०८ सापेक्षशब्दशब्दशक्तिप्रकाशः

अथ

श्रृङ्गारप्रकाशे अष्टमः प्रकाशः

सापेक्षशब्दशब्दशक्तिप्रकाशो नाम

(५. व्यपेक्षा)

तत्रोद्भूतसम्बन्धव्यतिरेकाणां पदार्थानामितरेतरप्रत्याकाङ्क्षा व्यपेक्षा।

सा च सन्निहिते योग्ये च भवति। तद्यथा ‘देवो वर्षती’ —ति वर्षणक्रियाकर्तारमन्तरेणाभवन्ती सन्निहितं योग्यं च देवमपेक्षते। यत्र तु सन्निहितस्य न योग्यता, तत्र व्यवहितमपि योग्यमेवापेक्षते, यथा प्रविश पिण्डीम् इत्यत्र (न) प्रवेशनक्रिया सन्निहितायामप्ययोग्यायां पिण्ड्यामसम्भवन्ती व्यवहितमपि योग्यं गृहादिकमपेक्षते। पिण्डीमित्येतदपि कर्मपदं प्रविशेत्यस्मिन्नसम्भवद्‌योग्यमेव भक्षयेत्यादिक्रियापदमपेक्षत इति।

सेयं व्यपेक्षा संक्षेपतः पदार्थानां त्रेधा सम्भवति—

१. आभिधानिकी, २. नैयायिकी, ३. नैषेधिकी च। तत्र —

श्रुतिसमारोप(समाख्या)वाक्यविकल्पसमुच्चयातिदेशादिभिरभिधीयमाना आभिधानिकी।

ऊहविपर्ययविपरिणामायाहारवाक्य (वि)शेषव्यहितकल्पनादिभिरुपकल्प्यमाना नैयायिकी।

वचनासम्भवविरोधकृतार्थपरिसङ्ख्यावधारणादिभिर्निषिध्यमाना नैषेधिकी। तासु —

(१. आभिधानिकी)

आभिधानिकी तावद् यत्र द्वयोः साधर्म्यार्थमावृत्त्या विभक्तिश्रुतिभेदेन च विशेषणविशेष्यनिर्देशः,

१. सा श्रुत्याभिधानिकी यथा— (मेघ. ९९)

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्‍तेन तप्‍तं सास्त्रेणास्त्रद्रवमविरलोत्कण्ठमुत्कण्ठितेन।
उष्णोच्छ्‌वासं समाधिकतरोच्छ्‌वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥ १॥

यत्रापि साधर्म्यार्थादेव द्वयोस्तन्त्रेण च विभक्त्यभेदेन च विशेषणविशेष्ययोगः, सा च श्रुत्याभिधानिकी। यथा—

दैवात/दैवादपत्रमच्छायं फलार्थिभिरसेवितम्।
सानुजं शाखिनमिव दृष्ट्वा रामं रुरोद सा॥ २॥1

२. यत्र पदेन वाक्येन वा संज्ञार्थो विधीयते, सा समाख्याभिधानिकी। सा पदेन यथा—(रघु. ६.२१)

असौ शरण्यः शरणागतानामगाधसत्त्वो मगधप्रतिष्ठः।
राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनामा॥ ३॥

वाक्येन यथा—

सच्चं सण्णा धण्णा जा तइआ केसवेण गिरिधरेण।
गुरुभार—वावडेण वि, अज्जुअच्छं चिरं दिठ्ठा॥ ४॥

(सत्यं संज्ञा धन्या या तदा केशवेन गिरिधरणे।
गुरुभारव्यापृतेनापि ऋज्वक्षं/अनृज्वक्षं चिरं दृष्टा॥)

३. यत्र व्यपेक्षोत्थापकं वाक्यमभिधाय तदुपपादकमभिधीयते, उपपादकं वाभिधाय व्यपेक्षोत्थापकं, सा वाक्याभिधानिकी।

तयोराद्या यथा— (हेमचन्द्रस्य प्राकृतव्याकरणे ४.४२०)

सा उप्पडी गोठ्ठउहि। णोक्खी कावि विसगंठि।
भिडिय पचेल्लिउ सो मरइ॥ ज्जस्स ण लग्गइ लंठि॥ ५॥

(सा उत्पन्ना गोष्ठभुवि नवीना कापि विषग्रन्थिः।
भित्त्वा न पचन् प्रत्युत स म्रियते यस्य न लगति कण्ठे॥)

द्वितीया यथा—

वाणिधमोडिअच्चरुणखओ दारेएं तु न दिठ्ठ।
माएणजहुके मलडोल्लाहिअ इवइठ्ठ॥ ६॥?

४. वैकल्पिकाभिधानप्रभवा विकल्पाभिधानिकी यथा—

अंबरु अंचि समुद्दु तरि भमडहि डोंगरुआणि।
सहि महु पिउ गउ कलहिअउ जेंव रुच्चइ तेंव आणि॥ ७॥

१. दैवमेवातपत्रं रामं दैवात् अपत्रं शाखिनम्, सानुनि जातं वृक्षम्,अनुजसहितं रामम् — रे। (अम्बरं गच्छ समुद्रं तर भ्रम कान्ताराणि।
सखि मम प्रियो गतः कलहायितो यथा रोचते तथाऽऽनया॥)

५. समुच्चयाभिधानप्रभवा समुच्चयाभिधानिकी यथा—(हेमचन्द्रस्य प्राकृतव्याकरणे ४.३१५)

हिअइ खुडुक्कइ गोरडी गअणि घुडुक्कइ मेहु।
वासारत्ति पवासुअहं विसमा संकडु एहु॥ ८॥

(हृदये शूल्यायते गौरी गगने गर्जति मेघः।
वर्षायां प्रवासिनां विषमं संकटम् एतत्॥)

६. सामान्यविशेषातिदेशप्राप्‍तधर्माणां यत्राग्रतः पश्चाद्‌वाभिधानं सातिदेशाभिधानिकी। तत्र सामान्यातिदेशप्राप्‍तधर्माभिधानमग्रतो यथा—

हिअअ तिरिच्छीयइ संमुह पच्छा गहिअकडक्खास्स।
पहिअ एकेज्जे गोरडी णं चउहट्ट उवच्छ॥ ९॥

(हृदये तिरश्चीना संमुखा पश्चाद् गृहीतकटाक्षा।
पथिकस्यैकैव गौरी ननु चतुष्पथे व्रजति॥)

एवं पश्चादपि द्रष्टव्यम्। विशेषातिदेशप्राप्‍तधर्माभिधानं पश्चाद् यथा—

महिलत्तणु णिव्वाहिअउ एक्कइ विज्जुपियाइ।
णेहक्कड विअविर हुनम्मे विदट्टणजाइ॥ १०॥

(महिलावं निर्वाहितमेकया विद्युत्प्रियया।
………कदा न अपि विरहः ….. न याति॥)

७. आदिग्रहणाद्यत्रैकमभिदधानः प्रसङ्गेनान्यदप्यभिधत्ते; सा प्रसङ्गाभिधानिकी। सापि द्विधा पदतो वाक्यतश्च। तयोराद्या यथा—

साव—सलोणी गोरडी अहरहो महुरउ साउ।
तिक्‍ख—अप्प—पलोव्वणए—विरहु कडुउ कसाउ॥ ११॥

(सर्व—सलवणा गौरी अधरस्य मधुरः स्वादः।
तिक्‍ता अम्ला प्रलोकने विरह एव कटुकः कषायः॥)

अत्र रूपं वर्णयन्प्रसङ्गतः षड्रसानभिमतानभिमतत्वं च तेषां निर्दिशति। द्वितीया यथा— (मुरा. ३.२१)

प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदीपप्रभाणा—
मात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गैः।

नागाङ्कं मोक्तुमिच्छोः शयनमुरुफणाचक्रवालोपधानं
निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः॥ १२॥

अत्र मुद्राराक्षसे चाणक्येन कौमुदीमहोत्सवे निषिद्धे राक्षस(प्र)(युक्तो) वैतालिकः प्रभाते मङ्गलानि पठन् शरदवतारो वर्तत इति चन्द्रगुप्‍तस्य गुप्‍तमावेदयति।

(२. नैयायिकी)

अथ नैयायिकी।

१. यत्र पूर्वोक्तमेव वाक्‍यमर्थान्तरे वक्त्रन्तरादिभिरूहयित्वा निवेश्‍यते ताम् ऊहनैयायिकीम् आमनन्ति। तद्यथा कालिदासः ‘किं कुन्तलेश्वरः करोति’ इति विक्रमादित्येन पृष्ट उक्तवान्—

असकलहसितत्वात् क्षालितानीव कान्त्या मुकुलितनयनत्वाद् व्यक्तकर्णोत्पलानि।
पिबति मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः॥

इदमेवोहयित्वा विक्रमादित्यः प्रत्युवाच—

पिबतु मधुसुगन्धीन्याननानि प्रियाणां
मयि विनिहितभारः कुन्तलानामधीशः॥ १४॥

२. यत्र पाठक्रमेण सम्बन्धानुपपत्तावर्थक्रमेण विपर्यस्य पदानि योजयन्ते, सा विपर्ययनैयायिकी यथा—(कुसं. ५.२८)

स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः।
तदप्यवा/पाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः॥ १५॥

३. अत्रातस्तां प्रियंवदामपर्णां वदन्ति पुराविद इति पर्यायेण पदानि योज्यन्ते। यत्र तुल्यार्थपदप्रयोगे विभक्तिविपरिणामेन विशेषणविशेष्ययोर्योज्यन्ते, सा विपरिणामनैयायिकी। यथा—(माघ. ४.४०)

दन्तोज्ज्वलासु विमलोपलमेखलान्ता—
स्सद्रत्नचित्रकटकासु बृहन्नितम्बाः।

अस्मिन् भजन्ति घनकोमलगण्डशैला
नार्योऽनुरूपमधिवासमधित्यकासु॥ १६॥

अत्र सप्‍तम्यन्तानि प्रथमान्तानि च विशेषणानि नारीरधित्यकाश्च विभक्तिविपरिणामतो विशेषयन्ति। एतेन वचनविभक्तिविपरिणामो लिङ्गविपरिणामश्च व्याख्यातः। तयोराद्यो यथा—(माघ. १२.३)

हस्तस्थिताखण्डितचक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया।
सत्यानुरक्तं नरकस्य जिष्णवो गुणौर्नृपाः शार्ङ्गिणमन्वयासिषुः॥ १७॥

द्वितीयो यथा—(माघ ५.२०)

रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः।
भूभर्तुरायतनिरन्तरसन्निविष्टाः पादा इवाभिबभुरावलयो रथानाम्॥ ९८॥

४. यत्र आकाङ्क्षानिवृत्तयेऽर्थान्तरमध्याह्नियते साध्याहारनैयायिकी। यंथा—

न दानेन न मानेन न शाठ्येन न सेवया।
न शस्त्रेण न शास्त्रेण सर्वथा किमपि स्त्रियः॥ १९॥

अत्र वशीभवन्तीत्यादिरध्याहारः।

५. यत्र लिङ्गादेरश्रुतौ विधिर्निषेधो वा सर्ववाक्यानां विधिनिषेधपरत्वेन प्रकल्प्यते, सा वाक्यशेषनैयायिकी। यथा—

तदेतत् काकतालीयं तदेतद् वा घुणाक्षरम्।
यदनात्मवतामायुर्यच्चानीतिमतां श्रियः॥ २०॥

तस्मादात्मवता नीतिमता भवितव्यमिति वाक्यशेषः।

६. यत्र सन्निहितानुपपत्तौ व्यवहितमाश्रीयते सा व्यवहितकल्पनानैयायिकी। यथा—

दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम्।
पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः॥ २१॥ (रघु. ४.२)

अत्राग्नेर्निशमनक्रियासम्भवात् पू्र्वकालत्वायोगे तं निशम्यापि राज्ञां रजतामिति (राजतां प्रति ?) व्युत्थितिकालार्थो व्यवहितो व्यपेक्ष्यते। तेनायमर्थः सम्पद्यते— तं राज्ये प्रतिष्ठितं निशम्य राजाभिमानमुद्वहतां हृदयेऽग्निरिवोत्थित इति।

७. एतेन गुणकल्पनानैयायिकी अपि व्याख्याता। यथा—

चंद—णिहिएक्कचलणा णह—भमिर—मरालणिहिणु अवर—वआ।
कमलवण—दिण्णहत्था णहसिरी भुवणमोअरइ॥ २२॥

(चन्द्रनिहितैकचरणा नभोभ्रमणशील—मराल—निहितापर—पदा। कमल—वन—दत्तहस्ता नभश्रीर्भुवनमवतरति॥)

८. आदिग्रहणादपोद्धारवाक्यभेदादयो गृह्यन्ते। तेषु यत्र वृत्तिच्छन्नस्य सर्वनामादिभि— रपोदधृत्यानुसन्धानं क्रियते सा अपोद्धारनैयायिकी। यथा—(कुसं. ५. ७६)

विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा।
जगच्छरण्यस्य निराशिषः सतः किमाभिराशोपहतात्मवृत्तिभिः॥ २३॥

अत्र वृत्तिच्छन्नयोर्विपद्‌विभूतिपदयोराभिरिति सर्वनाम्नानुसन्धाने जगच्छऱण्यस्य किं विपद्भिः, निराशिषः किं विभूतिभिरित्यर्थः सङ्गच्छते।

९. एकवाक्यत्वेऽप्यपेक्षिततानवाप्‍तौ तत्र वाक्यान्तरमुपकल्प्यते, सा वाक्यभेदनैयायिकी। यथा— (गास. ३.३१)

तुह असमं सोहग्गं, अमहिलसरिसं च साहसं मज्झ।
जाणइ गोलाऊरो, वासारत्तस्तद्धद्धरत्तो अ॥ २४॥

(तवासमं सौभाग्यममहिलासदृशं च साहसं मम।
जानाति गोदापूरो वर्षारात्रार्धरात्रश्च॥)

अत्र तवासमं सौभाग्यमस्त्रीजनोचितं च मे साहसं गोदावरीपूरो जानातीत्येतावदेकं वाक्यम्। नैकः साक्षी प्रमाणमित्यपेक्षायां वर्षारात्रार्धरात्रश्चेति द्वितीयम्। अन्यथा ह्येकवाक्यतायां ‘यथासङ्ख्यमनुदेशः समानाम्’ (१.३.१०) इति गोदावरीपूरस्त्वत्सौभाग्यं वर्षारात्रार्धरात्रस्तु मत्साहसं जानातीत्ययमर्थः सम्पद्यते। यदि चायमपि न यथासङ्खयस्य विषयः, कोऽन्यो भविष्यति? तत्र को दोष इति चेद् विवक्षितार्थासिद्धिः। यथासङ्ख्यपक्षे हि येषु त्वं पल्लवितलताप्रतानापवारितेषु गोदावरीतटगुहागृहेषु कामपरवशाभिर्वराङ्गना— भिरभिसार्यमाणो विहरसि, पूर एव तेषु यदि प्रवेष्टुमीष्टे, यानि चाहं प्रसुप्‍ताशेषजनपदे प्रवर्षदम्भोघरान्धकारनिस्सञ्चारे प्रावृण्निशीथे परिभ्रमन्ती महासाहसानि (कृत्वा अभिसारितवत्यस्मि तानि) वर्षारात्रार्धरात्र एव यदि द्रष्टुं शक्नोति, न पुनरन्यस्यैतत् सामर्थ्यमित्ययमर्थः सङ्गच्छते। न चायमस्या विवक्षितः, अपि तु एवं नाम त्वं सुभगोऽसिएवं नाम चाहं साहसिनी यार्धरात्रे वर्षासु पूरपूर्णां गोदावरीमुल्लङ्घ्यागणित— प्राणसंशया त्वामभिसारितवत्यस्मि, तस्मात् कृतज्ञतामनुरुध्यमानेन सौभाग्यातिशययोगाद् बहुवल्लभेनापि त्वयानुरक्तायां मय्यनुक्रोशो न मोक्तव्य इति॥

(३. नैषेधिकी)

१. अथ यत्र साधर्म्यादिभिरर्थान्तरेऽनुवृत्तः पदार्थधर्मो वचनेन निवर्त्यये, सा वचननैषैधीकी; सा तु प्रतीयमाननिवृत्तिनिमित्ता च। तयोराद्या यथा—

मूले कण्टकसन्ततिरुपरि च विकचानि रक्‍तकुसुमानि।
एतावतैव शाल्मलिरनुहरति न पङ्कजवनस्य॥ २५॥

अत्र शाल्मलिसादृश्‍यं कण्टंककुसुमसाधर्म्यात् पङ्कजवनेऽनुवृत्तं प्रतीयमान— सौगन्ध्यादिगुणाभावसूचकेन वचनेन निवर्त्यते।

द्वितीया यथा—

कार्यज्ञः प्रष्टव्यो न पुनर्मान्यो मम प्रियो वेति।
गुरुरस्त्रा(रत्रा?)सनसेव्यः प्रियानितम्बः कदा मन्त्री॥ २६॥

अत्र यो यस्य मान्यः प्रियो वा स तस्य मन्त्रीति सामान्येन मान्यत्वप्रियत्वाभ्यां मान्यप्रियानुवृत्ता प्रष्टव्यता प्रियानितम्बदृष्टान्तावष्टम्भशोभिनाभिधीयमान—

कार्यज्ञत्वा भावसूचकेन वचनेन निवर्त्यते।

२. यत्र असम्भवेन विधेयं निषिध्यते सा असम्भवनैषेधिकी। सा द्विधा अप्रस्तावनिमित्ता, अनुत्पादनिमित्ता च।

तयोराद्या यथा—(गासं. ३.४४)

वेविर—सिण्ण—करंगुलि—परिग्गह—क्खलिअलेहणी—मग्गे।
सोत्थि च्चिअ ण समप्पइ पिअसहि लेहम्मि किं लिहिमो॥ २७॥

(वेपनस्विन्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे।
स्वस्त्येव न समाप्यते प्रियसखि लेखे किं लिखामः॥)

अत्र स्वस्तीति पदस्यासमाप्‍तौ सन्देशदानादेस्तदुत्तरकालभाविनोऽप्रस्ताव इति तन्निमित्तत्त्वेनासम्भवेन लेख्यस्य विधेयत्वं निषिध्यते।

द्वितीया यथा—

लइ वप्पुड पिउ दुद्ध कत्तो अम्हाणहुं छासि।
पुत्तहुमत्थे हत्थो जइ दहि—जम्मेवि जअ आसि॥ २८॥

(गृहाण अनुकम्प्य पिब दुग्धं कुतोऽस्माकं तक्रम्।
पुत्रकमस्तके हस्तो यदि दधिजन्मन्यपि जातमासीत्॥)

अत्र दध्नोऽप्यनुत्पत्तौ तदुत्तरकालभाविनस्तक्रोत्पादनस्यासम्भवेन तक्रपानस्य विधेयत्वं निषिध्यते।

३. यत्र विरोधिना शब्देनार्थेन वा कार्यं निवार्यते सा विरोधनैषेधिकी। तयोराद्या यथा—

ते पुच्छिज्जहि वत्तडी जे तहि दिसिहि न एंति।
जेहि स दिट्ठि गोरडी ते दुक्करु जीअंति॥ २९॥

(ते प्रष्टव्याः वार्ता ये तस्या दिशो नायान्ति।
यैस्या दृष्टा गौरी ते दुष्करं जीवन्ति॥)

अत्र ते वार्तां प्रष्टव्याः ये तस्या दिशो नायान्तीति पूर्वापरविरोधिना वाक्येन केनचित् परिजनविधित्सितः प्रियाप्रवृत्तिप्रश्‍नो निषिध्यते।

द्वितीया यथा—(हे.प्रा. व्या. ४.४१८)

पिअसंगम कउ निद्दडी पिअहो परोक्खहो केम्ब।
मइं बिन्नि वि विन्नासिश्वा निद्द न एम्व न तेम्व॥ ३०॥

(प्रियसङ्गमे कुतो निद्रा प्रियस्य परोक्षस्य कथम्।
मया द्वे अपि विनाशिते निद्रा नैवं न तथा॥)

अत्र समस्तप्राणहृद्‌भेदसाधारण्येन प्रवृत्तो निद्रार्थस्तद्विरोधिभ्यां प्रियसङ्गम— वियोगाभ्यां निषिध्यते।

४. यत्रार्थित्वा(र्थितत्व ?)प्रवृत्तमन्येनैव तत्कार्यसिद्धौ निषिध्यते सा कृतार्थत्वनैषेधिकी।

यथा— (गा.स. (वे) ७७२)

किं तस्स पारएणं किमग्गिणा किं व गब्भहरएण।
जस्स उरम्मि णिसम्मइ/णिमज्जइ उम्हाअंतत्थणी जाआ॥ ३१॥

