०६ विभक्त्यर्थादिचतुष्टयप्रकाशः

अथ

शृङ्गारप्रकाशे षष्ठः प्रकाशः

विभक्त्यर्थादिचतुष्टयप्रकाशो नाम

(९. विभक्त्यर्थः)

विभक्त्यर्थस्त्रिधा १. सङ्खया, २. कारकं, ३. शेषश्‍च। तेषु— (१. सङ्‌ख्या) कारकसम्बन्धिगतैकत्वद्वित्वबहुत्वानि सङ्‌ख्या।

सा षोढा— आभिधानिकी, वैवक्षिकी, नैमित्तिकी, पारिभाषिकी, वैभाषिकी पारिशेषिकी च। तासु—

आभिधानिकी यथा— आपः, दाराः, लाजाः, द्वयम्, अनेकं, नियुतमिति। अत्राभिधानतो बहुवचनैकवचने एवेत्याभिधानिकी।

वैवक्षिकी यथा— रोदसी रोदस्यौ, कबरी कबर्यः, स्तनौ स्तनाः, विशाखा विशाखे विशाखाः, दृक् दृशौ दृशः, जगत् जगती जगन्ति। अत्र विवक्षयैकत्वद्वित्वबहुत्वानीति वैवक्षिकी।

नैमित्तिकी यथा— वृक्षः, शोभनः, दम्पती, पितरौ, अक्षाः, गभस्तय इति। अत्र वस्तुनो निमित्तस्य सद्भावान्नैमित्तिकी।

पारिभाषिकी यथा— मार्दङ्गिकपाणविकं पुरुषौ (काशिका २.४.२), खलतिकं वनानि (काशिका १.२.५१), गोदौ ग्रामः (काशिका १.२.५१), तिष्यपुनर्वसू तारकाः (काशिका १.२.६३), पञ्चाला जनपदः (काशिका १.२.५२), स चाहं च पचाव इति। अत्र द्वित्वबहुत्वादिषु एकत्वादिपरिभाषणमिति पारिभाषिकी।

वैभाषिकी यथा— अश्वबडबम् अश्वबडबौ (काशिका २.४.१२), लक्षन्यग्रोधं प्लक्षन्यग्रोधाः (काशिका २.४.१२), पूर्वे फल्गुन्यौ पूर्वाः फल्गुन्य (काशिका १.२.६०) इति। अत्र विभाषयैकत्वद्वित्वबहुत्वानीति वैभाषिकी।

पारिशेषिकी यथा—एकः द्वौ बहवः, उभौ द्वित्राः, अर्धतृतीया इति।

अत्रैकाद्युक्तसङ्ख्यापरिशेषे स्वादय इति पारिशेषिकी। तदुक्तम्—

निमित्तमेकमित्यत्र विभक्त‍या नाभिधीयते।
तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते॥ १॥

(वाप. ३.११.२७) (२. कारकम्)

कारकं षडि्वधमभिहितं पुरस्तात् (पु. २२१–२४५)। तद् द्वितीयादिवाच्यत्वेन पृथक्पृथक् षट्प्रकारं प्रथते। तत्र—

कर्म द्वितीयावाच्यं, कटं करोति; तृतीयावाच्यं, मात्रा सञ्जानीते; चतुर्थीवाच्यं, न त्वा शुने मन्ये; पञ्चमीवाच्यं, परि त्रिगर्तेभ्यो वृष्टो देवः; षष्ठीवाच्यं, मातुः स्मरति; सप्‍तमीवाच्यम्, अधीती व्याकरणे।

कर्ता द्वितीयावाच्यः, गमयति ग्रामं देवदत्तम्; तृतीयावाच्यः, चैत्रेण कृतम्; चतुर्थीवाच्यः, मूत्राय कल्पते यवागूः; पञ्चमीवाच्यः, उपाध्यायादधीते; षष्ठीवाच्यः, व्यासस्य कृतिः; सप्‍तमीवाच्यः, ब्राह्मणेषु भुञ्जानेषु वृषला आसते।

करणं द्वितीयावाच्यम्, अक्षान् दीव्यति; तृतीयावाच्यं, दात्रेण लुनाति; चतुर्थीवाच्यं, शताय परिक्रीतः; पञ्चमीवाच्यं, स्तोकान्मुक्तः; षष्ठीवाच्यं, सर्पिषो जानीते; सप्‍तमीवाच्यम् अक्षेषु दीव्यति।

सम्प्रदानं द्वितीयावाच्यं, देवदत्तमभ्यसूयति; तृतीयावाच्यं, दास्या सम्प्रयच्छते; चतुर्थीवाच्यं, देवाय ददाति; पञ्चमीवाच्यं, गुरोराभ्य(?) गाः प्रयच्छति; षष्ठीवाच्यं, घ्‍नतः पृष्ठं ददाति; सप्‍तमीवाच्यं पुष्पेषु स्पृहयति।

अपादानं द्वितीयावाच्यं, अर्जुनं योद्धारः, तृतीयावाच्यं, धनुषा विध्यति; चतुर्थीवाच्यं, श्राद्धाय निगृहणते; पञ्चमीवाच्यं, ग्रामादागच्छति; षष्ठीवाच्यं कृष्णा गवां सम्पन्नक्षीरतमा; सप्‍तमीवाच्यं, भुक्त ओदनः कंसपात्र्याम्।

अधिकरणं द्वितीयावाच्यं, ग्राममधिवसति; तृतीयावाच्यं, समेन धावति; चतुर्थीवाच्यं, युद्धाय सन्नह्यति; पञ्चमीवाच्यं, क्रोशाद्‌विध्यति; षष्ठीवाच्यं, गवामीश्वरः; सप्‍तमीवाच्यं, तीर्थं उपवसतीति।

(३. शेषः) कारकातिरेकी क्रियाकारकपूर्वकः सम्बन्धविशेषः शेषः।

स त्रिधा उक्तादन्यः, कारकेभ्योऽन्यः, कारकाणामविवक्षा च। तेषु— उक्तादन्यत्वे भिन्नसम्बन्ध्यपेक्षः, अभिन्नसम्बन्ध्यपेक्षश्‍च। तयोराद्यो राज्ञः पुरुष इति यथा— (कुसं. ७.१९)

पत्युश्शिरश्‍चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान॥ २॥

द्वितीयो राहोश्शिर इति यथा—

शिखिच्छदच्छत्रपतत्रमण्डलीभरोपरूद्धं मुखमेणचक्षुषः।
मुखेन राहोरभियोक्‍तुमुद्यतं कलावतो बिम्बमिव व्यराजत॥ ३॥

कारकेभ्योऽन्यत्वे उपात्तक्रियोऽनुपात्तक्रियश्‍च।

तयोराद्योऽन्नस्य हेतोर्वसतीति यथा— (रघु.२.४७)

एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्‍च।
अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम्॥ ४॥

द्वितीयो ब्राह्मणस्य तुल्य इति यथा— (रघु. ६.७९)

कुलेन कान्त्या वयसा नवेन गुणैश्‍च तैस्तैर्विनयप्रधानैः।
त्वमात्मनस्तुल्यममुं वृणीष्व रत्‍नं समागच्छतु काञ्चनेन॥ ५॥

कारकविवक्षायां द्रव्यापेक्षः क्रियापेक्षश्‍च।

तयोराद्यः साधोः स्वं धनं रोचत इति यथा— (माघ.१०.२३)

दत्तमात्तमदनं दयितेन व्याप्‍तमातिशयिकेन रसेन।
सस्वदे मुखसुरं प्रमदानां नाम रूढमपि च व्युदपादि॥ ६॥

द्वितीयो न माषाणामश्‍नीयादिति यथा—(कुसं. ५.८३)

निवार्यतामालि! किमप्यसौ वटुः पुनर्विवक्षुः सफुरितोत्तराधरः।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यस्स पापभाक्॥ ७॥

सहार्थतादर्थ्यहेतुलक्षणोपपदसम्बोधनादयस्तु सम्बन्धविशेषा उपस्काराधिकारेऽ— भिहिता (द्र.पृ.२६५) इति नेह प्रतन्यते। ननु च सम्बन्धस्य क्रियाकारकपूर्वकत्वात् कारकेष्वेव शेषसम्बन्धस्याप्यन्तर्भाव इति सङ्ख्या शक्तिश्‍च विभक्‍त्यर्थः।

तत्र जातौ पदार्थे जात्यभिधायिनः प्रातिपदिकस्य सङ्ख्याकारकाभिधायिन्या विभक्‍त्या सम्बन्धो न घटते। न हि जातेः सङ्ख्याशक्तियोगस्संभवति।

उच्यते, जात्यविनाभावेन लक्षिताया व्यक्तेः सङ्ख्याशक्तियोगादेकार्थसमवाय— लक्षणस्सम्बन्धो भविष्यति।

नैवम्; यथानन्त्यव्यभिचाराभ्यां भेदवतीं व्यक्तिमशक्ताः प्रकृतयोऽभिधातुमित्य— भिन्नामव्यभिचारिणीं च जातिमाचक्षते, तथाधारभेदाद्‌भिन्नमानन्त्यभिचाराभ्यामशक्ता विभक्तयः शक्तिं सङ्ख्यां चाख्यातुम् अतस्तदाधारं शक्तिसङ्ख्याजातिमाचक्षते। ततश्‍च प्रकृत्यर्थसम्बन्धाया अपि व्यक्तेर्विभक्त्यर्थेन शक्तिसङ्ख्यासामान्येनासम्बन्धादनुपपन्न एव प्रकृतिप्रत्यययोः समभिव्याहारः।

नानुपपन्नः, एकार्थसमवेतसमवायेन तदुपपत्तेः।

कथं पुनस्सामान्याभिधानेनाभिधीयमानयोस्सङ्ख्याद्रव्ययोः परस्परेण सम्बन्धः? यथाभिधीयमानयोः। यथा शब्देनाभिहितावर्थौ बुद्धौ विपरिवर्तमानौ मिथस्सम्बध्येते तथा शब्देनाभिहितादर्थात् प्रतीयमानावपि परस्परेण सम्बन्धमनुभविष्यत इति।

किं पुनरियं सङ्ख्या शक्तिर्वा नियोगतो जातिमवच्छिनत्ति ?

नेत्याह। न हि ग्रहं समार्ष्टीति श्रूयमाणमेकवचनमेकत्वसङ्ख्यां क्रियाङ्गभावेन प्रतिपादयति। नापि सक्तून् जुहोतीति द्वितीया श्रुतिः सक्तूनां होमक्रियायां कर्मशक्तिमभिधत्ते। अपि त्वक्षान्दीव्यतीतिवत् संबन्धसामान्यतिरोहितकर्मरूपान् सक्तून् साधकतमत्वेन होमकर्मणि नियुङ्क्ते। क्‍वचित्तु तद्रूपयैव विभक्तिश्रुत्या संख्याकर्मादिशक्तीनां क्रियास्वङ्गभावोऽवबोध्यते, यथा पशुमालभेत व्रीहीनहन्तीति।

कुतः पुनरिदं श्रुत्युपात्ते अपि क्‍वचिदेव सङ्ख्याशक्ती विवक्ष्यते ?

तत्र तावत् सङ्ख्यां प्रति श्रूयते— १सत्त्वभूतम् इदंतदिति व्यपदेशयोग्यं वस्तु न शक्यते सङ्ख्यान्तरेण शब्दैरभिधातुम्२, ससंख्यानामेव शब्दानां सत्त्वाभिधायकत्वात्; अतो नान्तरीयकमुपादानं संख्याया इति।

सत्त्वनिर्देशे संख्या न विवक्ष्यते, यथा ब्राह्मणो न हन्तव्य इति३। एवं च जात्यापि विना वस्तुमात्रस्य संप्रमुग्धत्वाद् विवेकेनाभिधानमशक्यम्। अतो नान्तरीयकं जात्युपादानमिति जातावप्यविवक्षा प्राप्‍नोति।

अपर४ आह— यत्र संख्यापदैरेकादिभिस्संख्या अभिधीयते, तत्र नियोगतः कर्माङ्गभावेन विवक्ष्यते, यथा एकां गां ददाति, द्वाभ्यां खनति (तैसं. ५.१.४१), त्रीन् पशूनालभत इति। एकादिशब्दरूपाद्‌धि सा प्रतीयमाना न शक्यमविवक्षितुम्। अन्यत्र तु शब्दसंस्कारमात्रापरत्वादेकवचनादेरविवक्षा, यथा गौः पदा न स्प्रष्‍टव्या (न्यायवा. २.२.६७)। एतदपि नास्ति ‘यस्योभयं हविरार्तिमार्छेद्’ इत्येवमादावुभयादि— शब्दोपादानादप्यविवक्षादर्शनात् (न्यायमं.)।

अन्ये मन्यन्ते ‘जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्’ (१.२.५३) इति ज्ञापकादेकवचनं, च न विवक्ष्यते। विवक्ष्यते। द्विवचनं विवक्ष्यते, यथा ‘सारस्वतौ भवतः’ (तैसं. २.४.६.१) इति। १–४. वाप. ३ जाति। तदप्ययुक्तं, द्विवचनस्यापि अविवक्षादर्शनात्। यथा— (वाप जाति ३.१.५३)

यद्येतौ व्याधितौ स्यातां देयं स्यादिदमौषधम्॥ ८॥

यतस्तदौषधमेकस्यापि दीयमानं वातादिविकारं शमयितुं शक्‍नोति। एवं तर्हि यत्र पराङ्गतया जातिर्विधीयते, तत्र संख्या विवक्ष्यते, यत्र तु स्वसंस्कारप्रतिपत्तयेऽनूद्यते तत्र न विवक्ष्यते। यथा पशुना यजेत, ग्रहं संमार्ष्‍टीति। तदेतदुभयमपि उदाहरणमात्रेणाशक्यं प्रतिपत्तुमिति युक्तिरभिधातव्या। सेयमुच्यते—पशुना यजेतेति यागस्य फलवत्तया प्राधान्यं, तदङ्गं पशुः, अङ्गं च यत्प्रधानस्योपकरोति। एकेनैव पशुना कृतः प्रधानस्योपकार इति द्वितीयो नोपादीयते। यदि हि यस्य यावन्तः पशवस्सन्ति स तावत उपादत्त इत्याश्रीयते, प्रकृतस्य यागस्यैकेन पशुना, समापितत्वादितरवैयर्थ्यं मा भूदिति यागान्तराणि क्रियन्ते। गुणेन द्रव्येण प्रधानं यागः प्रयुक्तस्स्यात्। न चैष न्यायो यद्‍गुणः प्रधानं प्रयुङ्क्ते। किंच पशुमालभेत, पशुना यजेतेत्यादौ क्रियाङ्गभावेनाप्रज्ञातस्य पशोस्साधनभावप्रख्यापनायेदमुत्पत्तिवाक्यम्। तत्र शब्ददर्शनावसेयत्वादर्थस्य यथाभूतं शब्द आह तथाभूतस्सोऽर्थोऽनुगततया समाश्रीयते। शब्देऽन्वयव्यतिरेकाभ्यां प्रकृतेर्जातिरिव विभक्तस्संख्याभिधेयत्वेनावधार्यते। यदि च द्वितीयस्य पशोरूपादानमन्तरेण शब्दार्थो न समाप्येत, क्रिया वा न निवर्त्येत, तदोपदीयेतापि द्वितीयः। पशुत्वजातेश्‍च प्रतिव्यक्त्यविकल्पात्मनः समाप्‍तत्वादेकपश्वदानैश्‍च यागक्रियाभिनिर्वृत्तेर्द्वितीयो नोपादीयते।

न च पशुना यजेतेत्यस्यास्संख्याया विरोधिनी संख्या उत्पात्तिवाक्यगता काचिद्‌विद्यते यदनुरोधादियं त्यज्येत, यस्मादिदमेव पशोरूत्पत्तिवाक्यम्, अतश्शब्दवत्त्वात् सङ्ख्यान्तरेण चाविरोधात्। पशुना यजेतेत्यादौ सङ्ख्या विवक्ष्यते, ग्रहं संमार्ष्‍टीत्यत्र तु न विवक्ष्यते। यस्मात् प्राजापत्या नव ग्रहा भवन्तीत्यादौ ग्रहाणामुत्पत्तिवाक्ये या अनेकत्वसङ्ख्या सा प्रधानविषया, तत्र ग्रहाणां विंधीयमानत्वात्। ग्रहं संमार्ष्‍टीत्यत्र तु या एकत्वसंख्या सा शेषविषया, सम्मार्गस्यं विधीयमानत्वात्, तदधिकरणसंपदनार्थत्वाद् ग्रहशब्दस्य।

न च युक्तं यत्प्रधानसम्बन्धिनी संख्या शेषसंख्यया बाध्यते।

ननु चोत्पत्तिवाक्यवशेनानेक एव ग्रहो गृह्येत। ग्रहमित्येतस्माच्‍चैक— वचनादेकस्सम्मृज्येत। किमत्र बाधितं स्यात् ? एवं तर्हि विधानवाक्ये पूर्वमेव प्रज्ञाताङ्गभावाः सम्मार्गमपूर्वं विधातुं केवलं ग्रहमित्यनेन स्मृतौ संनिवेश्यन्ते।

ग्रहस्मृतिश्‍चानुभवसामर्थ्यादुद्‍भवन्ती यथानुभूतानेवार्थान् दर्शयतीति नैको ग्रहस्संमृज्यते।

ननु च यथा पूर्वानुभूतचमसाद्यनेकपदार्थसन्निधौ संमार्गविधानाय ग्रहश्रुति— र्ग्रहाणामेव स्मारयति न चमसादीनां तथैवानेकग्रहसंन्निधावेकवचनमेकस्यैव स्मारयेत्। येन हि बहवोऽनुभूतास्तेनैकोऽप्यनुभूत एव।

सत्यमेतत्, किन्तु प्रतीयमानोऽप्यसौ संख्याभेदः क्रियां प्रत्यविधीय— मानत्वादसमर्थः क्रियामेकस्मिन्नवस्थापयितुम्। अविधीयमानश्‍च संख्याभेदः, यतोऽत्रश्रुत्या ग्रहस्य संमार्गो विधीयते। तदेतावति पर्यवसितं वाक्यम्। न चापरश्शब्दोऽस्ति, येनैकस्य स विधीयेत। न चैकश्शब्द उभयं शक्‍नोति विधातुम् अप्रज्ञातं संमार्गं प्रज्ञातस्य चैकत्वेन संबन्धमिति, प्रवृत्तिभेदात्।

अथ ग्रहैकत्वाभ्यां विशिष्‍टस्संमार्गो विधीयते, न भिद्येत प्रवृत्तिः; अर्थस्तु नैवं, यतो ग्रहार्थः संमार्गस्तस्य प्रयोजनवत्त्वात्।

