अथ
शृङ्गारप्रकाशे सप्तमः प्रकाशः
केवलशब्दसम्बन्धशक्तिप्रकाशो नाम
तत्र ‘अभिधा—विवक्षा—तात्पर्य—प्रविभाग—व्यपेक्षा—सामर्थ्याऽन्वयैकार्थीभाव— दोषहान—गुणोपादानालङ्कार—रसावियोगरूपाः’ शब्दार्थयोर्द्वादश सम्बन्धाः साहित्य— मुच्यते। तेषु—
(१. अभिधा)
शब्दस्यार्थाभिधायिनी शक्तिरभिधा।
तया स्वरूप इवाभिधेय प्रवर्तमानः शब्दो वृत्तित्रयेण वर्तते।
ताश्च १. मुख्या, २. गौणी, ३. लक्षणेति तिस्त्रः। तत्र —
साक्षादव्यवहितार्थाभिधायिका मुख्या।
गम्यमानशौर्यादिगुणयोगव्यवहितार्था गौणी।
स्वार्थाविनाभूतार्थान्तरोपलक्षणा तु लक्षणेति।
तथा हि — गौरित्ययं शब्दो मुख्यया वृत्त्या सास्नादिमन्तमर्थ प्रतिपादयति; स एव तिष्ठन्मूत्रतादिगुणसम्पदमपेक्षमाणो यदा बाहीके वर्तते तदा गौणीं वृत्तिमनुभवति। तदाह—
रूढ्या यत्रासदर्थोऽपि लोके शब्दो निवेशितः।
समुख्यस्तत्र तत्साम्याद् गौणोऽन्यत्र स्खलद्गतिः॥ १॥ (प्रवा. प्रत्यक्ष ३७)
यदा तु शब्दः स्वार्थतः क्रियासिद्धौ साधनभावं गन्तुमसमर्थस्तदाभिधेया— विनाभूतमर्थान्तरं लक्षयति, तदा सा च लक्षणा वृत्तिः। यथा गङ्गायां घोषः प्रतिवसति। अत्र गङ्गाशब्दो विशिष्टोदकप्रवाहे निरूढाभिधानशक्तिः। स च घोषकर्तृकायाः प्रतिवसनक्रियाया अधिकरणभावं गन्तुमसमर्थः स्वार्थाविनाभूतं तटं लक्षयति। तदुक्तम्—
अभिधेयाविनाभूतप्रतीतिर्लक्षणेति या।
सैषा विदग्धवक्रोक्तिजीवितं वृत्तिरिष्यते॥ २॥ (तवा. १.४.२३)
प्रत्येकं चैतास्तिस्त्रोऽपि द्विधाभूय पृथक् षोढा भिद्यन्ते। तत्र—
(१. मुख्या)
मुख्या द्विधा— १. तथाभूतार्था, २. तद्भावापत्तिश्च। तयोः —
(१. तथाभूतार्था —६)
तथाभूतार्था षोढा— जातिविषया, व्यक्तिविषया, आकृतिविषया, गुणविषया, क्रियाविषया सम्बन्धविषया चेति। तत्र—
१. गौरश्वः पुरुषो ब्राह्मण इत्यादिर्जातिविषया; यथा—(नच. १.४)
प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः।
भवन्ति कस्यचित् पुण्यैर्मुखे वाचो गृहे स्त्रियः॥ ३॥
यथा—
थोरत्थणीएं बहुणो हलाएँ सामाएँ मंदगमणाए।
कोरच्छिपेच्छिरीए पहुप्पए एक्कमहिसीए॥ ४॥
(स्थूलस्तन्या वध्वाः हलायाः श्यामाया मन्दगमनायाः।
कोरक्षिप्रेक्षितायाः प्रभवति एकमहिष्याः॥)
२. अयं, सः, त्वम्, अहम् इत्यादिव्यपदेशार्हार्था व्यक्तिविषया यथा—
सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी।
रामा रम्ये वनोद्देशे मया विरहिता त्वया॥ ५॥
(विक्रमो. ४.५१) यथा वा—
निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि।
नीलोत्पलेषु विमृशति करमर्पयितुं कुसुमलावी॥ ६॥
३. चित्रबिम्बप्रतिमाद्यर्थवाचिन्याकृतिविषया यथा—
इङ्गुदीपादपः सोऽयं शृङ्गिबेरपुरे पुरा।
निषादपतिना यत्र स्निग्धेनासीत् समागमः॥ ७॥
(उराच. १.२१) यथा वा—
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात् पश्चात्।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्द्वश्यतेऽभिनवा॥ ८॥
(शाकु. ३.७) ४. श्वेतः कर्कशः कृशः स्थूल इत्यादिर्गुणविषया यथा— (काव्याद. २.१००)
श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्क्तिभिः।
भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः॥ ९॥
यथा वा—
ताम्बूलबहलरक्तः प्रियभुक्तो धूसरः सपर्यन्तः।
बालाधरोऽधिरोहति कुसुमरुचः काञ्चनारस्य॥ १०॥
५. पक्ता पचन् पक्वः पच्यमान इत्यादिः क्रियाविषया यथा— (भट्टि. १८.४०)
दातुः स्थातुर्द्विषां मूर्ध्नि यष्टुस्तर्पयितुः पितॄन्।
युध्यभग्नविपन्नस्य किं दशास्यस्य शोचति॥ ११॥
यथा वा—
कुविआओ पसण्णाओ ओरुण्णमुहीओ विहसमाणीओ।
जह गहिआ तह हिअअं हरंति उच्छण्णमहिळाओ॥ १२॥
(कुपिताः प्रसन्ना अवरुदितमुख्यो विहसन्त्यः।
यथा गृहीतास्तथा हृदयं हरन्ति उत्सन्नमहिलाः॥)
(द्र. ७.९५) ६. पिता माता शत्रुः सूनुरौपगव इत्यादिः सम्बन्धविषया यथा— (विक्रमो. ४.३८)
सूर्यचन्द्रमसौ यस्य मातामहपितामहौ।
स्वयंवृतपतिर्द्वाभ्यामूर्वश्या च भूवा च यः॥ १३॥
यथा वा—
सपदी सखीभिर्निभृतं विरहवतीस्त्रातुमत्र भज्यन्ते।
सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे॥ १४॥
(बारा.५.४१) (२. तद्भावापत्तिः —६)
अर्थस्यातथात्वेऽध्यासादिभिस्तथात्वापादनं तद्भावापत्तिः।
सापि षोढा— अध्यासात्मिका, कल्पनात्मिका, विवर्तात्मिका, विपरिणामात्मिका, विपर्ययात्मिका, प्रवादात्मिका चेति। तत्र—
१. जानतोऽप्यतस्मिंस्तदेतदित्यारोपणम् अध्यासः। यथा— (गास. ६.७०)
अइ दिअर किं ण पेच्छसि आआसं किं मुहा पुलोएसि।
जाआए बाहुमूलम्मि अद्धअंदाण परिपाडिंवाडिं॥ १५॥
(अयि देवर, किं न प्रेक्षसे, आकाशं किं मुधा प्रलोकयसि।
जायाया बाहुमूलेऽर्धचन्द्राणां परीपाटीम्॥)
यथा वा—
कमलमनम्भासि कमले च कुवलये तानि कनकलतिकायाम्।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्॥ १६॥
२. असतोऽप्युत्प्रेक्षा कल्पना यथा—
गुणानुरागमिश्रेण यशसा तव सर्पता।
दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम्॥ १७॥
यथा वा— (माघ. १६.२४)
अनिराकृततापसम्पदं फलहीनां सुमनोभिरुज्झिताम्।
खल तां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः॥ १८॥
३. वस्तुनः सन्निवेशविशेषेणावस्थानं विवर्तः। यथा— (किराता ५.३९)
उत्फुल्लस्थलनलिनीवनादमुष्मादुद्धूतः सरसिरुहोद्भवः परागः।
वात्याभिर्वियति विवर्त्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम्॥ १९॥
यथा वा—
अस्मिन्नीषद्—वलित—विषम—स्तोक—विच्छिन्न—भुग्नः किञ्चिल्लीनो विपिनविनतः पुञ्चितश्चोत्थितश्च।
धूमोद्गारस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरानभ्रभङ्गान्॥ २०॥
४. वस्तुनोऽवस्थान्तरोपगमनं विपरिणामः। यथा—
य एते यज्वानः प्रथितमहसो येऽप्यवनिपाः मृगाक्ष्यो याश्चैताः कृतमपरसंसारिकथया।
अहो ये चाप्यन्ये फलकुसुमनम्रा विटपिनो जगत्येवंरूपा विलसति मृदेषा भवगती॥ २१॥
यथा वा—
च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं समं चक्रीकृत्य प्रहसितमुखी शैलतनया।
अवोचद् यं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः॥ २२॥
५. मिथ्याज्ञानं वपिर्ययः। यथा— (विक्रमो. ४.१७)
हृतोष्ठरागैर्नयनोदबिन्दुभिः निमग्ननाभेर्निपतद्भिरङ्कितम्।
च्युत रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम्॥ २३॥
यथा वा—
मा भैः शशाङ्क मम शीथुनि नास्ति राहुः खे रोहिणी वसति कातर ! किं बिभेषि।
प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम्॥ २४॥
६. अवस्तुष्वपि वस्तुवन्मिथ्याप्रसिद्धिः प्रवादः। यथा—
गन्धर्वपुरसुरायुधकुरङ्गतृष्णान्धकारूपाणि।
असतामसत्यदुर्ग्रहदुरापमलिनानि वृत्तानि॥ २५॥
यथा वा—
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुः खण्डमाखण्डलस्य।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः॥ २६॥
(मेघ.१५) (२. गौणी)
गौणी द्विधा— १. गुणनिमित्ता, २. उपचारानिमित्ता च।
(१. गुणनिमित्ता —६)
तत्र यस्यां द्वयोर्वचनयोस्सामानाधिकरण्येन वैयधिकरण्येन वा प्रयोगः, विशेषण— विशेष्यभावान्यथानुपपत्त्यैकस्य प्रतीयमानाभिधीयमानगुणद्वारकसम्बन्धो भवति, सा गुणव्यवहितार्था गुणनिमित्ता च। तत्र च—
संसर्गि भेदकं यद् यत् सव्यापारं प्रतीयते।
गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम्॥ २७॥
(वाप. ३.५.१) गुणः स्वार्थो विशेषणं प्रवृत्तिनिमित्तमिति चैकोऽर्थः। स धर्मगुणक्रियाऽऽकृति— जातिस्वरूपादिभेदादनन्तः। तत्सम्बन्धेन यद्यपि तन्निमिता वृत्तिरनन्तप्रकारैव कल्प्यते तथापि तस्याः षडेव विकल्पा भवन्ति — ‘मुख्यविषयः, अमुख्यविषयः, भेदविषयः, अभेदविषयः, विशेषणविषयः, अविशेषविषय’ इति।
(१) यत्र द्वयोरपि मुख्यविशेष्यार्थयोर्धर्मादिनिमित्तमेकस्येतरविशेषणत्वं भवति स मुख्यविषयः।
स धर्मनिमित्तः समासे यथा—
यो हि दीर्घासिताक्षस्य विलासवलितभ्रुवः।
कान्तामुखस्यावशगस्तस्मै नृपशवे नमः॥ २८॥
स एव असमासो यथा—(काव्याद. १.६)
गौर्गौः कामदुधा सम्यक् प्रयुक्ता स्मर्यते बुधैः।
दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति॥ २९॥
क्रियानिमित्तः समासो यथा—
कत्तो संपडइ महं पि पिअसहि पिअसंगमो णिसीहे वि।
जा जअइ गहिअ—कर—णिअरखिक्खिरि चंदचंडालो॥ ३०॥
(कुतः सम्पतति ममापि प्रियसखि प्रियसङ्गमो निशीथेऽपि।
यावज्जयति गृहीतकरनिकरखिक्खिरी चन्द्रचाण्डालः॥)
स एव असमासो यथा—
किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः।
अस्मिन्मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः॥ ३९॥
(२) यत्र विशेषणविशेष्ययोः प्रथममेवैकममुख्यं भवति असौ अमुख्यविषयः।
स विशेष्यस्यामुख्यत्वे सामानाधिकरण्येन धर्मनिमित्तो यथा— (माघ. ७.७३)
हिमलवसदृशः श्रमोदबिन्दूनपनयता किल तन्नवोढवध्वाः।
कुचकलशकिशोरकौ कथंचित् तरलतया तरुणेन पस्पृशाते॥ ३२॥
स एव क्रियानिमित्तो यथा—
मुखपङ्कजरङ्गेऽस्मिन् भ्रूलता नर्तकी तव।
लीलानाट्यामृतं दृष्टौ सखि ! यूनां निषिञ्चाति॥ ३३॥
विशेषस्य मुख्यत्वे वैयधिकरण्येन आकृतिनिमित्तो यथा—
पडिवक्खमण्णुपुंजे लावण्णउडे अणंगगअकुंभे।
पुरिससअहिअअधरिए कीस थणंती थणे वहसि॥ ३४॥
(प्रतिपक्षमन्युपुञ्जौ लावण्यकुटावनङ्गगजकुम्भौ।
पुरुषशतहृदयधृतौ किमिति स्तनन्ती स्तनौ वहसि॥)
(काव्याद. २.९३) स एव क्रियानिमित्तो यथा—(सेब. १.१४)
ववसाअरइपओसो रोसगइंददिढसिंखलापडिबंधो।
कह कह वि दासरहिणो जअकेसरिपंजरो गओ घणसमओ॥ ३५॥
(व्यवसायरविप्रदोषो रोषगजेन्द्रदृढशृङ्खलाप्रतिबन्धः।
कथं कथमपि दाशरथेर्जयकेसरिपञ्जरं गतो घनसमयः॥)
(३) यत्रेक एव शब्दोऽर्थभेदप्रकल्पनया गुणनिमित्तं विशेषणविशेष्यभावमनुभवति असौ भेदविषयः। गौणमुख्ययोर्गुणनिमित्तो मुख्ययोश्च जातिनिमित्तो यथा—
तह करकमलं कमलं चंदो चंदमुहि तुज्झ मुहअंदो।
कमलं उण कमलं च्चिअ चंदो चंदो च्चिअ वराओ॥ ३६॥
(तव करकमलं कमलं चन्द्रश्चन्द्रमुखि तव मुखचन्द्रः।
कमलं पुनः कमलमेव चन्द्रश्चन्द्र एव वराकः॥)
मुख्ययोर्गुणनिमित्तो यथा—
ताला जाअंति गुणा जाला दे सिहअएहि घेप्पंति।
रइकिरणाणुग्गहिआइं होंति कमलाइं कमलाइं॥ ३७॥
(तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि॥)
मुख्ययोः क्रियानिमित्तो यथा—(किराता. ११.७३)
ग्रसमानमिवोजांसि सदसा गौरवोरितम्।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान्॥ ३८॥
स्वरूपनिमित्तो यथा—
अमृतममृतं चन्द्रश्चन्द्रस्थथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि।
इति न भजते वस्तु प्रायः परस्परसङ्करं तदियमबला धत्ते भावान् कथं सकलात्मकान्॥ ३९॥
(४) साधर्म्यादिप्रसिद्धेर्यत्रोपमानमेवोपमेयं प्रत्याययत्यसावभेदविषयः।
सोऽन्योक्तौ यथा—
पिबन्मधु यथाकामं भ्रमरं फुल्लपङ्कजे।
अप्यसन्नद्धसौरभ्यं पश्य चुम्बति कुड्मलम्॥ ४०॥
(काव्याद. २.२०६) समासोक्तौ यथा—
अनुरागवती सन्ध्या दिवसस्तत्पुरस्सरः।
अहो दैवगतिश्चित्रा तथापि न समागमः॥ ४१॥
उभयोक्तौ यथा—
उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं यदासाद्य स्वेच्छं विलसथ विलीनक्लमभराः।
इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो निवृत्तिः कल्याणी न पुनरवतारः कथमपि॥ ४२॥
अनुभयोक्तौ यथा— (उराच. १.२८)
अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथावृत्तं पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये विकलकरणैरार्यचरितै— रपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥ ४३॥
(५) यत्र विशेषणभूतं नाम सर्वनाम वा विशिष्टगुणधर्मादिकं प्रवृत्तिनिमित्तमुपादत्ते स विशेषणविषयः।
स नाम्नो विशिष्टगुणनिमित्तत्वे यथा—
भवतु रुषि कठोरा किन्तु रम्या मृगाक्षी निरुपधिमधुराणां स्वादवोऽमी विकाराः।
श्रयति कठिनभावः शुक्तिपात्रेष्वपो यः कुलजनबहुमानस्तासु मुक्ताफलान्तः॥ ४४॥
सांस्कारिक्यादिजनिका संज्ञापि तस्याः यथा—
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि ! धीरा भव॥ ४५॥
सर्वनाम्नो विशिष्टगुणसम्पत्तिनिमित्तत्वे यथा—(उराच. ४.१२)
स राजा तत् सौख्यं स च परिजनस्ते च दिवसाः स्मृतावाविर्भूतं त्वयि सुहृदि दृष्टेऽद्य सकलम्।
विपाके घोरोऽस्मिन्न खलुं न विमूढा तव सखी पुरन्ध्रीणां चित्तं कुसुमसुकुमारं हि भवति॥ ४६॥
मुख्यवद् गौणस्यापि विशेषणं तद्विशेषणमेव। तत्र सर्वनाम्नो गुणसम्पत्तिनिमित्तत्व एव यथा—
चआवळअ दीहिअहिमंघल्लहिनिअदेह।
अन्नजीदि हरलोअण होतहोमुहअंदहोरेवह॥ ४७॥
(६) विशेषणमव्यभिचरितमविशेषणं तद्धर्मादिगुणयोगेन यत्र प्रवर्तते तदसावविशेषणविषयः
छिन्तो(?)चलणेण हला मओ वि कण्हस्स को ण जीवेज्ज।
सो उण तेणावि मओ रिट्ठो सच्च चिअ बइल्लो॥ ४८॥
(स्पृष्टः चरणेन सखि मृतोऽपि कृष्णस्य को न जीवेत्।
स पुनस्तेनापि मृतोऽरिष्टः सत्यमेव बलीवर्दः॥)
चेतनप्रकृतेर्यथा— (गास.(वे.) ८६४, द्र.स.क. पृ.३१३)
सच्च चिअ कट्ठमओ सुरणाहो जेण हळिअधूआए।
हत्थेहि कमलदलकोमलेहि छित्तो ण पल्लविओ॥ ४९॥
(सत्यमेव काष्ठमयः सुरनाथो येन हालिकदुहित्रा।
हस्ताभ्यां कमलदलकोमलभ्यां स्पृष्टो न पल्लवितः॥)
अचेतनस्य यथा—
भवतु विदितमेतत् काष्ठमेवासि सत्यं किमपरमभिधास्ये कानने वर्धितोऽसि।
कुवलयनयनायाः पाणिसङ्गोत्सवेऽस्मिन् मुसल किसलयं ते तत्क्षणादद्य जातम्॥ ५०॥
अचेतनस्यैव प्रभाववतो यथा—
अन्विष्यद्भिरयं चिरात् कथमपि प्राप्येत यद्यर्थिभि— र्नाथ त्वं पुनरर्थिनः प्रतिदिनं यत्नात् समन्विष्यसि।
प्राप्तौ चिन्तितमात्रकं दददसौ चिन्तातिरिक्तप्रदं त्वामालोक्य विदीर्यते यदि न तद् ग्रावैव चिन्तामणिः॥ ५१॥
(२. उपचारानिमित्ता— ६)
मुख्यया गौण्या वान्यविशेषणस्य सतोऽन्यत्रारोपणम् उपचारः।
तन्निमित्तिकोपचारनिमित्ता; सा तु गौणव्यवहितार्थत्वाद् गौणी भवति; तस्या अपि धर्मगुणाकृतिक्रियास्वरूपजात्यादयः प्रवृत्तिनिमित्तम्; तद्भेदात् सापि षट्प्रकारा भवति—
धर्मनिमित्ता, गुणनिमित्ता, आकृतिनिमित्ता, क्रियानिमित्ता, स्वरूपनिमित्ता, जातिनिमित्ता च। तासु—
(१) धर्मनिमित्ता यथा—
भवतु रुषि कठोरा किन्तु रम्या मृगाक्षी॥ ५२॥
तालै; शिञ्जद्वलयसुभगैर्नर्तितः कान्तया मे॥ ५३॥
मेघ. ७६ अत्र कठोरसुभगशब्दो मूर्तिमद्द्रव्यप्राणिविशेषयोर्विशेषणत्वेन रूढौ, रोषवलयशिञ्जयोरारोप्यमाणौ, तद्योगान्नायिकातालयोरपि विशेषणभावमनुभवतः।
(२) गुणनिमित्ता यथा— (शाकु. १.१७)
किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥ ५४॥
उच्चिणस्सु पडिअ—कुसुमं मा धुण सेहालिअं हलिअ—सुण्हे।
एस अवसाणविरसो ससुरेण सुओ वलअसद्दो॥ ५५॥
(उच्चिनुष्व पतति—कुसुमं मा धुनीहि शोफालिकां हालिक—स्नुषे।
एषोऽवसानविरसः श्वशुरेण श्रुतो वलय—शब्दः॥)
(ध्व.२) अत्र मधुरविरसशब्दावास्वाद्यविशेषणत्वेन रूढौ तद्व्यवधानेन वर्णनयाऽऽकृतिवलयशब्दयोरारोपितौ विशेषणभावमनुभवतः।
(३) आकृतिनिमित्ता यथा—
अङ्कुरिते पल्लविते कोरकिते कुसुमिते च सहकारे।
अङ्कुरितः पल्लवितः कोरकितः कुसुमितश्च हृदि मदनः॥ ५६॥
यथा वा—(वज्जाल. ३.१३)
पल्लविअं पिव/विअ करपल्लवेहिं पप्फुल्लिअं व णयणेहिं।
फलिअं विअ पीणपओहरेहि अज्जाएॅ लावण्णम्॥ ५७॥
(पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम्।
फलितमिव पीनपयोधराभ्यामार्याया लावण्यम्॥)
अत्राङ्कुरितपल्लवितादयो मूर्तिमत्सु भूरुहादिषु आकृतिविशेषतो विशेषणत्वेन रूढास्तद्व्यवधानेनामूर्तयोर्मदनलावण्ययोरारोप्यमाणा गौणं विशेषणभावमनुभवन्ति।
(४) क्रियानिमित्ता यथा—
शशिनमसूत प्राची नृत्यति मदनो हसन्ति ककुभोऽपि।
कुमुदरजः पटवासं विकिरति गगनाङ्गणे पवनः॥ ५८॥
यथा वा—
अवऊहिअपुव्वदिशे समअं जोण्हाए सेविअपओसमुहे।
माइ ण झिज्जउ रअणी अपरदिसाहुत्तपत्थिअम्मि मिअंके॥ ५९॥
(अवगूहितपूर्वदिशे समकं ज्योत्स्नया सेवितप्रदोषमुखे।
मातर्न क्षीयतां रजनी अपरदिशाभिमुखप्रस्थिते मृगाङ्के॥)
अत्र सेवोपगूढादीनामन्यक्रियाणां तद्व्यवधानेनानान्यत्रारोपणाद् विशेषणभावः।
कथं पुनरयं भेदो गौण्याः पृथग्भवति ?