(किं तस्य प्रावारकेण किमग्निना किं वा गर्भगृहकेण।
यस्योरसि निमज्जति ऊष्मायमाणस्तनी जाया॥)

अत्र प्रावरविलासाग्निगर्भगृहकाणि हैमनशीतार्त्तिनिवृत्तये प्रवृत्तानि तदर्थकारिणोपारूढयौवनोपगूढप्रियाकुचोष्मणा निवर्त्यन्ते।

५. यत्र परिसंख्यातेनार्थेन शेषं निषिध्यते सा परिसंख्यानैषेधिकी। यथा—

वे वावल्ल विउद्धमुहे सज्जिअ—तिलइ ति कंड।
कअ—कण्णुप्पलि पंच सर तहो कामहो कोदंड॥ ३२॥

(द्वौ बाणौ विबुद्धमुखे सज्जिततिलके त्रयः काण्डाः।
कृतकर्णोत्पले पञ्च शरास्तस्य कामस्य कोदण्डः॥)

अत्र जगज्जिगीषया चक्रीकृतकामकोदण्डानुकारिणि मुखे विबुद्धेऽपि लोचनोत्पलद्वयस्यैव प्रकाशमानत्वात् कुसुमसायकस्य द्वावेव बाणौ न त्रयो न पञ्चेति, सज्जिततिलके त्रय एव, न द्वौ न पञ्चेति, कृतकर्णोत्पले पञ्चैव न द्वौ न त्रय इति परिसंख्यातेनार्थेन शेषं निषिध्यते।

६. यत्रैकावधारणेनान्यत् पराक्रियते सा नियमनैषेधिकी। यथा—

स च्चिअ जीआ ते च्चिअ मग्गणा सा अ जस्स धणुइट्ठी।
दिट्ठिअ कुवलयविलोअणाण सो जअइ कंदप्पो॥ ३३॥

(सैव ज्या त एव मार्गणाः सा च यस्य धनुर्यष्टिः।
दृष्ट्या कुवलयविलोचनानां स जयति कन्दर्पः॥)

अत्र ज्यामार्गणधनुर्यष्टीनामन्यत्र भेदेनोपलम्भात् कन्दर्पविषयेऽपि तद्भेदोऽनुवृतः कुवलयविलोचनादृष्टेस्तेन तेन संस्थानेन तत्तत्कार्यकरणात् सैव सर्वात्मिकेत्य— वधारणं(णेन) निवर्त्यते। एतेन नियमसदृशफलो विनिग्रहोऽपि व्याख्यातः। यथा—

भवतु समदना रतये तिलकवती चारुचम्पकच्छाया।
धनचन्दनधवलकुचा कान्ता तव विद्विषामटवी॥ ३४॥

आदिग्रहणात् असम्भवनियमो विशेषे प्रत्यक्षश्रुतिरित्यादयो गृह्यन्ते। तयोः —

असम्भवनियमो यथा—

हारो थणाण सवणाण कुण्डला मेहला णिअंबस्स।
अच्छीण उणो विभवे वि मंडणं कज्जलसलाआ॥ ३५॥

(हारः स्तनयोः श्रवणयोः कुण्डले मेखला नितम्बस्य।
अक्ष्णोः पुनर्विभवेऽपि मण्डनं कज्जलशलाका॥)

विशेषप्रत्यक्षश्रुतिर्यथा—(उ.राच. १.३८)

इयं गेहे लक्ष्मीरियममृतवर्त्तिर्नयनयो— रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकरसः(सरः) किमस्या न प्रेयो यदिपरमसह्यस्तु विरहः॥ ३६॥

सेयमुद्भूतसम्बन्धव्यतिरेकेण इ X X X दं पदार्थानामितरेतरं प्रत्याकाङ्क्षासन्नि— धियोग्यतापेक्षिणी व्यपेक्षा इत्युच्यते॥

(आकाङ्क्षा)

का पुनरियमाकाङ्क्षा नाम? प्रतिपत्तुर्जिज्ञासा।

सा कथं पदार्थानामुपपद्यते ? कारणे कार्योपचारात्।

तथा हि— अभिधानपर्यवसानमभिधेयपर्यवसानं च जिज्ञासोत्पत्तिकारणं, तच्चोपचारेणाकाङ्क्षेति व्यपदिशन्ति। तत्राभिधानपक्षे द्वारमित्येकपदप्रयोगेऽभिधानमेव न पर्यवस्यति। न ह्यनुच्चरिते योग्यप्रतियोगिनी सन्निधायिनि पदे संव्रियतामपाव्रियता— मित्यादावन्विताभिधानं भवति। वृद्धव्यवहारे चान्वितार्थान्येव पदानि प्रतीयन्ते; बालो हि व्युत्पद्यमानः प्रयोज्यवृद्धस्य शब्दश्रवण समनन्तरभाविनीं विशिष्टचेष्टानुमितां शब्दकारणिकां प्रतीतिमन्वितार्थविषयाम(न्)वगच्छन्नन्वित एवार्थे पदानामभिधानसामर्थ्य— मवधारयति। विश्वजिता यजेतेत्यादौ पुनरनेकपदप्रयोगाल्लब्धेऽन्विताभिधानेऽभिधेयमेव न पर्यवस्यति, अत्रानुष्ठेयतयावगतस्य वाक्याभिधेयस्यार्थस्यानुष्ठातारमन्तरेणानुपपत्तेः, तदुपपत्तये युक्तैवानुष्ठातृजिज्ञासा; तस्यां च सत्यामपरिपूर्णत्वावगमाल्लोकवदध्याहारे कर्तव्ये योग्यत्वात् स्वर्गकाम एवानुष्ठाताध्याह्नियते। अभिहितान्वयवादिपक्षेऽपि पदार्थान्तरमन्तरेणान्वयासामर्थ्यात्तदुपपत्तये युक्तैव प्रतियोगिजिज्ञासा; तस्यां च सत्यामपरिपूर्णवाक्यपरिपूरकतयान्विताभिधानवदेव प्रकरणादिवशेन योग्याध्याहारः क्रियते।

(अन्विताभिधानम्)

नन्वेवं सति यत्र पदत्रयं प्रयुज्यते गामानय शुक्लामिति लोके, तत्राभिधानाभिधेया— पर्यवसानयोरसम्भवान्नाकाङ्क्षास्तीति कथमन्विताभिधानम्? वाक्यस्य गामनयेत्येतावतैव परिपूर्णत्वात् सत्यम्, पदानुच्चारण एवमेतत्। उच्चरिते सत्येतस्मिन्नस्याप्यानयति— सन्निधानात् तदेकवाक्यत्वावगमादानयत्यन्वितस्यार्थाभिधायित्वावधारणादाकाङ्क्षां च विना तदसम्भवादानयतेराकाङ्क्षा परिकल्प्यते। उक्तं च (शाबर—)भाष्यकृता— ‘भवति च सा रक्तं प्रत्याकाङ्क्षा’ (शाभा. १.२.७) इति। तेन तत्रान्विताभिधान— सिद्धयर्थमेवाकाङ्क्षा। यदि परमयं विशेषः, द्वारमित्यादौ तस्यैव पदस्यान्विताभिधाना— काङ्क्षा, गामानय शुक्लामिति तु पदान्तरस्येति। उक्तं च—

अन्वितस्याभिधानार्थमुक्तार्थघटनाय वा।
प्रतियोगिषु जिज्ञासा सा साऽऽकाङ्क्षेति गीयते॥ ३७॥

(प्रप. ९) इति। सा चेयमाकाङ्क्षा विभागे सति भवन्तीति व्युत्पत्तावुपलक्षणमाश्रीयते। किमिति पुनः सन्निधियोग्यतैव नाश्रीयते ?

निराकाङ्क्षेणान्विताभिधानादर्शनात्। अयमेति पुत्रो राज्ञः पुरुषोऽयमपसार्यतामिति पुत्रसम्बन्धनिराकाङ्क्षो राजा न पुरुषेणान्वीयते।

कस्मात् पुनरुभयोः पुत्रपुरुषयोः सन्निधियोग्यत्वाविशेषेऽपि पुत्रेणैव राज्ञः सम्बन्धो न पुरुषेण ?

उच्यते, न्यायसापेक्षत्वाद् वाक्यार्थप्रतिपत्तेः नित्यसापेक्षेणैव राजा सम्बध्यते, तेन सम्बन्धनिराकाङ्क्षः न पुरुषेण सम्बन्धमनुभवतीति आकाङ्क्षापि व्युत्पत्तावुपलक्षणमाश्रीयते।

परिपूर्णेन योग्यस्य समीपस्याप्यनन्वयः।
व्युत्पत्तौ तेन शब्दानामाकाङ्क्षाऽप्युपलक्षणम्॥ ३८॥ (प्रप. ८/९)

सा चेयमाकाङ्क्षा प्रतियोगिषु न सर्वेषु सहसैव युगपदुपजायते, अपि तु कारणोपनिपातात् क्रमेण। तथा हि— क्रियया (क्रियायाः) कर्तारमन्तरेणासम्भवात् तदवगतौ कर्ता प्रथममपेक्ष्यते, स च निष्फले व्यापारे न प्रवर्तत इति कर्मापेक्षते, व्यापारश्च करणमन्तरेणाशक्यः साधयितुमिति करणापेक्षा। एवमधिकरणादयः क्रियाकारकविशेषणादयश्चापेक्षणीया इति कारणोपनिपातः स्यात्। क्रियादिषु यथा—

जिज्ञासा जायते बोद्ध‍ुः सम्बन्धिषु तथा तथा॥ ३९॥

यद्यदाकाङ्क्षितं योग्यं सन्निधिं प्रतिपद्यते।
तदन्वितः पदेनार्थः स्वकीयः प्रतिपाद्यते॥ ४०॥(प्र.प८/९)

(सन्निधिः)

अथ सन्निधिः कः?

योग्यस्याकाङ्क्षितस्य यदानन्तर्यम्।

स द्विधा— अभिधानविषयः अभिधेयविषयश्च।

तत्रोच्चारणनिमित्तोऽभिधानविषयः, अविनाभावनिमित्तोऽभिधेयविषयः। तयोः—

आद्यो(ऽभिधानविषयो) यथा—(काव्याद. ३१.४३)

लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन।
व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन॥

अत्र लीलास्मितादिभिः शुच्यादीनि विशेषणानि यथासान्निध्यमभिसम्बध्यन्ते। द्वितीयो यथा— (कासूवृ. ५.१.१४)

मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा।
वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष॥ ४२॥

अत्र दहत्वित्यादिका क्रिया तदविनाभावनिमित्तकात् सान्निध्यादध्याहृतानलादिभिः सम्बन्धते।

ननु च सन्निधिवदाकाङ्क्षाप्यविनाभावनिमित्ता किमिति नेष्यते ? यद्धि येन विना न भवति नियोगतस्तेन तदाकाङ्क्ष्यते। क्रिया हि कारकाविनाभाविनी; तां प्रतीत्य कारकं जिज्ञासते। एवं कारकमपि बुद्ध्वा क्रियामिति।

तदयुक्तम्, जिज्ञासाविरामानुपपत्तेः; तथा ह्यविनाभावेन कारकजिज्ञासाप्युपपद्यते।

अथ प्रयोजनाभावात् कारकातिरिक्तमन्यत्र जिज्ञास्यते, तर्हि क्रियामात्रावगमेऽपि यत्र कारकज्ञानेन प्रयोजनं नास्ति तत्र जिज्ञासा न स्यात्। अनुष्ठेयतया हि क्रियायामवगतायां कारकोपादानमन्तरेण तदनुष्ठानानुपपत्तेः कारकज्ञानं प्रयोजनवत्। वर्तमानापदेशादौ त्वननुष्ठेयतया नास्ति कारकज्ञानेन प्रयोजनम्।

अथ च यत्रापि वाक्यमपरिपूर्णं मन्यन्ते, साकाङ्क्षार्थाभिधायितया चापरिपूर्णता; अत एव च तत्राध्याहारमपि कुर्वन्ति। यत्रापि च अनुष्ठेयावगतिः, तत्रापि निश्शेषकारक— जिज्ञासा स्यात्। तथा च देवदत्त गामानयेति करणानुपादानादपरिपूर्णता स्यात्।

अथैककारकज्ञानेनापि तावदनुष्ठानोपपत्तेर्न कारकान्तरजिज्ञासा; देवदत्त गामभ्याज दण्डेनेति प्रयुक्तेऽपि दण्डशब्दे तदाकाङ्क्षा न स्यात्। ततश्चानाकाङ्क्षितत्वात् तस्य तदन्वयो वाक्यार्थे न स्यात्।

अथ दण्डपदोच्चारणात् तत्राकाङ्क्षा परिकल्प्यते, अन्यथा दण्डपदस्यानन्वये तत्पदोच्चारणनर्थकं स्यादिति।

एवमरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीत्य(न)न्वयप्रसङ्गः। न हि वेदपदोच्चारणेनानर्थकेन (न) भवितव्यमिति किंचन प्रमाणमस्ति। न च तत्राकाङ्क्षोदये किंचित् कारणान्तरमस्तीति सोमं क्रीणातीत्यतोऽधिकस्यानन्वितता स्यात्। अतो नाकाङ्क्षायामविनाभावो निमित्तत्वेनाश्रीयत इति॥

आकाङ्क्षावच्च सन्निधावपि सन्निधापकक्रमेणैव क्रमो वेदितव्यः। तदनुसारेण चान्विताभिधानमपि तथैवेति॥

सन्निधिश्शब्दजन्मैव व्युत्पत्तौ नोपलक्षणम्।
अध्याहृतेनाप्यर्थेन लोके सम्बन्धदर्शनात्॥ ४३॥

सहसैव न सर्वेषां सन्निधिः प्रतियोगिनाम्।
सन्निधापकसामग्रीक्रमेण क्रमवानसौ॥ ४४॥

यथायथा सन्निधानं जायते प्रतियोगिनाम्।
तथातथा क्रमेणैव शब्दैरन्वितबोधनम्॥ ४५॥

(प्रप. ८/९) (योग्यता)

अथ का योग्यता ? यदेतत् सम्बन्धार्हत्वं नाम।

तद् द्विधा— मुख्यार्थद्वारकं जघन्यार्थद्वारकं च।

कः पुनर्मुख्यार्थो जघन्यार्थ इति ?

श्रवणसमनन्तरं साक्षादेव शब्दाद् यत्रार्थः प्रतीयते स मुखमिव प्रथमं भवतीति मुख्यः।

यस्तु गुणसम्बन्धादिव्यवधानेन शब्दादवगम्यते स जघनमिव पश्चाज्जायत इति जघन्यः। तयोः —

मुख्यस्त्रिधा ‘जात्यादिमुख्यः, आकृत्यादिमुख्यः, भ्रान्त्यादिमुख्यश्च। तेषु

जातिगुणक्रियाभिधायिभिः शब्दैर्योऽभिधीयते स जात्यादिमुख्यः। गौः पदा न स्प्रष्टव्या, शुक्लां गामभ्याज, पाचकमानय, यज्ञदत्तं भोजयेति।

स एवाऽऽलेख्यप्रतिकृतिप्रतिमाप्रतिबिम्बादिविषयः आकृत्यादिमुख्यः। यथा— ‘भवनभित्तौ का X X X, गावः क्रियन्तां, विष्णुं पञ्चामृतेन स्नपय, अप्सु चन्द्रमसं पश्‍येति।

विपर्ययाध्यासविवर्तविपरिणामादिवषियो भ्रान्त्यादिमुख्यः। कोऽयमनाकाशे शशी, स एष बालाबाहुमूले बालचन्द्रमाः, तदेतदलातचक्रं विस्फुरति, तदिदमिन्द्रा— युधं विलोक्यत’ इति।

जघन्योऽपि त्रिधा— गौण, उपचरितो लाक्षणिकश्च।

ययोर्द्रव्यशब्दयोस्सामानाधिकरण्यप्रयोगे विशेषणविशेष्यभावः प्रतीयते स गौणः। यथा— गौर्वाहीकः सिंहो माणवकः, तृणं लक्ष्मीः, गोष्पदं समुद्र इति।

समानाधिकरणशब्दप्रयोगे योऽन्यविशेषणत्वेन प्रसिद्धः कुतश्चिन्निमित्ता— दन्यविशेषणत्वं लभते स उपचरितः। यथा— शुक्लं यशः, मधुरं वाक्यम्, सुरभि शीलम्, सुभगः स्वभाव इति।

यस्तु शब्दोपात्तेनार्थेन क्रिया X X X समर्थेनाविनाभावात् सहचरणादि स लाक्षणिकः। यथा— यष्टीः प्रवेशय, छत्रिणो गच्छन्ति, मञ्चाः क्रोशन्ति, गङ्गायां घोषः प्रतिवसतीति॥

नन्वेवं सति जात्यादिशब्दार्थाः सर्वे लाक्षणिका भवेयुः, तेऽपि हि स्वरूपेण क्रियां साधयितुमपर्याप्‍तैर्जात्यादिभिरविनाभूतव्यक्तिरूपतयोपलक्ष्यन्ते।

नैवम्; जात्यादिप्रवृत्तिनिमित्तानां क्रियासिद्धिषु X X X तीराद्यर्थानामपि समन्वयो दृश्‍यते। नैवं गौरालभ्यतां प्रोक्ष्यतां विशस्यतामित्यादौ अनपेक्षितव्यक्तीनां गोत्वादिजातीनामपि। एतेनारुणया क्रीणाति, अभिक्रामं जुहोतीत्यादौ गुणक्रिययोर्द्रव्य— व्यवधानेनापि क्रियासमन्वये द्रव्याणामलाक्षणिकत्वमेवेत्यभिहितं भवति।

ननु च जातिगुणक्रिया X X X पाकेन जीवतीति।

नैवमत्र जात्यादीनां विशिष्यते / विशेष्यता नद्रव्यरूपत्वात्। तदुक्तम्—

वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ ४६॥

(वाप. ३.४.३) कृदभिहितश्च भावो द्रव्यवत् प्रकाशत इति। एवं च मुख्यवृत्तीनां जघन्यवृत्तीनां च शब्दानां प्रयोगे सोऽर्थः, यत्र सम्बन्धित्वेन उपलम्भः यद्येवं यजेत स्वर्गकाम इत्यादौ स्वर्गयागयोः सम्बन्धित्वेनानुपलम्भात् कथं योग्यत्वेनावधारणम्, अनवधारित— योग्यतयोश्च कथमन्विताभिधानम्? उच्यते—

सामान्येनैव योग्यत्वं लोके यदवधारितम्।
तदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम्॥ ४७॥ (प्र.प ८/ ९)

(६. सामर्थ्यम्)

दृष्टं च साध्यसाधनयोर्ले X X X X यात्मकसामर्थ्याख्यसम्बन्धो मुख्यता (तया ?) व्यपेक्षेत्युच्यते। व्यपेक्षावतां पदार्थानां मिथः सम्बन्धिरूपता सामर्थ्यम्।

तत्त्रिधा १. भेदः, २. संसर्गः, ३. उभयं च। तत्र —

(१) राज्ञो भृत्य इत्यादौ यदा तावदेतदवधृतं परायत्तार्थवृत्तिरयं भृत्यशब्दो न स्वतन्त्रार्थ— वृत्तिः, तदा सामान्येन स्वामिसंसर्गस्यावगतत्वात् १स्वामिविशेष— ज्ञापनायोपादीयमानो राजशब्दः स्वाम्यन्तरेभ्यो भृत्यशब्दार्थं व्यावर्तयति। सोऽयं स्वाम्यन्तरव्यवच्छेदो भेद इत्युच्यते।

  1. इत्येव राघवः। (२) यदा तु राजपुरुष इत्यादावनवगतापरायत्तभावस्य पुरुषस्य स्वामिसम्बन्धद्योतनाय राजशब्दः प्रयुज्यते, तदा विशेषसंसर्गस्य शब्दोपादानत्वादनवकाशो विशेषान्तरसम्पातः, तदा ह्यशब्दा स्वाम्यन्तरनिवृत्तिरर्थादवसीयते। स संसर्गः।

(३) यदा त्वर्थावगतसामर्थ्ययोः प्रतिपत्तिनिबन्धनयोरभेदापेक्षायां समाप्‍तावेव (समास इव ?) भेदसंसर्गेण सामर्थ्यं भवति, यथा नीलं च तदुत्पलं च नीलोत्पलमिति (तदुभयम्)।

यत्र तुं न सम्बन्धयोग्यता न तत्र सामर्थ्यम्, यथा— क्लिद्यते वस्त्रं, नीलम् उत्पलम्, आलि कर्णे, नेह कश्चित्पुरुषः व्याघ्र सरति पल्लीम्, पश्य सखे कष्टं X X X, गच्छ त्वम् यूपाय दारु शोभनं शैले, निवर्तस्व व्याघ्राद् भयं देवदत्तस्य यज्ञदत्तात्, भार्या राज्ञः पुरुषो ब्राह्मणस्य, सक्तस्त्वम् अक्षेषु शौण्डः पिबति पानागारे। अयं दण्डो हरानेन फलानि, अन्तरा त्वां च मां च कमण्डलुः, अन्तरेण तक्षशिलां पाटलिपुत्रं च स्रुघ्‍नस्य प्राकारः, ओदनं पच तव भविष्यतीति। अत्र प्रथमेष्वभिन्नवाक्यत्वात् ‘तिङ्ङतिङ’ (८.१.२८) इति निघातो न भवति।.

