दृश्यतेऽन्यथा।
यथा प्रसिद्धिर्लोकस्य तथा तद्‍व्यपदिश्यते॥ ४३५॥

तत्र प्रसिद्धार्थविपर्ययहेतुभ्यो मद्यविषपानमरुदेशावस्थानादिभ्यः प्रसिद्धा— कारेष्वर्थेषु दर्शनविपर्यासो जायते। निशायां रक्तकम्बलहस्तिवनादिषु वर्णप्रमाण— संहत्यादिभेदो दृश्यते। तिमिरोपघात—काच—कामलादिभ्यः केशोण्डुकद्विचन्द्रा— दिष्वयथार्था प्रतीतिरुदयते। अर्धनिमीलिते चक्षुषि रूपभेदप्रतिपत्तिर्भवति। भ्रमणावस्थाननौयानादिषु च पृथिवीपर्वतादीनामन्यथाक्रमः उपलभ्यते। कारणापगमे च पुनर्यथार्थैव प्रतिपत्तिरुदेति। तत्र सन्देहे सति यद्यत् समधिगतनिमित्तमन्यत्राविपर्यये दृष्टसामर्थ्यं प्रसिद्धं लोको हि सर्वेषां विदुषामविदुषां च व्यवहारव्यवस्था— हेतुरलङ्घनीयः प्रमाणम्। तदतिक्रमात् सर्वत्र वैरस्यं लभते। लोके च केशोण्डुकद्विचन्द्रशुक्तिकारजतादीनामेव विपर्ययत्वेन प्रसिद्धिः, गन्धर्वनगरेन्द्रायुधमृग— तृष्णान्धकारादीनां विपर्ययत्वेऽपि वा गन्धर्वनगरादिप्रवादोऽभ्यधिकं रूपमेतेषामिति॥

तदेतद् दोषहानं च गुणोपादानमेव च।
ज्ञात्वा कुर्वन् कविः काव्यं प्रेत्य चेह च नन्दति॥ ४३६॥

निर्दोषं गुणवद् यस्य सालङ्कारं रसान्वितम्।
सतां वसति चेतस्सु वचः स दिवि मोदते॥ ४३७॥

इत्येष दोषपरिवर्जनया गुणाना—
मावर्जनेन च किलोभयथान्तरङ्गः।
काव्ये यथायथमलङ्कृतियोग उक्त—
स्तत्रैव बाह्यमथ तं क्रमशोऽभिधास्ये॥ ४३८॥

इति महाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे दोषहानगुणोपादानप्रकाशो नाम

॥ नवमः प्रकाशः॥९॥

दर्शनान्तरगोक्षीरमिदं भोजोपपादितम्ं।
साहित्यतत्त्वजिज्ञासुष्वलं दृगुपशोधने॥