यत्र प्रसिद्धेरुपमानोपमेयत्वं गम्यते, सा गुणव्यवहितार्था गौणी, यामन्योक्तिं समासोक्तिं वा वर्णयन्ति। यास्यां पुनरुपमेयेन गुणसाम्यादुपमानं गम्यते, सा गौणव्यवहितार्था गौणी, यां समाधिमाचक्षते। तदुक्तम्— ‘उक्तस्याप्राकरणिकत्वे समासोक्तिः, प्राकरणिकत्वे समाधिः’ इति।
(५) स्वरूपनिमित्ता यथा—
कस्य नापनतिं कुर्याद् दैन्यमाता दरिद्रता।
कं वा न मदयत्येषा श्रीरुन्मादकुटुम्बिनी॥ ६०॥
यथा वा— (विक्रमो. २.३)
आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः।
उपमानस्यापि सखे ! प्रत्युपमानं वपुस्तस्याः॥ ६१॥
अत्र दरिद्रताया दैन्यजनकत्वेन मातृस्वरूपाध्यारोपादपत्यताव्यवधानेन सम्बन्धः; दरिद्रता दैन्यं जनयतीति वाक्यार्थः। तस्य च ‘शशिनमसूत प्राची’ इत्यादिवदुपचारोपपत्तिः। एवमुत्तरत्रापि योज्यम्।
(६) जातिनिमित्ता यथा—
धृतिः क्षमा दया शौचमौचित्यं वागानिष्ठुरा।
भूतानामनभिद्रोहस्तप्तैताः समिधः श्रियः॥ ६२॥
यथा वा—
येषां प्राणिवधः क्रीडा, नर्म मर्मच्छिदो गिरः।
परोपतापः कर्तव्यं ते मृत्योरपि मृत्यवः॥ ६३॥
अत्राग्निसमिद्धर्मेषु मर्त्यमृत्युधर्मेषु च श्रीधृत्यादिषु मृत्युदुर्जनेषु चारोपितेषु समिन्मृत्युजात्योरेव गुणभावो न त्वग्निमर्त्ययोरिति अमीषां साक्षादसम्बन्धे दीप्तिविनाशादिधर्मद्वारक उपचारः सम्बन्धाय कल्पते। तेनायमर्थः सम्पद्यते— धृत्यादयः श्रियं समेधयन्ति, दुर्जना मृत्युमपि मारयन्ति। सा चेयमन्यरूढा क्रियाऽन्यत्रारोप्यत इत्युपचारवृत्तिरेव भवति। यदुक्तम— (काव्याद. १.९४)
कुमुदानि निमीलन्ति कमलान्युन्मिषन्ति च।
इति नेत्रक्रियाध्यासाल्लब्धा तद्वाचिनी श्रुतिः॥ ६४॥
एवम् ‘परार्थे यः पीडामनुभवति’॥ ६५॥
(भल्लटशतकम् ५६) ‘एति जीवन्तमानन्दो नरं वर्षशतादपि’॥ ६६॥
(रामा. ५.३४.६)
इत्यादि च द्रष्टव्यम्।
यद्येवं क्रियानिमित्तैषा कस्मान्न भवति ?
क्रियाया एव द्रव्यजातिरूपेण विपरिणामात्, यथा दैन्यमातेत्यादौ वृत्तिरूपेण।
ननु च यथा गौरिव गौस्तथ समिध इव समिध इतीयमणि गौणी कस्मान्न भवति ?
भवति यदि समिध इत्यनेन श्रिय इति नापेक्ष्यते, श्रीवह्नेरिति वा वह्निशब्दप्रयोगो भवति। यथा वा ‘ववसाअरइपओसो’ (व्यवसायरविप्रदोषः), ‘घणसमओ’ (घनसमयः), ‘अणंगगअकुंभे थणे’ (अनङ्गगजकुम्भौ स्तनौ) इति। एतेन ‘दैन्यमाता दरिद्रता’, ‘ते मृत्योरपि मृत्यवः’ इत्यादेरपि न गौणत्वमित्युक्तं भवति। आदिग्रहणान्नसर्वनामादेरपि भेदाभेदाभ्यामुपचारे गौणव्यवहितार्थैव गौणी भवति।
सभेदोपचारे नामाध्यारोपाद् यथा— (उराच.२.१०)
हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणाम्।
रामस्य गात्रमसि निर्भरगर्भखिन्न— सीताविवासनपटोः करुणा कुतस्ते॥ ६७॥
यथा वा— (राच. १९.४१)
स्थानेऽवसीदसि रघूद्वह ! किं विधात— रस्यास्त्वयेक्षितमलक्षणमङ्गकेषु।
अद्यापि जीवसि दशानन ! हे हनूमन् ! केयं तवाभिमुखवर्तिरिपोः प्रतीक्षा॥ ६८॥
अभेदोपचारेण सर्वनामाध्यारोपाद् यथा—
चन्द्रज्योत्स्नाविशदपुलिने सैकतेऽस्मिन् सरय्वा वादद्यूतं चिरतरमभूत् सिद्धयूनोः कयोश्चित्।
एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम्॥ ६९॥
यथा वा—
प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्या न्निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि।
सेतुं बध्नाति चासौ कथामिव सकलद्वीपनाथानुयात— स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः॥ ७०॥
अत्राद्योदाहरणयो रामहनूमन्तौ नामशब्दावतिनिष्करूणे परिभवासहिष्णौ च स्वमूर्तिभेदे संज्ञाविशेषणत्वेन रूढौ तद्व्य्यवधानेन तद्विपरीतयोरूपचरितस्वमूर्ति— भेदान्तरयोरारोपितावौपचारिकं विशेषणभावं भजेते इति गौणव्यवहितार्थोपचार— निमित्तोपचारनिमित्तेयं गौणी। यत्र तु न भेदोपचारः तत्र व्यवधानाभावाद् गुणनिमित्तैव गौणी भवति, यथा ‘रामोऽस्मि सर्वं सहे’, ‘तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणम्’ इति।
कथं पुनः शब्दार्थयोरभेदेऽपि भेदव्यपदेशः ?
स हि ‘राहोः शिरः’, ‘गौर्गौः कामदुघा’ इत्यादौ शब्दार्थाभेद एव दृश्यते।
उच्यते— अस्ति तावदेतन्मुख्याभावे सति प्रयोजने निमित्ते च सत्युपचारः प्रवर्तते। स चाभिन्नानां भेदव्यपदेशहेतुः, भिन्नानां चाभेदव्यपदेशहेतुर्भवति। तत्र
अभिन्नानां भेदा यथा— (कुसं. २.१०)
आत्मानमात्मना वेत्सि सृचस्यात्मानमात्मना।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे॥ ७१॥
अत्र परमात्मव्यतिरिक्तवस्त्वन्तराभावात् कर्मादिकारकव्यतिरेकेण च ज्ञानादि— क्रियानुपपत्तेरेक एव कर्तृकर्मकरणाधिकरणोपचारेण भिद्यते। सिद्धे च भेदे सादृश्यनिबन्धने मुख्यानामिवोपचरितानामप्युपमानोपमेयव्यवहारः प्रवर्तते। तद्यथा—
त्वन्मुखं त्वन्मुखमिव त्वद्दृशौ त्वद्दृशाविव।
त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि॥ ७२॥
वैसादृश्यनिबन्धनस्तु व्यतिरेको भवति। यथा— (किराता. ११.७३)
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान्॥ ७३॥
रइकिरणाणुग्गहिआइं होंति कमलाइं कमलाइं॥ ७४॥
(रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि॥) (द्र. ७.३७)
ततश्च भिन्नार्थवत्सम्बन्धसम्बोधनविभक्तयादेरूत्पत्तिर्यथा— ‘रामस्य गात्रमसि’ (उराच. २.१०), ‘हे हनूमन्’ इति। एतेन मुख्यगौणयोरपि उपमारूपकादया व्याख्याताः। यथा—
अयमालोहितच्छायो मदेन मुखचन्द्रमाः।
सन्नद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति॥ ७५॥
चन्द्रमाः पीयते देवैर्मया त्वन्मुखचन्द्रमाः।
असमग्रो ह्ययं शश्वदयमापूर्णमण्डलः॥ ७६॥
(काव्याद.२.८९–९०)
अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके।
मुखेन्दौ तव सत्यस्मिन्नितरेण किमिन्दुना॥ ७७॥
(काव्याद. २.१५९)
न मीलयति पद्मानि न नभो व्यवगाहते।
त्वन्मुखेन्दुर्ममासूनां हरणायैव यस्यति॥ ७८॥
(काव्याद. २.८३) भिन्नानामभेदोपचारो यथोत्तरोदाहरणयोः तत्र हि प्रतीयमानाभिधीयमानतुल्य— गुणोपमानविशेषणमनेकं सर्वनाम उपमानव्यधानेनोपमेये प्रयुक्तमभेदोपचारेणो— त्कर्षमारोपयति।
नन्वियमन्योक्तिः समासोक्तिरूभयोक्तिर्वा कस्मान्न भवति ?
तथा हि— प्रतीयमानाभिधीयमानोपमेयगुणविभूतयः सर्वनामाध्यासेऽप्यन्योक्ति— समासोक्तयुभयोक्तयो दृश्यन्ते। तत्र —
अन्योक्तिर्यथा—
हा सौरभं क्व तत् ते क्व नु ते सन्तापहारि हा शैत्यम्।
अङ्गारकारहस्ते चन्दन ! पतितोऽसि धिग् दैवम्॥ ७९॥
समासोक्तिर्तथा—
मुग्धामजातरजसं कलिकामकाले बालां कदर्थयसि किं नवमालिकायाः।
अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु॥ ८०॥
उभयोक्तिर्यथा—
केनासीनः सुखमकरूणेनाकरादुद्धतस्त्वं विक्रेतुं वा त्वमभिलषितः केन देशान्तरेऽस्मिन्।
यस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे ! त्वत्परीक्षाक्षमोऽपि॥ ८१॥
उच्यते— यत्रोपमानमेव प्रयुक्तं प्रतीयमानाभिधीयमानगुणमुपमेयं गमयति, तत्रैवान्योक्तयादयो भवन्ति। इह तु नोपमानं प्रयुज्यते। किं तर्हि ? तद्विशेषणं सर्वनाम; तेन प्रथमोदाहरणे नान्योक्तिः, द्वितीयोदाहरणे तु न समासोक्तिरिति।
यद्येवमध्यासात्मिका तद्भावापत्तिः कस्मान्न भवति ? यथैष बालाबाहुमूले बालचन्द्रमाः; यथा वा— (माघ. १५.६३)
किमहो नृपाः समममीभिरूपपतिसुतैर्न पञ्चभिः।
वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया॥ ८२॥
इति उच्यते नात्र सर्वनाम्नामेव प्रयोगः। किं तर्हि ? विशेष्याणामपीति युज्यते तद्भावापत्तिः। ‘चन्द्रज्योत्स्ना’ इत्यादौ तु सर्वनामाध्यासे समाधिलक्षणयोगा— दुपचारगौण्येवैषा भवित। यथा च धर्मिणोऽप्यध्यासे समाधिरूपपद्यते तथाग्रतो वक्ष्याम इति।
(३. लक्षणा)
लक्षणा द्विविधा— १. लक्षणा, २. लक्षितलक्षणा च।
तयोर्यस्यामुपात्तशब्दस्यार्थस्य क्रियासिद्धौ साधनत्वायोगात् स्वार्थोऽविनाभूत— मर्थान्तरं व्यवहितमेव लक्षयति सा लक्षणा, तद्व्यतिरिक्ता तु वक्ष्यमाणानेकरूपा लक्षितलक्षणेति। तत्र—
(१. लक्षणा —६)
लक्षणा षोढा— सामीप्यलक्षणा, साहचर्यलक्षणा, सहचरितलक्षणा, हेतुलक्षणा, तादर्थ्यलक्षणा, परिमाणलक्षणा च। तत्र—
१. ‘गङ्गायां घोषः प्रतिवसति’, ‘मञ्चाः क्रोशन्ति’ इत्यादिषु स्वार्थाविनाभूतसमीपा— र्थान्तरप्रतीतिहेतुः सामीप्यलक्षणा। यथा—
‘यत् तालीदलपाकपाण्डुवदनम्’॥ ८३॥
(विसा. २.१४) ‘अभिनवकरिदन्तच्छेदकान्तः कपोलः’॥ ८४॥
इति। (मामा. १.२५) अत्र पाकच्छेदयोः क्रियात्वेनामूर्तत्वात् पाण्डुत्वं कान्तत्वं चासम्भवत् समीपस्थं पक्वतालीपत्रं सद्यश्छिन्नं च हस्तिदन्तं लक्षयति। ‘/?/ २. छत्रिणो गच्छन्ति’, ‘कुन्तान् प्रवेशय’ इत्यादिषु स्वार्थाविनाभूतसाहचर्योप— लब्धार्थान्तरप्रतीतिहेतुः साहचर्यलक्षणा। यथा— (कुसं. १.२)
यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे।
भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम्॥
अत्र दोग्धृसाहचर्याच्छैलेष्वपि दुदुहुरिति प्रयुज्यते। यथा वा—
पदेपदे कूबरिणः शतंशतं शतंशतं मत्तगजान् रथेरथे।
न्यवेशयद् वाजिशतं गजेगजे हयेहये कुन्तशतं शतक्रतुः॥ ८६॥
३. यत्रोक्तधर्मसहचरितोऽपि धर्मो लक्ष्यते सा सहचरितलक्षणा। यथा—
‘मधुतृषत्पिङ्गाः पयोबिन्दवः’॥ ८७॥
‘कनकफलकस्फारजघना’॥ ८८॥
इति। अत्र पिङ्गत्वस्फारत्वसहकृतास्तदाश्रयाकारकान्त्यादयो’ लक्ष्यन्ते।
४. ‘अन्नं वै प्राणाः’, ‘आयुर्घृतम्’ इत्यादिषु स्वार्थाविनाभूतनिमित्तकारणार्थान्तर— प्रतीतिहेतुर्हेतुलक्षणा। यथा— ‘त्वं जीवितं त्वमसि मे हृदयं द्वितीयम्’ (उराच.३.२६) इति। अत्र जीवितशब्देन हृदयशब्देन च जीवितचैतन्यहेतुः प्रियतमोच्यते।
५. ‘इन्द्रः स्थूणा’ ‘मल्लिका प्रदीपा’ इत्यादिषु तदर्थप्रतीतिहेतुः तादर्थ्यलक्षणा। यथा—
आरूढो मलयाचलं जलनिधेः पारं परं नायय— न्नण्डं दृप्तनृसिंह सिंहलपतेरूच्छेत्तुमच्छं यशः॥ ८९॥
इति। अत्र दण्डशब्देन दण्डनाप्रहितो लोक उच्यते।
६. प्रस्थं खलु क्रोश इत्यादौ परिमाणसाधनभूतार्थान्तरपरतीतिहेतुः परिमाणलक्षणा। यथा—
यस्मादनर्घाणि हृतान्यनूनैः प्रस्थैर्मुहुर्भूरिभिरूच्छिखानि।
आढ्यादिव प्रापणिकादजस्त्रं जग्राह रत्नान्यमितानि लोकः॥ ९०॥
अत्र प्रस्थशब्देन प्रस्थपरिमाणसाधनं मानभाण्डं काष्ठादिमयमुच्यते।
(२. लक्षितलक्षणा—६)
लक्षितलक्षणापि षोढैव— रूढलक्षणा, प्रतीकलक्षणा, विवक्षितलक्षणा, विरूद्धलक्षणा, तदन्यलक्षणा, प्रकीर्णलक्षणा च। तासु—
१. यस्यां यथाकथंचिद् व्युत्पत्त्या लक्षितेनाभिधानेन रूढलक्षण एवार्थो लक्ष्यते सा रूढलक्षणा। रोदरश्चक्रवाको द्विरेफो भ्रमर इति। यथा— (कुसं. ३.३६)
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रयां स्वामनुवर्तमानः॥ ९१॥
इति। अत्र रोदरत्वं द्विरेफत्वं च कुररेऽपि सम्भवति, न चात्र रूढा लक्षणेति नायं लक्ष्यते।
२. यत्र प्रतीकेनाभिधानैकदेशेन समुदायो लक्षित एव लक्ष्यते, न यः कश्चित्, सा प्रतीकलक्षणा। यथा—
‘भीमो भीमपराक्रमः, ‘सच्चा अपि होइ अइअदंसणतुरीआ’। अत्र सेन—भामाशब्दो भीम—सत्या शब्दप्रतीकश्रवणात् भीमसेनः, सत्यभामा इत्यभिधानयोः पूर्वलक्षितयोर्लक्षणया लक्ष्येते। न हि भवति ज्येष्ठाः ज्येष्ठेति, आर्द्रा वार्द्रेति।
३. यत्र यथाकथंचिच्छब्दप्रयोगे विवक्षितमेव लक्ष्यानुसारतो लक्ष्यते सा विवक्षितलक्षणा। यथा ‘मनसिजजैत्ररथं विलोचनार्धं॥ ९२॥
(किराता.१०.५२) ‘चकितहरिणीहानिरनेत्रत्रिभागः’॥ ९३॥
(?) इति। अत्र नार्धशब्दस्य त्रिभागशब्दस्य अर्थः, किन्तु ताभ्यामसमग्रालोकनं लक्ष्यते। न हि भवति नेत्रचतुर्भागो नेत्रषड्भागो वेति।
४. पदं केवलमन्यसन्निधेर्वा यत्राभिहितविरूद्धं लक्षितमेवार्थं लक्षयति सा विरूद्धलक्षणा। यथा—
‘विष्टिर्भद्रा’, ‘अङ्गारको मङ्गलः’, ‘पुण्यवत्यहं यस्यास्त्वमेवंविधः पतिरसि’ इति। अत्र भद्रामङ्गलशब्दौ पुण्यवच्छब्दश्च अभद्रमङ्गलत्वे अपुण्यवत्त्वं च लक्षितमेव लक्षयन्ति। यथा वा रत्नावल्यां राजा विदूषकमाह — ‘महाब्राह्मणस्त्वमसि, कोऽन्य एवमृचामभिज्ञ (रत्ना. २.६)’ इति। अत्र महाब्राह्मण इत्यनेन ऋचामभिज्ञ इत्यनेन च वृषलादप्यधमत्वं वैधेयत्वं च लक्ष्यते। यथा च मालतीमाधवे लवङ्गिका मदयन्तिकामभिधत्ते— ‘कहं णाम णवबहूवीसंभेणोवाअजाणअं लडहविअड्डमहुरभासणं अरोसणं भादरं दे भत्तारं समासादिअ पिअसही (ण) दुम्मणइस्सदि’ (कथं नाम नववधूविस्त्रम्भणोपायाभिज्ञं लडहविदग्धमधुरभाषणमरोषणं भ्रातरं ते भर्तारं समासाद्य प्रियसखी न दुर्मनायिष्यते।) (मामा.७.०/१) अत्र नववधूविस्त्रम्भणोपायज्ञत्वादयस्तद्विरूद्धमर्थं लक्षयन्ति। एवमन्येऽपि यथा— (काव्याद. २.२८९)
इदमम्लानमानाया लग्न स्तनतटे तव।
छाद्यतामुत्तरीयेण नवं नखपदं सखि॥ ९४॥
कुविआओ पसण्णाओ ओरूण्णमुहीओ विहसमाणीओ।
जह गहिआ तह हिअअं हरंति उच्छण्णमहिलाओ॥ ९५॥
(कुपिताः प्रसन्ना अवरुदितमुख्यो विहसन्त्यः।
यथा गुहीतास्तथा हृदयं हरन्ति उत्सन्नमहिलाः॥)
(द्र. ७.१२)
वयं तथा नाम यथात्थ किं वदाम्ययं त्वकस्माद्विकलः कथान्तरे।
कदम्बगोलाकृतिमाश्रितः कथं विशुद्धमुग्धः कुलकन्यकाजनः॥ ९६॥
(मामा.७.०/१) एतेष्वम्लानमानशब्देन मानभङ्गः, उत्सन्नशब्देनानुच्छेदाशीः, विशुद्धमुग्धशब्देनाविशुद्धिरमौग्ध्यं च लक्ष्यते।
५. यत्राभिहितशब्दार्थतिरस्कारेणार्थान्तरं लक्ष्यते सा तदन्यलक्षणा। यथा—
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥ ९७॥
(महाभारत ५.३५.६४) अत्र न सुवर्णशब्दार्थो, नापि पुष्पशब्दार्थः; किन्तु सुवर्णशब्देन सर्वपुरुषार्थमूलं हिरण्यं, पुष्पशब्देन च प्रसवार्थो लक्ष्यते। ताभ्यां च लाक्षिताभ्यां व्यवसायिनां पुरुषविशेषाणां वसुमती सर्वान् कामान् प्रसूत इति।
६. उक्ताभ्योऽन्या प्रकीर्णलक्षणा। यथा— (रघु. ८.२९)
दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम्।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः॥ ९८॥
हिरण्यपूर्वं कशिपुं प्रचक्षते।
(माघ. १. ४२) तुरङ्गकान्तामुखहव्यवाहज्वालेव हित्वा जलमुल्ललास॥ ९९॥
(माघ. ३.३३) इति।
