०३ प्रकृत्यादिशब्दप्रकाशः

अथ

श्रृङ्गारप्रकाशे तृतीयः प्रकाशः

प्रकृत्यादिशब्दप्रकाशः

(९. पदम्)

तत्र पद्यतेऽनेनार्थ इति पदम्।

तत् त्रिधा १. क्रियारूपम्, २. कारकरूपम्, ३. उपस्काररूपञ्च। तेषु—

साध्यार्थाभिधायि क्रियारूपम्।

साधनार्थाभिधायि कारकरूपम्।

साध्यसाधनयोर्भूषणादिभूतमुपस्कारम्।

तेषां प्रत्येकं षड्भेदत्वात् पदस्याष्टादश भेदा भवन्ति। तेषु—

(१. क्रियारूपं पदम्)

(१) भावपदम्, (२) कर्मपदम्, (३) कर्त्तृपदम्, (४) भावकर्मपदम्, (५) भावकर्त्तृपदम्, (६) कर्मकर्त्तृपदं चेति क्रियारूप—पदभेदाः। तेषु— । (१) भावपदं यथा—

पच्यते, अपाचि, पक्ष्यते देवदत्तेन; आस्यते, आसि, आसिष्यते भवता; भिद्यते, अभेदि, भित्स्यते कुसूलेन; श्रायते, अश्रायि श्रायिष्यते यवाग्वा; एवं श्रायिषीष्ट, शश्रे, अश्रायिष्यतौदनेन; घानिषीष्ट, जघ्ने, अघानिष्यत हस्तिना; ग्राहीषीष्ट, जगृहे, अग्राहिष्यत ग्राहेण; दार्शिषीष्ट, ददृशे, अदर्शिष्यत प्रेयसेति।

(२) कर्मपदं यथा—

पच्यते ओदनः सूदेन, आस्यते मासो भृतकेन, गम्यते ग्रामः पान्थेन, सुप्यते क्रोशः शिशुना, अकारि कटः कुशलेन, अरोधि गौर्गोपालेन, अदोहि धेनुर्वल्लवेन, अतापि पृथिवी राज्ञा, अन्वतातप्त कितवः कर्मणा, अनुबभूवे कम्बलः करेण, पक्ष्यते यवागूर्भिषजा, लप्सीष्ट भिक्षा तापसेन।

एवं करिष्यते कारिता कारिषीष्ट कटः, घानिष्यते घानिता घानिषीष्ट शत्रुः, ग्राहिष्यते ग्राहिता ग्राहीषष्ट ग्रन्थः, दर्शिष्यते दर्शिता दर्शिषीष्ट प्रेयानिति।

(३) कर्त्तृपदं यथा—

पचति चैत्रः, आस्ते मैत्रः, तपति सुवर्णं सुवर्णकारः, तप्यते तपस्यापसः, सृजति मालां मालिकः, सृजते धर्मं धार्मिकः, उदसर्जि स्वं वदान्यः, उदपादि सस्यं भूमिः परिवारयन्ते वृक्षं कण्टकाः, शोषयते व्रीहीनातपः, संयुज्यते गृहमेधी भार्यया, पच्यते सलोहितं फलमुदुम्बरः, तथा अदीपि, अदीपिष्ट वह्निः, अजनि अजनिष्ट धूमः, अबोधि अबुद्ध प्रसुप्तः, अपूरि अपूरिष्ट कामः, अतायि अतायिष्ट धर्मः, आप्यायि, आप्यायिष्ट लोक इति।

(४) भावकर्म्मपदं यथा—

इच्छामि भुञ्जीत भवान्, इच्छामि भुङ्क्तां भवना्, कामये यत् स भुञ्जीत, प्रार्थये यदि स भञ्जीत, संभावयामि भुञ्जीत भवान्, समर्थयामि भोक्ष्यते भवान्, श्रद्दधे नाभुङ्क्त भवान्, अवकल्पयामि नाभोक्ष्यत भवान्, न श्रद्धधे ननु भवान् वृषलं याजयेत्, नावकल्पयामि तत्रभवान् वृषलं याजयिष्यति, न मर्षयामि तत्रभवान् वृषलमयायजिष्यत्, विगर्हे अपि तत्रभवान् वृषलं याजयति, स्मरसि देवदत्त कश्मीरेषु वत्स्यामः, अभिजानासि कलिङ्गेषु यदवसाम, अभिजानासि कलिङ्गेषु शश्‍वदवसाम, स्मरसि कश्मीरेषु वत्स्याम, तत्रौदनं भोक्ष्यामहे, अभिजानासि यत् कलिङ्गेष्ववसाम यत् तत्रौदनमभुञ्ज्महि; एहि मन्ये रथेन यास्यसि, जाने सुप्तो विहायसा गच्छामि, पश्‍य मृगो धावति, इह पश्‍यामः कर्मणि द्विवचन— बहुवचनान्युदाह्नियन्ते इति।

(५) भावकर्त्तृपदं यथा—

चोरस्य रुजति, चोरस्यामयति, चोरस्य बाधते, चोरस्य पीडयति, चोरस्य दहति, चोरस्यातङ्कयति, चोरस्य स्पृशति, चोरस्य शोषयति, चोरस्य मर्दयति, चोरस्य मोटयति, चोरं ज्वरयति, चोरं संतापयति। तथा— भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यात्, नास्ति रमे, अयूयुजस्त्वमसि, असि त्वमीशिषे, अस्ति गच्छामो वयम्, अस्त्यत्र काञ्चिद् गां पश्‍यति, असि भवतु गम्यते, भवतु साधयाम इति।

(६) कर्मकर्त्तृपदम् यथा—

रज्यति वस्त्रं स्वयमेव, कुष्यति पादस्स्वयमेव, अवकिरते हस्ती, अवाकीर्ष्ट वा स्वयमेव, ग्रथ्नीते माला, अग्रथिष्ट वा स्वयमेव, चीकीर्षते कटः, अचिकीर्षत वा स्वयमेव, नमते दण्डः अनंस्त वा स्वयमेव, उच्छ्रयते दण्डः, उदशिश्रियत वा स्वयमेव, ब्रूते कथा, अवोचत वा स्वयमेव; प्रस्नुते गौः प्रास्नोष्ट वा स्वयमेव; आहते गौः (३.१. ८९ काशिका), आवधिष्ट वा स्वयमेव। अनुरुन्धे गौः अन्वरुद्ध वा स्वयमेव, अकृत कटः स्वयमेव (३.१. ६२ काशिका) इति।

अन्ये पुनरमीषामपि कर्मकर्त्तृत्वं मन्यन्ते—

भिद्यते कुसूलः, स्वयमेव, भिद्यते रज्जुः स्वयमेव, लूयते केदारः स्वयमेव, पच्यते फलं स्वयमेव, भज्यते काष्ठं स्वयमेव, कुष्यते पादः स्वयमेव, अदोहि गौः स्वयमेव, अरोधि गौः स्वयमेव, अहावि हविः स्वयमेव, अकारि कटः स्वयमेव, तथा भूषयते कन्या स्वयमेव, मण्डयते कन्या स्वयमेव, दोहयते गौः स्वयमेव, आरोहयते हस्ती स्वयमेव, दर्शयते राजा स्वयमेव, अभिवादयते गुरुः स्वयमेव, लावयते केदारः स्वयमेव, पाचयते ओदनः स्वयमेव, भेदयते कुसूलः स्वयमेव, कारयते कटः स्वयमेव, गणयति गणः स्वयमेव, स्मरयति वनगुल्मः स्वयमेव’इति। आहुश्‍च—

कर्मवत् कर्म्मणा तुल्यक्रियः (३.१. ८७), कर्मवदभावे यगात्मनेपदचिण् (वद्)भावाः प्रयोजनम् (३.१. ८७ काशिका) अचः कर्मकर्त्तरि (३.१. ६२), दुहश‍च (३.१. ६३), न रुधः (३.१. ६४), न दुह्‍स्नुनमां यक्‍चिणौ (३.१. ८९), यक्‍चिणोः प्रतिषेधो हेतुमण्णिश्रिब्रुञामुपसंख्यानम् (३.१. ८९ वा. १), भूषाकर्मकिरादि (३. १. ८७), णि—श्रन्थ—ग्रन्थ—ब्रुञात्मनेपदा—कर्मकाणामुपसंख्यानम् (३.१. ८९ वा)।

तत् तु सम्यक्। तथाहि ‘भिद्यते कुसूलस्स्वयमेव, अकारि कटः स्वयमेवेत्यादिषु कर्मण्येव यक्‍चिणौ, स्वयंशब्दात्तु कर्मकर्त्तुकत्वप्रतीतिः। अरोधि गौस्स्वयमेवेति रुधेरपि कर्मविवक्षायां चिण् भवत्येव अरोधि गौर्गोपालेनेति। यदा तु गोरात्मनेपद एव कर्मकर्त्तुत्वं तदा अरोधि गौर्गोपालेनेति। यदा तु गोरात्मनेपद एव कर्मकर्त्तृत्वं तदाऽरोधि गौरात्मनैवेति भवति। य एवार्थ आत्मनैवेति स स्वयमेवेति। अरोधीति चोक्‍ते नाश्रुते कर्त्तृवाचिनि पदान्तरे कर्मकर्त्तुत्वं गम्यते। तस्मादिहापि कर्मण्येव णिच्। भूषयते कन्या स्वयमेवेत्यादिषु तु ‘णोरणौ यत् कर्म णौ चेत् स कर्त्ताऽनाध्याये’ (१.३. ६७) इति फलवति कर्त्तर्येवात्मनेपदम्। कुतस्त्या तर्ह्येतेषु कर्मकर्त्तृताप्रसिद्धिः ?

श्रूयताम्— कर्मपदेषु तावत्—

क्रियमाणं तु यत् कर्म स्वयमेव प्रसिद्ध्यति। सुकरं स्वैर्गुणैः कर्त्तुः कर्मकर्त्तेति तं विदुः॥१॥

कर्त्तुपदेषु भूतपूर्वकत्वात् तदवदुपचार इति। तथाहि कन्यादयो लावण्यातिशयादिभि— रात्मभूषायै प्रसाधनादीन् प्रयुञ्जते। प्रयुञ्जते च माघादयो महाकवयः—

आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम्॥२॥ (माघ. १२.५)

स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम्॥ ३॥ (किराता. १. १०) इति

फलमनयोः सुखासिका लोकरञ्जनं च। अन्यथैको हस्तिपकैः पीड्येत, द्वितीयो दुदर्शे इति नाभिगम्यते।

अचेतनेष्वपि क्रियाफलविवक्षायां तु दृश्‍यते ‘परिवारयन्ते वृक्षं कण्टकाः, शोषयते व्रीहिनातप’ इति। एतेन करणेन तुल्यक्रियः कर्त्ता कर्मवद् भवतीत्यपि व वक्तव्यं भवति। परिवारयन्ति कण्टकैर्वृक्षं मनुष्याः, परिवारयन्ते कण्टकाः स्वयमेवेति। तथा ‘दुहिपच्योः सकर्मकयोः कर्त्ता बहुलं कर्मवद् भवतीति न वक्‍तव्यम्। दुग्धे गौः पयः स्वयमेव, पयो मुञ्चतीति गम्यते। तस्मादुदुम्बरस्सलोहितं फलं पच्यत इति कर्मतैव क्रियाविशेषणविवक्षिता। उदुम्बरशब्दोऽत्र फलवृत्तिः, उदुम्बरं तत् कालेन पच्यते सलोहितगुणं यथा भवति लोहितेन पाकेन सम्बध्यत इति यावत् कर्त्तृत्वविवक्षायां च पचत्यात्मानामिति। तथा युजेः श्‍यन् कर्त्तरि वक्‍तव्यम्, मासं युज्यते ब्रह्मचारीति। कर्त्तृत्वविवक्षायां तु दैवादिकत्वं न सेत्स्यति, कर्मत्वविवक्षायां तु कर्मत्वं यथा; कर्त्तृत्वं तु स्वयं शब्देन गम्यत इत्यलमतिप्रसङ्गेन॥

कृदन्तमपि खलु क्रियारूपं विद्यते। तत्र—

भावो यथा— इह तैर्यातम्, इह तैरासितम्, इह तैर्भुक्तम्, इह तैः पीतम्; कृतं भवता, प्रसुप्तं भवता, सुकृतं भवता, सुसिक्‍तं भवता, भूतं भवता, प्रभूतं भवता, भविष्यमाणं भवता, भूयमानं भवता, भवितव्यं भवता, भवनीयं भवता, भव्य़ं भवता, अवश्‍यं भाव्यं भवता, आशितभवं भवता, ईषदाढ्यम्भवं भवता, दुराढ्यंभवं भवता, स्वाढयंभवं भवता, ईषदुत्थानं भवता, सूत्थानं भवता इति।

कर्म यथा— प्रकृतः कटो भवता, कृतः क्रियमाणः करिष्यमाणो भवता, खलु कटः कर्त्तव्यः, कृत्यः, करणीयः, कार्यः; ईषत्कार्यः, ईषत्करः क्रियार्थो भवता, ईषदाढ्यंकरः स्वाढ्यंकरः, ईषत्पानः सोमो भवता, सुपानः, दुष्पानः; दुश्शासनोऽरिभिर्भवान् सुयोधनः, दुर्योधनः, दुर्दर्शनः, दुर्धर्षणः, दुर्मर्षणः, ईषल्लभ्यो जनैर्भवान्, सुलभः, दुर्दर्शः इति।

कर्त्ता यथा—कृतवान् कटम्, उपेयिवान् ग्रामम्, विद्वान् व्याकरणम्, अधीयन् पारायणम्, धारयन्नुपनिषदम्, द्विषान्नितिहासम्, कुर्वन् कटम्, कटं कुर्वाणः; विदिता जनापवादान् प्रजागरितापररात्रान्, कन्यामलङ्करिष्णुः, दिवमुत्पतिष्णुः, ग्राममागामुकः, योषामभिलाषुकः, ओदनं बुभुक्षुः, श्रियमाशंसुः, दादिर्गाः, पपिस्सोमम्, अवश्‍यंदायी, शतंदायी, ग्रामङ्गामी, ग्राममागामी, कटं कारको व्रजति, ओदनं पाचको व्रजतीति।

