०४ क्रियाद्यर्थचतुष्टयप्रकाशः

अथ

श्रृङ्गारप्रकाशे चतुर्थः प्रकाशः

क्रियाद्यर्थचतुष्टयप्रकाशो नाम

(१. क्रिया)

तत्र प्रकृत्यादिशब्दप्रत्याय्याः क्रियाकालकारकपुरुषोपाधिप्रधानोपस्कारार्थे— प्रातिपदिकार्थविभक्त्यर्थवृत्त्यर्थपदार्थवाक्‍यार्थरूपा द्वादश भेदाः। तेषु कारकाणां प्रवृत्तिविशेषः क्रिया, तां धात्वर्थ इत्यमनन्ति (मभा. ३. १. ३)।

धातवश्‍च त्रेधा— अस्त्यर्थाः, भवत्यर्थाः, करोत्यर्थाश्‍च। तत्र

येषां कर्तार उदासते ते अस्त्यर्थाः; यथा— अस्ति विद्यते ध्रियते तिष्ठति आस्ते वर्तते इत्यादि।

येषां विकुर्वते ते भवत्यर्थाः; यथा— भवति संजायते वर्धते विपरिणमते अपक्षीयते विनश्‍यति इत्यादि।

येषां प्रयुञ्जते ते करोत्यर्थाः; यथा— करोति विधत्ते जनयति निर्वर्तयति साधयति उत्पादयति। तत्र

अस्ति—करोति—भवतीनां साम्यावस्थानं निर्विकारमनाद्यन्तं शब्दब्रह्मेत्याचक्षते। तथैवंविधानेकार्थवाचिना भवतिनैवोमिति व्यपदिशन्ति। तस्य यदा अस्तिताहेतुरविद्या— निबन्धनोऽर्थविपरिणामरूपः प्रथमविकारो, अस्तिरुदयते तदा। अस्तेर्नास्तिप्रतियोगित्वादस्ति नास्ति वेत्येकमेवैतदुभयथापि प्रथामयते। यन्नास्ति तद् भवामीति चापेक्षायां, तद्भवतोऽस्य भवति—नामा द्वितीयविकारः परिप्लवते। ततो यद्भवति तस्य तस्य चान्यद्—भवतो मिथ्याभिनिवेशान्मिथः प्रयोज्यप्रयोजकत्वं (सं) भावयति—संज्ञकः तृतीयविकारः करोतिरित्याख्यायते (वाप. ३.३४–३६ जाति)।

एवं चास्मितापेक्षाभिनिवेशैर्दूरविप्रसृतायामविद्यायां एषामपि विशेषाविशेषतो दूरीकृता विद्याः विद्यति—जनि—पचादयः प्रादुर्भवन्ति। तदाह— ‘कृभ्वस्तयः क्रियासामान्य— वचनाः क्रियाविशेषवचनाः पचादय’ (मभा. ३.३.९८) इति। तेऽमी सर्वेऽपि धात्वर्थभेदाः संभेदतो मिथस्सङ्ख्यानमतिवर्तन्ते, न तु कृभ्वस्तिरूपताम्।

ननु च धात्वर्थः क्रिया; स च कारकाणां प्रवृत्तिविशेषः। कारकेषु च स्वतन्त्रः कर्ता, कर्तुरीप्सिततमं कर्म, साधकतमं करणम्, आधारोऽधिकरणं, कर्मणा यमभिप्रैति स संप्रदानं, ध्रुवमपायेऽपादानं, तेभ्योऽन्यस्तदविवक्षा वा शेषः। कर्तुः प्रयोजको हेतुरिति कर्त्रादिभ्यो व्यतिरिक्तमर्थान्तरं नोपलभ्यते, यत् क्रियेति प्रतीयते।

(क्रियासिद्धिः)

उच्यते— अस्ति क्रिया। किन्तु कर्त्रादिभ्यः पृथगाख्यातुमशक्‍यम्, अनापन्नसत्त्व— भावात्, अनिर्लुठितगर्भवत् (मभा. १.३.१); यथा गर्भोऽनापन्नसत्त्वभावः कललावस्थाया— माशयतः पृथगाख्यातुं न शक्यते, तथा क्रियापि साधनेभ्यस्साध्यावस्थायाम्। तद्यथा— ज्योतिः प्रकाशते, शब्दो ध्वनति इति।

कथं तर्हि अस्ति ज्ञायते कारकसन्निधानेऽपि पचतीति?

प्रख्योपाख्ययोर्भावाभावाभ्याम्।

१. इह खलु यत्सन्निधाने यस्य भावाभावौ, तस्य ततोऽन्यनिमित्तापेक्षित्वं दृष्टम्। यथा अग्‍निघटयोस्सन्निधाने भवतामभवतां च तत्संयोगापेक्षित्वं पाकजानाम्। कर्त्रादिसन्नि— धाने च कदाचित् पचतीत्येतद्‌भवति, कदाचिन्न पचतीति दृश्‍यते। तेन मन्यामहे नूनमस्ति शक्तिशक्तिमद्भ‌योऽन्यश्शक्तिर्धर्मो यद्भावादिमे प्रख्योपाख्ये प्रवर्तेते, यदभावाच्च न प्रवर्तेते इति सिद्धमस्तित्वं क्रियायाः।

२. इथश्‍चास्ति क्रिया, साध्यमन्तरेण साधनानुपपत्तेः। इह खलु कर्त्रादीनां साधनव्युपदेशो दृश्यते, स च साध्यमन्तरेणानुपपन्नः; यच्‍च साध्यं सा क्रिया। तदाह— संहृत्य कारकैर्य एकोऽर्थोऽभिनिर्वर्त्यते सा क्रिया। क्रियानिमित्तं कारकमिति। तथा च क्रियासु स्वेच्छया कारकादीनि यः प्रयुङ्क्ते न तु तैः प्रयुज्यते, स कर्ता, कर्तुः क्रिययाऽनन्यया यदाप्यते तत्कर्म, क्रियासिद्धौ साधकतमत्वेन यदव्यवहितं व्याप्रियते तत् करणम्, कर्त्रा कर्मणा वा व्यवहितः क्रियाधारोऽधिकरणम्, क्रियाकार्यत्वेनावधारितं कर्मणा संयोगं यदनुभवति तत्संप्रदानम्, कर्त्रा कर्मणा वा क्रियाजन्यमेव ध्रौव्येण यद्‌विभागमवगाहते तदपादानम्, श्रूयमाणाश्रूयमाणक्रियापदः क्रियाकृतः कारकाणामकारकाणां च संबन्धविशेषः स शेषः (वाप. ३.७.१५६)। कुर्वन्तमेवाज्ञा— प्रदानादिना यः क्रियायां नियुङ्क्ते, सः तत्प्रयोजको हेतुः कर्ता च भवति। एवं च यथा काष्ठादयो लाक्षादिकमपेक्षमाणा एवं मिथस्संबन्धयोग्यतामनुभवन्ति तथा द्रव्याण्यपि क्रियापेक्षीण्येव परस्परसंबन्धाय प्रभवन्तीति क्रियामन्तरेण जगतश्‍चित्रकर्मण इव मिथस्संयोगो वियोगश्‍च न स्यात्। तदुक्तं — यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा ननं क्रियेति (मभा. १.३.१)।

(क्रिया न कारकम्)

अस्तु नाम क्रिया, कारकेभ्यस्तु तस्याः कथं व्यतिरेकः ?

न च भवन्तोऽपि क्रियाकारकोयोर्व्यतिरेकं न मन्यन्ते, तद्यथा चोरस्य रुजति, चोरस्यामयति इति।

उच्यते व्यतिरिक्तैव कारकेभ्यः क्रिया,

१. अनेकस्यैकव्यपदेशनिमित्तत्वात्। इह यद् यस्यानेकव्यपदेशनिमित्तं तत्ततोऽन्येति, अनुगम्यत्वात; इह यैर्यदनुगम्यते तत्तेभ्योऽन्यत्, यथा नरेभ्यो राजा। अभिगम्यतेऽनुगम्यते च क्रिया कारकैः, अतस्ततोऽन्येयम्।

२. जन्यत्वेनोपलम्भात्; यज्जन्यतया यदुपलभ्यते तत्ततोऽन्यत्, यथा पितुः पुत्रः। उपलभ्यते क्रिया कारकजन्यत्वेन, तस्मात् ततोऽन्या।

३. उपलब्धावनुपलब्धेः; इह यस्योपलब्धौ यस्यानुपलब्धिः तत्ततोऽन्यथा, (यथा) रूपाद्‌रसः। सूर्यस्य चोपलब्धौ न गतेरुपलब्धिः, तस्यास्ततोऽन्यथा; अस्ति चास्यासौ, देशान्तरप्राप्तेः; सापि दृष्टा; तथैवापश्‍यतः परावृत्य दर्शनात्।

४. प्रमाणान्तरग्राह्यत्वात्; इह यद्यस्मात् प्रमाणान्तरेण गृह्यते तत्ततोऽन्यत्; यथा शरीरादात्मा। प्रमाणान्तरग्राह्या च सदागतौ गतिः; तस्मात्ततोऽन्या।

५. बहुप्रविविक्तत्वेनाभिधानात्; इह यद् बहुभ्यः प्रविविक्तमेकत्वेनाभिधीयते, तत् ततोऽन्यत्; यथा तन्तुभ्यः पटः। अभिधीयते बह्वाश्रितापि प्रविवेकैकत्वेन क्रिया; यथा ब्राह्मणैरास्यत इति तस्मात् ततोऽन्या।

६. अनावृत्तावावृत्तेः; इह यस्मिन्ननावर्तमाने यदावर्तते, तत् ततोऽन्यत्, यथा हस्तिनो मशकः। आवर्तते चानावर्तमाने कर्तरि क्रिया, पञ्चकृत्वः पचतीति; तस्मात् ततोऽन्या।

७. इहोभयोरपि संशयनिर्णयनिमित्तत्वात्; इहोभयोस्संशये यस्य यो निर्णयहेतुर्भवति, तत् ततोऽन्यत्, यथा स्थाणौ श्र्येनः, निर्णयहेतुश्‍च, पुरुषस्य चलनादिक्रिया, तस्मात् ततोऽन्या।

८. अभिधायाभिधानात्; इह यदभिधायार्थान्तराविवक्षामन्तरेण यदभिधीयते तत् ततोऽन्यत्, यथा गौरश्वः। अभिधीयते च अध्येता अधीते गन्ता गच्छतीति कारकमभिधाय क्रिया, तस्मात् ततोऽन्या।

९. पर्यायाप्रसिद्धेः; इह येषामेव पर्यायप्रसिद्धिः, तेषामेव च तेभ्यो न भेदः, यथा निर्वर्तिरिति; न च पचन्नधीते पचत्यधीत इति पचन्पचत्योः पर्यायत्वम्, (न च) अपि पचन्नधीत इति कर्तुः पचतीति क्रियायाः पर्याययोग्यत्वम्; अतोऽसौ ततोऽन्यः।

१०. अभिन्नशब्दाभिधानेऽपि विशेषणानां लिङ्गवचनभेदात्। इह खलु क्रियाकर्त्रोरभिन्न— शब्दाभिधेयत्वेऽपि तद्विशेषणानां लिङ्गवचनभेदो दृश्‍यते, यथा शोभनं पचति शोभनं पचतः शोभनं पचन्तीति। स चार्थाभेदेऽभिन्नशब्दोपादान एव दृश्‍यते। तटः तटी तटं, पुष्यः तारका नक्षत्रं, रसः आपः जलम्, दाराः कलत्रं भार्या इत्यादिविशेषणानाम्। न तूदाहृतसदृशेष्विति क्रिया कर्तुरन्या।

११. शब्दावृत्तिभेदेषु तद्‌धी भेदात्। इह खलु क्रियाकारकयोश्शब्दावृत्तिभेदे बुद्धिभेदो दृश्‍यते; अध्येता पठति पठति, गन्ता गन्ता गच्छतीति पूर्वयोर्वीप्सा, उत्तरयोराभीक्ष्ण्यम्। यस्य च यतो बुद्धिभेदस्तत् ततो व्यतिरिक्तं, यथा मृदङ्गध्वनेर्मेघध्वनिः घटादिभ्यः पटादय इति क्रियायाः कारकेभ्यो व्यतिरेकः।

१२. सिद्धे चास्मिन्नभेददर्शनं भेदव्यतिरेकश्‍च विवेकत एवेति द्रष्टव्यम्।

(क्रियाया अनेकत्वम्)

१. दृश्‍यते च प्रदीपप्रवाहशब्दशरीरसंस्कारज्ञानसुखदुःखेच्छाद्वेषप्रयत्‍नरूपादिषु भिन्नेषु अभिन्नप्रत्ययः प्रवर्तते, तेष्वभेदेनैव तदनुकूलो व्यपदेशः। चोरस्य रुजतीत्यत्र तु रुक्‍साधकस्य कर्तुरभावाल्लकारः कर्तरि वर्तमानां तामेव रुजधात्वभिहितामभिधेयीकरोति। अस्ति च साध्यस्यापि वस्तुनो भवतः कर्तृत्वम्, अतस्तदेव कर्तृप्रत्ययेनाभिधीयते। न चोरस्य रुजतीत्यस्यायमर्थः चोरस्य रुगुत्पद्यत इति।

कुतः पुनरयं कारकक्रिययोर्विशेषः यदेकत्र वीप्सा अन्यत्राभीक्ष्ण्यमिति ?

क्रियाया एकत्वेन वीप्सानधिगमात्। बहूनां हि क्रियागुणद्रव्यैः प्रयोक्तुर्युग— पद्‌व्याप्‍तुमिच्छा वीप्सा; सा त्वेकत्वे क्रियाया नोपपद्यते इति।

२. ननु च क्रियाया एकत्वं नोपपद्यते, कालत्रयेणात्यन्तविरोधिना युगपदभिसंबन्धव्यपदेशात्; इह खलु क्रियाया एकैकस्मिन्नपि काले कालत्रयाभिसंबन्धहेतुर्व्यपदेशो दृश्‍यते, पचति देवदत्तः अपाक्षीद् यज्ञदत्तः, पक्ष्यति विष्णुमित्र इति। तच्‍चैकत्वे न घटते इत्यनेका क्रिया।

३. भेदनिबन्धना आतिशयिकतरबादिप्रत्यययोगात्; इह खलु क्रियायाः पचतितरां पचति— तमामित्यातिशायनिकप्रत्ययो दृष्टः; स च द्वयोर्बहूनां च प्रकर्षे सिद्ध इत्यनेका क्रिया।

४. एकेन युगपदनेकाधिकरणस्य निर्धारणात्; इह यदेकैकस्मिन् काले अनेकाधारस्थं पृथक्‍त्वेनावधार्यते तदनेकम्, यथा अङ्गुलीषु नखानि निर्धार्यन्ते; निर्धार्यते चानेकाधिकेन युगपद् गोषु गतिरित्यनेका क्रिया।

५. पूर्वकालेऽपि प्रत्ययदर्शनात्; इह द्वयोरेककर्तृकयोः क्रिययोः पूर्वकाले क्‍त्वाप्रत्ययो दृश्‍यते। यथा भुक्‍त्वा भुङ्क्ते, पक्‍त्वा पचतीति; द्वित्वं चैकत्वप्रत्यनीकमित्यनेका क्रिया।

६. युगपल्लक्ष्यलक्षणयोगात्; इह क्रियाणामभिन्नकालं लक्ष्यलक्षणयोगो दृश्यते; गवि दुह्यमानायामपि दोग्धि; तयैकत्वेऽनुपपन्नमित्यनेका क्रिया।

७. हेतुफलभावात्; इह खलु हेतुफलयोः प्रसिद्धो भेदः; स च क्रियासु दृश्यते ‘ओदनं पचति, शाकं पचति, भुञ्जान ओदनं भुङ्क्त’ इति, भेदश्‍चैकत्वविरोधीत्यनेका क्रिया।

८. क्रियार्थक्रियोपपदतुमुनादिप्रत्ययोत्पत्तेः; इह ये तु क्रियार्थायामुपपदे तुमुनादयस्स्मर्यन्ते, ते च भोक्तुं गच्छति, पाकाय व्रजति भोक्ष्यामीति। पचतिप्रभृतिषु यथाऽभिन्नधातु— वाच्यत्वेऽपि दृश्‍यन्ते, यथा गन्तुं गच्छति, भोजनाय भुङ्क्ते, पक्ष्यामीति पचतीति। स चायं तदर्थफलभावोऽनेकत्वं एवोपपद्यत इत्यनेका क्रिया।

९. अभिहितानभिहितशक्तिप्रादुर्भावनिमित्तत्वात्; इह धात्रीं धयति, दात्रेण दाति, दाशाय दाशते, भीमाद् बिभेति, आसने आस्ते, शयने शेते, स्थाने तिष्ठति, प्रासादे प्रसीदति (इति) प्रत्ययविभक्‍त्योर्दर्शनादभिहितानभिहितशक्तिप्रादुर्भाव उपलभ्यते; स चानैक्‍यनिमित्तं क्रियाभेदमन्तरेण न सङ्गच्छत इत्यनेका क्रिया।

१०. भावाभिधानेऽपि तन्त्रादिभ्यो द्विवचनबहुवचनोपलब्धिः; इह खलु शुद्धेऽपि भावे तन्त्रादिभ्यः पाकौ पाकाः, उष्ट्रासिका आस्यन्ते, हतशायिकाश्शय्यन्त इति द्विवचनबहुवचनोपलब्धिः; तच्‍च क्रियैकत्वे न युक्तमित्यनेका क्रिया।

११. कृदाख्याताभिहितायाः क्रियायाः सर्वसंख्यासामानाधिकरण्यात्। इह कृदभिहिताया आख्याताभिहितायाश्‍च क्रियाया भिन्नार्थाभिधायिभिस्संख्याशब्दैः सामानाधिकरण्यं दृश्‍यते; यथैकः पाकः, द्वौ पाकौ, बहवः पाकाः; एका उष्ट्रासिका आस्यते, द्वे आस्येते, बह्वय आस्यन्ते; तच्‍चैकत्वे क्रियाया न सांप्रतमित्यनेका क्रिया।

१२. इह भवतिनिमन्तृप्रभृतीनामवधृतभेदपरिस्पन्दाश्रयकार्याभिनिर्वृत्तेः; इह यासां क्रियाणामवच्छेदकधात्वर्थोपाधिभेदादनेकत्वं प्रत्यविवादः, तासु ये भेदाश्रया धर्माः प्रसिद्धाः, तद्यथा भोक्तुमिच्छति, भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, आमन्त्रयै समाजम्, उत्सवमामन्त्रयै इति—(ते) समानधातुवाच्यास्वपि दृश्‍यन्ते; एषितुमिच्छति, भवेदपि भवेत्, स्यादपि स्यात्, निमन्त्रये निमन्त्रणार्थम्, आमन्त्रये आमन्त्रणार्थमिति; तस्माद् भवेदाश्रयकार्यसंबन्धाद् भवितव्यमनेकत्वम्; एकेन धातुना सर्वत्र भेदेनेत्यनेका क्रिया।

१३. साध्यसाधनभावात्; इह साध्यसाधनयोः प्रसिद्धो भेदः; प्रदृश्यते च साध्यसाधनता क्रियाणाम्; यथा ‘स इमान् पोषानपुषत्’, तप्यते तपस्तापस इति। तच्‍चैकत्वे न घटते इत्यनेका क्रिया।

तदेतदनेकत्वे क्रियायास्सर्वमसाधनं साधनभेदादेवोपचरितभेदाया एकत्वे वा तदुपपत्तेः।

(क्रियायामनेकत्वोपचारः)

भिन्नानामप्युपाश्रयादिभेदाद् भिन्नाधारात् प्रतीतदेशव्यपदेशादयश्‍च दृश्यन्ते; यथेन्दोर्जलेषु, ज्योत्स्‍ना जालेषु, जलधराणाम् आशासु, दिशो व्यवस्थासु, पृथक्त्वस्यार्थेषु, बुद्धेर्विषयेषु, विद्युतोऽब्देषु, शब्दस्य कन्दरेषु, चित्रस्य नीलादिषु, आकाशस्यावकाशेषु, भावस्य भावेषु, भेदाभावेषु च या भेदबुद्धिः; यथा च संपन्नो यवो यवनेषु, शुष्कः तुरूष्केषु, सुजातो व्रीहिः सुह्मेषु विनष्‍टस्सुराष्ट्रेषु, दर्शनीयौ स्तनौ इन्द्रसेनेषु आक्षिणी कलिङ्गेषु, परूद् भवान्, पटुरासीत्, पटुतर ऐषमः (मभा. ३.५.५७), मार्गे कूपोऽभूत्, कूपो भविष्यति, प्रियो मन्युस्ते प्रिया न वयम्, मैथिली रामस्य दाराः, आपः पवित्रं, वरणा नगरं, शिरीषाः ग्रामः, पाञ्चाला जनपदा इत्यभिन्नस्यापि जात्यादेरर्थभेदस्य भेदतो व्यपदेशः। तथा क्रियाया अपि कालयोगदयः साधनभेदाद् भविष्यन्ति; अनेकाधारसमवेतायाश्‍च युगपदेकेन ग्रहणं जातिवदुपपत्स्यते।