अन्ये पुनर्लक्षितलक्षणामन्यथा व्याचक्षते— लक्षणयोपचरितवृत्त्या गौण्या अर्थेन यत्रार्थान्तरं लक्ष्यते सा लक्षितलक्षणेति। यथा— रथावयवायुधः, पङ्क्तिरथः (रघु. ९.७४), रथाङ्गनामेति (रघु. ३.२४); अत्र रथावयवशब्देन चक्रं लक्ष्यते, तेन तदाकृतिः तन्नामा आयुधविशेषः; पङ्क्तिरित्यनेन दशाक्षरं छन्दो लक्ष्यते, तेन दशशब्दः, ताभ्यां चायुधसन्निधेश्चक्रायुधः, दशरथः इति देवविशेषराजविशेषौ लक्ष्येते। रथाङ्गमित्यनेन रथैकदेशो लक्ष्यते, तेन चक्रशब्दः, नामेत्यनेन परिभाषणं लक्ष्यार्थः; ताभ्यामन्योन्यसन्निधेश्चक्रवाक इति पक्षिविशेषो लक्ष्यत इति। अस्याश्च प्रबन्धेषु भूयसा प्रयोगः। तद्यथा— (गास. ६१)
सूईवेहे मुसलं विच्छुहमाणेण दड्ढलोएण।
एक्कग्गामे वि पिओ इमेहिं/समेहि अच्छीहि वि ण दिट्ठो॥ १००॥
(सुचीवेधे मुसलं विक्षिपता दग्धलोकेन।
एकग्रामेऽपि प्रिय आभ्याम्/समाभ्याम् अभ्यामपि न दृष्टः॥)
अत्र सूचीवेधे मुसलप्रवेशो न सम्भवति, जनस्तु तमपि करोतीत्यनेन मुख्यया लक्षितेन तस्यासम्भाव्यमानार्थवादिता लक्ष्यते। यथा—
चुंबिज्जइ सअहुत्तं अपवाहिज्जइ सहस्ससअहुंत्तं।
रमिअ पुणो वि रमिज्जइ पिए जणे णत्थि पुणरुत्तं॥ १०१॥१
(चुम्ब्यते शतकृत्वः अवरुध्यते सहस्रशतकृत्वः।
रन्त्वा पुनरपि रम्यते प्रिये जने नास्ति पुनरुक्तम्॥)
अत्र पुनरुक्तशब्दो व्यर्थवाक् पुनःप्रयोगविशेषे निरूढशक्तिः, क्रिया पुनःकरण— सामान्यं लक्षयति विपक्षि(?) चुम्बनादि x x x करणविशेषवैयर्थ्याय लक्षयति। एवम्—
दूइ तुमं विअ णिउणा कक्कसमहुआइ जाणसे वोल्लुं।
कंडुइअपंडरं जह ण होइ तह तं कुणिज्जासु॥ १०२॥
(गास. २८१)
(दूति त्वमेव निपुणा कर्कशमृदुकानि जानासि वक्तुम्।
कण्डूयितपाण्डुरं यथा न भवित यथा तं करिष्यसि॥)
अत्र कण्डूयितपाण्डरमित्यनेन पारुष्यं लक्ष्यते; तेन तु स्नेहक्षतिरिति। अपि च—
गअणं च मत्तमेहं धाराळुळिअज्जुणाइ अ वणाइ।
णिरहंकारमिअंका हरति नीलाओ विअ णिसाओ॥ १०३॥
(गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि।
निरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः॥)
अत्र मत्तनिरहङ्काशब्दावनिभृतत्वं निभृतत्वं च लक्षयन्तौ चेतनेषु रूढावचेतनेषु प्रयुज्यमानौ तयोरपि तथाविधार्थयोगं लक्षयतः। किंच— (गास.(वे) ९६९)
अण्णं लडहत्तणअं अण्णा च्चिअ अंगवढ्ढणच्छाआ।
सामा सामण्णवआवइस्स रेह च्चिअ ण होइ॥ १०४॥
(अन्यल्लडहत्वमन्यैव अङ्गवर्त्तनच्छाया।
श्यामा सामान्यप्रजापते रेखैव न भवति॥
अत्र रेखाशब्देन चित्रालेख्यं लक्ष्यते, तेन च विशिष्टं रूपनिर्माणमिति। अपरम्—
अगणिअणअणाआसं मारिसलोइज्जंत गतं को होसि मअणस्स(?)॥ १०४॥
(अगणितनयनानासं मारिष लोक्यमान त्वं को भवसि मदनस्य।)
अत्र मदनस्य (को) भवसीत्यनेन तत्सनाभित्वं लक्ष्यते, तेन च तदौपम्यमिति। तथा—
१. ध्वन्यालोके तूत्तरार्धपाठ ईदृशः — ‘विरमिअ पुणो रमिज्जइ पिए जणे णत्थि’।
प्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति तालीपरिणतिम्।
परिम्लानप्रायामनुवदति दृष्टिः कमलिनीं नवीनस्तन्वड्गया मनसिजविकारो विजयते॥ १०६॥
अत्र प्रतीच्छत्यवतरत्यनुवदतीति चेतनधर्मैरचेतने प्रयुक्तैरुपलक्षितेषु धारणप्राप्त्यनु, किसलयपरावृत्त्या श्वासधूसरत्वं लक्ष्यते, तेनापि तत्सामीप्यादशोक— किसलयौपम्यमिति; तालीपरिणत्या कमलिनीपरिम्लानतया च विरहकार्श्यं, तेन च स्नेहातिरेक इति। एवम्—(रत्ना. २.११)
परिम्लानं पीनस्तनजघनसङ्गादुभयत— स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम्।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्या: सन्तापं वदति बिसिनीपत्रशयनम्॥ १०७॥
अत्र वदतीत्यनेनोपचारवृत्त्या ज्ञापयतीति, परिम्लानमित्यादिभिस्तद्धर्मैस्तस्याः तनुसन्निवेशचारुत्वोत्कर्षो लक्ष्यते। अपि च—
निर्माल्यं नयनश्रिपः कुवलयं वक्त्रस्य दासः शशी।
(बारा. १.४०) कन्दर्पस्य धनुर्लता किमपरं द्वारि भ्रुवोर्धार्यते॥ १०८॥
इति॥
अत्र निर्माल्यदासशब्दभ्यामुपचारवृत्त्या हीनत्वेन लक्षितेन नयनवक्त्रयोरुपमोत्कर्षो लक्ष्यते। कन्दर्पधनुर्लतायास्तु द्वारप्रवेशक्षणोपलक्षणेन हीनत्वेन तयोरपि सुतरां ब्रूते। किंच— (विस. २.१४)
यत् तालीदलपाकपाण्डु वदनं यद् दुर्दिनं नेत्रयो— र्यच्चानर्तितकेलिपङ्कजदलं श्वासाः प्रसर्पन्ति च। १०९।
अत्र दुर्दिनं नेत्रयोरित्यत्र दुर्दिनशब्दः वृष्टिमेघाहतशोभेऽह्नि रूढाभिधानशक्ति— र्नेत्रयोरसम्भाव्यमानत्वेन स्वार्थाविनाभूतं पयःप्रवाहं लक्षयन्नश्रुप्रवाहं लक्षयति।
अन्यच्च— (महाभारत १.११९.६)
अतिक्रान्तसुखाः काल प्रत्युपस्थितदारुणाः।
शश्वत् पापीयदिवसाः पृथिवी गतयौवना॥ ११०॥
अत्रातिक्रान्तसुखत्वादि चेतनधर्मैरचेतनेषु कालादिष्वारोपितैरतेषु तदसम्भवेन
तदविनाभूतास्तद्गता; प्राण्यादयो लक्ष्यन्ते। तेन वक्तृनिर्वेद इति।
अपरं च—
‘इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम्॥ १११॥’
(काव्यद. १.४) ‘निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते॥ ११२॥’
(रामा. ३.१६.१३) अत्र यथा अन्धे रूपविशेषाभिव्यक्तिर्न सम्भाव्यते एवं तमस्यपि; यत्र नीरन्ध्रे रूपविशेषाभिव्यक्तेरसम्भवस्तदन्धं तम इत्युच्यते; तथा यथान्धो रूपग्रहणासमर्थः, एवम् आदर्शोऽपि। यो रूपग्रहणासमर्थः सोऽन्ध इत्युच्यते; तत्रोपचरितवृत्तौ योऽन्धवन्न पश्यति स एवान्ध इत्युच्यते। इह यत्र किंचिन्न दृश्यते तत्रापि अन्धशब्दो लक्षितलक्षणया प्रवर्तत इति।
एवमन्यदपि यथा—
‘स्वल्पैरसावपि न दह्यत एव काष्ठैः॥ ११३॥’
‘वअस्स तुमं पि थेवचंदणरसेण समससिज्जसि॥ ११४॥’
(वयस्य त्वमपि स्तोकचन्दनरसेन समाश्वसिहि।)
अत्र पूर्वस्मिन् यथाश्रुतार्थो वर्णनीयेऽसम्भवन् यथा विक्रमादित्यस्तथायमापि महापुरुषविशेष इति लक्षयति। तेन च स्वल्पैर्वचोभिरनाख्येयं माहात्म्यादिगुण— गोरवमुभयोरपि लक्षयति। उत्तरत्र तु स एवार्थो विरुद्धलक्षणया वैपरीत्येनाख्यायत इत्येवमयमनन्तो लक्षितलक्षणाव्यापारः प्रबन्धेषु लक्षणीयः। यथा— (द्र. स.क. पृ. १८५)
एक्किंहिं अच्छिहिं सावणु अण्णहिं भद्दवउ।
माहउ महिअलमत्थरि गंडत्थल सरउ॥ ११४॥
अंगहिं गिम्ह सुहच्छिइ तिलवण मग्गसिरु।
मुद्धिहिं मुहपङ्कअसरि आवासिउ सिसिरु॥ ११६॥
(एकस्मिन्नक्ष्णि श्रावणोऽन्यस्मिन् भाद्रपदो।
माघः महीतलस्रस्तरे गण्डस्थले शरत्॥
अङ्गे ग्रीष्मः सुखासिका तिलवने मार्गशीर्षः।
मुग्धाया मुखपङ्कजसरसि आवासितः शिशिरः॥)
नीहारजालमलिनः पुनरुक्तसान्द्राः कुर्वन् वधूजनविलोचनपक्ष्ममालाः।
क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांसुर्दिशांमुखमतुत्थयदुत्थितोऽद्रेः॥ ११७॥
(माघ. ४.११)
(२. विवक्षा)
शब्देष्वर्थदानाभिप्रायो विवक्षा।
यदाह— ‘वक्तुर्विवक्षितपूर्विका शब्दप्रवृत्तिः’ इति।
त्रिधा हि वाङ्मयम् अपौरुषेयम्, आर्षं, पौरुषेयं च। तत्र—
शब्दप्रधानम् अपौरुषेयं मन्त्रो ब्राह्मणं च। तत्र वक्तुरभावाद् विवक्षा नोपपद्यते। अर्थप्रधानम् आर्षं, स्मृतिरितिहासश्च। तत्र विवक्षामात्रं प्रवर्तते—(उराच. १.१०)
लौकिकानां हि साधूनां वागर्थमनुवर्तते।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुवर्तते॥ ११८॥
इति। (एतदुभय—)प्रधानम्१। (शास्त्रकाव्यादि)पौरुषेयम्।
(तच्)च तदुभयमप्यभिनिविष्टबुद्धीनां विशिष्टविवक्षाभ्यो जायते। तद्यथा— ‘विवक्षातः कारकाणि भवन्ति’। अक्षान् दीव्यति अक्षैर्दीव्यति अक्षेषु दीव्यत(ति) इति, वलाहको विद्योतते, वलाहकस्य विद्योतत इति। (वाप. ३.७.२)
शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः।
सर्वदा सर्वथाभावात् क्वचित् किञ्चिद् विवक्ष्यते॥ ११९॥
कारकेष्वप्यकारकविवक्षा यथा— मातुः स्मरति, सर्पिषो जानीते, न माषाणामश्नीयात्।
‘नैते सुखस्य जानन्ति ये न वत्स्यन्ति नन्दने’॥ १२०॥ इति।
अत्र कर्मादिषु शेषत्वेन विवक्षितेषु सम्बन्धमात्रे षष्ठी, न कर्मकरणकर्तृष्वपि कारकविभक्तिरिति।
अकारकेषु कारकविवक्षा यथा— ‘भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, अस्ति गच्छमो वयमिति। तथा स्मरसि कश्मीरेषु वत्स्यामः, एहि मन्ये न यास्यसि, पश्य मृगो धावति, इह पश्यामः। कर्मणि द्विवचन— बहुवचनान्युदाह्रियन्त इति।
क्रियायामपि कारकविवक्षा यथा— ‘चोरस्य रुजति, चोरस्यामयति, चोरं ज्वरयति, चोरं संतापयती’ति। अत्र ‘रुजार्थानां भाववचनानामज्वरिसन्ताप्योः (२.३.५४)’ इति भावस्यैव कर्तृत्वम्।
१. अत्र राघवः ‘(उभय)प्रधानं पौरुषेयं च (काव्यं शास्त्रं च)।’ इति पूरयते। इतिहासस्तु त्यक्त एव स्थितोऽत्र संपूर्णेऽपि सन्दर्भे।
अक्रियाविवक्षा यथा— ‘नीलति वनम्, श्वेतते प्रासादः;
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्॥ १२१॥ (कुसं. २. ५५)। इति।
क्रियायां क्रियान्तरविवक्षा यथा— एषितुमिच्छति, कमितुं कामयते, भवेदपि भवेत्, स्यादपि स्यादिति।
कारकेऽपि क्रियाविवक्षा यथा—‘द्रष्टुं चक्षुः, योद्धुं धनुः, गन्तुमनाः, गन्तुकाम’ इति। अत्र क्रियायां क्रियार्थायामुपपदे तुमुन् भाव उक्तः। स चक्षुरादीनां क्रियाविवक्षामन्तरेण। न सिध्यतीति।
असम्बन्धे सम्बन्धविवक्षा यथा—(माघ. ३. ७४)
सोटापमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी।
तान्येकदेशान्निभृतं पयोधेरम्भांसि मेघान् पिबतो ददर्श॥ १२२॥
अचेतनेषु चैतन्यविवक्षा यथा—नदीकूलं पिपतिषति, अश्मा लुलुठिषते।
(चेतने अचैतन्य)—विवक्षा यथा—अश्वारोहः पिपतिषति।
प्रधाने गुणविवक्षा यथा— बलाकायाः शौक्ल्यम्, काकस्य कार्ष्ण्यमिति।
गुणे प्रधानविवक्षा यथा— ‘मधुरो रस आप्याययति, अम्लो दीपयतीति।
अवयवे समुदायाविवक्षा यथा— ग्रामो दग्धः, पटो दग्धः, अक्ष्णा काणः, पादेन खञ्ज इति।
समुदाये अवयवविवक्षा यथा—‘दोर्दण्डचण्डिममात्रारोपणीये धनुषि सति पदातिलवे लक्ष्मणेन प्रभुरार्यः’, ‘मामपि तस्यैव सुगृहीतनाम्नो देवस्य भृत्यपरमाणुं विकुक्षिनामानमवधारयतु भवती’ इति।
अभेदे भेदविवक्षा यथा— परुद् भवान् पटुरासीत् पटुतर ऐषमः अन्य एवासि सम्पन्नः, राहोः शिरः, शिलापुत्रकस्य शरीरम् इति।
भेदेऽप्यभेदविवक्षा यथा— तानेव शालीनश्नीमो ये मधुरायाम्, तानेव शाटकानाच्छादयामो ये पाटलिपुत्र इति।
असतो विवक्षा यथा— समुद्रः कुण्डिका, विन्ध्यो वर्धितकमिति।
सतोऽप्यविवक्षा यथा— अनुदरा कन्या, अलोमिका एडका इति।
सदसतोर्विवक्षा यथा— तदिदमपमेघोदयं वर्षं, सोच्छ्वासं मरणम् इति।
सदसतोरविवक्षा यथा— ‘शैलाधिराजतनया न ययौ न तस्थौ’ इति। (कुसं.५. ८५)
स्तुत्या निन्दाविवक्षा यथा—
गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते।
असञ्जातकिणस्कन्धः सुखं स्वपिति गौर्गलिः॥ १२३॥
निन्दया स्तुतिविवक्षा यथा—(काव्याद. २.२७१)
चपलो निर्दयश्चासौ जनः किं तेन मे सखि !
आगःप्रमार्जनायैव चाटवो येन शिक्षिताः॥ १२४॥
विधिना निषेधविवक्षा यथा—(काव्याद. २.१४१)
गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान्॥ १२५॥
निषेधेन विधिविवक्षा यथा—
मा गच्छ प्रमदाप्रिय प्रियशतैर्भूयस्त्वमुक्तौ मया बाला प्राङ्गणमागतेन भवता प्राप्नोत्यवस्थान्तरम्।
किं चास्याः कुचभारपीडनपरैर्यत्नप्रबन्धैरपि त्रुट्यत्कञ्चुकजालकैरनुदिनं निस्सूत्रमस्मद्गृहम्॥ १२६॥
एवमियमनेकधा विवक्षा विप्रथते। तदेष लौकिकवादः—(ध्वन्या. ३.४३)
अस्मिन्नपारे संसारे कविरेकः प्रजापतिः।
यथास्मै रोचते विश्वं तथेदं परिवर्तते॥ १२७॥
अपि च—(गउडवहो ६६)
ठिअमट्ठिअं व दीसइ अठिअं पि जहठ्ठिअं/परिठ्ठिअं व पडिहाइ।
जहसंठिअं च दीसइ सुकईण इमाओ पयईओ॥ १२८॥
(स्थितमस्थितमिव दृश्यते अस्थितमपि यथास्थितमिव/परिष्ठितमिव प्रतिभाति।
यथासंस्थितमिव दृश्यते सुकवीनामिमाः पदव्यः/प्रकृतयः॥)
किंच—
क्वचित् स्वल्पेऽप्यर्थे प्रचुरवचनैरेव रचना क्वचिद् वस्तु स्फारं कतिपयपदैरर्पितरसम्।
यथावाच्यं शब्दाः क्वचिदपि तुलायामिव धृता— स्त्रिभिः कल्पैरेवं कविवृषभसन्दर्भनियमः॥ १२९॥
विविक्षा लोकव्यवहारे काव्यव्यवहारे च सुमतिभिरुन्नीयमाना त्रिधा विख्यायते काक्वादिव्यङ्ग्या, प्रकरणादिव्यङ्ग्या, अभिनयादिव्यङ्ग्या च। तत्र—
(१. काक्वादिव्यङ्ग्या —३)
काकुः, स्वरो, विच्छेद इति काक्वादयः। तेषु— (काकुः) भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते॥ १३०॥
सा त्रिधा— १. नियतप्रतिबन्धा, २. अनियतप्रतिबन्धा, ३. अप्रतिबन्धा च। तासु—
(१) नियतप्रतिबन्धा द्विधा— साकाङ्क्षा, निराकाङ्क्षा च।
तयोर्वाक्यान्तरापेक्षिणी साकाङ्क्षा।
सा त्रिधा— आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा च।
वाक्यान्तरभाविनी निराकाङ्क्षा।
सापि त्रिधा— विधिरूपा, उत्तररूपा, निर्णयरूपा च।
तदेव वाक्यं काकुविशेषेण साकाङ्क्षं, तदेव काक्वन्तरेण निराकाङ्क्षम्। तत्र—
(साकाङ्क्षा, निराकाङ्क्षा)
आक्षेपगर्भा यथा—
यदि मे वल्लभा दूती तदाहमपि वल्लभा।
यदि तस्याः प्रिया वाचस्तन्ममापि प्रियप्रियाः॥ १३१॥
इयमेव निर्देष्टुर्विधिरूपा।
प्रश्नगर्भा यथा—
गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु।
वर्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः॥ १३२॥
इयमेवोपदेष्टुरुत्तररूपा।
वितर्कगर्भा यथा—(विक्रमो. ४.१)
नवजलधरः सन्नद्धोऽयं न दुष्टनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम्।
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत् प्रिया मम नोर्वशी॥ १३३॥
इयमेवोपदेष्टुर्निर्णयरूपा।
एवमन्या अपि—(विक्रमो. ४. २७)
सर्वक्षतिभृतां नाथ दृष्टां सर्वाङ्गसुन्दरी।
रामा रम्ये वनान्तेऽस्मिन्मया विरहिता त्वया॥ १३४॥
इत्यादयो द्रष्टव्याः।
ता इमास्तिस्त्रोऽपि नियतप्रतिबन्धाः।
(२) अनियतप्रतिबन्धाः पुनरनन्ताः। तासु —
अभ्युपगमानुनयकाकुर्यथा— (वेसं. १.११)
युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतकौरवा— नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव॥ १३५॥
अभ्यनुज्ञोपहासकाकुर्यथा— (वेसं. १.१४)
मथ्नामि कौरवशतं समरे न कोपाद् ?
दुश्शासनस्य रुधिरं न पिबाम्युरस्तः?
सञ्चुर्णयामि गदया न सुयोधनोरू?