विभक्तिविशेषश्‍च प्राधान्यं ग्रहस्य दर्शयति। अतो न विधीयते सङ्ख्या।

इह तर्हि कथं चित्रगवीं वध्‍नतीति चित्रो गुणो विधीयते, यतोऽत्रापि गोरस्वतन्त्रीकारस्तस्याश्‍च चित्राया इति भिद्यते प्रवृत्तिः; गुणद्रव्ययोगस्य श्रुत्यैवाभि— धीयमानत्वात्, तद्‍‌विषयत्वाच्‍च क्रियाया नात्रापराध इति चेद्, ग्रहमित्यपि श्रुतिरेव सङ्ख्यायास्तदधिकरणस्य च द्रव्यस्य क्रियाङ्गभावमभिधत्ते। तथा शोणं योजयेदित्ये— कशब्दोपादानयोर्जातिगुणयोरङ्गीकरणम्। एवं तर्हि स्वार्थायां प्रवृत्तौ सङ्ख्याभेदस्य विधातुमशक्यत्वादविवक्षिता सङ्ख्या, यथा ग्रहं संमार्ष्‍टीति। अत्र ग्रहार्थत्वात् संमार्गस्य प्रधानं ग्रहाः, तदङ्गं संमार्गः (पम. १.२.६४)। पशुना यजेत, शोणं योजयेत्, चित्रगवीं बध्‌नातीत्यादौ तु यागादिकर्मार्थत्वात् पश्वादीनामप्रधानानां ससङ्ख्यानां सगुणानां च विशिष्‍टानामेव विधानमिति विवक्ष्यते सङ्ख्या गुणश्‍चेति। आचार्यप्रवृत्तिरप्येतदेव ज्ञापयति ‘प्रधाने संख्या न विवक्ष्यते, गुणे तु विवक्ष्यत’ (पम. १.२.६४) इति। तथा हि— ‘सरूपाणामेकशेष’ इति कर्मसाधने शेषशब्दे शेषशब्दाभिधेयस्य द्रव्यस्य साधुत्वाद् व्याख्यानेनाभिधीयमानसंस्कारत्वात् प्राधान्यम्। अतः स्वार्थे प्रवर्तमानस्याविवक्षित— सङ्ख्यात्वादेकशब्दोपादानं कृतमेकश्शिष्यत इति। तदेत लिङ्गं प्रधानस्याविवक्षिता संख्येति। एवं सुबन्तं सुबन्तेन समस्यत इति संख्याया अङ्गीकरणाद् बहूनां समासो न भवति, यथा महत्कष्‍टं श्रित (मभा. २.१.१) इति। अत्र ह्येवंप्रकारावयव— सन्निवेशावच्छिन्नस्समुदायस्साधुरित्यन्वाख्यायते। अतोऽवयवपरामर्शोपायेन समुदायस्य संस्काराधानप्रक्रमे प्रधानं समुदायस्तमुद्दिश्य प्रवर्तमाना अवयवा उपात्तसङ्ख्याविशेषाङ्गी— करणेन प्रवर्तन्ते। यत्र तु यत्‍नान्तरमारभते तत्र बहूनामपि भवति, यथा ‘कालाः परिमाणिना’ (२.२.५) इति; बहुवचनाद् द्व‍यह्नजातः (पम. २.२.५) इति। यथा च बहुव्रीहिद्वन्द्वविधावनेकग्रहणान्मत्तबहुमातङ्गं वनं, धवखदिरपलाशा इति। क्‍वचित् पुनर्गुणेऽपि सङ्ख्या न विवक्ष्यते, यत्र तदविवक्षया प्रधानान्तरस्य सिद्धिर्भवित, यथा ‘कर्तुरीप्सिततमं कर्म’ (१.४.४९) इति। अत्र हीप्सिततमस्य कर्मसंज्ञायां विधीयमानायाम् ईप्सया अवच्छेदायोपादीयमानः कर्ता यद्याश्रितैकत्वसंख्यः प्रतीयेत, अनेकस्येप्सितं वस्तु कर्मसंज्ञासंबन्धादपेयात्। अतः प्रधानसंस्कारोपरोधतिरस्काराय कर्तानपेक्षितसंख्या— विशेषस्समाश्रीयते।

ननु च प्रयोजनमिदं प्रधानान्तरसिद्धिः। तस्मादविवक्षायामुपपत्तिर्वक्तव्या।

इयमुच्यते सामान्यनिबन्धनत्वादीप्सिततमशब्दस्य संबन्धिनामविशेषेण प्रसक्तौ साधनान्तरोच्छित्तये कर्तृग्रहणं क्रियते। तदुपात्तविपरीतप्रतिषेधमात्रोपक्षयमसमर्थं संख्याभेदमङ्गीकर्तुमिति।

शक्तिः पुनरप्रधाने प्रधाने वा संख्यावति विभक्त्या विधीयमाना विवक्षामेवानुरूध्यते। एवं च यथा पश्वादीनां ससंख्यानां तथा ग्रहादीनामसंख्यानामेव क्रियासु साधनभावो भवति। कथं पुनः पश्वादिगता संख्या साधनत्वेनावगम्यते, यावता प्रातिपदिकार्थस्य साक्षात् पारम्पर्येण वा संबन्धिसाधनत्वं संख्या च विभक्त्या विधीयते। न तु संख्यासाधनत्वयोः परस्परेण संबन्धोऽस्ति। एवं तर्हि प्रथमतरं व्यक्तिस्संख्यया संबध्यते। संख्या संसर्गप्राप्‍तातिशया तु साधनभावेन। सोऽयं साधनभावो विशिष्‍टे निपाताद् विशेषणमपि साधनमित्यावेदयति। यथा सायुधेन जितमिति।

कुतः पुनरयं संख्यासाधनत्वयोरेकशब्दोपनिबन्धनयोरस१निबन्धकारिकालभेदेन संबन्धः ?

न ह्येतदस्ति। संख्यया संसर्गमनवाप्य न शक्‍नोति साधनभावमासादयितुमिति। एवं तर्हि संख्यासाधनभावाभ्यां व्यक्तिस्संबध्यते। ताभ्यामुत्पादितात्मातिशयामाख्यात— विभक्तिस्तां क्रियासु विनियुङ्क्ते। सा विशिष्‍टा क्रियासंबन्धमनुभवतीति विशेषणमपि क्रियासंबद्धं प्रतीयते। १. ‘असनिबन्ध; सह निबन्धः सनिबन्धः; स न भवतीति असनिबन्धः’ इति राघवाचार्यः। ननु च कर्मकरणादिकारकं विभक्‍त्यर्थः, तच्‍च क्रियासिद्धावुपात्तव्यापार— त्वाच्छक्तिमद्‌द्रव्यमेव तस्मिंश्‍च प्रातिपदिकेनैवोक्ते किं विभक्‍त्योच्यते ?

(शक्तितत्त्वम्)

शक्तिरिति ब्रुमः।

द्विधा हि द्रव्यं सत्त्वभूतमसत्त्वभूतं च। तयोश्शक्तिसङ्ख्याश्रयस्सत्त्वभूतं वृक्षाद्यर्थः। तदनांश्रयोऽसत्त्वभूतमव्ययाद्यर्थः। तदुभयमपि निरुपाध्येव प्रातिपदि— केनोच्यते। तदाश्रितास्तु सशक्तिसङ्ख्यासंबन्धोपाधयो विभक्‍त्येति। ननु च

स्वरूपादुद्‌भवत् कार्यं सहकार्युपबृंहितम्।
नैव कल्पयितुं शक्तं शक्तिमन्यामतीन्द्रियाम्॥ ९॥

(न्यायमं.) शक्तिर्हि कल्प्यमाना पदार्थस्वरूपवन्नित्या वा स्यात् कार्या वा ? तत्र नित्यत्वे नित्यमेव कार्योत्पादप्रसङ्गः। सहकार्यपेक्षा तु स्वरूपस्यैवास्तु किं शक्‍त्या ? कार्यत्वे तु पदार्थस्वरूपमात्रकार्यतायां सदा शक्तेरुत्पादात् सदैव कार्योत्पादः। सामग्रीकार्यं तु कार्यमेवास्तु, किमन्तराले शक्त्या ? अशक्तात् कारकात् कार्यानिष्पत्तिरिति चेच्छक्तिरपि कार्यं, तदुत्पत्तौ शक्‍त्यन्तरकल्पनादनवस्था; अन्यथाऽभ्युपगमव्याघातः।

आह, दृष्टसिद्धये ह्यदृष्टं कल्प्यते। शक्‍त्यन्तरकल्पनायाः शक्तिश्रेणनिर्माण एव क्षीणत्वात् कारकाणां मा भूत् कार्यव्याघात इत्येकैव शक्तिः कल्‍प्यते, तत्कुतोऽनवस्था ?

नैवम्, अन्यथापि तदुपपत्तेः। यदि ह्यर्थव्यक्तिः क्रियासु प्रतिहन्येत तदा तदतिरिक्तशक्तिकल्पना युक्तेति। अप्रतिहताश्‍च सहकारिलाभादपि कार्योपजनाश्‍चार्थ— व्यक्तयः। तत्किं वृथा शक्तिकल्पनयेति।

ननु शक्तिमन्तरेण कारकं कारकमेव न भवेत्, भावतत्त्वस्य क्रियासु प्रतिघातात्। रूपमेव हि दृश्‍यते न रसादि, दर्शनायतनं पश्‍यति न रसनादि, रस एव रस्यते न रूपादि, रसनमेव रसयति न चक्षुरादि, आप एव पिपासामपनयन्ति न त्वग्‍नि, अग्‍निरेव शीतं शमयति न त्वाप इति। अप्रतिघाते हि वस्तुस्वरूपाविशेषात् सर्वस्मात्‌सर्वकार्योदयप्रसङ्गः। ततश्‍चक्षुरिव रसनमपि पश्‍येत्, रूपमिव रसोऽपि दृश्‍येत, रसनमिव चक्षुरपि रसयेत्, रस इव रूपमपि रस्येत, आप इवाग्‍निरपि पिपासामपनयेत्, अग्‍निरिवापोऽपि शीतं शमयेयुः। यथा च तैलार्थिना तिला उपादीयन्ते तथा सिकता अप्युपादीयेरन्। यथा वा पादपं छेत्तुमनसा परशुरुद्यम्यते तथा पादुकाद्यप्युद्यम्येत। अपि च विषदहनयोर्मारणे दाहे च शक्तावनिष्यमाणायां मन्त्रप्रतिबद्धायां यत्तयोस्स्वकार्यौदासीन्यं तत्र का युक्तिः ?

चक्षुः श्रोत्रयोर्वा दर्शने श्रवणे च रोगादिना यत् स्वकार्याकरणं तत्र कोपपत्तिः ? न हि मन्त्रादिना रोगादिना वा तत्स्वरूपाणि सहकारिणो वा प्रतिबध्यन्ते, तद्रूपेणैव तेषामुपलम्भात्। शक्तयस्तु प्रतिबध्यन्त इति सत्स्वपि स्वरूपसहकारिषु कार्यानुत्पादो युक्तः। तस्माद् यथा सुखादिकार्यानुमितमदृष्टं, सातिशयबुद्धिनिबन्धन— स्मृतिप्रत्ययहेतुस्संकारः, क्रियाविशेषजनितः क्रियान्तरप्रसवोपयोगी वेग इत्याद्य— परमतीन्द्रियमेव कल्‍प्यते भवद्भिः, तथा शक्तिरपि कार्यातिशयकारणमतीन्द्रिया कल्‍प्यतामिति।

तदनुपपन्नम्; शक्तिमन्तरेणापि क्रियाप्रतिघातादीनामुपपत्तेः। स्वकारणपरम्परा— यातनियतस्वभावतयैव भिन्नस्वभावा रसादयो रूपादिभ्यस्ते कथं रूपादिसाध्या— मर्थक्रियामतथाभूतास्साधयेयुः ? नियोगतश्‍चेतदङ्गीकर्त्तव्यम्; शक्तिकल्पनायामपि तुल्यानुयोगित्वात्। कथमेताश्शक्तयो नियताधारा न पुनरवयवेन शक्तीर्व्याप्‍नुवन्तीति। पदार्थस्वरूपातिशयादिति चेत्कार्यभेदोऽपि तत एव सेत्स्यति। अपि चाश्रयस्य भेदे कथं शक्तिभेदः ? यतो वा शक्तयः प्राप्‍तरूपभेदास्तत एवाश्रयरूपभेदेन कार्यभेदसिद्धेः किं शक्तिभेदकल्पनेन ? यास्तर्हि तुल्यरूपा व्यक्तयः कार्यमतुल्यं साधयन्ति तासु कथम् ? यथा गल्वर्ताश्‍चन्द्रकान्तिभिः स्यन्दन्ते न सूर्यग्रावणः, करका अर्कांशुभिर्विलीयन्ते, न मुक्तामणयः, आन्तरं तेजः पश्‍यति न बाह्यम्, प्राणो वायुः प्राणिति न व्यानः, श्रोत्राकाशश्शृणोति न वक्त्राकाशः, विद्वान् क्रियास्वधिक्रियते नाविद्वानिति तुल्यजातीयत्वेऽपि तेषामदृष्टप्रतिनियमो द्रव्यान्तरसंपर्कभेदश्‍च कार्यभेदं व्यवस्थापयति। यास्तर्ह्यभिन्ना भिन्नमर्थव्यक्तयः कार्यं साधयन्ति तासु कथम् ? यथा— तदेव तेजो दहति प्रकाशयति शीतं चापनुदति, ता एवापः प्लावयन्ति, क्‍लमं चापनयन्ति, तादृशः स तेजसः पयसो वा रूपातिशयः कर्मण इव संयोगाविभागवेगानुकूलता, धर्मस्येव सुखज्ञानापवर्गकारणत्वमिति। उपादाननियमे तु न वयमन्यं कंचिदभिनवं भावानां कार्यकारणभावमुत्पादयामः, किंतु यथा प्राप्‍तमनुसरन्तो व्यवहारामः (न्यायमं.)। तत्र तैलोत्पादपादपच्छेदादावन्वयव्यतिरेकाभ्यां वृद्धव्यवहाराद्वा तिलपरश्वधादेरेव कारणत्वमवगच्छाम इति तदेव तदर्थिन उपादद्महे, न सिकतापादुकादीति। न च तिलादेः परश्वाधादेर्वा स्वरूपे सत्यपि सदा कार्योदयः। स्वरूपवत् सहकारिसन्निधेरप्यपेक्षणीयस्य सर्वदानुपपत्तेः। सहकारिवर्गे च धर्मादिकमपि निपतति; तदपेक्षे च कार्योत्पादे कथं सर्वस्मात् सर्वसम्भवः ? धर्मादीनां तु जगद्‌वैचित्र्यादिकार्यबलेन कल्पनमपरिहार्यम्। यद्यपि विषदहनयोः सन्निधाने सत्यपि मन्त्रोपयोगात्‌तत्कार्याजननं तदपि न शक्तिप्रतिबन्धनिबन्धनम्। अपि तु सामग्र्यन्तरानुप्रेवेशहेतुकम्।

ननु मन्त्रेणानुप्रविशता किं कृतम् ?

न किञ्चित्कृतम्। सामग्र्यन्तरं तु सम्पादितम्। काचिद्धि सामग्री कस्यचित्कार्यस्य हेतुः स्वरूपं तदवस्थमेवेति चेदभक्षितमपि विषं कथं न हन्यात् ? तत्रास्यसंयोगाद्यपेक्षणीयमस्ति। मन्त्राभावोऽप्यपेक्ष्यताम्। दिव्यकाले धर्म इव मन्त्रोऽप्यनुप्रविष्टः कार्यं प्रतिहन्ति। शक्तिपक्षेऽपि वा मन्त्रस्य को व्यापारः ? मन्त्रेण हि शक्तेर्नाशो वा क्रियते प्रतिबन्धो वा ? न तावन्नाशः, मन्त्रापगमे पुनः कार्यदर्शनात्। प्रतिबन्धस्तु स्वरूपस्यैवास्तु।

ननु स्वरूपस्य कि जातम् ?

शक्तेरपि किं जातम् ?

कार्यौदासीन्यमिति चेत्तदितरत्रापि समानं स्वरूपमस्त्येव, दृश्‍यमानत्वात्। शक्तिरप्यस्ति पुनः कार्यदर्शनानुमेयत्वात्। एतेन चक्षुःश्रोत्रयोरपि रोगादिना दर्शनश्रवणशक्तेर्नाशप्रतिबन्धविकल्पो व्याख्यातः। अपि च व्यापारोऽपि अतीन्द्रिय— शक्तिवदिष्यते भवद्‍‌भिः; अन्यतरकल्पनयैव च कार्योपपत्तेः किमुभयकल्पनागौरवेण ?

शक्तमप्यव्याप्रियमाणं न कारकमिति चेत् शक्तमिति कथं ज्ञायेत ?

