०५ उपाध्याद्यर्थचतुष्टयप्रकाशः

अथ

श्रृङ्गारप्रकाशे पञ्चमः प्रकाशः

उपाध्याद्यर्थचतुष्टयप्रकाशो नाम

(५. उपाधिः)

(क्रियोपाधिः—१२)

प्रकृत्यर्थप्रत्ययार्थभेदेषु कारकाणां प्रवृत्तिविशेषः क्रियाः तामनुपहितां कृभ्वस्तयो वदन्ति। तेषां परस्परमसंभेदसंभेदाभ्यां साम्योत्कर्षापकर्षजन्मानो द्वादश धात्वर्थभेदाः क्रिया भवन्ति। तद्यथा —

अकर्मकाः अन्तःकर्मकाः, अर्थान्तरकर्मकाः, अविवक्षितकर्मकाः, प्रसिद्धकर्मकाः, द्विकर्मकाः, प्रसिद्धकर्तृकाः, भावकर्तृकाः, कर्मकर्तृकाः, कर्तृस्थक्रियाः, कर्मस्थक्रियाः, उभयस्थक्रियाश्‍चेति।

ते चापरिस्पन्दसपरिस्पन्दभेदात् प्रत्येकं द्विधा भूत्वा चतुर्विंशतिर्जायन्ते।

तत्र स्वभावतोऽस्तिस्तु उदासीनकर्तृकत्वाद् अपरिस्पन्दः।

करोतिः प्रयुञ्जानकर्तृकत्वात् सपरिस्पन्दः।

भवतिः विकुर्वाणकर्तृकत्वात् सपरिस्पन्दापरिस्पन्द इति स्थितम्।

(१. अकर्मकाः) अतोऽस्त्यर्था भवत्यर्थाश्‍च न्यग्भवतयो न्यगतयश्‍चाकर्मका भवन्ति। तेषु—

पूर्वे अपरिस्पन्दा यथा— भिद्यते, स्वदते, वर्तते, प्रीयत इति।

उत्तरे सपरिस्पन्दा यथा— जायते, विवर्धते, X X X X X X ते, स्फुरतीति।

(२. अन्तः कर्मकाः) त एव न्यक्करोतयोऽन्तः कर्मकाः; तेषु —

पूर्वे अपरिस्पन्दा यथा— जीवति, म्रियते, पुत्रीयति, प्राणितीति। उत्तरे सपरिस्पन्दा यथा— नृत्यति, श्वसिति, बाष्पायते, रोदितीति।

(३. अर्थान्तरकर्मकाः) अस्तिकरोत्यर्थाः करोतिभवत्यर्थाश्‍चार्थान्तरकर्मकाः। तेषु —

पूर्वे अपरिस्पन्दा यथा— तरति काष्ठं, तरति विपदं, विपर्यस्यति मतिं, विपर्यस्यति हस्तमिति।

उत्तरे सपरिस्पन्दा यथा— वहति नदी, वहति भारं, पतति पर्णं, पतत्यध्वानमिति।

(४. अविवक्षितकर्मकाः) त एवानुत्करोतयोऽपि अविवक्षितकर्मकाः। तेषु —

पूर्वे अपरिस्पन्दा यथा— संज्ञा संज्ञिन्यभिनिविशते, बुद्धिस्तत्त्वमभिनिविशते, तीर्थ उपविसति, त्रिरात्रमुपवसतीति।

उत्तरे सपरिस्पपन्दा यथा— चैत्रो हसति, मैत्रं हसति, चक्रं भ्रमति, देशान् भ्रमतीति।

(५. प्रसिद्धकर्मकाः) उत्करोतयस्तु त एव प्रसिद्धकर्मकाः। तेषु—

पू्र्वे अपरिस्पन्दा यथा— वपतीत्युक्ते बीजमिति गम्यते, प्रसूत इत्युक्ते गर्भमिति गम्यत इति।

उत्तरे सपरिस्पन्दा यथा— कृषतीत्युक्ते क्षेत्रमिति गम्यते, परिणयतीत्युक्ते कन्यामिति गम्यत इति।

(६. द्विकर्मकाः) सत्येवोत्करोतित्वे न्यगस्तयो न्यग्भवतयश्‍च त एव द्विकर्मकाः। तेषु—

पूर्वे अपरिस्पन्दा यथा— लिङ्गं लिङ्गिनमवगमयति ज्ञातारं, जयति शतमश्वानश्वसेनमिति।

उत्तरे सपरिस्पन्दा यथा— गां दोग्धि पयः, वृक्षमपचिनोति फलानीति। एवमेते षट् द्वियोगविकल्पाः। परं त्रियोगविकल्पाः षड्भवन्ति।

(७. प्रसिद्धकर्तृताः) तत्रोदस्तय उद्भवतयो वा प्रसिद्धकर्तृकाः। तेषु—

पूर्वे अपरिस्पन्दा यथा— दहतीत्युत्त्के वह्निरिति गम्यते।

उत्तरे सपरिस्पन्दा यथा— कूजतीत्युक्ते (पिक इति गम्यते), (हेषत इत्युक्ते) अश्‍व इति गम्यत इति।

(८. भावकर्तृकाः) न्यग्भवतिकरोतयो न्यगस्तिकरोतयो वा भावकर्तृकाः। तेषु— पूर्वे अपरिस्पन्दा यथा —चोरस्य रुजति, चोरस्यामयति, चोरं ज्वरयति, चोरं संतापयतीति।

उत्तरे सपरिस्पन्दा यथा— भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यादिति।

(९. कर्मकर्तृकाः) उदस्तिन्यक्करोतय उद्भवतिन्यक्करोतयो वा कर्मकर्तृकाः। तेषु—

पू्र्वे अपरिस्पन्दा यथा— दुग्धे गौस्स्वयमेव, प्रस्‍नुते गौस्स्वयमेव, भूषयते कन्या स्वयमेवेति।

उत्तरे सपरिस्पन्दा यथा—अवकिरते हस्ती स्वयमेव, नमते दण्डः स्वयमेव, उच्छ्रयते दण्डस्स्वयमेव, आरोहयते हस्ती स्वयमेवेति।

(१०. कर्तृस्थक्रियाः) उदस्तिकरोतयः उद्भवतिकरोतयो वा कर्तृस्थक्रियाः। तेषु—

पूर्वे अपरिस्पन्दा यथा—अर्हति पूजां, जानाति वर्णं, पश्‍यति रूपं, शृणोति शब्दमिति। उत्तरे सपरिस्पन्दा यथा— गच्छति, ग्रामम्, आरोहयत्यश्वम् इति।

(११. कर्मस्थक्रियाः) न्यग्भवत्युत्करोतयो न्यगस्त्युत्करोतयो वा कर्मस्थक्रियाः। तेषु—

पूर्वे अपरिस्पन्दा यथा— दुनोति शत्रुं, धिनोति मित्रं, मदयति सुहृदं, सुखयति सखायमिति।

उत्तरे सपरिस्पन्दा यथा— पचत्योदनं, भिनत्ति कुसूलं, संक्ष्णुते शस्त्रं, तक्ष्णोति यूपमिति।

(१२. उभयस्थक्रियाः) न्यग्भवत्युदस्तिकरोतयो न्यगस्त्युद्भवतिकरोतयो वा उभयस्थक्रियाः। तेषु—

पूर्वे अपरिस्पन्दा यथा— लभते पूजां, प्राप्‍नोति धर्मम् . . . . . . . . .।

उत्तरे सपरिस्पन्दा यथा— भुङ्क्त ओदनम्, अधीते स्वाध्यायं, तप्यते तपः, साधयति स्वर्गमिति।

ननु च भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यादिति नैतावस्तिभवत्यर्थौ, अपि तु साक्षादस्तिभवती। तौ चानुपहितक्रियाभिधायकाविति नोपाधी भवितुमर्हतः। उच्यते— ‘अस भुवि’, ‘भू सत्तायाम्’ इति धातुपाठादनु— प्रयोगवर्जमार्धधातुकेऽस्तेर्भूविधानात् सङ्कर एवेति विज्ञायते। एवमपि करोत्यर्थानुप्रवेशो दुरुपपादः। सोऽपि कर्तृत्वान्यथानुपपत्तेरुपपत्स्यते।

ननु च भवति पक्ष्यति, भवत्यपाक्षीदित्ययं लट्‌प्रयोग एव। अस्ति गच्छामो वयमिति च अस्तिप्रयोगोऽपि भावकर्तृकेषु दृश्‍यते।

नैवम्; नास्माभिरस्तिभवति भावकर्तृकावेवोच्येते, अपि तु अस्तिभवति— कर्तारोऽस्त्यादयः पचत्यादयश्‍च। ते हि रुजत्यादिवदुपाधिपरा अपि अस्तौ कर्तारो भवन्ति। एतावाँस्तु विशेषः, रुजादीनां कर्तृत्वं तत्परेणैव लकारेणोच्यते, पचादीनां च भवत्यस्तिपरेणेति।

(कालोपाधिः—१२)

यथा च धात्वर्थः क्रियोपाधिरेवं कालोऽपि। यदुक्तम्—

क्रियोपाधिश्‍च सन् भूतभविष्यद्‌वर्तमानताः।१
परापरविभागार्थास्स शक्तीः प्रतिपद्यते॥ १॥

१. वाक्‍यपदीये ३.९.३७ इति करिकाया पूर्वार्द्धम्। स भूतादिभेदा द्वादशधा। तद्यथा—

भूतः, भूतानद्यतनः, भविष्यत्, भविष्यदनद्यतनः, वर्तमानः, वर्तमानानद्यतनः, परोक्षः, अतिपन्नः, अव्यक्तः, सङ्कीर्णः, प्रकीर्णः, विप्रकीर्ण इति।

(१. भूतः—६) लुङादिविषयोऽप्यतीतमात्रं भूतः।

स षोढा— भूतः, प्रकर्षभूतः, भूतानद्यतनः, अभिमानाद्यतनः, प्रबन्धाद्यतनः, सामीप्याद्यतन इति।

तेष्वनिर्धारितविशेषो भूतः, यथा— अकार्षीत्, निषसाद, उवास, शुश्राव, अपक्त, पक्तवानिति।

शब्दान्तरावगतप्रकर्षादनवेक्षितानद्यतनपरोक्षादिप्रत्ययः प्रकर्षभूतः, यथा— अवात्सुरिह पुरा छात्राः।

विवक्षितान्यावधिः भूतानद्यतनः, यथा— अगमान घोषात्।

रात्रिशेषे जागरणसंततौ अभिमानानद्यतनः, यथा अमुत्रावात्सम्, सकलां रात्रिं जागरितः रात्रेरप्रभातत्वादद्यतनिमं कालं मन्यते।

अविवक्षितक्रियाविरामः प्रबन्धाद्यतनः, यथा यावज्जीवं भृशमन्नमदात्।

विवक्षितक्रियानन्तर्यः सामीप्याद्यतनः, यथा— येयं गता पौर्णमासी अस्यामुपाध्यायोऽग्‍नीनाधित। अत्रानन्तरयोः ‘नानद्यतनवत् क्रियाप्रबन्ध— सामीप्ययोः’ इति स्मर्यते।

(२. भूतानद्यतनः —६) एवं लङ्‌निमित्तमविद्यमानाद्यतनो भूतानद्यतनः।

स षोढा— सामान्यानद्यतनः, विशेषानद्यतनः, अभिज्ञानद्यतनः, प्रसिद्ध‍यपरोक्षः, प्रश्‍नापरोक्षः, ह—शश्वदपरोक्ष इति। तेषु—

अविवक्षितपरोक्षत्वादिः सामान्यानद्यतनः यथा— अकरोत्, अशृणोत्, न्यषीदत्, अमुत्रावसम्, ‘आसीदिदं तमोभूतम्’ रामो वनमगच्छदिति।

पदान्तरावगतपरोक्षत्वादिविशोषो विशेषानद्यतनः, यथा— अवसन्निह पुरा छात्राः।

‘न यदि’ इत्यभिज्ञावचनं लृङपवादोऽभिज्ञानद्यतनः, यथा— स्मरसि देवदत्त काश्मीरेषु यवदसाम।

लोकप्रसिद्धेरारोपितापरोक्षाभिमानः प्रसिद्ध‍यपरोक्षः, यथा—अजयज्जयन्तो हूणान्।

प्रश्‍नोपभुक्तपरोक्षत्वं प्रश्‍नापरोक्षः, यथा— किमगच्छद्‌देवदत्तः।

ह—शश्वदर्थोपक्षीणपरोक्षत्वो ह—शश्वदपरोक्षः, यथा—इति ह अकरोत्, शश्वदकरोदिति।

(३. भविष्यत् —६) अनागतामात्रं लृडादिविशेषो भविष्यत्।

स षोढा— सामान्यभविष्यत्, विशेषभविष्यत्, लिप्साभविष्यत्, प्रबन्धाद्यतनः, सामीप्यद्यतनः प्रविभागाद्यतन इति। तेषु —

अनिर्धारितानद्यतनादिः सामान्यभविष्यत्, यथा— करिष्यति, बलिरिन्द्रो भविष्यति, कदा गमिष्यसि, एष गमिष्यामि, पक्ष्यन् व्रजति, पाचका व्रजतीति।

निर्धारिताद्यत्वविशेषो विशेषभविष्यत्, यथा— अद्य गमिष्यामीति।

लिप्सोपाधिको लिप्साभविष्यत्, यथा— यो मे भिक्षां दास्यति स स्वर्गं लोकं यास्यतीति।

अविवक्षितक्रियाविरामः प्रबन्धाद्यतनः, यथा— यावज्जीवं भृशमन्नं दास्यतीति।

विवक्षितक्रियानन्तर्यस्सामीप्याद्यतनः, यथा— येयमागामिनी पौर्णमासी अस्यामुपाध्यायोऽग्‍नीनाधास्यतीति।

‘भविष्यति मर्यादावचनेऽवरस्मिन्’, ‘कालविभागे चानहोरात्राणाम्’, ‘परस्मिन्विभाषा’ इति प्रविभागानद्यतनः, यथा— योऽयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यदवरं कौशाम्ब्यास्तत्रोदनं भोक्ष्यामहे, योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहा— यण्यास्तत्र युक्ता अध्येष्यामहे, एवं परस्मिन्विभाषेत्यपि द्रष्टव्यमिति।

(४. भविष्यदनद्यतनः —६) भविष्यन्नेवाविद्यमानाद्यतनो लुण्णिमित्तं भविष्यदनद्यतनः।

स षोढा— सामान्यानद्यतनः, लिप्‍सानद्यतनः, परिदेवनानद्यतनः, परावरविभागीयः, पराप्रविभागीयः, (अध्वविभाषीय) इति। तेषु—

अनिर्धारितक्रियाप्रबन्धः सामान्यानद्यतनः, यथा— कर्ता कर्तारौ कर्तारः, कारिता कारितारौ कारितार इति।

शब्दान्तरावगतविशोषो विशोषानद्यतनः, यथा— त्वं पक्ता।

लिप्‍सोपाधिको लिप्सानद्यतनो यथा यो मे भिक्षां दाता स स्वर्गं लोकं गन्ता।

परिदेवनोपाधिकः परिदेवनानद्यतनः, यथा— इयं नु कदा गन्ता यैवं पादौ निदधाति, अयं तु कदाध्येता य एवमनभियुक्तः।

‘कालविभागे चानहोरात्राणाम्’ इत्यहोरात्रविषयः परापरविभागीयः, यथा— योऽयमागामी मासस्तस्य यः परः पञ्चदशरात्रस्तत्रौदनं भोक्तास्महे, योऽयमागामी त्रिंशद्रात्रस्तस्य योऽपरः पक्षस्तत्र युक्ता अध्येतास्महे।