कृदभिहितानां तु शुद्धभावानाम् आख्यातवद्भिः क्रियाभिः द्रव्यवद् वैधर्म्यादयुक्तस्तद्धर्मोपनयः। कृदभिहितो हि भावो द्रव्यवत् प्रकाशमानो लिङ्गसंख्या— कर्मादिशक्तीनामाश्रयो भवति (मभा. २.२.१९,३.१.६७) न त्वाख्यातवाच्यः तस्यापरिनिष्पन्नत्वेनाश्रयत्वानुपपत्तेः। तथा हि, यथा पाको वर्त्तते, पाकं पचतीति शक्तिसंख्यादियोगः कृदन्तेषु दृश्यते, नैव तिङन्तेषु। न हि भवति, पचति वर्तते, पचति पक्ष्यतीति। ननु च भवति पश्यति, मृगो धावति, इह पश्यामः, कर्मणि द्विवचनबहुवचन— नान्युदाह्रियन्त इति धावतीनां दृशि कर्मत्वं, केवलं त्वप्रातिपादिकत्वात् सुपोऽनुत्पत्तिः; तन्न; यथा क्रियायाः क्रियमाणत्वादेव नैसर्गिकं भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीदिति च दृश्यते पचादीनां भवतेः कर्तृत्वं दृश्यते। भवति धावति पश्यति पश्येति कर्मत्वं क्रियाविशेषणानां कर्मतयाऽवगम्यते। तथोत्पद्यमानत्वादेव गतौ कर्तृत्वमपि नैसर्गिकमेव। मृगो धावतीत्यादौ गम्यमानेतिशब्दोपसंहृतस्य वाक्यार्थस्य कर्मत्वं, न क्रियायाः। तस्मादशङ्कनीयं क्रिया सकर्तृशक्तियोगा, करणादियोगायोगाभ्याम्। शक्तिस्तु व्यक्तमेव कृदाख्याताभिधेयभावयोर्मिथो वैधर्म्यमिति। तस्मादनेकार्थविषयया वीप्सयाऽ— नभिसन्धानात् सिद्धमेकत्वं क्रियायाः। शब्दप्रत्यययोरभेदाच्‍च; यत्राभिधानज्ञानयोः अत्यन्तमभेदस्तस्यैकत्वं सिद्धम्, यथा जातेः प्रत्येकं च व्यक्तिविशेषाणाम्। अभिन्नौ च देशकालौ भेदे च क्रियायाः शब्दप्रत्ययौ दृश्येते, यथा च पचति पचतः पचन्तीति; तस्माच्छब्दप्रत्ययाभेदहेतुः एका क्रिया।

ननु च जलचन्द्रादिदृष्‍टान्ते भेदव्यवहारे सन्देहः, किं साधनमभेदाश्रयाणि क्रियायाः कालत्रययोगादीनि प्रत्ययव्यपदेशादीनि च भेदकार्याणि, उत स्वभेदाश्रयाणीति।

अत्रोच्यते क्रियाया अभेदेऽपि साधनभेदाद् द्विवचनबहुवचनोत्पत्तेस्संदेहाभावः। इह भेदस्याभेदपूर्वकत्वाद्, भेदमभ्युपगतवताऽवश्यमभेदोऽभ्युपगन्तव्यः; तस्य यस्याः क्रियाया एकत्वमभ्युपगम्यते तस्यास्साधनभेदाद् दृष्‍टो द्विवचनबहुवचनयोगः; यथा परमाणुं पचतः, परमाणुं पचन्ति। अनेकत्वाभ्युपगमे च साधनस्याभेदे दुष्‍टमेकवचनमेव, भिनत्ति कुसूलमिति। तस्मात् साधनभेदानुविधानाच्‍च क्रियायाः, क्रियाभेदानुविधानाच्‍च साधनानां साधनाश्रयाणि भेदाभेदकार्याणि क्रियायाः, न स्वाश्रयाणीति।

कथं तर्हि पच्येते ओदनौ पच्यन्ते ओदना देवदत्तेनेति कर्त्रभेदे वचनभेदः ? यस्मिन् साधने लादयोऽभिधीयन्ते, तद्‍भेदमनु विधीयन्ते क्रियायाः क्रियाभेदसाधनानीत्य— शङ्कनीयमेतत्। प्रदीपादिषु भेदयोरनात्यन्तिकत्वात् ज्ञानाभिधानयोरपि तथात्वेऽस्ति, न तैर्व्यभिचारः।

१४. इतश्‍चानेका क्रिया क्रियाभ्यावृत्तिभावाद् बहुसंख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुजादयस्स्मर्यन्ते; पञ्चकृत्वो भुङ्क्ते, चतुष्पचतीति; तच्‍चाभेद एवोपपद्यते। न हि देवदत्ते गते, यज्ञदत्ते चायाते पुनरावृत्त इति व्यपदेशो दृश्यते; दृश्यते च तत्रैवायात इत्येका क्रिया, समुच्‍चयाभावात्। इह भिन्नानामेकाविषयसन्निपाते समुच्‍चयो दृष्‍टः; तथा देवदत्तस्य गौश्‍चाश्वश्‍च पुरूषश्‍च; देवदत्तस्य यज्ञदत्तस्य विष्णुमित्रस्य च गौरिति। न च पक्तुरभेदे गुडतिलौदनादि पंक्तिभेदात् क्रियाभेदाभ्युपगमेऽपि क्रियासमुच्‍चयो दृश्यते, देवदत्तः पठति पचति चेति। तस्माद्

(क्रियाया एकत्वम्)

१. एका क्रिया सत्त्वभावापत्तौ, प्रविवेके एकत्वेनाभिधानात्। इह क्रिया सत्त्वभावं प्रतिपन्ना यदा साधनेभ्यः प्रविविच्यते, न भवति तदा द्विवचनादियोगः, ब्राह्मणैरास्यत इति; तस्मादेका। ननु च सत्त्वभावेऽप्येतदुपलभ्यते यथा गुडतिलौदनानां पाकः ‘ताम्रः पलाशेषु बभूव रागः’ इति; तन्न; तस्यापि व्यभिचारात्, यथा—

तां प्रत्यभिव्यक्तमनोरथानां ततो नृपाणां प्रणयाग्रदूत्यः।
प्रवालचेष्टा इव पादपानां विलासचेष्टा विविधा बभूवः॥ १॥

(रघु. ६.१२) व्यभिचारे किन्निमित्तमिति चेत्, कृदभिधानमेव; कृदभिहितो भावो द्रव्यवत् प्रकाशते। द्रव्यस्य च सत्यपि नानात्वे संबन्धिभेदादेव भेदावगतौ क्‍वचिदभेदाभिधानम्। यथा—

ऊरुमूलचपलेक्षणमघ्‍नन् यैर्वतंसकुसुमैः प्रियमेताः।
चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम॥ २॥

(माघ. १०.६७) यथा च वेदवाक्यम्— (तैसं. ३.१४.३)

‘यत्पशुर्मायुमकृतोरो वा पद्भिराहते।’ इति॥ ३॥

क्‍वचित् पुनस्तद‌्‌विवक्षायां भेदेनैव यथा— (रघु. ७.११, कुसं. ७.६२)

तासां मुखैरासवगन्धगर्भैव्यर्व्याप्तान्तरास्सान्द्रकुतूहलानाम्॥ इति॥ ४॥

ब्राह्मणैरास्यत इति सर्वदैकवचनमेवेति विशेषः, साध्यत्वात्। सिद्धस्यैव वस्तुनस्संख्यायोगो युज्यते, न साध्यस्य, अपरिनिष्पन्नत्वेनाश्रयत्वानुपपत्तेः। साध्या च क्रिया प्राधान्यतः तिङ्भिरभिधीयते; तस्मान्न भेदसंख्ये इत्येका।

२. एकशेषात्। इह येषां सरूपशब्दाभिधेयानामनेकत्वं दृष्टं, तदभिधानानामेकशेषो दृष्टः। तद्यथा व्यक्तिपक्षे ब्राह्मणाः, पुरुषा इति। न च ब्राह्मणैरास्यते, पुरुषैर्गीयत इति क्रियाभिधानानामेकशेषो दृश्यते। स चायमेकशेषो व्यावर्तमानस्त्वव्याप्‍तमनेकत्वमपि गृहीत्वा व्यावर्तत इति एका क्रिया (मभा. १.२.६४)।

ननु च कथमेकशेषाभावः ?

न तिङन्तान्येकशेषं प्रयोजयन्तीति (मभा. ५.३.६६)।

का पुनरत्रोपपत्तिः ? क्रिंयाप्रधानत्वमाख्यातानाम् (मभा. ३.१.६६)। तदेव चिन्त्यते। इह खलु क्रियाकारकयोः प्राधानोपसर्जनभावेन वृत्तिसंसर्गेण चतुष्टयी गतिः। क्रिया वा क्रियायां न्यग्भवति यथा चिकीर्षति, अध्यापयतीति; कारकं वा कारके यथा आक्षिकः, निष्कौशाम्बिः; कारके वा क्रिया यथा पाचकः, पचनीयम्; क्रियायां वा कारकं यथा पुत्रीयति, उपश्‍लोकयति। आख्यातेषु चैषामन्यतमोऽपि न प्रकारः; तत्र हि साध्या क्रिया विप्रकृता क्रमवती साधनतन्त्रा सव्यापारसाधना अपरिसमाप्ता पचादिभिरुच्यते, सिद्धानि च साधनानि तिबादिभिरभिधीयन्त इति न कस्यचित् प्राधान्यमप्राधान्यं वा। प्रत्युत प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः। प्राधान्येनेति, प्रत्ययार्थस्य प्राधान्यं स्यात्; एवं च द्विवचनबहुवचने अपि तन्निबन्धने उपपद्येते।

तन्न; सिद्धं साध्यायोपादीयते; सिद्धानि च साधनानि च, तानि परार्थमुपादीयमनानि शेषतां लभन्ते। साध्यं तु परोपकारेषु असमर्थमात्मसिद्धयेऽर्थान्तरमपेक्षमाणं तद्‌वैधर्म्यात् प्रधानभावमनुभवति।

नन्वेवं ह्येकशेषाभावो न सिध्यति; न ह्येकशेषाभावे प्राधान्येन गुणभावेन वा किञ्चिदाश्रीयते। पचादयो हि क्रियावचनाः, तेषामेक एवानेकसाधनसमवेतानेकत्वेन विवक्षितां क्रियामभिधास्यति।

तन्न; यद्यप्येको धातुः यथा उक्तां क्रियां ब्रवीति तथा लकारस्यानेककर्मकर्तृविषयत्वात् प्रतिसाधनमुपपत्तावनेकत्वं प्राप्‍नोति, तदनुरोधाच्‍चार्थाः प्रधानाः (वर्त्तन्त) व्यावर्तन्त इत्येकशेषारम्भः स्यात्। क्रियाप्राधान्येन तु गुणभूतयोः कर्तृकर्मणा(कृति २.३.६५) स्सुप्त इति(?)। एवं तर्हि भिन्नसाधनमभिन्नमर्थं वक्ष्यामीति एकशब्दत्वं, साधानभेदात्तु द्विवचनबहुवचनयोगः।

अन्ये ब्रुवते— यद्येकस्याः प्रकृतेस्साधानभेदे भिन्ना लकाराः प्रसज्येरन्, तथापि यथैकस्थाने एकवचनमेव द्वयोर्द्विवचनं बहूनां (बहुवचनं) भविष्यन्तीति। इदमेव हि द्विवचनबहुवचनयोः द्विवचनबहुवचनत्वं, यत्तदेकशब्दरूपमेकशेषशब्दवदनेकार्थाभिधाने समर्थमिति व्याख्यायते। इतश्‍च क्रियाप्रधानमाख्यातं, करोतिना प्रश्‍ने निर्णयार्थत्वात्। किं देवदत्तः करोतीति प्रश्‍ने पचति, आस्त इत्युत्तरं भवति, न त्वासकः पाचक इति (१.३.६६ काशिका)।

न चायं कर्तृप्रश्‍नः, किं देवदत्त इति, विशेषस्याभ्यन्तरीकृतत्वाद् भिन्नलिङ्गत्वाच्‍च। नापि कर्मप्रश्‍नः, अनिर्ज्ञाते व्यापारे कर्मप्रश्‍नासंभवात्; पचति पठतीति कर्तृविशेषमन्तरेण प्रतिवचने प्रष्टुः कृतार्थत्वात्; पचति पठतीति चाख्यातस्य आख्यातेनायोगात्। यदि साधनं प्रधानं स्यात्, यथा पाचकः पचतीति, सामानाधिकरण्येन न योगो भवति, यथा पचति पठतीत्यत्रापि स्यात्। न चैतदस्त्यतः क्रियाप्रधानत्वमेवाख्यातानां, क्रियाप्रधानत्वाच्‍च न एकशेषारम्भः। तदनारम्भादेकत्वम्, एकत्वेन वीप्साभावः, वीप्साभावच्‍च गन्ता गन्ता गच्छति गच्छतीति शब्दावृत्तिः, शब्दावृत्तेर्बुद्धिभेदः, बुद्धिभेदाच्‍च क्रियायाः कारकेभ्यो व्यतिरेक इति।

ननु च पचति पचतः पचन्तीति धात्वर्थ एवायं, न क्रिया।

तन्न; धात्वर्थस्य प्रत्ययार्थस्यैवावच्छेदकत्वाद्‍धात्वर्थात् तु क्रियायाः पृथक्‍त्वं साध यमानमप्रधानव्यपदेश्‍यतायामेवं संतिष्ठते। यथैव तर्हि कारकभेदेऽप्यभेदः क्रियायाः, तथा धात्वर्थभेदेऽप्यभेद एवास्तु; सत्यमेतत्। किंतु वस्तुनः सर्वथैकत्वमनेकत्वं वोच्यमानं भेदाभेदनिबन्धनं लोकव्यवहारं सर्वमतिक्रामति। तस्माद् भेदमभेदं वा अभ्युपगच्छता व्यवहारप्रसिद्ध्यर्थमभेदो भेदश्‍चाभ्युपगन्तव्यः। कस्यचित् किञ्चिन्मुख्यं किञ्चिदौपचारिकम्। सर्वो हि भेदवादी निरुपकारेष्वयः शलाकावदसंबन्धेष्वन्योन्यव्यावृत्तेषु भेदेषु तदेवेदमिति प्रत्ययस्य अभेदादेकत्वमाश्रित्य लौकिकं व्यवहारमनुगच्छति। एकत्ववादी च भेदाधिष्ठानामिव भवतां सर्वां वृत्तिं सर्वं च विशेषशब्दव्यवहारं धर्मान्तरसंसर्गपूर्वकं लोके व्यवस्थितं मन्यमानो लोकमनुगच्छन् अभिन्नमपि भेदैरेव निदर्शयति। तस्माद् भिन्नधात्वर्थावच्छिन्ना भिन्नापि क्रिया अभिन्नैवेति। एतेनैतदपि संगृहीतम्—

१. भवति व्रजति पचत्यस्ति श्वेतत इत्यादौ प्रत्ययार्थधात्वर्थयोरुद्वापावापाभ्यामन्य— त्वेनावधारितो धात्वर्थावच्छिन्नः, परिच्छिन्नकालः कालपरिच्छिन्नो वा, उपसर्गा— दिभिरुपस्कृतः, कृतप्रत्ययार्थोपकारः कारकैरसंख्यशक्तिभिस्संख्योपाध्युपकृतैरुपक्रियमाण उपक्रमप्रभृत्यपवर्ग पर्यन्तमन्तः प्रतिभया साकल्येनोल्लिख्य साध्यत्वेनाध्यवसितः तथा सूभृतो (?) बहिर्निष्पन्नः प्रक्रान्तक्रमरूपावयंवसमुदायात्मा अनपेक्षितान्तराल— क्रियान्तरोपनिपातः, तथाविधावयवो वा पुरुषव्यापारः क्रिया।

२. यथोक्तविशेषणोत्पन्नधात्वर्थो वा,

३. साध्यफलनिष्पत्तिपूर्वक्षणोपलभ्यमानतदवयवो वा

४. अवयवसमूहोपलभ्यमानैकाकारप्रत्ययनिमित्तजाति विशेषो वा,

५. पूर्वावयवोपकृतान्यावयवप्रतीयमानजातिप्रादुर्भावो वा,

६. धात्वर्थव्याप्रियमाणकर्तृकर्मणोः स्वव्यपदेशनिमित्तसत्तासंबन्धो वा, व्याप्रियमाणेषु स्वपरात्मनोः पूर्वस्वरूपविलक्षणरूपान्तराभिमानो वा,

७. तत्रैव च तयोस्तथाविधाभिन्नस्वकारणसत्तासंबन्धो वा,

८. बुद्धिसत्ताभावेषु प्रत्यस्तमितरूपमनेकबुद्ध्यनुस्यूतं बुद्धिसामान्यं वा क्रियाशब्दे— नाभिधीयते। अपि च—

यावत् सिद्धमसिद्धं वा साध्यत्वेन विवक्षितम्।
आश्रितक्रमरूपत्वात् तत् क्रियेत्यभिधीयते॥ ५॥

(वाप. ३.१) (क्रियायाः परोक्षत्वम्)

सा च कार्यानुमेयत्वात् परोक्षेत्येके। गच्छतिपचत्यादिप्रत्ययेषु प्रत्यक्षेण, देवदत्तादिस्वरूपेऽतिरिक्तक्रियातत्त्वानुपलब्धेः। तथा हि—

य एव देवदत्तात्मा तिष्ठत्प्रत्ययगोचरः।
चलतीत्यपि संवित्तौ स एव प्रतिभासते॥ ६॥

(न्यायमं.) किंतु चलतीति प्रतीतिः संयोगविभागमालम्बते, संयोगविभागः कदाचिदेवोत्पद्यमानः परिदृश्‍यमानपदार्थस्वरूपातिरिक्तं कारणमनुमापयति, यच्‍च कारणं स परिस्पन्दप्रयत्‍नादिरूपः पुरुषव्यापारोऽतीन्द्रियः क्रियेति।

तदनुपपन्नमित्यन्ये। चलतीत्यादिप्रत्ययानां प्रत्यक्ष क्रियाऽवलम्बनत्वात्। तथा च न चलतीति प्रतीतेस्संयोगविभाग आलम्बनमव्याप्‍त्यादिप्रसङ्गात्। तत्र आकाशे विहङ्गमो गच्छतीति प्रतीतिर्न स्यात्, संयोगविभागयोरग्रहणात्। न च द्वयोर्विहङ्गमविहायसोः संयोगविभागौ प्रत्यक्षौ, प्रत्यक्षेतरवृत्तित्वात्, वायुवनस्पतिसंयोगविभागवत्।

अथ विततालोकावयवी आकाशः, तत्संयोगविभागौ च पक्षिणः प्रत्यक्षौ; तन्न; सन्तमसेऽपि खद्योतविद्युतोः क्रियाबुद्धेः।

न च तमो नाम वस्तुरूपमस्ति, भूकम्पे च कम्पते वसुन्धरेति च ज्ञानमस्ति। न च संयोगविभागग्रहणमस्तीत्यव्याप्तिः। संयोगविभागोपजनप्रबन्धेऽपि तयोर्वर्तमानयोरेव ग्रहणम्; तौ च गत्वापि स्थिते गवादौ स्त इति। तत्रापि गच्छतीति ज्ञानप्रसङ्गः; निश्‍चले च श्‍येनसमवायापायपरम्परावति वध्यशूले, प्रवाहजलाश्‍लेषमालहारिणि सरित्कूले, रङ्गतुरङ्गमसंयोगविभागश्रेणिमति च वाह्यालीमहीतले चलतीति प्रत्ययः प्राप्‍नोति। अथ क्रियाजन्यत्वं संयोगविभागजानां, तत्रैव चलतीति श्‍येनादौ, चलतीति प्रत्ययो न निष्क्रिये शूलादाविति; तर्हि क्रियावयवान्वयव्यतिरेकानुविधानात् क्रियालम्बन् एवायं प्रत्ययो, न संयोगवियोगालम्बनः।

किञ्च नित्यपरोक्षायां क्रियायामिदमपि न ज्ञायते— ‘किं शूलकूलमहीतलक्रियाजन्यत्वं संयोगविभागानां, किं वा श्‍येनजलतुरगक्रियाजन्यत्वमित्यतिव्याप्तिः; संयोगविभागालम्बनत्वे च संयुज्यते वियुज्यत इति च प्रतीतिः स्यात्, न चलतीति, यथाविषयं प्रत्ययोत्पादाद्, अनिर्ज्ञाने जलस्य अनिर्ज्ञातलक्षणस्य आलम्बनता स्यात्। चलतीति च वर्तमानाभासः प्रत्ययः संयोगविभागानुमेयत्वेन संभवति। तथा हि— ‘संयोगान्तं कर्मे’—ति न्यायात्। न च संयोगो वर्तमानां क्रियामनुमापयति; विभागोऽपि कार्यत्वादात्मनः प्राक्कालीनमेव कारणं गमयति। कारणस्य हि सत्त्वं प्राक्कलीनमेव कार्योपयोगि, न तुल्यकालं, तदानीं तस्य असिद्धत्वात्। अतः कार्यात् कारणभूतां क्रियामनुमिमानो, भूतामेवानुमिमीते, न वर्तमानाम्। तस्मात् संयोगविभागाभ्यां क्रियानुमाने वर्तमानाभासश्‍चलतीति प्रत्ययो न संभवतीत्यसंभवः। न च नित्यपरोक्षक्रियानुमानमपि शक्यं, कार्यं कारणपूर्वकमिति संबन्धग्रहणानुपपत्तेः। न हि द्रव्यमात्रं कारणम्, अपि तु क्रियाविशिष्टं, क्रियायाश्‍च परोक्षत्वान्न तदानीं विशिष्टद्रव्यकारणग्रहणं सुघटमिति घटादावपि दुर्घंटा व्याप्‍तिप्रतीति। तस्मान्न कार्यानुमेया क्रिया। अपि तु उत्क्षेपणादिभेदवतः परिस्पन्दरूपस्य कर्मणः प्रत्यक्षेणोपलम्भात् प्रत्यक्षैवेति। एतेन पचतीति प्रतीतिरपि प्रत्यक्षक्रियालम्बनैवेति व्याख्यातम्। तत्र हि पचत्यादिक्रिया बह्व्यः प्रतीयन्ते ‘देवदत्तश्‍चलति, चुल्ली ज्वलति, स्थाली ऊष्मायते, पयः क्‍वथयति, पिधानमपिधत्ते, तण्डुलानि विक्‍लिद्यन्ति, दर्व्यपविध्यति, ओदनस्सिध्यति’ इति।

ननु च पाको नाम धात्वर्थः परिदृश्‍यमानदेवदत्तादिव्यापारव्यतिरिक्त एषितव्यः, तमन्तरेण फलनिर्वृतेरभावात्; तदभावे च किमधिकृत्य कारकाणि संसृज्येरन् ?