कार्यदर्शनादिति चेद् व्यापारादेव कार्यं सेत्स्यति। पादुकादेर्व्याप्रियमाणादपि न पादपच्छेदं पश्‍यामि। प्रत्यक्षस्तर्हि व्यापारो नातीन्द्रियः यतः कार्यदर्शनात् पूर्वमपि व्याप्रियमाणत्वं जानासि। कार्यानुमेयो हि व्यापारः कार्याद् विना न ज्ञायेतैव। कार्यं त्वन्यतरस्मादपि घटमानं नोभयं कल्पयितुं प्रभवतीत्यसम्भवः। शक्तेरिति चेदत्रोच्यते स्वरूपं स्वरूपमिति यदब्रूषे तत्र किमिदं स्वरूपं नाम ? न तावद्‌द्रव्यं; द्रव्यस्य स्वरूपमिति भेदेनाभिधानात्। किं पुनस्तत् ? सजातीयेभ्यो विजातीयेभ्यश्‍च भेदको धर्म इति नस्तर्कः। तं हि भवन्तोऽपि अर्थतत्त्वं भावतत्त्वमिति भावप्रत्ययेन भाषन्ते। स च यस्य गुणस्य भावाद्‌द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ (५.१.११९) इति गुणाभिधाने स्मर्यते। गुणो धर्मः सामर्थ्यमर्थक्रियाकारित्वमतिशयश्शक्तिरिति चौकोऽर्थः।

स तु द्रव्याद् विभिन्नो वा द्रव्यस्यात्मैव वा तथा।
व्यतिरेकमुपाश्रित्य साधनत्वाय कल्पते॥ १०॥

(वाप.३.७.१५) परस्परतो हि व्यावर्तमानशरीराः करणादयस्साधनभेदाः कथमेकद्रव्यात्मता— मुपयन्तो न सङ्कीर्येरन् ? असङ्करे वा कथममीषामेकद्रव्यात्मता युज्यते ? तस्मादेकद्रव्याधि करणा करणादिप्रतीतिरेवास्या द्रव्याद् भेदमापादयति। किञ्च

विभक्‍त्यर्थेऽव्ययीभाववचनादवसीयताम्।
अन्यो द्रव्याद् विभक्‍त्यर्थस्सोऽव्ययेनाभिधीयते॥ ११॥

(वाप. ३.७.१६५) तथा हि— विभक्‍त्यर्थे वर्तमानमव्ययमुत्तरपदेन समस्यते। यदि च विभक्‍त्यर्थ इत्यनेन शक्‍त्याश्रयस्सत्त्वभूतं द्रव्यमुच्यते, तदसत्त्ववाचिनाव्ययेन नाभिधीयेत। तस्य चार्थस्य प्रातिपदिकेनैवोक्तत्वात् तदभिधाय्यव्ययमप्रयोहगार्हमेव स्यात्। एवं च अधिस्त्रि, अधिकुमारीति न सिध्येत्। यत्र हि पदद्वयं सङ्गतार्थं प्रयुज्यते स विषयस्समाससंज्ञायाः। तस्मादनभिहितामधिकरणशक्तिमव्ययमभिदधत्तुरपदेन समासमनुभवति। तेन चावधार्यते द्रव्यातिरिक्तां शक्तिममभिधत्ते विभक्तिरिति। भवतोऽपि युक्तमेवोच्यते। स्वरूपादुद्‌भवत् कार्यं ततोऽन्यां शक्तिमशक्तं कल्पयितुमिति। यतः शक्तिवादिनोऽपि गुणादिशब्दवाच्यात् कारकत्वादेर्द्रव्यस्य स्वरूपान्न शक्तिमन्यां मन्यन्ते। किन्तु कार्योपजनायार्थव्यक्तयः क्षमा इति न क्षमन्ते; सर्वस्मादपि कार्योदयप्रसङ्गात्। स्वकारणपरम्परायातनियतस्वभावतां तु न विद्मः। कारणगुणोत्थः पदार्थातिशय इति चेत् सैव शक्तिः। तस्यास्तु नित्यत्वानित्यत्वविकल्पो नोपयुक्तः; यावद्‌द्रव्यभावित्वे न द्रव्यवदेव नित्यानित्यत्वात् सर्वदा कार्योत्पादः, क्रियाकाल एव शक्तेरुन्मेषात्। अदृष्टप्रतिनियतसहकार्यादयस्तु शक्‍त्युन्मेषहेतवो नास्माभिरपि निराक्रियन्ते। येन तूपादाननियमे अन्वयव्यतिरेकौ वृद्धव्यवहारादृतेऽपि कार्यदर्शनावसेयशक्तिमूलावेव; वृद्धैरप्यन्वयव्यतिरेकाभ्यां तथैव कारणत्वावगमात्। नाशः शक्तेः प्रतिबन्धो वा मन्त्रादिनेत्यादिविकल्पस्तु स्वरूपस्य शक्तित्वसिद्धौ निषिद्ध एव भवति। व्यापारस्तु धातुवाच्य एवातीन्द्रियो न वास्तवः। तेन कार्यदर्शनान्यथानुपपत्तिकल्पिता शक्तिरतीन्द्रियोपपन्नतरैवेति।

(१०. वृत्त्यर्थः)

वृत्त्यर्थास्रिधा — १. अपदार्थः, २. एकपदार्थः, ३. अनेकपदार्थश्‍च।

(१. अपदार्थः)

तत्राऽपदार्थस्त्रिधा— धातुप्रत्ययार्थीयः, प्रत्ययप्रत्ययार्थीयः, प्रातिपदिकप्रत्ययार्थीयश्‍च। तेषु —

धातुप्रत्ययार्थीयो द्विधा— क्रियारूपः, कारकरूपश्‍च। तयोः—

क्रियारूपो यथा कर्तुमिच्छति चिकीर्षति, कुर्वन्तं प्रयुङ्क्ते कारयति, अत्यर्थं पुनः पुनः पचति पापच्यते।

कारकरूपो यथा पाकं करोति पचति, पाकेन क्रियते पच्यते, पाचकः पक्तव्यमिति।

प्रत्ययप्रत्ययार्थीयो द्विधा— नित्यो वैवक्षिकश्‍च। तयोः—

नित्यो यथा कृत्रिमं, सांराविणम्, व्यापक्रोशी, भिदा, आभिजित्यः कौञ्जायन्य इति।

वैवक्षिको यथा चिकीर्षुः, कारणा, गार्ग्यायणः, काल्याणिनेयः, मालायाः, कुमार्या इति।

प्रातिपदिकप्रत्ययार्थीयो द्विधा— व्यक्तिरूपः, शक्तिरूपश्‍च। तयो—

व्यक्तिरूपो यथा अजा, कुमारी, ब्रह्मबन्धुः, वृक्षः वृक्षौ वृक्षा इति।

शक्तिरूपो यथा वृक्षं, वृक्षेण, वृक्षाय, वृक्षात्, वृक्षे, वृक्षस्येति।

(२. एकपदार्थः)

एकपदार्थस्त्रिधा— वस्तुरूपः, अवस्तुरूपः, क्रियारूपश्‍च। तेषु—

वस्तुरूपो द्विधा— सत्त्वभूतोऽर्थः, असत्त्वभूतोऽर्थश्‍च। तयो—

सत्त्वभूतोऽर्थो यथा औपगवः, छान्दसः, लाक्षिकं, यौष्माक इति।

असत्त्वभूतोऽर्थो यथा आस्तिकः, उपत्यका, प्रकटं, तत्रत्यम् इति।

अवस्तुरूपोऽपि पूर्ववदेव द्विधा। तयोः—

सत्त्वभूतोऽर्थो यथा अग्‍निवत्, पञ्चवत्, पञ्चकृत्वः, सर्वदा, बहुश इति।

असत्त्वभूतोऽर्थो यथा नतरां, प्राहतरां, पचतितरां, पचतिरूपमिति।

क्रियारूपोऽपि द्विधा— संक्षिप्‍तो, विक्षिप्‍तश्‍च। तयोः—

संक्षिप्‍तो यथा आत्मनः पुत्रमिच्छति पुत्रीयति, श्‍येन इवाचरति श्‍येनायते, अभृशो भृशो भवति भृशायते, सेनया अभियाति अभिषेणयतीति।

विक्षिप्‍तो यथा कंसवधमाचष्टे कंसं घातयति, आरात्रि विवासमाचष्टे रात्रिं विवासयति, पुष्यचन्द्रयोगं जानाति पुष्येण चन्द्रं योजयति, उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमं प्राप्नोति माहिष्मत्यां सूर्यमुद्गमयतीति।

(३. अनेकपदार्थः)

अनेकपदार्थस्त्रिधा—एकपदार्थाश्रयः, उभयपदार्थाश्रयः, अन्यपदार्थाश्रयश्‍च। तत्र एकपदार्थाश्रयो द्विधा— पूर्वपदार्थाश्रयः, उत्तरपदार्थाश्रयश्‍च। तयोः—

पूर्वपदार्थाश्रयो यथा उपकुम्भं, पुरुषव्याघ्रः, गोमतल्लिका, पूर्वकायः, राजदन्तः, प्राप्तजीविक इति।

उत्तरपदार्थाश्रयो यथा राजपुरुषः, यूपदारुः, कष्टश्रितः, श्वलेह्यः (काशिका २.१.३३) द्व‍यह्नजातः अनेक इति।

उभयपदार्थाश्रयो द्विधा— एकाधिकरणो भिन्नाधिकरणश्‍च। तयोः

एकाधिकरणो यथा नीलोत्पलम्, अग्निस्तोकः (काशिका २.१.६५), पुरुषोत्तमः, सर्वश्वेतः (काशिका २.२.९), सप्‍तर्षयः, खञ्जकुब्ज इति।

भिन्नाधिकरणो यथा धवखदिरौ, अश्वबडबौ, दधिपयसी, धवखदिरपलाशाः, काकोलूकं, गवाश्वमिति।

अन्यपदार्थाश्रयो द्विधा— सतद्‍गुणोऽतद्‍गुणश्‍च। तयोः

सतद्‍गुणो यथा उन्मत्तगङ्गं, शस्त्रीश्‍यामा, सहस्त्राक्षः, शूलपाणिः, द्वित्राः, अर्धतृतीया इति।

अतद्‍गुणो यथा ऊढरथः, चित्रगुः, दक्षिणपूर्वा, उष्ट्रमुखः गुडप्रियः, प्रियगुड इति (मभा. २.२.३५)।

(वृत्तिः— जहत्स्वार्था अजहत्स्वार्था वा)

अथ ये वृत्तिं वर्तयन्ति किं त आहुः?

परार्थाभिधानं वृत्तिरिति।

कः पुनरस्यार्थः?

किं परार्थस्याभिधानमाहोस्वित्परार्थमभिधानमिति ?

उभयथापि न दोषः।

यदा तावदेतावद्दर्शनमनेकमप्यर्थमेक एव शब्दः प्रत्याययति, तदा वाक्‍यावस्थायां शब्दान्तराभिधेयतया प्रतीतमर्थात्मानं वृत्तिविषये तदुपसर्जनपदमभिधेयभावेनोपादत्ते। तदेतद्विभक्तपदावस्थायामभिधानशक्तिप्रतिघाताद्वृत्तौ परार्थस्याभिधानं परार्थाभिधान— मुच्यते। यदा पुनरेष पक्षः एकश्शब्दोऽनेकमर्थं न प्रत्याययति तदा पुरोपात्तमेवार्थं वृत्तिविषये तान्युपसर्जनपदानि परार्थमुपाददते। व्यक्तमेवास्मिन्दर्शने परार्थाभिधानम्। तत्र द्वयी गतिः— विहाय वा प्रसिद्धमर्थसम्बन्धमुपसर्जनपदान्यर्थान्तरमुपाददीरन्, अवस्थित एव वा प्रच्येर्थेऽर्थान्तरमभिदधीरन् (वाप. ९४)। द्वयमपि हीदमन्यत्र दृश्‍यते; तद्यथा दधिकलशे दध्यपनीय क्षीरं निधीयते, जलं तु सिकताकुम्भे सहैवावतिष्ठते सिकतादिभिः। तदाह— तेषां परार्थाभिधानं वृत्तिरिति ब्रुवतां किं जहत्स्वार्था वृत्तिराहोस्विदजहत्स्वार्थेति ? (मभा. २.१.१)

किञ्चातः?

यदि जहत्स्वार्था, राजपुरुष आनीयतामित्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति, औपगवमानयेति चापत्यमात्रस्य।

अथाजहत्स्वार्था? उभयोर्विद्यमानस्वार्थयोर्द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति। तदेवमुभयत्रापि दोषदर्शनादुभया प्रतिपत्तिः।

तत्रैकेषां दर्शनम्— ‘उपात्तार्थपरित्यागेनार्थान्तरनिवेशीन्युपसर्जनपदानि’; यतोऽर्थान्तरपराधीनस्य शब्दस्य प्राच्यमेवार्थमनुविधीयमानस्यार्थान्तराभिधानमशक्‍यम्। तस्मादर्थान्तरमभिदधता परित्याज्यमनेनोपात्तमर्थवस्तु। तदाह— का पुनर्वृत्तिर्न्याय्या, जहत्स्वार्थेति। युक्तं पुनर्यज्जहत्स्वार्था नाम वृत्तिः स्यात्? बाढं युक्तम्। एवं हि दृश्‍यते लोके— पुरुषोऽयं परकर्मणि प्रवर्तमानः स्वं कर्म जहाति। तद्यथा तक्षा राजकर्मणि प्रवर्तमानः स्वं कर्म जहाति। एवं युक्तं यद्‍राजा पुरुषार्थे उपगुश्‍चापत्यार्थे वर्तमानः स्वमर्थं जह्यात्।

ननु च यथा तक्षा कोशसमाहरणसन्निधापनादौ राजकर्मणि व्याप्रियमाणः स्वव्यापारापरित्यागेन राजकर्मणोऽनुष्ठातुमशक्‍यत्वात् स्वं दारुच्छेदचतुरश्रीकरणादि— व्यापारं जहाति, तथा यद्युपसर्जनमप्यर्थान्तरप्रत्यायनादौ परार्थे व्याप्रियमाणं स्वार्थापरित्यागेन परार्थाभिधानं कर्तुमशक्यमिति पूर्वोपात्तमर्थं विशेषणत्वादि जह्यात्। तदुक्तोदाहरणयोः पुरुषमात्रस्यापत्यमात्रस्य चानयनं प्राप्नोति।

नैष दोषः। यद्यपि स्वार्थोपसर्गेण अर्थान्तरमुपसर्जनपदान्यभिनिविशन्ते, तथाप्याधाय प्राधाने रूपभेदमुपगृहीतार्थातिशयनिबन्धनमुत्तरकालं स्वार्थमुज्झति। अतस्तदाहितरूपभेदानुगतः पुरुषार्थो निवृत्तेऽप्युपसर्जनपदार्थे विशिष्ट एव प्रतीयते। न ह्यतिशयाधायिनिमित्तसन्निधानकालमात्रानुवर्तिनस्तदाहितविशेषाः, अपि तु निमित्त— व्यवायेऽप्यनुवर्तन्ते। तत्र यथा शरदर्करश्‍मिसंतापोद्भूतेनान्तश्शरीरतेजसा ज्वरस्स— मुदीर्यमाणो नातपस्पर्शपरिवर्जनमात्रेण प्रतिक्रियते। यथा वा प्रदीप्‍ततेजस्संयोगप्रति— लब्धजन्मानो रूपरसगन्धस्पर्शविशेषाः दूरोत्सारितेऽपि तेजसि यावदाधारमवतिष्ठन्ते, तथोपसर्जनपदार्थोपहितः प्रधानरूपातिशयः तदर्थास्तमयेऽपि प्रधानस्य विशेषा— वच्छेदनिमित्तं भवति। यदि वोपसर्जनश्रुतिमर्थविशेषाभिधानसामर्थ्यवतीमवधृतवतः तदवसायोपहितसंस्कारवृत्तिलाभप्रापितजन्मा तदर्थपरिच्छेदः परित्यक्तार्थायामपि श्रुतौ रूपसामान्यादपहृतबुद्धेरनवगतार्थपरित्यागस्य प्रवर्तते। ततस्तदुपहितविशेषं प्रधानमवैति।

ननु च यदि तस्या एव श्रुतेः प्रयोगदर्शनाभ्याससामर्थ्यात् तमेवार्थं प्रतिपद्यते, कः स्वार्थपरित्यागः?

न हि श्रुतौ तस्यां भस्त्रायामिवोपकरणविशेषाः कृतसन्निवेशाः पदार्थाः।

किं तर्हि? ते शब्दरूपदर्शनानुमेयाः।

तदिहापि तथैवेति किमवहीयते स्वार्थस्य?

नैवम्; निवृत्तेऽपि स्वार्थेऽन्वयाद् अर्थाः प्रतीयन्ते, तद्यथा घृतघटस्तैलघट इति। निषिक्तेऽपि घृते तैले वा अन्वयाद् घृतं तैलं वा घटविशेषणं भवति अयं घृतघटोऽयं तैलघट इति (मभा. २.१.१)।

विषम उपन्यासः; भवति तत्र या च यावती चार्थमात्रा। अङ्गं हि भवानग्नौ निष्टप्य तृणकूर्चेन प्रक्षालयतु, न गम्यते स विशेषः; यथा तर्हि मल्लिकापुटश्‍चम्पकपुट इति; निष्कीर्णास्वपि सुमनस्सु तत्सम्पर्कोपहितगन्धविशेषाद्यनुवृत्तेः प्रतीयते व्यपदेशः अयं मल्लिकापुटोऽयं चम्पकपुट इति, तथेहाप्यन्वयादुपसर्जनार्थः परित्यक्तोऽपि विशेषणं भविष्यति।

अथवा जहदप्यसौ स्वार्थं राजशब्दो नात्यन्ताय जहाति। कश्‍चिदेव भागः स्वार्थस्यापि हीयते।

कथम्? विरोधादेष स्वार्थमवजहाति। ततो यावतास्य प्रधानार्थोपयोग— विरोधस्तावन्तमेवार्थं जह्यात्। तदाह — यः परार्थविरोधी स्वार्थः तं जहाति। न हि प्रधानार्थोपयोगिनः स्वार्थस्य अत्यागे निदर्शनमस्ति? अस्ति, राजकर्मणि प्रवर्तमानः तक्षा राजा तक्षकर्मैव जहाति, न हिक्कितहसितकण्डूयितानि। न चायमर्थः परार्थविरोधि— विशेषणत्वं नाम तस्मान्न हास्यति।

ननु चोपसर्जनपदानि प्रधानार्थावच्छेदव्यापारावेशवन्ति प्रधानोपकारिणं विशेषणभावं न जहतीत्युच्यते। अयमेव चोपसर्जनपदानामर्थो यत् प्रधानमवाप्‍तरूपभेदमवगमयन्ति। तथा हि राज्ञः पुरुष इति स्वामिविशेष— सम्बन्धोपहितभेदः पुरुषार्थोऽवगम्यते राजपुरुष इति। न चापदार्थरूपभेदं प्रधान— स्याधातुं तदनवहीयमानस्वार्थमेवोपसर्जनपदमिति किमुच्यते जहत्स्वार्था वृत्तिरिति?

एवं मन्यते — ‘पदस्य स्वातिशयपतिपत्तौ स्वाधीनत्वं, तस्य त्यागात् स्वार्थापहानम्। यदि चोपसर्जनपदं न स्वार्थेन प्रधानस्योपकुर्यात्, स्वरूपमेवास्य हीयेत। यतः परोपकारिताकारणमेवोपसर्जनत्वं, प्रयोगवैयर्थ्यं चोपसर्जनस्य प्रसज्यते। प्रधानस्योत्तरपदेनैव प्रतीतत्वात्। न चानर्थकाणां परेण सम्बन्धो घटते, सामर्थ्यनिबन्धना समाससंज्ञा च नोपपद्यते। तस्मान्न सकलार्थपरित्यागः। किं तर्हि? विशेषणतया स्वपदोपधीयमानरूपातिशयप्रतिपत्तियोग्यतामात्रमस्यापहीयते।

ननु च परित्यक्ताशेषार्थमपि उपसर्जनपदमर्थविशेषाभिधायिनस्समुदायस्य वर्णवदङ्गभावमापत्स्यते (वाप. ३ वृ.)?