परस्मिन्विभाषेत्यनहोरात्रकालध्वमर्यादाविषयः परप्रविभागीयः, यथा— योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहायण्यस्तत्र पाटलिपुत्रं गन्तास्मः।

स एव अध्वविभाषाविषयोऽध्वविभाषीयः, यथा— योऽयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यत्परं कौशाम्ब्याः तत्र सक्तून् पातास्म इति।

(५. वर्तमानः —६) अवाप्‍ताप्रच्युतक्रियाविषयो लडादिनिमित्तं वर्तमानः।

(स) षोढा— सामान्यवर्तमानः, विशेषवर्तमानः, अविरामवर्तमानः, प्रवृत्तोपरतः, वृत्ताविरतः, नित्य(प्र)वृत्त इति। तेषु—

अनपेक्षितविरामादिविशेषस्सामान्यवर्तमानः, यथा— अस्ति, भवत्, कुर्वाणः, पच्यमानः, पवमानः, कवचमुद्वहमान इति।

परोक्षादिविषयो विशेषवर्तमानः, यथा— अत्र वटे यक्षः प्रतिवसति।

विवक्षितक्रियाप्रबन्धोऽविरामवर्तमानः, यथा— प्रासादं करोति।

विवक्षितप्रवृत्तिविरामः प्रवृत्तोपरतः, यथा— जीवन्तं मारयति।

अविवक्षितप्रवृत्तिविरामो वृत्ताविरतः, यथा— इह कुमाराः क्रीडन्ति।

अविच्छिन्नप्रवृत्तिसंतानो नित्यप्रवृत्तः, यथा— तिष्‍ठति पर्वत इति।

(६. वर्तमानानद्यतनः—६) अनागतातिक्रान्तक्रियास्वपि पदान्तरप्रयोगापादितवर्तमानत्वाल्लटो निमित्तमविद्यमानानद्यतनो वर्तमानानद्यतनः।

स षोढा— लिप्साविषयः, आशंसाविषय, पुरायोगीयः, स्मयोगीयः, उभययोगीयः, अनुभययोगीय इति। तेषु—

लिप्साविषयो यथा— यो मे भिक्षां ददाति स स्वर्गं लोकं याति, को मे भिक्षां ददाति, कस्स्वर्गं लोकं याति; एवं कतरो मे भिक्षां ददाति, कतमो मे भिक्षां ददाति।

आशंसाविषयो यथा— देवश्‍चेद् वर्षति संपद्यन्ते शालयः।

पुरायोगीयो यथा— वसन्तीह पुरा छात्राः।

स्म—योगीयो यथा— इति स्मोपाध्यायः कथयति।

उभययोगीयो यथा— नडेन स्म पुराधीयते।

अनुभययोगीयो यथा— भाषते राघवस्तदेति।

(७. परोक्षः —६) भूत एव लिड्‌विषयोऽक्षाणां परः परोक्षः।

स षोढा— स्वपरोक्षः, परपरोक्षः, स्वपरपरोक्षः, मनःपरोक्षः, १प्रमाणपरोक्षः, निर्णयपरोक्ष इति। तेषु—

स्वापेक्षया परोक्षो यथा— चकार, चकार(जहार), चकासाञ्चकार, ऊषुरिह पुरा छात्रा इति।

परापेक्षया परपरोक्षो यथा कः कलिङ्गान् विवेद, को ब्राह्मणान् ददर्श, नाहं कलिङ्गान् जगामेति।

उभयापेक्षया स्वपरपरोक्षो यथा—जघान कंसं वासुदेवः, ददाह त्रिपुरं हरः, ममाथ वृत्रं मघवेति।

स्मरणापेक्षया मनःपरोक्षो यथा—इति चकार, शश्वच्‍चकार, इति ह शश्वच्‍चकारेति।२ ‘प्रश्‍ने चासन्नकाल’ (३.२.११७) इति निर्णयपरोक्षो यथा—

किं सा जगाम तत्पार्श्‍वं किमुवाच यथोचितम्।
स किं शुश्राव तद्‍वाक्यमिति पृच्छामि किं सखि!॥ २॥

इति। (८. अतिपन्नः —६)

भविष्यद्‍भूतवर्तमानक्रियातिपत्तिविषयो लृङ्‌निमित्तम(प्र)तिपन्नः (मभा.३.३.१३९)। स षोढा— भविष्यद्‍भूतवर्तमानक्रियातिपत्तीनां शुद्धमिश्रभेदात्।

तत्र केनचिल्लिङ्गेन भविष्यन्तीं शुद्धामेव क्रियातिपत्तिमवगम्य प्रयुङ्‌क्ते, यथा— अपि वज्राहतेनापतिष्यत्, कथं नाम तत्रभवान् वृषलमयाजयिष्यत्, दक्षिणेन चेदयास्यत् न शकटं पर्याभविष्यत्। यथा च—

यदि सद्भिः प्रदिष्‍टेन पथा समचरिष्यथ।
न ते समचरिष्यन्न चरणान्ते विभूतयः॥ ३॥

एवं मिश्रामपि यथा—(मवीच. १.२७)

रामाय पुण्यमहसे सदृशाय सीता दत्तैव दाशरथिचन्द्रमसेऽभविष्यत्।
आरोपणेन पणमप्रतिकार्यमार्यस्त्रैयम्बकस्य धनुषो यदि नाऽकरिष्यत्॥ ४॥

केनचिल्लिङ्गेनानीतां क्रियातिपत्तिं शुद्धामेवावगम्य प्रयङ्‌क्ते, यथा—न श्रद्दधे यत् तत्रभवान् वृषलमयाजयष्यित्, न संभावयामि तत्र नामाभोक्ष्यत भवान्। यथा च— (किराता. १३.४९) १–२. उदाहृतेषु ‘जो. रा. चे.’ इत्येंषु विस्मृतायास्मै प्रमाणपरोक्षाय ‘भुक्‍ता मया हि गिरय’ इति (कम.) इति भैरवानन्दोक्‍तिरूपयुज्येत।
दुर्वचं तदथ मा स्म भून्मृगस्त्वय्यसौ यदकरिष्यदोजसा।
नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत सितेन पत्रिणा॥ ५॥

एवं मिश्रामपि— (रघु. ७.१४)

परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत्।
अस्मिन् द्वये रूपविधानयत्‍नः पत्युः प्रजानां वितथोऽभविष्यत्॥ ६॥

केनचित् प्रमाणेन वर्तमानामपि क्रियातिपत्तिं शुद्धामेवावगम्य प्रयुङ्क्ते, यथा उताकरिष्यत्, अप्यकरिष्यत्। यथा च —

गमधास्यत् कथं नागो मृणालमृदुभिः फणैः।
आरसातलमूलात् त्वमवालम्बिष्यथा न चेत्॥ ७॥

(कुसं. ६.६८) एवं मिश्रामपि यथा—

अमङ्क्ष्यद् वसुधा तोये च्युतशैलेन्द्रबन्धना।
नारायण इव श्रीमान् यदि त्वं नाधरिष्यथाः॥ ८॥

इति। (९. अव्यक्‍तः —६) तिरोभूतभूतभविष्यदादिविशेषोऽव्यक्तः। षोढा—लिङ्‍‌विषयः, लोड्‌विषयः, लड्‌विविषयः, लृड्‌विविषयः, तव्यादिविषयः, तुमुनादिविषयश्‍चेति। तेषु—

लिङ्‌विषयो यथा कटं कुर्यात्, चिरं जीव्यात्, कथं तत्रभवान् वृषलं याजयेत्, अपि शिरसा पर्वतं भिन्द्यात्, संभावयामि भुञ्जीत भवान्, कालो यद्‌भुञ्जीत भवानिति।

लोड्‌विषयो यथा—उपाध्यायश्‍चेदागच्छति आगन्ता आगमिष्यति वा अथ त्वं छन्दोऽधीष्व। ऊर्ध्वं मुहूर्तादुपाध्यायश्‍चेदागच्छेत् आगच्छति आगन्ता आगमिष्यति वा अथ त्वं व्याकरणमधीष्व, कुरू कटं प्राप्‍तस्ते कालः अलवीत् लविष्यसि वेति।

लड्‌विषयो यथा— कदा भुङ्क्ते कर्हि भुङ्क्ते, अपि तत्रभवान् वृषलं याजयति, जातु तत्रभवान् वृषलं याजयति, कच्‍चिज्जीवति मे माता, कं वा विभूतयो न मदयन्तीति।

लृड्‍‌विषयो यथा— अन्धो नाम पर्वतमारोक्ष्यति, उत दण्डः पतिष्यति, कतरो नाम वृषलः यं तत्रभवान् वृषलं याजयिष्यति, न मर्षयामि न श्रद्दधे नावकल्पयामि यत् तत्रभवान् वृषलं याजयिष्यति, किं किल तत्रभवान् वृषलं याजयिष्यति (इति) ‘प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो’ (कुसं.२.३१), इति।

तव्यादिविषयो यथा— स्वाध्यायोऽध्येतव्यः, ब्राह्मणो न हन्तव्यः, पितरो वन्दनीयाः, गुरवो माननीयाः, कृत्यं न भावयेत्, कार्यं न कुर्यादिति।

तुमुनादिविषयो यथा—भोक्तुमैच्छत् इच्छति एषिष्यति वा, भुक्त्वा अव्राजीत् व्रजति व्रजिष्यति वा, अधीत्यास्‍नासीत् स्‍नाति स्‍नास्यति वा, चोरङ्कारमाक्रुक्षत् आक्रोशति आक्रोक्ष्यति वा, पायंपायमासिष्‍ट आस्ते आसिष्यते वा, रैपोषमपुषत् पुष्यति पोक्ष्यति वेति।

(१०.सङ्कीर्णः—६) कालान्तरसम्पृक्तस्सङ्कीर्णः; सङ्करश्‍चानेकाकारत्वादियत्तया न शक्यते निर्देष्टुमिति भङ्गनिर्वाहार्थं तु षोढैवोदाह्रियते। स—

भूतभूतानद्यतनयोः यथा— अन्येभ्यो वा अभुङ्क्ष्महि।

भविष्यद्भविष्यदनद्यतनयोः यथा— अद्य श्वो वा गमिष्यति।

भूतभविष्यदनद्यतनयोः यथा— अग्‍निष्‍टोमयाजी अस्य पुत्रो जनिता। (३.४.१)

भूतानद्यतनभविष्यतोः यथा— भाविकृत्यमासीत्।

वर्तमानपरोक्षयोः यथा— (कुसं. ३.७२)

क्रोधं प्रभो संहर संहरेति यावद्‌गिरः खे मरूतां चरन्ति।
तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार॥ ९॥

भविष्यद्‍वर्तमानपरोक्षाणां यथा— (माघ. ३.७४)

सादोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी।
तान्येकदेशान्निभृतं पयोधेस्सोऽम्भांसि मेघान् पिबतो ददर्श॥ १०॥

(११. प्रकीर्णः) वर्तमानस्य भविष्यद्‍भूतयोरनुवेशे प्रकीर्णः। स

भविष्यदनुप्रवेशे आशंसायां यथा— उपाध्यायश्‍चेदागच्छति युक्ता व्याकरणमधीमहे।

लिप्सायां यथा— कोपयतो भोजयति (कं भवन्तो भोजयन्ति)।

यावत्पुरायोगे यथा— यावद् भुङ्क्ते, पुरा व्रजति।

सामीप्ये यथा— कदा ग्रामं गमिष्यसि, एष गच्छामि, गच्छन्तमेव मां विद्धि। एवं

भूतानुप्रवेशेऽपि; भूतसामीप्ये यथा— अयि भोः कटमकार्षोः, कटं देवदत्त ननु करोमि, अयं नु करोमीति।

(१२. विप्रकीर्णः) भविष्यतो भूतानुप्रवेशे भूतस्य भविष्यदनुप्रवेशो विप्रकीर्णः। स भविष्यतो भूतानुप्रवेशे यथा— स्मरसि देवदत्त काश्मीरेषु वत्स्यामः, अभिजानासि कलिङ्गेषु वत्स्यामः तत्रौदनं भोक्ष्यामहे, स्मरसियत् काश्मीरेषु वत्स्यामः यत् तत्रौदनं भोक्ष्यामह इति। यथा वा—(माघ. १.६८)

स्मरत्यदो दाशरथिर्भवन् भवानमुं वनान्ताद् वनितापहारिणम्।
पयोधिमाबद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति॥ ११॥

इति। भूतस्य भविष्यदनुप्रवेशे यथा— मास्म कार्षीः, मास्म करोः (मभा. ३.३.१७६), देवश्‍चेद् वृष्‍टस्सम्पन्नाः शालयः इति (मभा. ३.३.१३३)।

यथा वा—

अपकर्ताऽहमस्मीति मा ते मनसि भूद् भयम्॥ १२॥

(काआ.२.२९३) मा स्म सीमन्तिनी काचिज्जनयेत् पुत्रमीदृशम्॥ १३॥

(रामा.२.५३.२१) जातश्‍चायं मुखेन्दुस्ते भ्रुकुटीप्रणयी पुनः।
गतं च वसुदेवस्य कुलं नामावशेषताम्॥ १४॥

(हव. राघवः)इति। अथ कथं नित्यप्रवृत्तस्य वर्तमानप्राप्‍तावपि तस्थुः स्थास्यन्ति गिरयः, मार्गे कूपोऽभूत्, कूपो भविष्यतीति भूतभविष्यत्कालविषयः प्रयोगो भवति।

उच्यते हेहयादिवंशेषु ये राजानो बभूवुः, तेषां याः क्रियाः तासामतीतत्वात् तत्सम्बन्धविवक्षायां भूतकालविषयं प्रत्ययं प्रयुङ्क्ते, हेहयराज्येऽपि पर्वता इत्थमेव तस्थुरिति। तथा आगामिमन्वन्तरेषु ये राजानो भविष्यन्ति तेषां याः क्रियास्तासां भविष्यत्वात् तत्सम्बन्धविवक्षायां भविष्यत्कालविषयं प्रत्ययं प्रयुङ्क्ते; यदा बलिरिन्द्रो भविष्यति तदापीत्थमेव पर्वताः स्थास्यन्तीति।

एवं कूपस्यापि भूतभविष्यद्दर्शनक्रियासम्बन्धाद् अभूद् भविष्यतीति क्रियाभिसम्बन्धो न विकल्प्यत इति॥

(प्रकृत्यर्थोपाधिः = उपग्रहः)

उपग्रहोऽपि प्रकृत्यर्थोपाधिरेव।

कः पुनरसौ ?

परस्मैपदात्मनेपदोभयपदिनामात्मनेपदपरस्मैपदयोगनिमित्तमर्थविशेषः। तदुक्तम्—

य आत्मनेपदाद् भेदः क्‍वचिदर्थस्य गम्यते।
परस्मैपदतो वापि मन्यन्ते तमुपग्रहम्॥ १५॥

(वाप. ३.१२.१) यथा— नाथति नाथते, शपति शपते, आह्वयति आह्वयते, प्रतिजानाति प्रतिजानीत इति। अत्र ‘आशिषि नाथः’ {३.१.२१ (७)}, ‘शपः शपथे’ ‘स्पर्धायामाङः’ (१.३.३०—३१), ‘सम्प्रतिभ्यामनाध्याने’ ह्वः (१.३.४४, ४६) ज्ञः इति आत्मनेपदम्; शेषे परस्मैपदमित्यर्थभेदाः। एवं —

मुण्डो भीषयते, कुञ्चिकयैनं भाययति, जटिलो विस्मापयते, मत्यैनं विस्मापयति। श्येनो वर्तिकामुल्लापयते, कस्त्वामुल्लापयति, संप्रवदन्ते ग्राग्याः, संप्रवदन्ति शकुनय इति। अत्र ‘भीस्म्योर्हेतुभये’, ‘लियः सम्माननशालिनी— करणयोश्‍च’, ‘व्यक्तवाचां समुच्‍चारणे’ वदः (इति) आत्मनेपदम्, शेषे परस्मैपदमित्यर्थभेदः। एवमन्यदप्यूहनीयम्।

ननु च ‘य आत्मनेपदाद् भेदः क्‍वचिदर्थस्य गम्यत’ इति, अत्र कवचिद्‍ग्रहणं किमर्थम् ?