सन्धिं करोतु भवतां नृपतिः पणेन॥ १३६॥
विषान्ना(अमर्षा?)द्याक्षेपकाकुर्यथा— (वेसं १. ७)
लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः॥ १३७॥
एवमन्या अपि— (रुद्रट. २.१७)
शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम्।
धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनम्॥ १३८॥
इत्यादयो द्रष्टव्याः।
(३) अप्रतिबन्धा तु एकगुणा, द्विगुणा, त्रिगुणा (चतुर्गुणा) च। तत्र—
एकगुणा यथा—
भ्रुकुटिरारचिता, गतमग्रतो हृतमथाननमुक्तमसाधु वा।
इयमपि प्रभुता क्रियते बलादकुपितोऽपि हि यत् कुपितो जनः॥ १३९॥
द्विगुणा यथा—
किंकिरातेन यच्चक्रे समाकृष्य शिलीमुखान्।
शिलीमुखान् समाकृष्य किं किरातः करोति तत्॥ १४०॥
त्रिगुणा यथा—
सेयं पश्यति, नो कुरङ्गकवधूस्त्रस्तेयमुद्वीक्षते
तस्याः पाणिरयं, न मारुतचलः पत्राकृतिः पल्लवः।
तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा, नो कोकिलः कूजति॥ १४१॥
चतुर्गुणा खल्वपि यथा— (किराता. ९.३९, ४०)
उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः॥ १४२॥
किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः।
योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे॥ १४३॥
सख्या वा नायिकाया वा सखीनायकयोरथ।
भूयसीनां सखीनां वा वाचि काकुरिह स्थिता॥ १४४॥
(का.मी. पृ.१२) एवमन्या अपि कोऽहमित्यादयो द्रष्टव्याः।
(स्वराः)
स्वरास्त्रिधा — १. प्लुतादयः, २. उदात्तादयः ३. प्रगृह्यादयश्च। तेषु —
(१) प्लुतादयो यथा—
सुभ्रु ! त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां दूरादेव मयोज्झिताः सुरभयः स्त्रग्गन्धधूपादयः।
कोपं रागिणि मुञ्च मय्युपनते दृष्टे प्रसीदाधुना सत्यं त्वद्विरहाद् भवन्ति दयिते ! सर्वा ममान्धा दिशः॥ १४५॥
तदेतत्प्रियतमाप्रसादनपरमपि वाक्यं दृष्टे इत्यत्र सम्बुद्धौ प्लुतस्वरकरणा— दुत्कुपितदृष्टिप्रसादनपरं सम्पद्यते। आदिग्रहणेन ह्नस्वदीर्घानुनासिकाः सङ्गृह्यन्ते। तत्र
ह्रस्वस्वरकरणादर्थभेदो यथा— अश्ववदिति (अश्वावति इति) सम्बोधनं प्रतीयते।
दीर्घकरणादर्थभेदो यथा— विश्वामित्रो विश्वानर इति ऋषिः, संज्ञा च प्रतीयते।
अनुनासिककरणादर्थभेदो यथा— ‘गम्भीरआँ अपः अत्र’ (गभीर आँ उग्रपुत्रे; अभ्र आँ अपः) (ऋवे. ८.६७.११, ५.४८.१); ‘आङोऽनुनासिकश्छन्दसि’ (६.१.१२६) इति ईषदादिर्थः प्रतीयते।
न स्थाणुदिनं (अननुनासिकं ?) यथा— (उराच. २.३१)
आ ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति॥ १४६॥
२. उदात्तादयो यथा— कलो रवोऽस्येति कलरवः, एकः पुत्रोऽस्येत्येकपुत्र इति। समासे बहुव्रीहिस्वरो भवति, स च पूर्वपदस्यावन्तोदात्तः। कलश्चासौ रवश्च, एकश्चासौ पुत्रश्चेति समासे कर्मधारयस्वरो भवति। स च ‘समासस्य’ (६.१.२२३) इति समासस्यान्तोदात्तो भवति। ताभ्यां चान्यपदार्थ उत्तरपदार्थश्च प्रतीयते। तदुक्तम्—
संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति।
शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते॥ १४७॥
(माघ. १४.२४)
आदिग्रहणेनानुदात्तस्वरितैकश्रुतयः सङ्गृह्यन्ते। तत्र —
अनुदात्तादर्थभेदो यथा— पूर्वोक्तयोरेवोदाहरणयोरन्यपदार्थः प्रतीयते, नोत्तरपदार्थ इति।
स्वरितादर्थभेदो यथा— भ्रातृव्य इति भ्रातुरपत्यं प्रतीयते, न सपत्नः।
एकश्रुतेरर्थभेदो यथा— आगच्छ भो माणवक देवदत्त३ (मभा. १.२०.३३)
‘अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपां रेतांसि जिन्वतो३म्॥’ (ऋवे. ८.४४. १६, काशिका १.२.३४)१ यत्रैकश्रुतेः यथा X X X दूरादाह्वानमज्ञक यथा— X X X सन्धीयते X X X तत्स्वरोऽपि तात्स्थ्यात् प्रगृह्य इत्युच्यते; ततोऽर्थभेदो यथा— ‘आली आगच्छामि ताम् इतः’ इति सखीभ्यामिवागन्तव्यम् इत्यर्थः प्रतीयते, नागन्तूनां पङ्क्तिरस्माद् इति।
आदिग्रहणेन सन्धेयसंवृता संगृह्यन्ते। तत्र —
सन्धेयादर्थभेदो यथा— आङ्गिरस इति;
- इतः परम् आङ्गिरस इत्यन्तं भागं राघवो यथा तथा व्याकृत्य श्रान्तोऽस्फुटार्थ एष इति मन्वानो विरराम। (विच्छेदः)
विच्छेदस्त्रिधा— १. पदविच्छेदो, २. वाक्यविच्छेदो, ३. यतिविच्छेदश्च। तेषु—
(१) पदविच्छेदः चतुर्धा— शृङ्खला, भङ्गः, परिवर्तकः, चूर्णकम् इति। तेषु—
शृङ्खला यथा— ‘कान्तारतरुतलासितमृगयुवरचितान्तरा हरत्यटवी’ इति। अत्र यदा कान्तारः तरुतलः आन्तरा इति पदच्छेदस्तदा प्रिया—सम्भोग—मणित— हर्षित—व्याधप्रधान—व्याप्तमध्या इति। सेयं शृङ्खलेवान्योन्यसङ्कलाच्छृङ्खला।
भङ्गो यथा— जाय X X X X वाक्यं निन्दार्थं क्रियते सेयं पदद्वैधीभावो भङ्गः।
परिवर्तको यथा— ‘कलिकामधुगर्हणा’ इत्यविकृतमेव विच्छिद्यते, (तदा) कुट्मलमकरन्द— निष्यन्देत्यर्थप्रतीतिः; यदा तु किलकामधुक् अर्हणेति तदा पूजनैव कलिकाले कामधेनुरिति; सोऽयं गकारककारयोः परिवर्तने परिवर्तकः।
चूर्णकं यथा— ‘पश्यं सलिलं पयोधेर्दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तम्’; मत्स्यानां वल्लभं पयोधेर्जलमवलोकयेत्यर्थः; यदा तु दूरसम् उन्मुक्तशुक्तिमीनाङ्कान्तमिति, तदा दुःखेन रसनीयं उद्वान्तमौक्तिकाधारं मत्स्यचिह्नितपर्यन्तं जलमवलोकयेति। अत्र शुक्तीत्यस्य संयोगाक्षरस्य दूरसमित्यत्र रेफस्य च चूर्णनिमित्तं चूर्णकम्।
(२) वाक्यविच्छेदोऽपि चतुर्धा— वाक्यसम्भेदो, वाक्यान्यथात्वं, वाक्यासमाप्तिः, वाक्यानुच्चारणम् इति; तेषु—
१. वाक्यसम्भेदो यथा—
दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्त।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत् कथाद्भुतमिदं यत्रैव चास्तं गतम्॥ १४८॥
अत्र वदन्त एव हि वयं रोमाञ्चिताः पश्यतेति वाक्यसम्भेदो वक्तुर्भावकत्वेन गुणविशेषविज्ञानातिशयप्रकाशनं प्रतिपादयति।
२. वाक्यान्यथात्वं यथा— (वेसं. २.५)
सहभृत्यगणं सबान्धवं सहमित्रं सबलं सहानुगम्।
स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम्॥ १४९॥
अत्र पाण्डुसुतं सुयोझन इति वक्तव्ये पाण्डुसुतः सुयोझनमिति भानुमतीविरहवैमनस्यप्रयुक्तस्य सुयोधनवाक्यस्यान्यथात्वमनुच्यमानं भाविनोऽर्थस्य तथात्वमवबोधयति।
३. वाक्यासमाप्तिर्यथा— (उराच. ३.२६)
त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतैरनुध्य मुग्धां तामेव शान्तमथवा किमतः परेणा॥
अत्र ‘शान्तमथवा किमतःपरेणे’ति वासन्तीवाक्यासमाप्तिः ‘सुहृद्विषये नामङ्गलं वक्तव्यमि’—ति प्रतिपादयति।
४. वाक्यानुच्चारणं यथा—
अक्षुद्राऽरिकृताऽभिमन्यु—निधन—प्रोद्भूत—तीव्र—क्रुधः कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयः।
पार्थस्याऽकृत—शात्रव—प्रतिकृतेरन्तश्शुचा मुह्यतो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद् बहिः॥ १५१॥
अत्र हा वत्सेति वाक्यानुच्चारणमकृतशत्रुप्रतिक्रियाणां महात्मनामनुचितं परिदेवनमिति ज्ञापयति।
(३. यतिविच्छेदः)
विरामो यतिः। स चतुर्धा— पदे, पादे, अर्धे, स्थाने च।
तस्यान्यथाकरणं यतिविच्छेदः।
१. तत्र पदे यथा—
सम्पदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि।
शारदाभ्रदलचञ्चलमायुः, किं धनैः, परहितानि विदध्वम्॥ १५२॥
अत्र किं धनैरिति पदयतौ न्याय्योऽर्थः प्रतीयते, तस्यान्यथाकरणं किमित्यत्रैव विच्छेदः; तेन च किमिति धनैः परहितानि विदध्वमित्यन्याय्यः।
२. पादे यथा—
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम्।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः॥ १५३॥
(मनु. १२.११०) अत्र यदा पादे पादे यतिस्तदा न्याय्योऽर्थः प्रतीयते; यदा त्वाज्ञासिद्धानि चत्वारि नेति पादमतिक्रम्य तदा अन्याय्य इति।
३. अर्धे यथा—(किराता. ९.३९)
उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि ! साध्वी।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः॥ १५४॥
अत्र यदार्धे यतिस्तदैकस्या एवेदं वाक्यमित्यन्योऽर्थः प्रतीयते; यदा तु तद्विच्छेदात् पाद एव यतिः क्रियते तदा द्वयोः बह्वीनां वा एकवाक्येनान्य इति।
४. स्थाने यथा—
येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः।
यस्याहुश्शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः॥ १५५॥
अत्र द्वादशसु सप्तसु चाक्षरेषु यतिस्थानम्, तदतिक्रमेण बलिजित्काय इति शशिमच्छिरोहर इति च यतिकरणे उमाधवो माधवश्च त्वामव्यादित्यर्थौ क्रमेण प्रतीयेते इति।
(२. प्रकरणादिव्यङ्ग्या)
प्रकरणमर्थो लिङ्गमौचित्यं देशः काल इति प्रकरणादयः।
तत्र प्रकरणाद्यथा सैन्धवः सामान्येन लवणेऽश्वे पुरुषे च वर्तमानः भोजनादिप्रकरणवशादर्थविशेषप्रतिपत्तिनिमित्तं भवति।
देवो वर्षतीत्यर्थात् देवशब्दो मेघमभिधत्ते,
रामलक्ष्मणाविति लक्ष्मणलिङ्गाद् रामशब्दो दाशरथौ वर्तते।
पुण्डरीकमुखीत्यौचित्यात् पुण्डरीकशब्दः कमलमाह,
अमरावत्यां हरिरिति हरिशब्दो देशतः शतक्रतुं ब्रूते,
रात्रौ पतङ्गं पश्येति कालतः पतङ्गशब्दः शलभमभिधत्त इति।
एवमन्येऽपि। तद्यथा—
भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां हठात् परिचुम्बति।
न न न म म मा मां मा स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम्॥ १५६॥
इति। (३. अभिनयादिव्यङ्ग्या)
अभिनयोऽपदेशो निर्देशः संज्ञा इङ्गितमाकार इत्याभिनयादयः। तेषु —
अभिनयो यथा—
एद्दहमेत्तत्थणिआ एद्दहमेत्तेहि अच्छिवत्तेहिं।
एद्दहमेत्तावत्था एद्दहमेत्तेहि दिअएहिं॥ १५७॥
(एतावन्मात्रस्तनी एतावन्मात्राभ्यामक्षिपत्राभ्याम्।
एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः॥)
अपदेशो यथा—(कुसं. २.५५)
इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम्।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्॥ १५८॥
निर्देशो यथा— ‘भर्तृदारिके दिष्ट्या वर्धामहे, यदत्रैव कोऽपि कस्यापि (वल्लभः) तिष्ठतीति मामङ्गुलीविलासेनाख्यातवत्यः।’(मामा. १२८/२९)
संज्ञा यथा—(कुसं. ८.६)
अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम्।
वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ॥ १५९॥
इङ्गितं यथा—(काव्याद. २.२६१)
कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम्।
अवेत्य कान्तमबला लीलापद्मं न्यमीलयत्॥ १६०॥
आकारो यथा—(कुसं. ५.४६)
निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते।
न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम्॥ १६१॥
एवमन्येऽपि; यथा—
आश्लेषे प्रथमं क्रमादथ जिते हृद्येऽधरस्यार्पणे केलीद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति।
सान्तर्हासनिरुद्धसम्भृतरसोद्भेदस्फुरदगण्डया तूष्णीं शारविसारणाय निहितः स्वेदाम्बुगर्भः करः॥ १६२॥
(३. तात्पर्यम्)
यत्परश्शब्दः स शब्दार्थ इति तात्पर्यम्।
तच्च वाक्य एवोपपद्यते, पदमात्रेणाभिप्रायस्य प्रकाशयितुमशक्यत्वात्।
तच्च वाक्यप्रतिपाद्यं वस्तु त्रिरूपं भवति —
१. अभिधीयमानं, २. प्रतीयमानं, ३. ध्वनिरूपं च।
यत्र यदुपात्तशब्देषु मुख्यागौणीलक्षणाभिः शब्दशक्तिभिः स्वमर्थमभिधायोपरत— व्यापारेषु आकाङ्क्षासन्निधियोग्यतादिभिर्वाक्यार्थमभिधीयते तदभिधीमानम्, यथा— गौर्गच्छतीति।
वाक्यार्थावगतेरुत्तरकालं वाक्यार्थ उपपद्यमानोऽनुपपद्यमानो वार्थप्रकरणौ— चित्यादिसहकृतौ यत्प्रत्याययति तत्प्रतीयमानम्; यथा— ‘विषं भुङ्क्ष्व मा चास्य गृहे भुङ्क्थाः’ इत्युक्ते वरं विषं भक्षितम्, न पुनरस्य गृहे भुक्तमिति प्रतीयते।
अर्थशब्दोपायादुपसर्जनीकृतस्वार्थो वाक्यार्थावगतेरनन्तरमनुनादरूपं प्रतिशब्दरूपं वा यद् अभिव्यञ्जयति तद्ध्वनिरूपम्। तच्च न सार्वत्रिकम्। तथा हि यथा— निवृत्तेऽभिघाते कस्यचिदेव कांस्यादेर्द्रव्यस्यानुनादो जायते, कस्यचिदेव कन्दरादेः प्रतिशब्दः, यथा च कस्यचिदेव वाक्यस्य प्रतीयमानाभिधीयमानवाक्यार्थप्रतीतेरनन्तरं ध्वनिरुपलभ्यत इति। निमिषत्येषेत्युक्तेऽक्ष्णोर्निमेषोऽभिधीयते, देवी न भवतीति प्रतीयते, रूपातिशयं च ध्वनति। अथैषां प्रयोगः।
(१. अभिधीयमानम्)
तत्राभिधीयमानं चतुर्धा— विधिरूपं, निषेधरूपं, विधिनिषेधरुपम्, अविधिनिषेधरूपञ्च। तेषु —
विधिरूपं यथा—
दानं वित्तादृतं वाचः कीर्तिधर्मौ तथायुषः।
परोपकरणं कायादसारात् सारमुद्धरेत्॥ १६३॥
निषेधरूपं यथा—
लोकयात्रा भयं लज्जा दाक्षिण्यं धर्मशीलता।
यस्यैतानि न विद्यन्ते न तेन सह संवसेत्॥ १६४॥
विधिनिषेधरूपं यथा—
पक्वान्नमिव राजेन्द्र ! सर्वसाधारणाः स्त्रियः।
तस्मात् तासु न कुप्येत न रज्येत रमेत च॥ १६५॥
अविधिनिषेधरूपं यथा—
न दानेन न मानेन न शाठ्येन न सेवया।
न शास्त्रेण न हृद्यास्ताः सर्वथा किमिव स्त्रियः॥ १६६॥
(२. प्रतीयमानम्)
प्रतीयमानं पुनरनेकधा।
१. क्वचिद् विधौ निषेधः — (गास. २.७५)
भम धम्मिअ वीसद्धो/विसत्थो सो सुणओ अज्ज मारिओ तेण।
गोलाणईकच्छकुडंगवासिणा दरिअसीहेण॥ १६७॥
(भ्रम धार्मिक विस्त्रब्धः/विश्वस्तः स शुनकोऽद्य मारितस्तेन।
गोदानदीकच्छकुञ्जवासिना दृप्तसिंहेन॥)
अत्र विस्त्रब्धो भ्रमेति विधिवाक्ये तत्र निकुञ्जे सिंहस्तिष्ठति, त्वं च शुनोऽपि बिभेषि, तस्मात्त्वया तस्मिन्न गन्तव्यमिति निषेधः प्रतीयते।
२. क्वचिन्निषेधे विधिर्यथा — (गास. ७.६७)
अत्ता एत्थ णुमज्जइ एत्थ अहं दिवसअं पलोएहि।
मा पहिअ रत्तिअंधअ सेज्जाए मह णिमज्जिहिसि॥ १६८॥
(श्वश्रूरत्र निमज्जति शेते अत्राहं दिवसकं प्रलोकय।
मा पथिक रात्र्यन्धक शय्यायामावयोर्निङ्क्ष्यसि॥)
अत्र शय्यायां मा निषत्स्यसीति निषेधवाक्ये इयं श्वूश्रूशय्या, इयं मच्छय्येति दिवाभ्युपलक्ष्य रात्रौ त्वयेहागन्तव्यमिति विधिः प्रतीयते।
३. क्वचिद्विधौ विध्यन्तरं यथा— (गास. ४.३५)
बहलतमा हअराई अज्ज पउत्थो पई घरं सुण्णं।
तह जग्गिज्ज सअज्जिअ/ ज्झिअ ण जहा अम्हे मुसिज्जामो॥ १६९॥
(बहलतमा हतरात्रिरद्य प्रोषितः पतिः, गृहं शून्यम्।
तथा जागृहि प्रतिवेशिन् ! न यथा वयं मुष्यामहे॥)
अत्र यथा वयं न मुष्यामहे तथा जागृहीति विध्याभिधाने रात्रिरत्यन्धकारा, पतिः प्रोषितो, गृहं शून्यम् अतस्त्वमभयो मत्पार्श्वमागच्छेति विध्यन्तरं प्रतीयते।
४. क्वचिन्निषेधे निषेधान्तरं यथा—(गास. ९५८ वे.)
आसाइअं अणाएण जेत्तियं तेत्तिएण बंध दिहिं।
ओरमसु वसह एण्हिं रक्खिज्जइ गहवईछित्तं॥ १७०॥
(आस्वादितमज्ञातेन यावत् तावदेव बंधान धृतिम्।
उपरम वृषभेदानीं रक्ष्यते गृहपतिक्षेत्रम्॥)
अत्र गृहपतिक्षेत्रे दुष्टवृषवारणपरे निषेधवाक्ये उपपतिवारणं निषेधान्तरं प्रतीयते।
५. क्वचिद् विधिनिषेधे विधिर्यथा—(वल. ४९१)
महुएहिं किंव पंथिअ जइ हरसि णिअंसणं णिअंवाओ।
वाहेमि कस्स रण्णे गामो दूरे अहं एक्का॥ १७१॥
(मधुकैः किंवा पान्थ यदि हरसि निवसनं नितम्बात्ष।
आह्वयामि कस्यारण्ये ग्रामो दूरे अहं एका॥)
अत्र विधिनिषेधयोरनभिधाने ‘अहमेकाकिनी ग्रामो दूर’ इति विविक्तोपदेशान्नितम्ब— वासोऽपि मे हरेति विधिः प्रतीयते।
६. क्वचिद् अविधिनिषेधे यथा—(काव्याद. २.१३९)
जीविताशा बलवती धनाशा दुर्बला मम।
गच्छ वा तिष्ठ वा कान्त ! स्वावस्था तु निवेदिता॥ १७२॥
अत्र गच्छ वा तिष्ठ वेत्यविधिनिषेधाज्जीविताशा बलवती धनाशा दुर्बला ममेति वचनात् त्वया विनाहं जीवितुं न शक्नोमीत्युपक्षेपेण गमननिषेधः प्रतीयते।
७. क्वचिद् विधिनिषेधयोर्विध्यन्तरं यथा— (गास. पृ. ९५७ वे.)
णिअदइअदंसणक्खित्त पहिअ अण्णेण वच्चसु पहेण।
गहवइधूआ दुल्लंघवाउरा इह हअग्गामे॥ १७३॥
(निजदयितादर्शनोत्सिक्त ! पथिक ! अन्येन व्रज पथा।
गृहपतिदुहिता दुर्लङ्घवागुरा इह हतग्रामे॥)
अत्रान्येन पथा व्रजेति विधिनिषेधयोरभिधाने हे स्वकान्ताभिरूपताविकत्थन पान्थाभिरूपक इह ग्रामे भवतो गृहपतिसुता द्रष्टव्यरूपेति विध्यन्तरं प्रतीयते।
८. क्वचिद् विधिनिषेधयोर्निषेधान्तरं यथा—(गास.(वे) ९५९)
उच्चिणसु पडिअ—कुसुमं मा धुण सेहालिअं हलिअसुह्णे।
एस अवसाणविरसो ससुरेण सुओ वळअसद्दो॥ १७४॥
(उच्चिनु पतितकुसुमं मा धुनीहि शेफालिकां हालिकस्नुषे।
एष अवसानविरसः श्वशुरेण श्रुतो वलयशब्दः॥)
अत्र पतितं कुसुममुच्चिनु मा धुनीहि शोफालिकामिति विधिनिषेधयोरभिधाने ‘सखि ! चौर्यरते प्रसक्ते वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते।
९. क्वचिद् विधावनुभयं यथा—
सणिअं वच्च किसोअरि पए पअत्तेण ववसुमहि पट्टेदि/ठवसु महिवट्ठे।
भञ्जिहिसि वित्थअत्थणि विहिणा दुक्खेण णिम्मविआ॥ १७५॥
(शनैर्व्रज कृशोदरि ! बहुप्रयत्नेन व्यवस्यामः पृष्ठतः/स्थापय महीपृष्ठे।
भङ्क्ष्यसि विस्तृतस्तनि ! विधिना दुःखेन निर्मापिता॥)
अत्र शनैर्व्रजेति विध्यभिधाने हि न विधिर्नापि निषेधः, अपि तु वर्णनामात्रं प्रतीयते।
१०. क्वचिन्निषेधेऽनुभयं यथा—(गास. ९६८ वे.)
दे आ पसिअ णिवत्तसु मुहससिजोण्हाविलुत्ततमणिवहे।
अहीसारिआण विग्घं करेसि अण्णाण वि हआसे॥ १७६॥
(प्रार्थये तावत् प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे।
अभिसारिकाणां विघ्नं करोषि अन्यासामपि हताशो !॥)
अत्र निवर्तस्वेति निषेधाभिधानेऽपि न निषेधो नापि विधिः; अपि तु मुखेन्दुकान्तिः प्रतीयते।
११. क्वचिद् विधिनिषेधयोरनुभयं यथा—(गास. पृ.९४४ वे.)