नैवम्; एवं हि प्रतीयमानः प्रधानार्थोपयोगी पदार्थः परित्यक्तो भावी। न च परित्यक्तस्वार्थेभ्य उपसर्जनपदेभ्यः प्रधानविशेषो विशेषणविशेष्यावच्छिन्नः समुदायो वा प्रतीयते। न चाप्रतीयमानश्शब्दार्थो न्याय्यः कल्पयितुमिति यत्किंचिदेतत्। यद्यपि चायं समुदायः एवाव्यपदेश्‍यपूर्वापरभागो भागभेदानुयात इवावसीयमानः संबन्धी पदार्थद्वयोपहितभेदं ह्यर्थमभिधत्ते। तथापि तदधिगमोपायः पूर्वोत्तरविभागदर्शनम्। तत्र च वृत्तौ समर्थाधिकारः क्रियते। सामर्थ्यं नाम भेदस्संसर्गो वा (मभा. २.१.१)।

अपर आह — भेदसंसर्गौ वा सामर्थ्यमिति।

कः पुनः भेदस्संसर्गो वा? इह राज्ञ इत्युक्ते सर्वं स्वं प्रसक्तम्। पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः। इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुषं निवर्तयति अन्येभ्यः स्वामिभ्यः। पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः। एवमेतस्मिन्नुभयतोऽवच्छिन्ने यदि जहाति कामं जहातु। न जातुचित् पुरुषमात्रस्यानयनं भविष्यति।

ननु च पुरुष इत्युक्ते न स्त्रीत्येतावता संप्रत्ययेन भवितव्यम्।

सत्यमेवैतत्। यदा तु पुरुष आकारविशेषाद् द्रव्यान्तरसम्बन्धाद्‍वा स्वातन्त्र्येण निर्ज्ञात उपलब्धः तं प्रत्येतदुच्यते। राज्ञो हि अनिर्ज्ञातार्थत्वात् परार्थायां प्रवृत्तौ सामान्यसंसर्गविषयः प्रातिपदिकार्थव्यतिरेक उपजायते। पुरुषस्तु निर्ज्ञातार्थात् स्वामिविशेषसंबन्धादवसीयमानः पूर्वमव्यतिरिक्तप्रातिपदिकार्थः प्रथमान्तः स्वामि— विशेषस्थं सम्बन्धमनुभवति। तस्मिन् प्रतिलब्धविभक्तौ य उत्तरो व्यतिरेक उपजायते वाक्‍यार्थः स भवति। इहेदानीं राजा पुरुषं निवर्तयति अन्येभ्यः स्वामिभ्यः। तत्र योऽसौ भेदस्तत्सामर्थ्यं तन्निमित्ता च वृत्तिः; भेदनिमित्तायां च वृत्तौ सत्यां वृत्त्यभिमुखस्य भेदमुपजनस्य स्वार्थो निवर्तते। यस्यापि न निवर्तते पुरुषस्य सोऽपि स्वामिनं भिनत्ति। एवमेतयोर्द्वयोरन्योन्यक्‍लृप्‍तौ सत्यामुभयतो व्यवच्छेदेन निर्ज्ञाते पुरुषविषेशे समुदायार्थे चान्यस्मिन् प्रादुर्भूते यदि राजार्थो निवर्तते कामं निवर्तताम्। प्राक् तु वृत्तेरकृतार्थस्य निवृत्तौ वृत्तिरेव न स्यात्। वृत्तिनिमित्ता च निवृत्तिः। तस्माददोषः।

अपर आह — पुरुष एव हि राजपुरुषो ब्राह्मणादिपुरुषश्‍च। तत्र राजा स्वाम्यन्तरनिवृत्तिमात्रं करोति, न त्वसौ राजार्थमेव निवर्त्तयति। स्वाम्यन्तरनिवृत्तौ तु कृतायां पुरुष एव राजपुरुषार्थमाहेति।

अथान्यन्मतम् — नावस्थितार्थपरित्यागेन शब्दोऽर्थान्तरम् उपादत्ते। न ह्यपौरुषेयसंबन्धोपहितनिवेशमर्थात्मानं रूपदर्शनावसीयमानं शरीरं शब्दाः परित्यक्तुमुत्सहन्ते। यथा हि ते स्वरूपमसमर्थास्त्यक्तुं तथार्थमपि नैव योगक्षेममपहातुं क्षमन्ते। न हि जलमनलसंस्पर्शोपचीयमानस्पर्शातिशयमप्यात्मीयं स्नेह जहाति। निमित्तविशेषसन्निधानो पपादिते पुनरेषामर्थान्तराभिधानसामर्थ्ये कामचारः। तस्मादभ्युच्चय एवार्थान्तरस्य वृत्तावुपसर्जनपदानां प्रधानोपकारातिशयः। प्रधानोपकारस्तु स्वामिविशेषावच्छेदः पुरुषार्थस्य। स चापरित्यागेनैव स्वार्थस्य कर्तुं शक्‍यते। न ह्यत्यन्तमपाकीर्णस्वार्थं शब्दः रूपातिशयमर्थान्तरे निवेशायितुं शक्‍नोति। रूपातिशयनिवेशनायां पदार्थनिबन्धनत्वादनङ्गीकृतस्वार्थानि च यान्युपसर्जनपदानि प्रधानार्थनिवेशीनि तमेवार्थं शब्दान्तरेण प्रतिपादयन्ति। न तैरतिशयः प्रधानस्य प्रतिपादितो भवति। ततश्‍च राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्‍नोति, औपगवमानयेति चापत्यमात्रस्येति। तदवधार्याह — अथवा पुनरस्त्वजहत्स्वार्था वृत्तिः। युक्तं पुनः यदजहत्स्वार्था नाम वृत्तिः स्यात्? बाढं युक्तं; एवं हि दृश्‍यते लोक भिक्षुकोऽयं द्वितीयां भिक्षामासाद्य पूर्वां भिक्षां न जहाति, सञ्चयायैव यतते।

ननु चोक्तमुभयोर्विद्यमानस्वार्थयोः द्वयोर्द्विवचनमिति द्विवचनं प्राप्‍नोति।

कस्याः पुनर्द्विवचनं प्राप्‍नोति ?

प्रथमायाः। न प्रथमासमर्थो राजा। षष्ठ्यास्तर्हि प्राप्‍नोति। न षष्ठीसमर्थः पुरुषः। प्रथमाया एव तर्हि प्राप्‍नोति।

ननु चोक्तं न प्रथमासमर्थो राजाभिहितः, सोऽर्थोऽन्तर्भूतः प्रातिपदि— कार्थस्संपन्नः। तत्र प्रातिपदिकार्थे प्रथमेति प्रथमाया एव द्विवचनं प्राप्‍नोति। तत्र यथा धवखदिराविति पदार्थान्तरोपचये सङ्ख्याभेदोपजनकानेकवचनं प्रवर्तते तद्वदिहापि राजपुरुषः, इति पुरुषशब्दाद् द्विवचनं प्राप्‍नोति।

नैवम्; धवखदिरावित्यवयवार्थ समवेतस्सङ्ख्याविशेषः, ततोऽवयवात् परस्या विभक्तेः कारणम्। इह तु एक एव पुरुषार्थः तदेकवचनमेव पुरुषशब्दे न्याय्यः। न हि राजशब्देनासम्बध्यमाना विभक्तिस्तदर्थसमवेतां सङ्ख्यामभिधेयत्वेन अपेक्षते। द्वन्द्वपदानां तु प्रत्यवयवमनेकार्थाभिधानसामर्थ्यादनेकवचनं न विरुध्यते। अनुत्तर— पदेष्वपि तर्हि तत् प्राप्‍नोति?

प्राप्‍नोतु। ‘सुपो धातुप्रातिपदिकयोः’ (२.४.७१) इति लोपो भविष्यति।

अथायमभिप्रायः — समुदायात् परा विभक्तिः, अतस्समुदायार्थसमवायिनीं सङ्ख्यामभिधत्ते। समुदायस्स चावयवात्मकत्वादवयवभेदनिबन्धनस्सङ्ख्याभेदः निमित्तमनेकवचनस्येति। तदेतत् क्‍व युज्यते?

यत्र पदसमुदायेनार्थसमुदायः प्रत्याय्यते, यथा द्वन्द्वपदे। यत्र तु विशेषणविशेष्यभावावच्छिन्नमर्थान्तरमेवाभिधेयमवयवैः समुदायेनोपादीयते, यथा बहुव्रीहिपदे ‘लोहितवसनः’, ‘चित्रवेष्टन’ इति, तत्रावयवार्थाहितभेदस्य पदार्थस्य समुदायेनाभिधीयमानत्वात् ततः परा विभक्तिस्समुदायार्थनिवेशिनीं सङ्ख्यामुपादत्ते। तदाह ‘सङ्घातस्यैकार्थ्यान्नावयवसङ्ख्यातस्सुबुत्पत्तिः’ (२.१.२. वा. ३)। अत्र हि समुदायाद् राजपुरुष इत्येतस्माद् विभक्‍त्योत्पत्तव्यम्। तेन समुदायेनैवैकार्थ— पिण्डोऽवयवार्थशक्‍त्यनुगृहीतः पृथगव्यपदेश्‍योऽवयवशक्तिरभिधीयते। तस्मिंश्‍च सङ्घातार्थे स्वामिविशेषपरिच्छिन्ने निवृत्तस्वाम्यन्तरसंबन्धे एकत्वं समवेतं, तेन विद्यमानायामप्यवयवसङ्ख्यायां तदाश्रया सुबुत्पत्तिर्न भविष्यति। तदेवमजहत्स्वार्थायां वृत्तौ तदुपसर्जनपदं स्वार्थातिशयावच्छिन्नं प्रधानार्थमभिदधाति। ततो विशेषणविशेष्यभूतार्थद्वयाभिधानमुपसर्जनस्य वृत्तौ भवति। यत्तु प्रधानार्थसम्भवविशेषणं पाटलिपुत्रकादि, तदस्य निवर्तते, अतो वृत्तिविषये राजार्थः तैर्विशेषणैर्नावच्छिद्यते। यदा तु वाक्‍यावस्थायामुपसर्जनं पदार्थः प्रधानसंस्पर्शविभक्तः केवल एव भवति, तदा युक्तमेव यद्‍‌विशेषणभावमनुभवति, यथा राज्ञः पाटलिपुत्रकस्य पुरुष इति; यदि वा—

उपायमात्रान्नानात्वं समूहस्त्वेक एव सः।
विकल्पाभ्युच्चयाभ्यां तु भेदसंसर्गकल्पना॥ १२॥

(वाप. ३.१४.९८) तत्रात्यन्तजहत्स्वार्थायां वृत्तौ पुरुषशब्दे पुरुषार्थाभिधायिनि सर्वशब्देषु च प्रतिनियतार्थाभिनिवेशिषु भेद एव सामर्थ्यम्। अजहत्स्वार्थायां तु वृत्तौ पुरुषशब्दे पुरुषमात्राभिधायिनि सर्वशब्देषु च प्रतिनियतार्थाभिनिवेशिषु संसर्ग एव सामर्थ्यम्। नात्यन्तमजहत्स्वार्थायां वृत्तौ पुरुषादिषु सम्बन्धिशब्देषु सर्वशब्दानां चासमर्थयोनित्वाभ्युपगमे समाप्तौ भेदसंसर्गौ सामर्थ्यमित्याख्यायते— (वाप. ३.१४.९९)

वृत्तिं वर्तयतामेवमबुधप्रतिपत्तये।
भिन्नाः सम्बोधनोपायाः पुरुषेष्वनवस्थिताः॥ १३॥

न हि परमार्थतः पराकृतपूर्वोत्तरविभागसंस्पर्शेन सङ्घातेनातिशयवत्यर्थेऽ— भिधीयमाने भेदसंसर्गदर्शनावकाशः कश्‍चिदस्ति। तस्मादसत्येन भेदसंसर्गदर्शनेन सत्यस्समुदायार्थो निरूप्यत इति॥

(११. पदार्थनिरूपणम्)

पदार्थस्त्रिधा— १. जातिः, २. व्यक्तिः, ३. आकृतिश्‍च। तत्र—

(१. जातिः)

भिन्नष्वभिन्नप्रत्ययनिमित्तं जातिः।

सा त्रिधा द्रव्यजातिः, गुणजातिः, क्रियाजातिश्‍च। तासु—

द्रव्यजातिर्द्विधा— संस्थादि(न)व्यङ्ग्या उपदेशव्यङ्ग्या च। तयोः—

आद्या यथा गौः पदा न स्प्रष्टव्या, सम्पन्नो व्रीहिः सुभिक्षं करोतीति।

द्वितीया यथा ब्राह्मणो न हन्तव्यः,कठः प्रवक्ता भवतीति।

गुणजातिः द्विधा— प्रत्यक्षा अनुमेया च। तयोः

आद्या यथा श्वेतं छागमालभेत, अम्लो रसः पाचनो दीपन इति।

द्वितीया यथा दक्षः श्रियमधिगच्छति, कामी मण्डनप्रियो भवतीति।

क्रियाजातिः द्विधा— सामान्यरूपा विशेषरूपा च। तयोः—

आद्या यथा रैपोषं पुष्यति, नागरकवृत्तं वर्तेतेति।

द्वितीया यथा अष्टका कर्तव्या, विश्वजिता यजेतेति।

(२. व्यक्तिः)

जात्याधारो व्यक्तिः।

सा त्रिधा— द्रव्यव्यक्तिः, गुणव्यक्ति, क्रियाव्यक्तिश्‍च। तासु— द्रव्यव्यक्तिः द्विधा— शुद्धा मिश्रा च। तयोः —

आद्या यथा गां बधान, गां दोग्धि, त्वं पचसि, अहं पचामीति।

द्वितीया यथा—

मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे।
बाहू प्रलम्बावङ्गेषु वङ्गेषु चरणौ मृदु॥ १४॥

इति। गुणव्यक्तिः द्विधा— मुख्या गौणी च। तयौः—

आद्या यथा श्वेतं रूपं पश्‍यामि, मधुरं रसमास्वादयामि, सुगन्धिं गन्धमाजिघ्रामि, शीतं स्पर्शमनुभवामीति।

द्वितीया यथा— ‘तीव्रः प्रतापो मधुरं वचस्ते यशोऽवदातं सुरभिः स्वभावः।’ इति।

क्रियाव्यक्तिः द्विधा— कर्त्राश्रिता, कर्माश्रिता च। तयोः—

आद्या यथा आस्ते देवदत्तः, प्रस्‍नुते गौः स्वयमेवेति।

द्वितीया यथा पच्यते ओदनः, लूयते केदारः स्वयमेवेति।

(३. आकृतिः)

व्यक्तिप्रतिरूपमाकृतिः।

सा त्रिधा— द्रव्याकृतिः, गुणाकृतिः, क्रियाकृतिश्‍च। तासु— द्रव्याकृतिः द्विधा— श्रुतदशा, दृष्टदशा च। तयोः

आद्या यथा अस्यां दृषदि वासुदेवः क्रियताम्, अस्यां भित्तौ कामदेवो लिख्यताम्, अत्र ध्वजे हनूमान् बध्यतामिति।

द्वितीया यथा अमी पिष्टपिण्डाः सिंहाः क्रियन्ताम् (न्यायवा. २.२.६७), अयं कूपे चन्द्रमाः, अयमाकाशे देवपथ इति।

गुणाकृतिः द्विधा— प्रत्यक्षाश्रया, अनुमानाश्रया च। तयो—

आद्या यथा वध्रिका दर्शनीयो मनुष्यः, चञ्चा रमणीयः (मभा. १.२.५२), तदेतद्घुणाक्षरं रूपमिति।

द्वितीया यथा अहो मुग्धं रूपमालेख्यस्य, विदग्ध आकारश्‍चित्रस्य, सौम्या मूर्तिः प्रतिमाया इति।

क्रियाकृतिः द्विधा— कायक्रियाधारा, मनःक्रियाधारा च। तयोः

आद्या यथा ऋज्वाग(य)तं तमालेख्यम् (लीनम्), साचिमुखवर्तकः परावर्तकं स्थानमिति।

द्वितीया यथा भीता दृष्टिः, त्रस्त आकारः, सविकारं रूपमिति।

ननु च जातिरेव शब्दार्थ इति जैमिनीयाः। जैमिनिर्हि—

जातिमेवाकृतिं प्राह व्यक्तिराक्षिप्यते पया।
सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम्॥ १५॥

(श्‍लोवा.) ननु च सास्‍नादीनां सन्निवेश आकृतिः। न चासौ जौमिनिमतेऽपि न पृथगस्ति। यदाह भाष्यकारः — अथ गौरित्यत्र कश्शब्दार्थः सास्‍नादिविशिष्टा आकृतिरिति। ततश्‍च सैव शब्दार्थो भवति। नैवम्; एवं सति संस्थानस्य प्रतिव्यक्तिभिन्नत्वात्, आनन्त्यव्यभिचाराभ्यां सम्बन्धस्य ग्रहीतुमशक्‍यत्वात्। न च विद्यमानायामप्याकृतौ गामानयेत्युक्तश्‍चित्रपुस्तमयीं कश्‍चिद् गामानयति ननु जातिपक्षेऽपि जातेस्सर्वगत— त्वमिति मृद्गवकानयनं (न्या.सू. २.२.६३) न भवति; सास्‍नादिमतः प्राणिन एव गोत्वाभिव्यञ्जकत्वात्। अतो नाकृतिर्जातेः पृथक्छब्दार्थ इति।

व्यक्तिरपि न शब्दार्थः, सा हि व्यक्तिमात्रं वा स्याद् विशिष्टा वा। न तावद्‍व्यक्तिमात्रं, अश्वादिव्यक्तावपि गौरिति ज्ञानाभिधानयोः प्रसङ्गात्। अथ गोत्वविशिष्टा?

तद्गोत्वमवगतमनवगतं वा विशेषणं भवति ?

नानवगतमतिप्रसङ्गात्; अवगमस्तु शब्दात् प्रमाणान्तरतो वा; न प्रमाणान्तरतः, तदसन्निधानात्। शब्दतस्तु गोत्वावगमे तदेव प्रथमतश्शब्दोऽभिदधाति, नागृहीतविशेषणा विशेष्ये बुद्धिरिति न्यायात्। ननु जातिं विशेषणत्वेन विशेष्येत्वेन च व्यक्तिं गोशब्दो वक्ष्यति; न शक्‍नोति वक्‍तुमतिभारात् तदाह—

विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे॥ १६॥

(अवृमा.) इति॥ ननु दण्ड्यादिशब्दादिव विशेषणं जातिं विशेष्यां च व्यक्तिं गोशब्दादेव प्रतिपत्स्यामहे; तत्कोऽस्यातिभारः?