(सम्बन्धः)

कः पुनरयं सम्बन्धो नाम ? अहानिर्व्यपेक्षा व्यतिषङ्ग इति। तथा हि— सम्पूर्वो बध्‍नाति अहानौ वर्तते, तद्यथा अस्ति नो गर्गैः सम्बन्धः, अस्ति नो वत्सैः सम्बन्ध इति। तथा व्यतिषङ्गे वर्तते, योऽयसा रज्ज्वा वा कीलादौ व्यतिषक्तो भवति स सम्बन्ध इत्युच्यते। तत्र यदा सम्बन्धस्याहानिरर्थः तदा ऊरीकरोति कारिकाकरोति शक्लीकरोति पटपटाकरोति चकासाञ्चकार विदाङ्कुर्वन्तु, लुनीहि लुनीहित्येवायं लुनाति, भ्राष्ट्रमट मठमट दूरमट इत्येवायमटति इत्येवमादयः प्रयोगा भवन्ति। न ह्येते कदाचिदप्यन्योन्यं जहतीति।

यदा सम्बन्धशब्दस्य व्यपेक्षा अर्थः तदा गुरुकुलं देवदत्तस्य, सूर्यमपि न पश्यन्ति असूर्यम्पश्या राजदाराः, किंञ्चिदपि न कुर्वाणः अकिंचित्कुर्वाणः, शङ्कुलया कृतः खण्डः शङ्कुलाखण्डः, दध्‍नोपसिक्त ओदनो दध्योदनः, अश्रेणयः श्रेणयः कृताः श्रेणीकृताः, कण्ठे कालोऽस्य कण्ठेकालः, केशेषु केशेषु च गृहीत्वा प्रवृत्तं युद्धं केशाकेशि इत्यादयः प्रयोगा भवन्ति। एतैः समासावस्थायामपि देवदत्तादीन्यपेक्ष्यन्ते।

यदा तु सम्बन्धशब्दस्य व्यतिषङ्गोऽर्थः तदा उपकुम्भम्, नीलोत्पलम्, गोगर्भिणी, पूर्वकायः, सप्‍तर्षयः, प्लक्षन्यग्रोधौ, कष्टश्रितः, काक X X X च मिथो विशेषणविशेष्यभावेन व्यतिषज्यन्ते।

यत्र हि पूर्वोत्तरपदयोः सङ्गतार्थता तत्सामर्थ्यं सम्बन्धः, स च विशेषणविशेष्यभाव इत्याख्यायते; तत्र चैकस्य प्राधान्यमन्यस्योपसर्जनत्वम्।

न हि प्रधानयोरुपसर्जनयोरेव वा सम्बन्धः कल्पते, प्रधानस्या— परार्थत्वादुपसर्जनस्य X X X X X लक्षित(?) परस्परं पदद्वयं प्रधानोपसर्जनभावेन विशेषणविशेष्यभावमासादयति।

स च प्रधानोपसर्जनभावः कदाचिच्छब्दनिबन्धनः, कदाचिदशब्दोपादानः सामर्थ्येनावसीयते।

शब्दनिबन्धनो यदा वैयधिकरण्यं xxx उपसर्जनशब्दा हि प्रधानोपकाराय परिणतं स्वार्थमाचक्षाणाः xxx मिदधानाः प्रथमयैव संस्क्रियन्ते।

अशब्दोपादानो यदा सामानाधिकरण्यम्, अपरार्थतया हि प्रातिपदिकस्याव्यतिरेके वृथा (यद् आ—)विर्भवति शब्दैः तदुभयोर्द्रव्यशब्दतायामुपपद्यते, सा च गुणादीनां मतुब्लोपादिना भवति।

सोऽयं विभक्तिभेदतः सामर्थ्यतश्च प्रधानोपसर्जनभावो द्विप्रकारः मुख्यवृत्त्या उपचारवृत्त्या च।

सम्बन्धविभक्त्या यथा— ‘राज्ञः पुरुषः, यूपाय दारु।

कारकविभक्त्या तु श्रूयमाणक्रियोऽश्रूयमाणक्रियश्च।

श्रूयमाणक्रियो यथा— कष्टश्रितः, व्याघ्राद् भयम्।

अश्रूयमाणक्रियो यथा— शङ्कुलया खण्डः, अक्षेषु शौण्डः।

मुख्यवृत्त्या यथा— नीलमुत्पलम्, वीरः पुरुषः।

उपचारवृत्त्या यथा— पुरुषो व्याघ्रः, सिंहो माणवकः।

विशेषणविशेष्ययोरुपसर्जनप्रधानभावः सामानाधिकरण्ये विभक्त्यभेदादशक्यः शब्दतोऽवधारयितुम्, सम्बन्धसामर्थ्यात्तु प्रतीयते। न हि सम्बन्धः प्रधानयोरेव वा सम्भवति।

ननु च नीलमुत्पलमित्येकैकपदप्रयोगादनवच्छिन्ना x x x प्रथमा न प्राप्‍नोति यथा नीलशब्दस्तावदयं स्वार्थसामान्यवचनोऽव्यतिरेकात् प्रातिपादिकार्थस्य प्रथमयैव सम्बध्यते, तथैवोत्पलशब्दोऽपि। यदेव केवलमव्यतिरेकार्थाभिधायि पदं पदान्तर— सन्निधानेऽपि तत् तदेव। ततो यमर्थमभिधातुं योग्यमवधृतमस्य रूपं तमेव पदान्तरसन्निधावपि प्रत्याययति, रूपभेदात्। न हि रसनमसन्निधौ दर्शनस्य मधुरादिव्यञ्जकदर्शनसन्निधौ नीलादिव्यक्तिसामर्थ्यं लभते। किंतु पदयोः परिच्छिन्नार्थः पुमांस्तयोः सन्निधौ प्रयोगसामर्थ्यादर्थयोः परस्परोपश्लेषयोग्यत्वादेकवाक्य— रूपानुग्रहाच्‍चान्योन्यं प्रधानोपसर्जनभावेन विशेषणविशेष्यभावमुपैति। तथा हि — यत्र विशेषणं विशेष्यं चैकस्मिन्नर्थे सम्भेदं प्रतिलभते तत्र यश्शब्दः स पूर्वोत्तरपदाधिष्ठानमेनं प्रत्याययति। उत्पलशब्दोऽभिप्रवर्तमानः सर्वोत्पलावग्रहरूपेण प्रवर्तते नीलशब्दः प्रवर्तमानो विशिष्टावग्रहरूपेणावच्छिनत्ति।

यदि वा नीलमित्येतत्प्रवर्तमानन्यूनाधिकभावमनपेक्षमाणमनेनैव धर्मेण सर्वयोग्यं सदुत्पलमिति शब्दान्तरेण विशिष्टायां योग्यतायां नियम्यते।

अथवा यथा कृष्णः शुक्लश्चायं मृगः सारङ्गः शबल इति वा, तथा नीलोत्पल इत्युभयरूप एवार्थात्मा ह्युभयत्र सन्निवेश्यते नीलं चोत्पलं चैकं नीलोत्पलमिति; तौ यस्मिन्नुभयगुणमनु विभागमाप्यमानौ संमूर्च्छिताविवार्थौ भवतः, तत्तयोरेकमधिकरणम्।

यदि वा नीलशब्दः प्रवर्तमानो नीलगुणमात्रमुपादाय प्रवर्तते, न त्वनेनोत्पलादय उपात्ताः, नापि परित्यक्ताः। एवमुत्पलशब्दो विजातियोगमात्रमुपादाय प्रवर्तते, न नीलादींस्त्यजति, नोपादत्ते। तत्र यदैव भिन्नेऽर्थरूप इदमिति सर्वनाम्‍ना प्रत्यवमृश्यमाने उपश्लिष्यते नीलमुत्पलं चेदं द्रव्यमिति, तदा शब्दभेदाद् भिन्नमेकमेव द्रव्यं विशेषणं विशेष्यमधिक x x x क्तः पदद्वयसन्निधानायत्तत्वाद् विशेषणविशेष्यभावस्य वाक्यार्थत्वं, न पदार्थता।

तदिदमुक्तम्—‘यदत्राधिक्यं वाक्यार्थः स’ इति (मभा. २.३.४६ वा.)। नीलमुत्पलमिति विशेषणविशेष्ययोरुभयस्य च विशेष्यत्वादुपसर्जनत्वाप्रसिद्धिः, यथा ह्युत्पलशब्दो नीलशब्देनाभिसम्बध्यमानो विशेष्यवचनः तथा नीलशब्दोऽप्युत्पल— शब्देनाभिसम्बध्यमानो विशेष्यवचनः सम्बध्यते।

नैवम्; एकस्यात्र प्राधान्यं विवक्षितं, तद्‌विशेषणत्वम् अपरस्य, उत्पलस्य चात्र प्राधान्यं विवक्षितं नीलशब्दस्योपसर्जनत्वमिति।

यदा तर्हि नीलस्य प्राधान्येन विवक्षा उत्पलस्य चोपसर्जनत्वेन तदा कर्तव्यं सामानाधिकरण्यम्; न ह्यसौ द्वन्द्वः, उत्पलं च नीलं चेति; नापि षष्ठीसमास उत्पलस्य नीलमिति; अपि तु द्वाविमौ प्रधानशब्दावेकस्मिन्नर्थे युगपदुपरुध्येते। न च द्वयोः प्रधानयोरेकस्मिन्नर्थ युगपदुपरोधे प्रयोजनमस्तीति प्रयोगसामर्थ्याद् गम्यते नूनमेकमिह प्रधानं तदि्वशेषकं चापरम्।

एतावाँस्तु सन्देहः—किं विशेष्यम्, किं विशेषणमिति ? तत्र

द्रव्यं विशेष्यं गुणो विशेषणं, द्रव्यस्यान्यानपेक्षिणः साक्षात्क्रियासूपयोगेन प्राधान्यात्।

ननु गुणस्यापि साक्षात्क्रियासूपयोगो दृश्यते, यथा ‘श्वेतं छागमालभेत’ इति ?

नैवम्; इह श्वेताभावे कृष्णमपि छागमालभते, न तु श्वेतां पिष्टपिण्डीमालभ्य कृती भवति। एवमुपचारप्रवृत्तावपि पुरुषव्याघ्र इत्यादौ यदान्तर्भूतोपमान— सम्बन्धप्रतीतभेदा, व्याघ्रादिशब्दैरुपमेयः पुरुषादिः अभिधीयते तदा सामानाधि— करण्योपपत्तौ ‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे’ (२.१.५६) इति समासो भवति। एवं प्रपचति साधु पचतीत्यादयो द्रष्टव्याः।

कथं पुनः सामानाधिकरण्येन क्रियाविशेषणत्वे साध्वादयोऽसत्त्ववचना भवन्ति ?

उच्यते—उपसर्गाणामिव क्रियाविशेषणानामप्यसत्त्वभूतानामेव क्रियां प्रति गुणभावो भवति, यथा पच्यादिकं विशेषे स्थापयन् असत्त्वार्थः प्रशब्दो विशेषणत्वं लभते, एवं साधुशब्दोऽपि क्रियात्मभूतं धर्ममुत्कर्षादिकं क्रियास्थमसत्त्वभूतं क्रियानुप्रविष्टमभिदधानः क्रियानुरोधादेवासत्त्वभावमापन्नः क्रियाविशेषणत्वं लभते।

कथं पुनः प्रपचतीत्यादौ प्रादेरुभयविशेषणत्वे क्रियाभागेनैव सम्बन्धो भवति ? सति वा कथमुभयविशेषणत्वम् ?

उच्यते— यथा मासो जातस्येति मासाख्यः क्रियाकलापः (कथं) प्रथमकुक्षिवियोगाख्यस्य जन्मनोऽवधिभावेन परिच्छेदको भवति, जन्मप्रतिलब्धां वा सत्तां समावृत्त्या परिमिमीते, यथा च कष्टश्रित इत्यत्रोपात्तक्रियाविशेषपरिच्छिन्नः कर्ताऽभ्यन्तरीकृतसाध्यसाधनसम्बन्धः क्रियायोगे श्रयतिक्रियासम्बन्धात् कष्टे कर्मत्वमिति श्रयणक्रिया कष्टेन सम्बन्धमनुभवति, यथा च वृकाद् भीत इत्युपात्तक्रियावच्छिन्नः कर्ता भयक्रियासम्बन्धाद् वृकस्यापादानत्वमिति भयक्रियापूर्वकं वृकेन सम्बध्यते, तथेहाप्युपात्तपच्यादिक्रियाविशेषपरिच्छिन्नः कर्ताऽभ्यन्तरीकृतसाध्य— साधनसम्बन्धः क्रियायोगे प्रादीनामुपसर्गत्वम् (मभा. १४.४९) इति क्रियापूर्वकं प्रादिभिः सम्बध्यत इति। सर्वेऽपि च समुदायसम्बन्धिनोऽवयवस्पर्शेनैव तद्वता समुदायेन सम्बध्यन्ते। तदुक्तम्—

समुदायेन सम्बन्धो येषां गुरुकुलादिना।
संस्पृश्यावयवाँस्ते तु युज्यन्ते तद्‍वता सह॥ ४८॥

(वाप.३.४८ वृ.) (७. अन्वयः)

व्यपेक्षादिभिरेकार्थपरतयोपात्तानां पदार्थानां मिथोऽभिग्रथनमन्वयः।

स त्रिधा— १. शाक्तः, २. वैभक्तः ३. शक्तिविभक्तिमयश्च। तेषु—

कर्मादिशक्तिभिर्निर्वृत्तः शाक्तः,

सम्बन्धादिविभक्तिभिर्वैभक्तः,

उभाभ्यां पुनः शक्तिविभक्तिमयः।

(१. शाक्तः)

तत्राख्यातसुब्विभक्तिभ्यां कर्तृकर्मणोरभिधाने शाक्तो यथा—

अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी।
तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा॥ ४९॥

(माघ. २.५) कृदाख्याताभ्यां भिन्नकालस्थकर्तृशक्तिद्वयाभिधाने सुब्विभक्तिभिः कर्मकरण— सम्प्रदानाभिधाने च शाक्तो यथा— (काव्याद. २.२४८)

अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः।
अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम्॥ ५०॥

आख्यातविभक्त‍या हेतुशक्त्यभिधाने सुब्बिभक्तिभिश्च कर्मकर्त्रपादाना— धिकरणशक्त‍यभिधाने यथा—

स सेतुं बन्धयामास प्लवगैर्लवणाम्बुधौ।
रसातलादिवोत्तोर्णं शेषं स्वप्‍नाय शार्ङ्गिणः॥ ५१॥

(रघु. १२.७०)१ (शार्ङ्गिण इति) कर्तरि षष्ठी न सम्बन्धे, स्वप्‍नायेति भाव एव चतुर्थी न तादर्थ्ये। आख्यातेन कर्त्रभिधाने तद्धितेन कृतां च कर्माभिधाने सुपा कथिताकथितकर्माभिधाने च शाक्तो यथा— (माघ. २.३४)

विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते॥ ५२॥

१. मूलपाठोऽस्माकं कालिदासग्रन्थावल्या १९८६ वर्षीये संस्करणे द्रष्टव्यः। (२. वैभक्तः)

सम्बन्धविभक्त‍या वैभक्तो यथा— (वारा. ६.८३, ३५)

यस्यार्थास्तस्प मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः॥ ५३॥

शेषविभक्त‍या वैभक्तो यथा—(मनु. १.९६)

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्रह्मवादिनः॥ ५४॥

उपपदविभक्त‍या वैभक्तो यथा—(हर्षच १.१)

नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे॥ ५५॥

सम्बोधनविभक्त‍या च वैभक्तो यथा—

अवनिपवनवह्निव्योमतोयान्तरात्म— न्नहिमकरहिमांशो ! विश्व ! विश्वैकयोने !।
हर ! भव ! शिव ! शर्व ! त्र्यम्बकेशान ! रुद्र ! त्रिनयन ! वृषकेतोऽनन्तमूर्त्ते ! नमस्ते॥ ५६॥

(३. शक्तिविभक्तिमयः)

कारकविभक्तिभिः सम्बन्धोपपदशेषसम्बोधनविभक्तिभिश्च शक्तिविभक्तिमयो यथा—

तीर्थेषु सत्सु द्विजसत्तमेभ्यः श्रिय द्विषद्दुष्टजनानुपात्ताम्।
समाधिना मानमनित्य/निद्रमेव कस्य प्रदातुं त्वदृतेऽस्ति शक्तिः॥ ५७॥

यत्र लुप्‍तास्वपि विभक्तिषु शक्तयोऽवभासन्ते विभक्तयश्च साक्षादुपलभ्यन्ते सोऽपि शक्तिविभक्तिमयः। यथा—

वित्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदूढसत्त्वः।
प्रतिष्ठितौदार्यगुणोऽसिपत्रजितावनिः कोऽत्र भवानिवान्यः॥ ५८॥

यत्रैकतः शक्तिरन्यतो विभक्तिस्सोऽपि शक्तिविभक्तिमयो यथा—

इक्षुदण्डस्य मण्डस्य दध्‍न पिष्टकृतस्य च।
वाराहस्य च मांसस्य सैष गच्छति फाल्गुनः॥ ५९॥

यत्र व्यपेक्षोक्ता विभक्तिविपरिणामादयः प्रवर्तन्ते सोऽपि शक्तिविभाक्तिमयो

यथा— (किराता ३.२१)

निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयमाराधितजामदग्न्यम्।
असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः॥ ६०॥

अत्र यदि जनिक्रियातो निरीक्षणक्रियायाः पूर्वत्वं तदा कर्तृभेदान्नास्ति क्त्वाप्रत्ययः। अथ पक्षपातक्रियातः, तदा निरीक्षणपक्षपातयोः मृत्युनेति भवति क्त्वाप्रत्ययः, अभिधाव्यापारस्तु विघटते; षष्ठ्यभिहितस्य कर्तुः पक्षपातक्रिययैव सम्बन्धः, न निरीक्षणक्रियया। ‘कर्तृकर्मणोः कृति’ (२.३.६५) इति षष्ठ्याः ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ (२.३.६९) इति प्रतिषेधात्। स च विभक्तिविपरिणा— माध्याहारविपर्ययवाक्यभेदव्यवहितकल्पनागुणकल्पनाभिरुपपद्यते। तत्र राधेयं निरीक्ष्य मृत्युरपि भयेषु पक्षपाती भवतीति विभक्तिविपरिणामः; राधेयं निरीक्ष्य स्वसामर्थ्यं विमृशतो मृत्योरपि भयेषु पक्षपातो जायेतेति वाक्यभेदः; राधेयं निरीक्ष्य मारयतीति मृत्योरपि भयेषु पक्षपातो जायेतेति व्युत्पत्तिकालाश्रिताया व्यवहितायाः क्रियायाः व्यवहारकालेऽप्याश्रयणात् व्यवहितकल्पना; निरीक्ष्येव निरीक्ष्येति पक्षपातन— स्याचेतनस्यापि चेतनगुणाध्यारोपेण गुणकल्पना। यदाह— ‘मुख्याभावे सति प्रयोजने निमित्ते च सत्युपचारः प्रवर्तते’ (मभा. ४.१.२७)। दृष्टश्च अचेतनेऽपि प्रेमादौ चेतनादिक्रियोपचारो यथा—

‘प्रेम पश्यति भयान्यपदेऽपि॥ ६१॥’
(किराता. ९.७०) ‘अवस्था वस्तूनि प्रथयति च सङ्कोचयति च॥ ६२॥’

(अन्विताभिधानमभिहितान्वयवादौ)

अथ किमभिहितानां पदार्थानामन्वय उतान्वितानामभिधानम् ?