उच्यते परस्मैपदात्मनेपदोभयपदिनामात्मनेपदपरस्मैपदोभयपदयोगः षट्‍प्रकारो भवति— ‘प्रकृतिनिमित्तः, प्रकृत्यर्थनिमित्तः, प्रत्ययनिमित्तः, प्रत्ययार्थनिमित्तः, उपस्कारनिमित्तः, उपस्कारार्थनिमित्तश्‍च। तत्रार्थनिमित्तेषु यथायोगमर्थावगतिहेतुत्वं विद्यते। शेषेषु तु न विद्यते इति ‘क्‍वचिद्—‘ग्रहणेन ज्ञापयति। तत्र—

(आत्मनेपदयोगे)

आत्मनेपदयोगः प्रकृतिनिमित्तो यथा—‘अनुदात्तङित आत्मनेपदम्’ (१.३.१२); ‘सनः’ ‘स्मृदृशिभ्याम्’, एधते, च्यवते, सुस्मूर्षते, दिदृक्षत इति।

प्रकृत्यर्थनिमित्तो यथा— ‘प्रकाशनस्थेयाख्ययोश्‍च’ (१.३.२३), ‘भुजोऽनवने’ (१.३.६६), ‘गृधिवञ्च्योः प्रलम्भने’ (१.३.६९), ‘कर्मव्यतीहारे’ (१.३.१४) तिष्ठते, भुङ्क्ते, गन्धयते, व्यतिलुनीत इति।

प्रत्ययनिमित्तो यथा—‘शदेश्शितः’ (१.३.६०), ‘म्रियतेर्लुङ्‍‌लिङोश्‍च’ (१.३.६१), शीयते, म्रियते, अमृत, मृषीष्टेति।

प्रत्ययार्थनिमित्तो यथा— ‘भावकर्मणोरात्मनेपदम्’ (१.३.१३) कर्मकर्तरि फलवत्कर्तरि च, आस्यते, पच्यते, विपच्यते, पचत इति।

उपस्कारनिमित्तो यथा— ‘विपराभ्यां जेः’ (१.३.१९), ‘समवप्रविभ्यः स्थः’ (१.३.२२), ‘समस्तृतीयायुक्तात्’ (१.३.५४), ‘मिथ्योपपदात् त्कृञोऽभ्यासे’ (१.३.७१), विजयते, पराजयते, संतिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते, अश्वेन सञ्चरते, पदं मिथ्या कारयते।

उपस्कारार्थनिमित्तो यथा— ‘वेः पादविहरणे’ (१.३.४१), ‘आङो ज्योतिरुद्गमने’, ‘उपान्मन्त्रकरणे’ (१.३.२५), ‘दाणश्‍च सा चेच्‍चतुर्थ्यर्थे’ (१.३.५५), विक्रमते राजा, आक्रमन्ते ज्योतीषि, सावित्र्योपतिष्ठते, दास्या संप्रयच्छत इति।

(परस्मैपदयोगे)

प्रकृतिनिमित्तः परस्मैपदयोगे यथा— ‘शेषात्कर्तरि परस्मैपदम्’ (१.३.७८) भवति, व्यतिहसन्ति, व्यतिहरन्ति परस्परस्य व्यतिलुनन्ति।*

प्रत्ययार्थनिमित्तो यथा— ‘कुषिरजोः प्राचां श्यन् परस्मैपदं च’ (३.१.९०) ‘शेषात् कर्तरि परस्मैपदम्’। रज्यति वस्त्रं स्वयमेव, कुष्यति पादस्स्वयमेव, रजति वस्त्रम्, कुष्णाति पादमिति।

उपस्कारनिमित्तो यथा— ‘अनुपराभ्यां कृञः’ (१.३.७९), ‘इतरेतरान्योन्योप— पदाच्‍च’ (१.३.१६), अनुकरोति, पराकरोति, इतरेतरस्य व्यतिलुनन्ति, अन्योन्यस्य व्यतिलुनन्तीति।

उपस्कारार्थनिमित्तो यथा— ‘समोऽकूजने’ (१.३.२१वा.१) ‘आङो दोऽनास्य— विहरणे’ (१.३.२०), ‘उदोऽनूर्ध्वकर्मणि’ (१.३.२४), प्रादेरजाद्यन्तराद्युजेरयज्ञापात्रेषु, संक्रीडन्ति शकटानि, व्याघ्रो मुखं व्याददाति, आसनादुत्तिष्ठति, यज्ञपात्राणि प्रयुनक्तीति।

(उभयपदप्रयोगे)

उभयपदप्रयोगे प्रकृतिनिमित्तो यथा— ‘वा क्यषः’ (१.३.९०), अप्रादेर्वा, लोहितायति लोहितायते, क्रामति क्रमत इति।

प्रकृत्यर्थनिमित्तो यथा—‘विभाषाकर्मकात्’ (१.३.८५), ‘विभाषा विप्रलापे’ (१.३.५०), उपरमति उपरमते, संप्रवदन्ति मौहूर्ताः, संप्रवदन्ते मौहूर्ता इति।

प्रत्ययनिमित्तो यथा—‘द्युद्‌भ्यो लुङि’ (१.३.९१), ‘वृद्‍भ्यः स्यसनोः’ (१.३.९२), अद्युतत् अद्योतिष्ट, वर्त्स्यति, वर्तिष्यत इति।

प्रत्ययार्थनिमित्तो यथा— रज्यति रज्यते, कुष्यति कुष्यते, ‘कुषिरजोः प्राचां श्यन्’, ‘परस्मैपदं च कर्मकर्तरि’ इति।

उपस्कारनिमित्तो यथा— ‘उपसर्गादस्यत्यूह्योर्वा’ (१.३.२९ वा. ३), उदस्यति उदस्यते, समूहति समूहत इति।

उपस्कारार्थनिमित्तो यथा ‘वा लिप्सायाम्’ (१.३.२५ वा. २), ‘विभाषोपपदेन प्रतीयमाने’ (१.३.७७); भिक्षुको ब्राह्मणकुलमुपतिष्ठति उपतिष्ठते, ब्राह्मणस्स्वं यज्ञं यजति, यजत इति।

  • परस्मैपदयोगे प्रकृत्यर्थनिमित्तः प्रत्ययनिमित्तश्‍चेति भेदाविमौ न स्पृष्टौ। एवमन्येऽपि हेतुलक्षणाभीक्ष्ण्यभृशार्थगर्हाकौटिल्यलसाकल्यपूर्वकालतादर्थ्यादयः प्रकृत्यर्थोपाधिविशेषा वेदितव्याः, यथा— अधीयानो वसति, पचन्नास्ते, पुनः पुनः पठति पापठ्यते, पुनः पुनः पचति पापच्यते, गर्हितं दहति दन्दह्यते, कुटिलं क्रामति चङ्क्रम्यते, कन्यादर्शं वरयति, भुक्त्वा व्रजति, भोक्तुं व्रजति इति। एवमेते धातुरूपायाः प्रकृतेरर्थोपाधयः॥

(प्रत्ययार्थोपाधिः)

प्रत्ययरूपायाः स्वप्रत्ययार्थोपाधय एवोपाधयो भवन्ति।

प्रातिपदिकरूपायास्तु स्वार्थद्रव्यलिङ्गसङ्ख्यापरिमाणकारकसंबन्धसंबोधनसहार्थ— तादर्थ्यहेतुलक्षणादय उपाधयो विद्यन्ते। ते तु प्रत्ययार्थोपस्कारार्थप्रातिपदिका— र्थेष्वनन्तरमेव वर्णयिष्यन्त इति नेह प्रतन्यन्ते।

अथ प्रत्ययार्थोपाधिः तत्र कारकोपाधिषु पुरुष उक्तः; सङ्ख्या त्वग्रतोऽभिधास्यते। अपरेऽपि चास्य विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्‍नप्रार्थनप्रैषातिसर्गप्राप्तकालशक्त्यर्ह— गर्हादयः उपाधयो भवन्ति। तद्यथा— अग्‍निहोत्रं जुहुयात्, इह भवान् भुञ्जीत, इह भवानानासीत्, भवान्माणवकमध्यापयेत्, किं नु खलु व्याकरणमधीयीय इतः उत छन्दः, लभेयाहं भिक्षाम्; आशंसनमपि प्रार्थनमेवः चिरं जीव्याः, ग्रामं गच्छ, गच्छानुज्ञातोऽसि, कुरु कटं प्राप्तस्ते कालः कटकरणे, भवान् खलु शत्रुं हन्यात्, तत्रभवान् खलु भारं वहेत्, कथं नाम तत्रभवान् वृषलं याजयेदिति।

एवमन्येऽपि तच्छीलतद्धर्मतत्साधुकारिहेत्वानुलोम्यशक्तिवयोवचनाकृच्छ्रानुद्यमन— शिल्पिलक्षणलिङ्गादयोऽवगन्तव्याः। यथा— वदिता जनापवादान्, मुण्डयितारः श्राविष्ठायनाः वधूमूढाम्, कन्यामलङ्करिष्णुः, यशस्करी विद्या, आज्ञाकरी भार्या, हस्तिघ्‍नो भटः, कवचहरः क्षत्रियकुमारः, धारयन्नुपनिषदम्, अंशहरस्सुतः, नर्तकी वेश्या, जायाघ्‍नस्तिलकः, व्यासस्य वचनं, पाणिनेरुक्तिः, कालिदासस्य प्रबन्ध इति।

अथोभयोपाधिः। सोऽपि संज्ञाजातिप्रभासपरिमाणद्यूताभ्रेषभाषाच्छन्दोमन्त्र— ब्राह्मणाशीरुत्क्रोशादिभेदादनन्तप्रकारः। तद्यथा ‘क्तिच्क्तौ च संज्ञायाम्’ (३.३.१७४), भद्रभूतिर्देवदत्त इति, हस्ता पुरोढा (हस्ती पुरुषः?) इति। ‘द्वितीया ब्राह्मणे’ (२.३.६०) गामस्य तदहस्सभायां दीव्येयुः, पष्ठौहीं दीव्यतीति; आशिषि वुन्, जीवतात् जीवकः, नन्दतात् नन्दक इति। ‘माङ्‌याक्रोशे’ (३.२.१२६ वा.६), ‘आक्रोशे नञ्यनिः’ (३.३.११२),

मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति।
तस्याजननिरेवास्तु जननीक्लेशकारिणः॥ १६॥

माघ.२.४५ इति। एवमन्येऽप्यसूयासंमतिकोषकुत्सनभर्त्सनाबाधप्रकाराकृच्छ्रपर्यायार्हणोत्पत्ति— प्रभृतयोऽवगन्तव्याः। तेषु —

असूया यथा— माणवक ३ माणवक, अभिरूपक३ अभिरूपक, रिक्तं ते आभिरूप्यम्।

संमतिः यथा— माणवक ३ माणवक, अभिरूपक३ अभिरूपक शोभनः खल्वसि।

कोपो यथा— माणवक ३ माणवक, अविनीतक३ अविनीतक इदानीं ज्ञास्यसि जाल्म।

कुत्सनं यथा— शक्तिके ३ शक्तिके, यष्टिके ३ यष्टिके रिक्ता ते शक्तिः।

भर्त्सनं यथा— चोर ३ चोर, वृषल ३ वृषल घातयिष्यामि त्वाम्।

आबाधो यथा— गतगता नष्टनष्टा प्रियाया गमनादिना।

पीड्यमानः कश्‍चिदेवं प्रयुङ्क्ते॥

प्रकारो यथा— पटुपटु, भीतभीत, परिपूर्णगुणेन न्यूनगुणस्योपमाने सत्येवं भवति।

अकृच्छ्रं यथा— सुखसुखेन ददाति, प्रियप्रियेण ददाति, अपीड्यमानो ददातीत्यर्थः।

पर्यायादयो यथा— भवतश्शायिका, अर्हति भवानिक्षुभक्षिकाम्, इक्षुभक्षिकां मे धारयसि, उदपादीक्षुभक्षिका इति।

सर्वोऽपि चायमुपाधिप्रपञ्चस्त्रिधैवाख्यायते धर्म्युपाधिः, धर्मोपाधिः, प्रकीर्णोपाधिश्‍च।

तत्र कृञः स्तम्बशकृद्‍भ्यां व्रीहिवत्सयोरिन्, स्तम्बकर्णयो रमिजपोः (३.२.१३) हस्तिसूचकयोरित्यादि (३.२.१३ वा.) धर्म्युपाधिः यथा—

व्रीहिस्स्तम्बकरिः क्षेत्रे गृहे वत्सश्शकृत्करिः।
जनः कर्णेजपो राज्ये मत्तस्स्तम्बेरमो वने॥ १७॥

(३.२.२४) ‘प्रजने सर्तेः’ अप् (३.३.७१), ‘समुदोरजः पशुषु’ (३.३.६९) धर्मोपाधिः यथा—

समजस्स्याद् गवां गोभिरुक्ष्णामुदज उक्षभिः।
भवत्यपसरे यस्यास्सैषा मे गोमतल्लिका॥ १८॥

‘मन्यकर्मण्यनादरे विभाषाऽप्राणिषु’ (२.३.१७), ‘षष्ठी चानादरे’ (२.३.३८), अधिके भावलक्षणे इति प्रकीर्णोपाधिः यथा—

मन्यते न तृणायापि (सर्वस)वं पश्यतोहरः।
मिषत्सु लोकपालेषु हविः पिबति सोऽध्वरे॥ १९॥

(हव.) (६. प्रधानम्)

तिङ्कृत्तद्धिताभिधेयप्रत्ययार्थः प्रधानः। स त्रिधा— (१) स्वार्थः, (२) सम्बन्धी, (३) कारकं चेति। तेषु —

(१.स्वार्थः)

प्रकृत्यर्थ एव स्वार्थः।

स त्रिधा (१) धात्वर्थः, (२) प्रातिपदिकार्थः, (३) शेषश्‍च। तत्र—

(१) धात्वर्थस्त्रिविधः — भावः, क्रिया कारकं च। तेषु— भावो द्विधा— सत्त्वभूतोऽसत्त्वभूतश्‍च। तयोः लिङ्गसङ्ख्यायोगी सत्त्वभूतो यथा—

अवचनं वचनं प्रियसन्निधावनवलोकनमेव विलोकनम्।
अवयवावरणं च यदंशुकव्यतिकरेण तदङ्गसमर्पणम्॥ २०॥

अलिङ्गसङ्ख्योऽसत्त्वभूतो यथा—

अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते॥ २१॥

(रघु.५.१०) क्रिया द्विधा— शुद्धा सङ्कीर्णा च। तयोः— कारकासंपृक्ता शुद्धा यथा—

पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण॥ २२॥

(माघ.१०.५३) कर्तृत्वापन्नसाध्यरूपा सङ्कीर्णा यथा—

कुचद्वन्द्वे तन्वि! द्विपकलभकुम्भस्थलतुलां दधानेऽस्मिन् कस्या न युवतिषु चित्तस्य रुजति।
तवोर्वोर्युग्मे वा हृतरुचिरचामीकररुचौ विकर्षत्यूष्माणं कमिह न युवानं ज्वरयति॥ २३॥