अत्रोच्यते—यं तमेकं पाकं नाम धात्वर्थं चलनादिभ्योऽतिरिक्तं क्रियेति मन्यसे, स किं वस्तुधर्मः, तत्कार्य वा ? तत्र वस्तुधर्मत्वे रूपवज्जातिवद् वाभ्युपगम्यमाने यावद्वस्तु सर्वकालं वा फलनिष्पत्तिप्रसङ्गः। तत्कार्यत्वे सति स किं सकलकारकनिष्पाद्यः, एकैककारकनिर्वर्त्यो वा ? तत्राद्यपक्षे एकैकं भवेत् कारकमक्रियम्; एकैकनिष्क्रियत्वे तु साकल्येऽपि कार्यत्वाद् व्यापारान्तरकल्पनायामनवस्था। पक्षान्तरे तु क्रियामिव फलमपि निष्क्रियाण्येव कारकाणि कुर्युरिति किं क्रियया ?

ननु करोतीति कारकम् ?

सत्यम्; करोति फलं न तु क्रियाम्।

ननु करोतीति यद् ब्रूषे सेयमुक्तैव क्रिया। चैत्रः कटं करोतीति चैत्रस्यैव कटस्यैव करोतेरप्यर्थो वाच्य एव।

उच्यते— परिस्सन्द एव भौतिको व्यापारः करोत्यर्थः। न हि वयं परिदृश्यमानं परिस्पन्दात्मकं व्यापारमपह्नुमहे, प्रतिकारकं विचित्रस्य चलनादेर्व्यापारस्य प्रत्यक्षेणोपलम्भात्। अतीन्द्रियस्तु तदतिरिक्तः करोत्यर्थो नास्तीति ब्रूमहे। क्रियातीन्द्रियत्वे हि तद्योगकृतं कारकत्वमधिगच्छन्तः फलार्थिनस्तदुपाददीरन्।

तावदेव विनिश्‍चित्य तदुपादीयतेऽर्थिभिः।
तदेवोपाददानैश्‍च फलमप्यधिगम्यते॥ ७॥

कारकत्वं च पक्षेऽस्मिन्‍नास्ति किञ्‍चिदतीन्द्रियम्।
कारकत्वं स्वरूपस्य सहकार्यादिसन्निधिः॥ ८॥

निर्व्यापारस्य नन्वस्य को गुणस्सहकारिभिः।
व्यापारयोगिनोऽप्यस्य को गुणस्सहकारिभिः॥ ९॥

अथ व्यापार एवैष सर्वैः संभूय साध्यते।
किं फलेनापराद्धं वस्तद्धि संभूय साध्यताम्॥ १०॥

तस्मात् कारकचक्रेण चलता जन्यते फलम्।
न पुनश्‍चलनादन्यो व्यापार उपलभ्यते॥ ११॥

चलन्तो देवदत्ताद्यास्तदनन्तरमोदनः।
एतावद्‌दृश्‍यते तत्र न त्वन्या काचन क्रिया॥ १२॥

क्रियानिमित्तसंसर्गवादिनोऽपि द्वयी गतिः।
सत्यां क्रियायां संसर्गस्संसर्गे सति वा क्रिया॥ १३॥

अत्रापि पक्षे पूर्वस्मिन् संसर्गः क्‍वोपयुज्यते।
तथा सति फलं सिध्येत् काष्ठादेः केवलादपि॥ १४॥

संसर्गात् तु क्रिया सिद्धा पुनरेकैकमक्रियम्।
तथा च सति नैधांसि ज्वलेयुः पिठराद् विना॥ १५॥

(न्यायमं) १. ज्वलन्त्येधांसि न पुनः पचन्ति पिठरान्विताः।
पिठरे सत्यपीमानि ज्वलन्तीत्येव मे मतिः॥ १६॥

२. तस्मात् क्रियान्तराभावात् काष्ठाम्बुपिठरादयः।
संसृज्यन्तां फलायैव किमदृष्टेन कर्मणा॥ १७॥

ननु च फलं सिद्धं साध्यं वा ?

किञ्चातः ?

सिद्धं चेत् कारकान्तराण्यपि सिद्धानीति संसर्गाभावः। अथ साध्यं, सैव कारकव्यापारव्यतिरिक्ता क्रियेति।

तन्‍न, फलस्य क्रियात्वानुपपत्तेः। ओदनो हि फलं, न क्रिया; क्रियानाम्नि तु क्रियमाणे न विप्रतिपत्तिः।

पाकस्तर्हि कः ? (न च) पचेर्वाच्यशून्यतैव युक्ता; उच्यते— समुदितदेवदत्तादिकारक— निकरपरिस्पन्द एव विशिष्टफलावच्छिन्नः पाकः। स एव च पचेरर्थः; देवदत्तादिक्रिया हि चलनज्वलनादिरूपाः पृथक्‍तयैवावभासन्ते, समुदितास्तु सत्यः फलान्तरावच्छेदाद् रूपान्तरेण पाकादिना परिस्फुरन्ति, व्यपदिश्‍यन्ते च; तथा देवदत्तः पचतीतिवत् काष्ठानि पचन्ति, स्थाली पचतीत्यपि व्यपदेशो भवति। ननु च यथा स्थाली पचति काष्ठानि पचन्तीति दृश्‍यते, नैवम् ओदनः। पचति, तण्डुलाः पचन्तीति।

सत्यमेतत्, कारणं तु वाच्यम्।

किं तदिति चेत् पचेरकर्मकक्रियात्वमेव।

नन्वोदनस्य तण्डुलानां वा कर्तृत्वं, न तूभयोस्संभवति।

नैवम्, तण्डुलानोदनं पचतीत्यपि व्यपदिश्‍यते।

न च कर्मवद्‌भावात् न कर्तृप्रत्ययः। नन्वेवं सति, ओदनतण्डुलानां निर्वृत्ति— विकारयोस्स्वातन्त्र्यात् सिध्यति ओदनोऽपि क्‍लिद्यन्ति, तण्डुला इत्यपि न स्यात्। तन्न;

निर्वर्त्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम्।
कर्त्रन्तराणां व्यापारे कर्म संपद्यत पुनः॥ १८॥

(वाप. ३.७.५४) भवतु नाम तण्डुलानां सिद्धानां कथञ्चिदेतत्, ओदनस्य तु साध्यस्य नोपपद्यते।

नैवम्, भवत्यर्थे सर्वस्य कर्तृत्वात् भवत्यर्थश्‍च सिध्यतीति न दोषः। कथं न दोषः ?

३. यद्योदनो न पक्तव्यः पक्तव्यो यदि नोदनः।

यथा—

४. शाटकश्‍चेन्न वातव्यो वातव्यश्‍चेन्न शाटकः॥ १९॥

अत्रोच्यते।

५. अन्तस्तत्त्वं बहिस्तत्त्वं निष्पत्तौ द्वयमिष्यते।
अन्तस्तत्त्वं पुरस्कृत्य बहिस्तत्त्वं प्रकाशते॥ २०॥

६. द्वयी सत्ता पदार्थानां बाह्या चाभ्यन्तरीति च।
आन्तरी व्यवहारार्था बाह्या त्वर्थक्रियां प्रति॥ २१॥

अन्यथा ह्यङ्‌कुरो जायत इत्यपि न स्यात्। अत इदमुक्तमं उपक्रमप्रभृत्य— पवर्गपर्यन्तमन्तः प्रतिभया साकल्येनोल्लिख्य साध्यत्वेनाध्यवसितः पुरुषव्यापारः क्रियेति। न च पुरुषव्यापारस्य क्रियात्वम्; रथो गच्छति, कूलं पततीत्यादिप्रयोगाभावः उपचारो वा। पुरुषशब्देनेह प्रथममध्यमोत्तमलादेशत्रिकाभिधेययोः कर्तृकर्मणोरभिधानात्।

न चैवमेतद् व्यापारयोरेव क्रियात्वं, फलाभिधेयत्वेन प्राधान्यतः कारकोपलक्षणत्वात्।

यथा च भागाः पचतेश्‍चलनज्वलनादयः।
चलनज्वलनादीनां ज्ञेया भागास्तथाऽपरे॥ २२॥

(वाप. ३.८.९) तथाहि — देवदत्तश्‍चलतीत्यत्र किं प्रतीयते ? युगीमादत्ते, आ XXX उदकमासिञ्चति, तण्डुलानावपतीति। एवं कारकान्तरव्यापारेष्वपि द्रष्टव्यम्।

ननु देवदत्तादेर्भौतिको व्यापारः आत्मव्यापारपूर्वको भवितुमर्हति।

नैतदेवम्, न ह्यात्मनो व्यापारः कश्‍चिदस्ति, इच्छाद्वेषपूर्वकप्रयत्‍नशादेव स भौतिकव्यापारकारणतां प्रतिपद्यते। चलतीति प्रतीतिवत् पचतीति प्रतीतिरपि प्रत्यक्ष— क्रियालम्बनैवेति।

अत्रानुमेयक्रियावादिनस्समादधते—

अस्तु नाम देवदत्तादिकारकनिकरपरिस्पन्दसमुदायः क्रिया। किन्तु पचतीत्यादा— वधिश्रयणावचपनविचटनादीनां समुदायं किमायुष्मान् क्रियेति मन्यते।

ओमिति ब्रुमः।

किमर्थँ सर्वाण्येवेति ?

पृच्छामि चायुष्मन्तं किमधिश्रयणादयः क्रियाव्यपदेशमेकशो वा लक्षेरन् ? न तावदेकशः, क्रमरूपाभावात्। एतच्च तत्क्रियायाः क्रियात्वं यदुत साधेनैस्साध्यमानता क्रमरूपोपादानं च। न चैकस्य क्रमस्संभवति, अवश्‍याभिधेयश्‍चेतदुपात्तक्रमस्साध्य— तयाऽभिधीयमानपदार्थः क्रियेति। अन्यथा हि पाकदीनामुपसंहृतक्रमाणामपि क्रियात्वप्रसङ्गः। ते हि पर्यवसिताः स्वरूपतयोपसंहृतक्रमा एव स्वशब्दैरभिधीयन्ते। तेषां पूर्वापरीभावविरहान्न क्रियात्वम्। अत एव ते साधनभावेन तैश्शब्दैरुपादीयन्ते, न साध्यभावेन। पाकं करोतीत्यादौ हि साधनविशेषनिबन्धना विभक्तिरुपलभ्यते, द्वितीयानिर्वृत्तिरूपं च साधननमुपपद्यते।

नन्वेवम् अस्ति विद्यते तिष्ठतीत्यादीनामपि न क्रियात्वं प्रसजेत्, यावता नेहापि क्रम उपलभ्यते।

नैवम्, अत्रापि क्रमस्य प्रतीयमानत्वात्। तथा हि—

कालानुपाति यद्रूपं तदस्तीत्यपदिश्यते।
परितस्तु परिच्छिन्नं भाव इत्येव कथ्यते॥ २३॥

(वाप. ३.८.१२) एवं विद्यते तिष्ठतीत्यत्रापि द्रष्टव्यम्; कालाधिकारे चैतद् विशेषतो वर्णयिष्यामः। नापि क्षणशः क्रमजन्मता अधिश्रयणादीनाम्, उत्पन्नमात्रप्रध्वंसित्वाद्, अयौगपद्ये समूहानुपपत्तेः। तदभावे च कथमिव अभिन्नेषु भिन्नशब्दो वर्ततां पचतीति।

उच्यते—क्रमोपजातावयवपरिच्छेदप्राप्त—संस्कारान्तं यदा सकलं क्रियाकलापत्तेः (कलापं) कलयति, तदा प्रत्ययः परिवर्ति समुदाय एककार्यत्वादपिहितभेदः पचतीत्या— दिशब्दव्यपदेशनिमित्तं भवति। तथा ओदनादिकार्यक्रियाकलापस्तिरोधाय भेदमभेदेन व्यपदिश्‍यते। पचतीति फलस्य च सकसक्रियावयवसाध्यत्वात् साधनभावेनापि स एवापेक्ष्यते। तदनन्त(तदन्त ?)र्गतास्त्वधिश्रयणादयः प्रत्येकं फलमभिनिर्वर्तयितुमपर्याप्‍ताः पर्याप्‍तस्य समुदायस्य रूपसम्पादनार्थत्वात् समुदायं प्रति गुणभूता विज्ञायन्ते। तदाह—

गुणभूतैरवयवैस्समूहः क्रमजन्मनाम्।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्‍यते॥ २४॥

(वाप. ३.८.४) यद्येवं पचतीति व्यपदेशो नोपपद्यते, धातूपादाना क्रिया यदा नातीता न चानागता, तदा वर्तमानकालविहितः प्रत्ययः प्रयुज्यते। न चास्य क्रियाप्रतानस्येयं व्यवस्था संभवति, अधिश्रयणादीनां पूर्वापरीभावनियमात्। न चैकः क्रियाभागः पचतिशब्दनिबन्धनं, शब्दशक्तिस्वभावात्। न ह्युपात्तक्रियावयवार्थप्रत्यायकश्शब्दो यथाभूतमर्थं प्रत्याययति; ततश्‍च कथमेकस्य वर्तमानकालतां प्रत्ययोऽनुरुध्येत ?

नैतदस्ति; शब्दशक्तयो हि भिन्नरूपामभिन्नामर्थव्यक्तिमुपात्तभेदां दर्शयन्ति; यतः पूर्वापरीभूतावयवसमुदायावग्रहरूपा बुद्धिर्यथाऽवगृहीतं समुदायाकारमवयवेषु प्रत्यस्यति; तेऽवयवाः प्रत्ययेन समारोपितसमुदायरूपाः पचतिशब्दवाच्यास्सन्तः स्वरूपसन्निधानात् तंवर्तमानादिव्यपदेशमनुभूय प्रत्ययविशोषोत्पत्तिनिमित्तं भवन्ति। तथा हि—अभिसमीहितफळः क्रियायां फलोपजननसाधनभूतायां प्रवर्तमानः पुमान् समुदायमेवाधाय चेतसि तास्ववयवक्रियासु प्रवर्तते। ततो ह्यस्य समुदायाभिसन्धिसमुत्थापिताः क्रियाभागाः समुदायसंपादनार्थत्वात् समुदायरूपेणाध्यवसीयन्ते। तथाध्यवसितक्रियारूपैस्तु तस्य क्रियाक्षणस्य सन्निधानाद्‌वर्तमानकालविहितः प्रत्ययः प्रयुज्यते पचतीति। अत्र चोत्पन्नामात्र— प्रध्वंसित्वात् सर्वे क्रियावयवा वर्तमाना च संभवन्तीति स्फुटमेवावसीयते; किन्तु प्रत्येकं समुदायिषु समुदायाध्यासेन प्रयुज्यते पचतीति। अधिश्रयणाद्यवयवक्रियासमुदायवचनेषु पचादिषु यस्मिन्नवयवेऽध्यारोप्य समुदायोऽधिश्रयणादिः विल्कित्त्यन्तः प्रत्याय्यते, तत्कालप्रत्ययोऽनुवर्तते। तत्र तदा वर्तमानावयवे समुदायाध्यासस्तदा पचतीति भवति। यदा तु भूतभविष्ययोस्समूहारोपणे तदाऽपाक्षीत् पक्ष्यतीति। यदुक्तम्—

समूहस्स तथाभूतः प्रतिभेदं समूहिषु।
समाप्यते ततो भेदे कालभेदस्य संभवः॥ २५॥

(वाप. ३.८.५) समुदायस्य च समुदायिषु प्रत्येकपरिसमाप्‍तौ निदर्शनं ग्रामो दग्धः, पटो दग्ध इति। यदि ह्येकस्मिन्नंशे समुदायो न स्यात्, पाणिमात्रस्याङ्गुलिमात्रस्य वा चण्डालत्वविरहात् चण्डालपाण्यङ्गुलिस्पर्शे नैवोच्येत चण्डालः स्पृष्ट इति, न चाङ्गविकारेणाङ्गिनो विकृतिर्लक्ष्यते, अक्ष्णा काण इति।

तदुक्तम् ‘अवयवे हि स्पृष्टे समुदायोऽपि स्पृष्टो भवति; अवयवे हि कृतं लिङ्गं समुदायस्यापि विशेषकं भवति (मभा. १.३.६२); यश्‍च समुदायः सोऽवयवान्न व्यभिचरित। तस्य विशेषकं यथा ‘गोस्सक्‍थनि कण्ठेऽपि कृतं लिङ्गं गोरेव विशेषकं न गोमण्डलस्य’ इति। तदेवमुक्ते किमुक्तं भवति उपात्तक्रमाधिश्रयणादिविक्‍लित्यन्तानामववानां समुदायः पचतिक्रियेति ? तर्हि चिरं जीवतु भवान्; भवतैव प्रतिज्ञाता नैव क्रिया प्रत्यक्षेति। तस्मादुपात्तक्रिया क्रमाः क्रियावयवाः; तदस्य क्रियासङ्घातस्य केचिदवयवा निवृत्ताः, केचिदनिवृत्ताः, कश्‍चिदेव प्रत्युपस्थितः। प्रत्युपस्थितविषयाः चक्षुरादयः; ततोऽथ क्रियाकलापाः प्रत्यक्षयितुम्, चक्षुरादिभिरनभिसंबन्धात्; न व्यतीतानागतरूपस्यासतः क्रियावयवस्य सदसदनुपातिना करणग्रामेण संबन्धः, न वाऽनधिगतेन्द्रियसंबन्धस्य पदार्थस्य दर्शनपरिच्छेद्यता संभवति। तदुक्तम्—

क्रमात् सदसतां तेषामात्मानो न समूहिनाम्।
सद्‌वस्तुविषयैर्यान्ति संबन्धं चक्षुरादिभिः॥ २६॥

(वाप. ३.८.६) दर्शनाभिमानः कथमिति चेत्, यथा गौरश्व इत्येवमादिषु पदेषु गकारादयो वर्णभागाः क्रमरूपानुविधायिनो व्यक्तावुपजने वा प्राप्तयौगपद्याः सङ्घातरूपेण न पार्यन्तेऽवधारयितुम् इन्द्रियायत्तया बुद्ध्या, तस्याः प्रत्युपस्थिताक्षरावसायशक्तेः पूर्वोत्तरभागयोरसंस्पर्शात्। समभिहितावयवपरिच्छेदप्रापितातिशयास्तु बुद्धयः स्वानुरूपं संस्कारपरम्परायामन्ते समालोचितविशेषवर्णभागामुपजनयन्ति बुद्धिं तस्यामुत्तीर्णमिव तत्पदं समुदायात्मना निरूप्यते। तदाह—

यथा गौरिति सङ्घातस्सर्वो नेन्द्रियगोचरः।
भागशस्तूलपलब्धस्य बुद्धौ रूपं निरूप्यते॥ २७॥

(वाप. ३.८.७) काल्पनिकस्तु युगपद्‌ग्रहणाभिमानः प्रत्यक्षभ्रमनिबन्धनम्। यथाऽलातस्य आविद्धविष्वग्गते देशे नैरन्तर्येंण परिवृत्तिरूपमविरामेणावधारयन्नन(वसितकालभेदो युगपत्सकलदेशव्यापि अ) परिच्छिन्दन्नध्यवस्यति चक्रमिति; यथा क्रमवन्तः क्रियाभागाः क्रमेणैवावसिता लघुतरं परिवर्तित्वादनवधृतकालभेदैर्युगपदेवाध्यवसीयन्ते; यथाध्यवसायं च दर्शनाभिमानमुत्पादयन्तः प्रत्यक्षव्यवहारं वर्तयन्ति। यदुक्तम्—

इन्द्रियैरन्यथाप्राप्तौ भेदांशोपनिपातिभिः।
अलातचक्रवद् रूपं क्रियाणां परिवर्तते॥ २८॥

(वाप. ३.८.९) (क्रियाया अप्रत्यक्षत्वम्)

अप्रत्यक्षैव तु क्रिया। यदाह महाभाष्यकारः—क्रिया नामेयमत्यन्तापरिदृष्टा अशक्‍या पिण्डीभूता निदर्शयितुं, यथा गर्भो निर्लुठितः साऽसावनुमानगम्येति। ननु प्रत्यक्षाप्रवृत्तौ संबन्धग्रहणाभावात् कथं क्रियाविषयेऽनुमानं प्रवर्तते ?