भावकर्म यथा— क्रियाः क्रियन्ते, विधयो विधीयन्ते, उष्ट्रासिका आस्यन्ते, हतशायिकाश्शय्यन्ते, अर्हति भवानिक्षुभक्षिकाम्, इक्षुभक्षिकां में धारयसि, व्यावहासीं विदधते (३.३. ४३ काशिका), सांकूटिनं कुर्वन्ति, उत्सवमामन्त्रयै, समाजमामन्त्रयै, आमन्त्रणमामन्त्रयै, मन्त्रणं निमन्त्रयै, कां त्वं कारिमकार्षीः (३.३. ११०), कां कारिकाम् कां कृतिम् कां क्रियाम्, का कृत्याम्; किं कृतम्, सर्वां कारिमकार्षम्, सर्वां कारिकाम्, सर्वां कृतिम्, सर्वां क्रियां, सर्वां कृत्याम्, सर्वं कृतमिति।

भावकर्त्ता यथा— ब्रह्मभूयं वर्त्तते, ब्रह्महत्या न भवति, पाको वर्त्तते, त्यागो भवति, सांराविणं वर्त्तते, आखूत्थो भवति (३.२. ४ मभा.), अन्वेषणा वर्त्तते, व्यावभाषी भवति, समजः पशूनाम्, उदजः पशूनाम्, गवामुपसरः (३.३. ७१), ऋतूनां पर्यायः, भवत आसिका, भवतः शायिका, अभ्यूषखादिका वर्त्तते, इक्षुभक्षिका उदपादि, शिरोर्त्तिर्वर्त्तते (३.३. १०८), प्रवाहिका न भवति, शिरोरोगः शिरोबाध /?/ते, अरोचको न भवति, निग्राहस्ते वृषल (३.३.४५ काशिका), अवग्राहस्ते वृषल, अजननिस्ते वृषल (३.३. ११२), अभवनिस्ते वृषल भूयादिति।

कर्मकर्त्ता यथा— स्वयं धौतो पादौ, स्वयं विलीनमाज्यम्, अकृष्टपच्याश्शालयः (३.१. ११४), पचेलिमा माषाः {३.१. ९६(१)}, भिदेलिमानि काष्ठानि, भिदुरा भूः, छिदुरा रज्जुः, भङ्गुरं काष्ठम्, आरोहयमाणो हस्ती, लूयमानः केदारः, ब्रुवाणा कथा, भूषमाणा कन्या, ग्रथ्नाना स्त्रक्, श्रथ्नाना स्त्रक्, चिकीर्षमाणः कटः, अवकिरमाणो हस्ती, नयमानो दण्डः उच्छ्रायमाणो दण्डः, दुहाना धेनुः, प्रस्नुवाना धेनुः, रुन्धाना गौः आघ्नाना गौः, रज्यद् वस्त्रम्, कुष्यन् पाद इति।

अन्ये पुनरमीषामपि कर्मकर्त्तृत्वं मन्यन्ते—प्रकृतः कटं भवान्, प्रकृतः कटो भवता, यातः पन्थानं भवान्, यातः पन्था भवता, आसीनो मासं भवान्, आसीनो मासो भवता, भुङ्क्ते ओदनं भवान्, भुक्त ओदने भवता, अधिशयितः खट्वां भवान्, अधिशयिता खट्वा भवता, आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता, आश्लिष्टः प्रियां भवान्, आश्लिष्टा प्रिया भवता, उपस्थितः सूर्यं भवान्, उपस्थितः सूर्यो भवता, उपासितोऽग्निं भवान्, उपासितोऽग्निर्भवता, अनूषितो गुरुं भवान् (३.४. ७२ काशिका), अनूषितो गुरुर्भवता, अनुजातो माणवको माणाविकाम्, अनुजाता माणाविका माणवकेन, अनुजीर्णो वृषलीं देवदत्तः, अनुजीर्णा वृषली देवदत्तेन इति। तन्न सम्यग् वाक्‍यभेदात्॥

ननु च भावनाक्षेपलब्धः कर्त्ता न तिङ्वाच्यः।

तत् कथमुच्यते कर्त्तृपदं, भावकर्त्तृपदं, कर्मकर्त्तृपदं चेति।

तथाहि— अन्वयव्यतिरेकाभ्यां शब्दस्याभिधानशक्तिः कल्प्यते। भावनाक्षेपेण च प्रतीयते; कर्त्तरि न तत्र प्रत्ययस्यान्वयव्यतिरेकौ कल्प्यते, यथा जात्याक्षेपेण व्यक्तेः प्रतीतौ न तां प्रति शब्दस्य वाचकशक्तिकल्पनोपपत्तिमती।

कथं पुनः कर्त्तुरनभिधाने प्रत्ययस्य वचनपुरुषभेदो युज्यते?

यथैव नात्मनेपदेषु।

जात्यभिधानपक्षे जातेरलिङ्गसंख्याया अपि तदाधारव्यक्त्याश्रयाणि लिङ्गवचनानि प्रवर्त्तन्ते, तथैव भावनाया अभेदेऽपि। तथा कर्त्राश्रयो वचनपुरुषभेदः प्रपत्स्यतीति।

न च कर्त्तरि लकारः स्मर्यत इति वाच्यम्, यतः ‘कर्त्तरि कृत् (३.४. ६७), ‘लः कर्मणि च भावे चाकर्मकेभ्यः’ (३.४. ६९), ‘वर्त्तमाने लट्’ (३.२. १२३), ‘लस्य (३.४. ७७, ७८) ‘तिबादयः (१.४. १०१), तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः तान्येकवचनद्विवचनबहुचान्येकशः युष्मदि XXX मध्यमः, अस्मधुत्तमः, शेषे प्रथमः (१.४. १०२—१०८), भावकर्मणोरात्मनेपदम् (१.३. १३), शेषात् कर्त्तरि परस्मैपदम् (१.३. ७८) इत्यादिवाक्‍यानां ’ द्व्‍येकयोर्द्विवचनैकवचने (१.४. २२), ‘बहुषु बहुवचनम्’ (१.४. २१) इति संख्याविधानेन सहैकार्थविषयत्वादेकवाक्‍यता व्याख्याता। एको हि पचतीत्यादिशब्दस्तैर्व्याक्रियते। तत्रैष वाक्यार्थो भवति— कर्त्तुरेकत्वे एकवचनं तिबित्यादि, कर्त्तुर्द्वित्वे द्विवचनं तसित्यादि, कर्त्तुर्बहुत्वे बहुवचनं झीत्यादि। एवं च भावनाक्षिप्त— कर्त्तृसंख्यायामेव लकारः स्मर्यते न कर्त्तरि।

उच्यते, यदि भावनाक्षिप्तकर्त्तृसंख्या लकारेणोच्यते, देवदत्तेनास्यत इति भावाभिधायिनोऽपि कर्त्तृसंख्यायामेवाभिधानं प्राप्नोति, उभयत्रापि कर्त्तृसद्भावात्। येनैव हि निमित्तेन पचतीत्यादौ कर्म संख्याभिधानमासादयति तेनैव प्रयोगान्तरेऽप्यासादयेत्। कतं च कर्त्तर्यभिधीयमाने तद्‌विशिष्टसंख्याभिधानं युक्‍तम् ?

अथ संख्यामात्रमभिधीयते न विशेषः; तर्हि पुरुषादिभेदप्रतीतेरनुपपत्तिः। तद्विशिष्टा— भिधानं च तदभिधानपुरस्सरेण न्याय्यम्, नाऽगृहीतविशेषणा विशेष्यबुद्धिर्वर्त्तत इति न्यायात् न च शब्देनासंस्पृश्‍यमानोऽपि कर्त्ता सन्निधिमात्रेण संख्यां विसेषायितुमुत्सहते, संख्याया धर्मरूपत्वाद् धर्मिणा कर्त्तुरवच्छेदकत्वेन संस्पर्शो युज्यते। करणादीनामपि सान्निध्य— धर्मित्वात् तथात्वोपपत्तेः। किञ्च लकारेणाभिहितयोर्भावनासंख्ययोरुत्तरकालो भावनाक्षिप्‍तः कर्त्ता लभ्यते। ततोऽस्य पूर्वभावाद् भावनासमकालमभिहितया संख्यया अविशेषात् सर्वकारकाणामवच्छेदः प्राप्नोति। पश्‍चाच्च कर्त्ताक्षिप्‍तः कथं भावनासमकालमभिहितां संख्यामात्मनि निरुन्ध्यात् ?

अथ संख्यावदभावनाप्रतीतिसमकालमेव कर्त्ता प्रतीयते; न तर्ह्याक्षेपलभ्यः, अपितु संख्यावल्लकारेणाभिधीयत एवेति।

किञ्च देवदत्तादिपदेन पचतीत्यादेस्सामानाधिकरण्यदर्शनात् संख्यावान् कर्त्तैव लकारेणाभिधीयते। यदि पुनः कर्त्तृस्संख्यानमेकत्वादिकं लकारो ब्रूयात् तदा देवदत्तस्य पचतीत्येवं प्रयोगः स्यात् यथा देवदत्तस्यैकत्वमिति। अथ न संख्यानमुच्यते लकारेण, किन्तु संख्येय एव देवदत्तादिरभिधीयते। देवदत्तः पचतीत्येकत्वसंख्यावच्छिन्नः पाकं करोतित्यर्थः। एवं चं संख्येयेऽभिधीयमाने कर्त्तैवाभिहितो भवति।

न च कर्त्रभिधानेऽपि शक्तेः कारकत्वात् समानाधिकरणाऽनुपपत्तिरिति वाच्यम्, शक्तिर्हि लकारेणाप्यभिधीयमाना गुणद्रव्यपरतन्त्रैवाभिधीयते। यथा—‘शुक्लः पटः, शुक्‍ला शाटी’—ति।

अपि च भवन्तोऽपि कर्म लकारवाच्यं मन्यन्ते, तदनुपपन्नम्। यथैव हि भावनाक्षेपलभ्यत्वात् कर्त्तुरवाच्यत्वं तथा कर्मणोऽपि भवितुमर्हति।

अथानाक्षेपात् कर्मणो वाच्यत्वम्। एवं च सति कर्त्तुरपि तथात्वोपपत्तिः। न हि क्रियाक्षेपे कर्तृकर्मणोर्विशेषमुपलभामहे। यथैव हि कर्त्रा विना क्रिया न प्रतीयते एवं कर्मणापि। न सर्वत्र कर्मसम्बन्ध इति चेत्, यत्राऽस्ति तत्र कथम् ? अथ कर्मणोऽपि क्रियाक्षेपलभ्यत्वात् तद्गताऽपि संख्यैवोच्यते लकारेण। कथमिदानीं कर्त्तृकर्माऽनभिधायको लकारः क्‍वचित् कर्त्तृगतां संख्यामभिधत्ते; क्‍वचित् कर्मगतामिति विशेषो भवति? न च विशेषणं नास्तीति वाच्यम्, यतः पचतीत्यत्र उल्लसितेन कर्त्तृरूपत्वेन पच्यत इत्यत्र रूपगृहीतकर्मनिष्ठत्वेन प्रतीतिरूत्पद्यते। किं च लकारणे कर्त्तृकर्मणोरनभिधाने देवदत्तः पचतीत्यनभिहिते कर्त्तरि तृतीया, ओदनः पच्यत इति कर्मणि द्वितीया प्राप्नोति।

अथैवमुच्यते कर्त्तृकर्म्मसंख्ययोरभिहितत्वान्न भविष्यतो विभक्ती। कृदन्तेषु तर्ह्यनिष्टप्राप्तिः संख्यायाः कृत्यभिधानात्। तत्र पक्‍व ओदन इति द्वितीया, पक्ता देवदत्त इति तृतीया प्राप्नोति।

ननु चोभयं विभक्‍त्यर्थः संख्या कर्म्मादयश्‍च। तत्र यथाऽऽख्यातेषु संख्याया अभिहितत्वात् कर्त्तृकर्म्मणोर्द्वितीयातृतीये न भवतः, तथा कृदन्तेषु कारकस्याऽभिहितत्वात् संख्या, संख्याया द्वितीयादयो न भविष्यन्ति।

स्यादेतत्। यद्यभिहिते प्रतिषेधः स्यात्, अनभिहिते त्वयं विधिः सामर्थ्यैकवाक्‍यताभ्यां पर्युदासाश्रयणात्। तत्र तिङ्न्तेषु संख्याभिधानेऽप्यनभिहितत्वात् कर्तृकर्मणोः कारकविभक्तिः प्राप्नोति। कृदन्तेषु कारकाभिधानेऽपि अनभिहितत्वात् संख्यायाः कारकविभक्‍तयः प्राप्नुवन्ति। अपि च ‘देवदत्तः पचन्, देवदत्तः पचमान’ इति शतृशानचोः कर्त्तरि च संख्याया अप्यनभिधानात् तृतीया न प्राप्नोति ? अथ शतृशानचोः कर्त्तृनभिधानमाश्रीयते तिडः किमपराद्धम् ? तस्यापि लादेशत्वात् शतृशानचोः कृत्त्वात्, ‘कर्त्तरि च कृत्’ (३.४. ६७) इति वचनात्; कर्त्तुरभिधानादिति चेत् कर्मणः कथमोदनं पच्यमान इति। अथ स्थानिनो लकारस्य कर्मणि विधानात् तदादेशत्वाच्च शानचः कर्माभिधानं भविष्यति। तथाहि ‘लः कर्मणि च भावे चाकर्मकेभ्यः’ (३.४. ६९) इति, ‘भावकर्मणोः’ (१.१३.१३),‘आत्मनेपदम् (१.३. १२) इति वा कर्मणि लकारो विधीयते। एवं सति यत्रापि तिङोऽपि विधीयन्ते तत्रापि कर्मणि प्राप्नोति। ततश्‍च कर्त्तर्यति केनापवार्यते ?

तत्रापि ‘कर्त्तरि कृत्’(३.४. ६७), ‘शेषात् कर्तरि परस्मैपदम्’ (१.३. ७८) इति कर्त्तरि लकारोऽपि विधीयते। तदुक्तम्—

आत्मनेपदरूपेण सर्वत्रैव हि कर्मणि।
लकारस्स्यात् तथैवायं कर्त्तर्यपि भवेन्न किम् ॥ ४ ॥

न च कर्त्तरि या कर्मणि या संख्या तत्र तिङो भवन्तीत्याश्रयितुमुचितम्। न हि ‘लः कर्मणि च भावे चाकर्मकेभ्यः’ (३.४.६९) इत्यस्य ‘द्व्येकयोर्द्विवचनैकवचने’ (१.४.२२)‘बहुषु बहुवचनम्’ (१.४.२१) इत्यनेनैकवाक्‍यत्वं विद्यते, भावेऽपि लकारस्य विधानात्। न च भावस्य साध्यत्वेन संख्यायोगोऽस्ति। नापि ‘स्वौजस’ (४.१.२) इत्यादेर्विधानस्य संख्याविभक्तिविधानेन सहैकवाक्‍यत्वम् असंख्येभ्योऽप्यव्ययेभ्यस्सुबुत्पत्तेः। आह च महावार्त्तिककारः ‘सुप्‍तिङोरविशेषविधानाद् दृष्टविप्रयोगाच्च नियमार्थं वचनम् {१.४.२१(१)} इति। महाभाष्यकारोऽप्याह— ‘सुप्‍तिङोऽविशेषेणोत्पद्यन्ते, उत्पन्नानां नियमः’ इति। तस्मान्न कर्तृकर्मसंख्यायां लकारविधिः, अपितु कर्त्तृकर्मणोरेवेत्यभ्युपगन्तव्यम्।

कथं पुनस्सर्वकारकसन्निधाने लकारेण कर्त्तृकर्मणोरेवाभिधानम् ?