कारकं द्विधा— नियतधातुविषयमनियतधातुविषयं च।

तयोर्नियतधातुविषयं यथा— (किराता. ३.६६)

तुषारलेशाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः।
अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे॥ २४॥

अनियतधातुविषयं यथा— (शाकु. २.१२)

अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम्।
विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः॥ २५॥

(२) प्रातिपदिकर्थः त्रिविधः व्यक्तोऽव्यक्तस्संदिग्धश्‍च। तेषु —

प्रत्ययोत्पादानुत्पादयोरविशिष्‍टो व्यक्तः। स द्विधा तल्लिङ्गोऽन्यलिङ्गश्‍च। तयोः—

तल्लिङ्गो यथा— मन एव मानसम्, बन्धुरेव बान्धवः, यव एव यावक इति।

अन्यलिङ्गो यथा— उपाय एव औपयिकम्, देव एव देवता, देवतैव दैवतमिति।

अव्यक्तो द्विधा— उज्झितस्वरूपोऽनुज्झिस्वरूपश्‍च। तत्र

उज्झितस्वरूपो यथा—‘वेश्शालच्छङ्कटचौ’ (५.२.२८), ‘संप्रोदश्‍च कटच्’ (५.२.२९), ‘उपाधिभ्यां त्यकन्नासन्नारूढयोः’ (५.२.३४) इति यथा— विशालं, विशङ्कटं, प्रकटं, विकटम्, उपत्यका, अधित्यका इति। अत्रोपसर्गेरशृङ्गत्वादिस्वरूपमुज्झितम्।

अनुज्झितस्वरूपो यथा— ‘वत्सोक्षश्वर्षभेभ्यश्‍च तनुत्वे’ (५.३.१९), ‘कासूगोणीभ्यां ष्‍टरच्’ (५.३.९०), ‘किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे’ (५.४.११)। ‘विनञ्भ्यां नानाञौ नसह’ (५.२.२७)। यथा— वत्सतरः, उक्षतरः, नितराम्, अतीवतरां, विना, नानेति।

उपचरितार्थवृत्तिः सन्दिग्धः। स द्विधा— सङ्ख्यावानसङ्ख्यतश्‍च। तयोः—

तिङन्तार्थो यथा— पचतितरां, पचतकीति (५.३.७४,७५)।

सुबन्तार्थो यथा— त्वयका, उच्‍चकैः (५.३.७४) इति।

(३) उक्‍तादन्यः शेषः स द्विधा प्रत्ययार्थः समासार्थश्‍च।

प्रत्ययार्थो द्विधा, कृदर्थस्तद्धितार्थश्‍च। तयोः

कृदर्थो यथा— व्यावक्रोशी, सांराविणमिति।

तद्धितार्थो यथा— आभिजित्यः(५.३.११८), कौञ्जायन्यः(५.३.११३) इति।

समासार्थो द्विधा— समासनिमित्तम्, समासनिमित्तश्‍च। तत्र

यमाश्रित्य ‘तद्धितार्थ’ इति समासो भवति (स) समासनिमित्तम्। यथा— द्वैमातुरः, पञ्चकपाल इति।

सम्बन्धी यस्य तु समासन्त इति समासो निमित्तं स समासनिमित्तः। यथा—देवराजः, प्रत्युरसमिति।

(२. सम्बन्धी)

सम्बन्धी न्निधा— (१) क्रिया, (२) द्रव्यं (३) गुणश्‍च। तेषु —

(१) क्रिया न्निधा— क्रियासम्बन्धिनी, कारकसम्बन्धिनी उभयसम्बन्धिनी च। तासु— क्रियासम्बन्धिनी द्विधा— भिन्नरूपाऽभिन्नरूपा च।

भिन्नरूपा यथा— कर्तुमिच्छति चिकीर्षति, जुगुप्सिच्छति जुगुप्सिषत’ इति।

अभिन्नरूपा यथा— अत्यर्थं पचति पापच्यते, पुनः पुनः पठति पापठ्यत इति।

कारकसम्बन्धिन्यपि द्विधा, साकाङ्क्षा निराकाङ्क्षा च।

साकाङ्क्षा यथा— पटमिवाचरति पटीयति कम्बलम्, प्रासाद इवाचरति प्रासादीयति कुटी।

निराकाङ्क्षा यथा—पुत्रमिच्छति पुत्रीयति, पुच्छमुदस्यत्युत्पुच्छयत इति।

उभयसम्बन्धिनी द्विधा— क्रियाकारकसम्बन्धिनी कारकक्रियासम्बन्धिनी च। तयोः

प्रथमा यथा— पचन्तं प्रयुङ्क्ते पाचयति देवदत्तः, अधीयानं प्रयुङ्क्ते अध्यापयति कारीषोऽग्‍निः।

द्वितीया यथा— कंसवधमाचष्‍टे कसं घतयति, आरात्रि विवासमाचष्‍टे रात्रिं विवासयति।

(२) द्रव्यमपि त्रिधा— विशेष्यं, विशेषणं, व्यवहितं च। तेषु—

विशेष्यं द्विधा— सापेक्षमनपेक्षं च।

सापेक्षं यथा— युष्माकमयं यौष्माको गौः, वत्सेभ्यो हितो वत्सीयो गोधुक्।

अनपेक्षं यथा— वसिष्ठस्यापत्यं वासिष्‍ठः, पृथिव्या ईश्वरः पार्थिवः।

विशेषणं द्विधा— धर्मिनिष्‍ठं धर्मनिष्‍ठं च।

धर्मिनिष्‍ठं यथा—गावोऽस्य सन्तीति गोमान्, प्रासादोऽस्य स्यात् प्रासादीयं दारू।

धर्मनिष्‍ठं यथा— अस्तीति मतिरस्यास्तिकः, नास्तीति मतिरस्य नास्तिक इति।

व्यवहितं द्विधा, विशेष्यरूपं विशेषणरूपं च।

विशेष्यरूपं यथा— द्विमयमुदश्विद् यवानाम्, द्विमया यवा उदश्वितः (काशिका ५.२.४७)।

विशेषणरूपं यथा— ‘पञ्चमो मासोऽस्य जातस्य पञ्चमी बालकः (काशिका ५.२.१.३०), षष्‍ठं रूपग्रन्थग्रहणमस्य षट्‌को वटुः।

(३) गुणोऽपि त्रिधा— आश्रितः प्रवृत्तिनिमित्तमुपाधिश्‍च। तेषु—

आश्रितो द्विधा— अभिन्नरूपो भिन्नरूपश्‍च। तयोः

अभिन्नरूपो यथा—भिक्षाणां समूहो भैक्षम्, काकोलूकस्य वैरं काकोलूकिका।

भिन्नरूपो यथा— ऋत्विजां कर्मार्त्विज्यम्, पीलूनां पाकः पीलुकण इति।

प्रवृत्तिनिमित्तं द्विधा— अनुरञ्जकमननुरञ्जकं च। तत्र

अनुरञ्जकं जात्यादि, यथा—ब्राह्मणस्य भावः ब्राह्मण्यम्, ऋजोर्भाव आर्जवमिति।

अननुरञ्जकं सम्बन्धादि, यथा—दण्डिनो भावो दण्डित्वम्, पाचकस्य भावः पाचकतेति।

प्रकृत्यर्थप्रत्ययार्थयोर्विशेषणम् उपाधिः। स द्विधा— व्यस्तस्समस्तश्‍च।

व्यस्तः प्रकृत्यर्थे यथा— शिवो देवताऽस्येति शैवं, लवणं पण्यमस्येति लावणिकः।

प्रत्ययार्थे यथा— गार्गिकया श्लाघते, काठिकयाऽधिक्षिपति। अत्र देवतापण्यश्लाघाधिक्षेपा उपाधयः।

समस्तो यथा— दण्डः प्रहरणमस्यां क्रीडायां दाण्डा। अत्र दण्डशब्दात् ‘तदस्याम्’ (४.२.५७) इत्यधिकरणे प्रत्ययो विहितो दण्डस्थं प्रहरणत्वम्, अधिकरणत्वं च क्रीडात्वं प्रत्याययति। एवं ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम्। अत्र ह्योगोशब्दाद्विकारे प्रत्ययो विहितः, प्रकृत्यर्थोपाधिं दोहं प्रत्ययार्थो च संज्ञां प्रत्याययमिति।

(३. कारकम्)

कारकं त्रिधा (१)सक्रियं, (२) भिन्नाक्रियम् (३) अभिन्नक्रियं च। तेषु—

(१) सक्रियं त्रिधा— कर्तृरूपं, कर्मरूपम् अनुस्यूतं च।

कर्तृरूपं द्विधा, क्रियाविशेषस्थं कारकविशेषस्थं च। तयोः —

क्रियाविशेषस्थं सुस्‍नातं पृच्छति सौस्‍नातिकः, एवं सौखशायनिकः; प्रभूतमाह प्राभूतिकः; एवं माशब्दिकः, प्रतीपं वर्तते प्रातीपिकः, प्रतिकूलं चरति प्रातिकूलिक इति।

कारकविशेषस्थं यथा— व्याकरणं वेत्त्यधीते वा वैयाकरणः, समां समां विजायते समांसमीना, अक्षैर्दीव्यत्याक्षिकः, संतापाय प्रभवति सान्तापिकः, पितुरागतं पित्र्यम्, समानोदरे शयितः सोदर्य इति।

कर्मरुप द्विधा, सजातीयस्थमसजातीयस्थं च।

सजातीयस्थं यथा— अयानयं नेयः अयानयीनः शारः, मासं भृतो मासिको भृत्यः, वर्षमधीष्‍टो वार्षिक उपाध्यायः, पक्षं लक्षः(?) पाक्षिको निबन्धः, षण्मासं क्रीतः षाण्मासिको दासः, संवत्सरं कृतस्सांवत्सरिकोऽभ्यास इति।

असजातीयस्थं यथा— वामदेवेन दृष्‍टं वामदेव्यं साम, लाक्षया रक्तं वस्‍त्रं लाक्षिकं, देवाय देयं दैव्यं हविः, तन्त्रादचिरापहृतः तन्त्रकः पटः, द्वारे नियुक्तो दौवारिकः पुमान्, चतुर्दश्यां दृश्यते चातुर्दश्यं रक्ष इति।

अर्थान्तरनुबन्धमनुस्यूतम्। तदि्द्वधा— क्रियानुस्यूतं कारकानुस्यूतं च। तयोः—

क्रियानुस्यूतं यथा— सीतान्वेषणमधिकृत्य कृतो ग्रन्थः ‘सीतान्वेषणीयः’, एवं ‘किरातार्जुनीयः’, ‘वाक्यपदीयः’, पौषी पौर्णमासी अस्मिन् मासे भवति पौषः, एवमाग्रहायणिकः, आश्वत्थिक इति।

कारकानुस्यूतं यथा— तित्तिरिणा प्रोक्तं वेदं विदन्त्यधीयते वा तैत्तिरीयाश्छात्राः, एवं वारतन्तवीयाः, छागलेयिनः, ऐतरेयिणः, तथा पाराशरिणो भिक्षवः, शैलालिनो नटाः।

(२) भिन्नक्रियं त्रिधा लक्षितक्रियमपेक्षितक्रियमनुषक्तक्रियं च। तेषु—

लक्षितक्रियं द्विधा— कर्तृस्थं कर्मस्थं च। तयोः

कर्तृस्थं यथा— मुद्‌गा भवन्त्यस्मान्मौद्गीनं क्षेत्रम्, दण्डिनः सन्त्यस्यां दण्डिमती शाला, वरणाः सन्ति अस्मिन् वरणा नगरमिति।

कर्मस्थं यथा—श्राद्धमनेनाद्य भुक्तं श्राद्धिकः, अग्रभोजनमस्मै दीयते आग्रभोजनिकः, पदमस्मिन् दृश्यं पद्यः कर्दम इति।

अपेक्षितक्रियं द्विधा, व्यवहितमव्यवहितं च। तयोः

व्यवहितं यथा— ग्रामादागच्छति, ब्राह्मणाय ददाति, पर्यङ्के शेत इति।

अव्यवहितं यथा— कटं करोति, दात्रेण लुनाति, देवदत्तेनास्यत इति।

अनुषक्तक्रियं द्विधा, तुल्याधिकरणमतुल्याधिकरणं च। तयोः

तुल्याधिकरणं यथा— शुक्लीभवति, उन्मनी स्यात्, भस्मसात् संपद्यत इति।

अतुल्याधिकरणं यथा— पटपटाकरोति, देवत्रागच्छति, मनुष्यत्रावसति इति।

(३) अभिन्नक्रियं त्रिधा, तिङभिधेयं, कृदभिधेयं तद्धिताभिधेयं च। तत्र—

तिङभिधेयं द्विधा कर्तृरूपं कर्मरूपं च। तयोः

कर्तृरूपं यथा— पचति देवदत्तः, दुग्धे गौः, चोरस्य रूजति रोग इति।

कर्मरूपं यथा— पच्यते ओदनः, भिद्यते कुसूलः, उष्‍ट्रासिका आस्यन्त इति।

कृदभिधेयं द्विधा, विशेष्यं विशेषणं च। तयोः

विशेष्यं यथा— दात्रं, प्रासादः, कुम्भकार इति।

विशेषणं यथा—कर्तव्यं, पाचकः, सुबोधमिति।

तद्धिताभिधेयं द्विधा— सापेक्षक्रियमनपेक्षितक्रियं च। तयोः

सापेक्षक्रियं यथा— इष्‍टी यज्ञे, परिगणिती याज्ञिक्ये, आम्‍नाती छन्दसि, अधीती व्याकरणे, कृतपूर्वी कटमिति।

अनपेक्षक्रियं यथा— पाकेन निर्वृत्तं पाकिमं, सेकेन निर्वृत्तं सेकिमं, कुट्टेन कुट्टिमं, करणेन कृत्रिमं, श्येनपातोऽस्यां क्रियायां तिलपातोऽस्यां क्रियायां श्यैनंपाता तैलंपातेति।

(७. उपस्कारार्थः)

प्रकृतिप्रत्ययोभयद्वारकं पदार्थविशेषणमुपस्कारार्थः।

स त्रिधा— (१) प्रकृतिद्वारकः, (२) प्रत्ययद्वारकः, (३) उभयद्वारकश्‍च। तेषु—

(१) प्रकृतिद्वारकः षोढा— लोपागमवर्णविकारादेशप्रत्यापत्त्युपपदोपस्कारभेदात्। तेषु — (लोपः)‘रञ्जेर्णौ मृगरमणे’ नलोप इत्यादिर्लोपोपस्कारार्थो यथा— (किराता. ६.२४)

धृतहेतिरप्यधृतजिह्ममतिश्‍चरितैर्मुनीनधरयन् गुरूभिः।
रजयाञ्चकार विरजाः स मृगान् किमिवेशते रमयितुं न गुणाः॥ २६॥

(आगमः) ‘अश्ववृषयोर्मैथुनेच्छायाम्’ इत्यादिरागमोपस्कारार्थः, यथा—

अनेकयुगजीविन्यास्त्रेता यस्यास्त्रयोदशी।
सा क्षीरकण्ठकं वत्सं वृषस्यन्ती न लज्जिता॥ २७॥

(वर्णविकारः) ‘वेश्‍च स्वनो भोजने’ मूर्धन्य इत्यादिर्वर्णविकारोपस्कारार्थः यथा—

ग्लानिच्छे(दी) क्षुत्प्रबोधाय पीत्वा रक्तारिष्‍टं झारिताजीर्णशेषः।
स्वादुङ्कारं कालखण्डोपदंशं क्रोष्‍टा डिम्बं व्यष्वणद् व्यस्वनच्‍च॥ २८॥