नैष दोषः; धातुवाच्यस्य समूहस्य युगपदसन्निधानादप्रत्यक्षत्वम्; एकैकस्य तु क्षणस्य प्रत्यक्षत्वे बुद्ध्या सङ्कलय्य पचतीति प्रयुज्यते; यदाप्येकस्मिन् क्षणे पचतीति प्रयोगस्तदा तत्र समूहारोपणम्। यदाह—

पूर्वोत्तरैर्यदा भागैस्समवस्थापितक्रमः।
एकस्सोऽप्यसदध्यासादाख्यातैरभिधीयते॥ २९॥

(वाप. ३.८.११) यश्‍चापकर्षपर्यन्तमनुप्राप्तः प्रतीयते।
तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते॥ ३०॥

(वाप. ३.८.१०) न त्वेवम्; इन्द्रयैरभिसंबन्धात् सरूपसन्निधानाय वर्तमानव्यपदेशाच्‍च कथमप्रत्यक्षत्वं क्रियायाः ?

उच्यते; नेह वस्त्वर्थो निरूप्यते, अपि तु शब्दार्थः तत्र चान्वयव्यतिरेकाभ्यां यः प्रकृत्यर्थोऽवस्थाप्यते, या क्रियावचनस्य धातुसंज्ञा, नासौ शक्‍या साक्षादुपलब्धुम्। तत्र हि आचार्याणां मतभेदः।

एके मन्यन्ते— अधिश्रयणादीनां समुदायो बुद्ध्या निगृहीतः, एकत्वेन स पचतीत्यादीनां वाच्य इति। न च समुदायं पचतीति प्रयुञ्जानः प्रत्येकमधिश्रयणादिषु प्रत्यस्यति, प्रत्ययाश्‍च न समुदाय इत्येवंरूपं प्रत्यस्यन्ति। नापि ‘अयं च अयं च’ इति संबन्धिनो बुद्ध्यावगृह्‍णाति। किं तर्ह्याश्रितक्रमरूपमिव प्रत्येकमवयवेषु प्रत्यस्य पचतीति प्रयुङ्क्ते, तदा तस्यैव समीहितं भवति, अधिश्रयणाद्यानुपूर्व्या फलमोदनादि निर्वर्तयितव्यमिति। यथा प्रथमक्रियासंभागे पचिरित्येवाध्यवस्यति नाधिश्रयणमिति। इतरथा ह्येवं प्रयोगः तस्याधिश्रयतीति; यदा चाधिश्रयणे निर्वृत्ते नागते वा भूतभविष्यत्कालाभिधायिनं शब्दं प्रयुङ्क्ते, तदा समुदायरूपप्रत्यासेनैव तमवयवबुद्ध्या निगृह्य प्रयुङ्क्ते अपाक्षीत्, पक्ष्यतीति। न त्वधिश्रयणरूपेण, अन्यथा ह्येवं प्रयोगस्स्यात् अध्यशिश्रयत्, अधिश्रयिष्यतीति। एवमावपने विचटने वा समूहिनि समुदायरूपप्रत्यासादेव धातुताव्यपदेशात्, पचत्यपाक्षीत् पक्ष्यति। एवंभूतश्‍चार्थात्माऽधिकृतः साधनतन्त्रसाध्यावस्थः शब्देन प्रक्रान्तोऽशक्‍य उपलब्धुम्; यथा गौरिति गकारौकारविसर्जनीया एवोपलभ्यन्ते, समुदायस्तु बुद्धिनिर्ग्राह्य एव, तथा पचतीत्यादिष्वेवाधिश्रयतीत्यादिषु अवयवा एव हस्तप्रसरणस्थाली— विन्यासादयोऽशब्दवाच्या, अप्रत्यक्षा एव। यावदपकर्षपर्यन्तप्राप्‍ता क्रियेति सापि नाप्रत्यस्ते क्रमरूपे समुदाये आख्यातशब्देनाभिधीयते। अपकर्षपर्यन्ता चेत् क्रमरूपेण न अवगृह्‍णादिति अवाचक एवाख्यातशब्दः। यथा श्‍लोकशब्दं प्रयुञ्जानं आद्यं पदं पदरूपेणावगृह्‍णाति न तदा श्लोकस्समुच्‍चार्यत इति प्रयुङ्क्ते यदा वाश्रितोत्तरप्रबन्धमवगृह्‍णाति तदा श्लोकशब्दं प्रयुङ्‌क्ते। एवं कृत्वा निरुक्तेऽप्युक्तं ‘पूर्वापरीभूतं भावमाख्यातेनाचष्ट’ इति।

अन्येषां दर्शनं(वाप. ३ क्रिया) यद् विचटनं तण्डुलावयवानां तण्डुलावयवेभ्यो विभागः, यदनन्तरं मार्दवादयो निष्पद्यन्ते, तद्यदाऽधिश्रयणादिषु प्रत्यस्तरूपं भवति तदाऽऽख्यातेना— भिधीयते। तत्र यदुपलभ्यतेऽधिश्रयणं तदशब्दवाच्यम्; कारकनिराकाङ्क्षं यच्छब्देनाभिधीयते तदनिष्पन्नं साधनतन्त्रमप्रत्यक्षम्; निष्पन्नानिष्पन्नयोश्‍चैकात्म्यापत्तौ पचत्यादिशब्दप्रयोगः। स चायमेवंरूपोऽर्थात्मा गुणक्रियाणां पौर्वापर्यात्मनां न पूर्वो न परश्‍च पूर्वापरीभूतो व्यपदिश्‍यते।

अन्ये तु विचटनमेवाधिश्रयणादिरूपं प्रतिपन्नाः, न रूपशून्यानधिश्रयणादीन् अप्रत्यस्तविचटनरूपान्; आहुश्‍च कः पुनः पचेः प्रधानार्थः? याऽसौ तण्डुलानां विक्‍लित्तिः। (मभा. ३.१.२६)।

अथवा यदभिसंधिपूर्वकं प्रेषणमध्येषणं वा स सर्वः पच्यर्थ इति। सर्वस्मिन्नपि दर्शने यथाभूताख्यातशब्देन क्रिया प्रक्रम्यते, तथाभूतायाः सिद्धमप्रत्यक्षत्वमिति फलेनैव समाधिगमो युक्तः। स कथमिति चेत्, इह सर्वेषु साधनेषु सन्निहितेषु कदाचित् पचतीत्येतद् भवति, कदाचिन्न भवति, यस्मिन्निमित्ते सन्निहिते पचतीत्येतद्, भवति सा नूनं क्रिया, ‘यथा देवदत्त इह भूत्वा पाटलिपुत्रे भवति, सा नूनं क्रिया’ इति (मभा. १. ३. १)। द्वितीयहेतुशक्‍त्या सोऽप्यर्थ इति चेन्नैवम्; इह कस्यचिदेषा बुद्धिः स्यात्; असत्येवास्मिन्निमित्ते पचत्यादिबुद्धयः प्रबर्तन्ते, यथा मृगतृष्णिकादिष्विति तदनेन निर्वर्तयति (वाप. ३ क्रिया)। मृगतृष्णिकादिभ्यो हि तृप्‍तिमलापकर्षणघर्मापनोदनादि न फलं निर्वर्तते। असर्वगतयोर्हि देवंदत्तपाटलिपुत्रयोर्गमनक्रियान्तरनैरन्तर्येणावस्थानरूपं फलमुपलभ्यते।

अथवा एतदयं प्रतिपद्येत, शक्तिकृताः पचत्यादयो विशेषोः सप्रत्ययाश्‍च स्युः, न क्रियाकृता इति, तदनेन निर्वर्तयति, यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा नूनं क्रियेति। यदि ह्येते शक्तिकृतास्स्युः शक्‍त्यनन्तरमेव पाटलिपुत्रेण प्राप्तिः स्यात्। न च भवति, तस्माद् भवितव्यं शक्तिकृतेनान्येन धर्मेण, यस्य फलं देशान्तरप्राप्तिरिति।

क्रियामन्ये तु मन्यन्ते क्‍वचिदप्यनपाश्रिताम्।
साधनेकार्थकारित्वे प्रवृत्तिमनपायिनीम्॥ ३१॥

(वाप. ३.८.३७) सामान्यभूता धात्वर्थैस्सा पुनः प्रविभज्यते।
ततो व्यापाररूपेण साध्ये पर्यवतिष्ठते॥ ३२॥

(वाप. ३.८.३८) प्रकृतिस्साधनानां सा प्रथमं तच्‍च कारकम्।
शक्तिरेकाधिकरणे स्त्रोतोवदपकर्षति॥ ३३॥

(वाप. ३.८.३९) अपूर्वं कालशक्तिं वा क्रियां वा कालमेव वा।
तमेवंलक्षणं भावं केचिदाहुः कथञ्चन॥ ३४॥

(वाप. ३.७.३४) सा तु यथा अस्ति भवति करोतीत्याद्यच्छेदे भेदादभिन्नापि भिन्नेव प्रकाशते, तथा क्रमरूपोपादानान्नित्यमेव कालसंबन्धोपाधिभूत—भूत—भविष्यदादिव्यपदेशमासादयति॥

(२. कालः)

कः पुनरयं कालो नाम ?

क्रियैव, क्रियान्तरावधृतपरिमाणव्यवच्छिन्ना वा क्रियापरिच्छेदहेतुः कालः।

कथं पुनः क्रिययैव क्रियापरिच्छित्ति ?

श्रूयताम् इह तु क्रियाः काश्‍चित्क्रियान्तरैः कैश्‍चिद् बुद्ध्यैव परिमीयन्ते। यथा अर्कादीनां गतयः, यथा च गोदोहादयः, यथाऽस्मदादिव्यापाराः, यथा पुरुषायुषादयस्त— त्रावधृतपरिमाणाभिरितराः परिच्छिद्यन्ते; यथा दिविसं गच्छति, वर्षशतं जीव, ओदनपाकमास्ते, गोदाहं स्वपिति; तत्र परिच्छेदकालव्यवहारं वर्तयन्ति; यथा ‘सवितुरुदयादिरस्तमयपर्यन्तः क्रियाप्रबन्धो दिवसः, स एवास्तमयादिः पुनरुदयावसानो निशा, सर्वर्क्षाणां सकृत्परिवृत्ति— रहोरात्रः, कालभिरिन्दोराप्यायनं परिक्षयो वा पक्षः, चन्द्रस्य सकलनक्षत्रातिक्रमो मासः, सूर्याचन्द्रमसोर्गति विभागादेकाहोरात्रक्षयः ऋतुः, रवेर्दक्षिणत उत्तरतो वा गमनमयनम्, बृहस्पतेरेकाराश्य तिक्रमस्संवत्सर इति। तेन चोक्तानुक्तक्रियया कालोऽवच्छिद्यते। यथा दिवा दिवसः, दिवसो निशा चाहोरात्रः, पञ्चदशाहोरात्रः पक्षः, पक्षद्वयं मासः, मासद्वयमृतुः, ऋतुत्रयमयनं, अयनद्वयं संवत्सरः, पञ्च संवत्सरा युगम्, युगानि द्वादश कल्पः, कल्पशतानि द्वादश महाकल्पः, महाकल्पषष्टिश्‍चतुर्युगम्, चतुर्युगानि द्विसप्ततिर्मन्वन्तरम्, मन्वन्तराणि चतुर्दश ब्रह्मदिवसः, तावत्येव तन्निशा प्रलयः, तन्मानेन वर्षशतान्ते ब्रह्मणोऽपवर्गो महाप्रलयः। यथा वा सूर्यस्य भगणभोगो वर्षं, राशिभोगो मासः, मासत्रिंशांशो दिनं, दिनषष्ट्यंशः कला, कलाषष्ट्यंशो विकला, विकलाषष्ट्यंशः तत्परेति। तत्र ‘यथा रजताद्यधिकरणगौरवमवधृतपरिमाणद्रव्यान्तरसंबन्धसमुत्कीर्णरेखस्तुलादण्डः रेखासूत्रावस्थानः पलशः कर्षशो भागशो परिच्छिनत्ति, तथा कलादिव्यवस्थानवशेन भागशः कालान्तरं परिच्छिनत्ति। परिमाणं परिमिमीतेक्रियानियमैः कालावच्छेदनियमः, यथा परमाणोः स्वावष्टब्धप्रदेश क्रमलक्षणः कालः क्षणः, पक्ष्मसंपातो निमेषः, इयत्क्षणा इयन्निमेषा वा नाडिका, द्विनाडिको मुहूर्तः, पादोनचतुर्मुहूर्तो यामः, यामाष्टकमहोरात्र इति। बुद्ध्यवच्छेदेन वा कालपरिच्छेदः, यथा अर्कस्य उदयाविदूरता प्रत्यूषः, (विराट्)पुरुषभ्रूप्रदेशगता दीर्घता पूर्वाह्‍णः, तपमा मध्याह्नः, परावृत्य दर्शनमपराह्‍णः, अस्तमयासन्नताभिसन्धिः सन्ध्येति। रात्रेः प्रारम्भो निशामुखम्, निशामुखाद् रात्रेस्तुर्यांशः प्रदोषः, अर्धरात्रमुभयतो निशाष्टमो निशीथः, निशीथात् तावन्मात्रमपररात्रः, परतो निशावशेषः प्रभावमिति क्रियाविशेषैः कालविशेषावगमः। तथा हि—

शयाने शोरते रात्रौ दिवा जाग्रति जाग्रति।
जगत्प्रदीपे पद्मानि कलत्राणीव भर्तरि॥ ३५॥

रतान्तकालकान्तस्त्रीदृग्विलासैकसाक्षिणी।
निशा नीलोत्पलानीके निमीलति निमीलति॥ ३६॥

चञ्च्वग्रचुम्बिताऽऽताम्रचूताङ्‌कुरकदम्बकैः।
कथ्यते कोकिलैरेव मधुर्मधुरकूजितैः॥ ३७॥

दिवाकरकरालातपतानिर्दग्धवीरुधः।
मार्गास्समल्लिकामोदा भाविग्रीष्मस्य शंसिनः॥ ३८॥

शिखण्डिमण्डलारब्धचण्डताण्डवडम्बरैः।
प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरै॥ ३९॥

मौक्तिकाकारविस्तारि तारानिकरचित्रितम्।
शरत् पिशुनतां याति यामुनाम्भोनिभं नभः॥ ४०॥

आयामियामिनीभोगसफलाभोगविभ्रमाः।
हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तनाः॥ ४१॥

आस्कन्दन—दलत्कुन्दकलिकोत्करदन्तुराः।
वदन्ति शिशिरं वातास्तुषारकणकर्कशाः॥ ४२॥

बाल्यकौमारयौवनादयो मौग्ध्यमाध्यप्रागल्भ्यादयश्‍च क्रियाविशेषव्यङ्ग्याः कालविशेषा एव। वयो हि देहिनां वत्सरादिभिः कालभेदः; वयोनिमित्ताश्‍च तेषां मौग्ध्यादय इति। उच्यते—

उत्तालालकभञ्जनानि कबरीभारेषु शिक्षारसो दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः।
तिर्यग्लोचनवल्‍गितानि वचसां छेकोक्तिसङ्क्रान्तयः स्त्रीणां म्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः॥ ४३॥

(बारा. ३.२३)

व्यसनोत्सवनित्यनैमित्तिकक्षणप्रकीर्णचन्द्रोदयचन्द्रास्तमयप्रभृतयश्‍च कालव्यपदेश— भाजो गोदोहादिवद् वेदितव्याः। अपि च

पराव/पर—चिरक्षिप्र—क्रमोत्क्रम—विभागवान्।
कालक्रियाविशेषाभिव्यङ्ग्ययरीतिः प्रतीयताम्॥ ४४॥

तथा हि— उत्पत्त्यादिक्रियाणां प्रथमत्वे परः; यथेयं बाला ज्येष्‍ठा च; वैपरीत्ये पुनरपरः, यथैषा प्रगल्भा कनिष्‍ठा च। साधनानां मन्दसंपातित्वे चिरः, यथा वत्स्यति कालः पक्ष्यते तालः, भोक्ष्यते तालफलम्; तदन्यथात्वे क्षिप्रः, यथोद्भिन्नश्‍च वंशकरीरः शिरागतश्‍च प्रमाणम्। क्रियाणामपौर्वापर्ये युगपत्, यथा कपित्थयोः प्रतिभेदः, मेषयोरभिघातः। पौर्वापर्ये त्वयुगपत्, यथा दिवसाग्रतो निशा, निशाग्रतो दिवस इति। सेयं वस्तुनश्शक्तिः पाकप्रभवा स्वाभाविकी क्रियैव; क्रियापरिच्छेदहेतुः कालः; क्रियाश्‍च भूता भविष्यन्ति, वर्तमानाः अव्यक्ताश्‍च। तत्र व्यतिपतितसाधनभूता यथाऽपाक्षीदिति; अनागताऽसन्निहित— साधना च भविष्यति यथा पक्ष्यतीति; आवाप्‍ता अप्रच्युतस्वरूपा वर्तमाना यथा पचतीति; अनिर्धारितविशेषा अव्यक्ता यथा पचेदयमिति। तन्निबन्धनश्च लोके अद्य, श्वः, परश्वः, परेद्युः, अन्येद्युः, उभयेद्युः, इदानीम्, एतर्हि, ऐषमः, परूत्, परारि, शश्वत्, स्वः, भूः, सद्युः, पुरा, ह, स्म, यावत्, तदा, यदा, अन्यदा, एकदा, सदेति व्यवहारः लुङादीनां भूतादिषु स्मरणमिति।

अन्ये पुनः क्रियाव्यतिरिक्तमनुदयास्तमयमभिन्नमनवच्छिन्नदेशं च द्रव्यं पृथग्विधानेकशक्तिशतसहस्त्रपाकायतनं जगत्प्रवृत्तिनियमकारणं क्रियापरिच्छेदहेतुमदृष्‍टाद्यपेक्षं कालमाचक्षते। स च क्रियापरिच्छेद्यः किलेति केचित्; आहुश्‍च “नित्यो व्यापी संप्रतिभूतभविष्यत्क्रियासमावेशात् आकाशकल्प एको द्रव्यात्मा भिद्यते कालः॥” तच्‍चासमीचीनमेवेति ब्रूमः। क्रिया हि साध्यत्वात् साधनमेवापेक्षते। न च क्रियाविशिष्‍टस्यापि द्रव्यात्मनः कालकारकेण संबन्धो घटते, द्वयोरपि सिद्धत्वात्। तस्माद् द्रव्यरूपे क्रियारूपे वा कालः क्रियामेव विशेषयति। सा च तद्विशिष्‍टा कारकविशेषमुपतिष्ठते। यदाह—

गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते।
प्रधानस्योपकारित्वे तथा भूयसि वर्तते॥ ४५॥

कलाभिः पृथगर्थाभिः प्रविभक्तं स्वभावतः।
केचिद्‍बुद्ध्यनुसंधानलक्षणं तं प्रचक्षते॥ ४६॥

(वाप.३.९.५७) सत्तालक्षणमन्ये तु क्षणरूपं तथाऽपरे।
देवतावस्तुशक्‍त्यात्मस्वरूपमपरे विदुः॥ ४७॥

तमस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते।
प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते॥ ४८॥

प्रतिबद्धाश्‍च यास्तेन चित्रा विश्वस्य शक्‍तयः।
तास्स एवानुजानाति यथा तन्त्रशकुन्तिकाः॥ ४९॥

(वाप.३.९.१५) प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर्या तस्य शाश्वती।
तया विभज्यमानोऽसौ लभते क्रमरूपताम्॥ ५०॥

(वाप. ३.९.७०) तृणराजस्य या वृद्धिस्तवचिसारस्य व दधत्।
चिरक्षिप्रादिभेदे च कालतत्त्वं विकल्पते॥ ५१॥

व्यतिक्रमेऽपि मात्राणां न तस्यास्ति व्यतिक्रमः।
न गन्तृगतिभेदेन मार्गभेदोऽस्ति कश्‍चन॥ ५२॥

(वाप.३.९.७४) दूरान्तिकव्यवस्थानमध्वादि करणं यथा।
चिरक्षिप्रव्यवस्थानं कालोऽधिकरणं तथा॥ ५३॥

(वाप.३.९.४७) क्रियोपाधिस्स या भूतभविष्यद्‍वर्तमानताः।
परावरविभागार्थे स शक्तीः प्रतिपद्यते॥ ५४॥

(वाप.३.९.३७) भूतानां चैव यद् रूपं रूपं यद् भाविनामपि।
सुदुर्दर्श इवादर्शे काल एवोपलभ्यते॥ ५५॥

क्रियाभेदाद् यथैकस्मिंस्तक्षाद्याख्या प्रवर्तते।
क्रियाभेदात् तथैकस्मिन् नृत्वाख्या चोपजायते॥ ५६॥

(वाप. ३.९.३२) विशिष्‍टमवधिं तं तमुपादायावकल्पते।
कालः कालविदामेकः कलादिप्रविभक्तये॥ ५७॥

(वाप. ३.९.६८) तृणपर्णलतादीनि यथा स्त्रोतोऽवकर्षति।
प्रवर्तयति कालोऽपि मात्रा मात्रावतां तथा॥ ५८॥

(वाप. ३.९.४१) प्रारम्भावेशनिष्‍ठासु स्थितिविप्रतिपत्तिषु।
साम्योत्कर्षापकर्षेषु निमित्तं काल इष्यते॥ ५९॥