वच्च मह च्चिअ एक्काए होंतु णीसास—रोइअव्वाइं।
मा तुज्झ वि तीए विणा दक्खिण्णहअस्स जाअंतु॥ १७७॥
(व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि।
मा तवापि तया विना दाक्षिण्यहतस्य जायन्ताम्॥)
मा तवापि तां विना तानि जायन्तामिति विधिनिषेधयोरभिधाने न विधिर्नापि निषेधः ; अपि तु कृतव्यलीकप्रियतमोपालम्भनमात्रं प्रतीयते।
१२. क्वचिद् अविधिनिषेधेऽनुभयं यथा—(गास. २.७१)
गोलाणइए तूहे/कच्छे चक्खंतो राइआइ पत्ताइं।
उप्फडइ मक्कडो खोक्खएइ पोट्टं च पिट्टेइ॥ १७८॥
(गोदानद्याः तीर्थे/कच्छे चर्वयन् राजिकायाः पत्राणि।
उत्पतति मर्कटः खोक्खशब्दं करोत्युदरं च ताडयति॥)
अत्र न विधिर्नापि निषेधोऽभिधीयते। नाप्येनयोः अन्यः, सङ्केतकुडुंगे अभ्यागतो भवान्न गत इति तं ज्ञापयतीति प्रतीयते।
(३. ध्वनिरूपम्)
प्रतीयमानाभिधीयमानवाक्यार्थानामानन्त्याद् ध्वनिरूपम् अप्यनेकप्रकारमेव। ध्वनिश्च द्विधा १. अर्थध्वनिः, २. शब्दध्वनिश्च। तयोः —
१. अर्थध्वनिः अनुनादध्वनिरूपः प्रतिशब्दध्वनिरूपश्च। तत्र—
योऽभिधीयमानवाक्यार्थानुस्यूतमेव कांस्यानुनादरूपमर्थान्तरं ध्वनति, स अनुनादध्वनिः। यथा—
शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः।
तरुणि! येन तवाधरपाटलं दशति बिम्बफलं शुकशाबकः॥ १७९॥
अत्र यथाश्रुतवाक्यार्थोऽभिधीयमानो बिम्बफलारुणाधर इत्युपलक्षणेन रागातिशयं प्रत्याययन्नाल्पपुण्यस्त्वदधरप्रतिनिधिमपि चुम्बतीति चाटुना वर्णनीयायाः स्वानुराग— प्रकाशनं ध्वनति। एतच्च कांस्यध्वनिवदविच्छिन्नमेव ध्वनन्ननुनादरूपं प्रतीयत इत्यनुनादध्वनिः। तथा—
शान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपिं क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम्।
विश्वं स्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यतेऽशिष्यते नागै रागिषु रंस्यतेऽत्स्यति जगन्निर्वेक्ष्यति द्यामिति॥ १८०॥
अत्र गणाः कपाललिपिमप्रसिद्धक्षरां पदशः पठन्तीति वाक्यार्थोऽभिधीयमान— स्तानि कपालानि ब्रह्मादीनामिति प्रत्याययन् महाध्वो(र्थो)पसंहारे भगवतोऽनुपहत— प्रभावस्यैकाकिनोऽवस्थानम् इव (इति) ध्वनति। तच्च ‘विश्वं’ स्रक्ष्यतीत्यादि— पदार्थानुस्यूतमेवाऽनुनादवन्निरूप्यत इत्यनुनादध्वनिः। एवम्—
अण्णत्त/त्थ वच्च बालअ मज्जंतिं/ण्हअंतिं कीस मं पलोएसि।
एअं भो जाआभीरुआण तूहं तित्थं विअ ण होई॥ १८१॥
(अन्यत्र व्रज बालक! मज्जन्तीं/स्नान्तीं कस्माद् मां प्रलोकयसि।
एवम् भो जायभीरुकाणां तीर्थमेव न भवति॥)
अत्र किं मां मज्जन्तीं प्रलोकयसि, अन्यत्र व्रज, नेदं जायाभीरूणां तीर्थमित्य— भिधीयमानो जायायास्त्वं बिभेषि, तेन मां न कामयस इत्युपालम्भार्थं प्रत्याययन् स्नेहं विना युवतीनामीर्ष्यायितं भवतीति ध्वनति। तच्च तस्या अनुरागार्थानुस्यूतमेवानुनादरूपं ध्वनतीत्यनुनादध्वनिः। एवं ‘अत्ता एत्थ णिमज्जइ’ इत्यादिवाक्ये निषेधे विधिः प्रतीयमानः कदाचिदयमन्धकारे मदभ्रान्त्या श्वश्रूं प्रति यायादित्युत्प्रेक्षमाणायाः स्खलितप्रतिविधानरूपं रात्र्यन्धपदाभिधानमपि नयवत्या वैदग्ध्यं ध्वनति। तच्चाभिधीयमानप्रतीयमानयोरनुस्यूतेन प्रतीयत इत्यनुनादध्वनिः। तथा— ‘महुएहि किं वि पंथिअ’ इत्यादौ अविधिनिषेधे विधिः प्रतीयमानो मधूकापचायिकायाः प्रार्थनावैदग्ध्यं ध्वनति। तच्च प्रतीयमानार्थानुस्यूतमेवानुनादमिवोपलभ्यत इत्यनुनादध्वनिः। अपि च—‘उच्चिणसु पडिअं कुसुमं मा धुण सेहालिअं’ इत्यादिवाक्ये विधिनिषेधयोर्निषेधः प्रतीयमानः स्खलितगोपनेषु सखीवैदग्ध्यं ध्वनति। स च शेफालिकापुष्पावचयव्याजेन पश्चाद्वाटमुपगताया हालिकस्नुषायास्तत्रागतेनोपपतिना सह प्रवृत्ते चौर्यरतकलहे कुड्यान्तरितश्वशुराकर्ण्यमानमनोहरवलयशब्दप्रतिषेधपरतया प्रवर्तमानः स्नुषानुस्यूतमेल शेफालिकाशाखावधूननं सवलयकरावधूननं च कांस्यध्वनिरूपेणानुनादो ध्वनिं प्रतिपादयन्ननुनादध्वनिव्यपदेशमासादयतीति।
यः पुनरभिधीयमानवाक्यार्थात् पृथग्भूत इव गुहादिप्रतिशब्दानुरूपमर्थान्तरं प्रत्याययन् प्रतिध्वनति स प्रतिशब्दध्वनिः। यथा —
लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते।
उन्मज्जति द्विरकुम्भतटी च यत्र यत्रापरे कदलकाण्डमृणालदण्डाः॥ १८२॥
यथा— गुहायां पौरुषादिशब्दानां प्रतिशब्दा जायन्ते, ते च ध्वनिं जनयन्त उपलभ्यन्ते, एवं लावण्यसिन्धुरित्येतस्मिन् पद्यार्थे उत्पलादिशब्दानां यथा स्वोपमेयलोचनाद्यर्थप्रतिशब्दा जायन्ते, ते चार्थान्तरध्वनिं जनयन्त उपलभ्यन्ते, तथेह च यथाश्रूयमाणानामुत्पलादीनामर्थोऽभिधीयमानः तस्य लोचनाद्यर्थैः सह सादृश्यं प्रत्याययन् वर्णनीयायाश्चारुत्वोत्कर्षप्रतीतिं ध्वनति। सा ततः पृथगिवोपलभ्यमाना प्रतिशब्दध्वनिः। यथा—(वायु. ८३.११)
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्।
यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत्॥ १८३॥
अत्र बहवः पुत्रा एष्टव्या इति वाक्यार्थोऽभिधीयमानः पुत्रैः पितृप्रीतये प्रयागगमनादयः कर्तव्या इति प्रत्याययन् पितृणां कामपूरणं परमपुरुषार्थ इति ध्वनति। स च पितृव्यपदेशपरतया प्रवृत्तः पुत्रोद्देशरूपेण तत्प्रवृत्तिषु प्रतिशब्दायमानः पृथगिवोपलभ्यत इति प्रतिशब्दध्वनिः। एवम्— (गासा. ८८६ वे.)
कस्स व ण होइ रोसो दठ्ठूए पिआए सव्वणं अहरं।
सभमरकमलपउमग्घाइरि वारिअवामे सहसु एण्हिं॥ १८४॥
(कस्य वा न भवति रोषः दृष्ट्वा प्रियायाः सव्रणमधरम्।
सभ्रमरकमलपद्मघ्रायिणि वारितवामे ! सहस्वेदानीम्॥)
अत्र सख्युपालम्भार्थोऽभिधीयमानः पत्युरीर्ष्योपशान्तये भ्रमरेणास्या अधरः खण्डितो नोपपतिनेति प्रत्याययन् स्खलितगोपनेषु सखीवैदग्ध्यं ध्वनति। स चान्योपदेशपरत्वेन प्रवृत्तोऽन्यस्य चेतसि प्रतिफलति इति प्रतिशब्दध्वनिः। एवं ‘भम धम्मिअ वीसद्धो’ इत्यादिवाक्ये विधौ निषेधः प्रतीयमानः तस्या नदीकुञ्जके केनचित् सह सङ्केतार्थं ध्वनति। स वाक्यार्थात् पृथगिवोपलभ्यमानः प्रतिशब्दध्वनिः। ‘आसाइअं अण्णाएण जत्तिअम्’ इत्यादिवाक्ये वृषनिवारणपरो निषेध उपपतिनिवारणं प्रत्याययन् प्रयोक्तुर्वैदग्ध्यं ध्वनति। स चान्याभिधानेनान्यमभिदधत् ततः पृथगिवोपलभ्यमानः प्रतिशब्दध्वनिः। एवं ‘गोलाणइए कच्छे चक्खन्तो राइआइ पत्ताइ’ इत्यपि प्रतिशब्दध्वनिरिति।
(२. शब्दध्वनिः)
एवं शब्दध्वनिरपि द्विधैव। तत्र—
अनुनादरूपो यथा— (सूर्यश. २)
भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां लक्ष्मीनाक्रष्टुकामा इव कमलवनोद्घाटनं कुर्वते ये।
कालाकारन्धकाराननपतितजगत्साध्वसध्वंसकल्याः कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य॥ १८५॥
अत्र भास्करकराः कल्याणं वः क्रियासुरिति वाक्यार्थः करशब्दशक्ति— स्वाभाव्यात् किसलयरुचय इत्यादिसमस्ततुल्यविशेषणयोगाच्च हस्तेष्वनुनादं जनयन् भगवतस्तेजोरूपतां पुरुषरूपतां च ध्वनति। तदुभयमपि तदनुस्यूतमेवेह निरूप्यत इत्यनुनादध्वनिः। एवम्— (सूर्यश. ३)
गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुल्यं पतन्तः प्रारम्भे वासरस्य व्युपरतिसमये चौकरूपास्तथैव।
निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनप्राङ्गणे पान्तु युष्मा— नूष्माणं सन्तताध्वश्रमजमिव भृशं बिभ्रतो ब्रध्नपादाः॥ १८६॥
अत्र पादशब्दस्वाभाव्यात् सर्वमपि योजनीयम्। इयांस्तु विशेषः—‘पूर्वत्र साधर्म्यद्वारेण इह तु वैधर्म्यद्वारेणे’—ति।
अत्र च प्रतिशब्दध्वनिः यथा— (सूर्यश. ९)
दत्तानन्दाः प्रजानां समुचितसमयाक्लिष्टसृष्टैः पयोभिः पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः।
दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु॥ १८७॥
अत्र दीप्तांशोर्गावो रश्मयः स्तूयमानाः गोशब्दशक्तिस्वाभाव्यात् तुल्यविशेषण— योगाच्च धेनुषु प्रतिशब्दं जनयन्त्यस्तास्वपि विशिष्टं माहात्म्यविशेषं प्रतिध्वनन्ति।
एवम्—
मीलच्चक्षुर्विजिह्मं श्रुतिजडरसनं निघ्नितघ्राणवृत्ति स्वव्यापाराक्षमत्वक्परिमुषितमनः श्वासमात्रावशेषम्।
विस्रस्ताङ्ग पतित्वा स्वयमपहरतादश्रियं वोऽर्कजन्मा कालव्यालावलीढं जगदगद इवोत्थापयन् प्राक्प्रतापः॥
(सूर्यश. ३१) अत्रार्कजन्मा प्राक्प्रतापः कालव्यालावलीढं जगदुत्थापयन् अश्रियं वोऽपहरतादिति वाक्यार्थः। अर्कशब्दशक्तिस्वाभाव्यात् तुल्यकर्मक्रियापदादियोगाच्च अर्कवृक्षजन्मा अगदः कालव्यालदष्टमप्युत्थापयतीति प्रत्याययन्नर्को विषघ्नानां श्रेष्ठ इति प्रतिशब्दरूपं ध्वनिमुत्थापयतीति। एवमन्येऽपि महाकविप्रयोगेषु ध्वनिविशेषा गवेषणीया इति। यदुक्तं ‘तात्पर्यमेव वचसि ध्वनिरेव काव्ये'१ इत्यादि।
कः पुनः काव्यवचसोर्ध्वनितात्पर्ययोः विशेषः ? ननूक्तं पुरस्तात्२—
१. ग्रन्थारम्भे ५ श्लोके। २. अत्रैव ६ प्रकाशान्ते।
यदवक्रं वचश्शास्त्रे लोके च वच एव तत्।
वक्रं यदर्थवादादौ तस्य काव्यमिति स्मृतिः॥ १८९॥
यदभिप्रायसर्वस्वं वक्तुर्वाक्यात् प्रतीयते।
तात्पर्यमर्थधर्मस्तच्छब्दधर्मः पुनर्ध्वनिः॥ १९०॥
सौभाग्यमिव तात्पर्यमान्तरो गुण इष्यते।
वाग्देवताया लावण्यमिव बाह्यस्तयोर्ध्वनिः॥ १९१॥
अदूरविप्रकर्षात्तु द्वयेन द्वयमुच्यते।
यथा सुरभिवैशाखौ मधुमाधवसंज्ञया॥ १९२॥
इति।१ सत्यमुक्तम। किन्तु नाद्यापि निदर्शनतः प्रतिपाद्यते।
तर्हि श्रूयतामिदं प्रतिपादयामः—
यस्तावदयमनन्तरो ग्रन्थः स सर्वः काव्ये ध्वनिरित्यवधार्यताम्। वचसि तात्पर्यं द्विधा शास्त्रे लोके च। तत्र शास्त्रे यथा—‘आत्मस्थितं गुणविशेषमहङ्कृतस्य’ इत्यादि। अत्र ‘आत्मस्थितं गुणविशेषमहङ्कृतस्य शृङ्गारमाहुरिह जीवितमात्मयोनेः’ इत्याप्तोपदेशरूप आगमः; ‘तस्यात्मशक्तिरसनीयतया रसत्वम्’ इति संज्ञार्थानुगामि प्रत्यात्मवेदनीयं प्रत्यक्षम्। ‘युक्तस्य येन रसिकोऽयमिति प्रवादः’ इत्यर्थापत्तिरूपम् अनुमानम्; तथा हि योऽयं लोके रसोऽस्यास्तीति रसिकोऽयं रसिकोऽयमिति विना१ मधुरादीन् केषुचिदेव पुरुषविशेषेषु निरपवादः प्रवादः स नान्तरेण प्रत्यात्मवेदनीयं रसाह्वयवस्तुसम्बन्धमुपपद्यते। सोऽयं विवक्षितार्थस्य प्रमाणत्रयेण प्रतिपादनं वाक्यार्थोऽभिधीयमानः।
प्रतिपाद्यश्च त्रिप्रकारः पुरुषो भवति अप्रतिपन्नो, विप्रतिपन्नः संशयित इति। तत्र यथातुरानातुरयोर्भोजनमनातुरः प्रतिपद्यत इति तथैव प्रकल्प्यते, तथेहाप्रतिपन्ना— नुरोधादितयोरप्यागम एव प्रथममुपन्यस्यते। अत्र विप्रतिपन्नः संशयितो वागमं न मन्यते। अतस्तदर्थं सर्वप्रमाणेभ्यो वलीयः प्रत्यक्षमुपन्यसनीयं भवति। तदपि वैयात्याद् विप्रतिपन्नो न मन्यते। ततोऽस्य शासनाय ब्रह्मास्त्ररूपा सार्वलौकिकी युक्तिरुपन्यस्यत इति। स एव प्रमाणत्रयोपन्यासहेतुर्वक्तुरभिप्रायः प्रतीयमानः प्रमाणत्रयोपन्यासादिना च साङ्ख्यदर्शनाश्रयेण शृङ्गारस्सन्नेवाविर्भवति, न त्वसन्नुत्पद्यते; स च त्रिविधप्रमाणाश्रयः १. माधुरा॰ इति तु मूलं स्यात्। माधुरा माथुराः — रे. श्रेयानिति प्रतिपादनतात्पर्यम्। साङ्ख्या ह्येवमाहुः, ‘सदेवोत्पद्यते, प्रकृतिरेव कर्त्री, पुरुषः पुनरुदास्ते, उदासीनमपि चैनं भोगसम्पादनाय प्रकृतिरुपसर्पति’ इति।
ननु च साङ्ख्यानां ‘दृष्टमनुमानमाप्तवचनं च’ इति प्रमाणोपन्यासक्रमः। इह त्वागमस्य प्रथममुपन्यासे किं तात्पर्यम् ?
ननूक्तमप्रतिपन्नानुरोधादिति।
अन्यदप्युच्यते; ‘न तथा पदार्थाः प्रत्यक्षेण प्रतीयमानाः स्वदन्ते यथा वाग्ग्मिनां वचोभिरावेद्यमाना’ इत्यागमस्य प्रथममुपन्यासेन सूचयति।
न च सर्वथा साङ्ख्यदर्शनाश्रयिणो वयमिति प्रमाणव्युत्क्रमेण प्रतिपादयति, साहित्यस्य सर्वपार्षदत्वात्।
अथात्मनि प्रतिबिम्बद्वारेणावस्थितस्याहङ्कारगुणविशेषस्य धर्मार्थफलभूत— तृतीयपुरुषार्थजीवितस्य १ शृङ्गारस्याभिमानापरनाम्नो यान्याविर्भावकारणानि यानि च तत्कार्याणि तान्यनन्तरश्लोकेन निर्दिशति— ‘सत्त्वात्मनाममलजन्म/ २धर्मविशेषजन्मा’ इत्यादि। तत्रायमात्मनामनुपहतेभ्यः सुकृतविशेषेभ्य उत्पद्यते। उत्पन्नस्य३ सर्वस्यात्मा आत्मगुणसम्पदो ४वक्ष्यमाणलक्षणाया उदयहेतुर्भवति। अनेकजन्मानुभवजनितात्तु संस्कारादुत्कृष्यते। उत्कृष्टश्चात्मगुणसम्पद एव अतिशयहेतुर्भवति। स चायमेक एवैवंविधोऽभिमानात्मा प्रकृतिविकार आत्मविशेषाणां तमोनिर्भेदस्थानेषु प्रतिबिम्बरूपेण सुप्त इव प्रतिबुध्यत इति वाक्यार्थोऽभिधीयमानः। एकहेतुरित्यनेन च हेत्वन्तराभावमात्मगुणसम्पदः प्रदर्शयन् अयमेव चतुर्वर्गकारणमिति ज्ञापयति। ‘जागर्ति’ इति; जागर्तिश्च सुप्तप्रबोधदृष्टान्तेन तस्यानाविर्भावावस्थायामपि स्तिमितरूपेणावस्थानादविद्यमानतां निराकरोति। ‘कोऽपि’ इत्यनेनादभुतप्रदर्शनद्वारेण तदुत्कर्षसम्पत् जन्मसहस्त्रेणाप्यनाख्येया इति ख्यापयति। ‘मानमय’ इत्यनेन चास्याभिमानात्मनोऽभिमान एव मूलमित्यन्यावष्टम्भं निराचष्ट इति। सोऽयमेवंप्रकारो वाक्यार्थः प्रतीयमानः, एवंविधं वस्तु वयं च वक्तुमुद्यताः, अतश्चतुर्वर्गार्थिनोऽत्र प्रवर्तन्तामिति श्रोतृजनप्रोत्साहनादस्मिन्वचसि तात्पर्यमिति। १. तृतीयः पुरुषार्थः कामः। तथा च कालिदासः ‘धर्मार्थकाममोक्षाणामवतार इवाङ्गभाक्’ रघु. १०.८४। २. ‘॰ममलधर्मवि॰’ इति तु प्राक्तनः पाठः। तथा हि मङ्गले पृ॰ ३। जन्मेत्येव पाठे तु रघुवंशाद्यभिमता जन्मशुद्धिः स्मरणीया ‘सोऽहमाजन्मे’—ति १.५। ३. उत्पन्नश्चेति तु स्यात्। ४. एकादशे प्रकाशे। एवं लौकिकेऽपि वचस्यभिधीयमानं प्रतीयमानं तात्पर्यं च पर्यालोचनीयमिति। एतेन काव्यवचसोर्ध्वनितात्पर्ययोश्च क्वचित् सम्प्लवोऽपि व्याख्यातः। तद्यथा—‘अच्छिन्नमेखलमलब्धदृढोपगूढम्’ इत्यादि। अत्र—
१. काव्यार्थस्तावत् कान्ताविमिश्रवपुषः पुरारेर्वपुरच्छिन्नमेखलमित्यादिविशेषणयोगाद् विप्रलम्भसम्भोगयोः सख्यसम्पादकमिवेत्युत्प्रेक्ष्यमाणं रक्षत्विति वाक्यार्थो अभिधीयमानः।
‘कान्ताविमिश्रवपुषः’—वपुरित्यनेन मूर्तिरेवास्य सांसारिकेषु कर्मस्वधिक्रियते, न पुनरात्मेति प्रत्याययति। मूर्तिरिति च वक्तव्ये वपुरिति पदोपादानान्न केवलं विश्वस्य रक्षणे, सृष्टिसंहारयोरप्ययमेव व्याप्रियत इति प्रतिपादयति। वपिर्हि सृष्टौ संहारे च दृश्यते, बीजं वपति, केशान् वपतीति।
‘कृतविप्रलम्भसम्भोगसख्यमिव’ इत्यनेन सहानवस्थानादिभिर्दुर्घटानप्ययं पदार्थान्मिथो घटयतीति ज्ञापयतीति।
‘पुरारेः’ इत्यनेन च कान्ताविमिश्रवपुरप्येवंविधेष्वरिवधादिव्यापारेषु समर्थ एवेति सत्यापयति। सोऽयमेवंप्रकारो वाक्यार्थः प्रतीयमानः। तदेवप्रकारमपारमनन्य— साधारणं च यस्यैश्वर्यमसावेव नमस्कार्यो नान्य इति तात्पर्यार्थः।
एवमुत्तरश्लोकेऽपि यथाश्रुतवाक्यार्थोऽभिधीयमानः ‘यत्पादपङ्कजरजः— परिमार्जितेषु’ इति प्रयोजकव्यापारो(प)दर्शनाद् ध्यानेनानीय गणपतिर्मनस्यारोपणीय इत्युपदिशति।
‘चेतस्सु दर्पणतलामलतां गतेषु’ इत्यनेन चादर्शतलानीव भस्मना स्मृत्युपहितेनापि तत्पादरजसा मनांसि निर्मलीभवन्तीत्यभिधत्ते।
‘शब्दार्थसम्पद उदारतराः स्फुरन्ति’ इत्यनेन तु दर्पणतलेष्विव निर्मलेष्वमीषु विश्वे पदार्थाः स्फुरन्तीत्यावेदयति।
‘विघ्नच्छिदेऽस्तु भगवान् स गणाधिनाथ’ इत्यनेन पुनरुपन्यस्तन्या— येनाभिगामिकं गुणयोगमस्योपदर्शयन् अविघ्नप्रार्थनया चिकीर्षितं महान्तमारम्भ— विशेषमात्मनः प्रतिपादयति। सोऽयमेवंविधो वाक्यार्थः प्रतीयमानः। यस्य च पादपङ्कजस्मृतेरप्येतत्फलं तस्य साक्षादाराधनादेः किमुच्यत इति तात्पर्यार्थः॥
२. अथेदमेव श्लोकद्वयं शास्त्रादौ वचोरूपेण तात्पर्यपर्यन्तं व्याक्रियते। तत्राभीष्टदेवता स्तोतव्येति शिष्टाचारः। ततो हि विशिष्टदुष्टसम्पत्तेः समीहितफलावाप्तिर्भवति। अभीष्टदेवता च द्विविधा— ‘अधिकृताऽनधिकृता’ च। तत्राधिकृतानधिकृतयोरधिकृतायां प्रतिपत्तिर्गरीयसीत्यधिकृतैव स्तूयते। शास्त्रे चेह शृङ्गारोऽभिधेयः, तत्र च यथा भगवान् महेश्वरः सर्वज्ञतया सौभाग्येन दयितजानितया स्वातन्त्र्येण परमपरिपूर्णतया समर्थत्वेन चाधिक्रियते नैवमन्यस्तद्विधेयवैभवः शक्रादिः। तत्र च प्रागुक्त एव प्रतीयमानः; तात्पर्यरूपस्तु निरूप्यते। तत्र—
इह शास्त्रे शृङ्गारे वक्तव्यः। स द्विधा— सम्भोगो विप्रलम्भश्च। तत्र सम्भोगो विप्रलम्भमन्तरेण न प्रकर्षमधिरोहतीति विप्रलम्भ एव प्रथममभिधेयो भवति।
स चतुर्धा— ‘प्रथमानुरागः, मानः, प्रवासः, करुण’ इति। विचित्रश्चैष सम्भोगादिति विस्तरेणोच्यते।
चतस्त्रश्चास्यावस्था भवन्ति— ‘सत्ता, जन्म, अनुबन्धः, प्रकर्ष’ इति।
तमिमं चतुर्भेदं चतुरवस्थं विचित्रं च पूर्वार्धेन वक्ष्यमाणमुपलक्षयति।
तत्राच्छिन्नमेखलमित्यनेन प्रथमनुरागं, मेखलाच्छेदावधिर्हि प्रथमानुरागः;
अलब्धदृढोपगूढमित्यनेन मानं, न हि माने दृढोपगूढं लभ्यते;
अप्राप्तचुम्बनमित्यनेन प्रवासं, न हि प्रवासे चुम्बनादयः प्राप्यन्ते;
अवीक्षितवक्त्रकान्तीत्यनेन करुणं, न हि करुणे वक्त्रकान्तिर्वीक्ष्यते।
अथैतदवस्थास्वपीमान्येव पदानि।
अच्छिन्नमेखलमिति विप्रलम्भसत्तायाम्। विप्रलम्भो हि मेखलायामच्छिन्नायाम— वश्यमेव सम्भोगार्थिनः सम्भवति, सास्य प्रथमावस्था।
अलब्धदृढोपगूढमिति विप्रलम्भजन्मनि, विप्रलम्भवान् हि मेखला अच्छेदात् सम्भोगमलभमानः प्रेयसीं प्रार्थयते, ‘अयि प्रियतमे,’ यदि मे मेखलाच्छेदं न मन्यसे तदालिङ्गनमपि गाढं प्रयच्छ’; तदप्रतिपद्यमानायां च तस्यामस्य विप्रलम्भो जायते, सास्य द्वितीयावस्था। अप्राप्तचुम्बनमिति विप्रलम्भानुबन्धे; विप्रलब्धो हि सर्वाङ्गीणं प्रियासंश्लेषमलभमानः वक्त्रमात्रसंयोगमप्यभिलषति; तदलाभे चैनं विप्रलम्भोऽनुबन्धाति, सास्य तृतीयावस्था। अवीक्षितवक्त्रकान्तीति विप्रलम्भप्रकर्षे; अपेक्षणीयालिङ्गनाद्यनवाप्तौ हि कामिनः प्रियमामुखावलोकनमपि बहु मन्यन्ते। तदप्यनाप्नुवतामेषां विप्रलम्भः प्रकृष्यते; सास्य तुरीयावस्था।
सोऽयं चतुर्विधश्चतुरवस्थश्च विप्रलम्भश्चातुर्विध्येन चातुरवस्थ्येनपृथक्पृथग— भिधीयमानो विचित्र इत्युच्यते।
सम्भोगोऽपि चतुर्धैव— प्रथमानुरागानन्तरः, मानानन्तरः, प्रवासानन्तरः, करुणानन्तर इति। तस्यापि ता एव चतस्त्रोऽवस्थाः —‘सत्ता, जन्म, अनुबन्धः, प्रकर्ष’ इति। सोऽयमपि चतुर्भेदश्चतुरवस्थश्च कान्ताविमिश्रवपुष इत्यनेनापि चित्रत्वात्संक्षेपेणैवोपलक्ष्यते। तत्राप्युपसर्गस्य क्रियाविशेषणार्थवाचकत्वाद् येन येन विशेषेण प्रथमानुरागानन्तरे मानानन्तरे (प्रवासानन्तरे) करुणानन्तरे च कान्तया सह मिश्रीभावः साध्वसोत्कम्पः, सर्ष्याकषायं, सौत्सुक्यरभसं, सहर्षविस्मयं च जायते, स सर्व उद्दिष्टो भवति। सोऽयं विमिश्रपदेन सम्भोगश्चतुर्विधोऽप्याक्षिप्तः। कान्तापदेन पुनरस्य चतस्त्रोऽवस्था अपि। तत्र यदा कान्ताशब्दः स्त्रीपर्यायस्तदा—
नामापि स्त्रीति संह्लादि विकरोत्येव मानसम्॥ १९३॥
(कामन्दकः २.५१) इति सम्भोगस्याद्यावस्था सत्तासंज्ञिका प्रतीयते। यदा तु कान्तशब्दो मनोज्ञापर्यायस्तदा
किं पुनर्दर्शनं तस्या विलासोल्लासितभ्रुवः॥ १९४॥
(कामन्दकः २.५१) इति न्यायात् सम्भोगस्य द्वितीयावस्था जन्मसंज्ञिका प्रतीयते। यदा पुनः कान्ताशब्दो वृषस्यन्तीपर्यायस्तदा
पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः। (किराता.१०.५०) इति न्यायात् सम्भोगस्य तृतीयावस्था अनुबन्धसंज्ञिका प्रतीयते। यदा तु कान्ताशब्दो वल्लभापर्यायस्तदा
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ १९६॥
इति न्यायात् सम्भोगस्य तुरीयावस्था प्रकर्षसंज्ञिका प्रतीयते। सोऽयं चतुर्भेदश्चतुरवस्थश्च विप्रलम्भः, सम्भोगश्चाग्रतो विशेषेण वर्णयितुमुपक्रान्तो दिङ्मात्रेणात्र सूचित इति तात्पर्यम्॥
३. अथाऽधिकारि नायिकानायकविशेषाणां का वार्ता ?