‘उच्यते— अस्त्यत्र मतभेदः;

तत्र एके वर्णयन्ति अन्वितानामभिधानमभिहितानां चान्वयः।

(अन्वितानामभिधानम्)

केचिद् ब्रुवते नान्वितानामभिधानं, न चाभिहितानामन्वय इति।

तत्रान्विताभिधानवादिन एवमाहुः — व्युत्पत्तिबलेन हि शब्दोऽर्थमवबोधयति, व्युत्पत्तिश्च वृद्धव्यवहारात्; वृद्धाश्च वाक्येनैव व्यवहरन्ति न पदेनः यच्‍चार्थप्रकरणादिगम्य— पदार्थान्तरसहकृतं पदं प्रयुञ्जते तदपि वाक्यमेव।

यदप्येकं पदं दृष्टं चरितार्थक्रियं क्‍वचित्।
वाक्यं तदपि मन्यन्ते सम्बोधनपदादिवत्॥ ६३॥

यच्‍च कोऽयमिति प्रश्‍ने गौरश्व इति वोच्यते।
तत्र दृश्यत इत्यादिः प्रश्‍नोक्तैव क्रियेष्यते॥ ६४॥

(वाप. २.२७०, २७१, ३२६)

वाक्यं चैकार्थपरः पदसमूहः, संहत्यार्थमभिदधति(न्ति) वा पदान्युच्यते। समूहश्चैवमेकार्थः स्यात्। एवं च संहत्यार्थमभिदध्युः पदानि यद्येकैकं पदमभिन्न एवार्थे व्याप्रियेत। तत्र यथा त्रयोऽपि ग्रावाण उखां धारयन्ति, चत्वारोऽप्युद्यन्तारः शिबिकामुद्यच्छन्ति, सर्वाण्यपि कारकाणि पाकं साधयन्ति, तथा पदान्यपि सर्वाणि वाक्यार्थमन्ववगमयन्ति। वाक्यार्थश्च क्रियाकारकसंसर्गरूपः। तत्र कारकाणां क्रियासम्बन्धोन्मुखतया क्रियाणां च कारकविरहासहिष्णुत्वेनान्वितानामेव स्वशब्दै— रभिधानं भवति। एवं च सति वाक्यार्थस्य साक्षादेव शाब्दत्वमुपपद्यते, न त्वभिहितान्वयपक्षवत् पारम्पर्येणेति।

तदभिहितान्वयवादिनो न मृष्यन्ते। ते ह्येवमाहुः– अनवगतपदार्थकस्य वाक्यार्थसम्प्रत्ययादर्शनात् पदार्थप्रतिपत्तिपूर्विकैव (वाक्यार्थ—)प्रतिपत्तिः। पदार्थप्रतिपत्तिश्चैवमवकल्पते। यदि तावानेव सोऽर्थः पदेनाभिधीयते पदार्थान्तरान्विते तु तस्मिन्नभिधीयमाने कदम्बकरूपार्थप्रतिपत्तेः पदार्थप्रविभागो न प्रकल्पेत। अस्य पदस्य जातिरर्थोऽस्य द्रव्यमस्य गुणोऽस्य क्रियेति आवापोद्वापाभ्यां तदवधारणमिति चेत् नैवम्, तत्रापि कदम्बकरूपार्थप्रतीतेरनपायात्॥

किंच प्रतियोगिनामनन्ततयान्वयस्यानन्त्यात् तदन्वयानन्त्येनान्विताभिधायिन्याः सम्बन्धग्रहणमशक्यमिति दुरवगमः पदार्थयोः सम्बन्धग्रहः; तदनपेक्षत्वे प्रथमश्रुतादपि तदर्थप्रतिपत्तिः प्राप्‍नोति। गामानयेति वाक्यादश्वबन्धननियोगः प्रतीयेत, वृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः पदपर्यन्तैव भवति। इतरथा हि प्रतिवाक्यं व्युत्पत्तिरपेक्ष्येत्, सा चानन्त्याद्‍दुरुपपादेति शाब्दव्यवहारोच्छेदः स्यात्। दृश्यते चाभिनव—कवि—श्लोकात् वाक्यार्थप्रतीतिः; सा च पदपदार्थयोरेव व्युत्पत्तावुपपद्यते न वाक्यवाक्यार्थयोरिति नास्त्यन्विताभिधानम्॥

अपि चान्वयस्यान्वितविशेषणत्वात् तदभिधानमन्तरेणान्वितोऽभिधातुं न शक्यत इत्यन्वयाभिधानमङ्गीकरणीयम्। न च तदेकया शक्त्या शक्यतेऽभिधातुमिति शकत्यन्तरकल्पनाप्रसङ्गः। अपि च गामानयेत्यत्र यदा गोशब्देनानयत्यर्थविशिष्टः स्वार्थोऽभिधीयते तदा गवार्थस्याप्राधान्यम्, यदा च आनयतिना गवार्थविशिष्टः स्वार्थः तदा तदर्थस्येत्येतस्मिन्वाक्ये प्रधानद्वयोपनिपाताद् वाक्यभेदापत्तिः। अपि च प्रकृतिप्रत्यययोरन्योन्यान्वितस्वार्थाभिधानलब्धपदभावयोः पदार्थान्तरान्वितार्थवाचक— त्वमिति द्विरभिधानं स्यात्। किंच पदेनान्वितः स्वार्थोऽभिधीयमानः किमभिहितेन पदार्थान्तरेणान्वितोऽभिधीयते, उतानभिहितेन ? अनभिहितेन चेदेकस्मादेव पदात् तदर्थोपरञ्जकद्वितीयपदार्थावगतेः पदान्तरोच्‍चारणवैयर्थ्यम्। एवं चैकमेव पदमखिल— पदाभिधेयार्थवादि सम्पन्नमिति तेनैव व्यवहारः स्यात्। न चासौ सम्पद्यते। गौरिति ह्युक्ते सर्वगुणक्रियावगमान्न ज्ञायते किमुपादीयतामिति; नियतगुणक्रियानुरक्त— स्वार्थप्रतिपादने तु न हेतुरस्ति। पदान्तरसन्निधानं नियमहेतुरिति चेत्, तदपि जपमन्त्रादिपदवत् स्वरूपमात्रेण सन्निधानान्न विशिष्यते। अथाभिहितेन, तर्हि पदमन्विताभिधायितया पदान्तरोत्थमर्थाभिधानमपेक्षते; ततश्‍चेतरेतराश्रयमनवस्था चक्रकं वा प्राप्‍नोति॥

अथ द्वितीयमनन्वितमेव स्वार्थमभिधत्ते, प्रथमेन किमपराद्धम्। एवं च सर्वपदे स्वार्थमात्राभिधानादभिहितान्वय एव भवति॥

(अन्विताभिधानम्)

किंचाङ्गुल्यग्रे हस्तियूथशतमिति नास्त्यन्वयो योग्यत्वाभावात्; अन्विताभिधानवादिनां त्वन्वितस्याभिधानात् तत्राप्यन्वयः प्राप्‍नोति। अपि चान्विताभिधानवादिनां पुरुषवाक्यादेवमयं पुरुषो वेदेति भवति प्रत्ययो नैवमर्थं प्रति सिद्धान्तः। ते ह्येवमाहुः— वाक्यात् कार्यभूतात् प्रत्ययितस्य वक्तुस्तदर्थविषयं पूर्वविज्ञानं कारणभूतमनुमीयते, तस्य च ज्ञानस्य ज्ञेयाव्याभिचारित्वात् ज्ञेयभूतार्थनिश्चय इति न वाचकशक्त‍याऽर्थावगमः। एवं च वाचकशक्तिरेव नावधार्यते कुतोऽन्विताभिधानमिति। तस्मादभिहितानां पदार्थानामन्वय इति युक्तम्। पदानि हि स्वमर्थमभिधाय निवृत्तव्यापाराणि।

अथेदानीं पदार्था अवगता वाक्यार्थं गमयन्तीति।

अत्रान्विताभिधानपक्षे कदम्बकरूपार्थप्रतिपत्तेः प्रतियोगिनां चानन्ततया सम्बन्धग्रहणस्याशक्त्या दुरवगमः पदार्थप्रविभाग इति; तदिदं व्युत्पत्त्यनभिज्ञस्य चोद्यम्। न ह्येवं व्युत्पत्तिः गोशब्दस्य शुक्लान्वितोऽर्थ इति, स हि व्यभिचरति कृष्णान्वितस्यापि तदर्थस्योपलम्भात्; नापि सर्वान्वितः, आनन्त्येन दुरवगमत्वात्; किन्त्वाकाङ्क्षितसन्निहितयोग्यार्थान्तरानुरक्तोऽस्यार्थ इति। एतां च व्युत्पत्तिं वाक्यान्येव पदावापोद्वापविरचनावैचित्र्यभाञ्जि सञ्जनयन्ति। यतः—

ओप्यन्ते चोद्ध्रियन्ते च स्वार्थाः स्वान्वयशालिनः।
अन्विते स्वे च सामर्थ्यं पदानां तेन गम्यते॥ ६५॥

(प्रप.८) तत्र च—

यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते।
तदन्वितं पदेनार्थः स्वकीयः प्रतिपाद्यते॥ ६६॥

(प्रप.८/९) पदार्थपर्यन्तापि च भवन्ती व्युत्पत्तिरीदृशी दृश्यते न शुद्धपदार्थविषया।

(न्यायमं.) तथा हि—

नियतं साधनं साध्ये क्रिया नियतसाधना।
स सन्निधानमात्रेण नियमः सम्प्रकाशते॥ ६७॥

गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते।
साध्यत्वेन निमित्तानि क्रियापदमपेक्षते॥

(वाप. २.४७,४८) एवं च सन्निहितयोग्याकाङ्क्षितोपरक्ते स्वार्थे क्‍वचिद्‍गृहीतसम्बन्धः सर्वत्र गृहीतो भवतीति नानन्त्यव्यभिचाराभ्यां सम्बन्धाग्रहणम्। न च कदम्बकार्थप्रतीतेः पदार्थात्प्रविभागः। तदुक्तम्—

आकाङ्क्षासन्निधिप्राप्‍तयोग्यार्थान्तरसङ्गतान्।
स्वार्थानाहुः पदानीति व्युत्पत्तिः संश्रिता यदा॥ ६९॥

(प्रप.८) आनन्त्यव्यभिचाराभ्यां तदा दोषो न कश्चन।
कदम्बकार्थरूपायाः प्रतीतेश्च न सम्भवः॥ ७०॥

(प्रप.८/९) इति। ततश्च पदपदार्थयोस्सम्बन्धग्रहणोपपत्तौ न प्रथम(म)श्रुतापि पदादर्थप्रतीतिः, न गामानयेति वाक्यादश्वबन्धननियोगः (न्यायमञ्जरी) न प्रतिवाक्यं व्युत्पत्त्यपेक्षा, न चाभिनवकविश्लोकवाक्यार्थप्रतीतिर्भवतीति।

यदपि चान्विताभिधाने शक्तिद्वयकल्पनागौरवमाशङ्कितं, तदपि नास्ति। अन्वयवत्ता ह्यन्वितता। तदभिधानेनान्वितोऽभिहितः स्यात्। न हि दण्डीत्यत्र दण्डो नाभिधीयत इति। सम्भवति परं विशेषः; तत्र प्रकृत्या विशेषणाभिधानम्, इह तेनैव, अन्यतस्तदलाभात्। अतोऽन्विताभिधानशक्त्यैवान्वयोऽप्यभिधीयत इति नास्ति शक्तिद्वयकल्पनागौरवम्। तदुक्तम्—

व्यतिषक्तार्थबुद्ध‍या हि व्यतिषङ्गो निशम्यते।
अपरं तु न संसर्गप्रतीतेरस्ति कारणम्॥ ७१॥

प्रतिपत्त्याऽन्वयं यस्मात्प्रतीयादन्वितं पुमान्।
व्यक्तिं जातिमिवार्थोऽसाविति सम्परिकीर्त्यते॥ ७२॥

(प्रप.१७) योऽपि प्रधानद्वयशङ्कया वाक्यभेदलक्षणो दोषः, सोऽपि नोपपद्यते। यतोऽन्वितः सम्बन्ध उच्यते। तत्र कश्चित् प्रधानतया सम्बन्धः कश्चिद् गुणतया; यश्च यथा सम्बन्धः स तथैवोच्यत इति नैकस्मिन् वाक्ये प्रधानद्वयप्रसङ्गाद् वाक्यभेदलक्षणदूषणोत्पत्तिः। तदुक्तम्—

प्रधानगुणभावेन लब्धान्योन्यसमन्वयात्।
पदार्था एव वाक्यार्थं सङ्गिरन्ते विपश्चितः॥ ७३॥

प्रतिपत्तिर्गुणानां तु प्रधानैकप्रयोजना।
तत्प्रतीत्येककार्यत्वाद् वाक्यमप्येकमुच्यते॥ ७४॥

(प्रप.) यच्‍च प्रकृतिप्रत्यययोः पदस्य चाभिधाने द्विरभिधानमुक्तं, तदपि न सम्यक्; प्रकृत्यान्वितस्यार्थो विधीयते, प्रत्ययश्च प्रकृत्यर्थान्वितं पदार्थान्वितं च स्वार्थं ब्रवीति, प्रत्ययार्थस्य प्रकृत्यर्थान्वितस्य पदान्तरार्थापेक्षित्वादिति कुतो द्विरभिधानम्।

नन्वेवं पदस्यान्विताभिधायित्वं न स्यात्, प्रत्ययस्यैव प्रकृतिसहितस्य पदत्वात्। किंचायमभिहितान्वयवादिनोऽपि तुल्यो दोषः। ततश्च—

यश्चोभयोः समो दोषः परिहारोऽपि वा समः।
नैकः पर्यनुयोक्तव्यस्तादृश्यर्थविचारणे॥ ७५॥

प्रकृतिप्रत्ययौ ब्रूतः प्रत्ययार्थं सहेति च।
यदाहुः सूरयस्तेन तद् द्वयं पदमिष्यते॥ ७६॥

(काशिका १.२.५६) यच्‍चानभिहितपदार्थान्तरान्वितस्वार्थाभिधानपक्षे पदान्तरोच्‍चारणवैयर्थ्यमित्यादि, अभिधानपक्षे पुनरितरेतराश्रयादिदूषणमुक्तं, तदुभयपक्षानभ्युपगमेनैव निरस्तम्। यतो नास्माकमयं पक्षः प्रथमश्रुतान्येव पदानि स्वार्थानन्योन्यमन्वितानभिदधति, अपि तु यस्य यावन्तोऽर्थाः सम्भवन्ति तच्छ्रवणे तावन्तः स्मृतावुपस्थाप्यन्ते, ततश्चाकाङ्क्षासन्निधियोग्यतादिसम्पादितनियतमिथस्समन्वयाः पदैरेव स्मृत्युपारूढैर— भिधीयन्ते। तथाहि—यस्तावदगृहीतसम्बन्धो यस्य च सम्बन्धग्रहणसंस्कारो नोत्पन्नः प्रध्वस्तो वा स वाक्यार्थप्रतिपत्तौ नाधिक्रियते; यस्त्वनवभ्रष्टसम्बन्धग्रहणसंस्कारः स पदं पदं श्रुत्वा नूनं तावदिदं स्मरति—इदमिदमस्यार्थस्याकाङ्क्षितसन्निहित x x x ताश्रयमाधाराधेयसामान्यं पदद्वयात् तु परस्परोपहितव्यवच्छेदं प्रतीयते, तत x x x।

(अनु—)योग्यप्रतियोग्यन्वितस्य वाचकत्वमिति।

एवं च स्मरता स्मृतमेव अनन्वितमपि स्वरूपमन्वयभाजां भवति।

ननु श्रूयमाणेन पदेन योऽर्थो नावबोधितः स कथमन्तर्हिते तस्मिन् अवबोध्यते ?

उच्यते — अभिहितान्वयवादिनोऽपि नायं नियमः श्रूयमाण एव पूर्ववर्णजनित— संस्कारसहितोऽन्त्यो वर्णः प्रत्यायक इति। बालिशाधीतात् प्रागनवधृतार्थाद् अपरिज्ञाने संस्कृतस्य (अङ्गपरिज्ञानसंस्कारात्) पश्चात् श्रुतादपि भेदा(वेदाद)र्थावगमदर्शनात्, तेन स्मृत्यारूढस्यावगमकत्वमदोषः; श्रूयमाणेन हि पदेन प्रतियोगिसापेक्षत्वादन्विता— भिधानस्य प्राक् सहकारिविरहादर्थोऽनभिहितः पश्चादभिधीयत इति किमनुपपन्नम् ?

तथा चाह—

पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम्।
न्यायसम्पादितव्यक्ति पश्चादन्वितबोधकम्॥ ७७॥

(प्रप.१२) स्मृतिसन्निहितैरेवमर्थैरन्वितमात्मनः।
अर्थमाह पदं सर्वमिति नान्योन्यसंश्रयः॥ ७८॥

(प्रप.१५) कथं पुनरन्विताभिधायिना पदेन स्वरूपमात्रं स्मारयितुं शक्यते ? उच्यते—‘अन्वितस्याप्यभिधाने स्वरूपमात्रस्य विद्यमानत्वान्नायं नियमः यावद् गृहीतं तावत् स्वकर्तव्यं स्मर्तव्यम्, अपि त्वगृहीतं तु न स्मर्यत इति।

ननु च शब्दस्य स्वरूपाभिधानशक्त्यभावदप्रामाण्ये कथं शब्दश्रवणात् स्वरूपस्मरणं भवति ? उच्यते— न हि यत्प्रमाणं तत्स्मृतिक(का)रणं, किंतु (अ)प्रमाणमेव तत्। यस्य तु येन सह काचित् प्रत्यासत्तिः प्रतीतपूर्वा स तत्र संस्कारोद्‍बोधद्वारेण शक्‍नोत्येव स्मृतिमाधातुम्। अस्ति च स्वरूपस्यापि तदभिधेयान्तर्गत्या शब्देन सह प्रत्यासत्तिरिति शक्‍नोति तत्रापि (शब्दः स्मृतिं) जनयितुम्। यथा निर्विकल्पकदशाप्रतीतमर्थस्वरूपमात्रम(न)भिधेयमपि शब्दं स्मारयति तथा शब्दोऽप्यर्थमिति न किंचिदनुपपन्नम्। तथा चाहुः—(प्रकरणपञ्चिकायाम्)

अन्वितस्याभिधानेऽपि स्वरूपं विद्यते सदा।
तेन स्वरूपमात्रेऽपि शब्दो जनयति स्मृतिम्॥ ७९॥

यथार्थेनाप्रमाणेन स्वपदं स्मार्यते क्‍वचित्।
पदेनाप्यप्रमाणेन तथार्थः स्मारयिष्यते॥ ८०॥

(प्रप.१३–१४) नन्वेयं यथा (दा)—स्मृतिसन्निहितमाश्रित्यान्विताभिधानं पदैः क्रियते तथा(दा) स्मरणस्य प्रत्त्यासत्तिनिबन्धनत्वादनेकेषां च (अर्थानां) प्रत्यासत्तिसम्भवात् तेषु स्मृतिसन्निहितेष्वगृह्यमाणविशेषत्वाद् उखायां पचतीति नोखा पचत्यर्थान्वितैव केवलाभिधीयेत, सा हि कुलालनिर्वापाद्यन्वितापि प्रतिपन्नेति स्मरणात् तदन्विताप्युखाभिधीयेत, तथा पचत्यर्थोऽपि पिष्टकादिकर्मकोऽवगत इति तत्स्मरणन्नोखान्वितोऽभिधीयेतेति।

तन्न; शब्दैः स्मारितानामन्वयबोधकत्वाद् वृद्धव्यवहारेऽपि तथा दर्शनाद् य एव हि शब्देन स्मारितोऽर्थस्तेनैवान्विताभिधान—(मिति) कुलालनिर्वापाद्यन्विताप्य— भिधीयत इति॥

किंचान्वितार्थाभिधान एवेदं प्रतिनियतार्थान्वयित्वमुपपद्यते। यत्पदान्तरा— भिधेयतया स्मार्यते तदन्वितस्यैव वृद्धव्यवहारे वाच्यत्वदर्शनात्, यत्रापि चाध्याहारस्तत्रापि सन्निधापकवशेन विशेषान्विताभिधानलाभ इति लोक(त)एव ज्ञानमिति न कश्चिद्दोषः। अपि च ज्ञानं तावदनेनायमर्थोऽन्वितो वाच्य इति। तत्र यद्यनेनाप्यन्विताभिधानं स्यात् वाक्यभेदो भवेत्, न चासावेकवाक्यत्वसम्भवो(वे) न्याय्यः। तदुक्तम्—

सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते॥ ८१॥

(श्‍लोवा. १.१.१,९) इति। यच्‍चोक्तमन्विताभिधानपक्षेऽन्वितस्यैव पदार्थस्याभिधानादङ्गुल्यग्रादिवाक्ये— ष्वप्यन्वयः प्राप्‍नोति। तत्र स्मृतानामप्यर्थानामयोग्यत्वेनान्वयाभावादनभिधानमेव, पदार्थप्रतिपत्तिस्तु स्मृत्यैवोपपद्यत इति। यत्पुनः पुंवचसामर्थे प्रामाण्याभ्युपगमात् पदानां वाचकशक्तिरेव नावधार्यते। कुतोऽन्विताभिधानमित्युक्ते x x x x देव तावद् वक्तव्यं; न वयं पुरुषवाक्यानामर्थे प्रामाण्यमभ्युपगच्छामः। येषामपि चाभ्युपगमस्तेषामपि न दोषः, यतः पदमन्विताभिधायकत्वेन व्युत्पन्नं व्यभिचाराशङ्कया तु लोकेन तन्निश्चायकं पश्चादाप्‍तत्वालोचनयानुमितेऽर्थेऽनुवादकं तदिति प्रामाण्यमेव नासादयति॥ (प्रप.)