(आदेशः) ‘मातुर्मातच्पुत्रे श्लाघ्य’ इत्यादिरादेशोपस्कारार्थः, यथा—

गौरीमातस्य तस्यैताः कार्त्तिकेयस्य कीर्त्तयः।
कीर्त्तितासु न कीर्त्त्यन्ते यासु कस्यापि कीर्त्तयः॥ २९॥

(प्रत्यापत्तिः) ‘आख्यानात्कृतस्तदाचष्‍टे कृल्लुक‍्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्‍च कारकम्’ इत्यादिः। प्रत्यापत्त्युपस्कारार्थः, यथा—

शैलैर्बन्धयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिं
व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरूद‍्भाव्यते॥ ३०॥

इति। (उपपदः) ‘अपादाने परीप्सायां’ णमुलित्यादिरुपपदोपस्कारार्थः, यथा—

किञ्चिच्छेषनिशातुषारमधुरस्पर्शं गृहप्राङ्गणे
शय्योत्थायमिहं व्रजन्ति हलिनां बालाः कुकूलानलम्॥ ३१॥

इति। (२) प्रत्ययद्वारकोऽपि षोढा— लोपागमवर्णविकारविकरणादेशोपग्रहभेदात्। तेषु— लोपार्थः ‘फलकुसुमयोर्लुक्’ (४.३.१६६) यथा—

वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः॥ ३२॥

(कुसं.३.२८) आगमार्थो ‘हृषेर्लोमसु’ (७.२.२९) इट्, यथा—

आननैर्विचकसे (हृषिताभिः) वल्लभानभि तनूभिरभावि॥ ३३॥

(माघ.१०.३६) वर्णविकारार्थः ‘दिवोऽविजिगीषायां’ (८.२.४९) निष्ठानत्वम्, यथा—

आद्यूनस्सद्‍गृहिण्येव प्रायो यष्ट्यावलम्बितः॥ ३४॥

(किराता. ११.५) विकरणार्थः, ‘श्लिष आलिङ्गने’ (३.१.४६) वसः, यथा—

आश्लिक्षद् भयचपलेक्षणा नवोढा
भर्तारं विपदि न दूषितातिभूमिः॥ ३५॥

(माघ. ८.२०) आदेशार्थ ‘आशिषि तुह्योस्तातङ्’ (७.१.३५) यथा—

भवताद् भवतो मतिश्शुभा जयताज्जीव भवावनीश्वरः॥ ३६॥

उपग्रहार्थः ‘अधेः प्रसहने’ (१.३.३३) कृतेः आत्मनेपदम्, यथा—

भवादृशाश्‍चेदधिकुर्वते रतिं
निराश्रया हन्त हता मनस्विता॥ ३७॥

(किराता १.४३) इति। (३) उभयद्वारकः तु द्वादशधा— अवधि—सम्बोधन—क्रियाविशेषण—कारकविशेषण— शेष—परिशेष—सहार्थ—तादर्थ्य—हेतु—लक्षणोपपद—प्रकीर्णभेदात्। तत्र—

(१. अवधिः —६) क्रियादीनां मिथो मर्यादावधिः;

स पूर्वकालव्यतिहारपरापरयोगकालाध्वादिभेदादनेकप्रकारः। तेषु— पूर्वकालो यथा—(किराता. ४.६)

कृतोर्मिलेखं शिथिलत्वमायता शनैश्शनैश्शान्तरयेण वारिणा।
निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम्॥३८॥

व्यतिहारो यथा—

स्तनोपपीडं परिरभ्य चुम्बतोः प्रजल्पतोरप्यनवस्थितं मुहुः।
स्रजश्‍च यूनोरपमित्य याचतोरनिद्रयोरेव जगाम शर्वरी॥ ३९॥

परयोगो यथा—

प्रालेयाद्रेरुपतटमतिक्रम्य ताँस्तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम्।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी श्यामः पादो बलिविमथनाभ्युत्थितस्येव विष्णोः॥ ४०॥

(मेघ. ५७) अपरयोगो यथा—

अप्राप्य पर्वतमिमानि पुरोविलीननीरन्ध्रलोध्रवकुलानि वनस्थलानि।
आसेदुषस्तव हरिष्यति येष्वघौघमध्वक्लमं च सुरसिन्धुतरङ्गवातः॥ ४१॥

कालयोगो यथा—

एवमिन्द्रियसुखस्य वर्त्मनस्सेवनादनुगृहीतमन्मथः।
शैलराजभवने सहोमया मासमेकमवसद् वृषध्वजः॥ ४२॥

(कुसं. ८.२०) अध्वयोगो यथा—

उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं गणयति।
इति प्रायो भावास्स्फुरदुपधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषा पुनरयमसीमा विजयते॥ ४३॥

(बारा. १.८) (२. सम्बोधनम् —६) सिद्धस्य क्रियार्थमभिमुखीकरणं सम्बोधनम्।

तत् षोढा नियोगनिषेधानुमत्युपालम्भप्रश्‍नाख्यानार्थभेदात्। तेषु— नियोगार्थं यथा—(कुसं. ३.३)

आज्ञापय ज्ञातविशेष! पुंसां लोकेषु यत् ते करणीयमस्ति।
अनुग्रहं संस्मरणप्रवृद्धमिच्छामि संवर्धितुमाज्ञया ते॥ ४४॥

निषेधार्थं यथा—(कुसं. ८.७६)

आर्द्रकेसरसुगन्धि ते मुखं मत्तमत्तनयनं स्वभावतः।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि! मदः करिष्यति॥ ४५॥

अनुमत्यर्थं यथा—(कुसं. ३.१२)

सर्वं सखे! त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवाँश्‍च।
पूर्वं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साधकं च॥ ४६॥

उपालम्भार्थं यथा—(कुसं. ५.६६)

अवस्तुनिर्बन्धपरे! कथं नु ते करोऽयमामुक्तविवाहकौतुकः।
करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम्॥ ४७॥

प्रश्‍नार्थं यथा—(रघु. १६.८)

का त्वं शुभे! कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्‍त्रीविमुखप्रवृत्ति॥

आख्यानार्थं यथा—(कुसं. ८.५८)

नूनमुन्नमति यज्वनां पतिश्शार्वरस्य तमसो निषिद्धये।
पुण्डरीकमुखि! दिङ्‍मुखं यतः कैतकैरिव रजोभिराहतम्॥ ४९॥

(३. क्रियाविशेषणम्—६)

प्रकृतिप्रत्ययसमुदायस्य प्रकृत्यर्थभागमुखेन भेदकं क्रियाविशेषणम्; भावोत्पन्ने हि प्रत्यये कदाचित् समुदायः प्रत्ययमुखेन विशेष्यते, कदाचित् प्रकृतिमुखेन। तीव्रः पाकः, तीव्रं पाक इति। तत् षोढा— नामरूपम्, अव्ययरूपं, कृद्रूपं, तद्धितरूपं, समासरूपम्, उपसर्गादिरूपमिति। तेषु—

नामरूपं यथा—

मन्दं मन्दं नुदति पवनश्‍चानुकूलो यथा त्वां वामश्‍चायं नदति मधुरं चातकस्ते सगन्धः।
गर्भाधान—क्षण—परिचयान्नूनमाबद्धमाला— स्सेविष्यन्ते नयनसुभगं खे भवन्तं वलाकाः॥ ५०॥

(मेघ.९) अव्ययरूपं यथा—(किराता. ८.२८)

प्रशान्तधर्माभिभवश्शनैर्विवान् विलासिनीभ्यः परिमृष्टपङ्कजः।
ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तगोचरोऽनिलः॥ ५१॥

कृद्रूपं यथा—

शय्यन्ते हतशायिकाः पथि तरुच्छायानिषण्णाध्वगैः श्रीकण्ठायतनेषु धार्मिकजनैरास्यन्त उष्ट्रासिकाः।
शून्ये तत्र निकुञ्जशाखिनि सखि! ग्रीष्मस्य मध्यन्दिने सज्जानां दयिताभिसारणविधौ रम्यः क्षणो वर्तते॥ ५२॥

तद्धितरूपं यथा—

शतं वारानुक्तः प्रियसखि! वचोभिस्सुपरुषै— स्सहस्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः।
कियत्कृत्वो बद्धाः पुनरपि न वेद्मि भ्रुकुटय— स्तथापि क्लिश्‍नन्मां क्षणमपि न धृष्टो विरमति॥ ५३॥

समासरूपं यथा—(कुसं. ५.५१)

इति प्रविश्‍याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम्।
अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत॥ ५४॥

उपसर्गादिरूपं यथा—(कुसं. ३.९)

प्रसीद विश्राम्यतु वीर! वज्रं शरैर्मदीयैः कतमस्तवारिः।
बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः॥ ५५॥

(४. कारकविशेषणम्—६)

कर्त्रादीनां स्वेभ्यः परं कारकविशेषणम्। तदपि षोढा—

कर्तृविशेषणं कर्मविशेषणं करणविशेषणं संप्रदानविशेषणमपादानविशेषणम— धिकरणविशेषणमिति। तेषु —

कर्तृविशेषणं यथा—(कुसं. ७.११)

सा मङ्गलस्‍नानविशुद्धगात्री गृहीतवत्युद्गमनीयवस्त्रम्।
निवृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे॥ ५६॥

कर्मविशेषणं यथा—(कुसं. ३.५३)

अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्।
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती॥ ५७॥

करणविशेषणं यथा—(कुसं. ५.२७)

मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना।
तुषारवृष्टिक्षतपद्मसम्पदां सरोजसन्तानमिवाकरोदपाम्॥ ५८॥

संप्रदानविशेषणं यथा—(कुसं. ३.१६)

तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व।
योषित्सु तद्‍वीर्यनिषेकभूमिस्सैव क्षमेत्यात्मभुवोपदिष्टम्॥ ५९॥

अपादानविशेषणं यथा—(कुसं. ५.११)

विसृष्टरागादधरान्निवर्तितस्स्तनाङ्गारागारुणिताच्‍च कन्दुकात्।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः॥ ६०॥

अधिकरणविशेषणं यथा—(कुसं. ३.२७)

सद्यः प्रवालोद्‍गमचारुपत्रे नीते समाप्‍तिं नवचूतबाणे।
निवेशयामास मधुर्द्विरेफान् नामाक्षराणीव मनोभवस्य॥ ६१॥

(५. शेषः —६)

अनुप्रयोगार्थश्शेषः।

स षोढा— लिडनुप्रयोगार्थः, लोडनुप्रयोगार्थः, कृदनुप्रयोगार्थः, यथावि— ध्यनुप्रयोगार्थः, तद्धितानुप्रयोगार्थः, द्विर्वचनानुप्रयोगार्थ इति।

लिडनुप्रयोगार्थो यथा—(माघ. ३.२८)

न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम।
अचेष्टताष्टापदभूमिरेणुः खुराहतो यत् सदृशं गरिम्णः॥ ६२॥

लोडनुप्रयोगार्थो यथा—(माघ. १.५१)

पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्‍नानि हरामराङ्गनाः।
निगृह्य चक्रे नमुचिद्विषो बली य इत्थमस्वास्थ्यमहर्निशं दिवः॥ ६३॥

कृदनुप्रयोगार्थो यथा—(किराता ८.१६)

सलीलमासक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम्।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्‍चिज्जघनेन कान्तया॥ ६४॥

यथाविध्यनुप्रयोगार्थो यथा—(किराता. ८.१६)

स ते प्रियश्‍चेत् सुभगोऽपराधैर्विचिन्तितैरस्य फलं न किञ्चित्।
प्रियापराधो हि विचिन्त्यमानस्समूलकाषं कषतीव चेतः॥ ६५॥

तद्धितानुप्रयोगार्थो यथा—(किराता. १६.११)

परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती।
नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति॥ ६६॥

द्विर्वचनानुप्रयोगार्थो यथा—

वदत वदत सत्यं रूपमीदृक् कदाचिद् यदि पुनरबलाया दृष्टपूर्वं मुखादि।
जगति जितसमस्तारातिवर्गे(र्गैर्भ्रमद्भिर्बत कि-)मिव न दृष्टं मत्प्रसादाद् भवद्भिः॥

(६. परिशेषः —६)

चादिनिपातद्योत्यः समुच्चयादिः पदार्थधर्मः परिशेषः।

सोऽनन्तप्रकारोऽपि षड्‌विध इहोदाह्रियते — समुच्चयः, विकल्पः, उपमा, नियोगः, विनिग्रहः, प्रतिषेधः। तेषु—

समुच्चयो यथा—(कुसं. ५.८४)

इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितस्समाललम्बे वृषराजकेतनः॥ ६८॥

विकल्पो यथा—(कुसं. ५.७८)

विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा।
कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यत वपुः॥ ६९॥

उपमा यथा—(रघु. ७.२१)

हस्तेन हस्तं परिगृह्य वध्वास्स राजसूनुस्सुतरां बभासे।
अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन॥ ७०॥

नियोगो यथा—(रघु. ५.३७)

रूपं तदोजस्वि तदुन्नतत्वं तदेव नैसर्गिकमस्य तेजः।
न कारणात् स्वाद् विभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात्॥ ७१॥

विनिग्रहो यथा—

त्वमहनीह निबर्हय मानिनीः विरहिणः कु (त—उत्सविनी धृ—) तिः।
इति निवेशयति स्म कलापिनामनुगिरं नु गिरं जलदागमः॥ ७२॥

निषेधो यथा—(किराता. ९.२५)

न प्रसादमुचितं गमिता द्यौः नोद्ध‍ृतं तिमिरमद्रिवनेभ्यः।
दिङ्‍मुखेषु न च धाम विकीर्णं भूषिता च रजनी हिमभासा॥ ७३॥

(७. सहार्थः —६)

यद्युत्पत्तौ सहकारिलाभः तदा सहार्थस्त्रिधा अभिधीयमानः, प्रतीयमानः, व्यवधीयमानश्‍च। तेषु—

अभिधीयमानो द्विधा, सहेन पर्यायेण च।

तयोराद्यो यथा—(रघु. ६.३५)

अनेन यूना सह पार्थिवेन रम्भोरु! कच्चिन्मनसो रुचिस्ते।
शिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु॥ ७४॥

द्वितीयो यथा—(रघु. ६.५७)

अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः॥ ७५॥

प्रतीयमानोऽपि द्विधा, विभक्तितो निपाताच्च।

तयोराद्यो यथा—(रघु. १४.२४)

स पौरकार्याणि विचिन्त्य काले रेमे विदेहाधिपतेर्दुहित्रा।
उपस्थितं चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या॥ ७६॥

द्वितीयो यथा—(कुसं. ७.४३)

तमन्वगच्छत् प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्‍च साक्षात्।
जयेति वाचा महिमानमस्य संवर्धयन्तौ हविषेव वह्निम्॥ ७७॥

व्यवधीयमानोऽपि द्विधा वीप्सया भागेन च। सहकृता एव हि क्रिया गुणद्रव्यैः प्रयोक्त्रा युगपद्‍व्याप्‍तुमिष्यन्ते, सहकृता एव च विभज्यन्ते। अर्थशब्दस्तु निवृत्तिवचनोऽपि विद्यते, यथा मशकार्थो धूम इति। तत्र—

वीप्सया यथा—

सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम्।
प्रतिक्षणं सम्भ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती॥ ७८॥

(कुसं. ३.५६) भागेन यथा—

अलङ्कृताप्यन्वयरूपभूषणैर्न शोभते मां प्रति तावदङ्गना।
बिभर्ति यावत् प्रमदासमागमे न शूरभार्यादृतगर्वितं शिरः॥ ७९॥