संसर्गिणां तु ये भेदा विशेषास्तस्य ते मताः।
संभिन्नस्तैर्व्यवस्थानां कालो भेदाय कल्पते॥ ६०॥

(वाप. ३.९.८) प्रतिव्यवस्थं कालस्य व्यापारोऽत्र व्यवस्थितः।
कालो वा विश्वरूपात्मा व्यापार इति कथ्यते॥ ६१॥

(वाप. ३.९.१२) क्रियावच्छेदहेतुं वा क्रियावच्छेद्यमेव वा।
कालत्मानमनाश्रित्य व्यवहर्तुं न शक्यते॥ ६२॥

तस्याव्यक्तस्वरूपस्य व्यवहारे क्रियाकृताः।
भूतादयो महाभेदा यान् लोको नातिवर्तते॥ ६३॥

(वाप.३.९) के पुनस्ते? यान् भूत उपाधौ (भूताद्युपाधौ) लुङादिविषयानुदाहरिष्यामः॥

तदेतद् द्रव्यात्मनः क्रियात्मनो वा क्रियापरिच्छेदिनः कालस्य स्वरूपमभिहितम्।

अथापरमपरिमेयात्मनो देवतादिरूपस्य स्वशक्तिनिमित्तविश्वप्रवृत्तिपरिच्छेद्यस्य तस्य परिच्छेदिनो वा क्रियाहेतुशक्‍त्यायतनभूतं द्रव्यरूपपरिणतं विवृत्तं वा, यत् समस्तविवृत्त— संग्रहानुग्रहादिनित्यनैमित्तिकादिरूपं स्वरूपमस्तिः तत् पुरस्तात् प्रतिपादितं, अग्रतश्‍च विशेषतः प्रतिपादयिष्यत इति नेह प्रतन्यते, संबन्धावच्छेदार्थं तु लेशतोऽ— भिधीयत इति। तत्प्रभेदाद् द्रव्यरूपोऽपि कालश्‍चतुर्धा— नित्यो, नैमित्तिकः, स्वाभाविको, वैपरामार्शिक इति। तेषु —

१. नित्यः शाश्वतिको, वैकल्पिकः नैयोगिकश्‍च त्रिधा।

२. नैमित्तिकोऽपि औद्योगिकः, औपभोगिकः प्रायोगिकश्‍चेति त्रिविधः। एवं

३. स्वाभाविकोऽपि आगन्तुकः, नैसर्गिकः, सांसर्गिक इति त्रिधा।

४. वैपरामार्शिकोऽपि सङ्कीर्णः, प्रकीर्णो, विप्रकीर्ण इति त्रिधैव।

(१. नित्यः)

(शाश्वतिकः) तेषु क्षणनिमेषनाडिकामुहूर्तप्रहराहोरात्रस्वरूपश्शाश्वतिकः।

अयं हि शश्वत्प्रवर्तमानो नावधिविशेषमपेक्षते। यथा—

क्षणे निमेषे नाङ्या वा मुहूर्ते प्रहरेऽह्नि वा।
गते त्वमेष्यसीत्युक्ते रूरोध पथिकं प्रिया॥ ६४॥

(वैकल्पिकः) दिनरात्रिपक्षमासर्त्वयनरूपो वैकल्पिकः।

अयं हि सुर्योदयादिविशिष्‍टमवधिमपेक्षमाणो विकल्पाय प्रभवति। यथा—

दिनानि रात्रयः पक्षमासावृतुरथायनम्।
जरा वै यद्यदङ्गानां तत् तत्प्रेम्णो रसायनम्॥ ६५॥

(नैयोगिकः) संवत्सरयुगकल्पमन्वन्तरप्रलयमहाप्रलयरूपो नैयोगिकः।

अयं हि बृहस्पतिनारायणपुरमथनब्रह्मणां राश्यादिप्रवृत्तिशेषविशिष्‍टमेवावधिमपेक्षमाणः प्राणिनो विशिष्‍टासु प्रवृत्तिषु नियुङ्क्ते। यथा—

संवत्सरैर्युगैः कल्पैर्मनुभिः प्रलयैः क्षयैः।
हीयते हि जगत् सर्वमेकः कामो न हीयते॥ ६६॥

तेऽमी शाश्वतिकवैकल्पिकनैयोगिकास्रयोऽपि कालभेदा नित्या उच्यन्ते, नित्यरूपेणैवानिवारितप्रवृत्तित्वात्।

(२. नैमित्तिकः)

(औद्योगिकः) प्रातःप्रत्यूषप्राह‌णमध्याह्नसन्ध्यारूप औद्योगिकः।

अयं ह्यपेक्षिताहर्भागपौर्वापर्यावधिः प्राणिनां प्रबोधोत्थानस्‍नानभोजनप्रसाधन— विहारादेरूद्योगस्य निमित्तं भवति। यथा—

प्रातःप्रत्यूषयोस्स्‍नाति भुङ्क्ते सन्ध्यापराहणयोः।
प्राहणमध्याह्नयोर्यूनां शेते मनसि मन्मथः॥ ६७॥

अयं ह्यपेक्षितरात्रिविभागापौर्वापर्यावधिः कामिनां दूतीसंप्रेषणप्रेक्षानिद्रासुख— मधुपानाभिसरणादेरूपभोगस्य निमित्तं भवति। यथा—

निशामुखे प्रदोषे च निशीथापररारत्रयोः।
इन्दोः प्रकशे नाशे व सुप्‍तः कामो विबुध्यते॥ ६८॥

(प्रायोगिकः) शरद्धेमन्तशिशिरवसन्तग्रीष्मवर्षारूपः प्रायोगिकः।

अयं ह्यपेक्षितसंवत्सरविषु— पौर्वापर्यावधिं प्राणिनां कामकृतचित्तवैकृतानां प्रयोगनिमित्तं भवति। यथा—

शरद्धेमन्तयोरन्यदन्यद् वर्षावसन्तयोः।
हिमर्तुग्रीष्मयोरन्यत् कामावस्था प्रवर्तते॥ ६९॥

तेऽमी त्रयोऽप्यौद्योगिकौपयोगिकप्रायोगिकाः कालभेदा नैमित्तिका उच्यन्ते। नित्यत्वेऽप्येषामुद्योगादेर्निमित्तत्वात्।

(३. स्वाभाविकः)

(आगन्तुकः) मदप्रमदाभ्युदयोत्सवव्यसनपरिहासाभिरूप आगन्तुकः।

स हि विशिष्‍टक्रियोपनिपतादिकमवधिमपेक्षमाणः प्राणिनां मदप्रमदादिरूपेणैवागच्छति।

यथा—

मदप्रमदहर्षेषु व्यसनेषूत्सवेषु च।
परिहासेषु च प्रायः कामस्संमानमर्हति॥ ७०॥

(नैसर्गिकः) बाल्यकौमारयौवनमौग्ध्यमाध्यस्थ्यप्रागल्भ्यादिरूपो नैसर्गिकः।

अयं हि वयोविभागादिकं विशिष्‍टमेवावधिमपेक्षमाणः प्राणिनां निसर्गत एव भवति।

यथा—

मौग्ध्यप्रागल्भ्यमाध्यस्थ्यबाल्यकौमारयौवनैः।
आतिष्‍ठति पदैष्षड्‌भिः स्‍त्रीजातिं कामषट्पदः॥ ७१॥

(सांसर्गिकः) परापरयौगपद्यचिरक्षिप्ररूपस्सांसर्गिकः।

अयं हि प्रवृत्तिसाधनानां पूर्वापरत्वे सहैकत्वे मन्दशीघ्रसमपातित्वे च क्रियास्वपेक्षमाणो मिथः संसर्गाय प्रभवति। यथा—

क्रमेण युगपत् पूर्वमग्रतो द्राक् चिरेण वा।
समासजन्त्यः चेतांसि न ज्ञायन्ते स्मरार्तयः॥ ७२॥

तेऽमी आगन्तुकनैसर्गिकसांसर्गिकास्‍त्रयोऽपि कालभेदाः स्वाभाविका उच्यन्ते, स्वभावत एव प्रवर्तमानत्वात्।

(४. वैपरामर्शिकः)

(सङ्कीर्णः) देश्यक्रीडाकेलिकेलिद्यूतव्रतगोष्ठीप्रेक्षादिरूपस्सङ्कीर्णः। स हि विशिष्टं तं तमवधिमपेक्षमाणस्संभूय प्रवर्तितस्सङ्कीर्ण एव भवति। यथा—

व्रतेषु गोष्ठीप्रेक्षासु केलिद्यूतेषु केलिषु।
देश्यक्रीडासु चानङ्गः पुनरङ्गेन युज्यते॥ ७३॥

(प्रकीर्णः) विविक्तदीर्घिकोद्यानसौधक्रीडादिदर्शनादिरूपः प्रकीर्णः। स ह्येकस्य वा परिमितपरिवारस्य वा विशिष्टावधिक एव प्रकीर्णकन्यायेन यदाकदाचिदुत्पद्यते।

यथा—

विविक्त—दीर्घिकोद्यान—सौध—क्रीडादि—दर्शने।
लतावेश्मोपवेशे च कामः कामेन युज्यते॥ ७४॥

(विप्रकीर्णः) अष्टमीचन्द्रकेन्द्रीत्सवयक्षरात्रिकुन्दचतुर्थीसुवसन्तकमदनत्रयोदश्यादिरूपो विप्रकीर्णकः। स हि विशिष्टमष्टम्यादिकालभेदावधिमपेक्षमाणः कामिभिर्निर्वर्त्यते। समस्तेष्वपि देशेषु विप्रकीर्ण इव दृश्यते इति। यथा—

अष्टमीचन्द्रके कुन्दचतुर्थ्यों सुवसन्तके।
स्मरस्स्मरार्चा—शक्रार्चा—यक्षरात्रिषु वर्धते॥ ७५॥

स एव कालः कार्त्स्न्येन द्विरूप इव दर्शितः।
क्रियापदैकवाच्यो यः क्रियायास्साधनं च यः॥ ७६॥

(३. कारकम् /द्रव्यम् (साधनपदार्थः))

किं पुनस्साधनम्? स्वपराश्रितक्रियाभिनिर्वृत्तिहेतुश्शक्तिमद्‍द्रव्यं, यत् कारकम् इत्याचक्षते। कारकशब्दश्‍चायमव्युत्पन्नः क्रियानिमित्तवचनो लोकतस्सिद्धः करोतीति वा कारकशब्देन शक्तिमद् द्रव्यमुच्यते। तथा हि—

निष्पन्नमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके।
व्यापारभेदापेक्षायां करणादित्वसंभवः॥ ७७॥

पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वमुच्यते।
अयमस्मादियं त्वस्मादिति भेदविवक्षया॥ ७८॥

शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मिणः।
सर्वथा सर्वदा भावात् क्वचित् किञ्चिद् विवक्ष्यते॥ ७९॥

सर्वत्र सहजा शक्तिर्यावद्‍द्रव्यमवस्थिता।
क्रियाकाले त्वभिव्यक्तिराश्रयः परकारिणी॥ ८०॥

स्वाङ्गसंयोगिनः पाशा दैत्यानां वारुणा यथा।
व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस्तथा॥ ८१॥

(वाप. ३.७.३०) तैक्ष्ण्यगौरवकाठिन्यसंस्थानैः स्वैरसिर्यदा।
भेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा॥ ८२॥

(वाप. ३.७.३१) स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे।
क्रियाणामभिनिष्पत्तेर्निमित्तं शक्तिरिष्यते॥ ८३॥

तत्त्वे वा व्यतिरेके वा व्यतिरिक्‍तैव सोच्यते।
शब्दप्रमाणको लोकस्स शास्त्रेणानुगम्यते॥ ८४॥

(वाप. ३.७.३८) तत्र शक्तिमतो द्रव्यस्य कारकाख्यायामवान्तरव्यापारनिबन्धनाः षडुपाख्या भवन्ति, १. कर्ता, २. कर्म, ३. करणम्, ४. संप्रदानम्, ५. अपादानम्, ६. अधिकरणम् चेति। तेषु—

स्वतन्त्रः कर्ता।

किं पुनस्तस्य स्वातन्त्र्यम्, यत् करणादीनि प्रयुङ्क्ते, न तैः प्रयुज्यते, तानि न्यक्करोति, न तैर्न्यक्क्रियते, न तैर्निर्वर्त्यते, तानि निर्वर्तयति, तानि प्रतिनिधत्ते, न तैः प्रतिनिधीयते; तेभ्यस्सः प्रथममात्मानं लभते, न तानि। तस्मात् स तैर्विनाऽपि दृश्यते, न तानि तेनेति। तदाह—

प्रागन्यतश्शक्तिलाभान्न्यग्भावापादनादपि।
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात्॥ ८५॥

(वाप. ३.७.१०१) अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात्।
आरादप्युपकारित्वे प्राधान्यं कर्त्तुरुच्यते॥ ८६॥

(वाप. ३.७.१०२) कथं तर्हि कर्तृशक्त्या न्यक्कृतेषु करणादिषु कारकत्वम्, स्वव्यापारे प्रधानव्यापारे च स्वातन्त्र्यात्। तदुक्तम्—

गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः।
करणत्वादिभर्जाताः क्रियाभेदानुवादिभिः॥ ८७॥१

१. वाक्यपदीये ३.७.२०—३.७.२१ इति कारिकयोः पूर्वार्द्धे। व्यस्ता(न्यक्‍ता)यामपि संपूर्णैस्स्वव्यापारैस्समन्विताः।
स्वातन्त्र्यमुत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम्॥ ८८॥१

यथा राज्ञो नियुक्तेषु योद्ध‍ृत्वं योद्‍धृषु स्थितम्।
तेषु वृत्तौ तु लभते राजा जयपराजयौ॥ ८९॥

(वाप. ३.७.२२) तथा कर्त्रा नियुक्तेषु सर्वेष्वेकार्थकारिषु।
कर्तृत्वं करणादित्वैरुत्तरं न विरुध्यते॥ ९०॥

(वाप. ३.७.२३) कर्त्रादीनां च षण्णामपि प्रत्येकं त्रिप्रकारत्वादष्टादशप्रभेदा भवन्ति। तत्र —

कर्ता स्वतन्त्रः, हेतुः, कर्मकर्ता च।

कर्म निर्वर्त्यं, विकार्यं प्राप्यं च।

करणं बाह्यमाभ्यन्तरं बाह्याभ्यन्तरं च।

संप्रदानं ददातिकर्माप्यं, कर्ममात्राप्यं क्रियाप्यं च।

अपादानं निर्दिष्टविषयमनिर्दिष्टविषयमुपात्तविषयमपेक्षितक्रियं च।

अधिकरणं वैषयिकमौपश्लेषिकं नैमिक्तिकं चेति।

(१. कर्ता)

(स्वतन्त्रः —६) तच्च(त्र)कर्तृभेदेषु स्वतन्त्रः समर्थोऽसमर्थस्समर्थासमर्थः, संबन्धोऽसंबन्ध— स्संबन्धासंबन्धश्‍च। तेषु—

समर्थो यथा— व्रजति, पचति, अस्ति, श्वेतते।

असमर्थो यथा— जायते, विरमति, नश्यति, विकरोति।

समर्थासमर्थो यथा— चैत्रस्य रुजति, चैत्रस्यामयति, चोरं ज्वरयति, चोरं संतापयति।

संबन्धो यथा प्रियं दृष्ट्वा सुखं भवति, रिपुं दृष्ट्वा दुःखमुत्पद्यते, रम्यं श्रुत्वा दिदृक्षा जायते, रहः प्राप्य रतिर्निर्वर्तते।

असंबन्धो यथा— मेरौ दोग्धरि धरित्रीमद्रयो दुदुहुः, पञ्चभिर्हलैः क्षेत्रं ग्रामणीः कर्षति, शैलैर्वाल्मीकिरम्मोधिं बन्धयति, उज्जनिन्याः प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति।

संबन्धासंबन्धो यथा— भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यात्। १. वाक्यपदीय ३.७.२०—३.७.२१ इति कारिकयोः उत्तरार्द्धे। (हेतुः —६) कर्मप्रयोजकः, कर्तृप्रयोजकः, कर्मकर्तृप्रयोजकः, हेतुप्रयोजकः, अहेतुप्रयोजकः हेत्वहेतुप्रयोजकश्‍च। तेषु—

कर्मप्रयोजको यथा— गां दोग्धि पयः, पौरवं गां याचते, गर्गाञ्छतं दण्डयति, काशान् कटं करोति।

कर्तृप्रयोजको यथा— यज्ञदत्तः पाचयति, माठरः पाठयति, भिक्षा वासयति, कारीषोऽग्निः अध्यापयति।

कर्मकर्तृप्रयोजको यथा— आरोहयति हस्तितं हस्तिपकः, आरोहयते हस्तिनं हस्तिपकः, आरोहयते हस्ती, निषादयति क्रमेलकमौष्ट्रिकः, श्रपयति यवागूं यज्ञदत्तः, साधयति ओदनं सूपकार इति। कथं पुनः श्रायति—सियति—कर्त्रोर्यवाग्वोदनयोः कर्मकर्तृत्वं घटते?

श्रातिसिध्यती अकर्मकौ कर्मकर्तृविषयस्य पचेरर्थे वर्तेते। एतौ पुनः प्राकृतं पच्यर्थमाहतुरिति।

हेतुप्रयोजको यथा—अवीवदत् प्रवीणो वीणां परिवादकेन, अपीपठत् कठो माणवकं माठरेण, अजिघ्रपत् प्रियः कुसुमं कान्तया, अदूदुहद् गां वल्लवो गोपालकेन। कथं पुनः दुहिकर्तुः कर्तृप्रयोजकस्य हेतुत्वम्?

दुहेरन्तर्भूतणिजर्थत्वात्। वक्ष्यति हि—

अन्तर्भूतणिजर्थानां दुहादीनां णिजन्तवत्।
सिद्धं पूर्वेण कर्मत्वम् (णिजन्तं नियमस्तथा)॥ ९१॥

इति (वाप. ३.७.७३)। अहेतुप्रयोजको यथा— संवर्मयति, अतिहस्तयति, अभिषेणयति, उपश्लोकयति।

हेत्वहेतुप्रयोजको यथा— पुत्र उपाध्यायमध्यापयति, कन्या नदौ न (?) वर्तयति, याज्ययाजकौ याजयति, कन्यावरौ विवाहयति।

(कर्मकर्ता —६) विकर्मकर्ता, प्रयोज्यकर्ता, कर्मप्रयोज्यकर्ता, प्रकृतिकर्ता, विकारकर्ता प्रकृतिविकारकर्ता च। तेषु—

विकर्मकर्ता यथा— अवकिरते हस्ती, ग्रथते माला, प्रस्नुते गौः, चिकीर्षते कटः।

प्रयोज्यकर्ता यथा— पाचयति देवदत्तेन, पाठयति विष्णुमित्रेण, भारयति भारं वाहकेन, कारयति कटं वरुटेन।

कर्मप्रयोज्यकर्ता यथा— आरोहयते निषादिनं करेणुः, लावयते पामरं केदारः, दर्शयते राजा भृत्यैः, अभिवादयते गुरुर्देवदत्तेन।

प्रकृतिकर्ता यथा—काष्ठानि भस्म भवन्ति, महद्भूतश्‍चन्द्रमाः, त्वद् भवन्ति ज्ञातयः, मद् भवन्ति दायादाः।

विकारकर्ता यथा—मूत्राय संपद्यते यवागूः, अभ्यूषाय कल्पते यवानी, घटाय कपालौ भवतः; सुवर्णपिण्डं कुण्डले भवतः।

प्रकृतिविकारकर्ता यथा—सङ्घीभवन्ति ब्राह्मणाः, वर्गीभवन्ति गावः वत्सो वृषस्संपद्यते, बाला प्रगल्भा भवति।

स एषोऽष्टादशप्रकारोऽपि अभिहितानभिहितप्रयुज्यमानाऽप्रयुज्यमानप्रसिद्धप्रकृता— पेक्षितौपचारिकप्रकल्पितविकल्पितानुस्यूतसामान्यादिभेदादनेकधा कर्तृभेदस्संभवति। तत्र—

अभिहितो यथा— स आस्ते, भवान् करोति।

अनभिहितो यथा— भवता कृतं, तेन सुप्यते।

प्रयुज्यमानो यथा— त्वं पचसि, अहं पचामि।

अप्रयुज्यमानो यथा— पचसि, पचामि।

प्रसिद्धो यथा— वर्षति, हेषते।

प्रकृतो यथा— भ्रेमुः, ववल्गुः।

अपेक्षितो यथा— इत्याचक्षते, यमयुङ्क्त।

उपचरितो यथा— धुनर्विध्यति, मञ्चाः क्रोशन्ति।

प्रकल्पितो यथा— आत्मनोऽपि नात्मानो जायन्ते, आत्मैवात्मानं जानाति।

विकल्पितो यथा— अहमन्यो वा गच्छतु, अन्योऽहं वा गच्छामि।

अनुस्यूतो यथा— स च त्वं च पचथः, त्वं चाहं च पचावः।

सामान्यो यथा— पचति पठति चेति। एते च भेदाः कर्मादिष्वपि यथासंभवमूहनीया इति विभक्तः कर्ता॥

(२. कर्म)