ननु च वाचकत्वमपि जहाति; पश्य— ‘बालो हि व्युत्पद्यमानः प्रयोज्यवृद्धव्यवहारस्य शब्दश्रवणानन्तरभाविनीं विशिष्टचेष्टानुमिताम् अर्थप्रतीतिं शब्दकरणिकां तावदवगच्छति। स तथा व्युत्पन्नः कदाचिदनन्वितार्थपदरचनामुपलभते। तत्रोपलभमानस्य तस्यैष विमर्शो जायते सम्भाव्यमानानन्वितार्थपदरचनमिदं वाक्यं कथं वृद्धस्यार्थनिश्चयं कृतवत्। वृद्धस्यापि हि पुरुषायत्ते वाक्ये नान्वितार्थपदरचनाशङ्का मंमेव सम्भवतीति। तस्यैवं विचिकित्सोदये पुनरेष निश्चयो जायते— कृतम् अनेनायं वक्ता इत्थमवधारितः अन्वितार्थान्येव पदानि प्रयुङ्क्ते इति। तथाविधपदप्रयोगश्च नास्यानुपलब्धेऽन्वय उपपद्यत इत्येवमन्वयोपलम्भमनुमायानेनान्वयो निश्चितः। निश्चिते चान्वये वाक्यमेतदनुवादभूतमध्येति।

एवं चेद् अनुवादकतया तस्यार्थस्य तद्वाक्यं वाचकमेवेति पूर्ववाचकशक्तिज्ञानं नानर्थकमिति मन्यते। यदि परं मया प्रागनुमापुरस्सरोऽर्थनिश्चयोऽस्येति नावगतम्। यापि चेयमस्यानिश्चितेऽन्वये विशिष्टवक्‍तृज्ञानानुमा, सापि पदानां स्वरूपमात्रावगमादेव नोपपद्यते, किं तु विशेषावगमात्। न च शक्तेरन्यः पदानां विशेषोऽवकल्पते। अतो मयेवानेनाप्यमीषां पदानां वाचकशक्तिरवधारिता। तेन विशिष्टान्वयवाचकपदप्रयोगात् तत्‍तद्‍विषयं वक्तुः पूर्वविज्ञानमनुमितवानिति॥

नन्वनन्तप्रतियोग्यन्वितस्वार्थबोधनविषया अनन्ता एव शब्दस्य शक्तयः परिकल्पयितव्याः स्युः। अभिहितान्वयवादे त्वेकस्मिन्नर्थे शब्दस्यैकैकैव शक्तिरिति (प्रप.१०)।

तन्न। एकयैवाकाङ्क्षितसन्निहितयोग्यार्थान्वितस्वार्थाभिधानशक्त‍या प्रतियोगि— भेदेन चक्षुरादीनामिव कार्यभेदोपपत्तेः। यथैकयैव दर्शनशक्त‍या चक्षुः घटादिप्रतियोगिसहायभेदान्नानाज्ञानानि जनयति, तथा शब्दोऽपि प्रतियोगिभेदादिति मन्तव्यम्। एवं च—

पदैरेवान्वितस्वार्थमात्रोपक्षीणशक्तिभिः।
पदार्था बोधिता बुद्धौ वाक्यार्थोऽपि तथा सति॥ ८२॥

(प्रप.२) इति। एवं चैतदप्युपपद्यते संहत्याऽर्थमभिदधति पदानि वाक्यम्, एकार्थपरः पदसमूहो वाक्यमिति सङ्घातार्थपारतन्त्र्यात् पदानां स्वार्थाभिधानं न सम्भवति। न च सङ्घातकार्यमकुर्वन्ति क्‍वचिदपि पदानि दृश्यन्ते, न ह्येषां सङ्घातकार्ये स्वकार्ये च पृथक्प्रयोगो विद्यते, सर्वथा सङ्घातकार्य एव प्रयोगात्।

नैवम्। संहतानां सङ्घातकार्यवत् स्वकार्यस्याप्युपलम्भात्, यथा शकटाङ्गानामयमंशोऽनेन कृतोऽयमनेनेति, न च शकटाङ्गान्यपि पृथक्प्रयुज्यमानानि स्वकार्यं कुर्वन्ति दृश्यन्ते।

किं पुनः पदानां स्वकार्यम् ?

याऽसौ स्वार्थप्रतिपत्तिः।

किं वा सङ्घातकार्यम् ?

याऽसौ वाक्यार्थप्रतिपत्तिः। तच्‍च पदानामेकैकस्य कृत्स्नफलपर्यन्तव्यापार— कारित्वात्। तथा ह्येकैकस्मिन् सति कृत्स्नफलपर्यन्तो व्यापारो निर्वर्तते, एकैकेन विना न निर्वर्तत इति एवं कृत्स्नकारि भवति।

किमत्र पदान्तरेण क्रियेत इति चेत्, सर्वकारकेष्वपि तुल्योऽयमनुयोगः। तत्र यथा संहत्य कुर्वन्ति कारणादीनि कार्याण्युच्यन्ते तथा संहत्याप्यभिदधति पदान्य— भिधायकान्युच्यन्ते॥

नन्वाकाङ्क्षासन्निधियोग्यताभिश्चेदन्वयोपपत्तिरभिहितान्वय एवास्तु किमन्विता— भिधानेन ? पदेषु ह्यनन्वितमपि स्वं स्वमर्थमभिधायोपरतव्यापारेष्वाकाङ्क्षादिभिः पदार्थानामन्वयप्रतीतिर्भविष्यतीति।

उच्यते, कस्येयमाकाङ्क्षा, शब्दस्यार्थस्य प्रमातुर्वा ? शब्दार्थयोस्तावद— चेतनत्वान्नाकाङ्क्षा, फलतः प्रमातुरेवेयम्। तत्र वाचोयुक्तिः—‘शब्दः शब्दान्तरमाकाङ्क्षत्यर्थोऽर्थान्तरम्। स्वतन्त्रस्याऽऽकाङ्क्षा न प्रमाणं, पुरुषेच्छाया वस्तुस्थितेरयुज्यमानत्वाच्छब्दप्रमाणपृष्ठभावित्वेन त्वर्थेषु पुरुषस्याकाङ्क्षा भवन्ती भवत्यर्थानां संसर्गहेतुरित्येवं शब्दस्यैवायमिषोरिव दीर्घदीर्घो व्यापारः। उपरतव्यापारे तु शब्दे पुरुषस्याकाङ्क्षामात्रं न सम्बन्धकारणम्, अशाब्दत्वप्रसङ्गात्; साक्षाच्‍च शाब्दत्वसम्भवे व्यवधानाश्रयणस्यायुक्तत्वात्। अतो नान्यदन्विताभिधानात् संसर्गप्रतीतेः कारणमस्ति। न खल्वानय गां शुक्लामित्यादिवाक्येषु संसर्गपदं प्रयुज्यते यतः संसर्गप्रत्ययः स्यात्, प्रयुज्यमानमपि दशदाडिमादिवाक्यवदनन्वितार्थमेव स्यात्। तस्मात् ‘पदानानामन्विताभिधानमेव न्याय्यमि’—ति॥

(अभिहितान्वयवादः)

अभिहितान्वयवादिनः पुनरित्थमाचक्षते —‘स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि पदानि भवन्ति। अथेदानीं पदार्था अवगता आकाङ्क्षासन्निधियोग्यताभिरन्वयमुपयन्तो वाक्यार्थमवगमयन्ति।

नन्वेवमशाब्दः स्यात् ?

नैवम्; पारम्पर्येणापि प्रतिपादयतां पदानां वाक्यार्थे सामर्थ्यस्याविघातात्। तदुद्देशेन च प्रयुक्तानां पदार्थप्रतिपादनमवान्तरव्यापारो भविष्यति। न चावान्तरव्यापारस्य कारकान्तरेष्वपि व्यवधायकत्वमिष्यते। तदाह—

न विमुञ्चन्ति सामर्थ्यं वाक्यार्थेऽपि पदानि नः।
तन्मात्रावसितेष्वेषु पदार्थेभ्यः स गम्यते॥ ८३॥

(श्लोकवा.) वाक्यार्थमितये तेषां प्रयुक्ते नान्तरीयकम्।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्॥ ८४॥

(श्‍लोकवा.) इति। तत्र च क्रियापदानि क्रियामात्रमभिदधति, कारकपदानि तु कारकमात्रम्, कुतो वैषां मिथस्संसर्ग(ज्ञान—)म् ? न ह्येकपदोच्‍चारणकाले पदान्तरार्थप्रतीतिरस्ति। न चाप्रतीयमानेनापि संसर्गप्रतीतिरस्ति।

न चाप्रतीयमानेनापि संसर्गप्रतीतिप्रसङ्गः।

ननु च वृद्धव्यवहारात् पदानां अर्थावधारणम्, वृद्धाश्च वाक्येनैव व्यवहरन्ति, न पदेन। वाक्ये वान्वितानामेव पदार्थानामुपलम्भात् कथमुच्यते क्रिया x x x मात्रं पदेभ्योऽवगम्यत इति ?

उच्यते—‘सत्यं वाक्येभ्य एव पदानां व्युत्पत्तिः; सा तु किमेकघटनाकारक— संहतवाक्यार्थनिष्ठा, किं वा पदार्थपर्यन्तेति चिन्तनीयम्।

पूर्वस्मिन् पक्षे प्रतिवाक्यं व्युत्पत्तिरपेक्षणीया, सा चानन्त्यव्यभिचारा— दिभिर्बहुप्रमादा। पदार्थपर्यन्तायां च व्युत्पत्तौ नूनं निर्धारणीयम् ‘इयानस्य पदस्यार्थ’ इति। अन्वितार्थाभिधानवादिनोऽपि नियतः x x x करणीयः। पदार्थनियमानपेक्षणे हि गामानयेति विवक्षुरश्वपदमपि निमित्ततयोपाददीत। न हि तस्यानपेक्षितपदपदार्थप्रविभागो वैयाकरणवद् वाक्यार्थप्रत्यय उदेति। तस्माद् यावानावापोद्वापपर्यालोचनया पदस्यार्थो निर्धार्यते तावानेव तस्यार्थ इति।

नन्वाकाङ्क्षितयोग्यसन्निहितार्थोपरक्तस्तस्यार्थो भवतु, सर्वदा संहत्य व्याप्रियमाणत्वात्।

नैवम्; सर्वदा संहत्य व्याप्रियमाणस्तु तावान्, यावत्यभिधात्री तस्य शक्तिः।

कियती च तस्याभिधात्री शक्ति ?

यावन्तमर्थमाकाङ्क्षितैर्योग्यैः सन्निहितैश्च संयुज्यमानं वियुज्यमानं च न मुञ्चति क्रियामात्रं कारकमात्रं च; अतस्तावत्येवाभिधात्री शक्तिरन्वयव्यतिरेकाभ्यां तस्य निर्धार्यते। तदुक्तम्, ‘अव्यभिचाराद्धि तन्मात्रमेव तदर्थो नाधिकं व्यभिचारात्’ इति।

नन्वत्र शक्तित्रयकल्पनागौरवलक्षणो दोषः प्राप्‍नोति। पदार्थानां हि शब्दादन्यतः प्रमाणादवबोधकत्वं दृष्टमिति शब्दाभिधेयानां तदवबोधकत्वशक्तिः कल्पनीया। तस्याश्चोत्पत्तौ शब्दसंस्पर्श एव हेतुरित्याश्रयणीयम्। शब्दो हि विशिष्टार्थ— प्रतिपत्तिपरतया लोके प्रयुज्यमानो दृष्टः, न चासौ साक्षाद् वाक्यार्थप्रतिपादने समर्थ इति पदार्थानवान्तरव्यापारीकरोति। ते च यद्यन्योन्यान्वयबोधनसमर्थास्तदा तेषामवान्तर— व्यापारता स्यात्, नान्यथा। पदार्थानामपि विशिष्टार्थावबोधपरशब्दसंस्पर्शादेषा शक्तिराविर्भवतीति शब्दस्यापि पदार्थगतशक्त्याधानशक्तिरनुमन्तव्येति।

स्यादेतदेवं यदि मानान्तरावसेयानां पदार्थानामन्योन्यान्वयावगमसामर्थ्यं नावधार्यते। अवधार्यते च श्वैत्यस्यानवधारिताश्रयविशेषस्याप्रत्यक्षोपलब्धस्याश्वस्य चाप्रतिपन्नगुणविशेषस्य हेषाशब्दानुमितस्य श्वेतोऽश्वो धावतीत्यन्वयः। तदाह—

पश्यतः श्वेतमारूपं हेषाशब्दं च शृण्वतः।
पदनिक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः॥ ८५॥

दृष्टा वाक्यविनिर्मुक्ता (श्‍लो. वा.)॥ ८६॥

इति। आरूपमित्यव्यक्तरूपम्। तेन गुणविशेषो न प्रत्यक्षेणावसीयत इति उक्तं भवति।

अत्रेदं पर्यनुयुज्यते—‘किं येन पुरुषेण श्वैत्यसमानाश्रयौ हेषाध्वनिपद— निक्षेपशब्दाववगतौ तस्यैवेयं श्वेतोऽश्वो धावतीति धीः, उत यस्यापादानानध्यवसाय— स्तस्यापीति ?

किमतः ?

यदि तावदप्रत्याकलितहेषाध्वनिपादविहारनिर्घोषापादानस्येत्युच्यते, तदा प्रतीति— विरोधः; स ह्येवं प्रतिपद्यतेभवितव्यमस्मिन् देशे नूनमश्वेन, भाव्यं च केनचिद् धावतेति।

अथाश्वसम्बन्धिनमेव खुरपुटटङ्काररवमभ्यासपाटववशादवैति, तदासावश्ववर्तिनीं वेगवतीं गतिमनुमिनोति, न पुनः केवलामेवावगम्य तस्यान्वयं पदार्थसामर्थ्येनाव— बुध्यते। योऽप्यस्मिन् देशे नास्त्यन्योऽश्वाद् इति निश्चित्य पारिशेष्यादपादा— नाध्यवसायेऽपि हेषाध्वनेः श्वैत्यसमानाधिकरणमश्वत्वमप्यध्यवस्यति तस्यापि गृहाभावदर्शनमिव बहिर्भावावगतावर्थापत्तिः ‘योऽयं श्वेतः स एवाश्व’ इति प्रमाणम्। यस्तु श्वेतसमानाधिकरणहेषाध्वनिखुरपुटटङ्काररवावध्यवस्यति तस्याश्वात्वे वेगवति च गमने श्वेतद्रव्यवर्तिन्येवानुमानं न स्वतन्त्रयोः। अतः प्रमाणान्तरेण असम्बन्धावगतार्थानां न क्‍वचिदनुमानार्थापत्तिव्यतिरेकेणान्वयबोधकत्वं प्रतीतम्।

अपि च यदि पदार्थावगतिमात्रादेवान्वयावगमस्तदा कस्मिन् प्रमाणेऽस्यान्तर्भाव इति वाच्यम्। न तावच्छाब्दे, शब्दाभावात्; पदार्थाभिधानावान्तरव्यापारेण हि यच्छब्दादन्वयज्ञानं न तच्छाब्दमित्यभिहितान्वयवादिनां सिद्धान्त इति नास्य शाब्देऽन्तर्भावः। प्रमाणान्तराभ्युपमे तु शाब्दस्योच्छेदः, शब्दावगतपदार्थाविषयेऽपि तस्यैव प्रामाण्यप्रसङ्गात्। तस्माच्छब्दाभिहितानां पदार्थानामन्यत्रादृष्टं वाक्यार्थाव— बोधनसामर्थ्यं परिकल्पयितव्यम्। तदाधानशक्तिश्च शाब्दानामपीति कल्पनालाघवा— च्छब्दानामेवान्वितस्वार्थबोधनशक्तिमात्रं कल्पयितुं न्याय्यम्।

अथोच्यते—‘आकाङ्क्षासन्निधियोग्यतावन्तः पदार्था एव वाक्यार्थीभवन्ति, न पुनर्वाक्यार्थमवबोधयन्तीति, तदतिमन्दम्; वाक्यार्थावगतेः कारणाभावप्रसङ्गात्। अनुपायत्वे हि पदानामन्वयप्रतीतौ पदार्था अपि चेन्न कारणं अकारण्येवान्वय— प्रतीतिरापद्येत।

स्यान्मतम्—‘क्रियापदेन कारकपदेन वा साकाङ्क्षार्थे पूर्वाभिहिते यदेव पदान्तरेण योग्यं प्रतियोगिपदार्थान्तरं सन्निधाप्यते, तदेव तत्र सम्बन्धित्वेनावतिष्ठत’ इति।

सत्यमेवम्; अवगतिस्तु तत्सम्बन्धस्य किंनिबन्धनेति वाच्यम् ?

अथ पूर्वपदार्थे साकाङ्क्षे यत्पदान्तरमुच्‍चरति तत् तत्सम्बन्धितयैव स्वार्थमुपनयति, प्रत्ययवत्। यथा प्रकृत्यर्थे पूर्वप्रतीते प्रत्यय उच्‍चार्यमाणः स्वार्थं तद्विशिष्टमेवाभिधत्ते तथा पदान्तरमपीति। तदुक्तम्—‘प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत’—इति (काशिकायां १.२.५६)। प्रकृतिः स्वार्थं प्रत्ययार्थविशेषणत्वेनोपनयन्ती प्रत्ययेन सह तदर्थमाहेत्यर्थः। तथा चोक्तम्—

नित्यं विशिष्ट एवार्थे प्रत्ययो यतत्‌प्रयुज्यते।
तत्पूर्वतरविज्ञातप्रकृत्यर्थविशेषणात् ॥ ८७॥

(प्र.प.) इति। अङ्गीकृतं तर्हि द्वितीयस्यान्विताभिधानं, प्रथमस्य तथापि नास्तीति चेन्न; वाक्ये पदानां प्रयोगक्रमनियमाभावात्। यदेव कदाचित् प्रथमं तदेव कदाचिद् द्वितीयमिति सर्वपदानामन्विताभिधानमापतितम्। किंच प्रत्ययश्चेदन्विताभिधायी तदा तदविशेषात् पदानामन्विताभिधायिता किमिति नाभ्युपेयते ? किमर्धवैशसेन ?

अत्राभिधीयते; लाक्षणिका एव सर्वे वाक्यार्थाः, ततश्च न पदार्थानामन्वय— बोधने शक्तिगौरवम्। अनन्वितावस्थो हि पदेनार्थोऽभिहितोऽन्वितावस्थां स्वसम्बन्धिनीं लक्षयति। अवस्थावस्थावतोर्हि संबन्धादवस्थावत्यवगते भवत्येवावस्थापि बुद्धिस्था सर्वत्र संबन्धिनि दृष्टे सम्बन्ध्यन्तरे बुद्धिर्भवतीति सिद्धमेव। तेन नास्ति पदार्थानामन्वितबोधने शक्तिकल्पनेति। तदाह—

वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति लक्ष्यते॥ ८८॥

(प्रप.) इति। कथं पुनरियं लक्षणा ?