विषम उपन्यासः। तत्र हि प्रकृतिप्रत्ययविभागेन प्रकृत्यर्थविशिष्टः प्रत्ययार्थोऽवगम्यते। गोशब्देन तु नैवमिति। न च व्यक्त्यवगतौ गतिरन्या नास्ति, येनोभयाभिधानं कल्प्यते। अविनाभावबलेन जातिप्रतीतावपि तत्प्रतीतिसिद्धेः। यदि च व्यक्तिश्शब्दार्थो भवेत्, व्यक्‍त्यन्तरे गोशब्दो न प्रयुज्यते। न च न प्रयुज्यते, तस्मात् सर्वव्यक्तिसाधारणी जातिरस्यार्थः, न व्यक्तिः।

ननु च व्यक्‍त्यन्तरमपि व्यक्तिरेव। सोऽयं व्यक्तौ गोशब्दः प्रयुक्तो, न सामान्ये। नैवम्। एवं सति कर्कादिव्यक्तावपि प्रसङ्गः। यत्रास्य प्रयोगो दृष्टस्तत्र प्रयुज्यत इति चेत्, अद्य जातायां गवि मा प्रयोजि। अपि च व्यक्तौ पदार्थे ‘इयमियं वा गौरिति प्रतीतिः स्यात्, न पुनरियमियं चेति। न च आकृताविव व्यक्तावप्यानन्त्य— व्यभिचाराभ्यां सम्बन्धग्रहणमुपपद्यत इति।

कथं पुनरिमा जातयः परस्परतो व्यावर्तमानशरीरा भवेयुः? रूपमेव ह्यासां परस्परतो व्यावर्त्तते। विषयरूपानुरोधी च प्रत्ययः स्वाकारभेदेन तदवच्छिनत्ति। तदनुविधायिनश्‍च शब्दास्तथैव तदुपाददते। एवं तर्हि नित्यत्वादासां तद्रूपावसायस्सदा प्रसज्येत।

नैवम्; असन्निहिताश्रयाणामनभिव्यक्तेः। यद्येवमभिव्यञ्जकवशादवसायस्ता— सामिति सोपव्यञ्जनाश्शब्दैरभिधीयेरन्।

तन्न। यथा काचादर्शोदकादिषु प्रतीयमानभेदो मुखादिरर्थः काचादिदर्शनाऽपेक्षो न प्रतीयते। न च काचादिभिरुपदर्शितमर्थमभिदधानाः शब्दाः काचादीनुपाददते, तथा व्यक्तिभिरुपदर्शितरूपविभागा जातयस्ताभिरसंस्पृष्टा एव शब्दैः प्रत्याय्यन्ते। कथं पुनराश्रयाश्शब्देन असंस्पृश्‍यमानभेदा अपि जातिभेदावगमाय कल्पन्ते, यथा चक्षुरादयोऽप्रतीयमाना अपि रूपादिविषयविशेषप्रतिपत्तये। तदुक्तम्—

यथा जलादिभिर्व्यक्तं मुखमेवाभिधीयते।
तथा द्रव्यैरभिव्यक्ता जातिरेवाभिधीयते॥ १७॥

यथेन्द्रियगतो भेद इन्द्रियग्रहणादृते।
इन्द्रियार्थेष्वदृश्‍योऽपि ज्ञानभेदाय कल्पते॥ १८॥

विनात्मरूपग्रहणाद्‍व्यञ्जिका व्यक्तयस्तथा।
सामान्ये ज्ञानभेदानामुपयान्ति निमित्तताम्॥ १९॥

(वाप.जा.२९–३१) व्यक्तिरेव शब्दार्थ इति व्याडीयाः। शब्दो हि पदं, तच्च विभक्‍त्यन्तमेव न प्रातिपदिकमात्रम्। विभक्तिः प्रातिपदिकादुच्चरन्ती प्रातिपदिकार्थगतमेव स्वार्थमाचष्टे। युगच्च त्रितयं विभक्‍त्यर्थः ‘लिङ्गं सङ्ख्या कारकं’ च। न चैतत् त्रितयं प्रातिपदिकार्थे जातावन्वेति; न हि जातेः कारकत्वम्, अमूर्तत्वात्। न सङ्ख्यासम्बन्धित्वम्, अभेदात्। न स्त्रीत्वादिसामान्ययोगः, निस्सामान्यत्वात्।

नन्वात्मनीनसामान्ये कारकत्वं भविष्यति।
कक्ष्यान्तरितमित्येष युक्तो वैभक्तिकोऽन्वयः॥ २०॥

(न्यायमं.) नैतत्सारम्। अमूर्तस्याप्यात्मनो ज्ञानप्रयत्‍नादियोगे कारकत्वमुपपद्यते। जातेस्तु न मनागपि व्यापारसंस्पर्श इति (मभा. १.२.६४, शा.भा. १.३.९.३०, न्यायमं.)।

ननु च व्यक्तिलक्षणया सर्वमुपपत्स्यते।

नैवम्; लक्षणा हि तत्र भवति यत्र सकृत्प्रयुक्तं पदं कञ्चनार्थमभिधत्ते, भूयश्‍चानुपपद्यमानमर्थान्तरं लक्षयति, लक्षिते च शक्तिसङ्ख्यादिकं निवेशयति। अत्र तु नान्यथानुपपत्त्यादि संवेद्यते। न च व्यक्तिप्रतीतिर्व्यवहितेति केचिन्मन्यन्ते। व्यक्तिमेव च शक्तिसङ्ख्यानुरञ्जितां कार्ययोगिनीं पश्‍यामः। अत एव चालम्भनप्रोक्षणविशसनादयो जातौ न विधीयन्ते। न च षड् देयाः द्वादश देयाः चतुर्विंशतिर्देया इति भेदसङ्ख्यया जातिर्युज्यते। अपि तु व्यक्तिरेवैनं भारमुद्वहति। किंच जातौ पदार्थे यदि पशुरुपाकृतः पलायेतान्यं तद्वर्णं तद्वयसमालभेत इति पशोरन्यत्वं न युज्यते, जातेरभेदात्। अपि च—

चयापचयसङ्घातस्वस्वामित्वादिकल्पनाः।
यान्ति जात्यभिधेयत्वपक्षे साक्षान्न सङ्गतिम्॥ २१॥

(न्यायमं.) एतेन तुल्ययोगक्षेमत्वादाकृतिरपि न शब्दार्थ इत्युक्तं भवति; तस्या अपि प्रोक्षणादिक्रियासाधनत्वायोगात्। न हि सन्निवेशः प्रोक्ष्यते आलभ्यते विशस्यते वा। ये च सङ्ख्यायोगादयः चयापचयादयो वा ते जातावाकृतावपि न युज्यन्ते। किंच आकृतिवचनत्वे गोशब्दस्य शुक्‍लादिगुणवाचिभिः पदान्तरैस्मामानाधिकरण्यं न प्राप्‍नोति। न हि शुक्‍लादयो गुणाः आकृतिवृत्तयः, अपि तु व्यक्तिवृत्तय इति। न चैतद् वाच्यं व्यक्तिलक्षणाद्वारकमिदं भविष्यतीति। लक्षणा हि मुख्याभावे प्रवर्तते। न खलु ऋजौ वहति वर्त्मन्यनृजु— रध्वाश्रयितव्यो भवति। न चानन्त्यव्यभिचाराभ्यां सम्बन्धाग्रहणमिति वक्तव्यम्। तद्धि जातिमाकृतिं वोपलक्षणमाश्रित्य भविष्यति।

यद्येवमुपलक्षणभूतां जातिमाकृतिं वाभिधाय शब्दो व्यक्तिमभिधत्ते।

नैवम्; आस्तामभिधीयमानं, विद्यमानमपि प्रतिपन्नमात्रमेव उपलक्षणं भवति। तद्यथा—‘कतरद्‍देवदत्तगृहम्? यत्रायं काक इति। अत्र हि न काकलक्षणोपलक्षणद्वारेण प्रवृत्तो देवदत्तगृहशब्दः काकार्थमभिधत्ते, उपरते वा काकसम्बन्धे तद्‍व्यवच्छिन्न— वस्तुनिवेशितां जहाति। एवं जात्युपलक्षणद्वारेण व्यक्तौ प्रवर्तमानश्शब्दो जातिं च (नाभिधास्यति, तद्व‍यवच्छिन्नगोव्यक्तिविनिवेशं च हास्यति। एतेनाकृतिरपि शब्देनानभिधीय— मानैव व्यक्तिमुप) लक्षयतीति लक्ष्यते। तद्यथा— कतरत् सुवर्णं, य एष रुचकः स्वस्तिको वर्धमानक इति; न ह्यत्र रुचकाद्याकारद्वारेण प्रवृत्तस्सुवर्णशब्दो रुचकाद्याकारमभिधत्ते, उपरतेषु वा रुचकाद्याकारेषु तद्‍व्यवच्छिन्नस्वर्णार्थपरतां परित्यजति। तदुक्तम्—

अध्रुवेण निमित्तेन देवदत्तगृहं यथा।
गृहीतं गृहशब्देन शुद्धमेवाभिधीयते॥ २२॥

सुवर्णादि यथा युक्तं स्वैराकारैरपायिभिः।
रुचकाद्यभिधानानां शुद्धमेवैति वाच्यताम्॥ २३॥

(वाप. ३.२.४.) तथोपलक्षणे जातावाकृतौ वा समाश्रिते।
व्यक्तयो यान्ति शब्दानां शुद्धा एवाभिधेयताम्॥ २४॥

एतेन यदुक्तं व्यक्‍त्यभिधानपक्षे सर्वे शब्दाः सर्वार्था भवेयुरिति तदपि निरस्तं भवति। तथा हि— यथा चक्षुरादिशब्दानामशेषरूपादिप्रकाशनसामर्थ्यं नलिकादिसुषिर— वर्त्मनि युक्तं दर्शनस्य तदवकाशावस्थितरूपभेदोपरुद्धतयाविषयान्तरेषु न विप्रकीर्यते, तथा जात्याकृतिभ्यामवरुद्धविषया गवादिशब्दानामभिधानशक्तिर्नाश्वादिष्वतिप्रसज्यत इति। उक्तं च—

आकारैश्‍च व्यवच्छेदात्सार्वार्थ्यमवरुध्यते।
यथैव चक्षुरादीनां सामर्थ्यं नलिकादिभिः॥ २५॥ (वाप. ३.२.५)

यच्चोक्तं — यथा जलादिभिरादर्शैरभिव्यक्ताश्‍चन्द्रादय एव चन्द्रादिशब्दैर— भिधीयन्ते, यथा चेन्द्रियभेदग्रहणमन्तरेणापि रूपादिविषयज्ञानभेदो भवति, तथा व्यक्तिभिरुपव्यञ्जिता जातय एव गवादिशब्दैरभिधीयन्ते, व्यक्तिग्रहणे च तदुपव्यञ्जना जातिर्ग्रहीष्यति (इति), तदपि न सम्यक्। यदा तावत् प्रतिबिम्बमुदकादिषु भावान्तरमेवोपजायत इथि दर्शनम्, तदा तद्रूपभेदानुपातिनः शब्दाः किमिति उदकादीनुपाददीरन् यतो नोदकादयस्तदानीं चन्द्रादीनामुपव्यञ्जनम्, अपि तु रूपजनन— कारणम्; न च कार्यवचनाः शब्दाः कारणसंस्पर्शमनुभवन्ति। यदा तु दर्शनविप्लवः स तादृश इति प्रतिपत्तिः, तदा दूरोत्सारितावकाशो व्यङ्ग्यव्यञ्जकभावः। यदा तर्हि जलाद्यादर्शप्रतिघातात् परावृत्ते चक्षुषि स्ववक्त्रवच्चन्द्रादयोऽपि दृश्‍यन्त इति दर्शनं तदैतदुपपत्स्यते। तदा ह्युदकादिवत् सन्निहितमुपव्यञ्जनं रूपभेदेन जातिमभिव्यक्तरूपभेदां दर्शयति। तदेव च शब्दोऽभिधत्ते। एतदप्यव्यभिचरितोपव्यञ्जनायत्तदर्शन(नाः) जातयः कथं विनोपव्यञ्जनैः प्रतीयन्त इति पर्यनुयोगो नातिचतुरश्रम्; चन्द्रादीनामन्यथापि दर्शनोपपत्तेः। एवं जातिभेदप्रतिपत्तावपि। यथा दर्शनादीन्द्रियायत्तोदयाः नीलाद्यर्थावसायाः कारणभेदमनु परिवर्तन्ते नैवं जातिपरिच्छेदाः व्यक्तिरूपप्रतिबद्धोत्पादाः, येन तद्‍भेदमनुविदध्युः। ततश्‍च गोत्वादयोऽपि परस्परतो न व्यावर्तेरन्। संवेद्यमानभेदश्‍च पदार्थः कथमकस्मादेक इति श्रद्धीयते?

व्यक्तेरेव पदार्थत्वं तस्मादभ्युपगम्यताम्।
तथा च बुद्धिस्तत्रैव श्रुतशब्दस्य जायते॥ २६॥

येषामर्थेषु सामान्यं न सम्भवति तैः पुनः।
उच्यते केवला व्यक्तिराकाशादिपदैरिव॥ २७॥

एवं डित्थादिशब्दानां संज्ञात्वविदितात्मनाम्।
अभिधेयस्य सामान्यशून्यत्वाद्‍व्यक्तिवाच्यता॥ २८॥

(न्यायमं.) ये पुनः कल्पितानेकभेदवृत्तिं प्रचक्षते।
वाच्यं तत्रापि सामान्यमतीव ग्रहिलास्तु ते॥ २९॥

न हि डित्थत्वसामान्यं दृश्‍यते गगनत्ववत्।
कल्पनायाश्‍च ना(नो) भूमिः काचिदस्ति विपश्‍चिताम्॥ ३०॥

(न्यायमं.) इति॥ (आकृतिपदार्थवादः)

आकृतिरेव पदार्थ इति विन्ध्यवासिमतगन्धीयाः।

तत्राकृतिपदेनेह संस्थानमभिधीयते।
लोके शास्त्रे च दृष्टत्वान्न जातिर्जैमिनीयवत्॥ ३१॥

(न्यायमं.) लोके यथा ‘यत्राकृतिस्तत्र गुणा वसन्ति’ इति। शास्त्रे यथा— ‘आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्॥’ (मभा. ४.१.६३) इति॥

उभयत्रापि चाकृतिशब्देनावयवसन्निवेशविशेष उच्यते (न्यायमं.)। वृद्धाश्‍च व्यवहरन्ति यत्रार्थे यत्पदं प्रयुञ्जते त तस्यार्थो भवति। तत्र यदेष गोशब्दः सास्‍नादिमति प्रयुज्यते न केसरादिमति, तदयमसाधारणसन्निवेशविषयतां द्योतयति।

प्रत्यक्षविषये च गौरित्यादिपदं प्रयुज्यते। प्रत्यक्षं चाकृतिविषयम्। अश्वपिण्डसन्निवेशाद्धि विलक्षणो गोपिण्डसन्निवेश इन्द्रियेण प्रतीयते। तत्कृतमेव च वस्तूनामितरेतरवैलक्षण्यम्। अतः प्रत्यक्षविषये गौरित्यादिपदं प्रवर्तमानमाकृतावेव प्रवर्तितुमुत्सहते। अपि च ‘श्‍येनचितं चिन्वीते’ति न जातिश्‍चीयते, न व्यक्तिः, अपि तु आकृतिरेव। प्रदीपप्रवाहादीनां च शब्दानामाकृतिरेवार्थोऽभ्युपेयः। न ह्येषामर्थेषु व्यवस्थितं जातिरूपं व्यक्तिरूपं वा समस्ति। यदि चाकृतिश्शब्दार्थो व भवेत्, कथमिव गवादिशब्दैः गवाद्याकारमेव ज्ञानं जन्येत? अपि (च) ‘तानेव शाटकानाच्छादयामो ये पाटलिपुत्रे, तानेव शालीन्भुञ्ज्महे ये मधुरायाम्’ (मभा.१.१.२) इति योऽयमेवंप्रकारो व्यवहारः, स आकृतावेव पदार्थे सङ्गच्छते। यच्च व्रीह्यादेर्मुख्यस्याभावे नीवारादिभिः प्रतिनिधिभिः कर्म समाप्यते तदाकृतेः अशब्दार्थत्वे समापितमप्यङ्गहीनत्वादफलमेव प्राप्‍नोति; नीवारादौ व्रीह्यादिजातिव्यक्‍त्योरभावात्। यश्‍चायमर्चादिप्रतिकृतौ वासुदेवादिशब्दप्रयोगः, सोऽप्याकृतावेव पदार्थे युज्यते। किंचात्यनतमदृष्टेष्वप्यर्थेषु शब्दाद् आकारविषयः प्रत्यय उपजायमानो दृश्‍यते। तद्यथा— इन्द्रः स्कन्दो वैश्रवण इति। तच्चाकृतेरेव शब्दार्थत्वे उपपद्यते। सम्बन्धग्रहणं चास्य जातिवदुपपत्स्यते, समस्तगवीष्वपि गोसंस्थानस्यैकरूपत्वात्। मुख्यगौणभावे तु प्रसिद्धिरप्रसिद्धिश्‍च नियामिका भविष्यति। प्रोक्षणादिक्रिया शुक्‍लादिगुणयोगश्‍च व्यक्तिद्वारा आकृतेरुपपत्स्यते। न चामूर्तत्वादाकृतेरक्रियाङ्गत्वं, अमूर्तानामपि गुणकर्मणां क्रियाङ्गत्वात्। अरुणया क्रीणाति, अभिक्रामं जुहोतीति। किंच—

यथाभूतेन्द्रियोत्पाद्यमात्मकर्तृकमिष्यते।
तथा तल्लक्षितव्यक्तिसाध्यं तत्साध्यमुच्यते॥ ३२॥

(न्यायमं.) तस्मादाकृतिः पदार्थ इति।

कथं तर्ह्याचार्याणां मतविरोधो जातिर्व्यक्तिराकृतिश्‍च पदार्थ इति? गवादि— शब्दैस्तद्वतोऽभिधानात्।

ननु कोऽयं तद्वान्नाम्? तदस्यास्तीति तद्वानिति विशेष एवाकार— सामान्यवानुच्यते। विशेषवाच्यत्वे चानन्त्यव्यभिचारौ तदवस्थौ। सामान्यं च शब्देनानुच्यमानं नोपलक्षणं भवति। उभयाभिधाने च शब्दास्यातिभार इत्युक्तम्।

उच्यते नेदंतया निर्दिश्‍यमानः शाबलेयादिर्विशेषस्तद्वान्। न च सर्वः त्रैलोक्‍यवर्तिव्यक्ति व्रातः तद्वान्, किन्तु सामान्याश्रयः कश्‍चिदनुल्लिखित— शाबलेयादिविशेषः तद्‍वानित्युच्यते। सामान्याश्रयत्वाच्च नानन्त्यव्यभिचार— योस्तत्रावकाशः। न च विशेषणमभिधाय विशेष्यमभिदधाति शब्द इत्युपगच्छामो, येनैनमतिभारेण पीडयेम। सामान्याश्रयत्वमात्रे सङ्केतग्रहणात् तावन्मात्रं वदतः शब्दस्य कोऽतिभारः? किंच—

प्रत्यक्षं न च निष्कृष्टजात्यंशपरिनिष्ठतम्।
तद्‍गोचरप्रवृत्तश्‍च शब्दस्तत्कथयेत् कथम्॥ ३३॥

युगपन्ननु संवित्तिर्विशेषणविशेष्ययोः।
प्रत्यक्षेऽपि न दृष्टैव न च युष्माभिरिष्यते॥ ३४॥

कार्यकारणभावो हि तद्धियो भवतां मते।
तस्माद् विशेषणे जातौ पूर्वमिन्द्रियजा मतिः॥ ३५॥

पदादपि तदायत्तसम्बन्धज्ञप्‍त्यपेक्षिणः।
तत्रैव बुद्धिरित्येवं न व्यक्तेरपि वाच्यता॥ ३६॥

(न्यायमं.) उच्यते, प्रत्यक्षे तावद्‍द्वयोरपि विशेषणविशेष्ययोः इन्द्रियविषयतासामान्ये संयुक्तसमवायादिन्द्रियं प्रवर्तमानं विशेषणवद्‍‌विशेष्यमपि विषयीकरोति। न च सामान्यं प्रत्यक्षं विशेषोऽनुमेय इति व्यवहारः। एवं हि गुणमात्रग्राहिणीन्द्रिये गुणिनोऽनुमेयत्वं स्यात्। न चैवमस्ति। तस्माद् विशेष्यपर्यन्तं प्रत्यक्षं, तथा पदमपि तत्तुल्यविषयं न सामान्यमात्रनिष्ठमिति युक्तम्। यत्त ‘सामान्यांशादपोद्धत्य पदं सर्वं प्रवर्तते॥ ३७॥ (न्यायमं.) इति केवलव्यक्‍त्यभिधाने सत्यानन्त्यव्यभिचारभयादुच्यते। तद्‍वदभिधाने तु न तदुभयमस्तीति न शुद्धजात्यभिधेयतया शब्दव्यापारः सङ्कोचनीयः।

ननु सर्वात्मना प्रत्यक्षतुल्यविषयश्‍चेच्छब्दः प्रतिपत्तिसाम्यं प्रसजेत ? न च शब्दादिन्द्रियाच्च तुल्ये प्रतिपत्ती भवतः। तदुक्तम्— (वाप. २.४.१९, न्यायमं.)