क्रियाप्यं कर्म; यदाह ‘कर्तुरीप्सिततमं कर्म’ (१.४.४९) इति।

तत्तु त्रिविधं. निर्वर्त्यं, विकार्यं प्राप्यमिति।

तत्र यदविद्यमानमुत्पाद्यते विद्यमानं वा जन्मादिना प्रकाश्यते तन्निर्वर्त्यं, यदभिनिर्वृत्तमेव प्रकृत्युच्छेदेन गुणान्तराधानेन वा विकारमापद्यते तद् विकार्यं, यस्य क्रियाकृतानां विशेषाणां सर्वथानुपलब्धिस्तत् प्राप्यम्। तदुक्तम्—

यदसज्जायते सद्‌वा जन्मना यत् प्रकाशते।
तन्निर्वर्त्य विकार्यं तु कर्म द्वेधा व्यवस्थितम्॥ ९२॥

(वाप. ३.७.४९) प्रकृत्युच्छेदसंभूतं किञ्चित्‌काष्ठादिभस्मवत्।
किञ्चिद् गुणान्तरापत्त्या सुवर्णादिविकारवत्॥ ९३॥

(वाप. ३.७.५०) क्रियागत/कृतविशेषाणां सिद्धिर्यत्र न गम्यते।
दर्शनादनुमानाद्‌वा तत् प्राप्यमिति कथ्यते॥ ९४॥

(वाप. ३.७.५१) तत्र निर्वर्त्ये विकार्यः प्राप्यधर्मस्स्वधर्मश्‍च विकार्ये प्राप्यधर्मस्स्वधर्मश्‍च, प्राप्ये तु स्वधर्म एव। कः पुनरसौ— (वाप. ३.७.५३)

आभासोप/सोऽवगमो व्यक्तिस्सोढत्वमिति कर्मणः।
विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः॥ ९५॥

निर्वर्त्यविकार्ययोस्तु निर्वृत्तिविकार्यावेव। यथोच्यते—

निर्वर्त्यादिषु तत् पूर्वमनुभूय स्वतन्त्रताम्।
कर्त्रन्तराणां व्यापारे कर्म संपद्यते पुनः॥ ९६॥ (वाप. ३.७.५४)

(निर्वर्त्यम्—६)

तत्र निर्वर्त्यम् ‘उत्पाद्यं’ प्रकाश्‍यमुपसर्जनं विशेषणं व्यवहितमप्राप्यं’ च। तेषु— यदसदुत्पाद्यते तदुत्पाद्यम्, यथा संयोगं विधत्ते, सुखमुत्पादयति, विभागं कुर्वते, दुःखं जनयति। विद्यमानमेव यदावरणापायादाविर्भवति तत् प्रकाश्‍यम्, यथा शब्दं जनयति, पुत्रं सूयते, तैलं कुरुते, पयो दोग्धि। अप्रधानभूतमुपसर्जनम्, यथा कटं कर्तुमारभते, ग्रामो वासयितुमिष्यते, पक्‍त्वोदनो भुज्यते, पक्तुमोदनश्‍चिन्त्यते। स्वानुरक्तप्रत्ययजनकं विशेषणम्, यथा भीष्ममुदारं कटं करोति, महान्तमव्यक्तं शब्दमुच्चारयति, दीर्घायुषं गुणिनमात्मजं प्रसूते, चित्रमच्छपटं वयति। क्रियान्तरेण व्यवधानवद् व्यवहितम्, यथा मासमास्ते, गोदोहं पचति, क्रोशमधीते, कुरून् (गच्छन्) स्वपिति।

कालाध्वभावदेशानामन्तर्भूत— क्रियान्तरैः।
सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते॥ ९७॥

(वाप. ३.७.६७) सकर्मिकापि क्रिया द्रव्यादिकर्मण्येव निविशते, न कालादिकर्मणि, यथा मासमोदनं पचति, क्रोशमनुवाकमधीते।

आधारत्वमिव प्राप्तास्ते पुनर्द्रव्यकर्मसु।
कालादयो भिन्नकक्ष्या/कक्ष्यं यान्ति कर्मत्वमुत्तरम्॥ ९८॥

(वाप. ३.७.६८) क्रियाविशेषणम् अप्राप्यम्, यथा सुखमभिधत्ते, दुःखं निर्वर्तयति, मन्दं गच्छति, शीघ्रमायाति।

कथं पुनरुपसर्जनादीनां निर्वर्त्यमानता ? यथा निर्वर्त्यमानस्य ‘यथा ह्यसौ कटं निर्वर्तयति, एवं तद्‍गतभीष्मोदारादिकं तद्धर्ममपि इति। एवं शब्देऽपि। पक्वौदनो भुज्यत इति। अत्र तु पाकेनौदनो निर्वर्त्यते; केवलं सास्य शक्तिः; प्रधानभुजिक्रियाविषयकर्म— शक्तिसन्निधौ पक्‍त्युपसर्जनीभूताख्यातेन प्रधानशक्‍त्यभिधानेऽभिहितवत् प्रकाशते। पक्तुमोदनश्‍चिन्त्यत इत्यत्र पच्यर्थत्वात् चिन्तायाः यद्यपि पाकस्य वास्तवं प्रधानत्वं तथाऽप्याख्यातप्रत्ययेन प्राधान्यतश्‍चिन्ताभिधानात् पचिक्रियोपसर्जनं भवति। अतस्तद्विषया कर्मशक्तिः प्रधानशक्‍त्यभिधानेऽभिहितवद् भवति। एतेन कटः कर्तुमारभ्यते, ग्रामो गन्तुमिष्यते इत्यपि व्याख्यातम्।

ननु गमेर्ग्रामः, इषेरुभे कर्मणी, तत् कस्यात्रोपसर्जनता ? नैवम्; इषेरुभे कर्मणी इति यदुच्यते तत्सामर्थ्यप्रदर्शनपरमवगन्तव्यम्। इष्यते ग्रामः किं कर्तुम्? गन्तुम्, ग्रामो ग्राममिति वा। न पुनरिषेः युगपदुभे कर्मणी संभवतः। एवमहितेऽपि कटादिवदेव मासादीनामासनादिभिरभिनिर्वर्त्यमानता प्रतीयते। तथा हि वक्तारो भवन्ति इह स्थितोऽयं मासं निर्वर्तयतीति। एवं पचन् गोदोहम्, अधीयानः क्रोशं, स्वपन् कुरुन् इति कालभाव गन्तव्यानामेव कुरुक्रोशादीनां कर्मत्वम्। यदाह—

कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्॥ ९९॥ (मभा. १.४.४१) इति।

अप्राप्यम्— यत्क्रियाविशेषणत्वात् क्रियावदेव निर्वर्त्यमानम्। तत्क्रियायाः कथमिति चेत्, पुरुषव्यापारसामान्याश्रयणात्। अप्राप्यत्वं पुनस्तस्य धात्वर्थाभिप्रायेण। न ह्यसौ धात्वर्थेन प्राप्यते; अपि तु पुरुषव्यापारेण। धात्वर्थस्य तु तत्र करणत्वम्। विश्वजिता यजेतेत्यादौ धात्वर्थनामधेयेभ्यो विश्वजिदादिभ्यः करणविभक्तिदर्शनादग्निष्टोमयाजी— त्यादिसिद्ध्यर्थ ‘करणे यजः’ (३.२.८५) इति च सूत्रारम्भात्। अग्निष्टोमादयो हि स्वर्गादिफलभावनायां करणम्।

(विकार्यं—६)

विकार्यम्— अविनाश्‍यं विनाश्‍यमीप्सितमनीप्सितमास्थितं कर्तृकर्म च। तत्र—

अविनाश्‍यं यथा— सुवर्णं कुण्डलीकरोति, काण्डं लुनाति, कान्तां कोपयति, प्रियं प्रसादयति।

विनाश्‍यं यथा— कुसूलं भिनत्ति, काष्ठं दहति, धानाः पिबति, उदपेषं पिनष्टि।

ईप्सितं यथा— स्त्रियं गच्छति, पयः पिबति।

अनीप्सितं यथा— चोरान् पश्‍यति, धनं त्यजति, विषं भक्षयति, अहिं लङ्घयति। कः पुनरेषां विकारः? प्रकृतेरन्यथात्वम्; न हि चोरादयो दर्शनादिविषया भवन्ति।

आस्थितं यथा— पन्थानं गच्छति, नदीं तरति, पर्वतमारोहति, गर्तमुत्तरति। कः पुनरन्यतोऽस्य भेदः ?। उच्यते—

त्यागरूपं प्रहातव्ये प्राप्ये संदर्शनादिके/संसर्गदर्शनम्।
आस्थितं कर्म यत् तत्र द्वैरूप्यं भजते क्रिया॥ १००॥

(वाप. ३.७.१३५) कर्तृकर्म यथा— लूयते केदारस्स्वयमेव, पच्यत ओदनस्स्वयमेव, भिद्यते कुसूलस्स्वयमेव, भज्यते काष्ठः स्वयमेवेति।

(प्राप्यम्—६)

प्राप्यमपि प्राप्यं, प्रयोज्यं, अपरिहार्यमभिहितमनभिहितमकथितं च। तत्र प्राप्यं यथा— आदित्यं पश्‍यति, हिमवन्तं श्रृणोति, वेदमधीते, चर्चाः पारयति।

प्रयोज्यं यथा— माणवकं गमयति, शिष्यं बोधयति, ब्राह्मणमासादयति, पतिं शाययति। ननु च विकार्यमेतत्; तन्न, प्रयोजकव्यापारमात्रस्य विवक्षितत्वात्। विकारश्‍चैषां स्वक्रियानिबन्धन इति।

अपरिहार्यं यथा— विभागं जनयन् संयोगमुच्छिनत्ति, कटं कुर्वन् काशानाहरति, ग्रामं गच्छन् वृक्षमूलान्युपसर्पति, आमिक्षां भावयन् वाजिनमाप्नोति।

अभिहितं यथा यथा— उष्ट्रासिकाः आस्यन्ते, हतशायिकाश्शय्यन्ते, रैपोषं पुष्यति, उदपेषं पिनष्टि।

अनभिहितं यथा— ‘पश्‍य मृगो’ धावति, स्मरसि देवदत्त काश्‍मीरेषु वत्स्यामः, न मर्षयामि यत् तत्र भवान् वृषलं याजयेत्।

भावरूपं तु यत् कर्म तदिहाभिहितं विदुः। क्रियारूपं तु मन्यन्ते कर्माऽनभिहितं बुधाः॥ १०१॥

अथ अकथितम्, तद्यथा— गां दोग्धि पयः, पौरवं गां याचते, व्रजं गामवरुणद्धि, माणवकं पन्थानं पृच्छति, पौरवं गां भिक्षते, वृक्षमपचिनुते फलानि, माणवकं धर्मं ब्रूते, माणवकं धर्ममनुशास्ति, शतानीकं शतं जयति, गर्गाञ्छतं दण्डयति, उपसरमश्वं मुष्णाति, अम्बुनिधिममृतं मन्थाति, शाखां ग्रामं कर्षति, अजां ग्रामं नयति, एधान् ग्रामं हरति, भारं ग्रामं वहति, एवं नगरं हरति भारम्, समाहर्तारमयुतं गृह्‍णाति, काशान् कटं करोति।

किं पुनरिहाकथितम्?

पयःप्रभृति।

केनाकथितम्?

लकृत्यक्तखलर्थादिभिरिति। न हि पयःप्रभृतयो लादिभिः कथ्यन्ते, अपि तु गवादयः; यथा दुह्यते गौः पयः, दोग्धव्या गौः पयः, सुदुहा गौः पय इति। यत्तु तैराख्यायते तदीप्सिततमं प्रधानकर्म, प्रागेव क्रियासंबन्धात्। तदुक्तम्—

तस्माच्छुद्धस्य दुहेर्भवति गवा पूर्वमेव संबन्धः।
गोर्दुहिना पयसस्तु प्राक् तस्माल्लादयस्तस्मिन्॥ १०२॥१

एवं ग्रामा दिष्वपि आनयनादिभ्यः प्रागेव नयत्यादिसबंन्धात् लादिभिरभिधाने तद्धितोत्पत्तिरवगन्तव्या। तच्चाख्यानतः कथितमुच्यते, तद्‍िवपरीतं त्वकथितमिति॥ ‘दुहियाचिरुधिप्रच्छिभिक्षिचियाम्’ (मभा. १.४.५१) इत्यादि,

जिदण्डिमुषिमन्थानां गत्यर्थानामकीर्तिते।
नीहृञ्वहिग्रहादीनामुपसंख्यानमिष्यते॥ १०३॥

(मभा. १.४.५१) अस्यार्थः दुह्यादीनां य उपयोगः प्रपूरणादिस्तस्य यन्निमित्तं पयःप्रभृति, यच्च ब्रुविशास्योः क्रिया(क्रियया) धर्मादिकं(क)समवायेन संबध्यते तदपादानादिसंज्ञानामविधाने द्वितीया— वाच्यमप्रधानकर्माकथितम् उच्यते। जिप्रभृतीनां चाप्रधानकर्मणस्तत्रैवोपसंख्यानमिति। १. तस्माच्छुद्ध = य(त)स्माच्छब्दस्य शुद्ध राघवः अन्ये तूपयुज्यत इत्युपयोगः पयःप्रभृति, तस्य यन्निमित्तं गवादि। ब्रुविशासिगुणेन च प्रधानेन धर्मादिकर्मणा माणवकादि यत् संबध्यते तदकथितमित्याचक्षते। तत्पक्षे लादिवाच्यानां गवादीनां प्राधान्यं (न) व्याहन्येत, अकथितसंज्ञा च नार्था स्यात्। लादयश्‍च तेषामपि मते प्रधानकर्मण्येव, यथा अजा नीयते ग्राममिति। यथोक्तम्—

प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्‍च कर्मणः॥ १०४॥

(मभा. १.४.४१) इति तन्मिथो विरुद्धार्थत्वादेषामेवाविमृश्‍यवादितामापादयति। कथं समान एव योगक्षेमे गवादीनामप्राधान्यम्, अजादीनां च प्राधान्यम्, कथं वा प्रधानं गवादि लादिभिरजादिवदेवाभिधीयते? किं च—

अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत्।
सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस्तथा॥ १०५॥

(वाप. ३.७.७३) अस्मिन् पक्षे गवादीनां व्यक्तमेव प्रयोज्यत्वात् प्राक्‍सूत्रेणैव प्रधानकर्मत्वम्। तथा च गां दोग्धि पय इत्यत्र गां पयः क्षारयतीत्यर्थः। यतो दुहिः प्रपूरणार्थः, पूरणमाप्यायनं, प्रपूरणं तु विरेचनं, प्रेरणप्रस्थानादाविवार्थवैपरीत्याधानात्। यस्तु णिजन्तादीनामपि ‘गतिबुद्धि’(१.४.५२) इत्यादिना कर्मसंज्ञारम्भः, स पाचयति देवदत्तेनेत्यादौ प्रयोज्यस्य कर्तुः कर्मसंज्ञा निर्वर्तयन्नियमार्थो भविष्यतीति विभक्तं कर्म॥

(३. करणम्)

करणमुच्यते; तत्र क्रियां प्रत्युपात्तव्यापारेषु कर्मादिषु यद्‍व्यापारानन्तरं क्रियासिद्धिविवक्षा तत्कारकं साधकतमं करणमिति। यदाह—

क्रियायाः परिनिष्पत्तिः यद्‍व्यापारादनन्तरम्।
यदा विवक्ष्यते तस्य करणत्वं तदा स्मृतम्॥ १०६॥

(वाप. ३.७.९०) तदपि त्रेधा बाह्यमाभ्यन्तरं बाह्याभ्यन्तरं च। तेषु—

(बाह्यम्—६)

बाह्यं कर्तृरूपं, कर्त्राश्रितं, कर्मरूपं, कर्माश्रितं, क्रियाश्रितमनाश्रितं चेति। तत्र— कर्तृरूपं यथा— एधैः पचति, सेनया जयति, अश्वेन गच्छति, नावा तरति।

कर्त्राश्रितं यथा—अक्षैर्दीव्यति, दात्रेण लुनाति, धनुषा विध्यति, परशुना छिनत्ति।

कर्मरूपं यथा— पथा गच्छति, अन्तिकेन याति, पयसा भुङ्क्ते, यवाग्वा जुहोति।

कर्माश्रितं यथा— पयसा ओदनं भुङ्क्ते, पथा ग्रामं गच्छति, द्विद्रोणेन धान्यं क्रीणाति, पञ्चकेन, पशून् बध्नाति।

क्रियाश्रितं यथा— मासेनाधीते, क्रोशेनाधीते, विश्वजिता यजते, विधिना विदधाति।

अनाश्रितं यथा— स्तोकेन मुक्तः, कृच्छेण लब्धः आलोकेन पश्यति, दीपिकया याति।

(आभ्यन्तरम्—७)

आभ्यन्तरमपि आन्तरम्, अवान्तरम्, आभ्यन्तरम्, अनन्तरं, समनन्तरं, प्रत्यनन्तरं, बाह्याभ्यन्तरमिति। तत्र—

आन्तरं यथा— आत्मना बुध्यते, स्वयमुपक्रमते, स्वतः प्रकाशते, अन्योन्यतो जानाति।

अवान्तरं यथा— जात्या दुर्जनः, प्रकृत्या अभिरूपः, निसर्गेणार्यः, स्वभावेन सुभगः।

आभ्यन्तरं यथा— अहङ्कारेण कत्थते, सत्त्वेन सहते, रजसाऽनुरज्यते, तमसा मुह्यति।

अनन्तरं यथा— मनसा मोदते, अन्तरेणाचरति, प्रतिभया पश्‍यति, संस्कारेण स्मरति।

समनन्तरं यथा— प्रयत्नेनारभते, बुद्ध्या जानाति, सुखेन शेते, दुःखेन पठति।

प्रत्यनन्तरं यथा— धर्मेण वर्धते, अधर्मेण पतति, अविद्यया मृत्युं तरति, विद्ययाऽमृतं प्राप्नोति।

बाह्याभ्यन्तरं यथा— चक्षुषा पश्‍यति, वाचा वदति, इङ्गितेन कथयति, आकारेण ज्ञापयति।

(बाह्याभ्यन्तरम् —६)

बाह्याभ्यन्तरमपि बहिर्मुखमन्तर्मुखं, निर्मुखं, बहिरुद्रेकमन्तरुद्रेकं, निरुद्रेकं च। तेषु बहिर्मुखं यथा— विद्ययाऽमृतमाप्नोति।

अन्तर्मुखं यथा— घ्राणेन जिघ्रति, जिह्वया स्वादयति, स्पर्शेन बुध्यते, श्रोत्रेण श्रृणोति।

निर्मुखं यथा— निश्शङ्कत्वेन यातः, निर्भयत्वेन आयातः, निष्किञ्चनत्वेन मुक्तम्(क्तः), निरायुधत्वेन हतः।

बहिरुद्रेकं यथा— पद्भ‍यां य‍ गच्छति, पाणिभ्यां स्पृशति, संज्ञया गमयति, पौंस्नेन प्रीणाति।

अन्तरुद्रेकं यथा— बलेन वर्षति, कौशलेन रञ्जयति, अभियोगेनाधीते, अभ्यासेन धारयति।

निरुद्रेकं यथा— प्रायेण याज्ञिकः, गोत्रेण गार्ग्यः, अभिजनेन सौह्मः, शाखया च्छन्दोग इति।

निष्किञ्चनत्वस्तोकत्वादीनां सदभावासत्त्वरूपत्वादसाधकत्वमिति चेत् तन्न।

यथैव सन्निधौ तस्य तथैवासन्निधावपि।
भावस्य करणत्वेन क्रियासिद्धिः प्रतीयते॥ १०७॥१

(वाप. ३.७.९८) स्तोकत्वस्याभिनिर्वृत्तेरनिर्वृत्तेश्‍च तस्य वा।
प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते॥ १०८॥

(वाप. ३.७.९९) न च करणस्य वास्तवं रूपमस्ति विवक्षानिबन्धनत्वात्। तदुक्तम्—

वस्तुतस्तदनिर्देश्‍यं न हि तद् वस्तुनि स्थितम्।
स्थाल्या पच्यत एषापि विवक्षा दृश्‍यते यतः॥ १०९॥

(वाप.३.७.९१) न च भवति एधाः पचन्ति, धनुर्विध्यति, चक्षुः पश्‍यति, मनो जानाति इति॥ करणमुक्तम्।

(४. संप्रदानम्)

संप्रदानमुच्यते; तत्त्रिविधम्— ददातिकर्माप्यं, कर्ममात्राप्यं क्रियाप्यं चेति। तत्र (ददातिकर्माप्यम् —६)

संप्रदानमिति महत्याः संज्ञायाः करणात्। सम्यगस्मै प्रदीयते तद्‍गवादिना ददातिकर्मणा प्राप्यमुपाध्यायादिकं संप्रदानसंज्ञं भवति। तत् स्वत्वनिवृत्तौ, परस्वत्वापत्तौ, उभययोगे, स्वोपयोगे, परोपयोगो, उभयोपयोगे चेति षोढा विप्रथते।

स्वत्वनिवृत्तौ यथा— शिष्याय विद्यां प्रयच्छति, वराय कन्यां विश्राणयति, आप्‍तायोपदेशं ददाति, गुरुभ्य आत्मानं निवेदयति।

परस्वत्वापत्तौ यथा— रिपुभ्यो भयं ददाति, शत्रवे प्रहारं प्रयच्छति, वादिने उत्तरं ददाति, दयितायै वाचं प्रयच्छति।