(८. तादर्थ्यम्—६)

कार्यस्य कार्यिणो वा कारणं प्रति प्रयोजकत्वं तादर्थ्यम्।

तत् षोढा— क्रियातादर्थ्यं, द्रव्यतादर्थ्यं, क्रियाद्रव्यतादर्थ्यं, द्रव्यक्रियातादर्थ्यं, प्रकृतिविकारतादर्थ्यं, क्रियाकारकतादर्थ्यमिति। तत्र—

क्रियातादर्थ्यं यथा—(कुसं. ५.१३)

पुनर्ग्रहीतुं नियमस्थया तया द्वयीषु निक्षेप इवार्पितं द्वयम्।
लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च॥ ८०॥

द्रव्यतादर्थ्यं यथा—(कुसं. १.२३)

प्रसन्नदिक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि।
शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव॥ ८१॥

क्रियाद्रव्यतादर्थ्यं यथा—(रघु. ६.४४)

तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव।
शरत्प्रमृष्टाम्बुधरोपरोधश्शशीव पर्याप्‍तकलो नलिन्याः॥ ८२॥

द्रव्यक्रियातादर्थ्यं यथा—(कुसं. ५.४३)

अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु! कुतः पितुर्गृहे।
पराभिमर्शो न तवास्ति कः करं प्रसारयेत् पन्नगरत्‍नसूचये॥ ८३॥

प्रकृतिविकारतादर्थ्यं यथा—(रघु. १४.७७)

पुष्पं फलं चार्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि।
विनोदयिष्यन्ति नवाभिषङ्गामुदारवाचो मुनिकन्यकास्त्वाम्॥ ८४॥

क्रियाकारकतादर्थ्यं यथा—

गेहाद् याता सरितमुदकं हारिका नाजिगीषे
मङ्क्ष्यामीति श्रयसि यमुनातीरवीरुद्‍गृहाणि।
गोसन्दायी विशसि विपिनान्येव गोवर्धनाद्रेः
किं त्वं राधे! दृशि निपतिता देवकीनन्दनस्य॥ ८५॥

(९. कारको हेतुः —६)

हेतुविशेषेषु प्रयोजकः कारकश्‍च कारक एव; अकारकस्तु प्रपञ्च्यते। तत्र— कार्यप्रसवयोग्यः कारकस्तु षोढा— लिङादिवाच्यः, सद्‍वाच्यः, निपातादिवाच्यः, तृतीयावाच्यः पञ्चमीवाच्यः, प्रथमादिवाच्य इति। तेषु—

लिङादिवाच्यो यथा—

पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्।
ततोऽनुकुर्याद् विशदस्य तस्यास्ताम्रोष्ठपर्यस्तरुचिस्मितस्य॥ ८६॥

(कुसं.१.४४) सद्वाच्यो यथा—(कुसं. ७.२१)

सा संभवद्भिः कुसुमैर्लतेव ज्योतिर्भिरुद्यद्भिरिव त्रियामा।
सरिद् विहङ्गैरिव लीयमानैरामुच्यमानाभरणा चकाशे॥ ८७॥

निपातादिवाच्यो यथा—(जाह. १.२८)

लीला गतेस्तत्र निसर्गसिद्धा मत्तो न हस्ती मुषितो न हंसः।
इतीव जङ्घायुगलं तदीयं चक्रे तुलाकोट्यधिरोहणानि॥ ८८॥

तृतीयावाच्यो यथा—(कुसं. १.२४)

तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकाशे।
विदूरभूमिर्नवमेघशब्दादुद्भिन्नया रत्‍नशलाकयेव॥ ८९॥

पञ्चमीवाच्यो यथा—(कुसं. ५.४०)

अतोऽत्र किञ्चिद् भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः।
अयं जनः प्रष्टुमनास्तपोधने ! न चेद् रहस्यं प्रतिवक्‍तुमर्हसि॥ ९०॥

प्रथमादिवाच्यो यथा—(कुसं. १.११)

उद्वेजयत्यङ्गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमेऽपि यत्र।
न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः॥ ९१॥

(१०. लक्षणम् —६)

हेतुरेव ज्ञापको लक्षणम्।

तत् षोढा — द्रव्यलक्षणं, इत्थंभूतलक्षणं, विकारलक्षणं, उत्पातलक्षणं, भावलक्षणं, क्रियालक्षणमिति। तेषु—

द्रव्यलक्षणं यथा—(रघु. ६.१२)

तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः।
प्रवालशोभा इव पादपानां श्रृङ्गारचेष्टा विविधा बभूवुः॥ ९२॥

इत्थंभूतलक्षणं यथा—(काव्याद. २.१०)

कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः।
पारावतः परिक्रम्य रिरंसुश्‍चुम्बति प्रियाम्॥ ९३॥

विकारलक्षणं यथा—(माघ. १.७०)

स बाल आसीद् वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः॥ ९४॥

उत्पातलक्षणं यथा—(विसा. १.३)

गोनासाय नियोजितागदरजास्सर्पाय बद्धौषधिः
कण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन्बिभ्रती।
भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा
रक्षत्वद्रिसुता विवाहसमये ह्रीता च भीता च या॥ ९५॥

भावलक्षणं यथा—(रघु. ६.८२)

तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे।
आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श॥ ९६॥

क्रियालक्षणं यथा—(काव्याद. २.११)

बध्‍नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम्।
नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते॥ ९७॥

(११. उपपदम् —६)

उपपदं षोढा— क्रियारूपं, नामरूपं, नामार्थरूपं, प्रत्ययरूपं, निपातरूपं, कर्मप्रवचनीयरूपमिति। तेषु—

क्रियारूपं यथा—(कुसं. ६.५९)

भवत्सम्भावनोत्थाय परितोषाय मूर्च्छते।
अपि व्याप्‍तदिगन्तानि नाङ्गानि प्रभवन्ति मे॥ ९८॥

नामरूपं यथा—

सुखास्तेभ्यो विभावर्यस्तेभ्यो हितमहस्सदा।
येषामकृत्रिमप्रेमा प्रिया पार्श्वं न मुञ्चति॥ ९९॥

नामार्थरूपं यथा—(रघु. ९.४०)

हुतहुताशनदीप्‍ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत्।
युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम्॥ १००॥

प्रत्ययरूपं यथा—(किराता. १०.४४)

नृपसुतमभितस्समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः।
स्फुटमभिलषितं बभूव बध्वा वदति हि संवृतिरेव कामितानि॥ १०१॥

निपातरूपं यथा—

यो हि दीर्घासिताक्षस्य विलासवलितभ्रुवः।
कान्तामुखस्यावशगः तस्मै नृपशवे नमः॥ १०२॥

कर्मप्रवचनीयरूपं यथा—(कुसं. ७.८४)

आ लोचनान्ताच्छ्रवणे विवृत्य पीतं गुरोस्तद् वचनं भवान्या।
निदाघकालोल्बणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या॥ १०३॥

(१२. प्रकीर्णम्—)

शब्दान्तरसाहचर्यविरोधलिङ्गस्वराभिनयादयः प्रकीर्णम्। तत्र— शब्दान्तरं यथा—

भवतु समदना रतये तिलकवती चारुचम्पकच्छाया।
घनचन्दनधवलकुचाक्रान्ता तव विद्विषामटवी॥ १०४॥

साहचर्यं यथा—

लक्ष्मणानुगतो भाति शशी राम इवापरः।
कौसल्येव बिभर्ति द्यौरभिषेकोज्ज्वलां श्रियम्॥ १०५॥ (?)

विरोधो यथा—

हरिबाणाविमौ रोषादुभावपि धृतायुधौ।
प्रहर्तुमुद्यतौ वीरौ रणे रामार्जुनाविव॥ १०६॥ (?)

लिङ्गं यथा—

आप्याययति मित्रो यं यस्य मित्रं पयोनिधिः।
सोऽप्यमित्रश्शशी जातस्तदमैत्र्याऽद्य मे सखि !॥ १०७॥ (?)

स्वरो यथा—

यदि मे वल्लभा दूती तदाहमपि वल्लभा।
यदि तस्यां प्रिया वाचस्तन्ममापि प्रिय प्रियाः॥ १०८॥

अभिनयो यथा—(कुसं. ६.६३)

एते वयममी दाराः कन्येयं कुलजीवितम्।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु॥ १०९॥

(८. प्रातिपदिकार्थः)

प्रातिपदिकार्थस्त्रिधा १. स्वार्थः, २. द्रव्यं ३. लिङ्गं च। तेषु—

(१. स्वार्थः)

शब्दात्मैव स्वार्थः। स द्विधा— स्वरूपमनुकार्यश्‍च। तयोः—

स्वरूपं द्विधा— सत्त्ववचनार्हमसत्त्ववचनार्हं च।

तत्राद्यं यथा—

चूडामणिश्शिरोरत्‍ने तरलो हारमध्यगे।
पर्यङ्कश्शयने प्रोक्त आवेशश्‍चापि वेश्मनि॥ ११०॥

द्वितीयं यथा— (काव्याद. २.२३४)

मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥ १११॥

इति। अनुकार्यो द्विधा— अर्थवाननर्थश्‍च।

तयोरर्थवान् यथा—

उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुंहु मुञ्च मममेति च मन्दं जल्पितं जयति मानवतीनाम्॥ ११२॥

निरर्थको यथा—

अग्रशालमधिरुह्य नगस्य स्फारकण्ठकुहरो मदमत्तः।
ह्रस्वदीर्घसविसर्गघुकारान घोषयत्युषसि पाण्डुकपोतः॥ ११३॥

(२. द्रव्यम्)

उपात्तनिमित्तेनानुपात्तनिमित्तेन वा यत् श्रूयते गम्यते प्रतीयतेऽभिधीयते तद् द्रव्यम्। तदि्द्वधा— आश्रयरूपमनाश्रयरूपं च।

तत्र जात्यादिभिः प्रवृत्तिनिमित्तैर्यदाश्रीयते तदाश्रयरूपम्; यथा गौः, अश्वः, शुक्लः, एकः, प्रस्थं, पलम्, ऋजुः, पूर्वः, पाचकः, दण्डी, राजपुरुषः, चैत्र इति।

तद्‍‌विपरीतम् अनाश्रयरूपं निपाताव्ययोपसर्गगतिकर्मप्रवचनीयादीनामर्थः, यथा ‘अहं च त्वं च वृत्रहन्’, ‘ऋते धर्मं कुतः सुखम्’, ‘(लौहघ)नस्सुमनायते१’ ‘कस्त्वामूरीकरिष्यति’, ‘कस्तं प्रति न यास्यति’, ‘स्वयं पर्येतुमिच्छति’।

(३. लिङ्गम्)

लिङ्गं द्विधा, शब्दलिङ्गमर्थलिङ्गं च।

तयोरियमयमिदमित्यर्थव्यपदेशनिमित्तं शब्दसंस्कारहेतुरयमित्यर्थव्यपदेशकारणं पुमान्, ‘नपुंसकस्य झलचः’ (७.१.७२) इति x x x x x x

उपस्कारहेतुरिदमित्यर्थव्यपदेशकारणं नपुंसकमिति।

तदेतच्छुद्धमिश्रादिभेदात् षोढा विप्रथते— शुद्धं, मिश्रं, सङ्कीर्णम्, उपसर्जनम्, आविष्‍टं अव्यक्तं च।

तेष्वेकसंस्कारहेतुश्शुद्धम्, खट्वा, वृक्षः, कुण्डं, स्त्री, पुमान्, नपुंसकमिति।

संस्कारद्वयोपग्राहि मिश्रम्, मरीचिः, ऊर्मिः, अर्चि, छर्दिः, कषायः, कवाटमिति। १. ‘ऋते ध..नायते’ इति जो. नास्ति। ३२५२ प्रतौ, बडोदा प्रतौ, राघवेऽपि च ‘सुखम्, नस्सुमनायते इति पाठः’। कोष्‍ठकपूर्त्तिरस्मत्कृता संस्कारत्रययोगि सङ्कीर्णम्, तटी तटः तटं, श्रृङ्खला, श्रृङ्खलः, श्रृङ्खलमिति। विशेष्यशब्दनिघ्‍नविशेषणरूपमुपसर्जनम्, शुक्ला शुक्लः शुक्लं, पट्वी पटुः पटि्वति।

विशेषणत्वेऽपि नियतशब्दसंस्कारार्हम् आविष्‍टम्, प्रकृतिः, विषयः, प्रधानं, भार्या, दाराः, कलत्रमिति।

लिङ्गनिमित्तशब्दसंस्कारानर्हम् अव्यक्तम्, पञ्ज, षट्, कति, उच्चैः x x x x।

( भाव)

विशेष्यते अवच्छिद्यते द्रव्यं येन तच्छब्दस्यार्थे प्रवृत्तिनिमित्तमर्थधर्मो विशेषणं गुणो भाव इति चाख्यायते। x x x x

तत् त्रिधा— गुणः, परिमाणं, सम्बन्ध इति। तत्र—

द्रव्ये स्वाद्युक्ते प्रत्ययजनको गुणः, जातिः, गुणः, सङ्ख्या, संस्थानमवस्थानमित्यादिः, यथा— गौः, ब्राह्मणः, पटुः, गौरः, एकः, अनेकः, हनुमान्, वासुदेवः, युवा, वृद्धः, ऋजुः, पूर्व इति।

अननुरञ्जकमा x x x x भिधेयमवच्छेदकं परिमाणं, तदध्वगौरवमूल्य— सङ्ख्यासङ्घातक्षेत्रादिभेदादनेकधा। यथा योजनं पर्वतः, पलं सुवर्णः, पुराणः कपर्दकाः, अक्षौहिणी बलम्, खारी व्रीहयः, निवर्तनं भूमिरिति।

कृत्‍तद्धितसमासप्रातिपदिकविशेषाणामर्थषु प्रवृत्तिनिमित्तं सम्बन्धः।

स त्रिधा— क्रियासम्बन्धो, द्रव्यसम्बन्धः, क्रियाद्रव्यसम्बन्धश्‍च। तत्र—

क्रियासम्बन्धो यथा— पाचक इति।

द्रव्यसम्बन्धो यथा— दण्डी, राजपुरुष इति।

क्रियाद्रव्यसम्बन्धो यथा— आक्षिकः, निष्कौशाम्बिरिति।

यदा पुनः जातिगुणपरिमाणादयश्शब्दाः प्राधान्येनाभिधीयन्ते भावप्रत्ययैर्वा प्रतिपाद्यन्ते तदैतेषां द्रव्यत्वमेव, न लिङ्गत्वम्। भावप्रत्ययो हि — (५.१.११९)

जातिगुणाज्जातिगुणे समासकृत्‍तद्धितात् तु सम्बन्धे।
डित्थादेः स्वे रूपे धवखदिराज्जातिसङ्घते॥ ११४॥

इति॥ (निपातानां वाचकत्वं द्योतकत्वं वा)

अन्ये तु स्वार्थो विशेषणं, द्रव्यं विशेष्यं, लिङ्गं स्त्रीनपुंसकमित्याचक्षते। तच्च निपातगत्युपसर्गकर्मप्रवचनीयादिप्रातिपदिकार्था x x x x ते। न हि निपाता जात्यादिकं प्रवृत्तिनिमित्तमुपादायेदं तदि’—ति व्यपदेशयोग्येषु सत्त्वभूतेष्वर्थेषु वर्तन्ते, अपि तु प्रवृत्तिनिमित्तानुपग्रहेणैवासत्त्वभूतं समुच्चयादिकमर्थमभिनिविशन्ते। तदाह—