वाच्यस्यार्थस्य वाक्यार्थे सम्बन्धानुपपत्तितः।
तत्सम्बन्धवशप्राप्‍तस्यान्वयात् लक्षणोच्यते॥ ८९॥

१(प्रप.१०/११) तद्यथा— ‘गङ्गायां घोषः प्रतिवसतीत्यादिश्रौतस्य गङ्गार्थस्य वाक्यान्वयासम्भवात् तत् परित्यज्य तत्सम्बन्धाल्लब्धसन्निधेः कूलस्य वाक्यान्वितताऽध्यवसीयते। अत एव चाहुः—‘अनुपपत्त्या सम्बन्धेन च लक्षणा भवति इह च गामानयेत्यादौ न श्रौतस्यान्वया— योग्यत्वं, नाप्यन्वितावस्थस्यानयनसम्बन्धार्हता, अन्वितस्यान्वयान्तराभावात्।

अपि च सर्ववाक्यार्थानां लाक्षणिकत्वे मुख्य x x x।

अथ मा भूदेषा लक्षणा। किंतु क्रियावगतकारकान्वयिनीमात्मनो दशामवगमयत्यविनाभावित्वादिति।

उच्यते—‘शाब्दत्वं तावदित्थमपह्नुतमन्वयावगमस्य। किंतु सामान्यतोदुष्टा— नुमानगोचरताऽभ्युगता भवति। तथा च विशेषावगतिरनुपपन्नमूलाऽऽपद्येत।

अथ विशेषान्वयं विना व्यवहारानवकल्पनादनर्थकं शब्दोच्‍चारणमिति तदाश्रयणम् ?

एवमपि प्रेक्षापूर्वकारिणां सार्थकमात्रप्रयोगिणां वचनाद् विशेषान्ययावगमः। वेदे त्वानर्थक्येन न भवितव्यमिति प्रमाणाभावान्न शक्यते विशेषान्वयो वक्‍तुम्।

न च लोकेऽप्यानर्थक्यमापद्यत इत्येतावता कारणेनोपायान् विनापि विशेषा— ध्यवसानं युक्तम्। न हि दग्धुकामस्यौदनस्यौदकोपादानमनर्थकमिति जलस्य दाहकशक्तिराविर्भवतीति काममानर्थक्यम्। न पुनः सामान्यतोदृष्टस्य विशेषान्वयिता।

अथाकाङ्क्षितसन्निहितयोग्यान्वयपरता वृद्धव्यवहारेण पदानामवगतेत्यन्वयावगमः।

तन्न; वृद्धव्यवहार एव कथं तत्परता तत्पदानामुपायाभावे निर्वहतीति चिन्ता। १. नेत्यालङ्कारिकाः, लक्षणा—सामग्र्या अभावात्। सा हि पदानां पदार्थानां वा शक्तिकल्पनां विनानुपपन्नेति मन्यामहे। सा च पदानामेवोचिता। यदाह—

प्राथम्यादभिधातृत्वात् तात्पर्यावगमादपि।
पदानामेव सा शक्तिर् वरमित्यवगम्यताम्॥ ९०॥

(प्रप.११) प्रथमभावीनि हि पदान्यतिलङ्घ्य न पदार्थेषु वाक्यार्थावबोधनशक्तिराश्रयितुं युक्ता। किंच पदानि तावद् अभिधायकानीति निर्विवादम्। तेन तेषा— मभिधानशक्तिस्सम्प्रतिपन्नैवेति तस्या एवान्वयपर्यन्तता कल्पयितुं सुकरा। पदार्थानां तु बोधनशक्तिरेव कल्प्या। तेन धर्मिकल्पनातो धर्मकल्पना लघीयसीति अन्विता— भिधानशक्तिः पदानामेव कल्पयितुमुचिता।

किंच पदान्यभिधायकानीष्यन्ते। तत्र यदि स्वरूपमात्रविषयामेव बुद्धिमाद— ध्युरभिधायकता हीयेत, तस्या बुद्धेः सम्बन्धग्रहणसमुपजातसंस्कारप्रभवत्वात्। अवश्यं हि सम्बन्धस्मरणसिद्ध‍यर्थं सम्बन्धिभूतार्थसाधारणसंस्कारोद्‍बोधोऽङ्गीकरणीयः। तस्मात् सम्बन्धग्रहणसमयानधिगतानन्वितार्थप्रतिपादनाभ्युपगम एव शब्दानामभिधायकतेति तामङ्गीकुर्वता पदानामन्विताभिधायिताऽऽश्रयणीया। यस्तु—

पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते॥ ९१॥

(श्‍लोवा. ५.१०७) भावनावचनस्तावत् तां स्मारयति लोकवत्॥ ९२॥

(श्‍लोवा. ७.२४८) इत्याचार्यवचनदर्शनात् अभिधावत् स्मारकतामेव पदानाभिधायकतां मन्यते। नापि तावत् पदानां वाक्यार्थपरताभ्युपगन्तव्या, अन्यथा वाक्यार्थस्याशाब्दत्वप्रसङ्गात्।

एवं चेत् पदानामेव साक्षाद् वाक्यार्थबोधने शक्तिरस्तु, किं परम्पराश्रयणेन ?

एवं च पदपदार्थेषु पदानां स्मारकत्वातिरिक्तं येऽभिधायकत्वमाहुस्तेषां शक्तित्रयकल्पना, एका तावत् पदानामभिधान—(शक्तिः, अपरा च पदार्थगतान्वय—) बोधशक्त्याधानशक्तिः, पदार्थानामन्वयज्ञापनशक्तिरिति। स्मारकत्ववादिनां त्वभिधान— शक्तिं हित्वा शक्तिद्वयकल्पना। अन्विताभिधाने पुनरेकैव शक्तिरिति शक्तिकल्पना— लाघवादन्विताभिधायीन्येव पदानीति न्याय्यं, न पुनरभिहितानामन्वय इति।

अत्रोच्यते—यत् तावत् पदार्थानामन्वयबोधकत्वे शक्तित्रयकल्पनागौरवमित्युक्तं, तन्न सम्यक्; प्रमाणान्तरावगतानां पदार्थानामन्वयावबोधकत्वदर्शनात्। दृश्यते—

पश्यतः श्वेतमारूपं हेषाशब्दं च शृण्वतः।
खुरनिक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः॥ ९३॥ (श्‍लोवा. ७.३५८)

न चैतद् वाच्यम्; अर्थापत्त्यनुमानयोरयं व्यापारः, तद्विषयायाः प्रतीतेरिह विवक्षितत्वात्। यत्र ह्याकाङ्क्षादित्रयोपेताः पदार्था एवान्योन्यमन्वयं गमयन्ति, न तत्रार्थापत्त्यनुमानयोर्व्यापारः। यथा सुरभि चन्दनं, स्वादु सहकारमिति। न चात्र विशिष्टप्रतिपत्तौ प्रत्यक्षमेव व्याप्रियते; चक्षुरादीनां रूपादिनैयत्येन परस्परविषयेणाज्ञातत्वात्। तथा हि न गन्धाद्युपलब्धौ चक्षुः व्याप्रियते, नापि रूपाद्युपलब्धौ घ्राणमिति। अस्ति च सुरभि चन्दनमित्यादौ विशिष्टार्थप्रतिपत्तिः, एवं श्वेतोऽश्वो धावतीत्यत्रापि द्रष्टव्यम्।

यच्चात्रोक्तं ‘कस्मिन् प्रमाणेऽस्यान्तर्भाव’ इति; तत्र न कस्मिंश्चित् प्रमाणेऽन्तर्भावः, किन्तु प्रमाणफलमेतत्। यदि वा पदार्थ एवात्र प्रमाणम्, तेषां च शब्द एवान्तर्भावान्न सप्‍तमप्रमाणापत्तिः। पदार्था हि शब्दात् प्रमाणान्तरतो वा प्रतिपन्ना आकाङ्क्षासन्निधियोग्यताभिः क्रियाकारकादिरूपेण चेत् प्रतीयमानाः संसर्गबुद्धिं जनयन्ति शाब्दमेवैतद् भवति।

यत् पुनराकाङ्क्षासन्निधियोग्यतावन्तः पदार्था एव वाक्यार्थीभवन्तीत्युपन्यस्य दूषितं, तत्र न वयमेवं ब्रूमः ‘पदार्था एव वाक्यार्थीभवन्ति’।

किं तर्हि?

गमयन्ति।

यच्च प्रत्ययदृष्टान्तेन द्वितीयपदस्यान्विताभिधायित्वेऽर्धवैशसमुक्तं, तदपि नास्ति; प्रकृतिप्रत्यययोरपि पदवदेवान्वयव्यतिरेकावधारितव्यतिरिक्तशक्तिकयोर— भिहितान्वयस्यैवोपपत्तेः।

पाकं हि पचिरेवाह कर्तारं प्रत्ययोऽप्यकः।
पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित्॥ ९४॥

(प्रप.) प्रकृतिप्रत्ययौ ब्रूतः प्रत्ययार्थं सहेति च।
भेदेनैवाभिधानेऽपि प्राधान्यादेवमुच्यते॥ ९५॥

(न्याम.) लाक्षणिकवाक्यार्थविषये तु मृषैवोपालब्धाः स्मः। १. मन्ये भोजस्यैवेयं कारिका। न हि गामानयेत्यादौ लक्षणास्माभिरिष्यते।
गङ्गायां घोष इत्यादौ न चैषा प्रतिषिध्यते॥ ९६॥१

तेन न मुख्यलाक्षणिकवाक्यार्थप्रविभागानुपपत्तिः।

यदपि क्रियाऽवगता कारकान्वयिनीमात्मनो दशामवगमयत्यविनाभावित्वा— दित्यस्मिन् पक्षे विशेषानवधारणमशाब्दत्वं च दोष इत्युक्तं, तदप्यनुमतमेव। न ह्यविनाभावतो विशिष्टा वाक्यार्थप्रतीतिरिति मन्यामहे, अपि त्वाकाङ्क्षासन्नि— धियोग्यताबलेन। आकाङ्क्षादिसद्भावे च शाब्दत्वं भवत्येवेत्यभिहितं पुरस्तात्।

यच्च प्राथम्यादिभिः पदानामेवान्वयबोधनशक्तिरस्त्विति वादितं, तत्राभिधान— शक्तिः पदानामिष्यत एव, अन्वयपर्यन्तता तु तस्या नेष्यते, वाक्यार्थप्रतीतेरन्य— थाप्युपपद्यमानत्वात्। वाक्यार्थे हि तात्पर्यशक्तिः पदानां व्याप्रियते, नाभिधात्री। तां च पृथगविविञ्चता भवतान्विताभिधानमभ्युपगतम्। तच्च न युक्तम्। सर्वत्राभिधात्र्याः शक्तेरविशेषेण प्रवृत्तौ पदार्थनैयत्यानवधारणे पदान्तरोच्चारणवैयर्थ्यादिदोषप्रसङ्गात्। पदान्तरानुच्चारणे त्रयेणान्वितमर्थमभिदधाति गोशब्दः। स नाभिधीयते, तत्संसर्गश्चा— भिधीयत इति विप्रतिषिद्धम्। तदभिधाने तु तद्वत्संबन्धाभिधानमित्येकमेव गोपदं सर्वार्थं स्यात्। तस्मान्न सर्वत्राभिधात्री शक्तिः शब्दस्योपपद्यत इति नान्विताभिधानम्।

एतेन यदुक्तं पदार्थानां बोधनशक्तिरेव कल्प्या, पदानां तु क्लृप्‍ताना— मेवान्वयपर्यन्ततेति धर्मिकल्पनातो धर्मकल्पना लघीयसीति अन्विताभिधानमेव युक्तमिति, तदपि निरस्तं भवति। यच्चोक्तं सम्बन्धस्मरणावगतसम्बन्धिप्रतिपत्ति— सिद्धान्वितार्थगोचरैवाभिधानशक्तिरस्त्विति, तदप्यनुपपन्नम्। सम्बन्धस्मरणसव्यपेक्षस्य पदस्याभिधायकत्वात्। न चान्विते सम्बन्धस्मरणं भवति। प्रतियोगिनामानन्त्येन सम्बन्धस्य ग्रहीतुमशक्यत्वात्। तस्मान्निष्कृष्टपदार्थमात्रविषयत्वमेवाभ्युपगमनीयम्।

यत्त्वधिगतविषयत्वं दूषणमुक्तं तदिष्यत एव। अत एव न पदं पदार्थे प्रमाणम्, अधिगतविषयत्वात्, अनधिगतार्थगन्तृ हि प्रमाणं भवति। न च पदस्य स्वार्थे स्मारकत्वमेव। यदाह—

पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते॥ ९७॥

(श्‍लोवा. ५.१०७) न तु स्मारकमेव भवति। तस्मात् पदानामभिहितान्वय एव न्याय्य इति।

(उभयवादः)

उभयवादिनस्त्वेवमामनन्ति, सामान्यतोऽन्विताभिधानं विशेषतोऽभिहितान्वय इति। गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रियासामान्यान्वितमभिधत्ते। तदेतत् सामान्येनान्विताभिधानम्। शुक्लादिगुणविशेषस्तु पदान्तरादवगम्यते। सोऽयं विशेषेणाभिहितान्वय इति।

अपि च क्रियाकारकसंसर्गरूपो वाक्यार्थः, क्रियासम्बन्धमन्तरेण कारकत्वानुपपत्तेः। विशेषेषु चानन्त्यव्यभिचारादिदोषात् क्रियासामान्यान्वित एव कारके कारकपदानां सम्बन्धग्रहणं, संबन्धानुसारेण चाभिधानात् सामान्येऽन्विताभिधानमेव घटते। व्यवहारकाले च क्रियाविशेषान्वितानामेव कारकाणामुपलम्भात्। क्रियाणामपि च कारकविशेषान्वितानां प्रतीतेः शब्दव्यापारस्य सामान्यान्वयाभिधानेनैव परिसमाप्‍तेर्विशेषेष्वभिहितान्वय एव युज्यते। एवं च पदान्तरोच्चारणमपि न व्यर्थं भवति, अपेक्षितक्रियाकारकविशेष— समर्पकत्वेनार्थवत्त्वात्।

यद्यपि चात्र क्रियाकारकमात्रान्वयाभिधाने क्रियाकारकमात्रसम्बन्धित्वं क्रियाकारकसामान्याभिप्रायम्, तथाऽपि स्वार्थमात्रोपादायिनः सर्वभेदान् प्रति योग्यता; तदेवा—(तद्भेदा—)नुगुण्यमात्रं सामान्यम्, न हि तथा, अन्यथा सर्वथा वेति सामान्यमवस्थितरूपं किंचिदस्ति, सर्व एते विशेषा एव। तस्यास्तु सामान्यावस्थायां भेदस्य कस्यचिदनिरूपणादत्यागाच्च या सर्वभेदोपग्रहयोग्यतायां परिप्लवमानार्थकल्पना तां सम्बन्धो विषयान्तरादवच्छिद्य विशिष्टे विषये नियमयति। तदुक्तम्—

सर्वभेदानुगुण्यं तु सामान्यमपरे विदुः।
तदर्थान्तरसंसर्गाद् भजते भेदरूपताम्॥ ९८॥

(वाप. २.४४) भेदानाकाङ्क्षतस्तस्य या परिप्लवमानता।
अवच्छिनत्ति सम्बन्धस्तां विशेषे निवेशयन्॥ ९९॥

(वाप. २.४५) अत एव च नानेकवाक्यार्थप्रतीतिः। सर्वेषां कारकाणां कर्मादिभावेन व्यवस्थितानामेव क्रियासम्बन्धात्। न च प्रथमश्रुतादप्यर्थप्रतीतिः, विद्यमानस्याप्यन्वयस्य सम्बन्धग्रहणमन्तरेणानुपलब्धेः। न चैकपदोच्चारणकाले सकलवाक्यार्थप्रतीतिः, तदानीं विशेषसमर्पकपदप्रयोगायोगात्।

यद्येवं सामान्येनान्विताभिधानमेवास्तु, किं विशेषेणाभिहितान्वयेन। वृद्धव्यवहारप्रसिद्धसम्बन्धो हि शब्दोऽर्थस्य वाचकः। अन्वयव्यतिरेकाभ्यां च सम्बन्धावधारणम्। न च विशेषान्वयविषयौ तौ सम्भवतः। क्रियापदं हि कारक— सामान्याऽव्यभिचारिण्या क्रियया सहान्वयव्यतिरेकौ भजते, विशेषान्वये विशेषान्तरव्यभिचारात्। एवं कारकपदमपि।

तन्न; विशेषान्वयेऽपि आकाङ्क्षासन्निधियोग्यत्वोपाधिवशेन सम्बन्धग्रहणं सुकरमिति तदभिधायितैव युक्ता पदानाम्। यदि चासौ नेष्यते तदा वाक्यार्थप्रतिपत्तिरेव नोपपद्यते, वाक्यार्थस्य विशेषान्वयरूपत्वात्।

ननु च सामान्यान्वयोऽभिहितो विशेषान्वयमाक्षेप्स्यति, निर्विशेषस्य सामान्यस्यैव प्रत्येतुमशक्यत्वात्।

नैवम्। यथा जातिर्व्यक्तिमाक्षिपन्त्यपि न प्रतिनियतं विशेषमाक्षिपति, तथात्रापि नियताविशेषाभावान्नियतविशेषात्मकवाक्यार्थप्रतीतिरुपपन्ना।

ननु विशेषमात्राक्षेपेऽपि य आकाङ्क्षितः सन्निहितो योग्यश्च विशेषः पदान्तरेण समर्प्यते स एव गृह्यते, तदतिक्रमे प्रमाणाभावात् (इति),

एतदपि न सम्यक्। सामान्यान्विताभिधानवादिनो हि मते पदानि तावत् तन्मात्रपर्यवसितशक्तीनि; पदार्थानामपि चान्वयबोधनशक्तिर्नाङ्गीक्रियते। न च सामान्याक्षेपोऽपि नियतविशेषमास्कन्दति। तेनाकाङ्क्षिते योग्ये च विशेषपदान्तरेण सन्निधापिते तदन्वयबोधकप्रमाणाभावादन्वयो न प्रतीयते। अत आकाङ्क्षासन्निधि— योगयत्वान्यनुपयोगीन्येव।

विशेषान्विताभिधानवादिनस्तु मते सम्बन्धग्रहणं प्रत्युपाधित्वेनानुप्रविष्टानि वाक्यार्थप्रतिपत्तावुपयुज्यन्ते। पदात् पदार्थः पदार्थान्तरसम्बन्धो बोद्धव्य इत्यस्यां व्युत्पत्तावुपाधित्वेन योग्यत्वादिकर्मानुप्रविशद्‌विशेषान्विताभिधानवादिनः पक्षमपाकरोति, न सामान्यान्विताभिधानवादिन इति। किंच क्रियाकारकस्वभावालोचनयापि कारकमात्रेणा— न्वयसिद्धेर्वृथा सामान्यमात्रान्वयाभिधायकता शब्दस्याङ्गीक्रियते। तस्मात् तदुक्त एव न्यायः श्रेयान्, सामान्येनान्विताभिधानं, विशेषेणाभिहितान्वय इति।

युक्तं चैतत्, पदस्य प्रकृतिप्रत्ययात्मकत्वात्। पदे हि पचतीत्यादौ प्रकृत्यर्थः प्रत्ययार्थश्च सामान्यविशेषावगमरूपमन्योन्यान्वितं प्रतीयते। तत्र पचित्येषा प्रकृतिः सिद्धसाध्यत्वादिधर्मविनिर्मुक्तं प्रत्ययार्थमात्रान्वययोग्यं पाकसामान्यमात्रमभिदधाति। अतिप्रत्ययस्तु पौर्वापर्यनियमान्न प्रकृतिवत् स्वतन्त्रः सामान्यमात्रे धियमादधाति; अपि तु प्रकृतार्थापेक्षयाऽऽचक्षाणः स्वार्थं विशेषमेव समर्पयतीति।

अनुभयवादिनः पुनरित्थं समर्थयन्ते— नान्विताभिधानं, न चाभिहितान्वयः, किं तर्हि? समुदितैः पदैरेको वाक्यार्थः प्रत्याय्यते। स च गुणभूतेतरपदार्थसंसृष्टः कश्चित् पदार्थ एवेति।

ननु किमयमन्विताभिधानपक्षः पुनरुत्थापयितुमिष्टः?

मैवम्; नेदमन्विताभिधानम्। किं तर्हि संहत्यकारिता पदानाम्?

उच्यते— ‘संहत्यकारिताप्यस्ति, न चान्विताभिधानम्, अन्वितमर्थं पदानि संहत्य संपादयन्ति, न त्वन्वितमभिदधति।

किमिदानीं कुर्वन्ति वाक्यार्थं पदानि, घटमिव मृदादीनि?

एतदपि नास्ति, ज्ञापकत्वात् तेषाम्।

का तर्हीयं वाचोयुक्तेः संहत्यकारीणि पदानि, न चान्वितमभिदधतीति?