उभययोगे यथा— कर्मकराय छत्रमर्पयति, मूकाय हितमुपदिशति, संवाहकाय कायं वितरति, प्रियतमाय शरीरं ददाति। १. कारिकाया अस्या वाक्‍यपदीयस्य मूले भिन्न एव पाठः, पृ. ८६, पूनासंस्करणम्। स्वोपयोगे यथा— वाताय चक्षुर्ददाति, पृष्ठमातपाय स्पर्शयति, गीताय कर्णं ददाति, श्रुताय चेतो वितरति।

परोपयोगे यथा— पुत्रायाशिषं प्रयच्छति, छात्राय चपेटां ददाति, भीतायाभयं प्रयच्छति, आर्तायौषधं ददाति।

उभयोपयोगे यथा— नापिताय क्षुरं प्रयच्छति, मैत्रावरुणाय दण्डं ददाति, प्रियतमायाधरं प्रयच्छति, प्रियाया अङ्कपालीं ददाति।

‘कर्मणा यमभिप्रैति स संप्रदानम्’ (१.४.३२) इति परिभाषया लक्ष्यमाणं

(कर्ममात्राप्यम् —६)

कर्ममात्राप्यम् तदपि षोढा प्रेरकमनुमन्तु, निराकर्तृ, अनिराकर्तृ, प्रत्यर्पकं, अप्रतिग्राहकमिति (वाप. ३.७.१२९)। तेषु —

प्रेरकं यथा— याचकायान्नं ददाति, वृद्धिमुत्तमर्णाय प्रयच्छति, द्वाःस्थायोपचारं कल्पयति, दायादाय भागं निर्दिशति।

अनुमन्तृ यथा— गामुपाध्याय निवेदयति, सेवकाय ग्रामं निर्दिशति, पतिंवरायै वरं दर्शयति, दास्यै वस्त्रमतिसृजति।

अनिराकर्तृ यथा— देवाय पुष्पं क्षिपति, कुबेराय बलिमुपहरति, रुद्राय पशुमालभते, सोमायार्घ्यं ददाति।

निराकर्तृ यथा— उन्मत्तायौषधं निर्दिशति, वादिने दूषणं ददाति, टङ्काय दण्डं करोति, शाक्‍यायामिषं प्रेषयति।

प्रत्यर्पकं यथा— सादिनेऽश्वं निर्दिशति, सन्निधात्रे कोशमर्पयति, समाहर्त्रे राष्ट्रं निवेदयति, अमात्याय मुद्रामुपनयति।

अप्रतिग्राहकं यथा— देवेभ्य उषितान्नं ददाति, पितृभ्यो भुक्तशेषं प्रयच्छति, अन्धाय रूपं दर्शयति, बधिराय शास्त्रमुपदिशति।

(क्रियाप्यम् —६)

कर्मग्रहणेन क्रियाया अपि सङ्ग्रहात् क्रियया यदाप्यते तदपि संप्रदानं, क्रियाव्याप्यमिति च भवति। कर्मणोऽस्मात् को विशेष इति चेदीप्सिततमत्वं नामं तदपि षोढा शेषः, कर्मशेषः, कर्म, व्यवहितकर्म, हेतुः, निमित्तहेतुरिति च। यदाह— (वाप. ३.७.१३०)

हेतुत्वे कर्मसंज्ञायां शेषत्वे वाऽपि कारकम्।
रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यमुच्यते॥ ११०॥

तत्र— शेषो यथा— देवदत्ताय रोचते, देवदत्ताय स्वदते, देवदत्ताय तिष्ठते, देवदत्ताय नमते।

कर्मशेषो यथा— देवदेत्ताय गां प्रतिश्रृणोति, देवदत्ताय ग्रामश्रृणोति, देवदत्ताय शतं धारयति, देवदत्ताय दैवमीक्षते।

कर्म यथा— देवत्ताय राध्यति, पुष्पाय स्पृहयति, ग्रामाय गच्छति, देवेभ्यो नमति।

व्यवहितकर्म यथा— छात्राय श्लाघते, चैत्राय शपते, होत्रे प्रतिगृणाति, पोत्रे अनुगृणाति।

हेतुर्यथा— देवदत्ताय क्रुध्यति, देवदत्ताय द्रुह्यति, देवदत्तायेर्ष्यति, देवदत्तायासूयति।

निमित्तहेतुर्यथा— एधेभ्यो व्रजति, श्राद्धाय निगर्हते, युद्धाय सन्नह्यति, पत्ये शेते इति। एतेन ‘रुच्चर्थानां प्रीयमाणः’ (१.४.३३), ‘श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः’ (१.४.३४), ‘धारेरुत्तमर्णः’ (१.४.३५) ‘स्पृहेरीप्सितः’ (१.४.३६), ‘क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः’ (१.४.३७), ‘राधीक्ष्योर्यस्य विप्रश्‍नः’ (१.४.३८), ‘प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता’ (१.४.४०), ‘अनुप्रतिगृणश्‍च’ (१.४.४१) ‘गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि’ (२.२.१२) ‘क्रियार्थोपपदस्य कर्मणि स्थानिनः’ (२.३.१४) इत्यादिवचन ‘कर्मणा यमभिप्रैति स संप्रदानम्’ (१.४.३२) इत्याद्ययोगस्यैव प्रपञ्चार्थम् इत्युक्तं भवतीत्यवसितं संप्रदानम्॥

(५. अपादानम्)

अपादानमुच्यते, ‘ध्रुवमपायेऽपादानम्’ (१.४.२४); कायसंसर्गपूर्वके बुद्धिसंसर्गपूर्वके वा अपाये यद्ध्रुवमवधिभूतं विवक्षितं तस्यापादानमिति संज्ञा। यथोच्यते—

अपाये यदुदासीनं तद्रूपं यदि वा चलम्।
ध्रुवमेव तदावेशात् तदपादानमुच्यते॥ १११॥

(पम.१.४.२४) तदपि त्रिविधं निर्दिष्टविषयमुपात्तविषयमपेक्षितक्रियं चेति। तदुक्तम्—

निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा।
अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते॥ ११२॥

(वाप. ३.७.१३६) (निर्दिष्टविषयम् —६)

तेषु यत्रोपात्तक्रियोपादानेनापायः प्रतीयते, तन्निर्दिष्टविषयम्।

तत् षोढा— उज्झितमनुज्झितमीप्सितं जिहासितं परिणतं निवृत्तमिति। तत्र— उज्झितं यथा— ग्रामादागच्छति, वृक्षात् पर्णं पतति, मेषादे(न्मे)षोऽपसर्पति, धावतोऽश्वात् पतितः।

अनुज्झितं यथा—श्रृङ्गाच्छरो जायते, हिमवतो गङ्गा प्रभवति, वटात् प्ररोहो लम्बते, अग्नेर्धूम उच्चरति।

ईप्सितं यथा— यवेभ्यो गां निषेधति, माषेभ्यो महिषान् रुणद्धि, कूपादन्धं वारयति, अग्नेर्माणवकमपसारयति।

जिहासितं यथा— अरण्यान्निष्क्रामति, गर्तादुत्तरति, पर्वतादवरोहति, आकाशात् पतति।

परिणतं यथा— गोमयात् वृश्‍चिको जायते, गोलोमाविलोमभ्यो दूर्वा भवन्ति, सुवर्णात् कुण्डलमुत्पद्यते, काशेभ्यः कटो भवति।

निवृत्तं यथा— प्रभावाद्धीयते, प्रज्ञायाः प्रभ्रश्‍यते, न्यायादपैति, स्वरूपात् प्रच्यवते।

कथं प्रभावादीनां ध्रौव्यमिति चेत् शब्दव्यापारतोऽपायाभिनिवेशः।

(उपात्तविषयम् —६)

औदासीन्याद् यत्रोपात्तक्रियासामर्थ्यादवगम्यमानक्रियापदेनापायप्रतीतिस्तद् उपात्तविषयम्। तदपि षोढा— सिद्धरूपं, साध्यरूपं, प्राप्यरूपमप्राप्यरूपं, परिहर्तव्यं, निर्हर्तव्यमिति। तेषु —

सिद्धरूपं यथा— कूलात् पतति, कुसूलात् पचति, कांस्यपात्रतो भुङ्क्ते, ब्राह्मणाच्छंसति, उपाध्यायादधीते।

साध्यरूपं यथा— अध्ययनात् पराजयते, धर्मात् प्रमाद्यति, अधर्माजुगुप्सते, अकृत्याद् विरमति।

प्राप्यरूपं यथा— आसनात् प्रेक्षते, प्रासादादवलोकयति, बलाहकाद् विद्योतते, यौवनतो विकुरुते।

अप्राप्यरूपं यथा— द्वयहादन्नं भोक्ष्यते, आमृत्योः श्रियामाकाङ्क्षेत्, क्रोशाल्लक्ष्यं विध्यति, आपाटलिपुत्राद् वृष्टो देवः।

परिहर्तव्यं यथा— चोरेभ्यो बिभेति, दुर्जनेभ्य उद्विजते, उपाध्यायादन्तर्धर्त्त, सहाध्यायिभ्यो निलीयते।

निर्हर्तव्यं यथा— चोरेभ्यो गुह्यं त्रायते, रोगेभ्य आतुरं रक्षति, काकेभ्यो दध्यवति, असत्यादात्मानं पाति।

(अपेक्षितक्रियम् —६)

यत्रार्थप्रकरणादिभ्यो गम्यमानात् क्रियापदादपायबुद्धिस्तदपेक्षितक्रियम्।

तदपि षोढा— सामान्यक्रियापेक्षं विशेषक्रियापेक्षं सत्त्वभूतापेक्षमसत्त्वभूतापेक्षं नियतरूपापायम् अनियतरूपापायमिति। तेषु—

सामान्यक्रियापेक्षं यथा— दानवेभ्यो देवा बुद्धिमन्तः, सुरेभ्योऽसुरा योद्धारः, सुह्या ब्रह्योत्तरेभ्य आढ्यतराः, पाटलिपुत्रेभ्यः सुकुमारतराः।

विशेषक्रियापेक्षं यथा— रोहणाद् रत्‍नम्, पयो वारिधरात्, कुतो भवान्? पाटलिपुत्रात्।

सत्त्वभूतापेक्षं यथा— अन्यो देवदत्तात्, इतरो देवदत्तात्, पृथक् देवदत्तात्, नाना देवदत्तात्।

असत्त्वभूतापेक्षं यथा— ऋते देवदत्तात्, विना देवदत्तात्, आराद् देवदत्तात्, दूराद् देवदत्तात्।

नियतरूपापायं यथा— कौमुद्या यक्षरात्रिः पक्षे, कार्तिक्या आग्रहायणी मासे, गवीथुमतः सांकाश्यं चतुर्षु योजनेषु, पाटलिपुत्राद् राजगृहं सप्‍तयोजनानि।

अनियतरूपापायं यथा— प्राग्ग्रामातृ, दक्षिणा ग्रामात्, तत उपरिष्‍टात्।

अन्ये तु ‘ध्रुवमपायेऽपादानम्’ (१.४.२४) इति निर्दिष्‍टविषयम्; ‘भीत्रार्थानां भयहेतुः’ (१.४.२४), ‘पराजेरसोढः’ (१.४.२६) ‘वारणार्थानामीप्सितः’ (१.४.२७), ‘अन्तर्धौ येनादर्शनमिच्छति’ (१.४.२८), ‘आख्यातोपयोगे’ (१.४.२९), ‘जनिकर्तुः प्रकृतिः’ (१.४.३०), ‘भुवः प्रभवः’ (१.४.३१), ‘ल्यब्लोपे कर्मण उपसंख्यानम्’ (१.४.३१, वा), ‘सप्‍तमीपञ्चम्यौ कारकमध्ये’ (२.३.७), इत्यादियोगोक्तमुपात्तविषयम्; ‘पञ्चमी विभत्त्के’ (२.३.४२), ‘अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते’ (२.३.२९), ‘प्रतिःपतिनिधिप्रतिदानयोः’ (१.४.९२), ‘प्रतिनिधिप्रतिदाने च यस्मात्’ (२.३.११) इत्यादिकं त्ववधिभावादपेक्षितक्रियमिति त्रिधाऽपादानं मन्यन्ते। आहुश्‍च—

निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः।
उपात्तापेक्षितापायः सोऽबुधप्रतिपत्तये॥ ११३॥

(वाप.३.७.१४७) उक्तमपादानम्।

(६. अधिकरणम्)

अधिकरणमुच्यते, ‘आधारोऽधिकरणम्’(१.४.४५); कर्त्तुः कर्मणो वा क्रियाश्रयस्य क्रियां प्रति य आधारस्तदधिकरणम् (काशिका १.४.४५) तदुक्तम्—

कर्तृकर्मव्यवहितामसाक्षाद् धारयत् क्रियाम्।
उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम्॥ ११४॥

(वाप. ३.७.१४८) तत् त्रेधा— वैषयिकमौपश्लेषिकं नैमित्तिकं चेति। तत्त्रिविधमापि अनेकप्रकारम्।

(वैषयिकम् —३)

विसिनोतीति विषयो जातिगुणक्रियादीनामाश्रयः, विषय एव वैषयिकमिति; ‘विनयादिभ्यष्‍ठक्’ (५.४.३४)। तत् षोढा— जातिवैषयिकं गुणवैषयिकं क्रियावैषयिकं द्रव्यवैषयिकं संज्ञावैषयिकं संकेतवैषयिकमिति। तेषु

जातिवैषयिकं यथा— दिवि देवाः, भुवि मनुष्याः, जले मत्स्याः, पाताले पन्नगाः।

गुणवैषयिकं यथा— आयुक्तः कटकरणे कुशलः, कटकरणे साधुः, मातरि निपुणः, पितरि प्रवीणः।

क्रियावैषयिकं यथा— प्राच्यामादित्य उदेति, दक्षिणस्यामगस्त्यो दृश्यते, आकाशे शकुन्ताः पतन्ति, शब्दादिषु श्रोत्रादयोऽभिनिविशन्ते।

द्रव्यवैषयिकं यथा— गोषु स्वामी, गोषु दायादः, अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्तः।

संज्ञावैषयिकं यथा— ब्रह्मणि पितामहः, विष्णौ पुरुषोत्तमः, रुद्रे महेश्वरः, इन्द्रे शक्रः।

सङ्केतवैषयिकं यथा— तर्जनीमध्ये उदात्तः, कनिष्‍ठिकामध्येऽनुदात्तः, अनामिकामध्ये स्वरितः, मध्यमामध्ये प्रचय इति।

(औपश्लेषिकम् —६)

उपश्लेषोऽवष्‍टम्भः तस्मै प्रभवत्यौपश्लेषिकम्; तदपि षोढा— एकदेशिकमभि— व्यापकं सामीप्यकमौपश्लेषिकमौपशल्यकमौपचारिकं चेति। तेषु—

एकदेशिकं यथा— गृहे तिष्‍ठति, स्थाल्यां पचति, पर्यङ्के शेते, शाखायां लम्बते।

अभिव्यापकं यथा— तिलेषु तैलम्, शैलेषु रागः, गवि गोत्वं, तन्तुषु पटः।

सामीप्यकं यथा— गुरौ वसति, तीर्थे वसति, गङ्गायां घोषः, कूपे गर्गकुलम्।

औपश्लेषिकं यथा—द्व‍यहे भोक्ता, कार्तिक्या आग्रहायणी मासे, इहस्थोऽयमिष्वासः क्रोशे लक्ष्यं विध्यति, पाटलिपुत्राद् राजगृहं सप्‍तसु योजनेषु।

औपशल्यकं यथा— उप खार्यां द्रोणः, उप निष्के कार्षापणम्, उप व्यामे वितस्तिः, उप शते पञ्चाशत्।

औपचारिकं यथा— यो यस्य प्रियस्स तस्य हदये वसति, यो यस्य द्वेष्यस्स तस्याक्ष्णोः प्रतिवसति, समः समग्रो मुष्‍टिमध्ये तिष्‍ठति, अङ्गुल्यग्रे हस्तियूथशतमास्त इति।

(नैमित्तिकम् —६)

निमित्तमेव नैमित्तिकम्; तदपि षोढैव— देशनैमित्तिकं कालनैमित्तिकं भावनैमित्तिकं वस्तुनैमित्तिकं कर्मनैमित्तिकं कर्मयोगनैमित्तिकमिति। तेषु —

देशनैमित्तिकं यथा—गेहे मोदते, अरण्ये बिभेति, जले मज्जति, श्वभ्रे पतति।

कालनैमित्तिकं यथा—

काशाः पुष्प्यन्ति मेघान्ते मधौ माद्यन्ति कोकिलाः।
पुष्ये पायसमश्नीयान्मघासु पललोदनम्॥ ११५॥

भावनैमित्तिकं यथा— दर्शने प्रसीदति, विरहे विषीदति, अर्थलाभे हृष्यति, अरिविनाशे तुष्यति।

वस्तुनैमित्तिकं यथा— आतपे क्लाम्यति, छायायामाश्वसिति, दोषेषूद्विजते, गुणेषु रज्यत इति।

कर्मनैमित्तिकं यथा— इष्‍टी यज्ञे, परिगणिती याज्ञिक्ये, आम्नाती छन्दसि, अधीती व्याकरणे।

कर्मयोगनैमित्तिकं यथा—

चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्।
वालेषु चमरीं हन्ति सीम्नि पुष्कलको हतः॥ ११६॥

(मभा. ३.२.३६)
ननु च निमित्तहेतोः कारकत्वात् कारकस्य च प्रयोजकपरतन्त्रत्वादिह कथं कारकत्वमिति।

उच्यते, द्विविधः कारकहेतुः प्रवृत्तप्रेरकः अप्रवृत्तप्रेरकश्‍च। तत्राद्यो णिज्विषयः, इतरस्तु विध्याद्यात्मको निमित्तात्मकश्‍च। तयोश्‍च प्रथमो लिङ्लोट्तव्यादिवाच्यः।

तदुक्तम्—

द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर्लोड् विधीयते।
सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः॥ ११७॥

(वाप. ३.७.१२६) (अधिकरणम्) निमित्तात्मकस्तु क्रियाश्रयत्वात् सप्‍तमीवाच्यो नैमित्तिकमधिकरणमिति विभक्तमधिकरणम्।

ननु च उप खार्यां द्रोणः, अधि पाञ्चालेषु ब्रह्मदत्त इत्यादौ यद्यधिकरण एव सप्‍तमी अधिकं किमर्थम् उच्यते ‘यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्‍तमी’ (२.३.९) इति। उच्यते ‘कर्मप्रवचनीययुक्ते द्वितीया (२.३.८) मा बाधिष्‍ट’ इति।

ननु च ‘उपपदविभक्तेः कारकविभक्तिर्बलीयसी’ (मभा. २.३.४) इति द्वितीया न भविष्यति, यथा गोः स्वामी व्रजति, देवान् नमस्करोतीति।

नैवम्; नेयमुपपदविभक्तिः, अपि त्वन्तर्भूतक्रियान्तरसंबन्धा कर्मविभक्तिः।

तद्यथा शाकल्यस्य संहितामनु प्रावर्षत्, संहितामनु निशम्य इत्यर्थः।

तर्हि किमर्थं विधीयते?