‘कान्ताविमिश्रवपुष’ इत्यस्य तन्त्रेण व्याख्यानान्तरे तेऽपि सूचिता एव। तत्र हि भगवतो वपुर्विप्रलम्भसम्भोगयोः कृतसाहाय्यकमिव कान्ताविमिश्रवपुषः पुरुषान् स्त्रियश्च पात्विति व्याख्या भवति। विमिश्रशब्देन च संयोगिन इव वियोगिनोऽप्युच्यन्ते, व्युपसर्गस्य क्रियाविशेष इव क्रियावैपरीत्येऽपलम्भात्। तद्यथा विभक्तो विक्रीत इति। एवं च कान्ताभिर्विमिश्रवपुषः पुरुषाः कान्तैरविमिश्रवपुषो योषितः संयुक्ता वियुक्ताश्च शृङ्गाराधिकारिण उभयेऽपि नायकविशेषाः प्रतीयन्ते।
वपुश्शब्देन पुनरिह विशेषणपक्षे यौवनपल्लवितलावण्यलक्ष्मीकं समग्रात्मगुणसम्पदाश्रयः शरीरमुच्यते, न त्वादिकर्तृकसृष्टिसंहारकादि।
वपिर्हि सृष्टिसंहारयोरिव कान्तावपि दृश्यते। तद्यथा — ‘गोभिर्वपावान्’ (मभा.२.१.३०), वपुष्टमा नामाप्सरोविशेष (महाभारते १) इति। तत्राच्छिन्नमेखलमित्यादीनि कान्ताविमिश्रवपुष इति। समासपदान्तर्गतयोर्वियुक्तिसंयुक्तिक्रिययोर्गमकत्वाद् विशेषणानि भवन्ति; यथा कर्तुंमनाः कटं, गन्तुकामो ग्राममिति।
४. अथ सम्भोगपक्षे अच्छिन्नमेखलमित्यादीनि कथं सम्बन्धन्ते ?
उच्यते। एवं नाम रागान्धतया कान्ताभिः सह ते संयुक्ताः येन मेखलाच्छेदमालिङ्गनं चुम्बनमालोकनं च परमानन्दमग्नाः कर्तुं न पारयन्ति, ‘तद्यथा प्रियया स्त्रिया परिष्वक्तो न बाह्यं किंचन वेद नान्तरम्’ (बृप. ४.३.२१) इति; यथा च—
धन्यासि या कथयसि प्रियसङ्गमेऽपि विस्त्रब्धचाटुकशतानि रतान्तरेषु।
नीवीं प्रति प्रणिहितस्तु करः (ते तु करे) प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि॥ १९७॥
एवमयं प्रथमश्लोकः ‘पदान्येव संहत्यार्थमभिदधति वाक्यम्’ इति पक्षे व्याख्यायते।
५. अथाखण्डवाक्यार्थपक्षे व्याख्यायते। तथा हि —
एवमिह पदानामन्वयो भवति—‘पातु।
किम् ? विश्वम्।
कुतः ? अपायेभ्यः।
किं तत् ? वपुः।
कस्य ? पुरारेः।
कीदृशस्य ? कान्ताविमिश्रवपुषः।
किंविशिष्टम् ? अच्छिन्नमेखलम्, अलब्धदृढोपगूढम्, अप्राप्तचुम्बनम्, अवीक्षितवक्त्रकान्ति।
कथम् ? उत्प्रेक्ष्यमाणम् ? कृतविप्रलम्भसम्भोगसख्यमिवेति।
अत्र चायमच्छिन्नशब्दः, बहुव्रिहिश्च समासः अध्याह्रियमाणपदद्वया द्वादशपदा नान्दी (नाशा. ५.१०४) सदाऽविश्लेषः, विशेषोक्तिगर्भ उत्प्रेक्षावाँश्चाशीरलङ्कारो मङ्गलार्थः। तेऽमी चत्वारोऽपि मङ्गलार्थाः शस्त्रादौ प्रयुक्ताः कर्तुः श्रोतुरध्येतुर— ध्यापयितुश्च मङ्गलमावहन्ति। यदाह —‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राण्यव्याहतप्रसराणि आयुष्मच्छ्रोतृकाणि च भवन्ति (मभा. १.१.१,१.३.१)।
६. ननु च नेह विश्वमपायेभ्य इति कर्मापादानपदयोः श्रवणमस्ति, तत्कथमिवेयं द्वादशपदा नान्दीति ?
उच्यते, पात्विति श्रुतिपदमेतत्; श्रुतेश्चानेकपदनिबन्धन एकशब्दविषयो विध्यादिरर्थः; स चान्यथानुपपद्यमानः स्वसिद्धये कर्मकरणकर्त्रधिकरणादिकं यदाक्षिपति स सर्वः श्रुतिपदार्थो भवति। तत्रोपादीयमानमपि कर्तृकर्मादिकं नियमाय, अनुपादाय वा विज्ञायते। तद्यथा — सामान्याक्षेपे विशेषपदमुपादीयमानं नियमाय भवति, ‘पातु वः परमं ज्योतिः’ इति। विशेषाक्षेपे तत्र तदनुपादाय विज्ञायते देवो जलं वर्षतीति। (इह तु) यथा ‘अष्टवर्षं ब्राह्मणमुपनयीत, तमध्यापयेत्’ इति वचनात् ‘स्वाध्यायोऽध्येतव्य’ इत्यत्र द्विजेनाचार्यादित्यनुपात्तमप्यवश्यमेव सन्निधीयते, तथेहाप्यपायनिर्हरणरूप— त्वात् पात्वर्थस्य स्थितेरीश्वरकर्तृकस्य सृष्टिसंहारयोरिव विश्वविषयत्वादपायेभ्यो विश्वमिति पदद्वयमनुपादीयमानमपि नियमेन सन्निधीयते।
७. ननु चाशरीरिणो महेश्वरस्य विश्वोत्पत्तिस्थितिप्रलयकारणत्वाभ्युपगमेऽपि कथमिवोच्येत वपुः पात्विति।
अशरीरिणोऽपि वैश्वरूप्येण तदुपपत्तेः। स ह्येवं तत्त्वविद्भिः स्तूयते—
मूलजालमधिभोक्तृचेतना शक्तयस्त्वदधिभो(यो)क्तृसंहतिः।
ज्ञानमेतदधिनायकव्रजंस्त्वत्स्मृतौ युगपदेव भासते॥ १९८॥
अत एव कान्ताविमिश्रवपुष इति पुरारेर्विशेषणं तन्त्रेणान्यथा व्याचक्षते। तद्यथा— कं पानीयम् अन्तेऽस्या इति कान्ता पृथ्वी, कं सुखमन्तेष्वासामिति कान्ता आपः। को वायुरन्तेऽस्येति कान्तो वह्नि। कं तोयमन्ततीति कान्तो वायुः। कं ब्रह्म अन्तोऽस्येति कान्तमाकाशम्, कान्तिर्दीप्तिस्तदतिशयवान् कान्तः सूर्यः, कान्तिः कामनीयकं तदतिशयवान् कान्तश्चन्द्रमाः, कान्तिर्वाल्लभ्यं तदतिशयवान् कान्त आत्मेति कान्तशब्देनाष्टापि भगवतो मूर्तय उच्यन्ते। ता अवन्तीत्येवंशीला भवोग्रभीमादयो मूर्तिपतयः कान्ताविनः। मिश्रशब्दः पूजावचनः। तेनैषां ‘प्रशंसावचनैश्च’ (२.१.६६) इत्यार्यमिश्रादिवत् समासः। ततः कान्ताविमिश्रं वपुर्यस्येति बहुव्रीहौ वैश्वरूप्यसिद्धेर्विवक्षितार्थसिद्धिः।
अथात्राच्छिन्नमेखलमित्यादीनां कथमन्वयः ?
तान्यपि वपुषो विशेषणानि भवन्ति। तत्राच्छिन्नमेखलमित्यनेन परमुच्यते। मेखला हि जघनपरिक्षेपसूत्रम्, तदपरिच्छिन्नं यस्येति। अलब्धदृढोपगूढमित्यनेनागाधत्व— दुरवगाहत्वमाख्यायते; दृंहतीति दृढ आधारः, तस्योपगूढमुपश्लेषः प्रतिष्ठास्थानं, तदनुपलब्धं यस्येति। अप्राप्तचुम्बनमित्यनेनोच्चैष्ट्वस्य निरवधित्वं कथ्यते, चुम्बनं हि वक्त्रसंयोगः तदप्राप्तं यस्येति। अवीक्षितवक्त्रकान्तीत्यनेनाप्रतिलघोरस्य परिसूक्ष्मत्वमाभिधत्ते। ‘वक्त्रा’ कुतस्त्या कुतोमुखी वेत्यविज्ञायमाना कान्तिर्यस्येति, कृतविप्रलम्भसम्भोग— सख्यमिवेत्यनेन त्वविज्ञातपरमार्थत्वेन विप्रलभमानमिव पृथिव्यादिप्रसिद्धरूपतया सम्भुज्यमानं सम्भुञ्जानमिव च तदेवोच्यते। यदित्थमेनमाहुः— (कुसं. २.१५)
त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतम्।
वेद्यं वेदयिता चासि ध्याता ध्येयं च तत्परम्॥ १९९॥
अयमप्याह१—(कुसं. ६.२६)
विदितं वो यथा स्वार्था न मे काश्चित् प्रवृत्तयः।
ननु मूर्तिभिरष्टाभिरित्थम्भूतोऽस्मि सूचितः॥ २००॥
तदमुना विशेषणपञ्चकेनैतदुक्तं भवति—(सेब. १.१)
णमह अवड्ढिअतुंगं अवसारिअवित्थअं अणोणअ—गहिरं।
अप्पलहुअ—परिसण्हं अणाअपरमत्थपाअडं महुमहणं॥ २०१॥
(नमत अवर्धिततुङ्गमप्रसारित—विस्तृतमनवनतगभीरम्।
अप्रलघुक—परिश्लक्ष्णमज्ञातपरमार्थप्रकटं मधुमथनम्॥)
८. ननु च पात्विति नायं विधौ लोट्, अपि त्वाशिषि। सा च विशेषस्याश्रुतौ स्वरूपादेवात्मविषयतयातिष्ठत इति कथं विश्वविषया भवति ?
उच्यते—
अयं निजः परो वेति विकल्पा लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥ २०२॥
१. शिवोऽप्याहेत्यर्थः। मे मम शिवस्य। ९. यदि वा
नास्य वाक्यस्य यः कश्चिद् वक्ता; किं तर्हि ? पूर्वज्ञैः क्रमागतविश्वपालने नियुक्तो महामाहेश्वरः कोऽपि पुंविशेषः। स च ‘ग्रन्थविरचनाव्यग्रे मयि मा भुद्वर्णाश्रमाचारस्थितेः व्याकोप’ इति महेश्वरमेव तत्समर्थं प्रार्थयते। अतोऽत्र विश्वस्यैव कर्मत्वमवगम्यते। रक्षितो राजा राज्यं रक्षतीति च न्यायादात्मन्यपि रक्षणीयताशीर्भवति। अत्र चाशीरेषणा; तिस्त्रश्चैषणा भवन्ति, प्राणैषणा वित्तैषणा परलोकैषणा च। राज्ञो या ह्येव प्राणैषणा सा वित्तैषणा सैव परलोकैषणेति भवति। तस्य (स)प्रकृतिकं राज्यं शरीरं, तदेव च वित्तं, तस्य ह्यसौ स्वाम्यमनुभवति। यथोक्तदण्डकरादानादिसम्भृतं वसु यशश्च वित्तं, स एव च धर्मः, तेन ह्यसाविमममुं च लोकं जयति; तदेतत्सर्वमपायेभ्यो विश्वरक्षयो X X X तं भवति। X X X देवता स्तोतव्येति शिष्टाचारः। न चाशीस्स्तुतिः; एवमेतत्; किन्तु गुणोत्कर्षप्रकाशनेन सर्वत उपर्यारोपणं स्तुतिः; सा च यथा आशास्यमानाभिमत— फलैकहेतुताप्रकाशनेन प्रत्याय्यते, नैवं नमस्तस्मै, स जयतीत्येवमादिभिरित्यभिप्रायः॥
१०. अथाखण्डवाक्यार्थपक्षावलम्बिनो द्वितीयश्लोकस्यं व्याख्या—‘स भगवान् गणाधिनाथो विघ्नच्छिदेऽस्तु यत्पादपङ्कजरजः परिमार्जितेषु दर्पणतलामलतां गतेषु शब्दार्थसम्पद उदारतराः स्फुरन्ति’ इति। इहापि पङ्कजदर्पणार्थसम्पद्— भगवदादयः शब्दाः, गौणी च वृत्तिः मङ्गलार्थाः; इयमपि द्वादशपदा नान्द्येव; इहापि रूपकोपमाश्लेषसमाधिगर्भः कारणमालाङ्गवानाशीरलङ्कार इति योजनीयः।
११. ननु च सम्बन्धिनोऽध्याहारात् त्रयोदशेह पदानि ?
नैवम्, विभक्त्या क्तयादिपरिणामेन शब्दार्थसम्पत्परिस्फुरणस्यैवात्र सम्बन्धित्वात्। तथा ह्येवमियं कारणमाला समाप्यते भगवतः पादपङ्कजमार्जने, मार्जनस्य नैर्मल्ये, नैर्मल्यस्य शब्दसम्पदामर्थसम्पदां च परिस्फुरणे, तस्य च प्रबन्धविघ्नच्छेदे कारणं भवतीति। रूपकोपमाश्लेषपदानि चेह पादपङ्कजदर्पणतलामलरजांसि प्रतीयन्ते। तत्रोदारतराः शब्दार्थसम्पदः परिस्फुरन्तीति च समाधिरपि प्रकाशते। आदर्शतलेषु हि किलोदारदर्शनाः स्त्रियः स्वलङ्कृतमात्मानमवलोकयन्ति। स चान्यधर्माणामन्यत्रारोपणं समाधिरिति। एतच्च १वरवाचां सूचनापरमित्यवधार्यमाणमस्य वचसस्तात्पर्यं भवति; तदिदमुक्तं ‘तात्पर्यमेव वचसि’ इति। १. वरवाचां = व(क्तुरुदा)रवाचां—राघवः। १२. कः पुनरिह रूपकोपमयोर्विशेषः ?
उच्यते — यत्रात्यन्तसादृश्यादभेदोपचारेणेवादिशब्दविकलमुपमानपदमेवोपमेये प्रवर्तमानं गौणीं वृत्तिमनुभवत् समानाधिकरण्येन विशेषणत्वमनुभवति तद् रूपकम्, यथा मुखचन्द्रः, पादपङ्कजमिति। यत्र तु मुख्यानुभव X X X यमात्मनोपमेयस्य साम्यमभिधत्ते सोपमा, यथा चन्द्र इव मुखमादर्शतलामलं चेति॥
१३. अथ यदेषदसमाप्ति—प्रतिकृत्योर्बहुच्कल्पबादयः कनादयो (५.३.६७, ६८,९५) वा अत्यन्तसादृश्यादुपमेयवृत्तिभ्य एवोपमानशब्देभ्यः स्वार्थिका विधीयन्ते, तदा किमुपमाने प्रत्यय आहो उपमेय इति।
किंचातः ?
यद्युपमाने, गुडकल्पा द्राक्षा, कुशाग्रीया (५.३.१०५) बुद्धिरित्युपमेयलिङ्गं न प्राप्नोति; उपमेये, बहुगुडो द्राक्षा(५.३.६८) चञ्चा च लिङ्गं न प्राप्नोति। लिङ्गमशिष्यं लोकश्रयत्वात् (मभा. २.१.३६)। स्वार्थिकाश्च क्वचित्प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते (मभा. ५.३.६८), यथा ‘देव एव देवता’ (५.४.२७) चत्वार एव वर्णाश्चातुर्वर्ण्यम् (५.१.१२४ वा.) इति।
किमेतद् वक्तव्यम् ?
कथमनुक्तं गम्यते ?
आचार्यप्रवृत्तिर्ज्ञापयति यदयं ‘कर्मव्यतिहारे णच् स्त्रियाम्’ (३.३.४३) इति णचं विधाय तदन्तात् स्वार्थिकविधाने ‘णचः स्त्रियामञ्’ (५.४.१४) इति पुनः स्त्रीग्रहणं करोति। अभेदोपचारणैव च प्रतिकृतिलिङ्गवचनं X X X या X X X ‘लुप् मनुष्ये’ इति लुकमतिक्रम्य प्र(ति)कृतिवचनेभ्यो लुपं शास्ति।
१४. कथं पुनः ‘ईषदपरिसमाप्तौ’ ‘इवे प्रतिकृतौ’ इति इवार्थे वा विधीयमानः प्रत्यय उपमान उपमेये वा शङ्क्येत ?
ईषदपरिसमाप्ते क्रियात्वेन इवार्थस्य चासत्त्वभूतत्वेन लिङ्गवचनायोगात् प्रत्ययान्तरेषु च लिङ्गसङ्ख्यावशादीषदपरिसमाप्तौ चेवार्थे वर्तमानात् प्रातिपदिकात् स्वार्थे प्रत्ययो भवतीति विज्ञायते।
किं पुनरिह न्याय्यम् ?