तेषामुच्चावचार्थत्वात् सर्वसंबन्धदर्शनात्।
अन्यतन्त्रतयोद्‍भूतेरसत्त्वार्थत्वमुच्यते॥ ११५॥

अथ किममी वाचका उत द्योतका इति। तत्रैके वर्णयन्ति—

तत्प्रयोगावसेयत्वाद् वाच्यस्तेषां स गम्यते।
समुच्चयादिरर्थात्मा यथान्येषां गवादिकः॥ ११६॥

अन्वयव्यतिरेकनिबन्धना हि शब्दानामभिधेयव्यवस्था। ततश्‍च अनादिप्रयोगा— दवसीयमानः समुच्चयविचारणादिरर्थात्मा कथममीषां वाच्यो न भवेत्? प्रतीयते (च) च—शब्दात् समुच्चयः; ‘अहं च त्वं च वृत्रहन्’ (ऋवे) इति; विचारणा वा—शब्दात्, ‘हन्ताहं पृथिवीमिमां निदधानीह वेह वा’ (ऋवे.) इति। एवमिवादिभ्य उपमानादयो गम्यन्त इति तद्वाच्यास्ते भवन्ति।

अन्ये त्वाहुः—

षष्‍ठ्यभावादसत्त्वोक्तेरेकानुक्तेः परस्थितेः।
गुणभावात् स्मृतेश्‍चैषां द्योतकत्वं सुनिश्‍चितम्॥ ११७॥

तथा हि— प्लक्षन्यग्रोधयोः समुच्चय इति वाचकपदप्रयोगे षष्‍ठी निर्दिश्यते, नैवं प्लक्षन्यग्रोधयोश्‍च इति। यथा च व्रीहियवयोर्विकल्पः प्रवर्ततामिति वाचकशब्दप्रयोगेऽसत्त्वभूतो विकल्पशब्दार्थः क्रियया सम्बध्यते, नैवं व्रीहियवयोर्वा इति। यथा च वृक्ष इत्येकेनापि वाचकेन शाखादिमानर्थः प्रतीयते, नैवं समुच्चयो विकल्पो वा। यथा च भिक्षां देहि देहि भिक्षामिति वाचकपदानां पौर्वापर्यप्रयोगे कामचारः, नैवं वृक्षः च—वृक्ष इति। यथा च वृक्षश्शोभन इति वाचकस्य विशेषणयोगो दृश्यते, नैवं च— शोभन इति। तदेवं वाचकशब्दवैधर्म्याद् द्योतकाश्‍चादय इति निश्‍चीयते। स्मरति सूत्रकारः ‘चादयोऽसत्त्वे’ (१.४.५७) इति। निरुक्तकारोऽप्याह ‘भावप्रधानमाख्यातं, सत्त्वप्रधानानि (नामानि) (१.१.९), (निर्बद्धाः) उपसर्गा अर्थान्निराहुः (१.३.३.), उच्चावचेष्वर्थेषु निपतन्तीति निपाताः’ (१.४.२) इति। स चैषामुच्चावचोऽनेकप्रकारोऽर्थः स्वतोऽनवगम्यमानात्मा पदान्तरसंबन्धोपहित— प्रकरणाद्यनुविधानेनावसीयते। ततः स्वरूपमात्रेणाप्यर्थानवगतौइतरप्रयोगपेक्षत्वाद् द्योतका एवैते, न वाचका इति।

एतत्तु सर्वं सव्यभिचारमिति केचित्। तथा हि— ‘वाचकेनाप्याख्यातेन द्योतितं सत्त्वभूतार्थम्, अपि च वाचकमाख्यातम्, आस्यते भवद्‍‌भिरिति। वाचकावपि प्रकृतिप्रत्ययौ नैव केवलौ प्रयुज्येते, जुहोतीति। वाचकमपि वर्तिपदं पौर्वापर्यनियमेनावतिष्‍ठते, राजपुरुष इति। वाचकानामापि चोपसर्जनपदानां विशेषणयोगो न दृश्यते, न हि भवति ऋद्धस्य राजपुरुष इति। स्मृतेश्‍चेति यदुच्यते तदप्ययुक्तम्; न हि व्याकरणेऽर्था आदिश्यन्ते। निरुक्तकारो वाचकतां मन्यते, न तु द्योतकताम्; अतो व्यभिचारदर्शनात् कथमिवैतदुपपन्नं भवति? उच्यते— वाचकत्वादाख्यातप्रयोगे शेषविवक्षायां षष्‍ठ्यपि दृश्यते, न माषाणामश्नीयादिति। चादिप्रयोगे तु षष्‍ठी नैव भवति। न चाख्यातमसत्त्वार्थवाचि? किं तर्हि पूर्वापरीभूतसाध्यार्थवचनम्; तदाह— ‘पूर्वापरीभूतं भावमाख्यातेनाचष्‍टे’। न च स्वभावस्यासत्त्वरूपता सम/?/(भवति कृदभिहितो भावो) द्रव्यवत् प्रकाशते। चादयः पुनर्यदत्यन्तमस्वतन्त्रं, यस्य न शक्यते पदान्तरसम्बन्धाद् ऋते रूपमवगन्तुं, तदेवासत्त्वभूतमर्थमात्रमवगमयन्ति। प्रकृतिप्रत्ययाभ्यां च केवलाभ्यामप्यर्थोऽभिधीयते, दधि मधु इयानधुनेति। चादयस्तु नैव केवलास्तमभिदधते।

अथैवमुच्यते शब्दान्तराण्येवैतानि दध्यादीनि प्रयोगसमवायीनि (इति अत्र ब्रूमः) हे प्रकृतिप्रत्ययावपि न स्तः। कथमभिधीयते प्रकृतिप्रत्ययावपि केवलौ नार्थं ब्रूत इति। वर्तिपदानां पुनरनियतप्रयोगत्वमपि दृश्यते, आहिताग्‍निरग्न्याहित इति। न चैवं प्रकारतावादिनां शब्दान्तरमेव वा समासः। यदुक्तम्— ‘वावचनानर्थ्यं च स्वभावसिद्धत्वाद्’ इति। यदि वर्तिपदानां ‘उपसर्जनं पूर्वम्’ (२.२.३०) इत्यादिना प्रकृतिप्रत्यययोरपि परश्‍चेति(३.१.१,२) वचने गत्युपसर्गाणां ‘ते प्राग्धातोः’ (१.४.८०) इत्यनेन प्रयोगनियमः, प्रयोगनियमानामपि प्रयोगनियमो दृश्यते, तस्माद् व्यभिचार इति। उपसर्जनानामपि च विशेषणयोगो दृश्यते, देवदत्तस्य गुरुकुलमिति। चादीनां तु नैतत् कदाचिदप्यस्ति। व्याकरणे चार्थाः कथं नादिश्यन्त इति, यदाह—‘शालीनकौपीने अधृष्‍टाकार्ययोः’ (५.२. २०), ‘अगारैकदेशे प्रघणः प्रघाणश्‍च’ (३.३.७९) इति। निरुक्तेऽप्युच्चावचस्यार्थस्य केवलान्निपातादनुपलब्धेः पदान्तरो— पादानात्तु तदर्थाभिव्यक्तेर्निपात xxxx। अतो द्योतका एव न वाचकाश्‍चादय इति।

(कर्मप्रवचनीयानां सम्बन्धसङ्गतिः)

अथ गत्युपसर्गकर्मप्रवचनीयानां का वार्ता ?

उच्यते। गतीनां तावत् सदसदादीनामादरादिवाच्यनिर्देशेनैव गतिसंज्ञा— विधानादनिर्दिष्टवाच्यानामप्यूर्यादीनां वाचकत्वमेव गम्यते। उपसर्गास्तु वाचकाः द्योतकाः विशेषकास्सहाभिधायकाः कार्यार्था निरर्थकाश्‍च भवन्ति। कर्मप्रवचनीयाः पुनर्निपातवद् द्योतका एव। तदाह—

क्रियाविशेषजन्यानां सम्बन्धानां प्रकाशने।
कर्मप्रवचनीयाः स्युर्निमित्तमवधारिताः॥ ११८॥

कथम् ? इह खलु सम्बन्धाः क्रियापूर्वकत्वात् करणानुविधायितया क्रियोपदर्शितविशेषं कारकमाश्रयन्ति। तत्र च भिन्नजातीयस्य युगपदेकया विभक्‍त्या वक्तुं शक्‍यत्वात् शेषसम्बन्धाभिधानवेलायामशब्दोपादानः क्रियाकारकसम्बन्धश्शब्द— वता शेषसंबन्धेनानुमीयमानसन्निधिरवतिष्ठते। तच्‍चानुमानं शेषसम्बन्धस्य स्वरूपसामर्थ्यान्नियतक्रियाविषयमनियतक्रियाविषयं च।

नियतक्रियाविषयं यथा— X X X X ना जना (जनिः) कर्तर्यपेक्षितकर्मविशेषे शेषलक्षणं पितापुत्रसम्बन्धमुत्पादयतीति। सेव तस्मादनुमीयते। तथा वृक्षस्य शाखेत्याधाराधेयनिबन्धना स्थितिरपेक्षितकर्तृविशेषेऽधिकरणेऽवयवावयविलक्षणं शेषसम्बन्धं निबध्‍नातीति सैव प्रतीयते।

अनियतक्रियाविषयं यथा— राज्ञः पुरुष इति स्वस्वामिभावसाधनो भरणक्रयणापजयादिः अनियतानेकक्रियः कर्ता X X X X शेषसंज्ञकं स्वस्वामिसम्बन्धं संनिवेशयति। स चानियतानेकक्रियापर्वकत्वादपर्याप्‍तः क्रियाविशेषमनुमापयितुमिति स्वनिमित्तक्रियासामान्यमेवानुमापयति। एवंविधे विषये क्रियाविशेषप्रकाशनाय कर्मप्रवचनीयाः प्रयुज्यन्ते। यथा शाकल्यस्य संहितामनु प्रावर्षदिति संहिताप्रवर्षणयोर्हेतु— फलभावो निशमयतिक्रियापूर्वकः X X X X इत्येतदनुना प्रकाश्‍यते। यः क्रियाविशेष— प्रकाशनं विभक्तेरशक्‍यं कल्पयितुम्, क्रियाविशेष प्रकाशनमपि क्रियापदसन्निधानायत्तम् असति क्रियापदे न युक्तम्। सम्बन्धोऽपि नास्याभिधेयः, तस्य विभक्तिप्रत्ययनिबन्धनत्वात्। यदि च कर्मप्रवचनीयस्तमभिदधीत, प्रातिपदिकार्थस्य व्यतिरेकोपजनो न स्यात्, यथा रजस्वामीति। प्रतीयते च लोके कर्मप्रवचनीययोगे सम्बन्धस्य निमित्तविशेषावच्छेदः। तस्मात् स तस्य प्रयोजक इत्यवसीयते। तदुक्तम्— (वाप.२.२०४)

क्रियाया द्योतको नायं न सम्बन्धस्य वाचकः।
नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः॥ ११९॥

इति। ननु च नाप्रतीतायां निशमयति—क्रियायां तया सम्बन्धस्यावच्छेदश्शक्‍यते कर्तुम्। तदयमनुः क्रियामप्रत्याययन् सम्बन्धमवच्छिनत्तीति न युज्यते। अथास्य क्रियाप्रकाशनमन्यत्रादर्शनान्न कल्प्यते। सम्बन्धावच्छेदोऽपि मा प्रकल्पि, अन्यत्रादर्शनादेव।

उच्यते— क्रियाभेदसमधिगतमात्मातिशयं सम्बन्धस्यावगमयन्नर्थसामर्थ्यात् क्रियाविशेषप्रत्ययनिमित्तमनुः। अतोऽस्य क्रियावचनत्वमन्यतः क्रियाप्रतीतेर्न कल्प्यते।

यदि वा निमित्तभेदोपाधेयविशेषापरामर्शेन रूपभेदं सम्बन्धस्यावगमयन्ति कर्मप्रवचनीयाः। यथा अधि ब्रह्मदत्ते पञ्चालाः, अभिमन्युः अर्जुनतः प्रति इति स्वस्वामिभावस्सादृश्‍यं च कर्मप्रवचनीयात् प्रतीयते। विशिष्टाधिकरणव्यवच्छेदास्तु सम्बन्धास्स्वरूपातिशयेन क्रियाभेदमधिगमयन्ति। यथा पञ्चालानां परिपालन— करादानादयः कार्या ब्रह्मदत्तेन, अभिमन्योः अध्यवसायसंप्रहरणादयस्सदृशा अर्जुनेन प्रक्रान्तसम्बन्धवशाद् अभिप्रेयन्ते। तदयमप्यनुः संहिताप्रवर्षणयोस्सम्बन्धं हेतुफलभावेनावच्छिनत्ति, अध्ययनविशेषरूपत्वात्तु संहितायाः। तस्य च शब्दातिशयप्रकाशसामर्थ्यान्निशमनमत्रार्थगृहीतं न कर्मप्रवचनीयाधिगम्यमिति।

तस्य तु (अन्यत्तु) दर्शनम्— अनुः पश्‍चाद्भावाभिधाने प्रतीतसामर्थ्यो यथा अनुरथं पादातम् इति। स इहापि तदर्थ एव भवितुमर्हतीति तस्य हेतौ विधीयमाना कर्मप्रवचनीयसंज्ञा न प्राप्‍नोति। सम्बन्धावच्छेदेऽप्येतत् तुल्यम्।

अथ विषयवशाद्धेतौ वृत्तिः कल्प्यते, पश्‍चाद्भावेऽपि अविरोधः, यतः पौर्वापर्यमिह हेतुफलविषयम्। अयमेव तर्हि सम्बन्धावच्छेदः यदनियताधिकरणं पौर्वापर्यमिह हेतुफलविषयतयावच्छिद्यते। एतदेव च सम्बन्धावच्छेदहेतुत्वं पृथक्करणनिमित्तं निपातेभ्यः कर्मप्रवचनीयसंज्ञानाम्।

कथं तर्हि ‘अधिपरी अनर्थकौ’ (१.४.१३), ‘सुः पूजायाम्’ (१.४.९४), ‘अतिरतिक्रमेण च’ (१.४.९५), ‘अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्‍चयेषु’ (१.४.९६) इत्यमीषां कर्मप्रवचनीयात्वम् ? कश्‍चिदेभिस्सम्बन्धोऽवच्छिद्यते।

सत्यमेतत्। किन्तु कार्यार्थमेषां अतद्धर्माणामपि शास्त्रे वाचनिक— कर्मप्रवचनीयत्वमभिहितमिति।

(सामान्यविचारः)

ननु च जात्यादिप्रवृत्तिनिमित्तोपग्राहिणो वृक्षादयः सत्त्ववचनाः, तद्विपरीताश्‍चादयो असत्त्ववचना इत्युच्यते। न च जातिर्नाम प्रत्यक्षादिसमधिगम्यं किञ्चित् प्रमेयमस्ति। तथा हि — असौ न प्रत्यक्षा, प्रत्यक्षस्य पूर्वापराननुस्यूतस्वलक्षणत्वात्, जातेश्‍च पूर्वापरानुस्यूतरूपत्वात् तदाह—

समानवृत्तिता नाम सामान्यस्य निजं वपुः।
कथं स्पृशति सापेक्षमनपेक्षाक्षजामिति॥ १२०॥

तत्पृष्ठभाविनस्तु विकल्पा स्वभावेनावस्तुविषयत्वान्न सामान्यसिद्ध‍यै प्रभवन्ति। नाप्यनुमानं शब्दो वा सामान्यमवस्थापयति। तयोरपि विकल्पविषयत्वेन वस्तुव्ययवस्थापक— त्वायोगात्। वस्तुप्राप्‍तिस्तु भेदानध्यवसायनिमित्तवस्त्वध्यवसायाद् भविष्यति।

इतश्‍च न व्यक्तिव्यतिरिक्तं सामान्यं कुवलयामलकबिल्वादिवद् भेदेनानुपलम्भाद्, घटपटादिवच्‍च देशभेदाग्रहणाद्, व्यक्‍त्यग्रहे घटपटादिवदेव तदनुपलब्धेः। व्यक्तिवृत्तित्वात् सामान्यस्य तदग्रहे तदनुपलब्धिरिति चेन्न, वृत्तिनुपपत्तेः। किं प्रतिपिण्डं कार्त्स्‍न्येन वर्तते जातिरुतैकदेशेन ?