कारकान्तरेऽपि यथा स्यात्। तेन उपार्जुनं योद्धार इत्यपादानेऽपि पञ्चमी बाधते। अत एव ‘पञ्चम्यपाङ्परि’ (२.३.१०) इत्यपादानेऽप्यारभ्यत इति। एतेनाधीती व्याकरणे, एधेभ्यो व्रजतीत्यादयः कारकविभक्तिविषये, गोषु स्वामी, प्राग्ग्रामादित्यादयः संबन्धविभक्तिविषये कारकविभक्तिसमावेशात् प्रकाशिता भवन्ति।

ननु च शक्तिस्साधनं, तद्‍वशेन द्रव्यस्य क्रियासु योगित्वात्। किंच द्रव्यमपि साधनम्, कल्पयित्वा साधनभेदा(न्), न पुनराश्रयितव्याः शक्तयः। संन्यस्ता वेति (सन्त्यक्‍तैवेति) शक्तिः।

सत्यम्, (शक्‍ति—)भेदास्साधनमिति कल्पितम्। न च तामामधिकरणं द्रव्यमेवेति द्रव्यानपेक्षसाधनत्वम्, द्रव्यस्यापि स्वकर्मायत्तजन्मनस्तदपेक्षया तुल्यदोषत्वात्; शक्तीनामेव च साधनत्वे प्रत्ययाभिहितासु शक्तिषु द्रव्यवचनानामनुप्रयोगो युज्यते ‘वर्धते देवदत्तः, परिगतमर्थतत्त्वम्’ इति। द्रव्ये तु साधने तस्याभिहितत्वादनुप्रयोगो न प्राप्नोति। शक्तीनामेव च साधनत्वे ‘अद्य भुक्त्वा देवदत्तो द्व‍यहे द्व‍यहाद वा भोक्ता’ इति शक्तिमध्यवर्तिनि काले सप्‍तमी वा कारकमध्ये (२.३.७) लभ्यते। द्रव्यस्य देवदत्तादेरेकत्वान्मध्ये द्व‍यहादिकालो न संभवति। शक्तीनामेव च साधनत्वे ‘प्रासादे अस्ति’ इति घञादिविषयमधिकरणमभिहितं, न त्वासिविषयमित्यनभिहित— विषयलक्षणा सप्‍तमी लभ्यते; द्रव्ये सत्यभिहितत्वाद् इति। शक्तीनामेव साधनत्वे योऽयमेकद्रव्याधिकरणः साधनभेदः श्रूयते, स उपपन्नो भवति, ‘वेगेन पतितो रूग्णः’, ‘स्फुरतो ध्वनिरुदित’ इति द्रव्ये तु तस्यैकत्वान्न संभवति। क्रियाभेदनिबन्धनो भविष्यतीति चेत् कर्मादिनियमो बाध्येत; प्रतीतिभेदश्‍च न स्यात्।

तन्न, क्रियाया अर्थान्तरत्वात् न ह्यन्यस्य भेदः, अन्यद् भिद्यते। अपि च द्रव्यस्यैकत्वे कुतः क्रियाभेदकारणभेदः, कार्यस्याभेदात्। शक्तीनामेव च साधनत्वे प्रातिपदिकाद् विभक्तयो युज्यन्ते। द्रव्यस्य तु प्रातिपदिकेनाभिहितत्वाद् अनर्थका नोत्पद्येरन्।

वचनात् स्वार्थिका इति चेत्, कर्मादिः नियमो बाध्येत, प्रतीतिभेदश्‍च न स्यात् वृक्षे वृक्षेणेति। अस्ति चासावभिन्नेऽपि प्रातिपदिकार्थे तस्मादर्थान्तरं प्रातिपदिकार्थाद् विभक्त‍यर्थः कारकमिति।

नैवम्; शक्त‍यपेक्षा तस्य साधनत्वं विहन्ति; शक्तेरपि द्रव्यापेक्षत्वे तुल्यदोषत्वात्। न चान्यापेक्षा कारकाणां कारकत्वं विरुणद्धि; कार्यत एवान्वयव्यतिरेकाभ्यां कारकत्वावगतेः। कार्यं हि कस्यचित् संभवेऽप्यनवाप्‍तसत्ताकः पुनरवाप्नुवन् सत्तान्तरस्य भाव एव परिगृहीतातिशयान्तरस्य कारणतां सूचयति; न त्वकारणतामेव। विशेषशालिनि तस्मिन्नेव पुनर्भावात् तदभावे चाभावात्। न खलु कुसूलादौ बीजसमवधानेऽप्यलब्धोपलब्धेरङ्कुरस्य क्षित्यादिसहकारिग्रामबीजस्य समवधानसदृश्यमानमूर्त्तेरन्वयकार्यं न प्रतीयते, अपि तु तदेव बीजं समवहित— क्षित्यादिसहकारिप्रत्ययमस्य जनकमितरथेति गम्यते।

द्रव्यस्यैकत्वात् साधनभेदः कथमिति चेत् एकद्रव्याधिकरणाश्शक्तयो भिन्नरूपाः स्वरूपभेदेनाश्रयभेदमुपदधत्योऽभेदमधिकरणस्य दर्शयन्ति। एकस्यापि देवदत्तादेः शिल्पभेदात् तक्षायस्कारादिससमाख्या अर्थभेदनिबन्धनाः संदृश्यन्ते। शक्त‍यस्तु भिन्नरूपा इति शक्तिसाधनिकोऽपि मन्यते। तासां च वशेन तद्‍द्रव्यमाहितभेदं द्रव्यसाधनिकस्यापि साधनभेदव्यवस्थां रचयति इति।

यत्तूक्तम् द्रव्ये साधने प्रत्ययाभिहितत्वात् तदनुप्रयोगो न स्यात्, तत्र सामान्यमभिहितं, विशेषो न प्रयोक्ष्यते इति;

न (तद्) वक्तव्यम; साधने विधीयमानप्रत्ययः कथं साधनं सामान्यम— भिदधीत ? सामान्यस्य विशेषाश्रयत्वाद् विशेष एव वा प्रत्ययेनैकरूपत्वादनु— प्रयोगापेक्षिणाऽभिधीयते गोशब्देनैव प्रकरणाद्यपेक्षिणा गवादिरर्थ इति।

ननु चान्यापेक्षया विशेषमभिदधतः सामान्यसाधनशक्तीनां विशेषे शब्दस्या— भिधानशक्तिप्रतिघात इति।

नैवं, शक्तिर्विशेष एवोच्यते। धातोः क्रियाविशेषवचनादेव प्रत्ययोत्पत्तेः। स च कार्यविशेषाश्रयभेदाभ्यामवधार्यते। तत्र कार्यभेदो धातुनैवाभिहितः; आश्रयभेदः पुनरप्रतीतः पदान्तरेणैवोच्यते चैत्रो मैत्र इति। तथाप्यन्यापेक्षा तुल्यैव। न चाश्रिताश्रययोस्सामाना— धिकरण्यम्। अतश्‍चैत्रो वर्तते इति न स्यात्, अपि तु चैत्रो वर्धत इति। अपि च धातुः क्रियाविशेषवचन एवेति कुत एतद् वर्धते, यावदनेन वर्धितव्यम्। इदं कर्म कुर्याः, ‘नागरकवृत्तं’ वर्तेत, समान् पोषान् अपुष्यत्’ इत्यादौ सामान्यस्य विशेषः प्रतीयते।

यत्तु देवदत्तादेर्द्रव्यस्यैकत्वान्मध्ये द्व्यहादिः कालो न सम्भवतीत्युच्‍यते, तदपि न सम्यक्; आश्रितोपाधिनिमित्तस्य भेदस्योपपत्तेः। तथा हि वक्तारो भवन्ति, परुद्‌भवान्, पटुरासीत्, पटुतश्‍चैषमः, अद्यान्य एवासि संपन्न (मभा. ५.३.५७) इति। तदेवं सामर्थ्यभेदादाहितविभागमधिकरणं भागशोऽवच्छिद्य साधनभेदः प्रकल्प्यमानो मध्यमप्युपकल्पयति।

न च शक्तिपक्षेऽपि साक्षान्मध्यसम्भवः। पूर्वशक्तिकाले परस्याः, परकाले च पूर्वस्या अभावात्।

अथवा द्व्यहे भोक्तेत्यवधिसप्‍तमी द्व्यहाद् वा भोक्तेत्यवधेरेव पञ्चमी, स चान्त्यमोजनेनावच्छिद्यते। यदि तु मध्यसिद्धये द्रव्यभेदः शक्तिभेदश्‍च कल्‍प्यते, तदा कर्तृभेदाद् भुक्‍त्वेति क्‍त्वाप्रत्ययः ‘समानकर्तृकयोः पूर्वकाले’ (३.४.२१) इति न स्यात्।

उपचरिताभेदाश्रयस्स इति चेद्, मध्यं न सिध्यति। अथैकत्वाद् भुक्तिक्रियायां कारकैकत्वकालभेदाश्रयश्‍च कारकभेदः, स्‍नात्वा व्रजतीति न स्यात्; स्‍नानव्रजिक्रिययोश्‍च भेदात् तन्निमित्तयोः कर्तृशक्‍त्योरपि भेदे समानकर्तृकत्वाभावात्। ननु च यस्यापि द्रव्यमाश्रितशक्तिभेदसंपादितनानात्वं साधनं तस्याप्येष दोषः। अ(ना)पि च भिन्नाधारवर्तितया सामर्थ्ययोरभेदमाधेयशक्तिवादिना शक्‍यते वक्तुं समानः कर्तेति। यस्य तु शक्तिभेदोपनीतस्तदाधारस्य भेदः, तस्य निबन्धनमुपचरितमप्येकत्वं न विद्यते, अपेक्षणीयश्‍चाधारभेद, क्रियाभेदस्य पौर्वापर्यवतः अपेक्षितत्वात्।

अत्रोच्यते—द्रव्यस्यैकत्वेन शक्त्योरेकत्वमुच्यते। शक्तिनानात्वेन च द्रव्यस्यापि नानात्वं करिष्यते द्रव्यस्य तु पारमार्थिकमप्येकत्वं न मृष्यत इत्यहो कामचारः। अपि तु शक्तौ साधने पशौ कर्तरि हस्तिकवाटयोः कर्त्रोः इति (पमः न्यास. ३.२.५४) कथं शक्तिरेकाधारावच्छिन्ना प्रतिपद्यते ? प्रतिपद्यताम्, सामानाधिकरण्यं पृच्छामि; पशौ द्रव्ये यः कर्तेति चेत्, उपमानात् कर्तुरिति न प्राप्‍नोति।

अथ शक्तिभेदोपकरणाः कर्त्रादिश्रुतयः तदधिकरणं कार्ययोगितयाऽवगमयन्ति, शुल्कादय इव रूपविशेषाश्रयमिति सामानाधिकरण्योपपत्तेः। जितं तर्हि भवता, सिद्धश्शक्तिसाधनभेदः, कर्त्रादिश्रुतिभिराश्रयस्य शक्तिमतोऽभिधानात्।

किञ्च शक्तिकारकपक्षे कर्मण एकत्वे, कर्मणो द्वित्वे, कर्मणो बहुत्वे विभक्तिवचनादि न स्यात्; न हि गुणस्य संख्या संबन्धोऽपि; द्रव्ये तु युज्यते। यतः कर्मादिशब्दाः शक्तिमद्‌द्रव्यमविरुद्धसंख्यासम्बन्धं बोधयन्ति।

ननु गुणस्यापि संख्यासम्बन्धो दृश्‍यते पञ्च कर्माणि, चत्वारोऽभावा— स्त्रयस्संयोगा द्वे सामान्ये एकस्समवाय इति। न चायमुपचारः प्रत्ययाविशेषात् एवं शक्तयोऽपि कार्यभेदभिन्नास्सङ्ख्याभेदमनुभविष्यन्ति।

सत्यम्,अस्ति शक्तीनां भेदः, न तु तत्रापि ते वचनभेदः, यस्मादादित्यं पश्‍यति स्तौतीति दर्शनादिक्रियाभेदाद् भिन्नास्वपि शक्तिषु न बहवचनं दृश्‍यते। न पर्यायोक्तौ शक्तयः क्रियाभिरभिसंबध्यन्त इति चेत्, तन्न। प्रत्येकसमाप्‍ता अपि क्रियाभेदास्समस्याभिधानेषु वचनभेदं प्रयुञ्जते। यथा पञ्च शरानस्यति, सव्यापसव्याभ्यां विध्यति, द्वयोः पर्यङ्क्योश्शेते इति।

न च पर्यायेणैव दर्शनादयः स्युः, यौगपद्येनापि भावात्। तस्मात् सामर्थ्या— धारनिबन्धनो वचनभेदो न शक्‍त्याश्रय इति। अत एव स्वातन्त्र्याद् विभक्त‌‍याऽपि शक्तिर्नाभिधीयते। यदि हि स्वतन्त्रां शक्तिं विभक्तिरभिदध्यात् तदा तद्‌गतामेव संख्यां विभक्तिरभिदधीत, समानशब्दोपादानात्; न चैतदस्ति। तस्माद् यस्य संख्यां विभक्तिरुपादत्ते तदेव शक्तिमत् कारकमिति।

यत्तु शक्तावेव विभक्त‍यर्थे वर्तमानमव्ययं समस्यते इत्युच्यते तच्छक्तिमत्यपि कारके अव्ययानामपि सत्त्ववचनात् तन्मात्राभिधानमिति कथं सत्त्वभूतं द्रव्यमसत्त्वार्थेनाव्ययेनाभिधीयेत ? यस्तु प्रासाद आस्त इत्यनभिहितलक्षणा सप्‍तमी न लक्ष्यत इति तत्र यथा घञादिविषये शक्तिमद्‌द्रव्यमभिहितं, न त्वासिविषयशक्तिमदिति, तत्र केन सप्‍तमी वार्यते ? यदि च घञादयः शक्तिमभिदधीरन् तदा शक्तेरसिशब्दाभिहितायाः शक्त‍यन्तरायोगादास्तां, सप्‍तमीद्वितीयादयोऽपि नोत्पद्येरन्।

कथं चैवमाह अधिकरणादिवचानि प्रासादादयः।

ते हि संज्ञाशब्दा वृक्षादिवदेव केषुचिदर्थविशेषेषु रूढाः केवलममीषां धर्मनियमा वा यथाकथञ्चिदुत्पत्तिं गमयन्ति। एतेन च ‘वेगेन पतत’ इत्यादौ येयमेकद्रव्याधिकरणा साधनभेदश्रुतिः सापि प्रतिविहितैव भवति।

न चैतावद् वाच्यं, द्रव्ये कारके प्रातिपदिकादयो नोत्पद्येरन्। द्रव्यं हि विभक्तिलिङ्गशक्तिसंख्यास्वर्थपरिमाणवत् सामान्यमात्रया प्रातिपदिकमात्रेणाभिधीयते, शक्तिसंख्यालिङ्गवच्‍च विभक्तिवचनसंस्कारो लभ्यत इत्यतः स्थितमेतच्छक्तिमद् द्रव्यं कारकमिति।

(४. पुरुषः)

आख्यातप्रत्ययाभिधेयः कारकविशेषः पुरुषः।

स त्रिधा— प्रथमो, मध्यम उत्तमश्‍च। तत्र परस्मैपदात्मनेपदयोः प्रथमत्रिका— भिधेयः प्रथमः, मध्यमत्रिकाभिधेयो मध्यमः, अन्त्यत्रिकाभिधेय उत्तमः। तत्र च—

प्रत्यु/त्यक्तापरभावश्‍चेदुपाधिः/धी कर्तृकर्मणोः।
तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ॥ ११८॥

(वाप. ३.१०.१) तदाह— युष्मदि मध्यमः, अस्मद्युत्तमः, शेषे प्रथम (१.४.१०५, १०७, १०८) इति। तत्र कर्तरि पुरुषत्रयप्रयोगे यथा—(कुसं. ५.६५)

अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे।
अमङ्गलाभ्यासरतिं विचिन्त्य तं तवाभ्यनुज्ञा न तु कर्तुमुत्सहे॥ ११९॥

कर्मणि यथा—

यदि त्वं मन्यसे तेन त्वया स यदि तोष्यते।
तत् किमस्थानकोपेन दूति! दह्यामहे वयम्॥ १२०॥

अथैषां क्‍वचित् प्रथम एव यथा— भावप्रयोगेषु युवाभ्यामास्यते, अस्माभिर्गण्यते इति क्‍वचिन्मध्यम एव यथा क्रियासमाभिहारे हिस्वाभ्यां समुच्‍चयेषु लुनीहि लुनीहित्येवायं लुनाति, अलावीत् लविष्यति वा, अधीष्वाधीष्वेत्येवमधीयाते, अध्यैषातां अधीष्येते वा, राष्ट्रमट, मठमट खदूरमटेत्येवावामटावः, अटिष्व अटिष्यावो वा, छन्दोऽधीष्व व्याकरणमधीष्व, निरुक्तमधीष्वेत्येव वयमधीमहे, अध्यगीष्महि अध्येष्यामहे वा, सक्तून् पिब, धानाः, खादत, ओदनं भुङ्क्ष्वं इत्येवं यूयमभ्यवहरथ अभ्यवाहार्ष्ट अभ्यवहरिष्यथ वा। क्‍वचिदुत्तम एव यथा प्रहासे मन्यते एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्ते पिता; एहि मन्ये ओदनं भोक्ष्यसे, न हि भोक्ष्यसे, भुक्तस्सोऽतिथिभिरिति। मन्यतेस्तु उत्तमविषयेऽपि मध्यम एव;तत्र ह्ययमर्थःएहि मन्यसे रथेन यास्यामि, एहि मन्यस ओदनं भोक्ष्यथ इति। युगपद्‌वचने पुनः पुरुषाणां परो भवति यथा स च त्वं च पचथः, त्वं चाहं च पचावः, स च त्वं चाहं चं पचाम इति। युगपदवचनता चैकशेषस्य द्वन्द्वसमानार्थत्वाच्‍च अर्थविषयैव गृह्यते; न चार्थविषया (वाप.—३) तेन

अहं वा कुम्भकर्णो वा त्वं वा राक्षसपुङ्गव।
इन्द्नजिद्‌‍वा निकुम्भो वा भरेयुर्भारमीदृशम्॥ १२१॥

(रामा.६.७.६) इति। शेषे प्रथम एव भवति, यथा त्वमहमन्यो वा गच्छत्विति।

एवं तर्हि चार्थे युगपद्‌वचनतायामभावात् वहेयुरिति बहुवचनं न प्राप्‍नोति।

नैवम्; वार्थेषु क्‍वचिद्युगपद्‌वचनता दृश्‍यते, द्वौ वा त्रयो वा द्वित्रा इति। आह च महाभाष्यकारः, ‘द्वौ वेत्युक्ते त्रयो वेति गम्यते, त्रयो वेत्युक्ते द्वौ वेति गम्यते। सैषा पञ्चधिष्ठाना वाक्। तत्र युक्तं बहुवचनम्। सामान्याश्रयं वा बहुवचनम्, यथा कति भवतः पुत्राः कति भवतो भार्या इति।

अत्वं संपद्यते यस्मिन्न तस्मिन् युष्मदाश्रया।
प्रवृत्तिः पुरुषस्यास्ति प्रकृतेस्सा विधीयते॥ १२२॥

(वाप.३.७.११७) यथा अत्वं त्वं संपद्यते त्वद्‌भवति, अयूयं यूयं संपद्यते युष्मद्भवन्तीति। उपलक्षणं चैतत्। प्रकृतिविकृत्याश्रयपुरुषसंप्रधारणायां प्रकृत्याश्रय एव पुरुषो भवति, न विकृत्याश्रय इति। तेन अनहमहं संपद्यते मद्‌भवति, अवयं वयं संपद्यन्ते अस्मद्‌भवन्ति, असस्स संपद्यते तद्‌भवति, अनहमहं संपद्यसे मद्भवसीत्याद्यपि सिद्धं भवति। का पुनरत्रोपपत्तिः ? अभूततद्भावे प्रकृतिविकृत्योः कर्तृत्वविवक्षायां कामचारः। तथा हि—क्‍वचिद्‍‌विकृतेः कर्तृत्वं विवक्ष्यते, यथा मूत्राय संपद्यते यवागूः, यथा च सुवर्णपिण्डः पुनरपरया आकृत्या संवृत्तः खदिराङ्गारसवर्णे कुण्डले भवत इति।

तथा हि—

क्‍लृपि संपद्यमाने या चतुर्थी सा विकारतः।
सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम्॥ १२३॥

(वाप.३.७.११५) क्‍वचित्तु प्रकृतेः; यथा सघ्ङीभवन्ति ब्राह्मणाः, महद्भूतश्‍चन्द्रमा (मभा. ६.३.४६) इति। अत्र यदि प्रकृतेः कर्तृत्वं न विवक्ष्यते तदा विकृतेस्सङ्घस्यैव कर्तृत्वाद्‌भवन्तीति बहुवचनं न प्राप्‍नोति। महद्‌भूतः इत्यत्र महच्छब्दस्य च मुख्यार्थत्वाद् ‘आन्महतस्समानाधिकरणजातीययोः’ (६.३.४६) इत्यात्वं स्यात्। प्रकृतिर्हि काचिदुपचरितविकाररूपा, यथा इन्द्रः स्थूणा, उपेन्द्रो ग्राव इति; काचित् परिणामिनी यथा दुग्धं दधि भवति, हेम कुण्डलीभवति। तत्र विपरिणामिनीषु प्रकृतिषु सङ्घमहत्त्वादिभिर्मुख्यैरपि योगे पूर्वस्या अवस्थायाः प्रच्युतस्योत्तरामवस्थां प्राप्‍तस्य पूर्वोत्तरयोरवस्थयोराश्रितयोसव्यापारत्वात् पूर्वस्यामवस्थायां कर्तृत्वविवक्षायाः सङ्घमहदादेर्विकारशब्दस्य प्रकृत्युपग्राहिणो गौणत्वं विज्ञायते। तदुक्तम्— (वाप.२.२८०)

महत्त्वं सङ्घभावं च प्रकृतिः प्रतिपद्यते।
भेदे नापेक्षिता सा तु गौणत्वस्य प्रसाधिका॥ १२४॥

इति। यद्येवम्, अतिमहती महती संपन्ना महद्भूता ब्राह्मणीति पुंवद्भावो न प्राप्‍नोति। अर्थाश्रयः एतदेवं भवति (मभा. ६.३.४६); शब्दाश्रयश्‍च पुंवद्भावः; ‘गोतो णित्’ (७.१.९०), ‘औतोंशसोः’ इति (६.२.९३) वाहीके वर्तमानस्य गोशब्दस्य गौस्तिष्ठति गामनयेति वृद्धिरात्वं च भवति (मभा. ६.३.४६)॥

तेऽमी क्रिया च कालश्‍च कारकं पुरुषस्तथा।
उक्ताः पदार्थाश्‍चत्वारस्स्वैस्स्वैर्भेदैस्समन्विताः॥ १२५॥

द्रव्यात्मा चापि कालो यः प्रसङ्गात् सोऽपि कीर्तितः।
स हि प्रायः प्रबन्धेषु तत्र तत्रोपयुज्यते॥ १२६॥

क्रियायां कालोऽन्तर्भवति पुरुषः कारकपदे प्रधाने सोपाधिद्वयमपि तदेतन्निविशते।
प्रधानं तं प्राहुर्यमभिदधते घञ्प्रभृतयः सहोपस्कारार्थोर्निविशति स तु प्रातिपदिके॥ १२७॥

इति महाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे क्रियाद्यर्थचतुष्टयप्रकाशो नाम ॥ चतुर्थः प्रकाशः॥ ४॥

रेवाप्रसादस्य सनातनस्य प्रकाशसंशोधनकार्यमेतत्।
प्रकाशमेतं तु तुरीयमाप्‍तं प्रसीदतादत्र महान् स देवः॥