उपमाने प्रत्यय इति॥
१५. ननु च गुड इवेयं गुडो द्राक्षा, चञ्चेवायं चञ्चा पुरुष इति गुडादिशब्दा माधुर्यादिगुणयोगेन द्राक्षादिषु वर्तन्ते। ततश्च द्राक्षादयः प्रकृत्यर्था भवन्ति। प्रकृत्यर्थे चोपमेये स्वार्थिकाः कल्पबादय इति कथमुपमाने प्रत्यय इति ?
मैवम्; न हि द्राक्षायास्तत्रापरिसमाप्तिः, अपि तु गुडस्य। येन हि गुणेन माधुर्यादिना गुडशब्दो द्राक्षायां वर्तमानो गौणीं वृत्तिमनुभवति तस्यैवेषदसमाप्तौ प्रत्ययो विधीयते। अद्यैवं गुडस्येषदपरिसमाप्तौ वर्तमानस्य स्वार्थे प्रत्ययविधानात् बहुगुडो द्राक्षेति। सोऽयमित्यभिसम्बन्धाद् अव्यतिरेक इति चेद् व्यतिरेकमूलत्वाद— व्यतिरेकस्य प्रसङ्गः, यथा शुक्लः पटः. पटस्य शुक्ल इति।
नैवम्; उपपद्यमानव्यतिरेकाणामुभयं भवति। न चात्र तदुपपत्तिः; न हि यथा शुक्लगुणोऽस्तीति मतुब्लोपादपृथक्सिद्धशुक्लगुणवाचिना शुक्लशब्देन पटोऽभिधीयते, तथा गुड इत्यनेन। स हि द्रव्यशब्दो द्रव्यान्तरसामानाधिकरण्यान्यथानुपपत्त्या गौणीं वृत्तिमाश्रित्य स्वनिबन्धनं द्रव्यान्तरे व्यतिरेकमुपनिधत्ते। तत्र सामानाधिकरण्यभ्रंशात् गुणवृत्तेरपि भ्रंशो मा भूदिति न व्यतिरेकलक्षणा षष्ठी भवति। न च गुणवचनानामपि केषांञ्चिल्लोके व्यतिरेक उपलभ्यते। न हि भवति पटुः पटुकल्पोऽयं देवदत्त इति।
१६. कथं पुनर्गुणवृत्त्याप्युपमेये वृत्तेर्गुडशब्दात् स्वार्थे विधीयमानः प्रत्यय उपमानं प्रत्याययति,
द्रव्यवत् प्रवृत्तिनिमित्तस्यापि स्वार्थत्वात्। तथा हि चञ्चा तृणमयः पुरुषो यः क्षेत्ररक्षणाय क्रियतेः तस्य च पुरुषे प्रवर्तमानस्य स्वाकारः प्रवृत्तिनिमित्तम्; अतः ‘इवे प्रतिकृतौ’ (५.३.९६) इतीवार्थे तत्रैव प्रत्ययो भवति।
१७. ननु च यदि प्रतिकृतौ वर्तमानात् प्रातिपदिकात् स्वार्थे प्रत्ययः, किम् इवार्थ इत्यनेन ? अथेवार्थे कृतं प्रतिकृतावित्यनेन ?
उच्यते; उपचरितशब्दानां शक्तिमहिम्नैव त्रयी गतिर्भवति। क्वचिदिवार्थ एव स्वार्थिकः, ‘कुशाग्रीया बुद्धिः, शैलेयं दधीति। क्वचित् प्रतिकृतावेव, ‘वासुदेवो भीमसेन’ इति। क्वचिदिवार्थे प्रतिकृतौ च, यथा वरोरूः पीवरोरूरिति। अत्र यदि वरशब्देन पीवरशब्देन वा ऊर्वोरेव गुणोऽभिधीयेत तदा ‘ऊरूत्तरपदादौपम्ये’ (४.१.६९) इत्यूङ्न सिद्धयति। ततश्चौपम्याय कर्तव्योऽत्र य X X X वं स्यात्। यदि वरशब्दः पीवरशब्दो वा वरे पीवरे च रम्भास्तम्भस्तम्बेरमकरादौ वर्तित्वात् तत्सादृश्यात् तदुपमेययोरूर्वोर्वर्तेत, तच्चेवार्थे प्रतिकृतौ वर्तमानयोस्तयोः प्रत्ययलुग्विधावे भवति। अन्यथा हि ‘वरत्वं पीवरत्वमेव’ च लभ्यते, न संस्थानविशेष इति।
न भवितव्यम्। प्रत्ययमन्तरेणापि स्वस्रदीनामिव तस्य ताच्छीलिकान्तत्वेन स्त्रीत्वाभिधानमेव ‘ऋन्नेभ्यो ङीप्’ (४.१.५) इत्यस्य ‘न षट्स्वस्त्रादिभ्यः’ (४.१.१०) इति प्रतिषेधः प्रत्याख्यायते। किं पुनरमी उपमानशब्दा लुप्तप्रत्ययत्वेन गुणीभूता एव कल्पबादीनामुत्पत्तिनिमित्तं भवन्ति ?
बाढम्। ‘अजादी गुणवचनादेव’ (५.३.५८) इत्यतो हि गुणवचनादित्य— धिक्रियते। ततश्च बूहुच्कल्पब्देश्यदेशीयर ईषदसमाप्तिम्, एवं प्रशंसायां रूपप् विधीयमानः पचतिरूपं पचतोरूपं पचन्तिरूपमिति क्रियालक्षणस्य गुणस्यैव प्रशंसां द्योतयन्ति। अन्यथा हि सर्वत्रैकवचनं न स्यात् (मभा. ५.३.३६)। न च द्रव्यस्य समाप्तिः असमाप्तिः कुत्सा प्रशंसा वा स्वतः सम्भवति, अपि तु गुणतः। अतश्च गौण्या मुख्यया वा मन्दमध्योत्कृष्टेषु गुणेषु वर्तमानात् प्रातिपदिकादीषदसमाप्तौ द्योत्यायां कल्पबादयो भवन्ति।
१८. ननु च निर्ज्ञातस्यार्थस्य समाप्तिरसमाप्तिर्वा भवति। गुणश्च अनिर्ज्ञातः, लोकतो गुणस्य निर्ज्ञानम्। तद्यथा पटुरयं ब्राह्मणः, यो लघुनोपायेनार्थं निर्वर्तयति, पटुकल्पोऽयं यो नातिलघुनेति। एवं ‘पटुतरः’ शुक्लतमः कनीयाम् पटिष्ठः उत्कृष्टतरः वैयाकरणपाश’ इत्यादिषु तरबादयोऽपि गुणवचनेभ्यो विधीयमाना गुणगतमेव प्रकर्षं द्योतयन्ति।
१९. कथं पुनरतिशायनादौ विधीयमानास्तरबादयो गुणप्रकर्षे भविष्यन्ति, न पुनर्द्रव्यप्रकर्ष इति ?
नैव द्रव्यस्य प्रकर्षः सम्भवति।
किं तर्हि ?
गुणस्य च(हि) प्रकर्षोऽस्ति, तस्य प्रकर्षो भविष्यति ?
कथं ज्ञायते गुणस्यैव प्रकर्ष इति ?
एवं हि दृश्यते लोके — समान आयामे विस्तारे च पटस्यान्योऽर्घो भवति काशिकस्य, अन्यो माधुरस्य। गुणान्तरं खल्वपि; शिल्पिनः प्रकर्षायोत्पादयमानस्तमेव द्रव्यान्तरेण प्रक्षालयन्ति, अन्येन शुद्धं धौतं कुर्वन्त्यन्येन शेफालिकमन्येन माध्यमिकमिति। तर्हि शुक्लात् कृष्णो मा भूदिति समानग्रहणं कर्तव्यम्।
न कर्तव्यम्। स्पर्धा वै प्रकर्षः, सा च सामनगुण एव भवति, न ह्याढ्याभिरूपौ स्पर्धेते।
वाचकेन खल्वप्युत्पत्तव्यम्। न च शुक्लात् कृष्णे उत्पद्यमानो वाचकः स्यात्। यत्र तत् स्यात्, तत्रोत्पद्यत एव, यथा शुक्लात् कृष्णो मासुरतर इति।
न तर्हीदानीमिदं भवति अध्वयुर्वै श्रेयान्, पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः। काणतम इति कणिरयं सौक्ष्म्ये वर्तते; सर्व इमे काणाः किंचित् पश्यन्ति, अयं तु किंचिदपि न पश्यतीति काणतम उच्यते।
तस्याऽदूरविप्रकर्ष इति वक्तव्यम। सर्षपाद्धिमवतो महत्त्वे मा भूदिति।
न वक्तव्यम्। अदूरविप्रकर्ष एव स्पर्धा भवति। न हि निष्कधनः शतनिष्कधनेन स्पर्धते।
तर्हि जातेः नेति वक्तव्यम्, वृक्षात् प्लक्षादेः मा भूदिति।
न वक्तव्यम्। जननेन या प्राप्यते सा जातिः। न चैतस्यार्थस्य प्रकर्षापकर्षौ स्तः।
अथ शुक्लतर इत्यादिषु किमेकं शौक्ल्यम्, आहोस्विन्नाना।
किं चातः ?
यद्येकम्, प्रकर्षो नोपपद्यते; न हि तेनैव तस्य प्रकर्षो भवति। अथ नाना ? समानगुणग्रहणं कर्तव्य, शुक्लात् कृष्णो मा भूदिति। एकं शौक्ल्यं, तत्तु विशेषवत्।
२०. किंकृतो विशेषः ?
अल्पत्वबहुत्वकृतः। अथवा पुनरस्त्वेकं निर्विशेषं च।
ननूक्तं प्रकर्षो नोपपद्यते, गुणान्तरेण प्रच्छादनाद् भविष्यति।
अथेहास्य शुक्लानि वस्त्राणि, अस्यातिशयेन शुक्लानीति शुक्लतरवस्त्र इति प्राप्नोति। शुक्लवस्त्रतर इति चेष्यते।
उक्तमत्र;
किमुक्तम् ?
‘पूर्वपदातिशय आतिशायिकाद् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः’ ‘उत्तरपदातिशयं आतिशायिको बहुव्रीहेर्बह्वाढ्यतराद्यर्थः’ इति॥
अथ यत्र त्रीणि शुक्लानि प्रकर्षापकर्षयुक्तानि, तत्र पूर्वं पूर्वमपेक्ष्य द्वे तरबन्ते, तत्र शुक्लतरशब्दादुत्पत्तिः प्राप्नोति। शुक्लशब्दादेव च इष्यते, शुक्लतरशब्दे शुक्लशब्दोऽप्यस्तीति शुक्लादेवोत्पत्तिर्भविष्यति।
नैतद् विवदामहे शुक्लतरशब्दे शुक्लशब्दोऽस्त्युत नास्ति। किं तर्हि ? शुक्लतरशब्दोऽप्यस्ति, तत उत्पत्तिः प्राप्नोति, तदन्ताच्चातिशायिको दृश्यते। तद्यथा—‘देवो वः सविता प्रार्पयतु श्रेष्ठमाय कर्मणे’, ‘युधिष्ठिरः श्रेष्ठतमः कुरूणाम्’ (मभा. ५.३.५५) इति।
अयं तर्हि परिहारः, मध्यमाच्छुक्लशब्दात् पूर्वपरापेक्षात् प्रत्ययेनोत्पत्तव्यम्’। मध्यमश्च शुक्लशब्दः पूर्वमपेक्ष्य प्रकृष्टः परमपेक्ष्य न्यूनः प्रकर्षाय प्रवर्तते।
न च बहूनां प्रकर्षे तरपा भवितव्यम्।
केन तर्हि ?
तमपा। श्रेष्ठतमाय, श्रेष्ठतम इति छन्दस्येव भवति। वाचकेन खलु उत्पत्तव्यम्; न च शुक्लतरशब्दादुत्पद्यमानो वाचकः स्यात्। उक्तं च (मभा. २.३.५५)—
अपेक्ष्य मध्यमः पूर्वमाधिक्यं लभते सितः।
परंतु न्यूनतामेति न च न्यूनः प्रवर्तते॥ २०३॥
अस्तु वाऽपि तरप्तस्मान्नापशब्दो भविष्यति।
वाचकश्चेत् प्रयोक्तव्यो वाचकश्चेत् प्रयोज्यताम्॥ २०४॥
(मभा. ५.३.५५) २१. अथ यद्यातिशायिका गुणप्रकर्ष एवोत्पद्यन्ते किमर्थमुच्यते ‘अजादी गुणवचनादेव’ (५.३.५८) इति ? एतौ गुणविशेषवचनेभ्य एव यथा स्यातामिति। गुणाः खल्विह द्विप्रकारा विप्रथन्ते तत्स्थाश्च तद्विशेषणानि च।
यदाह — तत्स्थैश्च गुणैः षष्ठी समस्यते, न तु तद्विशेषणैः (मभा.२.२.८) इति। तत्र ये भावप्रत्ययोत्पत्तिमन्तरेण द्रव्यात् पृथगाख्यातुमशक्याः स्वशब्दैर्द्रव्य— परतयैवाभिधीयन्ते ते तत्स्थाः। तद्यथा—‘पटुः पुमान् मृदुः शय्या, गुरुद्रव्यम्, लघुरुपायः। एवमणुर्महान् दीर्घो ह्रस्वः, पृथुः कृशो, दृढः स्थूल’ इत्यादयो वक्तव्याः।
ये तु स्वशब्दैः पृथगाख्यायमाना मतुब्लोपादिना द्रव्यं विशेषयन्ति ते तद्विशेषणानि। तद्यथा ‘शुक्लगुणयोगाच्छुक्ला बलाका, ‘कृष्णगुणयोगात् कृष्णः काकः, तीक्ष्णगुणयोगात् तीक्ष्णः कण्टकः, दक्षगुणयोद् दक्षः पुरूषः, एवं शीतोष्णस्वादुसुरभिवत्सलोत्सुकरभसमत्सरादयो वक्तव्याः। तत्र यथा ‘बलकायाः शुक्लः, काकस्य कृष्णः, कण्टकस्य तीक्ष्णः, पुरुषस्य दक्ष’ इत्यादौ, तथा ‘बलाकायाः शौक्ल्यम्, काकस्य कार्ष्ण्यम्, कण्टकस्य तैक्ष्ण्यम्, पुरुषस्य दाक्ष्यमि’त्यादावपि समासो न भवति (मभा. २.२.८,११)। गन्धरसरूपस्पर्श— सङ्ख्यापरिमाणादयस्तु न तत्स्थाः, नापि तद्विशेषणानि। तेषां शुक्लादिसङ्घातेषु शास्त्रकारसङ्केताद् द्रव्यवचनत्वेनैव राजपुरुषादिवत् षष्ठीसमासा भवन्ति। तद्यथा — चन्दनगन्धः, चूतफलरसः, कन्यारूपं, कुचस्पर्शः, पुरुषसङ्ख्या, सेनापरिमाणमिति। यैश्च तीव्रादींस्तद्विशेषणत्वेनोपन्यस्य घृतस्य तीव्रश्चन्दनस्य मृदुरित्युदाहृत्य च तीव्रमृदुगुणयोगाद् गुणवृत्त्या गन्धस्पर्शविशेषणत्वेन सापेक्षत्वे सत्यसमार्थ्याल्लब्धेऽपि समासाभावे यदा प्रकरणवशात् तीव्रशब्द एव विशिष्ट— गन्धवृत्तिस्तदा तदर्थोपचित एव व्यतिरेके षष्ठीसमासप्रसङ्ग इति प्रतिषेधोपपत्तिरुक्ता, त एवं प्रष्टव्याः — कथं प्रकरणाद्यपेक्षायामपि सापेक्षत्वस्य तादवस्थ्यान्नासामर्थ्यमिति ? तदेवं तत्स्थैर्गुणैः षष्ठी समस्यते पटुत्वादिभिः, न तु तद्विशेषणैः शुक्लादिभिरिति।
किं वक्तव्यमेतत् ?
२२. न हि; कथमनुक्तं गंस्यते ? आचार्याणां च प्रवृत्तयो गमयन्ति तत्रार्थैकत्वं गोसहस्त्रम् इत्यादिषु ‘अर्थैकत्वादेकं वाक्यम्’, ‘शतसहस्त्रान्ताच्च निष्कात्’ (५.२.११९), ‘क्रोशशतयोजनशतरुपसङ्ख्यानम्’ (५.१.७४ वा.), ‘तत्समुदायः खारीशतमपि न प्रसूत’ (समर्थ ?) मित्यादिजैमिन्यादिमुनिचतुष्टयवचनात् सङ्ख्यया परिमाणेन च समासो न निषिध्यते ‘वर्तमानसामीप्ये वर्तमानवद् वा (३.३.१३१), ‘अपरस्पराः क्रियासातत्ये’ (६.१.११४), ‘उत्तरपदार्थप्राधान्ये’ (२.२.६ मभा.), ‘तद् यत्नगौरवं प्रसज्येत’ (शाबरभाष्यम् १.१.१) इति सूत्रकारभाष्यकारप्रयोगाच्च कुसुमसौकुमार्यादिशब्दसिद्धिः। तेनावगम्यते तत्स्थैर्गुणैरेवंप्रकारैः षष्ठी समस्यत इति।
नन्वेवमपि
‘द्विरदमदजलासारसौरभ्यगर्भः’,॥ २०५॥
‘कुचकलशमहोष्माबद्धरेखस्तुषारः’,॥ २०६॥
‘तुहिनगिरिशिलाशैत्यसङ्क्रान्तिमन्ति’॥ २०७॥
इत्येवमादीनामनुपपत्तिः, सप्तमीसमासा इमे भविष्यन्ति।
२३. कथं पुनः सौरभ्यादीनामाधारतः पृथगुपलम्भे सप्तमी भवति ?
उच्यते, समस्तमूर्तिमद्द्रव्याणां पाञ्चभौतिकत्वे वायुना विभक्तावयवा आप्यपार्थिवादिद्रव्यसूक्ष्मभागा यत्रयत्र सञ्चार्यन्ते तत्रतत्रैतेषु घ्राणादिसम्बन्धनिबन्ध— नाद्युपलब्धिरित्यधिकरणविभक्तेर्नानुपपत्तिः। एवमपि भागानामेवाधिकरणत्वं, न भागवताम्; न हि निकृत्तस्य हस्तपादादेः पुरुषादिव्यपदेशो भवति।
एवमेतत्; किन्तु पृथक्स्थितानामप्यवयवानामवयविव्यपदेशो दृश्यते, तद्यथा ‘राहोः शिरो राहुः, शिवस्य लिङ्गं शिव’ इति।
न चैतद् वाच्यम्; एवं सति समुद्गकादिस्थस्य कर्पूरादेर्बहिरुपलभ्य— मानबहुलपरिमलस्य कालान्तरेणोपेक्षयः स्यात्; तद्वदेव दृष्टसन्निधेस्तत्रान्यभागाना— मुपनिपातात्; अत एव पुराणद्रव्याणां गन्धरसरूपस्पर्शगौरवप्रभावविपाकवीर्यविपर्यया युज्यन्त’ इति।
तदेवं यैः सह षष्ठीसमास इष्यते तेभ्य एवेयसुन्—इष्ठनोः विधानमिति नानर्थकं गुणवचनादेवेति।
ननु च गुणमुक्तवान् मतुबुत्पत्तेः पूर्वमिति गुणवचनः शुक्लादिर्गुणं वक्ष्यति भावप्रत्ययोत्पत्त्येति गुणवचनः पट्वादिः। विशेषवचनत्वाविशेषे यावदजादी पट्वादिभ्य उत्पद्येते तावच्छुक्लादिभ्यः किमिति नोत्पद्येयाताम्। न च समास— विधाविवेह ज्ञापनादीनि सन्ति। कथं न सन्ति ? तद्यथा — ‘प्रशस्यस्य श्रः’ (५.३.६०), ‘ज्य च’ (५.३.६१), ‘वृद्धस्य च’ (५.३.६२), ‘अन्तिकबाढयो— र्नेदसाधौ’(५.३.६३), ‘युवाल्पयोः कनन्यतरस्याम्’ (५.३.६४) इति। अपि च ‘इष्ठेमेयस्सु’ (६.४.१५४) इत्यधिकृत्य यदयं स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं लुप्यते पूर्वस्य च गुणो भवतीत्यभिधत्ते, प्रियस्थिरस्फिरोरुबहुलगुरु— वृद्धतृप्रदीर्घबृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रप्द्राघिवृन्दाः इत्याह। ‘बहोर्लोपो भू च बहोः’ (६.४.१५८) इति ब्रूते। ‘र ऋतो हलादेर्लघोः’ (६.४.१६८) इत्यत्र पृथुमृदुदृढकृशभृशपरिवृढानामिति परिगणनं करोति। तद्ज्ञापयति तत्स्थगुणवचनेभ्य एवेयसुनिष्ठनौ भवत इति। ततश्च यथा ‘शुक्लतरः कृष्णतम’ इत्यादि भवति, नैवं शुक्लीयान् कृष्णिष्ठ इत्यादि। यथा च मृदिष्ठः पटीयानिति भवति, नैवं कारकिष्ठः पाचकीयानिति।
२४. कथं तर्हि ओजिष्ठः पापीयानिति ?
‘विन्मतोर्लुक्’ (५.३.६५) इति ज्ञापकेन तदन्ताद् भविष्यति।
अथ यथा चन्द्रकल्पं मुखं, गुडकल्पा द्राक्षा, तथा चन्द्रतमं गुडतमेति कस्मान्न भवति ?
प्रकर्षाभावात्। न हि केनचिद्गुणेनोपमेयवृत्तीनामुपमानशब्दानामतज्जातीयेषु वर्तमानानां स्वार्थापेक्षया प्रकर्षः सम्भवति। यत्र तु तज्जातीयेषु गुणाभिधानं तत्र भवत्येवातिशायितम्। तद्यथा— गौरयं यः शकटं वहति, गोतरोऽयं यः शकटं सीरं च; गौरियं या समां समां विजायते, गोतरेयं या समांसमीना जीववत्सा च। दृश्यते हि जातिवाचिनस्तज्जातीयेष्वपि गुणाभिधायित्वम्।
‘सङ्ग्रामेषु चरत्येष पुरुषः पुरुषो यथा’॥ २०८॥
‘नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान्’॥ २०९॥
(किराता. ११.७३) इति। यद्येवं चन्द्रगुडादिभ्यः कल्पबादयोऽपि न स्युः ?