उच्यते, तयोरेव प्राधान्यात्। तत्र कर्त्तुः प्राधान्यम्, करणादीनां तदधीनवृत्तित्वात् कर्मणस्तु तदर्थत्वमेव तत्प्रवृत्तेः। यदि वा कर्त्तृकर्मव्यापाराभिधायिनो धातोः पर उपजायमानो लकारः कर्त्तृकर्मणी एवाभिदधाति।

अथ कथं कर्त्तृकर्मवत् कालादिकमपि नाभिदधाति? विषयभेदात्। तथाहि षडर्थास्तिङन्तेन प्रतीयन्ते — (३.१.६७ मभा.)

१. क्रिया, २. कालः, ३. उपग्रहः, ४. कारकं, ५. पुरुषः, ६. संख्येति।

तेषु ‘क्रियाकालात्मनेपदनिमित्तानि प्रकृतिरभिधत्ते, प्रत्ययः साधनं संख्यां पुरुषं च। तत्र प्रकृत्यभिधेयेषु क्रिया प्रधानम्, कालोपग्रहौ विशेषणम्। प्रत्ययाभिधेयेषु साधनं प्रधानं, संख्यापुरुषौ विशेषणम्।

कथं पुनः संख्या कारकस्यैव विशेषणम्, न क्रियाकालोपग्रहपुरुषाणाम् ?

उच्यते, क्रियायाः साध्यत्वेनापरिनिष्पन्नत्वात् कालस्य च क्रियातोऽव्यतिरेकात्, व्यतिरेकेऽपि वा क्रियावच्छेदकत्वेनोपसर्जनत्वात्। उपग्रहस्यापि गन्धनादेः क्रियाधर्मत्वे— नाऽपरिनिष्ठितत्वे अनिदन्तानिर्देश्‍यत्वादसंबन्धः संख्यायाः। पुरुषस्तु प्रथमादिः साधनमेव, नान्यः कश्‍चित्। अतः कारकेणैव संख्याभिसंबध्यते, न क्रियादिभिरिति। तदेवं तिङ्वाच्यत्वेन कर्त्तुः कर्त्तृपदं, भावकर्त्तृपदं, कर्मकर्त्तृपदं चेति यदुक्‍तं तदुपपन्नमेवेति।

(२. कारकरूपं पदम्)

कर्त्तृपदं, कर्मपदं, करणपदं, संप्रदानपदम्, अपादानपदम् अधिकरणपदं चेति कारकरूपभेदाः। तत्र कर्त्रादयः कारकप्रस्तावेऽग्रतः प्रपञ्चयिष्यन्ते; इह तु संबन्धाविच्छेदा लेशत उदाह्रियन्ते। तेषां —

(कर्त्तृपदम्)

कर्त्ता त्रिझा १. स्वतन्त्रः २. अस्वतन्त्रः ३. कर्मकर्त्त चेति।

(१. स्वतन्त्रः) तत्र (स्वतन्त्रः) क्रियायां स्वेच्छया करणादिकारकाणि यः प्रयुङक्ते, न तु तैः प्रयुज्यते सः स्वतन्त्रः। स द्विधा १. स्वविभक्तिवाच्यः, २. परविभक्तिवाच्यश्‍चेति।

तयोः स्वविभक्तिवाच्यो यथा— (माघ. १०.२५)

मानभङ्गपटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम्। लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥ ५ ॥

परविभक्तिवाच्यो यथा—(माघ. १०.३३)

चारुता वपुरभूषयदासां तामनूननवयौवनयोगः। तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसङ्गमभूषः ॥ ६ ॥

(२. अस्वतन्त्रः) योऽन्यप्रयुक्तः क्रियासु व्याप्रियते सोऽस्वतन्त्रः। सोऽपि द्विधा— १. उद्भूतव्यापारः २. अनुद्भूतव्यापारश्‍च।

तयोरुद्भूतव्यापारो यथा—(किराता. १.३१)

गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां जनाधिपः। परैस्त्वदन्यः क इवाऽपहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥ ७ ॥

अनुद्भूतव्यापारो यथा—(किराता ९.७१)

चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदश्शशिभासः। सङ्गतं च दयितैः स्म नयन्ति प्रेम कामपि भुवं प्रमदानाम् ॥ ८ ॥

(३. कर्मकर्त्ता) कर्मकर्त्तापि द्विधैव—

१. उद्रिक्त्तकर्मांशः, २. अनुद्रिक्त्तकर्मांशश्‍च।

तयोरुद्रिक्त्तकर्मांशो यथा—

एतदुच्छ्वसितपीतमैन्दवं सोढुमक्षममिव प्रभारसम्। मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमानिबन्धनात् ॥ ९ ॥ (कुसं. ८.७०)

अनुद्रिक्तकर्मांशो यथा—(किराता. १.१८)

उदारकीर्त्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया। स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ॥ १० ॥

(कर्मपदम्)

कर्तुः क्रिययाऽनन्यार्थया यदाप्यते तत् कर्म। तदपि त्रिधा—

१. निर्वर्त्त्यम् २. विकार्यम् ३. प्राप्यं च। तेषु—

(१) निर्वर्त्यम् — ‘यदसज्जायते सद् वा जन्मना तत् प्रकाशते’ ॥ ११ ॥ (वाप. ३.७.४९) तयोः प्रथमं यथा—(काव्याद. २.२३६)

अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः। उत्पादयति लोकस्य प्रीतिं मलयमारुतः ॥ १२ ॥

द्वितीयं यथा—(माघ.१०.१५)

सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे। विभ्रमो मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ १३ ॥

(२) विकार्यमपि द्विधा प्रकृत्युच्छेदात् गुणान्तराधानाच्च।

तत्र प्रथमं यथा—(कुसं. ३.७२)

क्रोधं प्रभो! संहर संहरेति यावद् गिरः खे मरुतां चरन्ति। तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ १४ ॥

द्वितीयं यथा—(कुसं. ८.२७)

तां पुलोमतनयाऽलकोचितैः पारिजातकुसुमैः प्रसाधयन्। नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरैक्ष्यत ॥ १५ ॥

(३) प्राप्यमपि द्विधैव कथितम् अकथितं च।

तत्र यत् कृत्य—क्त—खल—र्थादिभिर—भिधीयते तत् कथितम्। यत् तैर्नाभिधीयते तदकथितम्। तयोराद्यं यथा— (किराता. ८.६)

निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्‍चलबालपल्लवा। विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टोष्ठकरावधूननम् ॥ १६ ॥

द्वितीयं यथा—(कुसं. ६.२९)

तामस्मदर्थे युष्माभिर्याचितव्यो हिमाचलः। विक्रियायै न कल्पन्ते सम्बन्धाः सदनुष्ठिताः ॥ १७ ॥

(करणपदम्)

क्रियासिद्धौ साधकतमत्वेन यदव्यवहितं व्याप्रियते तत् करणम्। तदपि त्रिधा — १. बाह्यम् २. आभ्यन्तरं ३. बाह्याभ्यन्तरं च।

(१) तेषु बाह्यं द्विधा— व्यवधायकम् अव्यवधायकं च। तयोराद्यं यथा—(कुसं. ७.१४)

धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम्।
पर्यक्षिपत् काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥ १८ ॥

द्वितीयं यथा— (रघु. ६.३)

वैदर्भनिर्दिष्टमसौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम्।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥ १९ ॥

(२) अभ्यन्तरमपि द्विधा कर्त्तुर्भिन्नमभिन्नं च।

तयोर्भिन्नं यथा—(किराता. ८.३२)

शिलाघनैर्नाकसदामुरःस्थलैर्बृहन्निवेशैश्‍च वधूपयोधरैः।
तटान्तनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वमम्भसा ॥ २० ॥

द्वितीयं यथा—(कुसं. ५.३९)

प्रयुक्‍तसत्कारविशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि।
यतस्सतां सन्नतगात्रि! सङ्गतं मनीषिभिः साप्तपदीनमुच्यते ॥ २१ ॥

(३) बाह्याभ्यन्तरमपि द्विधा बहिर्मुखम् अन्तर्मुखं च।

तयोराद्यं यथा—(माघ. ५.२)

गतया पुरः प्रतिगवाक्षमुखिं दधती रतेन भृशमुत्सुकताम्।
मुहुरन्तरालभवमस्तगिरेस्सवितुश्‍च योषिदमिमीत दृशा ॥ २२ ॥

द्वितीयं यथा—(माघ. ५.२)

बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते।
आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः ॥ २३ ॥

(संप्रदानपदम्)

क्रियाकार्यत्वेनावधारितं कर्मणा क्रियया वा संयोगं यदनुभवति तत् सम्प्रदानम्। तत् त्रिधा १. ददातिकर्मव्याप्यम्, २. कर्ममात्रव्याप्यम्, ३.क्रियाव्याप्यञ्चेति। तेषु—

(१) ददातिकर्मव्याप्यं द्विधा १. स्वत्वस्याऽनिवृत्तौ २. निवृत्तौ च तयोराद्यं यथा—(कुसं. ८.१९)

चुम्बनादलकचूर्णदूषितं शङ्करोऽपि नयनं ललाटजम्।
उच्छ्‌वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ २४ ॥

द्वितीयं यथा—(विक्रमो. ३.१४)

दातुं वा प्रभवसि मामन्यस्यै कर्त्तुमेव वा दासम्।
नाहं पुनस्तथा त्वं यथा हि मां मन्यसे भीरु ॥ २५ ॥

(२) क्रियाकर्मव्याप्यं द्विधा ददात्यर्थविषयम् अददात्यर्थविषयं च। तत्र प्रथमं यथा—(किराता. ५.२८)

श्रीमल्लताभवनमोषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि।
अस्मिन् रतिश्रमनुदश्‍च सरोजवाताः स्मर्त्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ २६ ॥

द्वितीयं यथा—(कुसं. ३.६०)

शशंस तस्मै प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम्।
प्रवेशयामास च भर्तुरेनां भ्रूक्षेपमात्रानुमतप्रवेशाम् ॥ २७ ॥

(३) क्रियाव्याप्यमपि द्विधैव, पारिभाषिकमपारिभाषिकं च।

तयोः प्रथमं यथा—(किराता. ९.३५)

न स्रजो रुरुचिरे रमणीभ्यश्‍चन्दनानि विरहे मदिरा वा।
साधनेष्वपि रतेरुपधत्ते रम्यतां प्रियसमागम एव ॥ २८ ॥

द्वितीयं यथा-(कुसं. ७.८६)

इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ।
प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥ २९ ॥

(अपादानपदम्)

तत्र कर्त्रा कर्मणा वा क्रियाजन्यमेव ध्रौव्येण यद्विभागमवगाहते तदपादानम्। तत्त्रिधा — १. निर्दिष्टविषयम् २. उपात्तविषयम् ३. अपेक्षितक्रियं चेति।

(१) तेषु निर्दिष्टविषयं द्विधा— उज्झितम् अनुज्झितं च।

तयोराद्यं यथा—(रघु. १६.४८)

स्वेदानुविद्धार्द्रनखक्षताङ्के सन्दष्ट भूयिष्ठशिख कपोले।
च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ ३० ॥

द्वितीयं यथा—(किराता. ९.११)

औषसातपभयादपलीनं वासरच्छविविरामपटीयः।
सन्निपत्य शनकैरिव निम्नादन्धकारमुदवाप समानि ॥ ३१ ॥

(२) उपात्तविषयमपि द्विधा— हेयमुपादेयं च।

तयोराद्यं यथा—(किराता. ८.७)

करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम्।
उपेयुषी कल्पलताभिशङ्कया कथं नु वित्रस्यति षट्पदावली ॥ ३२ ॥

द्वितीयं यथा—(रघु. १७.१)

अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती।
पश्‍चिमाद्‌यामिनीयामात् प्रसादमिव चेतना ॥ ३३ ॥

(३) अपेक्षितक्रियमपि द्विधैव— सामान्यापेक्षं विशेषापेक्षं च। तयोराद्यं यथा—(माघ. १०.२१)

मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता।
योषिदित्यभिललाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥ ३४ ॥

द्वितीयं यथा—

कुतो भवानध्वग! चित्रकूटाद् दृष्टस्त्वया श्रीललितस्वभावः।
किं तेन मुग्धे मदनोत्सवेऽस्मिन् कामं त्वया वेश्मनि लेखयामि ॥ ३५ ॥

(अधिकरणपदम्)

कर्त्रा कर्मणा व्यवहितं क्रियाधारोऽधिकरणम्। तत्त्रिधा—१. वैषयिकं, २. औपश्लेषिकं, ३. नैमित्तिकं च। तेषु —

(१) वैषयिकं द्विधा — द्रव्यवैषयिकं गुणवैषयिकं च। तयोराद्यं यथा— (माघ. ९.४५)

कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महती (ति)।
रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥ ३६ ॥

द्वितीयं यथा— (नीति.५२)

विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ३७ ॥

(२) औपश्लेषिकमपि द्विधा— एकदेशिकमभिव्यापकं च।

तयोराद्यं यथा— (माघ. १०.३९)

स्वर्शभाजि विशदच्छविचारौ कल्पिते मृगदूशां सुरताय।
सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥ ३८ ॥

द्वितीयं यथा—(किराता. ९.६३)

रागकान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु।
सर्वथापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥ ३९ ॥

(३) नैमित्तिकमपि द्विधैव— शुद्धं सङ्कीर्णं च।

तयोराद्यं यथा—(गास. वे. ७३४)

कडुए/कह दे धूमंधारे अब्भुत्तणमग्गिणो समप्पिहिइ।
मुहकमल—चुबणालेहडम्मि पासट्ठिए दिअरे ॥ ४० ॥