अन्यथैवाभि(ग्‍नि)संबन्धाद् दाहं दग्धो हि मन्यते।
अन्यथा दाहशब्देन दाहार्थस्संप्रतीयते॥ ३८॥

उच्यते — परिहृतमेतत् सकलविशेषग्रहणाग्रहणाभ्यां प्रतिपत्तिविशेषसिद्धेः। नैतावता सामान्यमात्रनिष्ठः शब्दो भवति। अपि च निष्कृष्टसामान्यांशवचनत्वे गोशब्दाद् गोत्वशब्दाच्च तपल्ये प्रतिपत्ती स्याताम्। गौः शुक्‍ल इतिवच्च गोत्वं शुक्‍लमिति बुद्धिः स्यात्। चातुर्वर्ण्यादिवच्च स्वार्थ एव गोशब्दाद् भावप्रत्ययस्त्वतलादिः स्यात्।

अथ मन्येथाः आक्षिप्‍तव्यक्तिकां जातिं गोशब्दो वक्ति, भावप्रत्ययान्तस्तु निष्कृष्टामिति, तदनुपपन्नम्; अनाक्षिप्‍तव्यक्तिकायाः क्‍वचिदपि जातेरदर्शनात्। अथ गोशब्दश्रवणवेलायां न व्यक्तिसंस्पर्शशून्या जातिरवगम्यते। भावप्रत्ययान्ते तु गोशब्दे श्रुते तच्छून्या शुद्धासौ प्रतीयत इति।

यद्येवमागतोऽसि मदीयं पन्थानम्, आश्रयवती चेज्जातिरुच्यते जात्याश्रय उक्त एव भवति; नान्यथा हि साश्रयवत्युक्ता स्यात्। तदाश्रयपरिहारेणाश्रयिसामान्य— मात्रविवक्षायां त्वतलादयः प्रयुज्यन्ते। तथा चाहुः ‘यस्य गुणस्य हि भावाद्‍द्रव्ये शब्द— निवेशस्तदभिधाने त्वतलौ’ (मभा. ५.१.११९) इति। गुणस्य भावाद्‍द्रव्ये शब्दनिवेश इत्यस्मत्पक्षसाक्षीण्यक्षराणि। सामानाधिकरण्यं च तत्रैवोपपद्यत इत्युक्तमेव। तस्मात्

यथा विध्यन्तपर्यन्तो वाक्‍यव्यापार इष्यते।
तथैव व्यक्तिपर्यन्तः पदव्यापार इष्यताम्॥ ३९॥

(न्यायमं.) अनुपरतव्यापार एव शब्दे तदवगमात्—(न्यायमं.)

येनान्विताभिधानं च पदानामभ्युपेयते।
सुतरां तेन वक्तव्या व्यक्‍त्यन्तं तावतो मतिः॥ ४०॥

न हि व्यक्त्यनपेक्षाणां जातीनामितरेतरम्।
अन्वयोऽनन्वितानां च नाभिधानमिति स्थितिः॥ ४१॥

गङ्गायां घोष इत्यादौ यथा सामीप्‍यलक्षणा।
नैवं गौश्‍शुक्‍ल इत्यादौ विद्यते व्यक्तिलक्षणा॥ ४२॥

प्रयोगप्रतिपत्तिभ्यां वृद्धेभ्योऽध्यवसीयते।
तस्माद् गवादिशब्दानां तद्‍वानर्थ इति स्थितम्॥ ४३॥

सर्वेषु च प्रयोगेषु गां दोग्धीत्येवमादिषु।
तद्वतोऽर्थक्रियायोगात् तस्यैवाहुः पदार्थताम्॥ ४४॥

पदं तद्‍वन्तमेवार्थमाञ्जस्येनाभिजल्पति।
न च व्यवहिता बुद्धिर्न च भारस्य गौरवम्॥ ४५॥

सामानाधिकरण्यादिव्यवहारश्‍च मुख्यया।
वृत्त्योपपद्यमानस्सन्नन्यथा योजयिष्यते॥ ४६॥

तदिदमुक्तं भगवताक्षपादेन, ‘व्यक्त्याकृतिजातयस्तु पदार्थ’ (न्यायसू. २.२.६५) इति। तुशब्दो विशेषार्थः; किं विशेष्यते? गुणप्रधानभावस्यानियमेन शब्दार्थत्वम्। अतः स्थितेऽपि तद्वतो वाच्यत्वे क्‍वचित्प्रयोगे जातेः प्राधान्यं व्यक्तेरङ्गभावः, यथा गौः पदा न स्प्रष्टव्येति सर्वगवीषु प्रतिषेधोऽवगम्यते। क्वचिद्‍व्यक्तेः प्राधान्यं जातेरङ्गभावः, यथा गां मुञ्च गां बधानेति नियतां कांचिद्‍व्यक्तिमुद्दिश्‍य प्रयुज्यते। क्‍वचिदाकृतेः प्राधान्यं व्यक्तेरङ्गभावः, जातिस्तु नास्त्येव। यथा पिष्टमय्यो गावः क्रियन्तामिति, तत्सन्निवेशचिकीर्षया प्रयोग इति। गुणशब्दास्तु केचित् स्वजात्यवच्छिन्नं गुणमभिधाय तावत्येव विरमन्ति। केचित्तु ‘गुणमभिधाय द्रव्यमप्याक्षिपन्ति।’ तत्सामानाधिकरण्ये प्रयोगदर्शनात्। तद्यथा—

गुणैकनियतास्तावद् गन्धरूपरसादयः।
गन्धत्वादिव्यवच्छिन्नगन्धादिगुणवाचिनः॥ ४७॥

तेषां न द्रव्यपर्यन्ता वृत्तिः क्‍वचन दृश्‍यते।
न गन्धः पद्ममित्यस्ति सामानाधिकरण्यधीः॥ ४८॥

गुणं शुक्‍लादिशब्दास्तु कथयन्तस्तदाश्रयम्।
द्रव्यमप्याक्षिपन्त्येव शुक्‍लोऽश्व इति दर्शनात्॥ ४९॥

क्रियाशब्दास्तु विविधाः केचित्कर्तरि कर्मणि।
करणे च प्रयुज्यन्ते केचिद्भावेऽवधावपि॥ ५०॥

कर्त्रादिवचनास्तावन्निमित्तीकृत्य कांचन।
क्रियां तद्योगिनि द्रव्ये वर्तन्ते पाचकादयः॥ ५१॥

यत्रापि तत्क्रियायोगस्तदानीं नोपलभ्यते।
तत्रापि योग्यतां दृष्ट्वा शब्दं सन्तः प्रयुञ्जते॥ ५२॥

अन्ये पूर्वापरीभूतस्वभावपरिहारतः।
सिद्धरूपतया प्राहुः शूब्दाः पाकादयः क्रियाम्॥ ५३॥

अन्यत्प्रवृत्तौ शब्दस्य निमित्तमवगम्यते।
अभिधेयं ततश्‍चान्यदित्ययं प्रथमः क्रमः॥ ५४॥

पाचकादिशब्दांनां हि प्रवृत्तिनिमित्तं क्रिया। अभिधेयास्तु कर्त्रादयः।

क्‍वचित् पुनर्यदेवास्य स्यात् प्रवृत्तिनिबन्धनम्।
तस्यैव वाच्यता भावप्रत्ययान्तपदेष्विव॥ ५५॥

इतीयं लेशतस्तावन्नाम्‍नां वृत्तिरुदाहृता।
आख्यातानां तु वाच्योऽर्थः पुरस्तादुपवर्णितः॥ ५६॥

उपसर्गनिपातानां नाम्‍नामप्यविभागतः।
प्रयोगप्रतिपत्तिभ्यामनेकोऽर्थोऽवगम्यते॥ ५७॥

उपसर्गवशाद्‍धातुरर्थान्तरविलासकृत्।
विहाराहारसंहारप्रहारपरिहारवत्॥ ५८॥

अन्वयव्यतिरेकाभ्यां तदर्थोऽभ्यवगम्यते।
तदागमे तत्प्रतीतेस्तदभावे तदग्रहात्॥ ५९॥

अयमस्य पदस्यार्थ इति किं चिन्तितेन वा।
योऽर्थः प्रतीयते यस्मात् स तस्यार्थ इति स्थितिः॥ ६०॥

(न्यायमं.) (१२. वाक्‍यार्थः)

वाक्‍यार्थस्त्रिधा — १. भावना, २. विधिः, ३. प्रतिभा च।

(१. भावना)

तत्रन्योत्पादानुकूलो भवन्तं प्रयुञ्जानः पुरुषव्यापारः करोत्यर्थो भावनेत्युच्यते।

अनवच्छिन्नश्‍चानुष्ठातुमशक्‍य इति सान्निध्यात् समानपदोपात्तं धात्वर्थ— मवच्छेदकत्वेनापेक्षते। स चौदनं पचतीत्यादौ समानपदोपात्तत्वेऽप्ययोग्यत्वेन साध्यत्वात् प्रच्युतः करणांशोऽभिनिविशमानः प्रधानक्रियामोदनफलिकां निष्पादयति। करणं च केवलमसाधकतमत्वात् क्‍वचिदपि क्रियां निष्पादयन्नोपलब्धम्। अतस्तत्साधकतमत्वसिद्धये काष्ठादीतिकर्तव्यतानुप्रवेशः, फलानुप्रवेशस्तु तदुद्देशेनैव भावनायाः प्रवृत्तेः। अतः फलकरणेतिकर्त्तव्यतावच्छेदात् किं केन कथमित्यपेक्षिणी त्र्यंशपरिपूर्णा भावना भवति। तत्र देवदत्तः काष्ठैः स्थाल्यामोदनं पचतीत्यादौ ओदनं फलं, पाकः करणं, काष्ठादिकारकचक्रमितिकर्तव्यता इति। तदुक्तम् —

ओदने साध्यमाने हि पाकः करणमिष्यते।
स्थाल्यग्‍निचुल्लीकाष्ठानामितिकर्तव्यता मता॥ ६१॥

स च प्रयत्‍नपरिस्पन्दात्मौदासीन्यप्रच्युत्युपलक्ष्यमाणः पुरुषव्यापारः करोत्यर्थो भावना। कथं तर्हि काष्ठानां करणत्वम्? धात्वर्थस्य क्रियात्वात्; भावनायां तु धात्वर्थस्य करणत्वात्; करणविभक्‍त्युपादाने च प्रधानान्तरेण सम्बन्धायोगात्।

उच्यते— ‘भावनासंबन्धाद्‍धात्वर्थोऽपि पूर्वापरीभूतो भावनात्मावगम्यत’ इति तदपेक्षया काष्ठानां करणत्वम्। अतः स्थितमेतत्— ‘त्र्यंशपरिपूर्णा भावना वाक्‍यार्थ’ इति।

(२. विधिः)

प्रवृत्तिनिवृत्त्योर्विधायकोऽर्थवादादिभिरुपक्रियमाणो लिङ्लोट्तव्यादिवाच्यः शब्दव्यापारो विधिः।

तेन हि भावनायां पुरुषः प्रवर्त्यते निवर्त्यते वा। यथा यावज्जीवमग्‍निहोत्रं जुहुयात्, ब्राह्मणं न हन्यात्, प्रैषाननुब्रूहि, मापभाषस्व होतुः, अष्टकाः कर्तव्याः (शाभा. १.३.१), सुरा न पातव्या, पितरो वन्दनीयाः, गुरवो नावमान्याः, शिवं ते भूयात्, मा त्वा श्‍येन उद्‍वधीदिति। स च सर्ववाक्‍यानामर्थः; सर्वं हि वाक्‍यं विधि /?/निषेधयोरेव पर्यवस्यति। यत्रापि च लिङादयो न श्रूयन्ते तत्रापि विधिनिषेधपरतया सर्ववाक्‍यानां वाक्‍यशेषभूतास्तेऽवगम्यन्ते। तद्यथा— ‘इह देशे सुभिक्षमित्युक्तेऽत्रैव स्थातव्यं, मध्याह्नो वर्तत इत्युक्ते इहैव भोक्तव्यं, सचोरः पन्था इत्युक्ते न गन्तव्यं, ग्राहाः सरित्यस्यामित्युक्ते न स्‍नातव्यमिति प्रतीयते। किं च महाकाव्यैरपि रामायणादिभिरिदमेव व्युत्पाद्यते— ‘रामस्य पितुराज्ञां पालयतो वननिवासिनोऽपि तथाविधोऽभ्युदयः संवृत्तः, रावणस्य परदारानभिलष्यतस्त्रैलोक्‍यविजयिनोऽपि तथाविध उच्छेदः; तस्मात् पितुराज्ञां पालयेत्, परदारान्नाभिलष्येत्, रामवद् वर्तेत न रावणवदिति।

नन्वाख्यातवाच्यत्वेन भावनैव विधिरित्युक्तं भवति। कथं च तत्रैव तस्य प्रवर्तकत्वं, स्वात्मनि क्रियाविरोधात्? तन्न, शब्दार्थभेदेन भावनाया द्वैविध्यात्। तदुक्तम्—

अभिधाभावनामाहुरन्यामेव लिङादयः।
अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते॥ ६२॥ (त.वा. २.१.१)

तत्र शब्दभावना प्रेरणात्मिका शब्दस्याभिधेया विधेया च। तदुक्तम्— ‘अभिधत्ते करोति च’ इति। सा त्वर्थभावनांशद्वयविषया, न फलांशविषया। तदुक्तम्—

फलांशे भावनायाश्‍च प्रत्ययो न विधायकः।
अभिदध्युः स्वशक्‍त्या हि विधिमात्रं लिङादयः॥ ६३॥

(त.वा.२.१.१) तस्याश्‍च ‘किं केन कथम्’ इत्यपेक्षायामर्थभावनाविषया पुरुषप्रवृत्तिः फलांशः, प्रेरणाज्ञानं करणांशः, अर्थवादादय इतिकर्तव्यतांश इति त्र्यंशपरिपूर्णत्वम्; सा च फलकरणयोः साध्यसाधनभावमज्ञातं गमयन्ती गमकत्वात् प्रमाणं भवति। ननु च

विधिलक्षणमेतावदप्रवृत्तप्रवर्तनम्।
अज्ञातज्ञापनं ह्येवं सर्वोऽपि हि विधिर्भवेत्॥ ६४॥

(न्यायमं.) तथा हि— (श्‍लोकवा. ५.१२—१३)

साध्यसाधनसम्बन्धः सर्वाख्यातेषु विद्यते।
सर्ववाक्‍येषु चाख्यातं तेनाकाङ्क्षानिवर्तनात्॥ ६५॥

न च साध्यसाधनभावावगममन्तरेण प्रवर्तकत्वं न सिद्ध‍यतीति साध्य— साधनभावावगतिरवश्‍यकल्पनीया। प्रेरणाज्ञानजनकत्वेनैवास्य प्रवर्तकत्वात्। किमित्यसौ निष्फले व्यापारे प्रवर्तत इति चेद्, विधित एतेति ब्रूमः। स हि सफले निष्फले वा व्यापारे पुरुषं प्रवर्तयत्येव। यच्च पुरुषेष्वप्रवर्तमानेष्वपि प्रामाण्यं तदपरिहार्यमेव। कल्पिते हि फले वैषयिकसुखद्वेषिणो वीतरागा न प्रवर्तन्ते, प्रवृद्धतररागास्तु न निवर्तन्त इति (न्यायमं.)।

उच्यते ‘यजेत स्वर्गकाम’ इत्यादौ विधिर्भावनायां पुरुषं प्रवर्तयति। भाव्यनिष्ठस्वभावको व्यापारो भावना। सा च साध्यादिस्वरूपरित्यक्ता निरुपपत्तिकैव स्यात्। साध्यत्वं च समानपदोपादानसन्निधिवशाद् धात्वर्थस्याहोस्विदिष्यमाणतया कामिपदोपात्तस्य स्वर्गादेः स्यादिति संशये योग्यत्वात् स्वर्गस्यैव, न धात्वर्थस्येति। तदुक्तम्— (श्‍लोकवा. ५.१४—१५)

विधावनाश्रिते साध्यः पुरुषार्थो न लभ्यते।
श्रुतस्वर्गादिबाधेन धात्वर्थः साध्यतां व्रजेत्॥ ६६॥

विधौ कृतमतिक्रम्य स्वर्गादेः साध्यतेष्यते।
तत्साधनस्य धर्मत्वमेवं सति च गम्यते॥ ६७॥

धर्मे ह्यदृष्‍टविषये चोदनैव प्रमाणम्। चोदनैव हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं वाऽर्थमवगमयितुं शक्नोति, नान्यत् किंचनेन्द्रियमिति (शाभा. १.१.२) एतेनापौरुषेयत्वेन यथार्थप्रतिपादकाप्‍तप्रणीतत्वेन वा निरस्तदोषांशस्य बाधकप्रत्यय— रहितस्य वैदिकस्य लौकिकस्य च वाक्यस्यौत्सर्गिकं प्रामाण्यमुक्तं भवतीति विधिर्वाक्यार्थ इति।

(३. प्रतिभा)

स्वं स्वमर्थमभिधायोपरतेषु पदेषु पदार्थप्रतिपत्त्यनन्तरमुपजायमाना इदं तदिति अव्यपदेश्यानुपदेशसिद्धा हिताहितप्राप्‍तिपरिहारहेतुः प्रवृत्त्यनुकूला बुद्धिः प्रतिभा।