नैवम्; तेषामीषदसमाप्तावेव विधानात्।
तर्हि कृतकल्पं भुक्तकल्पमिति क्तान्तेभ्यः न चास्ति सम्भवो यद्भूतं च स्यादसमाप्तं च ;
‘आशंसायां भूतवच्च’ (३.३.१३२) इति वचनाद् भविष्यति॥
(४. प्रविभागः)
पदे वाक्ये प्रबन्धे वाऽस्यैतावतः शब्दस्यायमर्थोऽस्मिन्नर्खे चायमेतावान् शब्द इति शब्दार्थयोर्मिथः सम्बन्धितया पृथक्त्वेनावधारणं प्रविभागः।
स त्रि(द्वि)विधोऽन्वयव्यतिरेकाभ्याम्। इह खल्वत्यन्तसंसृष्टानां पदार्थानां प्रविभागेऽन्वयव्यतिरेकाभ्यां नान्यो हेतुरस्ति। यथा लोके बधिरोऽपि १चक्षुष्मानालोकयति, सत्यपि श्रोत्रे उपहतचक्षुर्नालोकयति रूपमित्यन्वयव्यतिरेकाभ्यां चक्षुश्श्रोत्रसन्निधाने रूपालोकनं चक्षुष एव व्यवस्थाप्यते न श्रोत्रस्यः तथा शब्दशास्त्रेऽपि सुबन्तेषु तिङन्तेषु च पदेष्वत्यन्तसंसृष्टा अर्थात्मानः शब्दाश्च प्रकृतिप्रत्ययादयो मिथस्सम्बन्धित्वेनान्वयव्यतिरेकाभ्यामेव प्रविभज्यन्ते।
तत्रावस्थितस्यानुवृत्तिरन्वयः।
तद्विपर्ययो व्यतिरेकः। स द्विविधो जन्महानिभ्याम्। तद्यथा—
वृक्ष इत्युक्ते कश्चिच्छब्दः श्रूयते; वृक्ष इत्यकारान्तः सकारश्च प्रत्ययः, अर्थोऽपि कश्चिद् गम्यते शाखादिमत्त्वमेकत्वं च।
ऋक्ष इत्युक्ते कश्चिच्छब्दो हीयते, कश्चिदुपजायते, कश्चिदन्वयी।
१. ‘चक्षुष्मान् नालो’ इति राघवः।
वृक्षशब्दो हीयते, ऋक्षशब्द उपजायते, सकारोऽन्वयी।
अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी;
शाखादिमत्त्वं हीयते, सटादिमत्त्वमुपजायते, एकत्वमन्वयीति।
वृक्षावित्युक्ते सकारो हीयते, औकार उपजायते, वृक्षशब्दोऽन्वयी।
अर्थेऽप्येकत्वं हीयते, द्वित्वमुपजायते, शाखादिमत्त्वमन्वयीति।
तिङन्तेषु खल्वपि पचतीत्युक्ते कश्चिच्छब्दः श्रूयते, पच इति चकारान्तः, अतिशब्दः प्रत्ययः, अर्थोऽपि कश्चिद् गम्यते विक्लित्तिः कर्तृत्वं च।
पठतीत्युक्ते कश्चिच्छब्दो हीयते, कश्चिदुपजायते, कश्चिदन्वयीति।
पच्छब्दो हीयते, पठशब्द उपजायते, अतिशब्दोऽन्वयी।
अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते, कश्चिदन्वयी; विक्लित्तिर्हीयते, पठिक्रियोपजायते, कर्तृत्वमन्वयी।
पच्यत इत्युक्ते अतिशब्दो हीयते, यतेशब्द उपजायते, पच्छब्दोऽन्वयी;
अर्थोऽपि कर्तृत्वं हीयते, कर्मत्वमुपजायते, विक्लित्तिरन्वयिनीति।
ते मन्यामहे यश्शब्दो हीयते तस्यासावर्थो योऽर्थो हीयते; यश्शब्द उपजायते तस्यासावर्थो योऽर्थ उपजायते; यश्शब्दोऽन्वयी तस्यासावर्थे योऽर्थोऽन्वयीति।
एवं वाक्येऽपि गामानयेत्युक्ते कश्चिच्छब्दः श्रूयते, गामिति द्वितीयान्तः आनयेति च लोडन्तः;
अर्थोऽपि कश्चिद् गम्यते सास्नादिमान् कर्मत्वमापन्नः आनयेति क्रियार्थत्वविधि— त्वमापन्नः अथाश्वमानयेत्युक्ते गवार्थो हीयते, अश्वार्थ उपजायते, आनयनार्थोऽन्वय।
गां बधानेत्युक्ते आनयनार्थो हीयते, बन्धार्थ उपजायते, गवार्थोऽन्वयी।
एवं गौरानीयतामश्व आनीयतां गौर्बध्यतामश्वो बध्यतामित्यादिषु कर्मकर्तृत्वयोर्हानिरुपजनिश्चाभ्यूह्यः। एतेन प्रबन्धोऽपि व्याख्यातः।
कश्चिदाह, मारीचो रामेण हतः, कश्चिदाह लक्ष्मणेनेति। तत्र मारीचमृगघाते रामो हीयते लक्ष्मण उपजायते, लक्ष्मणो वा हीयते राम उपजायते, रामायणं पुनरन्वयीति।
ननु च वृक्षऋक्ष इति वकारो हीयते (ऋकार) उपजायते वा; पचति पठतीति चकारो हीयते ठकार उपजायत इति वक्तव्ये किमर्थमुच्यते वृक्षशब्दो हीयते ऋक्षशब्द उपजायते, पच्छब्दो हीयते पठशब्द उपजायत इति ? शब्दस्यार्थवत्ता यथा स्यात्, न वर्णानाम्; किं पुनर्न वर्णाः शब्दः? बाढम्; अर्थावसायप्रसवनिमित्तं शब्द इत्यभिहितं पुरस्तात्।
नन्वेवमपि वृक्षादीनामर्थवत्ता नोपपद्यते; किं कारणम्? केवलेनावचनात्।
न हि वृक्षादिना केवलेन कश्चिदर्थो गम्यते; किं तर्हि? सप्रत्ययकेन।
किमुक्तं भवति? पचत्यादिष्वर्थवत्तासहचरिता केवलवचनता दृष्टा; वर्णेषु चानर्थक्यसहचरितं केवलावचनत्वम्। न चैते पचत्यादिवद्दृश्यन्ते, वर्णवत्तु दृश्यन्ते तस्माद् वर्णवद्वृक्षादीनामर्थवत्ता नोपपद्यत इति।
सप्रत्ययस्योपपद्यत इति चेन्वैवम्। इह यद् यस्य निमित्तत्वेनोपादीयते सति तस्मिस्तेन प्रवर्तितव्यम्। अर्थवत्ता च प्रातिपादिकसंज्ञाया निमित्तम्। सा च द्विधा लौकिकी पारिभाषिकीति च। तयोर्लोके विदिता लौकिकी, क्रियाप्रधानमाख्यातम्, सत्त्वप्रधानानि नामानि इति। शास्त्रे व्यवहारार्था पारिभाषिकी ‘दाधा घ्वदाप्’ (१.१.२०), ‘तरप्तमपौ घः’ (१.१.१२) इति। तत्र लौकिकी तावदर्थोपलब्धिगमया; येषां च प्रातिपदिकसंज्ञा विधीयते ते न कदाचित् केवला उपलभ्यन्ते। पारिभाषिकी तु परिभाषया भवत्यर्थवच्छब्दरूपं, तच्च प्रातिपदिकसंज्ञमिति। एवं च शब्दत्वाविशेषाद्वर्णानामपि प्रसज्यते।
इयं च परिभाषा न प्रवर्तते ‘अर्थवद्ग्रहणे नार्थकस्य’ इति। तदेवमर्थवत्ताया निमित्तस्याभावे प्रातिपादिकसंज्ञा न प्रवर्तते; तदप्रवृत्तौ तु कथं प्रत्ययोत्पत्तिरिति?
नैवम्। प्रत्ययेन नित्यसम्बन्धात् केवलस्याप्रयोगः; नित्यसम्बन्धावेतावर्थौ प्रकृतिः प्रत्यय इति; अतो नित्यसम्बन्धात् केवलस्य प्रयोगे न भविष्यति।
ननु च भवानाम्रान् पृष्टः कोविदारानाचष्टे, अर्थवत्ता नोपपद्यते केवलेनावचनादिति पृष्टः केवलस्याप्रयोगे हेतुमाह। नाभिप्रायापरिज्ञानात् नन्वेवं ब्रवीमि; यदि तावत् केवलेनावचनादित्येवमयं हेतुरुपन्यस्तः यस्मात् केवलो न प्रयुज्यते तस्मादनर्थक इति, तदेवं वक्तव्यं केवलस्याप्रयोगादिति, न वक्तव्यं केवलेनावचनादिति। केवलस्य प्रयोगः शास्त्रसमयान्नास्ति, ‘न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्यय’ इति। न च लौकिका एवं प्रयुञ्जते; अत उक्तं नित्यसम्बन्धादयं केवले न प्रयुज्यते न त्वानर्थक्यादिति॥
अथैवमुपन्यस्तः केवलेन प्रयुज्यमानेन नोच्यतेऽसावर्थ इति। क्व पुनरयं भवता केवलः प्रयुज्यमानोऽर्थमब्रुवन् दृष्टः? यदि च प्रयुज्येत न चार्थ उपलभ्येत, स्यादयं हेतुः केवलेनावचनादिति। अन्यद् भवान् पृष्टोऽन्यदेव प्रतिविधत्ते। मया ह्येवमुच्यते, समुदायस्यार्थे प्रयोगादवयवार्थानामप्रसिद्धिरिति। यतो वर्णास्तावदनर्थका भवताभ्युपगताः; तेषां च समुदायतन्त्राणां केवलानां प्रयोगो नास्ति। यद्यपि प्रयुज्येरन् अनर्थकानामेव प्रयोगः स्यात्। एवं प्रकृतीनामपि समुदायतन्त्राणां नास्ति केवलानां प्रयोगः; योगे वा सत्यनर्थकाः प्रयुज्येरन्।
अथैवम्भूतानामर्थवत्ता, को नाम मत्सरो वर्णोष्विति ?
को नाम मत्सरः, यदेषामर्थवत्त्वेऽर्थवत्कार्याणि प्राप्नुवन्ति।
कान्यर्थवत्कार्याणि ? अर्थवत्प्रातिपदिकमिति प्रातिपदिकसंज्ञा, ‘प्रातिपादिकाद्’ इति स्वाद्युत्पत्तिः, ‘सुबन्तं पदम्’ इति पदसंज्ञा च।
तत्र को दोषः?
प्रत्यवयवं विभक्तेः श्रवणं प्राप्नोति।
नैवं, यदैवावयवानां प्रातिपदिकसंज्ञा प्रवर्तते तदैव समुदायस्यापीति समुदायान्तर्गतत्वात् ‘सुपो धातुप्रातिपदिकयोः’ (२.४.७१) इति लुका भाव्यम्। तत्कुतो विभक्तेः श्रवणम्?
ननु च ‘कृत्तद्धितसमासाश्च’ (१.२.४६) इति समासग्रहणं नियमार्थम्, तेन चार्थवत्समुदायस्य वाक्यस्येव वर्णसमुदायस्यापि प्रातिपदिकसंज्ञा निवार्यत इति कथं तदन्तर्गता विभक्तयो लुप्यन्ते?
नैवम्; नियमस्य तुल्यजातीयापेक्षत्वात् समासस्येव भिन्नार्थसमुदायस्य वाक्यस्यैव प्रातिपदिकसंज्ञा निवर्तते, त्वभिन्नार्थस्य वर्णसमुदायस्येति। अत्र हि येनैवार्थेन समुदायस्यार्थवत्त्वं तेनैव तदवयवानामपीति (१.२.४५)।
एवं तर्हि निवृत्तायामपि विभक्तौ पदत्वाद् घनं वनमित्यादौ नलोपादीनि (८.२.७) प्राप्नुवन्ति।
तर्हि ‘सङ्घातस्यैकार्थ्यात् सुबभावो वर्णात्’ भविष्यति। वृक्ष इत्यत्र ह्येकत्वं विभक्त्या द्योत्यते, तच्चैकमित्येकैव विभक्तिरुत्पद्यते, यथा बहवो द्रष्टार एकेनैव प्रदीपेन दृश्यमर्थं पश्यनित, एवं स च समुदायादेव तन्त्रेण सर्वानुग्राहिण्युत्पद्यते समुदायद्विर्वचनवत्। यथा हि पपाचेत्यादौ प्रथमस्यैकाचो द्विर्वचनप्रसङ्गे येनैवाचा समुदाय एकाच्, नेव तदवययोऽपि पशब्दश्चेति तत्र पृथगवयवैकाचो न द्विरुच्यन्ते; किं तर्हि? सर्वानुग्रहात् समुदायैकाच एव। तथैहापि समुदायादुत्पत्तौ वर्णात् सुबुत्पत्तिर्न भविष्यतीति तदभावान्न पदसंज्ञा। अपदत्वाच्च नलोपादीनामप्रसङ्ग इति।
सत्यमेतत्। किंतु वर्णेष्वन्वयव्यतिरेकयोः सद्भावेऽप्यर्थान्वयव्यतिरेका— भावादयमस्यार्थ इति प्रविभागो न प्रकल्पते। तथा हि वृक्षः ऋक्षः, पचति पठतीत्यादौ यस्य हानौ यो हीयते, यस्योपजने य उपजायते, यस्यान्वये योऽनुगच्छति स तस्यार्थ इति शक्यते वक्तुम्।
नैवम्, कूपयूपसूपादाविति अनर्थका वर्णाः, अर्थवन्तो वृक्षादय इति।
ननु यत्र बृंहितं हीयते, होषितमुपजायते, रेणुचक्रमन्वयि, तत्र हस्तिनो हीयन्ते, अश्वा उपजायन्ते, पिपीलिका अन्वयिन्यो, न चैतावता रेणुचक्रस्य निमित्तं भवन्ति। यत्र वा क्षीरं हीयते दध्युपजायते पात्रमन्वयि, तत्र माधुर्यं हीयते अम्लतोपजायते तृप्तिरन्वयिनी, न चान्वयि पात्रं तृप्तिहेतुर्भवति। तदेवमन्वयव्यतिरेके च सत्यपि कार्यकारणभावस्याभावात् कथमुच्यतेऽन्वयव्यतिरेकाभ्यामर्थवत्तावतिष्ठत इति ?
नैवम्। अवधारितं हि सामर्थ्यमन्वयव्यतिरेकाभ्यां प्रविभज्यते, न च पिपीलिकानां पात्रस्य वा रेणुचक्रतृप्त्योः सामर्थ्यावधारणमस्ति, तत्सद्भावे— ऽप्यन्यत्राभावात्। यत्रैव चान्वयव्यतिरेकाभ्यामर्थवत्ता शक्यते प्रत्यापत्तुं तत्रैव प्रतिपत्तव्या, न सर्वत्र। यद्येवं प्रकृत्यादिष्वपि न शक्यते। बहवो हि शब्दा एकार्था भवन्ति, एकश्च शब्दो बह्वर्थः; यदि हि नियोगत एकः शब्द एकस्मिन्नर्थे वर्तते तत एष प्रविभागः स्यात्। यतस्तु व्यभिचरत्येतत् अनेकश्शब्द एकस्मिन्नर्थे, तद्यथा इन्द्रः पुरन्दर इति, एकश्चानेकार्थः अक्षाः पादाः माषाः इति। अनुमानं चैकस्यैवाकार्थवृत्तित्व एव शक्यते कल्पयितुम्; अतो व्यभिचारादनिमित्त— मन्वयव्यतिरेकौ प्रकृतिप्रत्ययार्थप्रविभागे इति प्रकृतिरेव सर्वार्था स्यात्। प्रत्ययो वा सर्वार्थः, उभौ वोभयार्थौ ? यथैकौ दृश्यते हि दधि मध वग्निचिदिति प्रकृतिरेव सर्वानर्थानभिदधाना, ‘अधुना’ (५.३.१७), इयान् ‘अस्यापत्यं इः’ इति, प्रत्यय एव वा सर्वार्थाभिधायी, हैयङ्गवीनं (५.२.२३), श्रोत्रियः (५.२.८४), क्षेत्रियः इत्युभयमुभयार्थाभिधायीति। अतः किं न साधीयः, अर्थवत्ता सिद्धा भवति। यदा हि प्रकृतिरेव स्वार्थादिषु वर्तते प्रत्ययो वा, तदा सुतरामर्थवत्ता सिध्यति। न ब्रूमोऽर्थवत्ता न सिध्यति। तौ त्वन्वयव्यतिरेकौ नावतिष्ठेते। ततश्च कुत एतत् यादयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति ? न पुनः प्रकृतेरेवोभावर्थौ प्रत्ययस्योभयस्य वेति सामान्यशब्दा एते एवं स्युः; सामान्यशब्दाश्च नान्तरेण विशेषं प्रकरणं वा विशेषेऽवतिष्ठन्ते, यतस्तु खलु नियोगतः प्रकरणादिमन्तरेणापि वृक्ष इत्युक्ते स्वभावतः कश्चिदर्थो गम्यते, अतो मन्यामहे न इमे सामान्यशब्दाः, प्रकृतिः प्रकृत्यर्थे वर्तते, प्रत्ययः प्रत्ययार्थे वर्तत इति। यदि हि ‘सु औ जस्’ (४.१.२) इत्येत एव स्वार्थद्रव्यलिङ्गसङ्ख्याकर्मादिवचनाः, सहायमात्रं प्रकृतिः, स्वादिभिः सर्वेषामर्थाना— मुपादानात्, वृक्षः वृक्षौ वृक्षा इति। किमर्थं नियोगेन वृक्षार्थ एव गम्यते, न पुनस्सर्वे अर्थाः प्रतीयेरन्, पर्यायेण वा कदाचित् कश्चिद्? न यौगपद्यं न पर्यायः; तस्मादन्वयव्यतिरेकाभ्यां समुदायस्थाः शब्दाश्चापोद्धर्तव्या अर्थाश्चेति व्यवस्थिता अन्वयव्यतिरेकाभ्यां व्यावहारिकी अर्थवत्ता। तत्रेदमपरिहृतम्—‘प्रकृतिरेव सर्वानर्थानभिदधाना दृश्यते प्रत्ययः सर्वार्थाभिधायी उभयं वोभयार्थाभिधायीति। तत्र परिहारः—दधि मधु अग्निचिदित्येवमादिषु वचनान्तराणामौकारादीनां श्रूयमाणत्वादन्येषां च सविभक्तिकानां प्रयोगदर्शनात्। अधुना इयानित्येवमादिषु प्रत्ययान्तरपरायाः प्रकृतेरवस्थानात् प्रकृत्यन्तराणां वा लोपदर्शनात्, इहाप्यकेवलस्यैवार्थाभिधानं प्रसक्तं; लोपादिद्वारेण शास्त्रदृष्ट्या केवलय विज्ञायते।
ननु ‘न केवला प्रकृतिः प्रयोक्तव्या, न केवलः प्रत्यय’ इति शास्त्रसमयः।
सत्यमेतत्; किंतु यत्र प्रकृतिनिमित्ता प्रत्ययनिवृत्तिस्तत्र केवलापि प्रकृतिः प्रयुज्यते। यत्र वा प्रत्ययनिमित्ता प्रकृतिनिवृत्तिस्तत्र केवलोऽपि इत्यभ्यनुज्ञायते। हैयङ्गवीनं, श्रोत्रियः, क्षेत्रिय इत्यादिषु तु संज्ञाशब्दे ह्योगोदोहस्य विकार इति, ‘श्रोत्रियञ्छन्दोऽधीत’ इति, ‘परक्षेत्रे चिकित्स्य’ इति प्रकृतिप्रत्ययविभागकल्पनया व्युत्पत्तिर्यथाकथंचिद्धर्मनियमाय क्रियते। एवं यावकादिष्वपि स्वार्थिकेषु प्रत्ययार्थस्याव्यतिरेकात् प्रकृत्यन्तरयोगे प्रातिपदिकानां च यावकादीनामर्थभेदात् प्रत्ययान्तरयोगे प्रकृतेः कल्पितायामर्थवत्तायां स्वार्थिकत्वं विज्ञायते। एको द्वौ बहव इत्यत्र प्रत्येकं वचनान्तरभावात् कर्मादिविषयावन्वयव्यतिरेकावाश्रीयेते। सामान्यतो दृष्टाच्चानुमानात् प्रकृत्यन्तरवदेकादीनां प्रवृत्तौ भिन्नरूपाणि वचनान्यसङ्करेण व्यवस्थां प्रकल्पयन्तीति प्रतीयते।
नन्वेवं सति शब्दस्यैकार्थोपक्षयस्यार्थान्तरेण असम्बन्धादर्थस्याप्येकशब्दो— पक्षयस्यान्यत्रासङ्क्रान्तेः कूपसूपयूपादिवदेवान्वयव्यतिरेकौ नावकल्पेते। न हि य एवैकत्वसम्बन्धी स द्वित्वादिसम्बन्धी, यो वा प्रातिपदिकत्वेनार्थमात्रप्रवृत्तिः सशक्त्यरसम्बन्धी न भवितुमर्हति। न खलु शब्दः कश्चिदुत्तरकालमर्थान्तरं परित्यजत्युपादत्ते वा। तदुक्तम् — (वाप. २.१३)
यदस्य (शब्दस्य) न विभागोऽस्ति कुतोऽर्थस्य भविष्यति।
विभागैः प्रक्रियाभेदमविद्वान् प्रतिपद्यते॥ २१०॥
एवमेतत्। किन्तु त्रिविधः शब्दः — निवर्त्योऽन्वाख्येयः प्रतिपादकश्च१ (वाप. १.२४, मभा.१.१.५०)। तेष्वधर्महेतुरप्रभ्रंशो निवर्त्यः, धर्महेतुर्लोकवेदयोः प्रयोगार्होऽन्वाख्येयः। प्रकृतिप्रत्ययादिविभागकल्पनया तत्स्वरूपावबोधकृत् प्रतिपादकः। तदर्थमन्व— यव्यतिरेकावविद्यमानावपि व्यवस्थार्थं कल्पितौ शास्त्रार्थव्यवहारनिबन्धनं सम्पद्येते। शास्त्रव्यवहारो हि ‘अर्थवत् प्रातिपदिकम्’ (१.२.४५) ‘क्रियावचनो धातुः’ (मभा.१.३.१) इत्यादिरनाश्रितयोरन्वयव्यतिरेकयोरसुकर एव। तदाह — (वाप. २.१२)
भागैरनर्थकैर्भिन्नाः पचतीत्येवमादयः।
अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम्॥ २११॥
अभिधा च विवक्षा च तात्पर्यं च विभागवत्।
चतस्त्रः केवला ह्येताश्शब्दसम्बन्धशक्तयः॥ २१२॥
यापेक्षा यच्च सामर्थ्यमन्वयो यश्च तैर्मिथः।
ऐकार्थ्यं यच्च तास्तस्य ससहायस्य शक्तयः॥ २१३॥
उक्ताश्चतस्त्रः प्रथमाः क्रमेण क्रमादथान्याः प्रकटीक्रियन्ते।
अखण्डवाक्यार्थविवेचकानां शब्दार्थसम्वित्परिशुद्धिहेतोः॥ २१४॥
इति महाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे केवलशब्दसम्बन्धशक्तिप्रकाशो नाम
॥ सप्तमः प्रकाशः॥ ७॥
रेवाप्रसादेन सनातनेन श्रीभोजदेवस्य निबन्ध एषः।
कृतो विविक्तार्थ इति प्रसीदन्त्वत्रानुवीक्षाचतुरा महान्तः॥
१. संवादोऽत्र वाप. १.२४, मभा. १.१.५०