(कटुके/कथं सखि धूमान्धकारेऽभ्युत्तेजनमग्नेः समाप्स्यते।
मुखकमलचुम्बनलम्पटे पार्श्‍वस्थिते देवरे॥)

द्वितीयं यथा—

इहाधीती पूर्वे धृतधरणिभारः कमठरा— डपां नाथेनास्माद्गिरिशतशरण्येन पठिताः।
ततः प्राप्ता दूरीकृतभुवनतापैर्जलधरै— स्सतां तु स्वोपज्ञ सततमुपकारोपनिषदः ॥ ४१ ॥

(कर्त्ता)

प्रवृत्तप्रयोजकस्तु निमित्तविशेषो हेतुः कर्ता च भवति।

सोऽपि त्रिधा— १. प्रेरकः, २. अनुकूलः, ३. प्रत्यायकश्‍च।

(१) तत्र प्रेरको द्विधा— व्यवहितोऽव्यवहितश्च।

तयोर्व्यवहितो यथा— (रघु. ६.८३)

सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः।
आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ॥ ४२ ॥

अव्यवहितो यथा— (माघ. १०.१६)

सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु।
गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥ ४३ ॥

(२) अनुकूलोऽपि द्विधा— सिद्धः, साध्यश्‍च।

सिद्धो यथा—

गेहाजिरेषु नवशालिकणावपातगन्धानुभावसुभगेषु कृषीवलानाम्।
आनन्दयन्ति मुसलोल्लसनावधूतपाणिस्खलद्वलयपद्धतयो वधूट्यः ॥ ४४ ॥

साध्यो यथा—

सुण्णम्मि गिरिग्गामे वणमहिस—विसाण—भग्ग—वइ—वेढे।
गहवइ—धूआ दंसण—मणोरहा/हरा मं पसाएई ॥ ४५ ॥

(शून्ये गिरिग्रामे वनमहिषविषाणभग्‍नवृतिवेष्टे।
गृहपतिदुहिता दर्शनमनोरथा/हरा मां प्रसादयति॥)

(३) प्रत्यायको द्विधा— अदृष्टप्रयोज्यक्रियो, दृष्टप्रयोज्यक्रियश्च। तयोः कंसं घातयति, पुष्येण चन्द्रं योजयतीत्यादिरदृष्टप्रयोज्यक्रियः।

स यथा —

शैलैर्बन्धयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिं
व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते।
वागर्थौ च तुलाधृताविव तथाप्यस्मत्प्रबन्धानयं
लोको दूषयितुं प्रसारितमुखस्तुभ्यं प्रतिष्ठे! नमः ॥ ४६ ॥

आरात्रि विवासमाचष्टे रात्रीर्विवासयति, माहिष्मत्यां सूर्यमुद्गमयति, इत्यादिर्दृष्ट— प्रयोज्यक्रियः। स यथा—(माघ. ११.५)

विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ् जीवितेशोऽवकाशम्।
रतिपरिचयनश्यन्नैद्रतन्द्रः कथञ्चिद् गमयति शयनीये शर्वरीं किं करोतु ॥ ४७ ॥

कथं पुनः कंसं घातयति कथकः, बलिं बन्धयति गाथक इत्यादौ प्रयोजकव्यापारेण णिजुत्पत्तिः? उच्यते—

शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान्।
प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते ॥ ४८ ॥

(वाप. ३.७.५) तेषां चोत्पत्तिप्रभृति आविनाशात् समृद्धिमाचक्षाणः परानपि तथैव प्रत्याययति। तथा हि वक्तारो भवन्ति ‘गच्छ हन्यते कंसः, किं गतेन हतः कंस’ इति। एवं रात्रिं विवासयतीत्यादावपि तथा प्रत्यायनमवगन्तव्यम्। अयं च सूत्रानारम्भपक्षे न्यायः। सूत्रारम्भपक्षे तु आख्यानात् कृतस्तदाचष्टे कृल्लुक् प्रकृतिप्रत्यापतिः प्रकृतिवच्च कारकम् इत्युदाहृतं पुरस्तात्।

अथायं णिजर्थो धात्वर्थत्वेनावच्छिद्यमानः किं साक्षादवच्छिद्यते? एवं भवितुमर्हति; न ह्यन्यदिहोपलभ्यते। तदनुपपन्नम्। क्रिययोः साध्यत्वेन स्वसाधनापेक्षया परस्परेण सम्बन्धः। अस्तु तर्हि कर्तुर्व्यवधानेन। अयुक्तं चैतत्। धात्वर्थो हि कर्तृव्यापाररूपः, सोऽनुपलभ्यमानमपि कर्तारमाक्षिप्य तद्‍द्वारेण प्रत्ययार्थं विशेषयति।

न चैवं सति प्रेरणानर्थक्यं, यतो विच्छेदमाशङ्कमानः क्रियायां प्रवृत्तमपि प्रेरयति। यत्राप्यप्रवृत्त एव प्रवर्त्यते तत्रापि योग्यत्वाद्व‍ुद्धिस्थं क्रियासम्बन्धं गृहीत्वा प्रयुङ्क्ते। बुद्धिनिबन्धनोऽपि क्रियाकर्त्रोस्सम्बन्ध उपपद्यते। तदाप्याख्यानात् कृतस्तदाचष्ट इत्याद्युपसंख्यानं ‘न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम्’ इति बुद्धिनिबन्धनत्वेनैव प्रत्याख्यातम्। तदा च बुद्धिकंसो बुद्धिवासुदेवेन हन्यत इत्येवंभूतबुद्धिविषयं प्रयोजकव्यापारमाश्रित्य पुनर्बौद्ध एव प्रयोजकव्यापारोऽङ्गीकृतः। अथोऽर्थाक्षिप्तकर्तृसङ्गताया धात्वभिहितायाः क्रियायाः प्रत्ययार्थत्वेन प्रेरणादिना सम्बन्ध इति। अत एव प्रवृत्तोऽपि प्रेष्यमाणे लोडादिप्रत्ययोत्पत्तेः कर्तृत्वस्यापायात्। ननु कथमप्रवृत्तबाह्ययोगः कर्तृत्वमुपेयात्। प्रैषसाध्यं च कर्तृत्वं कथं नाम ततः प्रागेव भवेत् ? उच्यते; नेदं बाह्यप्रयोगप्रवृत्त्यधीनं कर्तृत्वमभिधीयते। क्रियायां तु सम्बध्यमानत्वेन विवक्षितायां तत्साध्यतानान्तरीयकः सामर्थ्यप्रापितसन्निधानः कर्ता स्थित एव प्रयोजकव्यापारेण बाह्यप्रयोगसिद्ध्यर्थमेव विषयीक्रियते। अन्यथा प्रयोजकव्यापारापेक्षकर्तृत्वे प्रयोजकोत्तरकालमेवास्य कर्तृत्वं भवेदिति न संप्रति कर्तृत्वाभावे तन्निबन्धनो लोडादिरुपपद्यते। तस्मात्पचतीत्यादिना यः पचति स पाकं प्रति प्रवर्तयत्विति कथितं भवति। क्रियासामर्थ्यादेनं निर्ज्ञातं कर्तारं प्रैष्यतया— भिधेयभावेन लकारोऽभिनिविशते। तथा हि— सोऽयं पाकादिधात्वर्थसामर्थ्यादवगतः कर्ता साधनत्वार्थस्य बाह्यप्रयोगसंपत्त्यर्थप्रेषणादिव्यापारविषयीकृतः प्रत्ययेनाभिधीयत इत्यामनन्ति।

भवतु नाम क्रियाप्रापितसन्निधानः कर्ता। स तु नियत एव पुरुषः कथं ज्ञायते, येनैवमुच्यते यस्त्वं पचसि स पाकं प्रवर्तयेति। अत एव भाष्ये सक्रियस्य कर्तुः प्रयोगे णिचमभिधाय द्रव्यमात्रस्य प्रयोगे लोट उत्पत्तिरभिहिता—पृच्छतु मा भवान्, अनुयुङ्क्तां मा भवान् इति। उच्यते द्रव्यमात्रमपि प्रेष्यमाणं क्रियासाधनयोग्यमेव प्रेष्यते, न काष्ठकुड्यादि। नन्वेवं णिचो लोटश्‍च विषयसङ्कर प्राप्‍नोति? नास्ति सङ्करः; यस्यावगतमसकृत् प्रमाणान्तरेण क्रियाकर्तृत्वमसावेव सम्भावितक्रियो णिज्विषयः। अदृष्टक्रियासामर्थ्यं तु योग्यमेव द्रव्यमात्रं लोड्‍‌विषय इति। तेन पचेत्ययमर्थः यस्त्वं पचसि पाकार्हः पाके शक्तः स त्वं प्रवर्तय पाकमिति। एवं च क्रियाकर्तृत्वेन योग्यतया ज्ञायमानस्य प्रयोगे प्रवर्त्यमानत्वात् कर्तुरेवाधिकार इत्युक्तं भवति। किं च ‘विद्वच्छूराभिजातकर्तृके राज्ये भवानधिकृत’ इत्यादिवचनभङ्गिभिरयमेवार्थस्समर्थ्यते।

यदि तर्हि न कर्ताधिक्रियते नायं मतिमान् विशिष्टमेव पुरुषमेवंप्रकारेऽ— धिकारेऽनुरुन्धीत यमेव कञ्चित्पुरुषमुपाददीत।

अथवा एते लोडादिविषयाः प्रैषादिविषयाः। ते कस्य धर्मभूताः, तत्रैव ते वर्णयन्ति ‘प्रयोक्‍तुः (इति)’; प्रयोक्ता हि प्रेषणादिभिरभिमतसिद्धयेऽभिलाषात् पुरुषं प्रवर्तयति; स च क्‍वचित् प्रेषयन्, क्‍वचिदध्येषयन्, क्‍वचिदामन्त्रयमाण इति शब्दस्यैते व्यापारा इत्यपरे।

प्रेषणा हि सर्वविध्यादिसाधारणरूपा। सा च शब्दव्यापारः, निमन्त्रणादयस्तु प्रमाणादिनिबन्धनास्तद्विशेषाः। तथा हि — इदं निमन्त्रणं, इयमनुज्ञा, अयं प्राप्तकाल इति प्रकरणादेरवगम्यते।

अन्यन्मतं प्रयोज्यव्यापारविशेषाः; ते चासंविदिताः; स तु पुरुषो लिङादिप्रयोगाद् भोजनादिक्रियासु निमन्त्रणाद्यवस्थान्तरमात्मानं मन्यते निमन्त्रितोऽहमध्येषितोऽहमिति।

अन्ये त्वाहुः — विधिरेक एवार्थः प्रत्ययस्य। स च यजेतेत्यादेर्यथारूपोऽवगम्यते तथारूप एव। कटं कुरु; इह करोत्यर्थात्मके विधिवद्धात्वर्थानुयायिनीति कारकाणामभि— संबन्धः। यतः करोत्यर्थात्मकव्यापारेण कारकाणां विशेष उपजायमान उपलभ्यते; कुर्वन् हि कारको भवति।

अन्ये त्वाहुः — योऽयं पाकादिको विशेष इतरेतरवैलक्षण्येनोपलभ्यमानः प्रतिनियतफलजनकः, यत्रैव फलसाधकत्वात् करणानि प्रवर्तन्ते तस्यैव तु व्यापारात्मकत्वात् क्रियारूपतापि संपन्नैवेति।

अपरमतं — तन्न विवेक्‍तुं शक्यम् इह कारकाणि व्याप्रियन्ते, न व्याप्रियन्त इति, उभयात्मके वस्तुनि विशिष्टोपाधिरूपस्य अनिर्धारितत्वादेकत्रापि प्रवृत्तिमुपयत् कारकमितरत्रापि प्रवृत्तमिवोपलभ्यते।

अथापरे ब्रुवते उभयात्मकमेव हि क्रियारूपं वस्तु कारकैस्संपद्यते। अत एव ‘कारकाणां प्रवृत्तिविशेषः क्रिया’ इत्येतद्भावनापक्षेऽपि सङ्गच्छते, न चास्माभिस्सकलधात्वर्थानुयायि— करोत्यर्थरूपा भावना अङ्गीक्रियते, यदित्थमध्यगीषत कृभ्वस्तयः क्रियासामान्यवचनाः, क्रियाविशेषवचनाः पच्यादय इति। किंतु प्रत्ययवाच्यत्वमस्या अनुकृष्यते।

ननु च भावनापक्षें कारकाणामिति बहुवचनानुपपत्तिः, कर्तुरेव हि व्यापारो भावना, न कारकाणामुच्यते। कर्तैव कारकशब्देनोक्तः, न पुनरितरकरणादि। कर्तॄणां तु क्रियाभेदेन बहुवचनम्।

कथं पुनरिदं ज्ञायते ? यतो भुजिक्रियामूरीकृत्येदमभिधत्ते। अन्यथा कारकाणि शुष्कौदने प्रवर्तन्ते अन्यथा मांसौदन इति कर्तैव शुष्कौदने मन्दप्रस्थानेन प्रवर्तते, मांसौदने संरम्भेणातः कर्तुर्मन्दतासंरम्भप्रदर्शनं ज्ञायते। कर्तैव परिग्रहीता, यस्य बुद्ध्यनुषङ्गात् तथाप्रवृत्तिः।

ननु च शुष्कौदनमांसौदनयोः करणाधिकरणादीनामपि तद्भेदनिमित्तं बहुवचनं भविष्यति।

नैवम्; विद्यमानमपि कारकान्तरं कांस्यपात्रादिशुष्कमांसौदनयोर्मन्दनया संरम्भेण वा प्रवर्तते। यदापि सकलकारकव्यापारः क्रियेति पक्षस्तदापि प्रधानत्वात् कर्तैव कारकशब्देनोच्यते, तस्य च सर्वक्रियाविशेषविषयत्वेनानपायात् प्रयोगप्रवृत्तिहेतुत्वाच्च। कर्म पुनः यद्यपि तदर्थत्वात् प्रवृत्तेः प्रधानं तथापि तस्यासर्वविषयत्वान्न कारकाणामिति बहुवचनेन सङ्ग्रहः। यद्येवं कर्तृशब्द एव कस्मान्न कृतः? कर्मणि लकाराणां तस्य व्युदासो मा भूत्। तेन यत्र संभवति कर्म तत्राङ्गीकृतमेव तु तदपेक्षया बहुवचनम्।