पदान्यन्वितं प्रत्यायन्ति, नाभिदधतीति; इयं नाभिधात्री शक्तिरन्वितविषया, किन्त्वन्वयव्यतरेकावगतनिष्कृष्टस्वार्थविषयैव। तात्पर्यशक्तिस्तु तेषामन्वितावगमपर्यन्ता सहव्यापारात्, व्यापारस्य तदीयनिराकाङ्क्षप्रत्ययोत्पादनपर्यन्तत्वात्। तथा हि—

अन्यथैव मतिश्शाब्दी विषयेषु विजृम्भते।
प्रतिपत्तुरनाकाङ्क्षप्रत्ययोत्पादनावधिः॥ १००॥

अत एव पदं लोके केवलं न प्रयुज्यते।
न हि तेन निराकङ्क्षा श्रोतुराधीयते मतिः॥ १०१॥

(न्यायमं.) नन्वभिधानव्यतिरिक्तः कोऽन्यः शब्दस्य कृत्स्‍नफलपर्यन्तप्रत्यायनात्मा व्यापारः?

अस्ति कश्चिद् यः सर्वैरेव संसर्गवादिभिरप्रत्याख्येयः। न हि संसर्गोऽभिधीयते, प्रतीयते च वाक्यात्।

ननु संसृष्टाभिधाने सति संसर्गः प्रतीयते, नान्यथा।

नैतदेवम्, संहत्यकारित्वादेव संसर्गावगमसिद्धेः। न हि संहत्यकरणम् असंसृष्टं च कार्यं क्वचिद् दृश्यते।

अपि च प्रकृतिप्रत्ययौ हि परस्परसापेक्षमर्थमभिदधाते। न च प्रकृत्या प्रत्ययार्थोऽभिधीयते, नियोगस्य धातुवाच्यत्वात्। न च प्रत्ययेन प्रकृत्यर्थोऽभिधीयते, यज्यादेर्लिङाद्यर्थानुपंपत्तेः। न च तौ पृथक् स्वकार्यं कुरुतः। एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्यं करिष्यन्ति। न च परस्परस्यार्थमभिधास्यन्ति, वाक्यान्यपि प्रकरणपतितान्येवमेव। तदुक्तम्— (श्‍लोवा.)

प्रकृतिप्रत्ययौ यद्वदपेक्षेते परस्परम्।
पदं पदान्तरं यद्‍वद् वाक्यं वाक्यान्तरं तथा॥ १०२॥

इति। अयमेव च पक्षः श्रेयान्। संहत्यकारित्वं पदार्थानाम् असङ्कीर्णार्थत्वं च (न्यायमं.)

निरपेक्षप्रयोगेऽयःशलाका कल्पना भवेत्।
तदन्विताभिधाने तु पदान्तरमनर्थकम्॥ १०३॥

संहत्यकारिपक्षे तु दोषो नैकोऽपि युज्यते।
तेनायमुपगन्तव्यो मार्गो विगतकण्टकः॥ १०४॥

अभिधात्री मता शक्तिः पदानां स्वार्थनिष्ठिता।
तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः॥ १०५॥

तेनान्विताभिधानं हि नास्माभिरिह मृष्यते।
अन्वितप्रतिपत्तिस्तु बाढमभ्युपगम्यते॥ १०६॥

(न्यायमं.) संहत्यकारित्वाच्च पदानां न स्वार्थाभिधित्सयैव समुच्चारणं, अपि तु प्रधानकार्यमेव कर्तुम्। तदुक्तम्—

वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम्।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्॥ १०७॥

(श्‍लोवा.) तस्मान्नान्विताभिधानं नाप्यभिहितानामन्वयः। किंतु यथोपन्यस्तपक्ष एव श्रेयानिति॥

तदेवमाकाङ्क्षासन्निधियोग्यतावन्तः पदार्थाश्चतुष्प्रकारमन्वयमनुभवन्तो वाक्यार्थीभवन्ति।

ननु चायोग्यतायामप्यन्वयो दृश्यते, पचति भवति, पश्य मृगो धावतीति। न हि साध्यैकस्वभावायाः साध्यत्वं साधनत्वं च युज्यत इति।

नैवम्; साध्यत्वेनैव साधनत्वात्। क्रियाभ्युपपत्तिरूपेण भवनस्वभावा साध यस्वभावेनैव कर्मरूपा। यदेव चास्या अनिदन्तानिर्देश्यमपरिनिष्ठितं भवनं साध्यैकरूपं तेनैवैषात्र साध्यभावं साधनभावं च प्रतिपद्यत इति।

सिद्धतावभासः कुत इति चेत्, कर्तर्युत्पन्नो लकारस्तां सिद्धत्वेनावभासयति, यथा चोरस्य रुजतीति धात्वर्थ एव रोगलक्षणः, कर्त्रन्तराश्रवणात् साध्यरूपेणैव कर्तृभावमनुभवसिद्धतयावभासते।

यदि वा पदस्य न पदरूपादेवाधिकार्थता, किं तर्हि?, वाक्यरूपात्; तद्यथा पुरुष इति पदकाले पुरुषो व्यतिरिक्त उच्यते। यदा तु राज्ञः पुरुष इति विशेषसन्नि— धियोग्यस्तदाऽस्य व्यतिरेको भवति, पुरुषविशेषोऽयं राजपुरुष इति। एवं पचतीति नैतस्मात् पदरूपादेवाधिकार्थत्वम्। यदा तु भवतीति पदान्तरसन्निधिः, तदा वाक्यकाले पुरुषस्येव व्यतिरेक उपजायत इति।

यदि वा न कदाचिदपरा तदतिरेकिणी भवनक्रिया, कश्चिदपरो वा कर्ता विरोधहेतुरस्ति। अपि तु सैव व्यपदेशिवद्भावन्यायेन क्रियारूपतां भवितृत्वं च दर्शयन्ती चकास्ति।

अपि चैकस्याप्यर्थस्य विषयभेदेन द्विधर्मत्वं दृश्यते, यथा राज्ञः पुरुषस्य पुत्र इति पुरुषः शेषी च भवति शेषश्चेति राजानं प्रति शेषी अविचलितस्वार्थः पुत्रार्थान्तरे शेषतामापद्यते। एवं भवति पचतीत्यत्र भवतोऽकर्तृत्वं साध्यत्वं च भविष्यति। पश्य मृगो धावतीत्यत्र च मृगे कर्तरि साध्यभावं प्राधान्यं चाजहत्सरणं दृशावङ्गत्वं साधनत्वं च गमिष्यतीति।

अथवा ‘अयमर्थः साधनमयं साध्यमि’—ति रूपसिद्धिमात्रमेतत्, यथा पदे अयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति, एक एवासावर्थो विशिष्टो वा (अ)खण्ड एव प्रतीयते, यथा मुण्डयति चर्चयतीति। अत्र मुण्डयति माणवकमिति मुण्डिः केशच्छेदनवचनः। अस्य तु व्युत्पत्तिः मुण्डं करोतीति करोतिसामान्यप्रवृत्तं विशेषे मुण्डशब्दोऽवस्थापयति। करोतिविशेषोऽयं यस्मिण्णिजुत्पद्यते, न करोतिमात्रम्। एवं चर्चां करोति चर्चयतीति। अत एव केचिन्मुण्डिचर्चादीन् चुरादिषु पठन्ति मुण्ड केशखण्डनेषु मुण्डयति चर्चयतीति।

एवं पश्य मृगो धावतीति ‘इदमत्र साधनपदमिदं साध्यमि’—त्युत्प्रेक्षैषा। इदं त्वर्थसतत्त्वम्—‘नात्र सरणं, न दर्शनं, न मृगः, किं तर्हि? मृगकर्तृको दृशिकर्मा सरणविशेषोऽयम् अखण्डो वाक्यार्थ इति। एतेन पुत्रमिच्छति पुत्रीयतीत्यादयोऽपि व्याख्याताः॥

(८. एकार्थीभावः)

व्यपेक्षावतां समर्थानामन्वितार्थानां च पदार्थानां तिलतण्डुलवत् क्षीरनीरवत् पांसूदकवच्च यदविभागरूपेण भवनं स एकार्थीभावः। लक्षणं चैतत् समस्तं व्यस्तं च। तेन सापेक्षासमर्थसमासादीनामुपसङ्ग्रहः।

कः पुरस्य व्यपेक्षातो भेदः?

उच्यते व्यपेक्षायां सङ्ख्याविशेषो व्यक्ताभिधानमुपसर्जनविशेषणं चयोगः क्रमानियमो व्यवधानं यथेष्टमन्यतरेणाभिसम्बन्धः शब्दान्तरप्रयोगश्च भवति। एकार्थीभावे त्वैकपद्यमैकशब्द्यमैकस्वर्यमेकविभक्तित्वमेकवद्भाव एकशेषः अनेक— विधानामैक्यमेकविधानां चानैक्यमिति। तद्यथा व्यपेक्षायां सङ्ख्याविशेषः—‘राज्ञः पुरुषः, राज्ञोः पुरुषः, राज्ञां वा पुरुषः।’ एकार्थीभावे तु तदभावो राजपुरुषः। व्यपेक्षायां व्यक्ताभिधानं राज्ञः पुरुषः; एकार्थीभावे तु राजपुरुष इत्यत्र लोण्मध्यमपुरुषैकवचनं विभक्तिलोपो वेति नाभिधानव्यक्तिः। व्यपेक्षायामुपसर्जनस्य विशेषणं ऋद्धस्य राज्ञः पुरुषः, एकार्थीभावे तदभावः, राजपुरुषः। व्यपेक्षायां चयोगः, राज्ञः पुरुषो ब्राह्मणस्य च, एकार्थीभावे तु राजपुरुषः। व्यपेक्षायां क्रमानियमो राज्ञः पुरुषः, पुरुषो राज्ञः, एकार्थीभावे तु राजपुरुष इत्येव। व्यपेक्षायां व्यवधानमपि राज्ञः, पुरुषोऽयं पुरुषोऽयं राज्ञः; एकार्थीभावे तु राजपुरुष इत्येव। व्यपेक्षायां यथेष्टमन्यतरेणाभिसम्बन्धः, राज्ञः पुरुषो भार्या वेति; एकार्थीभावे तु नियमतः पुरुषेणैव सम्बन्धो न भार्यया। व्यपेक्षायां शब्दान्तरप्रयोगो दध्‍नोपसिक्तं, परिग्लानोऽध्ययनायः एकार्थीभावे तु नैवम्, दध्योदनं पर्यध्ययन इति। एकार्थीभावे ऐकपद्यं यथा—‘आत्मनातृतीयः कण्ठेकाल’इति; एकशब्द्यं यथा— ‘पितरौ भ्रातराविति; ऐकस्वर्यं यथा—‘चित्रगुः, ब्राह्मणकम्बल’ इति; एकविभक्तित्वं यथा— ‘नीलोत्पलं, राजपुरुष’ इति; एकवद्भावो यथा— गवाश्वं, प्लक्षन्यग्रोधा इति। एकशेषो यथा— अक्षा वृक्षा इति। अनेकविधानामैक्यं यथा— पुत्रमिच्छत्यात्मनः पुत्रीयति, मुण्डं करोति मुण्डयतीति। एकविधानामनैक्यं यथा— कंसवधमाचष्टे कंसं घातयति, पुष्यचन्द्रयोगं जानाति पुष्येण चन्द्रं योजयतीति। व्यपेक्षायां तु नैवमिति॥

सोऽयमेकार्थीभावो व्यपेक्षावैलक्षण्येन विप्रथमानस्समानस्समासतद्धिताख्यादिषु त्रिषु त्रिधा विख्यायते — वाक्यतुल्यार्थः, वाक्याधिकार्थः, वाक्यान्यार्थ इति। तेषु— वाक्यतुल्यार्थो यथा— वीरः पुरुषो वीरपुरुषः, कष्टं श्रितः कष्टश्रित इति।

वाक्याधिकार्थो यथा— ‘गुडेन मिश्रा धानाः गुडधानाः, शङ्कुलया कृतः खण्डः शङ्कुलाखण्ड’ इति।

वाक्यान्यार्थो यथा— ‘कुशं लातीति कुशलः, प्रकृष्टो वीणायां प्रवीणः’॥

अथायं त्रिप्रकारोऽप्यनेकधा भिद्यते। तद्यथा — नित्यसमासः, नित्यासमासः, असमर्थसमासः, अलुक्समासः, सापेक्षसमासः, निरपेक्षसमासः, पूर्वपदप्रधानः, उत्तरपदप्रधानः, उभयपदप्रधानः, अन्यपदप्रधानः, अन्यथाप्रधानः, अन्यथोपसर्जनः, तिङ्समासः, प्रातिपदिकसमासः, उपपदसमासः, प्रादिसमासः, नञ्समासः, एकदेशिसमासः, सामान्यसमासः, विशेषसमासः, समानाधिकरणः, भिन्नाधिकरणः, उपमानससमासः, उपमेयसमास इति। तेषु —

नित्यसमासो यथा— लोहितशालिः, गौरखरः, उद्दालपुष्पभञ्जिका, दन्तलेखक इति।

नित्यासमासो यथा— अकिञ्चित्कुर्वाणः, अमाषं हरमाणः, अगाधमुत्सृप्‍ताः, छात्राणां पञ्चम इति।

असमर्थसमासो यथा— असूर्यंपश्या राजदाराः, अपुनर्गेयाः श्लोकाः, अश्राद्धभोजी ब्राह्मणः, अलवणभोजी भिक्षुरिति।

अलुक्समासो यथा— स्तोकान्मुक्तः, आत्मनातृतीयः, पश्यतोहरः, कण्ठेकाल इति।

सापेक्षसमासो यथा— यज्ञदत्तस्य भ्रातृभार्या, विष्णुमित्रस्य गुरुकुलम्, चूतस्य फलरसः, प्रियायाः स्तनस्पर्श इति।

निरपेक्षसमासो यथा— वर्षशतमायुरस्य शतायुः, शाकप्रधानः पार्थिवः शाकपार्थिवः, अश्वयुक्तो रथोऽश्वरथः, अश्रेणयः श्रेणयः कृताः श्रेणीकृता इति।

पूर्वपदप्रधानो यथा— उपकुम्भम्, निर्मक्षिकम्, बहिर्ग्रामम्, पारेगङ्गमिति।

उत्तरपदप्रधानो यथा— आरूढवानरो वृक्षः, ऊढरथोऽनड्वान्, चित्रगुर्देवदत्तः, मत्तमातङ्ग वनमिति।

अन्यथाप्रधानो यथा— उन्मत्तगङ्गं, पञ्चकपालः, द्वित्राः, कृष्णशार इति।

अन्यथोपसर्जनो यथा— शाकप्रति, प्राप्‍तजीविकः, गोगर्भिणी, अग्‍निस्तोक इति।

तिङ्समासो यथा— अस्तिक्षीरा, एहिवणिजा, अश्नीतपिबता, खादतमोदतेति।

प्रातिपदिकसमासो यथा— दधिसेक्, चर्मक्रीति।

उपपदसमासो यथा— कुम्भकारः, पङ्कजम्, उष्ट्रक्रोशी, सहयुद्धेति।

प्रादिसमासो यथा— निष्कौशाम्बिः, उत्पश्यः, दुरासदः, सुप्रबोध इति।

नञ्‌स‌मासो यथा— अब्राह्मणः, अनेकः, अभार्यः, अपचसीति।

एकदेशिसमासो यथा— चन्द्र इव मुखमस्याश्चन्द्रमुखी, मृगीव चपला मृगचपला, शस्त्रीव श्यामा शस्त्रीश्यामा, अनन्येन सदृशी अनन्यसदृशी।

उपमेयसमासो यथा— ‘व्याघ्र इव पुरुषः पुरुषव्याघ्रः, करीव कलभः करिकलभः, शार्दूल इव राजा राजशार्दूलः, चन्द्र इव मुखं मुखचन्द्र इति॥

(उपमानमुपमेयञ्च)

किं पुनरुपमानं किं वोपमेयं, किं यदेवोपमानं तदेवोपमेयम्, आहोस्विदन्यदुपमानमन्यदुपमेयम्?

किंचातः?

यदि यदेवोपमानं तदेवोपमेयम्, उपमार्थो न घटते, न हि भवति गौरिव गौः; अन्यदुपमानमन्यदुपमेयं, तथाप्युपमार्थो न घटते, न हि भवति गौरिवाश्व इति। एवं तर्हि यत्र किंचित्सामान्यं कश्चिच्च विशेषः तत्रोपमानोपमेये भवतः।

किं वक्तव्यमेतत्? न हि। कथमनुक्तं गम्यते?

मानं हि नामानिर्ज्ञातज्ञानार्थमुपादीयते। यथा प्रस्थादिमानमनिर्ज्ञातस्य धान्यादेर्मेयस्यात्यन्तावच्छेदायोपादीयते।

तत्समीपे यन्नात्यन्ताय मिमीते तदुपमानं, यथा गौरिव गवयः। गौरस्य निर्ज्ञातः गवयोऽनिर्ज्ञातः।

तर्हि यस्य गवयो निर्ज्ञातः स्यात् गौरनिर्ज्ञातः, कर्तव्यं तेन गवय इव गौरिति।

बाढं कर्तव्यम्, यथा भेदसादृश्याध्यासितमूर्तयः पदार्थाः परस्परमनियमेनोप— मानोपमेयभावमधिगच्छन्ति, यथा चन्द्र इव मुखं कामिन्यां, मुखमिव चन्द्रो यामिन्याम्। यत्र पुनर्भेदसादृश्याध्यासितमूर्तित्वं न, तत्रोपमानोपमेयभावोऽपि न। यथा गौरिव गौः, गौरिवाश्व इति।

ननु य एते भेदसादृश्याध्यासिताः पदार्थास्ते नान्तरेण देशकाल— क्रियादिसम्पादितं विरोधं भवितुमर्हन्तीति सामानाधिकरण्यानुपपत्तिः?

नैवम्; यद्यप्युपमानमुपमेयं च परमार्थतो भिन्नं, तथाप्युपमानशब्दा गौणीं वृत्तिमाश्रित्योपमेये वर्तमानास्तयोर्भेदं तिरोदधति। तथा हि — यदा व्याघ्रादयः शौर्याद्यतिशयनिबन्धनमुपमानोपमेयसम्बन्धमनुभूय ततः उपमानोपमेयसम्बन्धाध्या— रोपिता भेदा उपमेये वर्तन्ते व्याघ्रसदृशोऽयं व्याघ्र इति, तदा पुरुषादिश्रुतिभिरभिन्ना— धिकरणाः समस्यन्त इति।

किं पुनरुपमानोपमेयप्रतिपत्तिनिबन्धनेभ्य एव शब्देभ्यः सादृश्यप्रतिपत्तिः? उत तेभ्यश्चान्येभ्यश्चेति?

किं चातः?

यदि तेभ्य एव, पुरुषं व्याघ्रं च वीक्षस्वेत्यत्रापि स्यात्। इवप्रयोगवैयर्थ्यं च। अथ द्वितीयः पक्षः, पुरुषो व्याघ्र इवेत्येव स्यात्, न पुरुषव्याघ्र इति।

यथेच्छसि तथास्तु।

अस्तु तावत् प्रथमः पक्षः।

ननु चोक्तं पुरुषं व्याघ्रं च वीक्षस्वेत्यत्रापि सादृश्यप्रतिपत्तिः स्यात्। इह हि पुरुषव्याघ्रयोर्वीक्षणक्रियासमावेशमात्रं विवक्षितम्, न सादृश्यम्।

ननु विवक्षातोऽपि सादृश्यप्रतिपत्ताविवादिशब्दोपादानमनर्थकम्। यत्र मुख्यवृत्तिव्यतिक्रमेण गौणीं वृत्तिमाश्रित्योपमानशब्दा उपमेये प्रयुज्यन्ते तत्रैव इवादिशब्दविकलाः सादृश्यं गमयन्ति, यथा कश्चिदव्याघ्रं पुरुषं व्याघ्र इत्याह, तेन मन्यामहे व्याघ्रसदृशोऽयं पुरुषः। ततः व्याघ्रधर्माणां शौर्यबलवत्त्वादीनां व्याघ्रशब्दात् पुरुषे प्रतिपत्तिर्भविष्यति। यदा पुनरुपमानोपमेयशब्दा मुख्यार्थप्रतिपत्तये विवक्षितोपमानोपमेय— भावेषु वाक्येषु स्वरूपाभेदादशक्ताः सादृश्यमवगमयितुं, तदाऽपेक्षन्ते द्वितीयमिवादिशब्दप्रयोगमिति।

किं पुनरिहोदाहरणम्?

शस्त्रीव श्यामा शस्त्रीश्यामेति।

ननु चात्र श्यामाशब्दोपात्तस्य धर्मस्योपमानोपमेययोस्तुल्यतावद्योतनायेवशब्दः प्रयुज्यते। व्याघ्र इव पुरुष इत्यत्र तु सामान्यप्रयोगाभावात् कस्य पुरुषव्याघ्रयो— स्साधारण्यमिवशब्देनावद्योत्यत इति?