तथा हि— पदनिबन्धनानां पदावयवनिबन्धनानां च अर्थप्रत्यवभासमात्राणां विच्छेदेन प्रवृत्तौ पदार्थैः क्रमेण गृह्यमाणैराहितसंस्कारासु बुद्धिषु सर्वार्थप्रत्यवभास— संसर्गानुगृहीता प्रत्यस्तमितभेदप्रत्यवभासा प्रवृत्तिफलप्रसवानुमेयाभिन्नजातीयैव प्रतिभा प्रत्यात्मं विवर्तते। यथा मन्दविषरसादिषु भिन्नानां द्रव्याणां पूर्वमदृष्‍टांशसंसर्गात् प्राप्‍तपरिपाकानां मदमरणसुवर्णादिरर्थक्रिया दृश्यते, तथा प्रतिपदं भिन्नानां शब्दानामुच्चारणेष्वदृष्‍टा, पुनः क्रमेणाविच्छिन्नानामुच्चारणे तासु तासु इतिकर्तव्यतास्वनुकूला प्राणिनां प्रतिभोपजायमाना दृश्यते। अयं च अस्या भावनादिभ्यो विशेषः। यावत् किमत्र मया कथितं प्रतिपन्नमर्थरूपं वा परेण कथमनुसन्धीयत इति न विचार्यते, तावदनाख्येयेन उपायेन पूर्वोत्तरानुसन्धानमेषां प्रकल्पयति। प्रत्यक्षानुमानविषयेऽपि यावत् पूर्वापरप्रत्यवमर्शः शब्दोल्लेखवान् प्रतिभया न क्रियते, तावत् प्रत्यक्षमनुमानं वा स्वकार्यं न प्रसाधयति। प्रतिभोपगृहीतानि सर्वप्रमाणानि प्रमाणतां लभन्ते।

प्रतिभालोचनो हि लोक इतिकर्तव्यतासु प्रवर्तते॥ ६८॥

ननु च न प्रतिभा वाक्यार्थः, यतो बालानां स्तन्यपानादिषु, हंसानां क्षीरनीरविवेचने, जन्त्वादीनां कुलायादिकरणे, जातमात्राणामेव पशुमृगसरीसृपा— दीनामुदकसन्तरणे, सुप्‍तानां च प्रबोधादौ, कुमार्याश्‍च श्वो मे भ्राता आगमिष्यतीति ज्ञाने स्वभावतो वाक्यश्रवणमन्तरेणापि प्रतिभोपजायमाना दृश्यते। तथा कालविशेषात् पुंस्कोकिलानां स्वरविकारे, अभ्यासविशेषात् रत्‍नादि परीक्षकाणां तद्दोषगुणज्ञाने, अदृष्‍टाद् रक्षःपितृपिशाचादीनां परावेशान्तर्धानादौ, योगाद् योगिनां पराभिप्रायावगतौ, बाह्येन्द्रियवृत्तिनिरोधाद् वसिष्‍ठादीनामतीन्द्रियज्ञाने, कृष्णद्वैपायनाद्यनुध्यानात् सञ्जयादीनां दूरदर्शनश्रवणादौ, कारणान्तरेभ्योऽपि प्रातिभमुपलभ्यते।

उच्यते— यथैव साक्षात् पुरुषोपदिष्‍टवाक्यादर्थक्रियासु शब्दव्यापारेणोपसंहृता प्रतिपत्तॄणां प्रतिभा विवर्तते, तथैव बालादीनां स्तन्यपानादिषु पूर्वशब्दभावनानुगमाद् वाक्यार्थप्रतिपत्तृभिरविशिष्‍टैव प्रतिभोपजायते। येषामपि च अप्रसिद्धशब्दनिबन्धनो व्यवहारः, तेऽपि हस्त्यश्वादयोऽपि जन्मान्तरीयशब्दभावनावशात् प्रत्युत्पन्नशब्दप्रत्ययाः प्रतिभामनुगच्छन्तः सर्वमारभन्ते। पूर्वशब्दभावनानुगमाच्च स्वबीजानामाभिमुख्येऽपि प्रकृष्‍टशब्दव्यापारे कोकिलादीनां स्वरविकारादौ प्रतिभोपजायते। पूर्वजन्मजनित— शब्दश्रवणसंस्कारोद्‍बोधकानि त्वन्यानि कालाभ्यासादृष्‍टयोगध्यानानुध्यानादीनि साधनानि (वाप. २.१५२)। इयांस्तु विशेषः — ‘क्‍वचित् वाक्यमुच्चरितमात्रमेव तमव्यपदेश्यमसत्त्वभूतं प्रतिभापदाभिधेयं स्वार्थं प्रकाशयति। क्‍वचित्तु चिरव्यवहितमपि विशिष्‍टप्रतिभाबीजभावनानिवेशान्नमित्तान्तरसान्निध्ये तदेव वाक्यं परम्पर्येण प्रतिभाख्यं स्वार्थमाविर्भावयतीति प्रतिभा वाक्यार्थ इति॥

(क्रियायाः पदार्थत्वं भावनायाश्‍चापदार्थत्वम्)

ननु च क्रियापि नाम वाक्यार्थो विद्यते, सोऽपि वक्तव्यो भवति।

नैवम्। पदार्थः क्रिया, न वाक्यार्थः। पदार्थानां तु मिथाः संसर्गे यदाधिक्यमुपजायते स वाक्यार्थः। तदाह—(मभा. २.३.४६) ‘यदत्राधिक्यं वाक्यार्थः स’ इति। स कदाचित् पुरुषव्यापाररूपो भावनेति, कदाचित् शब्दव्यापाररूपो विधिरिति, कदाचिद् बुद्धिव्यापाररूपः प्रतिभेति।

ननु च भावनापि पदार्थ एव धातोर्वा प्रत्ययाद् वा गम्यमाना पदार्थत्वं न व्यभिचरति।

अथैवमुच्यते — न पदार्थमात्रं भावना, अपि तु परिदृश्यमानपूर्वापरीभूत— विध्यादिभावार्थस्वरूपातिरिक्तः पुरुषव्यापारः, सोऽपि ‘धातुवाच्यत्वे प्रत्ययवाच्यत्वे वा न पदार्थत्वमतिक्रामति’ (न्यायमं.)।

उच्यते— ‘यजेत’ इत्यादौ प्रकृत्यर्थः क्रियारूपो यागादिः, प्रत्ययार्थः प्रेरणारूपो विध्यादिः, न चैतदतिरिक्तो भावनाख्यः कश्‍चिदपि पुरुषव्यापारो दृश्यते। न च भावनावाचिनीं काञ्चिदपि विभाक्ति लिङादिमिव विध्यादौ स्मरति पाणिनिः। मैवम्—

आस्तां विधिपदं तावद् वर्तमानापदेशिनः।
शब्दाद् यजन इत्यादेर्भावना सावगम्यते॥ ६९॥

(न्यायमं.) पचत इत्यादेर्हि यथा पाकादिर्धात्वर्थः प्रतीयते तथा कर्तृव्यापारः करोत्यर्थोऽपि, पाकाद्युपरञ्जकाभावेऽपि१ तत्प्रतीतेरनपायात्। यथा हि औपगवः, कापटवः, औपमन्यव इति उपगुप्रभृतीनामावापोद्वापयोरपि ‘तस्यापत्यम्’ (४.१.९२) इति प्रत्ययार्थोऽनुवर्तते, तथा पचति, पठति, गच्छतीत्यादावपि करोत्यर्थोऽनुवर्तमानो दृश्यते। तथा हि— यदा पचतीत्याख्यातपदस्य पदार्थो व्याचिख्यासितो भवति, तदा पाकं करोतीति वाक्यं व्याख्यातारः प्रयुञ्जते। तत्र पाकशब्देन द्वितीयान्तेन साध्यं प्रकृत्यर्थं कर्तृव्यापारं२ तु करोतीति पदेन व्याचक्षते। अपि च, किं करोति देवदत्त इति पृष्‍टास्सन्तो द्वये वक्तारो भवन्तिपचती’ति, पाकमिति। तदिदमुभयरूपमप्युत्तरमेकार्थम्, अन्यथा न तेन प्रष्‍टा प्रत्याय्येत। तस्मात् पाकं करोतीति पदद्वयस्य योऽर्थस्स एव पचतीत्येकपदस्येति।

आह— न प्रत्ययात् कर्तृसड्ख्याव्यतिरेकेण धात्वर्थातिरिक्तो व्यापारः प्रतीयते, प्रतीयते चेत् करोतीत्यत्रापि प्रतीयेत। तदुक्तम्—

यथा पाकं करोतीति व्यवहारो विभागतः।
तथा कारं करोतीति प्रतीतिर्नास्ति लौकिकी॥ ७०॥

(न्यायमं.) तस्याः किं बीजमिति चेत् कृभ्वस्तीनां क्रियासामान्यवचनत्वम्। न च सामान्ये सामान्यानि भवन्ति, यथा हि यजेत दद्याज्जुहुयादिति करोतिसामान्यमवगम्यते नैवमस्ति भवतिकरोतीति।

ननु च कथं करोत्यर्थः करोतिशब्दान्नावगम्यते?

न नावगम्यते; किंतु यागादिविशेषानवच्छिन्नो नानुष्‍ठानयोग्यो भवति।

एवं तर्हि मा भूत् प्रत्ययार्थो भावना। प्रकृत्यर्थो भविष्यति। यथा हि शाबलेयादीनामनुगतं गोरूपमवभासते व्यावृत्तं च शाबलेयादिरूपम्, एवं यागादिकर्मणामनुगतं व्यापाररूपमवभासते। परस्परविभक्तं च यागादिरूपम्। तत्र यदनुगतं करोतिसामान्यं सा भावना, यद् व्यावृत्तं यागादिकं स धात्वर्थः। यथा च शाबलेयादेः पृथग्दर्शयितुं गोत्वमशक्यमेवं भावनापि यागादेः पृथग्दर्शयितुं न शक्यते। १. रञ्जकाभावे = रञ्जकाद्युपजनाभावे राघवः। २. कर्तृव्यापारो प्रत्ययार्थं इति राघवः। तदुपरक्तत्वेन सर्वदोपलम्भात्। न चैतावतासौ नास्ति, नास्तितायां हि तस्याः किं करोतीति अनवगतविशेष्य(ष)व्यापारप्रश्‍ने पचति पठतीत्युत्तरमनुत्तरमेव भवति। किंच— औदासीन्यदशायां तु पुमान् येन प्रवर्तते।
स यत्‍नो यागहोमादौ भावनेत्यभिधीयते॥ ७१॥

सा च सामान्यरूपापि न गोत्वादिवत् क्रियात्ववद् वा सिद्धतयावभासते, येन विधेया न भवति। यद्येवम्—

क्रियाविशेष एवासौ व्यापारो व्यापारो ज्ञातुरान्तरः।
स्पन्दात्मकबहिर्भूतक्रियाक्षणविलक्षणः॥ ७२॥

(न्यायमं) क्रियायाश्‍च पदार्थत्वमिष्यत एव। ननु च पदार्थत्वेऽपि क्रियाया वाक्यार्थत्वमेव न्याय्यम्।

यतः पदार्था वाक्यार्थभावमायान्ति संहताः।
अपेक्षानुगुणान्योन्यव्यतिषङ्गविशेषिताः॥ ७३॥

(न्यायमं.) व्यतिषङ्गश्‍च प्रधानगुणभावे भवति।

साध्यं च साध्यमानत्वात् प्रधानमवगम्यते।
क्रियातो नापरं तच्च वाक्यार्थोऽतः क्रियेष्यताम्॥ ७४॥

यजेत दद्याज्जुहुयादधीयीतेति चोदितः।
क्रियां साध्यतया वेत्ति तां च लोकोऽनुतिष्‍ठति॥ ७५॥

(न्यायमं.) यच्चाधिकारिपदं स्वर्गकाम इत्यादि तदपि भावनापेक्षितकर्तृसमर्पकत्वेन सङ्गच्छते। अस्यां क्रियायामयं कर्ता, अनेनैषा क्रिया संपाद्येति। न चात्र क्रिया प्राधान्यमुज्झति। न हि क्रिया कर्त्रर्था (न्यायम), कर्ता तु क्रियार्थः, स हि तां निर्वर्तयन्नुपलभ्येत। शब्दोऽपि तथैवोपदिशति एष इदं कुर्यादिति। किमर्थं पुनरसौ क्रियामनुतिष्‍ठतीति चेत् शब्दादेवेति ब्रूमः।

बुद्‍ध्वेदमेव भगवान् ददर्श खलु बादरिः।
न द्रव्यगुणसंस्कारव्यतिरिक्तोऽस्ति शेषता॥ ७६॥

(भा.वि.) वेदाद् गुरुनियोगाद्वा शासनाद्वा महीभुजः।
न सचेताः क्रियां कांचिदनुतिष्‍ठति निष्फलाम्॥ ७७॥

(न्यायमं.)
अथोच्यते ‘शब्दप्रमाणका वयं यच्छब्द आह तदस्माकं प्रमाणम् (मभा.पस्प.)। तर्हि स्वर्गकामपदमपि शब्द एव, तस्याप्यत्रान्वयो वक्तव्यः (न्यायमं.)।

ननु च कर्तृपदमेकं कर्ता च क्रियार्थ इति।

नैवम्। न कर्तृपदं स्वर्गकाम इति, अपि त्वधिकारिपदम्। स्वर्गे कामोऽस्य स्वर्गं वा कामयते, स्वर्गकामनाविशिष्‍टः पुरुषोऽस्मात्पदादवगम्यते। तदत्र काम्यमानः स्वर्गः कथं योगक्रियया सम्बध्यते ? स्वर्गस्य निरतिशयप्रीतिरूपत्वात्, न प्रीतिरद्रव्यत्वात् क्रियाङ्गभावं भजते। न च प्रीतेः क्रियार्थत्वमुपपद्यते। प्रीत्यर्थमन्यद्, नान्यार्था प्रीतिरिति। एवं च क्रियासाधनानुपदेशात् न कर्तृसमर्पकत्वेन स्वर्गकामपदसमन्वयः, अपि त्वधिकारिसमर्पकत्वेन।

अथ कोऽयमधिकारी नाम?

कर्मणः स्वामी। ननु च कर्तैव कर्मणः स्वामी।

नैवम्, स्वामी सन् कर्ता, न कर्ता सन् स्वामी।

ननु क्रियाकारकसंबन्धव्यतिरेकेण कोऽन्यः कर्मणः पुरुषस्य च सम्बन्धः?

उच्यते— ममेदं कृत्यम् अहमत्र स्वामीति स्वस्वामिभावमशक्यम् (अवगत्य) पाश्‍चात्त्यक्रियाकारकसम्बन्धो गम्यते।

पाश्‍चात्त्य इत्यत्र किं प्रमाणमिति चेत् अनुपादेयविशेषणविशिष्‍टस्य पुंसो निर्देशस्तस्मादधिकृतस्य कर्तृत्वं, कर्तुरधिकार इति। इत्थं च स्वर्गकामस्याधिकारो निर्वहति। यदि तत्कर्म स्वर्गकामं स्यात् स्वर्गोऽपि भोग्यो भवेत्। कथमहं स्वर्गं प्राप्नुयामित्येवं साध्यत्वेन स्वर्गमिच्छन् स्वर्गकाम उच्यते। यदि च न स्वर्गसाधनं कर्म स्यात् तद्विरुद्धमिदमापतति स्वर्गं कामयते यागं करोति, अन्यदिच्छत्यन्यत्करोतीति। अतः कर्मणि काम्यमाने साधनताम् (अ)प्रतिपद्यमानः स्वर्गकामस्तत्र नैवाधिक्रियते। न चानधिक्रियमाणस्तत्र सम्बध्यते। तदेवमधिकृतत्वेन स्वर्गकामस्य कर्मणि सम्बन्धात् स्वर्गयागयोश्‍च साध्यसाधनभावावगममन्तरेणाधिकास्यानिर्वाहाद् अवश्यं क्रियायां साधनत्वं स्वर्गस्य च साध्यतवमभ्युपगन्तव्यम्। अतश्‍च क्रियायाः फलं प्रति गुणभावादप्राधान्यम्, अप्राधान्याच्च न वाक्यार्थत्वम्। तदुक्तम् “कर्माण्यपि हि जैमिनिः फलार्थत्वाद्” इति। का चेयं क्रिया? वाक्यार्थ इत्युच्यते य एष यागादिर्भावार्थो धातुवाच्यः, उत प्रत्ययार्थः, कश्‍चिदतिरिक्त इति। तत्र भावार्थस्य काम्यमानसाधनत्वादप्राधान्यमुक्तमेव। प्रत्ययार्थस्तु काम्यमानभावार्थगतसाध्यसाधन— सम्बन्धापरित्यागेनैव वाक्‍यार्थतां प्रतिपद्यते। तस्मान्न क्रियामात्रपर्यवसायी वाक्‍यार्थ इति।

किमिदानीं फलस्यैव वाक्‍यार्थत्वं प्रचक्ष्महे।
तद्धि प्रधानं साध्यं च तदर्थो ह्यखिलः श्रमः॥ ७८॥

नैवम्; यथा क्रियायाः फलार्थत्वादप्राधान्यम् एवं फलस्यापि पुरुषार्थत्वात्। न हि स्वर्गः स्वतन्त्र एव सत्तां लभतामिति पुरुषो यतते, अपि तु स्वोपभोग्यतयैनमभिलषति। तदाह — “फलं च पुरुषार्थत्वात्” (मीसू. ३.१.५)।

तर्हि पुरुष एव वाक्‍यार्थो भवतु।

नैवम्; ‘यजमानेन संमितौदुम्बरी भवति’ इति तस्यापि क्रियाङ्गत्वात्। तदाह ‘पुरुषश्‍च कर्मार्थत्वात्’ इति (मीसू. ३.१.६)। हन्तैवं क्रिया फलार्था, फलं पुरुषार्थं, पुरुषः क्रियार्थ’ इति चक्रके पतिताः कस्य प्राधान्यं शिष्मः?

उच्यते— पुरुषस्तावन्न वाक्‍यार्थः, पदार्थानां मिथः संसर्गेऽपि अव्ययकारक— विशेषणार्थोपगृहीतस्याख्यातार्थस्यैव प्राधान्येन वाक्‍यार्थत्वात्।

ननु चाख्यातेऽपि यजेतेत्येवमादौ कर्तर्येव लकारः?

मैवम्; कोऽयं लकारो नाम?