ननु च संरम्भादिप्रदर्शनादचेतनव्यापारस्य क्रियात्वं न प्राप्‍नोति।

नैवम्; संरम्भादेः कर्तृविलभणत्वात्। अतः कर्तृव्यापारः क्रियेति सिद्धम्। नन्वेवं सति भाष्यं न संगच्छते ‘कः पचेः प्रधानार्थः, याऽसौ तण्डुलानां विक्लित्तिः’ इति। आर्थं प्राधान्यमाश्रित्य तद्भाष्यमित्यविरोधः। यत्तदर्थः ‘प्रेषणं, अध्येषणं वा स सर्वः पच्यर्थ’ इति। एवं च पचतीत्याख्यातस्य विक्लित्त्युपसर्जनं विक्लेदनमर्थो भवति।

अन्ये तु कारकाणामिति बहुवचनं सर्वकारकव्यापारत्वेन व्याचक्षते, यस्मात्सर्व— कारकव्यापाराभिधायित्वं धातूनां दृश्यते। तथा च देवदत्तस्य काष्ठैस्स्थाल्यामोदनस्य च पाचकः इत्यादौ सर्वाण्येव कारकाणि धात्वर्थस्य विशेषणम्; नात्र कस्यचिदुणभावः प्रधानभावो वा अवगम्यते।

आख्यातास्तर्हि सर्वकारकव्यापाराः किमिति नावगम्यन्ते? प्राधान्यात्कर्तृकर्मणोरेव लकारोत्पत्तेः तद्व्याव्यापार एवाख्यातात्प्रतीयते।

किं पुनस्सर्वेषां कारकाणामेका प्रवृत्तिः? आहोस्वित् प्रतिकारकं भिन्नाः प्रवृत्तयः क्रियेति। न तावदाद्यः पक्षः, सर्वेषामेकस्याः प्रवृत्तेरसंभवात्। न हि यैव काष्ठानां प्रवृत्तिस्सैव देवदत्तस्य स्थाल्यादेश्‍च संभवति, तस्मात्प्रतिकारकं भिन्नाः प्रवृत्तयो धातुना युगपदभिधीयमानाः क्रियेत्युच्यन्ते।

अथवा पुनरस्त्वेकैका सर्वकारकाणां प्रवृत्तिः क्रिया। तथा हि सर्वैरेव कारकैरेका प्रवृत्तिरुपजन्यते सर्वाण्येव हि फलजननाय प्रवर्तन्ते। किञ्चित्तु केनचिद्रूपेण जनयतीत्यवान्तर— भेदात्करणादिव्यपदेशः, एकश्‍चानेकत्र वृत्तिर्जातिवदुपपद्यते। विशेषाद्‍वास्याः फलजननरूपत्वं, न पुनरधिश्रणादिरूपतेति।

(३. उपस्काररूपं पदम्)

विशेषणादिरूपं निपातादिरूपं, आख्यातादिरूपं, संबोधनादिरूपं, हेत्वादिरूपं चेत्युपस्काररूपा। एते चाग्रत उपस्कारार्थप्रस्तावे प्रपञ्चतो वर्णयिष्यन्त इति नेह प्रतन्यन्ते (द्र. पृ. २६५)। संबन्धाविच्छेदार्थं तु लेशत उदाह्रियन्ते। तत्र —

विशेषणादयः क्रियाविशेषणं, कारकविशेषणं, उपसर्गश्‍च; यथा— साधु पचति, भीष्ममुदारं दर्शनीयं कटं करोति, एहि मन्ये रथेन यास्यतीति।

निपाताः कर्मप्रवचनीयाः अव्ययानि च, यथा— अहं च त्वं च वृत्रहन्, असांप्रतं जेतुमित्यादयः।

आख्यातानि कृतस्तद्धिताश्‍च, यथा— स्मरसि देवदत्त कश्‍मीरेषु वत्स्यामः, रैपोषं पुष्यति, ब्राह्मणवद् ब्रवीति।

सम्बोधनादयः आमन्त्रणमवधिभावो लिङ्गं च, यथा— हे देवदत्त, भुक्ता व्रजतीति, स इति। संबन्धादयश्‍शेष इति, उपपदम्, सहार्थश्‍च, यथा— राज्ञः, पुरुषः, कुशलं देवदत्तायेति, पुत्रेण सहायात इति।

हेत्वादयो हेतुर्लक्षणं तादर्थ्यं च, यथा— विद्यया यशः, कमण्डलुना छात्रः, यूपाय दार्विति।

कथं पुनरयं हेतुः कारकाद् विशिष्यते ?

द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् ॥ ४९ ॥ (वाप. ३.७. २५)

यथा— बीजेन सस्यं, तपसा कृशः, अन्नेन वसति, व्रतेन ब्राह्मण्यम्। कारकं यथा— देवदत्तः श्रद्धया तीर्थे हेमशतं निष्कं ब्राह्मणाय ददाति। यद्येवं द्रव्यादिविषयत्वेन सहार्थत्वाद् हेतोरभेदः प्राप्‍नोति।

सहार्थोऽपि द्रव्यादिविषयत्वेन क्रियायामनियत एव भवति। यथा— पुत्रेण सह गोमान्, पुत्रेण सह स्थूलः, पुत्रेण सहागच्छति, पुत्रेण सह ब्राह्मण इति।

नैवम्; न हि सहार्थस्य द्रव्यादीन् प्रति निव(र्व)र्तनभावश्‍शब्देनोच्यते। हेतोः पुनराश्रितव्यापारस्यापि तृतीयादिभिः सोऽपि विधीयत इति क्रियाविषयः करणात्कथं भिद्यत इति चेत्,

क्रियायै करणं तस्य दृष्टः प्रतिनिधिस्तथा।
हेत्वर्थोऽपि क्रियाहेतुर्न च प्रतिनिधीयते ॥ ५० ॥

(वाप. ३. ७. २६) तर्हि तादर्थ्यादभेदः।

किमिदं तादर्थ्यं नाम ?

कार्यस्य कारणं प्रति प्रयोजकत्वं तादर्थ्यम्; विशिष्टः कार्यकारणभाव इति यावत्। यद्धि यदर्थं तन्नियोगतस्तस्य कारणं यथा अङ्गुलीयाय कनकमिति।

कथं तर्हि हेतोर्न भिद्यते ?

यतः कारणस्य कार्यप्रसवयोग्यता हेतुत्वम्; कार्यस्य कारणं प्रति प्रयोजकत्वं तादर्थ्यमिति। अयं च विशेषः कार्यवाचिन एव तादर्थ्ये चतुर्थी कार्यवाचिनो निमित्तवाचिनश्‍च हेतोस्तु तृतीयेति।

यद्येवं हेतुलक्षणयोर्हेतुलक्षणा तृतीया कनकात् प्राप्‍नोति।

न च तादर्थ्यचतुर्थ्या बाध्यते, विषयभेदात्; कार्यवाचिनो हि तृतीया, चतुर्थी कारणवाचिन इति।

कथं च संबन्धे विधीयमाना चतुर्थी कार्यशब्दादेव, न कारणशब्दात्।

अपि च भिन्नाधिकरणत्वात् संबन्धस्य, यथा राज्ञः पुरुष इति द्विष्ठमपि संबन्धं राजशब्दादुत्पद्यमाना षष्ठी उपाधत्ते। तथा कार्योपजनित— व्यतिरेकादुत्पद्यमाना चतुर्थ्युभयमपि संबन्धमुपाधास्यते इति।

नैवम्; तस्मै तदर्थमिति सर्वनाम्‍ना योऽर्थः प्रतिपद्यते स एव स्वकारणापेक्षया प्रापितव्यतिरेकश्‍चतुर्थ्या संबध्यते। यथा— यदर्थमस्य मन्त्रः तदनेनाधिगतमिति सर्वनामार्थ एव कार्ययोगी, तथेहापि तच्छब्दोपात्त एवार्थः प्रयोजनतया विपरिणतः; तदर्थं शब्दो नाभिधीयते।

भावप्रत्ययान्तोऽप्यसौ कार्यगतमेव रूपं विशेषेणाचष्टे, कार्यस्य कारणं प्रति प्रयोजकत्वं तादर्थ्यमिति। तत्कथं कारकस्य तादर्थ्यविभक्तिराशङ्क्येत ? कार्यस्थयाऽपि चतुर्थ्योभयगतस्यापि संबन्धस्यावगतत्वात् अव्यतिरिक्तप्रतिपदिकार्थाभिन्नः कारणशब्दाद् भवति, न तु व्यतिरेकलक्षणा तृतीयेति। अयं च हेतुतादर्थ्ययोर्विशेषः।

प्रातिलोम्यानुलोम्याभ्यां हेतुरर्थस्य साधकः।
तादर्थ्यमानुलोम्येन हेतुत्वानुगतं तु तत् ॥ ५१ ॥

(वाप. ३.७. २७) वासेनाधीते, अध्ययनेन वसतीति, या च यूपाय दारु, अध्ययनाय वसतीति। यस्तु मन्यते तदर्थता तदर्थता तद्विषयस्य पारर्थ्यरूपा, कार्यप्रसवयोग्यता हेतुः, अनन्यार्थस्य तादर्थ्यम्, तस्य तद्विषयस्येति अनन्यार्थस्येति विशेषणद्वयमपार्थम्, उभयत्राविशेषात्। यदि तावदर्थस्यानन्यार्थता तादर्थ्यम् तदसत्। कनकस्य वलयादावपि सामर्थ्यं, सङ्घातात्। अथोक्तिधर्मेण, तद्धेतावपि समानम्। न हि विद्याया यशोहेतुतां मुक्‍त्वा कार्यान्तरयोग्यतां ब्रुते। पारार्थ्यरूपेत्यपि न वचनीयं, कार्यप्रसवयोग्यतेत्यनेनैव गतार्थत्वात्। ननु च नटस्य श्रृणोतीत्यादै कार्यप्रसवयोग्यस्यापि नटादेः पारार्थ्येन विवक्षायां मा भुद्धेतुत्वमिति विशेषणं क्रियते। नैवम्; यथा उपाध्यायादधीत इति उपाध्यायादेः परार्थत्वेन कारकत्वं, प्रयोजकत्वमेव च तादर्थ्यमिति।

अथ लक्षणस्य का वार्ता ? लक्षणमपि तादर्थ्यवद्धेतुविशेष एव। सिद्धो हि हेतुः कारको ज्ञापकश्‍च। तत्र कारकस्य स्वव्यापारानाश्रयणे हेतुरित्याख्या, ज्ञापकस्य लक्षणमिति; पदार्थान्तरपरिच्छेदहेतुता हि लक्षणार्थः। तदुक्तम्—

अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते।
आश्रयावधिभावं तु लक्षणे लक्षणं विदुः ॥ ५२ ॥

(वाप. ३. ७. २४) क्‍वचित्तु हेतुरपि लक्षणं भवति; यथा ‘शाकल्यस्य संहितामनु प्रावर्षत्, अनडुद्‌यज्ञमन्वसिञ्चत्, प्रजाः पर्जन्य इति। एतेन वृक्षं प्रति विद्योतते (विद्युद्) इति द्रव्यलक्षणम्, जटाभिस्तापस इति इत्थंभूतलक्षणम्, अक्ष्णा काण इति विकारलक्षणं, वाताय कपिला विद्युदित्युत्पातलक्षणं, गोषु दुह्यमानासु गत इति भावलक्षणं, पचन्नास्त इति क्रियालक्षणं च व्याख्यातमिति।

(१०. वाक्‍यम्)

एकार्थपरः पदसमूहो वाक्‍यम्। तत् त्रिधा—

१. संस्कृतम्,

२. प्राकृतम्,

३. अपभ्रंशश्‍च। तत्र—

(१. संस्कृतम्)

संस्कृतं श्रौतम्, आर्षं, लौकिकं च। तेषु —

श्रौतं द्विधा मन्त्रब्राह्मणभेदात्। तत्र —

मन्त्रो यथा— (तैआ. १०.१. ७)

तदेवाग्‍निस्तद् वायुस्तत् सूर्यस्तदु चन्द्रमाः।
तदेव शुक्रममृतं तदापस्स प्रजापतिः ॥ ५३ ॥ तद् ब्रह्म।

ब्राह्मणं यथा— (बृउ. ४.३.३३)

शं यो मनुष्याणां रागद्वः समृद्धो भवति। तत्रान्येषामधिपतिः सर्वेषां

मनुष्यकैः कामैस्संपन्नतमः। स मनुष्याणां परम आनन्दः।

आर्षं द्विधा स्मृतिः पुराणं च। तयोः

स्मृतिर्यथा— (मनु. ३.१३)

शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते।
ते च स्वा चैव राज्ञस्तु ताश्‍च स्वा चाग्रजन्मनः ॥ ५४ ॥

पुराणं यथा— (वायुपु. ६७.६५)

हिरण्यकशिपुर्दैत्यो यां यां साचि व्युदैक्षत।
भय भ्रान्तैस्तुरैश्‍चक्रे तस्यै तस्यै दिशे नमः ॥ ५५ ॥

लौकिकं द्विविधं काव्यं शास्त्रं च।

तयोः काव्यं यथा—

कस्य नो कुरुते मुग्धे!पिपासाकुलितं मनः।
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ॥ ५६ ॥

शास्त्रं यथा—

प्रकामधवलं यस्याश्‍चक्षुः पर्यन्तपक्ष्मलम्।
नवनीतोपमं तस्या भवति स्मरमन्दिरम् ॥ ५७ ॥

(२. प्राकृतम्)

प्राकृतं त्रिधा सहजं, लक्षितं श्‍लिष्टं च। तेषु—

सहजं द्विधा संस्कृतसमं देश्‍यं च। तयोः —

संस्कृतसमं यथा— (मामा. ६. १०)

सरले! साहसरागं परिहर रम्भोरु! मुञ्च संरम्भम्।
विरसं विरहायासं वोढुं तव चित्तमसहं मे ॥ ५८ ॥

देश्‍यं यथा— (असाध्यसंस्कृता गाथा)

विप्प अपि आपु आणुणाहं षडरसमं परिहसन्तेई।
वासअर विणडिओ विसं ललंस्व णावेसि ॥ ५९ ॥

लक्षितं द्विधा महाराष्ट्रं शौरसेनं च। तयोः—

महाराष्ट्रं यथा— (सेब. १.१)

णमह अवङढिअतुंगं अवसारिअवित्थअं अणोणअगहिरं। अप्पलहुअपरिसण्हं अणाअपरमत्थअडं महुमहणं ॥ ६० ॥

(नमत अवर्धिततुङ्गमप्रसारितविस्मृतमनवनतगभीरम्। अप्रलघुकुपरिश्‍लक्ष्णमज्ञातपरमार्थप्रकटं मधुमथनम् ॥)

शौरसेनं यथा— . . . . . . . .