उच्यते— शब्दः क्वचिदभिधावृत्त्या अर्थं बोधयति, यथा गुडशब्दो गुडद्रव्यम्; क्वचिद् गमकवृत्त्या, यथा गुडद्रव्याविनाभावि माधुर्यम्, एवमिह व्याघ्रशब्देन व्याघ्राविनाभावि शौर्यादिकं गमितं, तस्य व्याघ्रपुरुषयोस्सादृश्यसिद्ध‍यर्थमुभ— याधिकरणतावद्योतनमिवेन क्रियत इति। एतेन शस्त्रीश्यामेत्यपि व्याख्यातम्। अत्राप्यनुपात्तमपि देवदत्ता इति गम्यते।

क्‍व पुनरयं श्यामाशब्दो वर्तते? शस्त्र्यामित्याह।

केन तर्हीदानीं देवदत्ता गम्यते?

समासेन। यदाह उपमानानि सामान्यवचनैः (२.१.५५) समस्यन्ते; समानत्वं च साधारण्ये सति स्यात्। तत्तु देवदत्तामन्तरेण नोपपद्यत इति।

यद्येवं शस्त्रीश्यामो देवदत्त इति न सिद्ध‍यति। उपसर्जनस्य (१.२.४८) इति ह्रस्वत्वं भविष्यति।

यदि तर्हि उपसर्जनान्येवंजातीयकान्यपि भवन्ति, तित्तिरिकल्माषी कुम्भकपाललोहिनीत्यनुपसर्जनलक्षण ईकारो न प्राप्‍नोति।

एवं तर्हि शस्त्र्यामेव शस्त्रीशब्दो वर्तते, श्यामाशब्दस्तु देवदत्तायाम्। एवमपि गुणोऽनिर्दिष्टो भवति। बहवश्च शस्त्र्यां गुणाः— ‘सूक्ष्मा श्लक्ष्णा पृथुः श्यामे’ति।

अनिर्दिश्यमानस्यापि गुणस्य भवति लोके सम्प्रत्ययः। तद्यथा— चन्द्रमुखी देवदत्तेति। बहवश्चन्द्रे गुणाः, या चासौ प्रियदर्शनता सा गम्यते। यथा च व्याघ्रोऽयं पुरुष इति बहुष्वपि व्याघ्रगुणेषु शौर्यं बलवत्ता वा प्रतीयत इति। एवमपि ‘समानाधिकरणेन’ इति वर्तते। व्यधिकरणत्वात् समासो न प्राप्‍नोति।

किं हि वचनान्न भवति?

यद्यपि तावद् वचनात् समासः स्यात्, मृगीव चपला मृगचपलेति समाना— धिकरणलक्षणः पुंवद्भावो न प्राप्‍नोति। एवं तर्हि तस्यामेवोभयं वर्तते। एतच्चात्र युक्तं यत्तस्यामेवोभयं वर्तते; इतरथा हि बह्वपेक्ष्यं स्यात्। यदा तावदेवं विग्रहः क्रियते ‘यथा शस्त्री श्यामा एवं देवदत्ता’ इति, तदा श्यामेति देवदत्तायामपेक्ष्यं स्यात्। यदाप्येवं विग्रहः क्रियते शस्त्रीश्यामा देवदत्तेति, तदापि श्यामेति शस्त्र्यापेक्ष्यं स्यात्। यदा तु शस्त्रीश्यामा चासौ श्यामा च शस्त्रीश्यामेति, तदा न किञ्चिदपेक्ष्यते, सामानाधिकरण्यं च भवति।

नन्वेवं सति शस्त्रीशब्दस्य देवदत्तायां प्रवृत्तिनिमित्तमनिर्दिष्टं भवति; प्रतीयमानं भविष्यतीति चेत्, किं तदिति पृच्छामि। यदि श्यामत्वमेव, श्यामेति शब्दस्योक्तार्थत्वादप्रयोगः प्राप्‍नोति। न हि गुणवृत्त्या प्रतिपादितेषु गुणेषु तदभिधानाय गुणवचनः प्रयुज्यते, न हि भवति पुरुषोऽयं व्याघ्रशूर इति। अथानभिहितं तैक्ष्ण्यादिकमुपादाय शस्त्रीशब्दो देवदत्तायां वर्तते, तर्हि तीक्ष्णश्यामगुणवचनयोः खञ्जकूणवत् समासे ‘उपमानानि सामान्यवचनैः’ इति विरुध्यते, श्यामशस्त्रीति प्रयोगः प्राप्‍नोति।

ननु पक्षत्रयेऽपि दोषदर्शनात् पक्षान्तराभावाच्च किन्न भवितव्यमेवोपमान— समासेन?

भवितव्यम्, किन्तु पूर्वोत्तरपक्षौ व्युदस्य मध्यमे पक्षे, शस्त्रीव श्यामा देवदत्ते— त्यवैयधिकरण्येऽपि वचनसामर्थ्यात्।

ननूक्तं तत्र मृगंचपलेति समानाधिकरणलक्षणः पुंवद्भावो न प्राप्‍नोति, नैवम्। नेह पूर्वपदं शस्त्रीत्वेन (मृगीत्वेन) विवक्षितम्, अपि तु मृगत्वजातिमात्रेण, यथा मृगक्षीरं कुक्कुटाण्डमिति। ‘उपामानसमासे गुणवचनस्य विशेषभाक्त्वात् सामान्यवचनत्वाप्रसिद्धिः’। यतः श्यामाशब्दोऽयं सादृश्यसिद्धये शस्त्रीशब्देनाभि— सम्बध्यमानो विशेषवचनः सम्पद्यते।

नैवम्; श्यामत्वस्य उभयत्र भावात् तद्‍वाचकत्वाच्च शब्दस्य सामान्य— वचनत्वप्रसिद्धेः।

न चावश्यं स एव सामान्यवचनः। यो बहूनां सामान्यमाह; द्वयोरपि यः सामान्यमाह, सोऽपि समान्यवचनः।

अथवा ‘सामान्यवचनैः’ इत्येतेन सर्वश्च शब्दोऽन्येनाभिसबध्यमानो विशेषवचनः सम्पद्यते। त एवं विज्ञास्यामः — ‘प्रागभिसम्बन्धाद्यः सामान्यवचन’ इति।

नन्वेवं सति ‘उपमितं व्याघ्रादिभिः’ इत्यत्र सामान्याप्रयोगग्रहणमतिरिच्यते।

व्याघ्रादयोऽपि भेदोपनिबन्धनस्येवादेः प्रयोगे यदोपमान एव वर्तन्ते तदा सामान्यप्रयोगमपेक्षन्ते— ‘पुरुषोऽयं व्याघ्र इव शूरः, सिंह इव बलवानिति।’ अभेदोपक्रमे चाभिधाने सम्बन्धनिमित्तस्योपमानशब्दैरेव अन्तर्भावितत्वादप्रयोगः सामान्यशब्दस्येति। अप्रयोगेऽपि च सामान्यधर्मावसायश्चन्द्रमुखवद्‍भविष्यति। तदुक्तं— ‘सिंहो व्याघ्र इति पूजायां, श्वा काक इति कुत्सायाम्’ इति।

नैवम्, यद्यन्तर्भूतोपमा न कुत्सार्थसम्बन्धप्रतिपद्‍व्याघ्रादिशब्दैरुपमेयं पुरुषादि पूजार्थं चाभिधीयते।

तथापि तन्निमित्तस्यानेकत्वानियमाय निमित्ततृतीयान्तशौर्यादिपदप्रयोगो न विरुध्यते, पुरुषोऽयं व्याघ्रः शौर्येणेति।

भिन्नेऽपि वस्तुन्यभेदोपचारः सारूप्यमात्रं गमयेत्, न तस्यात्मातिशयम्; यथा हि सुमनायते दुर्मनायते अभिमनायत इति सुदुरभीनां भवत्यर्थविशेषपक्षे प्रत्ययेनोपात्तार्थानामपि प्रत्ययस्य रूपाभेदादनवसीयमानविभागमुपसर्गार्थमवच्छेत्तुं प्रयोगः। कथं पुरुषव्याघ्रादौ तस्याः पूजाया निमित्तभेदसम्भवे नियमाय सदृशभागोपनिपाती शब्दः प्रयुज्यत इति।

(तद्धिताख्यातार्थैकार्थीभावाः)

एवमयमेकार्थीभावस्तद्धिताख्यातयोरपि अनन्तप्रकार एव द्रष्टव्यः। तत्र— (तद्धिते)

तद्धिते सामान्येन त्रिधा सम्बन्धविषयः, कारकविषयः, स्वार्थविषयश्च। तेषु— सम्बन्धो द्विधा— प्रधानमप्रधानं च।

प्रधानं यथा— ‘गावोऽस्य सन्ति गोमान्, सलातुरोऽस्याभिजनः सालातुरीय’ इति।

अप्रधानं यथा— ‘वसिष्ठस्यापत्यं वासिष्ठः, चाषाणां समूहश्चाषमि’ ति।

कारकं द्विधा— प्रधानमप्रधानं च।

प्रधानं यथा— ‘विषेण वध्यो विष्यः शत्रुः, पदमस्मिन् दृश्यं पद्यः कर्दम’ इति।

अप्रधानं यथा— व्याकरणं वेत्ति अधीते वा वैयाकरणः, अक्षैर्दीव्यत्याक्षिक’ इति।

स्वार्थो द्विधा—मुख्य उपचरितश्च।

मुख्यो यथा—‘यव एव यावकः (यवकः), मणिरेव मणिक’ इति।

उपचरितो यथा— ‘कुशाग्रीया बुद्धिः, काकतालीयमिव काकतालीयो न्याय’ इति।

(आख्याते)

आख्यातेऽपि त्रिधा कारकेण, सम्बन्धिना प्रादिभिश्च।

कारकेण यथा—‘अभृशो भृशो भवति भृशायते, शब्दं करोति शब्दायते, हस्तिना अतिक्रामति अतिहस्तयति, कष्टाय कर्मणे क्रामति कष्टायते, पाशान् विमोचयति विपाशयति, प्रासाद इवाचरित प्रासादीयतीति।

सम्बन्धिना यथा—‘व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति, कंसस्य वधमाचष्टे कंसं घातयति, आ रात्रेर्विवासमास्ते रात्रिं विवासयति, पुष्येण चन्द्रस्य योगं जानाति पुष्येण चन्द्रं योजयति, माहिष्मत्यां सूर्योद्गमं प्राप्‍नोति माहिष्मत्यां सूर्यमुद्गमयति, कालस्य गमनमुपविष्टः प्रतिपालयति कालं गमयतीति।

प्रादयः पुनः षोढा—वाचकाः, द्योतकाः, सहाभिधायकाः, विशेषकाः, कार्यार्थकाः निरर्थकाश्चेति। ते च क्रिययैव सम्बध्यमानाः क्रियाप्रधानत्वादाख्यातस्य तद्‌व्यपदेशभाजो भवन्ति। तत्रोपसर्गाणां वाचकत्वं यथा— ‘प्रादयो गताद्यर्थे प्रथमया, प्राचार्यः, प्रान्तेवासीति। अत्यादयः क्रान्ताद्यर्थे द्वितीयाय, अतिखट्वः, अतिमाल इति। अवादयः क्रुष्टाद्यर्थे तृतीयया, अवकोकिलम्, अवमयूरमिति। पर्यादयो ग्लानाद्यर्थे चतुर्थ्या, पर्यध्ययनः, परिप्रवचन इति। निरादयः क्रान्ताद्यर्थे पञ्चम्या, निर्वाराणसिः, निष्कौशाम्बिरिति। एवं प्रपतितः पर्णः प्रपर्णः, प्राचीनं पलाशं प्रपलाशं, सङ्गता आपोऽस्मिन्निति समीपम्, सङ्गतमक्षेण समक्षमिति।

धातुलीनस्यैवार्थविशेषस्य प्रकाशकत्वं द्योतकत्वम्। द्योत्याश्च ‘तदन्यः तत्सदृशस्तद्विरुद्धस्तदभावस्तदुत्कर्षस्तदपकर्ष’ इति षडर्था भवन्तीति। तेषु

तदन्यो यथा— ‘प्रतीक्षते, उपक्रमत’ इति; तत्सदृशो यथा ‘संवदति, अनुकरोती’ ति;

तद्विरुद्धो यथा— ‘प्रतिष्ठते, उन्मज्जतीति;

तदभावो यथा— ‘वियुज्यन्ते, प्रस्मरन्ती’ ति;

तदुत्कर्षो यथा— ‘प्रगल्भते, अतिक्रामतीति;

तदपकर्षो यथा—विहसति, प्राश्नातीति।

अत्र च योऽसौ क्रियात्मभूतो धर्मः कालहरणादिस्तद्धात्वभिहितमेवा— सत्त्वभूतमनभिदधत् प्रादिरवद्योतयति। यथाऽक्षिनिकोचादयोऽनभिदधत एवार्थान् प्रदर्शयन्ति, एवं क्रियास्थान् प्रारम्भादीनब्रुवन्त एव प्रादयोऽवद्योतयन्ति। धातोरेकाकिनः क्रियाविशेषाभिधानासामर्थ्ये सहकारिभावः सहाभिधायकत्वम्। तत्रान्तरङ्गो, बाह्यः, अव्यभिचारी, व्यभिचारी, व्यवहितः, सविशेषश्च सहाभिधायको भवति। तेषु—

अन्तरङ्गो यथा— ‘सङ्ग्रामयते, असङ्ग्रामयत।

बाह्यो यथा— अनुरुध्यते, अन्वरुध्यत।

अव्यभिचारी यथा— अधीते, अध्येति।

व्यभिचारी यथा— आचामति, संधुक्षयति।

व्यवहितो यथा— पुच्छमुदस्यत्युत्पुच्छयते, व्यस्यति विपुच्छयते।

सविशेषो यथा— सेनया अभियाति अभिषेणयति, वीणयोपगायति उपवीणयति।

सहार्थाभिधाने तूपसर्गयोर्भेदप्रतिपत्तिः कथम्?

यद्यपि धातुरुपसर्गं न व्यभिचरति, व्यभिचरत्येवोपसर्गो धातुम्। अतः शक्यतेऽन्ववव्यतिरेकाभ्यां भेदः कल्पयितुम्। यावानयं समादिरुपसर्गोऽन्यत्र दृष्टः इहापि तावानेव भवितुर्भवतीति।

सजातीयेभ्यो विजातीयेभ्यश्चावच्छेदको विशेषकः। स षोढा— प्रकृतिविशेषकः, प्रकृत्यर्थविशेषकः, प्रत्ययविशेषकः, प्रत्ययार्थविशेषकः, उभयविशेषकः, उभयार्थविशेषकश्चेति। तेषु—

प्रकृतिविशेषको यथा— विजयते, पराजयते।

प्रकृत्यर्थविशेषको यथा— सङ्क्रीडति, सङ्क्रीडते।

प्रत्ययविशेषको यथा— विशालम्, विशङ्कटम्।

प्रत्ययार्थविशेषको यथा— अभिमनायते, दुर्मनायते।

उभयविशेषको यथा— अनुव्यचलत्, प्रावर्षत्।

उभयार्थविशेषको यथा— उपतिष्ठति, उपतिष्ठते।

अत्र च प्रादिः प्रकर्षदिकमर्थं ब्रुवाणः क्रियां सामान्येनोपगृह्‍णाति, न तु क्रियासामान्यविशेषयोरात्मानं नियमयति।

धातुरपि क्रियां ब्रुवन् प्रकर्षादिकमर्थं सामान्येनोपगृह्‍णाति, न तु सामान्यविशेषयोरात्मानं नियमयति।

परस्परोपश्लेषे तु तयोर्विशेषणविशेष्यभावो नीलोत्पलादिवद् भवति।

कार्यार्थत्वं यथा— प्रयुङ्क्ते, पराकरोति, अभिषुणोति, प्रणमति, वित्तं, समीपम् इति।

आत्मनेपदं, परस्मैपदं, षत्वं, णत्वं, तत्वम्, ईत्वं च कार्याण्युपसर्गयोगे भवन्ति।

निरर्थकत्वं यथा—निह्नुते, निखञ्जन्ति, प्रलम्बते, संश्रयतीति। अत्र पदोपचयमात्रे प्रादिः प्रयुक्त इति निरर्थकत्वम्। आहुश्च—(वाप. २.१८८)

स वाचको विशेषाणां सम्भवे द्योतकोऽपि वा।
शक्त्याधानाय धातोर्वा सहकारी प्रयुज्यते॥ १०८॥

क्रियाविशेषको वा स्यात् कार्यार्थं वोपदिश्यते।
पदोपचयमात्रे वाऽनर्थकः प्रादिरिष्यते॥ १०९॥

इति (वाक्यैकार्थीभावः)

एवमयमनेकरूपः पदैकार्थीभावः। एवं वाक्यैकार्थीभावोऽपि।

तत्र ‘आख्यातं साव्ययकारकविशेषणं वाक्यं, एकतिङ् वाक्यम्’ इत्यादयो विकल्पाः। तत्र चैकवाक्यस्थात् पदादुत्तरयोस्तिङामन्त्रितपदयोर्निघातः। युष्मदस्म— दोर्वान्नावादय आदेशाः। ‘वाक्यस्य टेः प्लुत उदात्त’ इति तु वाक्याचामन्त्यस्य प्लुत इत्यादीनि प्रयोजनान्यभिधीयन्ते। क्रियाकारकाव्ययविशेषणपदार्थानां च परस्परमुपकार्योपकारकभावेनावस्थितानां ‘भावना, विधिः, प्रतिभा’ वेति वाक्यार्थः प्रथमे। एवं वाक्यानामपि परस्परमुपमानोपमेयभावादिभिरिवादिशब्दप्रयोगे मुक्तकादिष्वेकार्थीभावो भवति। एतेनैकक्रियाकारकाभिनिवेशिनोर्युगलकसन्दानितक— कलापककुलकादयो वाक्यविशेषा व्याख्याताः। तत्र—

द्वाभ्यां चतुष्पदीभ्यां युगलकम्,

तिसृभिः सन्दानितकम्,

चतुर्भिः कलापकम्,

पञ्चादिभिः कुलकमिति संज्ञा विज्ञायते।

एतेनैकप्रघट्टकोपनिबन्धानां सुभाषितानां समूहः सङ्घातः, अनेकप्रघट्टकोपनिबद्धानां तु कोश इत्यपि व्याख्यातम्।

नगरर्तूद्यानचन्द्रार्कोदयार्णववर्णनादयस्तु सङ्घातरूपा एव प्रबन्धान्तःपातिनो वाक्यसमूहाः प्रकरणव्यपदेशभाजोऽवान्तरवाक्यतां लभन्ते। तदर्थाश्चैकार्थीभावमनु— भवन्ति।

यस्तु तैरुपक्रियमाणो महावाक्यार्थः सर्गबन्धादावाख्यायिकादौ मुखप्रतिमुखगर्भ— विमर्शनिर्वहणाख्यैः पञ्चसन्धिभिरुपक्षेपपरिकरादिभिश्चतुष्षष्टिसन्ध्यङ्गैरङ्गषोडशकरूप— भारत्यादिरूपवृत्तिचतुष्टयेन च यथायोगमुपकृतः कृतान्योन्यविशेषणविशेष्यभावः सुभद्राहरणं जानकीहरणमित्यादिना महावाक्यार्थरूपेण प्रथते, स प्रबन्धैकार्थीभावोऽपर इत्याख्यायते। यस्तु तद्रूपरामायणादिप्रबन्धार्थानामवधारणेनोपहितसंस्कारस्य ‘रामवद्‍वर्तितव्यं न रावणादिवद्’ इत्यादिविधिनिषेधप्रतिभाविशेष उपजायते, स समस्ताविश्वव्यापि चतुर्वर्गैकहेतुः परा महावाक्यैकार्थोऽर्थमूर्त्या विपरिणतमनादि— निधनमखण्डं शब्दब्रह्मेत्युच्यते।

अखण्डः सैष वाक्यार्थः शब्दब्रह्मेति गीयते।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति॥ ११०॥

इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।
इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः॥ १११॥

(वाप. १.१६) उक्ताश्चतस्त्रोऽथ पुनश्चतस्त्रः शब्दार्थसम्बन्धभिदः क्रमेण।
चतस्त्र एवाथ वचोविशेषे निषेदुषीस्ताः परिकीर्तयामः॥ ११२॥

इति महाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे सापेक्षशब्दशक्तिप्रकाशो नाम

॥ अष्टमः प्रकाशः॥८॥

सनातनः शीलितसाहितीकः सर्वाङ्गसम्पूर्णतया यथार्थम्।
प्रकाशमेतं सुपठं विधाय प्रसासदीति श्रितकाव्यतत्त्वः॥