सिद्धं हि साध्यायोपादीयत’ इति प्रत्ययार्थोऽपि कर्ता प्रकृत्यर्थे क्रियायामेव न्यग्भवति। फलमपि न वाक्‍यार्थः सिद्धासिद्धविकल्पानुपपत्तेः। सिद्धस्य तावत् फलस्याभिधानमेव नास्ति, काम्यमानत्वेन निर्देशात्।

साध्यमानत्वपक्षे तु साक्षात् तत्सिद्धयवेदनात्।
व्यापार एव तन्निष्ठो वाक्‍यार्थ इति युज्यते॥ ७९॥

अत एव हि वाक्‍यार्थं भावनां प्रतिजानते।
यथोचितफला मंशत्रयसम्बन्धबन्धुराम्॥ ८०॥

(श्‍लोकवा.) भाव्यनिष्ठो हि भावकव्यापारो भावनेति।

सैष द्वादशभेदोऽर्थः क्रियादिः प्राक्‍प्रकीर्तितः।
वाच्यो विशेष्यः शब्दस्य प्रत्याय्यो ह्यभ्युपेयते॥ ८१॥

न चैतद्‌वाच्यं— ‘वाक्‍यस्यैव प्रत्यायकत्वं न पदानां, यतो यथा गुडशब्दो गुडद्रव्यमभिधत्ते तथा प्रत्याययत्यपि तदविनाभावि माधुर्यम्। यदि वा पदान्येव संहत्यार्थमभिदधति वाक्‍यम् (शाभा. ३.३.१४), आख्यातशब्दो वाक्‍यम्, पदसङ्घातो वाक्‍यमित्यपि दर्शनानि विद्यन्ते। क्रियादयश्‍च पदार्थ एवान्तर्भवन्ति। तथा हि— धात्वर्थः क्रिया, तां कालो विशिनष्टि, प्रत्ययार्थः कारकम्, तत् पुरुषो विशेषयति। तस्योभयस्याप्युपाधयोऽवच्छेदका भवन्ति। सम्भूय प्रकृतिप्रत्ययौ प्रत्ययार्थं ब्रूतः। यं तं प्रधानमामनन्ति स भेदाभेदाभ्यामुपस्कारार्थविशिष्टप्रातिपदिकार्थव्यपदेशं लभते। तस्य शक्तिसङ्ख्याभिव्यक्तये विभक्तिः, तदन्तं पदं, पदानामपदानां च सामर्थ्ये वृत्तिः, वृत्तानामपि च कृत्तद्धितसमासानां पुनः प्रातिपदिकसंज्ञायां सुबुत्पत्तेः पदसंज्ञेति।

वाक्‍यं पुनरखण्डवाक्‍यार्थपक्षे वाचकमपि भवति। तत्र शब्दस्यार्था— भिधानसामर्थ्यं वाचकता। सा त्रिधा—मुख्या, गौणी, लक्षणा च। यथा गौर्गच्छति, गौर्बाहीकः, गोषु निवसतीति। आसां च विशेषान् विशेषेणाग्रतो वक्ष्यामः। तेषु प्रबुद्धेषु प्रबुद्धाप्रबुद्धैः प्रसिद्धपदसामानाधिकरण्योपदेशवृद्धव्यवहारेभ्योऽधिगतेषु संज्ञासंज्ञिसम्बन्धबलेन शब्दस्तटस्थ एव गोत्वमर्थं प्रत्याययति। तदाहुः—

प्रसिद्धपदसामानाधिकरण्यात् प्रतीयते।
अप्रसिद्धपदस्यार्थश्चूते रौति पिको यथा॥ ८२॥

तथा हि रौति यश्चूते पिकः स इति निश्‍चयः।
उपदेशाद् यथार्थोऽयं पनसाख्यः प्रकाशते॥ ८३॥

व्यवहारात् तु शब्दार्थसम्बन्धस्त्रिप्रमाणकः।
वृद्धशब्दाभिधेयानि प्रत्यक्षेणात्र पश्‍यति॥ ८४॥

श्रोतुश्‍च प्रतिपन्नत्वमनुमानेन चेष्टया।
अन्यथानुपपत्तौ च वेत्ति शक्तिं द्वयाश्रयाम्॥ ८५॥

(श्‍लोवा. प्रत्य. १४०, ४१इति)

स्वावच्छेदेन विशिष्टज्ञानजनकता विशेषणत्वम्। तत् त्रिधा भेदकमनु— रञ्जकमुपलक्षकं च। यथा विश्वजिता यजेत, श्वेतं छागमालभेत, लोहितोष्णीषा ऋत्विजः प्रचरन्तीति। न च गोत्वादयः कदाचिदपि शब्दानुवेधवन्ध्यबोधविषयतां प्रतिपद्यन्ते। तथा हि— ‘आयं गौः पृश्निरक्रमीत्’ (तै. सं. १.५.३.१) इत्यादौ यथा जातिगुणक्रियावच्छिन्नविषयावभासिनि सविकल्पके, तथा निर्विकल्पके विज्ञाने शब्दविशिष्ट एवार्थः परिस्फुरति। तदाह— (वाप. १.१२३)

न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते॥ ८६॥

न चैतद्‌वाच्यम्—(श्‍लोकवा. प्रत्य. ११२)

अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम्।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम्॥ ८७॥

यतो बालादयो जन्मान्तरानुभवोपजनितनानासंस्कारजातयो जात्याद्युल्लेखेनैव तं तमर्थं प्रतियन्ति। तथा हि— ‘तदहर्जातस्यापि बालकस्य पुरतो विदग्धवनिताः प्रदीपं न प्रस्थापयन्ति कर्कटो X X X न्मा भविष्यतीति।

अथ तथात्वातथात्वयोः मध्यस्थता प्रतीतिहेतुत्वात् प्रत्यायकत्वं, कथं पुनरतथाभूतमर्थं शब्दस्तथा प्रत्यययति ?

शब्दशक्तिमाहात्म्यात्। शब्दशक्‍त्युपजनिता हि बुद्धयः स्वबीजपरिपाक— वशादाकारविशेषवत्य उपजायमानाः सत्यपि वस्तुनोऽभेदे भेदमुपदर्शयन्ति। तद्यथा राहोः शिरः, शिलापुत्रकस्य शरीरमिति। तदुक्तम्—

मायेन्द्रजालप्रख्योऽयं प्रविभागः प्रकल्‍प्यते।
शब्दशक्तिमहिम्नैव निर्विभागेऽपि वस्तुनि॥ ८८॥

अन्ये त्वाहुः—

न वस्तुनोऽधिकं रूपं न शब्दस्याधिकार्थता।
शब्दः शब्दान्तरोपाधेरधिकार्थः प्रतीयते॥ ८९॥

तद्यथा पुरुष इति पुरुषमात्रं, राज्ञ इति शब्दान्तरसन्निधेस्तु स विशिष्टः प्रतीयते पुरुषविशेषोऽयं राजपुरुष इति। एवं भवतिपचतीत्यादावपि पचतीति क्रियामात्रप्रतीतिः, भवतीति तु पदोपाधिः कर्तृशक्तिप्रयुक्ता प्रतीयते।

अपरे तु मन्यन्ते सकलविकल्पोल्लेखविरहितेऽपि वस्तुनि शब्दाः स्वमहिम्नैव नानाविधबुद्धयुत्पत्तिकारणीभूताः शक्तीः सन्निवेशयन्ति, यद्वशादभिन्नरूपमपि वस्त्वन्यथा चावभासत इति। तथा हि कथकः कंसं घातयतीत्युक्ते कंसवधमाचष्ट इति प्रतीयते। यदा त्विन्द्रः कंसं घातयतीति प्रयोगस्तदा ‘कंसघ्नं तमुपेन्द्रम् इन्द्रः प्रयुङ्क्त’ इति।

अन्ये तु कथकः कंसं घातयतीत्यत्रापि प्रयोजकं व्यापारं ब्रुवते। यतः—

शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान्।
प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते॥ ९०॥

(वाप.साधन ३.७.५) तेषां चोत्पत्तेः प्रभृत्याविनाशात् स वृद्धीराचक्षाणः परानपि तथैव प्रत्याययति। तथा वक्तारो भवन्ति ‘गच्छ हन्यते कंसः, किं गतेन, हतः कंस’ (मभा.३.१.२६) इति।

अथापरेषां दर्शनम्—

विकल्पयोनयः शब्दा विकल्पाश्शसब्दयोनयः।
तेषामन्योन्यसम्बन्धो नार्थं शब्दाः स्पृशन्त्यमी॥ ९१॥

(न्यायमं.) तद्यथा—

गुणानुरागमिश्रेण यशसा तव सर्पता।
दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम्॥ ९२॥

अत्रार्धकुङ्कुमेत्युक्ते सौरभादिगुणान्विता।
यशोऽनुरागयोर्वर्णप्रक्लृप्‍तिरवगम्यते॥ ९३॥

वधूशब्देन तु दिशां नायिकात्वं प्रतीयते।
न च सम्बन्धगन्धोऽपि वास्तवस्तेषु विद्यते॥ ९४॥

तदुपज्ञं चैष लौकिकः प्रवादः—

अतहट्ठिए वि तह तह संठिए व्व हिअअम्मि जा णिवेसेइ।
अत्थविसेसे सा जअइ विअडकइगोअरा वाणी॥ ९५॥

(अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति।
अर्थविशेषान् सा जयति विकटकविगोचरा वाणी॥)

भवतु नाम शब्दस्य वाचकत्वपक्षे विवक्षानुप्रवेशादर्थातथात्वेऽपि तथा प्रत्यायकत्वम्। विशेषणपक्षे तु कथमिवैतदुपपद्यते? विशेषणेन हि प्रधानानुयायिनां भवितव्यम्, प्रधानेन त्वविचलितस्वार्थेन।

नैवं, विशेषणमपि शब्दानुरञ्जकत्वेनार्थमध्यासीनः कुतश्‍चिदुपाधेरन्यथाव— भासमानः स्वाश्रयमप्यन्यथावभासयति। तद्यथा—

मगधेषु स्तनौ पीनौ कलिङ्गेष्वक्षिणी शुभे।
बाहू प्रलम्बावङ्गेषु चरणौ मृदु॥ ९६॥

इति। अत्र स्तनादयो जातिशब्दाः सव्यत्वदक्षिणत्वजातिद्वयैकार्थसमवायो— पाधेरेकत्वयोगिनोऽपि द्वित्वेनावभासमानाः स्वाश्रयानपि तथैवावभासयन्ति। एतेन व्यक्तौ पदार्थे बहूनामपि द्वित्वावभासो व्याख्यातः। तद्यथा—

दैत्याधिपप्राणमुषां नखानामुपेयुषां भूषणतां क्षतेन।
प्रकाशकार्कश्‍यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम्॥ ९७॥

(माघ.३.१४) अत्र विशिष्टनखक्षतभूषादिविशेषोपादानात् सुव्यक्तैव स्तनशब्दस्य व्यक्‍त्यर्थतेति। एवं कदा पूर्वाः फल्गुन्य इति चन्द्रमसा सह योगे बहुत्वविवक्षायां द्वयोरपि बहुत्वेनावभासः, कदा तिष्यपुनर्वस् इति तारकानपेक्षनक्षत्रद्वितवविवक्षायां बहूनामपि द्वित्वेनावभासो भवति।

अथ यथा चन्द्रयोगस्याविवक्षायां तारकागतद्वित्वसङ्खया पूर्वे फल्गुन्याविति भवति, एवं चन्द्रमसा सह योगस्य तारकासङ्‍ख्याश्‍च विवक्षितत्वे भवितव्यं तिष्यपुनर्वसव इति; प्रयोगे तु न भवितव्यम्; न हि लोके तादृशी विवक्षा विद्यते; विवक्षा च कुलवधूरिव न लोकमर्यादामतिक्रामति। तद्यथा— (रघु. ३.१६)

जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम्।
अदेयमासीद् द्वयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे॥ ९८॥

ननु चार्थोपाधेरप्यर्थोऽन्यथाभासमानो दृश्‍यते। तद्यथा—

पायाद् वो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको यस्याऽऽकस्मिकवर्धमान—वपुषस्तिग्मद्युतेर्मण्डलम्।
मौलौ रत्नरुचि श्रुतौ परिलसत्ताटङ्ककान्ति क्रमात् जातं वक्षसि कौस्तुभाभमुदरे नाभीसरोजोपनम्॥ ९९॥

ततश्‍च न ज्ञायते किमयमर्थोपाधिनिबन्धनोऽर्थस्यान्यथावभासः, उत शब्दोपाधिनिबन्धन इति।

चिरं जीव, यदवतीर्ण इव प्रतिपाद्यार्थपदवीं दृश्यसे; पृच्छाम्यायुष्मन्तं क एषोऽर्थो नाम?

किं ब्रवीषि— ‘यः शब्देन प्रतिपाद्यते’?

अथ गौरित्यत्र कः शब्दार्थः?

किमात्थ, ‘सास्नादिमान् पिण्डः’ इति ?

कथं स्वरूपमपि पृष्टः शब्देनैव व्यपदिशसि?

किमवोचः, शब्दाख्यविशेषणानुरक्तस्य तस्य स्वरूपमन्यथाख्यातुं न शक्नोमि, शब्दापरित्यागलब्धप्रकाशयैव च तदनुभूत्यानुभवामि?

तर्हि शब्दात् पृथगर्थतत्त्वस्य व्यपदेष्टुमनुभवितुं चाशक्‍यत्वाच्छब्दस्यैवाय— मध्यासो विवर्तो विपरिणामो वार्थो नाम, नान्यः कश्‍चिदिति निश्‍चीयताम्। युक्तं चैतत्। न हि निरूपयन्तोऽपि शब्दाद् विभिन्नमर्थतत्त्वमुपलभामहे। अन्येऽपि चैवमाहुः—(प्र.वा. २.३५४)

अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते॥ १००॥

ग्रहीतृग्रहणग्राह्यमायापथपरिच्युताम्
नमामः परमानन्दज्योतीरूपां सरस्वतीम्॥ १०१॥

इति। (विवर्तः)

कः पुनरयं विवर्तो नाम ?

उच्यते एकस्य तत्त्वादप्रच्युतस्य सन्निवेशविशेषादिभिरसत्यप्रविभक्तान्य— रूपोपग्राहिता विवर्तः।

तत्र यथा जलादयः कल्लोलादिरूपेण सर्पादयः कुण्डलादिरूपेण नीलादयश्‍चित्रादिरूपेण विवर्तन्ते तथा शब्दतत्त्वमविद्योपाधेस्तेन तेनार्थरूपेण तथा तथा विवर्तते।

तद्यथा ‘व्यपगतघनपटलमचलजलनिधिसदृशवपुरम्बरतलम्, अञ्जनचूर्णपुञ्जश्‍यामलं शार्वरं तमः।’ (प्रप्राभा.) इति।

अथ यथा शब्दस्यार्थो विवर्तस्तथार्थस्य शब्दो यदि भवेत् को दोषः स्यात् ? न कश्‍चित्। किन्तु—

वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शनी॥ १०२॥

(प्रपाभा.) इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम्।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते॥ १०३॥

(काव्याद.१.४) ननु चाभिधीयमानतेव प्रतीयमानतापि वाक्‍यार्थधर्मो विद्यते।

यथा चोच्यते— (ध्वन्या. १.४)

प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम्।
यत् तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु॥ १०४॥

तस्य च वाक्‍यार्थभावनोत्तरकालमवगतेरध्यासपक्षे विवर्तपक्षे वा कथमिवोपपत्तिर्भवति ?

उच्यते, विपरिणामाद् भविष्यति।

वस्तुनः अवस्थान्तरगमनं विपरिणामः। तत्र यथा मृदादयो घटादिरूपेण क्षीरादयो दध्यादिरूपेण चैत्रादयो युवादिरूपेण विपरिणमन्ते, तथेदं शब्दब्रह्माप्यविद्योपाधेः तेन तेनार्थरूपेण तथा तथा विपरिणमते।

तद्यथा—‘सन्ति मे पञ्च पुत्राः, मातरं पितरं शुश्रूषितवानस्मि, योऽयं युवा द्रमिडदेशे द्रमिडकन्याभिः सहावसं सोऽहमिदानीं पश्‍चिमे वयसि गङ्गातीरे तपश्‍चरामीति। अत्र च शब्दार्थयोः पृथगवभासाद् वाक्‍यार्थस्याभिधीयमानतायां प्रतीयमानतायां वा नानुपपत्तिः, न चैतावता शब्दव्यापारो विंरस्यति। यतस्तात्पर्यमस्य ह्यग्रतो विशेषेण वक्ष्यमाणमास्ते। तस्योदाहरणमात्रम्—

प्राप्‍तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्या— न्निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि।
सेतुं बध्नाति कस्मादयमिह सकलद्वीपनाथानुयात— स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः॥ १०५॥

अत्र वर्णनीयराजविशेषस्य विजयिनो यथाश्रुतवाक्‍यार्थोऽभिधीयमानस्त्वयीति पदे विष्णवध्यासावतारः समस्तीति प्रतीयमानस्तदवतारान्तराणां निद्रालसत्वादिदोषयोगादस्य च तद्व्युदासात् ततो वैशिष्ट्यप्रतिपादनं तात्पर्यम्, यस्य काव्येषु ध्वनिरिति प्रसिद्धिः। तदुक्तम्—

१. तात्पर्यमेव वचसि ध्वनिरेव काव्ये सौभाग्यमेव गुणसम्पदि वल्लभस्य।
लावण्यमेव वपुषि स्वदतेऽङ्गनायाः श्रृङ्गार एव हृदि मानवतो जनस्य॥ १०६॥

कः पुनः काव्यवचसोः ध्वनितात्पर्ययोर्विशेषः?

उच्यते —

२. यदवक्रं वचश्शास्त्रे लोके च वच एव तत्।
वक्रं यदर्थवादादौ तस्य काव्यमिति स्मृतिः॥ १०७॥

३. यदभिप्रायसर्वस्वं वक्तुर्वाक्‍यात् प्रतीयते।
तात्पर्यमर्थधर्मस्तच्छब्दधर्मः पुनर्ध्वनिः॥ १०८॥

४. सौभाग्यमिव तात्पर्यमान्तरो गुण इष्यते।
वाग्देवताया लावण्यमिव बाह्यस्तयोर्ध्वनिः॥ १०९॥

५. अदूरविप्रकर्षात् तु द्वयेन द्वयमुच्यते।
यथा सुरभिवैशाखौ मधुमाधवसंज्ञया॥ ११०॥

इति॥ ६. विभक्‍त्यर्थोऽथ वृत्त्यर्थः पदार्थश्‍चोपवर्णितः।
भावनादिप्रभेदेन वाक्‍यार्थश्‍च प्रकीर्तितः॥ १११॥

७. क्रियायाश्‍च पदार्थत्वाद् वाक्‍यार्थत्वमपाकृतम्।
कृतं च भावनायास्तदपदार्थत्वहेतुकम्॥ ११२॥

८. वाच्या विशेष्याः प्रत्याय्याः शब्दस्योक्ताः क्रियादयः।
अध्यासविपरीणामविवर्ताश्‍चास्य तान् प्रति॥ ११३॥

९. विभक्तिवृत्त्यर्थवतोरुपस्क्रियाप्रधानयोर्धाम पदार्थ इष्यते।
पदं पदार्थस्य तु वाक्‍यगोचरो भवेद् यतोऽर्थस्तदतो निरूप्यते॥ ११४॥

इति महाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे विभक्‍त्यर्थादिचतुष्टयप्रकाशो नाम

॥ षष्ठः प्रकाशः॥ ६॥

साहित्यविद्याध्ययनाब्धिमन्थमन्थाचलः कोऽपि सनातनोऽहम्।

प्रकाशमेतं प्रतिमुच्य दोषाच्छरावतो दीपमिवास्मि तुष्टः॥