श्‍लिष्टं द्विधा पैशाचं मागधं च। तयोः पैशाचं (बृहत्कथामङ्गलम्) यथा—

पनमथ पनय—पकुप्पित—को/गोली—चलनग्ग—लग्ग—पतिबिंबं।
तससु नख—तप्पनेसुं एकातस तनु—थलं लुद्दं/रुत्तं ॥ ६१ ॥

(प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्‍नप्रतिबिम्बम्।
दशसु नखदर्पणेषु एकादशतनुधरं रुद्रम् ॥)

मागधं यथा—(वेसं. ३.१.)

हद-माणुश-मंश—भोअणे कुंभ—शहश्शं वशाहिं शंचिदे।
अणिशं अ पिबामि शोणिदं वलिशशदं शमले हुवीअदु ॥ ६२ ॥

(हतमानुषमांसभोजनं कुम्भसहस्त्रं वसाभिः सञ्चितम्।
अनिशं च पिबामि शोणितं वर्षशतं समरो भवतु ॥)

(३. अपभ्रंशः)

अपभ्रंशस्‍त्रिधा उत्तमो, मध्यमः कनिष्ठश्‍च।

(उत्तमः) तेष्वावन्त्यलाटीयादिरुत्तमः। तत्र—

आवन्त्यो यथा—

एकदु असलोणी अल आहरणसुसंठी अच्छि उपलंपटं वीवउकहिंमलं भट्टएवटपि अमइए।
उणजाणिउं विरहातुरणुजूरि अएमज्झ हरोदावणुदिण्णुवहिणे विण्णूरि अ ए ॥

लाटीयो यथा—

हिरउ हरन्त हो चोरहोए भुजिदंहुहले जप्पिउपणव्व सच्छिले विलोइ अउगणे।

एहु पुणु पिणघणत्थणि संघट्टउ क्‍कपणु जं चन्दाणणे दिज्जइ अहरहो दन्तपणा/वणु ॥

(हृदयं हरतश्‍चौरस्यैष एव दण्डो हले, यत् प्रिय एणशावाक्षि गृहीत्वा लागितो गले।

एष पुनः पीनघनस्तने संघट्टः को यच्‍चन्द्रानने दीयतेऽधराय दन्तव्रणः ॥)

(मध्यमः) आभीरगौर्जरादिः मध्यमः। तयोः —

आभीरो यथा—(द्र. ८. २८)

लवियप्फउ वीउदुद्वडाकउ हहाण एच्छासि।
पुत्तहोमत्थजिभु जळदहिडां उजं मे पि जवि आआसि ॥ ६५ ॥

१. इमामारभ्य सप्त गाथा HOS-53 ग्रन्थे अन्यथैव मुद्रिताः। कुलकर्णिपाठस्तु दीयते। गौर्जरो यथा—(द्र. ८.७)

अव अख्खो ञ्ची समुद्रुतरि सिलदुहि गरुकाणि।
मन्दो हि ए पिलहि अउअ जंपरुच्‍चइते व आणि ॥ ६६ ॥

काश्‍मीरपौरस्त्यादिः कनिष्ठः। तयोः काश्‍मीरो यथा—(द्र. सक. पृ. ६९२)

कंवलि आल ए कं ते कुदुच्छलदन्तहि विठि सुद्धि एमं इवि आलसीलति।

सव अंगापिदुसरासहि खवाचि दुं फलिनन्तेकी आआसण अदसि ॥

पौरस्त्यो यथा—

महणाहि अकुटुंबि सामइंदीहिरेरभाउ जपिहुरि।
विण्णउजान्तां वव्‍इरिवामेक्‍केरेधूजे वासां हावाथि ॥
आंखीजणुकणांसहुंकाजाथितेहाथेंचित उदूकराए।
वल आच्छइणी जीव उपाथरुस अणइ भवणहिं वाच्छरं ॥ ६८ ॥

(वाक्‍यमेकादशधा)

तदेतत् समस्तमपि वाक्‍यजातमाख्यातोपाधेः एकादशप्रकारं विप्रथते। तद्यथा— एकाख्यातमनेकाख्यातमावृत्ताख्यातमनुवृत्ताख्यातं विपरिणताख्यातमेकार्थाख्यातं समुच्चिताख्यातं कृदभिहिताख्यातमपेक्षिताख्यातमेकान्तराख्यातं निरन्तराख्यातमिति। तेषु

(1) एकाख्यातं यथा— वागर्थाविव (रघु.१.१) (पृ. ४९९)

(२) अनेकाख्यातं यथा—

यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा ॥ ७० ॥

(३) आवृत्ताख्यातं यथा—

जयत्यमलकौस्तुभस्तबकितांसपीठो हरि— र्जयन्ति मृगलोचनाश्‍चलदपाङ्गदृष्टिक्रमाः।
ततो जयति मल्लिका तदनु सर्वसंवेदना— विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः ॥

(४) अनुवृत्ताख्यातं यथा—

चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः।
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्‍च ते ॥ ७२ ॥

(५) विपरिणताख्यातं यथा—

सोऽस्मिञ्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः।
ते च चैत्रे विकीर्णैलातक्‍कोलीकेलयोऽनिलाः ॥ ७३ ॥

(६) एकार्थाख्यातं यथा—(रघु. १. ५४)

तामवातारयत् पत्‍नीं रथादवततार च ॥ ७४ ॥

(७) कृदभिहिताख्यातं यथा— (महा. द्रोण. १८४. ८६)

ततः कुमुदनाथेन कामिनीगण्डपाण्डुना।
नेत्रानन्देन चन्द्रेण माहेन्दी दिगलङ्कृता ॥ ७५ ॥

(८) अध्याहृताख्यातं यथा—

यश्‍च निम्बं परशुना यश्‍चैनं मधुसर्पिषा।
यश्‍चैनं गन्धमाल्याभ्यां सर्वत्र कटुरेव सः ॥ ७६ ॥

(९) अनपेक्षिताख्यातं यथा—

कियन्मात्रं जलं विप्र!जानुदघ्‍नं जनाधिप !।
तथापीयमवस्था ते न हि सर्वे भवादृशाः ॥ ७७ ॥

(१०) एकान्तराख्यातं यथा— (भट्टि. १३. २७)

तेनेऽद्रिबन्धो ववृधे पयोधिस्तुतोष रामो मुमुदे कपीन्द्रः।
तत्रास शत्रुर्ददृशे सुवेलः प्रापे जलान्तो जहृषुः प्लवङ्गाः ॥ ७८ ॥

(११) निरन्तराख्यातं यथा— (भट्टि. १३. २८)

भ्रेमुर्ववल्गुः ननृतुर्जहर्षुर्जगुस्समुत्पुप्लुविरे निषेदुः।
आस्फोटयांचक्रुरभिप्रणेदू रेजुर्ननन्दुविययुस्ममीयुः ॥ ७९ ॥

ननु च निरन्तराख्यातं समुच्‍चिताख्यातमेकार्थाख्यातमावृत्ताख्यातमित्यादयो वाक्‍यविकल्पा नोपपद्यन्ते; वाक्‍यकारो हि मन्यते नास्त्येव तिङन्तयोस्संबन्धः; तथा च ‘तिङ्ङतिडः’ (८.१.२८) इत्यत्र ‘अतिङ्वचनमनर्थक समानवाक्‍याधिकाराद्’ {८.१. २८(१)} इत्यतिङ्वचनं प्रत्याचष्टे। न ह्येकत्र वाक्‍ये द्वे तिङन्ते स्त इति। एवं वाक्‍यलक्षणं करोति— आख्यातं साव्ययकारकविशेषणं वाक्‍यम्। तत्राख्यातग्रहणं न कर्तव्यम्; न ह्यव्ययकारकविशेषणपदानि निबन्धनमन्तरेणावतिष्ठन्ते। आख्यातमेवैषां निबन्धनमिति लब्धे, व्याख्याने पुनराख्यातग्रहणं आश्रितसङ्ख्याख्यातपदपरिग्रहर्थम्, यत्रैकमाख्यातपदमव्ययकारकविशेषणपदानि सन्निपन्‍ति, तद्‌वाक्‍यं यथा स्यात्। अनेकाख्यातपदप्रयोगे तु वाक्‍यसंज्ञा मा भूदित्यनाश्रितसङ्ख्यातपदाशङ्कानिरासार्थम् ‘एकतिङ् वाक्‍यम्’ इति वचनान्तरमारभते।

तत्रेदं विचार्यते— किमेकास्मिन् वाक्‍ये द्वयोस्तिङन्तयोस्संबन्ध एव नास्ति, उत सत्यपि संबन्धे द्वितीयं न प्रयुज्यते एकतिङ् वाक्‍यमिति पूर्वाचार्यसमयादनु किञ्चिदाह — सत्यपि तिङन्तयोस्संबन्धे तिङन्तामन्त्रितनिघातयुष्मदस्मदादेशप्लुतादिकार्यव्यवस्थार्थ— मेकतिङ्वाक्‍यमिति पारिभाषिकमेव वाक्‍यलक्षणं क्रियते।

किं कारणम् ?

समानवाक्‍यार्थात् पदादुत्तरयोस्तिङामन्त्रितयोर्निघातस्स्मर्यते। युष्मदस्मदोः वांनावादय (८.१. २०) आदेशा विधीयन्ते। ‘वाक्यस्य टेः प्लुत उदात्तः’ (८.२.८२) इति वाक्‍याचामन्त्यस्य प्लुतश्शिष्यते इति। तच्‍च तदोपपद्यते यदैकतिङ्वाक्‍यमिति पारिभाषिकं वाक्‍यलक्षणं क्रियते। अन्यथा ‘समर्थः पदविधिः’ (२.१.१) इति पदानां परस्परासामर्थ्ये वाक्‍यस्य चापरिसमाप्तौ सर्वथा न प्राप्‍नोति। तथा हि ‘नद्यास्तिष्ठन्ति कूले, वृक्षस्य लम्बते शाखायां, कः प्रिये मयि कोपः ? का सुभग प्रिया ते ?शालीनां ते ओदनं दास्यामीति मे माता ब्रवीति, आगच्छ भो देवदत्त कुग्रामं गच्छावः, ग्रामं यदि यासि रे मामपि प्रतीक्षस्व।’ अत्र तिष्ठतिना कूलमभिसंबन्धात्, नदीः लम्बनेन शाखा, न वृक्षः; क इत्यनेन कोपो, न प्रिया; केत्यनेन तु प्रिया, न सुभगः; ते इति युष्मदर्थेन ओदनं, न शालयः; मे इत्यस्मदर्थेन माता, न वचनम्; आगच्छ देवदत्त, ग्रामं यदि यासि रे, इत्येतावति वाक्‍ययोरपरिसमाप्‍तिः, किं तर्हि ? गच्छावो, मामपि प्रतीक्षस्वेति। ततश्‍च निघातादिकार्याणामप्राप्‍तिः। एकतिङ्परस्य तु पदसमुदायस्य वाक्‍यत्वे परम्परया यथाकथञ्चिदभिसंबन्धे निघातयुष्मदस्मदादेशा युज्यन्ते। ‘युक्तयुक्ते चोपसङ्ख्यानम्’ इति युक्तेन वक्तव्यं भवति। एवं साकाङ्क्षस्यापि पदकदम्बकस्य एकतिङवच्छेदेन वाक्‍यत्वप्रतीतौ ‘वाक्‍यस्य टेः प्‍लुत’ इति वाक्‍याचामन्त्यस्योदात्तः प्‍लुत इति सिद्धो भवति।

कश्‍चित्तु ब्रूते—नास्त्येव तिङन्तयोस्संबन्धः। स हि तिङन्तेषूपकल्प्यमानः षोढैवावकल्पते—विशेषणविशेष्यसम्बन्धः, साध्यसाधनसम्बन्धः, लक्ष्यलक्षणसम्बन्धः, हेतुहेतुमत्ससम्बन्धः, अवध्यवधिमत्सम्बन्धः, समुच्‍चयादिसम्बन्धश्‍चेति। तत्र विशेषण— विशेष्यसंबन्धस्सामानाधिकरण्येन वा स्यात् वैयधिकरण्येन वा। न तावत् सामानधि— करण्येन, पचति पठतीत्येतयोरत्यन्तमर्थभेदात; न हि पदार्थयोरन्त्यन्तभेदेऽभेदे वा विशेषणविशेष्यभाव उपपद्यते। न हि भवति आम्रश्‍चूतोऽश्‍वत्थ इति, यत्र तु नात्यन्तभेदो अभेदो वा तत्रोपपद्यते, यथा नीलमुत्पलमिति।

ननु यथा प्रपचति स्तोकं पचति इत्यादावुपसर्गेण स्तोकादिना वाऽऽख्यातां विशेष्यते, तथाऽऽख्यातान्तरेणापि कस्मान्न विशेष्यते ? नैवम्; अत्र यथा नीलवीरशब्दौ नीलत्ववीरत्वे विशेषणरूपेणाभिदधतौ उत्पलं पुरुषं च सामान्येनोपगृह्‍णीतः। न तूत्पलपुरुषसामान्ययोर्वा नियतौ भवतः, उत्पलपुरुषशब्दावप्युत्पलपुरुषौ विशेष्यरूपेणा— भिदधतौ नीलत्वं वीरत्वं च सामान्येनोपगृह्‍णीतः; न तु तत्सामान्ययोस्तद्विशेषणयोर्वात्मानं नियमयतः। परस्परोपश्‍लेषकृतयोर्विशेषणविशेष्यभावो भवति। न वैतत् पचति पठतीत्येतयोरुपपद्यते; न हि नीलोत्पलादिवत् पचति; पठतिं, पचतिं वा पठतिरुपग्रहीतुं शक्‍नोति।