पिण्डे सामान्यमेकत्र यदि कार्त्स्‍न्येन वर्तते।
तत्रैवास्य पदार्थत्वं न स्यात् पिण्डान्तरे ग्रहः॥ १२१॥

एकदेशेन वृत्तौ तु गोत्वजातिर्न कुत्रचित्।
समग्राऽस्तीति गोबुद्धिः प्रतिपिण्डं कथं भवेत्॥ १२२॥

(न्यायम.) न चास्य निरवयवत्वादेकदेशा विद्यन्ते। न चैकपिण्डे समाप्‍त्या वर्तमाना पिण्डान्तरेऽपि समाप्‍त्यैव वर्तितुमर्हति। समाप्‍तस्य न पुनरुत्पत्तिं विना समाप्‍त्यन्तरानुपपत्तेः। न च तथाभूता काचिद् वृत्तिरुपलभ्यते। न च समवायात्मिका वृत्तिः। स ह्ययुतसिद्घानां भवति। अयुतसिद्धिस्सम्बन्धश्‍चेति विप्रतिषिद्धम्। द्रव्यगुणयोः अपृथक्‍सिद्धयोरपि सम्बन्धदर्शनान्नैवमिति चेन्न। तत्रापि गुणव्यतिरिक्तस्य गुणिनो भेदेनासिद्धेः। अवयवावयविनोरपि पृथक्‍सिद्धेरभावान्न सम्बन्धः। नापि रूपरूपिलक्षणस्सम्बन्धो भविष्यतीति वक्तव्यम्, रूपार्थस्य निरूपयितुमशक्‍यत्वात्। किमयं रूपशब्दश्शुक्‍लादिगुणवचनः स्वभाववचनो वा। शुक्‍लादिवचनत्वे नीरूपाणां पवनमनः— प्रभृतीनां द्रव्याणां सामान्यशून्यता स्यात्। आकारवचनत्वेऽप्यवयवसन्निवेशरहितानां तेषामेव सामान्यवत्ता न प्राप्‍नोति। स्वभाववचनत्वे तु जातिजातिमतोरव्यतिरेक एव भवेत्।

अवभाति हि भेदेन स्वभावो न स्वभाविनः।
शब्दातिरिक्ततैवेयं न तु वस्त्वतिरिक्तता॥ १२३॥

अपि चेयं जातिः—

सर्वसर्वगतापि (ता वा) स्यात् पिण्डसर्वगतापि वा।
सर्वसर्वगतत्वेऽस्याः कर्कादावपि गोमतिः॥ १२४॥

अश्वधीश्शाबलेयादावुष्ट्रबुद्धिर्गजादिषु।
पदार्थसङ्करश्‍चैवमत्यन्ताय प्रसज्यते॥ १२५॥

अथापि व्यक्तिसामर्थ्यनियमान्नैष सङ्करः।
न हि कर्कादिपिण्डानां गोत्वादिव्यक्तिकौशलम्॥ १२६॥

मैवं खण्डाद्यभिव्यक्तमपि गोत्वमनंशकम्।
सर्वत्रैव प्रतीयेत न वा सर्वगतं भवेत्॥ १२७॥

तदंशग्रहणे तस्य न हि कश्‍चिन्नियामकः।
दीपवद् व्यञ्जक; पिण्डो न तु तत्पिण्डवृत्ति तत्॥ १२८॥

सर्वत्रागृह्यमाणत्वे सर्वत्रास्तीति को वदेत्।
सर्वसर्वगतं तस्मात् न गोत्वमुपपद्यते॥ १२९॥

पिण्डसर्वगतत्वे तु काममेतददूषणम्।
किन्तु नैवाद्य जातायां गवि गोप्रत्ययो भवेत्॥ १३०॥

पिण्डे नासीदसञ्जाते जातिर्जाते च विद्यते।
संक्रामति न चान्यस्मात्पिण्डादन्यत्र निष्क्रिया॥ १३१॥

आयान्त्यपि न तत्पिण्डमपोज्झति पुरातनम्।
न चांशैर्वर्तते चेति केयं व्यसनसन्ततिः॥ १३२॥

तस्मादपोहरूपमलीकमेव सामान्यं, न परमार्थसदिति। ततश्‍च तदभावात् तद्‌वतोऽनुपपत्तिरिति।

अत्रोच्यते—किं जात्यादेर्बाह्यस्य शब्दार्थस्याभावादपोहे पक्षपातः, उत प्रतीतिबलेनेति।

न तावत्प्रतीतिबलेन, प्रतीतेरनुगताकारविषयत्वेनापोहपरिपन्थित्वात्। नापि जातेरसत्त्वं, प्रत्यक्षेण, स्वलक्षणवदावेदितस्वरूपत्वात्।

आद्यमेव हि विज्ञानमर्थसंस्पर्शि चाक्षुषम्।
न तदुत्तरभावीति किमिदं राजशासनम्॥ १३३॥

तदेवास्तु प्रमाणं वा तेनापि त्वधिगम्यते।
व्यावृत्तं वस्तुनो रूपं नानुगामीति का प्रमा॥ १३४॥

भवेद् यदि विशेषैकविषयं निर्विकल्पकम्।
सामान्याध्ववसायोऽयमकस्मात् कथमुद्भवेत्॥ १३५॥

न चैतच्छाब्दरूपम्। यतः

पश्‍यत्यनुगतं रूपमविज्ञातेऽपि वाचके।
दाक्षिणात्य इवाकस्मात् पश्‍यन्नुष्ट्रपरम्पराम्॥ १३६।।

अपि च शबलेयपिण्डमवलोकितवतः कालान्तरे बाहुलेयपिण्डं पश्‍यतश्शाबलेय— पिण्डस्मरणमुत्पद्यते। तत्सामान्याभावे न घटते। न ह्यन्यस्मिन्दृष्टेऽन्यस्मरणनिमित्तं किञ्चिदस्ति। तयोरनुगतरूपाभ्युपगमे तदुपपद्यते नान्यथेति। किंच व्यक्‍त्यन्तरदर्शनेऽपि स एवायं गौरिति प्रत्यभिज्ञायते, तदप्‍यनुगतरूपाग्रहणे न युज्यते। न च व्यक्तिरेव प्रत्यभिज्ञायते, व्यक्तिभेदस्य प्रत्यक्षसिद्धत्वात्। यत्र च लघुतपरिमाणतिलमुद्गादिप्रचयसन्निधानेऽवच्छिन्नस्वलक्षणे ग्रहणं नास्ति, तत्रानुवृत्तमेव रूपमिन्द्रियेण गृह्यते। तस्माद् विशेषवत् सामान्यापह्नवो न युक्तः।

तस्मात् पूर्वाक्षसम्पाते तुल्यत्वमभिगम्यते।
नानात्वं चेति सामान्यभेदौ द्वावपि वास्तवौ॥ १३७॥

सामान्यमिदमित्येवमथ तत्रानुपग्रहः।
व्यावृत्तमिदमित्येवं किं वा बुद्धिस्स्वलक्षणा॥ १३८॥

समानवृत्तिसापेक्षं न च सामान्यवेदनम्।
तत्र सन्निहितत्वात् तु व्यक्तिवन्नानुपग्रहः॥ १३९॥

समानवृत्त्यपेक्षत्वात् सामान्यस्यानुपग्रहे।
विशेषोऽपि च मा ग्राहि व्यावृत्तिं स ह्यपेक्षते॥ १४०॥

अनुवृत्तिर्हि येष्वस्य का तेषां ग्रहणे गतिः।
व्यावृत्तिरपि येभ्योऽस्य का तेषां ग्रहणे गतिः॥ १४१॥

अथानुवृत्तिव्यावृत्तिनैरपेक्ष्येण केवलम्।
वस्त्वेव गृह्यते कामं कीदृक्‍तदिति कथ्यताम्॥ १४२॥

निर्विकल्पकवेलायां निर्देष्टुं तन्न शक्यते।
तदुत्थास्तूभयत्रापि साक्ष्यं ददति निश्‍चयाः॥ १४३॥

यच्‍च वृत्तिविकल्पादिदूषणं तत्र वर्णितम्।
तत् प्रत्यक्षमहिम्‍नैव सर्वं प्रतिहतं भवेत्॥ १४४॥

यत्तावदुक्तं कुवलयामलकादिवदनवभासादिति तत्र प्रतीतिभेदो दर्शित एव। यत्तु देशभेदेनाग्रहणात्, तदग्रहे तद्‍बुद्ध‍यभावादिति तत्र जातेस्तदाश्रितत्वं, नासत्त्वम्। यदप्युक्तं वृत्त्यनुपपत्तेरिति तत्राप्युच्यते, प्रतिपिण्डं कार्त्स्‍न्येनैव जातिर्वर्तत इति पिण्डान्तरे तदुपलम्भोऽस्त्येव। एकदेशास्तु जातेर्न सन्त्येव।

क्‍वेदमन्यत्र दृष्टं चेदहो निपुणता तव।
दृष्टान्तं याचसे यस्त्वं प्रत्यक्षेऽप्यनुमानवत्॥ १४५॥

किंनामधेया वृत्तिरियमिति चेन्न नामधेयमस्याः जानीमः, पिण्डसमवेता जातिरित्येव प्रचक्ष्महे।

(समवायविचारः)

नन्वयुतसिद्धयोस्सम्बन्धः समवायः, स विप्रतिषेधादेव निरस्तः ? न शक्यते निरसितुम्।

प्रतीतिभेदाद् भेदोऽस्तु देशभेदस्तु नेष्यते।
तेनावकल्पते वृत्तिस्समवायस्स तूच्यते॥ १४६॥

अवयवायविनोर्गुणगुणिनोश्‍चेयमेव वृत्तिः। अर्थान्तरत्वं चैतयोर्जातितुल्यन्यायतया सिद्धमेव। देशभेदश्‍च तयोर्नास्तीति विस्पष्टमयुतसिद्धत्वम्। यदप्युच्यते—

नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धता॥ १४७॥

इति तदपि परिहृतमाचार्यैः ‘जातं सम्बद्धं चेत्येकः काल’ इति वदद्भिः।

या चेह वृत्तिः स्रक्‌सूत्रभूतकण्ठगुणादिषु।
जात्यादीनामनङ्गत्वात् ताभ्यां वृत्तिर्विलक्षणा॥ १४८॥

तस्माद्‍वृत्त्यनुपपत्तेरित्यदूषणम्।

यदपि सर्वसर्वगतत्वं पिण्डसर्वगत्वं च विकल्प्य दूषितं तदपि यत्किञ्चित्; यथाप्रतीति तदभ्युपगमात्।

सर्वसर्वगता जातिरिति तावदुपेयते।
सर्वत्र ग्रहणं तस्या व्यञ्जकव्यक्तिसन्निधेः॥ १४९॥

व्यक्तिर्व्यञ्जकतामेति जातेर्दृष्टैव नान्यथा।
दृष्टिर्यत्र यदा त्वस्यास्तदा तत्रैव तन्मतिः॥ १५०॥

सर्वत्र विद्यते जातिर्न तु सर्वत्र दृश्यते।
तदभिव्यञ्जिका यत्र व्यक्तिस्तत्रैव दृश्यते॥ १५१॥

व्यक्तेरन्यत्र सत्त्वेऽस्याः किं प्रमाणं तदुच्यते।
इहाप्यानीयमानायां गवि गोत्वोपलम्भनम्॥ १५२॥

गोपिण्डेन सहैतस्या न चागमनसम्भवः।
देहेनेवात्मनस्तस्मादिहाप्यस्तित्वमिष्यताम्॥ १५३॥

अभिव्यक्तिस्तु तत्काला यत्कालं व्यक्तिदर्शनम्।
तस्मात् सकृदभिव्यक्ता नान्यदापि प्रतीयते॥ १५४॥

अभिव्यक्तिश्‍च तद्देशा यद्देशा व्यक्तिरीक्ष्यते।
तस्मादस्मिन्नभिव्यक्ता न देशेऽन्यत्र दृश्‍यते॥ १५५॥

पिण्डसर्वगतत्वेऽपि स्वयूथ्यैः कैश्‍चिदाश्रिते।
भविष्यत्यन्यजातायां गवि गोधीस्तथाग्रहात्॥ १५६॥

जायमानैव हि व्यक्तिर्जायते जातियोगिनी।
एक एव हि कालोऽस्या जातिसम्बन्धजन्मनोः॥ १५७॥

नेह जातेः पुरास्तित्वं न च संक्रान्तिरन्यतः।
किं तु स्वहेतोस्सा व्यक्तिस्तादृशैवोपजायते॥ १५८॥

कथमेतदितीदं तु येन पर्यनुयुज्यते।
इदमप्यपरं हन्त तेन पर्यनुयुज्यताम्॥ १५९॥

वृषः पिशङ्गो गौः कृष्णा सा च नीलतृणाशिनी।
ताभ्यामुत्पादितो वत्सः कथं भवति पाण्डुरः॥ १६०॥

यथा रूपादिसम्बद्धा सा व्यक्तिरुपलभ्यते।
तथैव जातियुक्तेति का ते व्यसनसन्ततिः॥ १६१॥

अगोव्यावृत्ततायां च नैष प्रश्‍नो निवर्तते।
तस्मादगोनिवृत्तं तदन्यजातं स्वलक्षणम्॥ १६२॥

तस्माद् वस्तुस्वभावस्य विदित्वाऽननुयोज्यताम्।
चोद्यचुञ्चुत्वमुत्सृज्य प्रतिपत्तिर्निरूप्यताम्॥ १६३॥

प्रतिपत्तिश्‍च विशेषेष्विव सामान्येऽपि निरपवादा दर्शितैव। तस्माद् विशेषवदप्रत्याख्येयं सामान्यम् इति।

उपाधिरेवं त्रिविधः प्रधानमपि च त्रिधा।
त्रिधोपस्कारवान् प्रातिपदिकार्थश्‍च वर्णितः॥ १६४॥

वाचकत्वं निपातानां द्योतकत्वं च निश्‍चितम्।
कर्मप्रवचनीयानामुक्ता सम्बन्धसङ्गतिः॥ १६५॥

अथो विभक्त्यर्थविधिस्त्रिधोच्यते त्रिधैव वृत्त्यर्थपदार्थनिर्णयः।
क्रियादिवाक्यार्थनिवर्तनात् ततस्त्रिधैव वाक्यार्थगतिः प्रपञ्च्यते॥ १६६॥

इति महाराजाधिराज—श्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे उपाध्याद्यर्थचतुष्टयप्रकाशो नाम ॥ पञ्चमः प्रकाशः॥ ५॥

प्रकाश एषोऽस्तु रतिप्रियस्य शरः परः पञ्चम एव यस्मिन्।
लग्‍ने स्मारेरपि हृष्यति स्वं वशंवदं फालगतं च चक्षुः॥

सनातनः कश्‍चन भोजराजं जीर्णञ्च शीर्णञ्च विभाव्य तस्मै।
यष्टोयति स्वं प्रतिभाभिधानं ललाटचक्षुः प्रतिसंश्रयाणः॥