ननु चात्यन्तमभिन्नार्थभिन्नार्थयोश्‍च दृश्‍यते विशेषणविशेष्यभावः। अभिन्नार्थयोर्यथा अधीते, अध्येति। भिन्नार्थयोर्यथा प्रतिष्ठते, प्रस्मरति। नैवम्, अधीते, अध्येतीत्येतयोर्यद्यपि धातुरुपसर्गं न व्यभिचरति, व्यभिचरत्येवोपसर्गो धातुम्, अतश्शक्‍यतेऽन्वयव्यतिरेका— भ्यामर्थभेदः कल्पयितुं, यदर्थोऽयमधिरन्यत्र दृष्टस्तदर्थ इहापि भवितुमर्हति। अयं चाधिरन्यत्रोपरिभावार्थो दृष्टः, यथा अध्यास्ते, अधिरोहतीति; ते मन्यामहे अस्य स एवार्थ इति। तस्मादधीडेव शब्दक्रियो ज्ञानक्रियश्‍चेति, अधिशब्दस्त्वेतमेवार्थमुपरिभावेन विशिनष्टि। विशिष्टार्थवतां शब्दानां विधिपूर्वं वा शब्दानां तथाधीतार्थविषयमेतद्विज्ञानमिति एतावानेवार्थोऽधिना विभज्यते। इह तर्हि कथं प्रतिष्ठते, प्रस्मरति इति। न ह्यत्र सत्यपि केवलप्रयोगे तिष्ठतेः स्मरतेर्वा पचतिवत्सामान्याभिधायित्वम्। किं तर्हि ? विरोधिन्येव क्रिया गम्यते व्रजिक्रिया स्मरणनिवृत्तिश्‍च। व्यक्तं च प्रतिष्ठत इत्यनेन स्थानप्रारम्भो नोच्यते; किं तर्हि ?गमनमेव; प्रस्मरतीत्यनेनापि स्मरणारम्भो नोच्यते, अपि तु स्मरणांनारम्भ एवेति।

नैष दोषः। प्रशब्दोऽयं प्रपचतीत्यादिषु आदिकर्मवचनत्वेन निर्ज्ञातः; अस्य विशेषतोदृष्टादनुमानादिकर्मवचनत्वमनुमीयते। तिष्ठतिश्‍च देवदत्तस्तिष्ठतीत्यादौ क्रियावचनाद्धातुत्वेन निर्ज्ञातः; अतोऽस्य सामान्यतोदृष्टादनुमानाद्गमनार्थत्वमपि विज्ञायते। बह्वर्था अपि धातवो भवन्ति, वपिः प्रकिरणे दृष्टश्छेदने ऽपि प्रवर्तते केशान्वपतीति। ईडतिश्‍च। ईडतिश्‍च स्तुतौ दृष्टः प्रेरणेऽपि प्रवर्तते, अग्विर्वा इतो वर्षमीट्टे; करोतिरपूर्वप्रादुर्भावे दृष्टो निर्मलकरणेऽपि वर्तते; पादौ कुरु, षष्ठं पृष्ठं कुरु, उन्मृदानेति गम्यते। तथा कटे कुरु, अश्‍मानमितः कुरु, निक्षिपावाक्षिपेति गम्यते। अयमपि च धातुत्वादनेकार्थो भवितुमर्हति। एतेन स्मरतिरपि व्याख्यातः। न चैतन्न दृष्टं विरुद्धार्थावर्थौ तुल्यरूपेण शब्देनाभिधीयेते। तद्यथा— सन्निकर्षविप्रकर्षयोर्दृष्टमाराच्छब्देनाभिधानम्— ‘आराच्छत्रुमपबाधस्व दूरम्’ (ऋवे. १०. ४२. ७)‘दूराद्दवीयो अपसेध शत्रून्’ (ऋवे. ६. ४७. २९)। अतस्तिष्ठतिरेव गमनार्थः, स्मरतिरेव स्मरणानिवृत्तिक्रियः; तद्विशेषश्‍चोपसर्ग इति युक्तमुक्तं वस्तुनोरत्यन्तभेदेऽभेदे वा विशेषणाविशेष्यभाव इति। यदाह—“सम्भवे व्यभिचारे च विशेषणमर्थवद्भवति” इति।

नापि वैयधिकरण्‍येनाख्यातमाख्यातस्य विशेषणं भवति, प्राधान्येऽसति असत्त्वभूतार्थत्वात्। इह राज्ञः पुरुष इति भरणादिक्रियानिमित्तो व्यतिरेको विशेष— सम्बन्धनम्। न च प्राधान्यस्यैव राजार्थस्योपजायते; न च तथाख्यातार्थस्य प्राधान्यं सत्त्वाभावे वा सम्भवति। यत्रापि च क्रियापदं श्रूयते मातुः स्मरति सर्पिषो जानीते इति तत्रापि सा क्रिया साध्यास्येत्यनेन रूपेणाश्रीयमाणसत्त्वभूतस्याप्रधानस्य मात्रादेरर्थस्य व्यतिरेक उपजायते; श्रूयमाणक्रियाविशेषसम्बन्धनिमित्तं भवति। न चैतदाख्यातस्योपपद्यते, सत्त्वभूतत्वादेव निमित्तानिर्देश्‍यतयास्येति व्यपदेशाभावात्। यत्खलु परिनिष्ठितस्वभावमस्य तस्येति सर्वनामप्रत्यवमर्शयोग्यं तद्विशेषणतया क्‍वचिदुपयुज्यते वा न वा ? यत्पुनरात्मनैवाऽपरिसमाप्तरूपे तद्विपरीतं, तत्कथमिवान्यस्य विशेषणत्वं यायात् ?

नन्विदानीमेव प्रपचति, स्तोकं पचतीत्यसत्त्वभूतयोः प्रशब्दस्तोकशब्दयो— र्विशेषणत्वमुक्तम्। नैवम्; अन्यथा तदुपपत्तेः, उपसर्गाणां क्रियाविशेषणानां वा सत्त्वभूतानामप्यनन्यविषयत्वेनैव क्रियां प्रति गुणभावो भवति। तथा हि—योऽसौ क्रियाभूतो धर्मः प्रारम्भादिः; तं क्रियार्थमिव क्रियानुप्रविष्टमसत्वभऊतमभिदधत् प्रशब्दोऽभिव्यञ्जयति। यदि वा यथाक्षिनिकोचादयोऽभिदधत एवार्थान् प्रदर्शयन्ति, एवं क्रियास्थान्, प्रारम्भादीनन— भिदधत एव प्रादयोऽवद्योतयन्ति। दृश्‍यते अनधीयमानस्याप्यर्थस्यात्मस्थस्यावद्योतनं, यथा दाण्डा क्रीडेति; ‘तदस्यां प्रहरणमिति क्रीडायां णो’ (४.२. ५७) विहितः क्रीडामब्रुवन् प्रहरणत्वं दण्डत्वमवद्योतयति। तस्मात् प्रपचतीत्यत्र पचिमेव संदिग्धं विशेष एव स्थापयन्नसत्त्वार्थोऽपि प्रशब्दो विशेषणत्वं लभते। एवं स्तोकशब्दोऽपि क्रियाभूतं धर्मपकर्षादिकं क्रियार्थमिव असत्त्वभूतं क्रियानुप्रविष्टमभिदधानः क्रियानुरोधादेवा— सत्त्वभावमापन्नः क्रियाविशेषणत्वं भजते।

न चैवमाख्यातान्तरस्थं विशेषणमाख्यातमभिव्यञ्जयितुमभिधातुं वा शक्नोति, द्वयोरपि प्राधान्येन परस्परानपेक्षत्वात्। भवतु चोपसर्गादेरसत्त्वार्थस्यापि नीलोत्पलादिवदेव सामानाधिकरण्येन विशेषणविशेष्यभावः; वैयधिकरण्ये तु व्यतिरेकापेक्षायां कथमिवैतद्भवति ? न हि अपरिनिप्पन्नत्वेनात्मलाभ एव क्षीणस्यापरोपकारिणः करणादयो व्यतिरेका युज्यन्ते। अतो वैयधिकरण्येनापि न तिङन्तयोर्विशेषणविशेष्यभावस्सम्बन्धो भवति। साध्यसाधनभावोऽपि नोपपद्यते, स हि क्रिययोः कर्तृत्वे कर्मत्वे वा स्यात्; साध्यं हि वस्तूत्पद्यमानत्वेन कर्ता कर्म चेति। न चैतदुभयमपि क्रियायाः क्रियान्तरं प्रति युज्यते। तिङन्तेन हि क्रियात्मोत्पत्तिं प्रति प्रयतमानकारकाकाङ्क्षापि प्रकृत्या प्रयोगेषु विनिवेशितस्वरूपाऽभिधीयते। अतोऽप्रतिब्धात्मरूपत्वेन क्रियायास्साधनपरवशत्वेन तदवरुद्धत्वादितरेण क्रियात्मना सम्बन्धसत्त्वेनास्याः कर्तृरूपता कर्मरूपता वा सम्भवति, यतः परिनिष्पन्नरूपस्यात्मलाभनिरपेक्षस्य सिद्धात्मनस्साधनाभावो घटते, न तूक्तविपरीतात्मन इति। क्रियायाश्‍चायमेव स्वभावः, यदुत साधनाधीनत्वेन साध्यस्वभावायाः प्रतीतिः। या च साध्यस्वभावा सा कथमिवान्यस्मिन् साध्ये साधनभावं गच्छेत्, येन कर्त्रीत्युच्यते ? या च साधनाधीनत्वेन साध्यस्वभावा सा कथमिव क्रिया साध्येत, येन कर्मेत्युच्यते ? यदि च स्यात् परिनिष्पन्नरूपद्रव्यवदेवेदंतया निर्दिश्येत। न च निर्दिश्यते, अतोऽनिदन्तया निर्देशादपि न साधनम्। अवस्थारूपश्‍च साधनधर्मो व्यापारशब्दवाच्यः क्रिया। सा कथमिवात्मसिद्धये तथाबिवधमेव धर्मान्तरमपेक्षेत ? अनपेक्षितयोश्‍च कथमिव मिथस्सम्बन्धोपपत्तिः ?

न च क्रियायाः किमपि तदवशिष्यते यत्साधनैरसाधितं क्रियान्तरस्य साध्यं भविष्यति। तदेवमितरेतरानायत्तरूपयोरसम्बन्ध एव क्रिययोः। न च निर्वर्तमानलब्धात्मकं वस्तु निर्वर्तकादृते परेण सह सम्बन्धमर्हेत्। उपकार्योपकारकनिबन्धनस्वभावानामितरेतरेण संबन्धलब्धात्मकस्य चोपकारकत्वम्। क्रिया च तथारूपत्वविरहात् साधनेभ्यस्स्वोत्पत्ति— मवेक्षमाणा कथमिवातथाभूतक्रियान्तरेण संबन्धमियात् ? तस्मात् स्वसाधनावरुद्धत्वात् साध्यमानैकस्वभावायाः क्रियायाः कर्तृत्वे कर्मत्वे वा न क्रियान्तरेण सह संबन्धः।

ननु च यथा पाकं करोति, पाको वर्तते इति तिङ्कृदभिहितयोः क्रिययोस्साध्य— साधनभावो दृश्यते, तथा च पठति पचतीत्येतयोरपि कस्मान्न भवति ? नैवम्; उक्तमिदं भाष्ये, ‘अस्ति खलु तिङभिहितस्य कृदभिहितस्य भावस्य विशेषः, कृदभिहितो हि भावो द्रव्यवत् प्रकाशमानः क्रियया समवायं गच्छति’ इति। न हि भवति पचति पठति इति लक्ष्यलक्षणभावोऽप्याख्याताभिहितयोः क्रिययोरभिन्न— साधनयोर्वा संभवति। द्विधापि चानुपपत्तिः; साध्यमानत्वेन प्रवर्तमानस्य साधनपरतन्त्रस्य चात्मनोऽनिदन्तानिर्देशस्य साधनवल्लक्षणत्वायोगात्। ननु च मा भूत् क्रियायास्साधनम्; लक्षणं तूभयथापि दृश्यते, पाचकः पठति, रुदतः प्राव्राजीदिति। ततो यः पचति स पठति, स रोदिति, अयं प्रव्रजतीत्याख्यातयोर्लक्ष्यलक्षणभावो भविष्यति। चिरं जीव, त्वयैव स्मारितोऽस्मि। आख्यातयोर्लक्ष्यलक्षणत्वेना— सम्बन्धकारणस्य यदत्र ‘लक्षणहेत्वोः क्रियायाः’ (३.२.१२६) इति शतृशानचौ तिङपवादौ स्मर्येते। अतो लक्षणत्वे क्रियायाः क्रियान्तरं प्रति समाश्रीयमाणे पचन् पठति, रुदतः प्राव्राजीदित्येव भवितव्यम्।

ननु यः पचति स पठति, स रोदित्ययं प्रव्रजतीति तत्कथं सम्बन्धः? एतेन हेतुहेतुमद्भावः आख्यातयोः प्रत्युक्तो भवति, यतोऽसावपि द्विधा— हेतुर्वा हेतुमत्परत्वेन, हेतुमतो वा हेतुपरत्वेन। तत्र हेतोर्हेतुमत्परत्वे शतृशानज्भ्यां हेतुमतस्स्वहेतुपरत्वे तुमुनादिभिर्भाव्यम्। यथा पचन् भुङ्क्ते, अधीयमानो वसति, भोक्तुं पचति, भोजको व्रजतीति। ननु पचति, भुङ्क्ते, व्रजतीति तत् कस्य केन संबन्धः ? अवध्यवधिमद्भावोऽपि तिङ्न्तयोर्नास्त्येव। स हि देशतः कालतो वा स्यात्। न तावद्देशतः, तस्य मूर्तिमद्विषयत्वात्। कालतस्तु युज्यते, किंतु तत्र पूर्वकाले क्त्वाप्रत्ययविधानात् पक्त्वा भुङ्क्त इत्येव स्यात्, न तु पचति भुङ्क्त इति। समुच्चयेनापि क्रियायास्संबन्धः। सोऽपि हि द्विधैव; साधनानां वा क्रियायां यथा गौरश्वश्‍च गृह्यताम्; क्रियाणां वा साधने यथा असौ पचति पठति चेति; न तु क्रियाणां क्रियायामेव।

ननु चैकत्वात् क्रियाया यद्यपि साधनसमुच्चये क्रियाभिसंबन्धो नास्ति, तथाप्येकवस्तुविषयत्वेन क्रियासमुच्चयेऽसौ भविष्यति। तथा हि— य एव पचति स एव पठतीत्यैकाधिकरण्ये भवत्येव सम्बन्धोपपत्तिः। नैवं साध्ययोस्साधनायत्तयोरलब्धात्मनो— स्साधनोन्मुखत्वेन परिवर्तमानयोः, क्रियायाः परस्परानपेक्षत्वात्; न ह्यनन्वितात्मना— मधिकरणमपेक्षामुपजनयितुमलम्। अतस्सव्येतरगोविषाणवत् परस्परेणासमन्वितमेव क्रियाद्वयं साधने समुच्चीयतें न च समुच्चीयमाने वस्तुनी मिथस्संबध्येते, तथा सति समाहारेतरेतरयोरन्यतरापत्तौ समुच्चयस्यैवाभावात्। आदिग्रहणादन्वाचयेऽप्यनन्वय एव क्रिययोः। तस्मान्नास्त्येवाख्यातयोर्मिथस्संबन्ध इति।

ननु च अस्ति स मे रोचते, अस्ति त्वमीशिषे, नाहं रमेऽस्मि इति सामानाधिकरण्येन विशेषणविशेष्यभावः; भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यादिति कर्तृत्वेन; पश्‍य मृगो धावति, इह पश्‍यामः कर्मणि द्विनचनबहुवचनान्युदाह्रियन्ते, एहि मन्ये रथेन यास्यसि, स्मरसि देवदत्त कश्‍मीरेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे, न मर्षयामि यत्तत्र भवान् वृषलं याजयेदिति कर्मत्वेन साध्यसाधनभावः; यो भुङ्क्ते स गृह्यताम्, योऽधीते स पचतीत्यभिन्नसाधनत्वेन; स स्वपिति एष बुध्यते, स उदेति अयमस्तमेतीति भिन्नसाधनत्वेन लक्ष्यलक्षणभावः; हन्तीति पलायते, वर्षतीति धावतीति हेतोर्हेतुमत्परत्वेन; वक्ष्यामीति व्रजति, भोक्ष्यते इत्यास्त इति हेतुहेतुमतोर्हेतुपरत्वेन हेतुहेतुमद्भावः; यावद्भुङ्क्ते ततो व्रजति, यदयं भुङ्क्ते ततः पठति, यदयं भुक्‍त्वा व्रजतीत्यधीत एव ततः परमिति अवध्यवधिमद्भावः; सक्‍तून् पिब, धानाः खाद, ओदनं भुङ्क्ष्वेत्येवायमभ्यवहरति, पचति चायं पठति चेति समुच्चयः; वटो!। भिक्षामट गां चानयेत्वन्वाचयोऽपि तिङन्तेषु दृश्‍यते। तत्कथमुच्यते नाख्यातयोस्संबन्धोऽस्तीति?

नैवम्; वाक्‍यभेदादिना तदुपपत्तेः। अस्ति स स मे रोचते, असि त्वं त्वमीशिषे, अस्म्यहमहं रमे, अस्त्येतद् गच्छामो वयं, भवत्वेवमेतत् पयसोधयामयत्वममिथ्येवासि (?), यन्मुरजितं त्वमपूपुज इत्युक्तेषु वाक्‍यभेदा उपपद्यन्ते। निपाता वा अस्त्यादयः आख्यातसरूपा निरर्थका अपि वाक्‍यपूरणाय कमीमिद्वादिवत्प्रयुज्यन्ते; न तु क्रियाभिर्विशेषणविशेष्यभावमनुभवन्ति। भवति पचतीत्यादिषु तु पचतीति पक्ष्यतीति अपक्षीदिति च योऽर्थो भवति असावस्तीत्यर्थः। ननु पचत्यादेर्भवतौ कर्तृत्वेन साध्यसाधनभावः; एवं भवेदपि भवेत्, स्यादपि स्यादिति।

ननु चावश्‍यमेव पचत्यादिक्रिया भवतिक्रियाकर्तृत्वेनाभ्युपेया। यदि ह्येषा न भवेत्तेन कर्त्री स्यात् सिद्धरूपतया, न लकारेणाभिधीयते। न च सा सती सिद्धभावमुपैति। न च लकारः सिद्धतदभिधानेन विना कर्तृभावेनेमां प्रतिपादयितुमुत्सहते। ततो येनात्मना कर्त्री न तेन क्रिया, येन च साध्यात्मना क्रिया न तेन कर्त्रीति वस्त्वन्तरमेव लकारेण कर्तृतया कथितमापद्येत। देवदत्तः पचतीति चानेन ज्ञातवत्प्रज्ञाप्यते विधेयता त्वस्तेर्भवतीत्यत्र तु अज्ञातरूपतयोपादीयते भवनक्रियानुभवितृत्वात्। न च युगपदेव ज्ञातवदज्ञातवच्च समाश्रयणं युक्तम्; अतो न क्रिया कर्तृत्वमुपयाति। पश्‍य मृगो धावतीत्यत्र तु पश्‍यशब्दो न तिङन्तः। किं तर्हि निपातोऽयमाश्‍चर्यमित्येस्मिन्नर्थे वर्तते; पश्‍य भुङ्क्ते, अहो आश्‍चर्यमद्भुतं भुङ्क्त इत्यर्थः।

केचिदाख्यातसरूपौ पश्‍यपश्‍यतशब्दौ दर्शनार्हेयं क्रियेत्यस्मिन्नर्थे मन्यन्ते।

अथवा पश्‍य मृगो धावतीत्यत्र नासावेवमाह—दृशं मृगसरणे नियुङ्क्ष्व; किं तर्हि ? चक्षुः प्रणिधत्स्व प्रमत्तो मा भूरिति; यतोऽप्रणिहितचक्षुस्सन् मृगसरणमन्यद्वा प्रतिपद्यते। यथा रूपमग्र्यं दृष्ट्वा एतदेवाह—आलोकय आलोकयेति, तस्मात्पश्‍येत्येतावति वाक्‍यस्य परिसमाप्तत्वान्नास्ति दृशस्सरणेन संबन्धः।

अथवा यो धावति मृगस्तं पश्र्येति सर्वनाम्ना यदा सोऽर्थः प्रत्यवमृष्टो भवति तदा क्रिया तस्योपलक्षणाय प्रवर्तते। यो धावति सर्तारं तं पश्र्यति; अयं चार्थः पश्र्य धावतीति पदयोरसंबन्धत्वेन श्रुतार्थापत्तिगम्यः न तु शब्दसन्निवेशी।

यदि वा श्रुतार्थापत्त्येव गम्यमानेतिशब्दोपसंहृतस्य मृगो धावतीति वाक्‍यार्थस्य दृशौ कर्मत्वमेव। पश्र्याम उदाह्रियन्त इति।

अथवा द्वे एते वाक्‍ये—एकमेतावति वाक्‍यम् ‘इह पश्र्यामः’ कर्मणि द्विवचनबहुवचनादीनि वचनान्येव दृशः कर्मत्वेनावतिष्ठन्ते, नोदाहृतिः। अतश्‍च पश्र्यामो यस्मादुदाह्रियन्ते प्रयुज्यन्त इति द्वितीयम्। एहि मन्ये रथेन यास्यसीत्यत्र ‘प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च’ (१.४.१०६) इति वचनाद् यदायमर्थः एहि मन्यसे रथेन यास्यामीति। यदा वा सूत्रप्रतिषेधपक्षे स्वविषय एव मध्यमोत्तमौ तदा सर्वथा गम्यमानेति— शब्दोपसंहृतस्य वाक्‍यार्थस्यैव कर्मत्वम्। एहीति च प्रहासविषयसंबोधनार्थ आख्यातस्वरूपो निपातः। आख्यांतस्वरूपाश्‍च पुरुषं संख्यां न व्यभिचरन्ति; न हि भवति त्वमस्ति वयमस्तीति। किञ्चास्तिरपि निपातः; सोऽयं यथा अस्तिक्षीरा गौः; तत्र ह्याख्यातमिति कृत्वोक्तः; सुबधिकारेऽस्तिक्षीरादिवचनमिति; न चाव्ययत्वात्; निपातोऽयमिति परिहारः।

ननु च सङ्ख्यामव्यभिचरन् कथमेकशब्दो बहूनां प्रहासे बहुत्वं ब्रूयात् ? नैवम्; बहुभिरेकः प्रहस्यते, नैकेन बहवः, न हि बहुष्वेकं प्रहसत्सु सूत्रप्रतिषेधपक्षे ‘एहि मन्ये रथेन यास्यामि’ (इति)। यदा वा सूत्रप्रतिषेधपक्षे अस्तीति कथं न सत्त्वभूतोऽर्थस्साध्य— साधनसंबन्धमनुभवति ? यो भुङ्क्ते स गृह्यतामित्यत्रापि वाक्‍यद्वितयमेव। न चात्र क्रिययोः लक्ष्यलक्षणभावः; क्रियायाः कारकोपलक्षणत्वात्। तथा हि यो भुङ्क्ते स देवदत्त इति देवदत्तसत्त्वोपलक्षणमेको वाक्‍यार्थः; स तथाभूतो गृह्यतामिति तस्य ग्रहणसंबन्धः।

दर्शनमपरम्— न च यथा सत्त्वं तद्रूपाभिधायित्वेन स्मरणात् कर्तृप्राधान्यमभिदधत् क्रियायाः क्रियान्तरं प्रति लक्षणत्वमभिधत्ते, तथा सर्वनामाभिधातुं शक्नोति। तेन हि सा क्रिया साध्यत्वात्प्रच्याव्य साधनोपसर्जनभावमुपनीता तत्परामृष्टं देवदत्तमुपलक्षयति; स तु तथाभूतः क्रियान्तरेण संबध्यत इति। न ह्येकस्याः प्रवृत्तेस्साधनोपलक्षणमपरक्रिया— संबन्धश्‍चोपपन्नो भवति।

नन्विदमेवास्याः क्रियान्तरेणान्वितत्वं यदन्यस्यास्साधनमुपलक्ष्यति। नैवम्, एषा स्वसाधनलक्षणत्वेन प्रवर्तमाना यदधीनोदया तदेवोपलक्षयेत्, नान्यद्, असंबन्धात्। ननु चास्या अपि देवदत्त एव साधनं, स चानयोपलक्षितः, तत्कथं भिन्नवाक्‍यता ? नैवम्; भवतु नाम देवदत्तोपलक्षणत्वमस्याः; किंतु न तं देवदत्ततयोपलक्षयति, अपि तु स्वसाधनत्वेन। ततस्स्वसाधन एव देवदत्ते प्रथमतोऽस्या विश्रान्तिः, देवदत्तस्य च तयैव तदाभिसंबन्धोऽभ्युपेयः। न हि यौगपद्येन लक्ष्यमाणत्वं प्रा़धान्यं च प्रतिपद्येत, क्रियान्तरे गुणभावं च, विरोधप्रसङ्गत्। न च भुजिक्रियावच्छिन्नस्येतरक्रियाभिसंबन्धोऽभिमतः, समुच्चीयमानक्रियाद्वयप्रसङ्गत्। यो भुङ्क्ते स गृह्यतामित्येकरसा प्रवृत्तिः, प्रत्यासत्तेः। तन्मात्रमिदं सूत्रं, तस्य तु पुनरित्थंभूत एवार्थ इति न तत्र वाक्‍यभेदः। एतेन योऽधीते स पचतीत्यपि प्रत्युक्तम्। स स्वपित्येष बुध्यते, स उदेत्ययमस्तमेतीत्यत्र तु साधनत्वान्नतरां लक्ष्यलक्षणभावः। हस्तीति पलायत इति— अत्र त्वितिशब्दो हेतुहेतुमद्भावं द्योतयन्नर्थस्य स्वातन्त्र्यं करोति। दृष्ट इतिशब्दोऽर्थस्य स्वातन्त्र्यमुपजनयन्, ‘तस्मिन्निति निर्दिष्टे पूर्वस्य’ (१.१.६६) इति। अत्र हि तस्मिन्नित्यधिकरणस्य कर्तृकर्मसमवायिन्यौ क्रिये प्रति उपाधित्वेन प्रवर्तमानस्याकाङ्क्षा; यत आधेयस्तत्र स्वे आत्मन्यवस्थानाभावादिति— शब्देनासत्यवच्छेदे कार्ययोगो न स्यात्। ‘तस्मिन्निति निर्दिष्टे पूर्वस्य’ इत्युक्ते तस्मिन् य आधेयो निर्दिष्ट इति संप्रत्ययः स्यात्; तस्मात् सप्तम्यर्थनिर्देशे पूर्वस्य कार्यस्य संप्रत्ययार्थमितिशब्द उपादीयते। एवमिहापि। इतिशब्दो वा न तस्य स्वातन्त्र्यमुपजनयति ! यस्मादयं (हस्ती) हन्ति तस्मादयं पलायत इति। एवं वर्षतीत्यादावपि योजनीयम्। अत्र च तिङन्तयोरितिशब्दसामर्थ्याद्धेतुहेतुमद्भावोऽनुमीयते, न पुनश्र्शब्दसन्निवेशीति। यावद्भुङ्क्ते ततो व्रजतीत्यादौ तु भिन्नवाक्‍यतायामपि यावत्ततः पूर्वमित्यादिनिपातसामर्थ्या— दवध्यवधिमद्भावो गम्यते; न पुनराख्यातशब्दसन्निवेशीति। सक्तून् पिबेत्यादावपि ‘सक्तून् पिब’, ‘धानाः खाद’, ‘ओदनं भुङ्क्ष्व’ इति विशेषणवाक्यार्था इतिशब्दोपसंहृता इतिशब्दसामर्थ्यादेव तत्सामान्याभिधायिना अयमभ्यवहरतीति वाक्‍यान्तरेणोच्यन्ते। पचति चायं पठति चेति वाक्‍यद्वयमेव; एवं वटो ! भिक्षामट, गां चानयेति।

तदेवं कात्यायनमते नास्त्येवाख्यातयोस्संबन्धः; सूत्रकारस्य तु मतेऽस्त्येवाख्यातयोः अनेकवाक्‍यत्वेनाभिसंबन्ध इति, यदयं समानवाक्‍याधिकारेऽतिङ्न्तादुत्तरस्य तिङो निघातं शास्ति। ‘अभिज्ञावचने लृट्’ (३.२.११२) इति स्मृत्युक्तावतीतकालेऽपि लृटं स्मरति; यदिति (३.२.११३) यत्प्रयोगे तन्निषेधति, ‘विभाषा साकाङ्क्षे’ (३.२.११४) इत्याकाङ्क्षायां विभाषयाभ्यनुजानाति, ‘न यद्यनाकाङ्क्षे’ (३.४.२३) इति निराकाङ्क्षवाक्‍ये क्‍त्वा—णमुलौ निषिध्य लडादीनेवानुमन्यते इति का पुनरत्रोपपत्तिः? उच्यते आख्यातपदतुल्यधर्मिणो हि क्‍त्वान्तस्यानेकस्यापि दृष्टस्तिङन्तेन सह संबन्धः। स्‍नात्वा पीत्वा भुक्‍त्वा व्रजतीति; तथा पूर्वं स्‍नाति भुङ्क्ते पिबति ततो व्रजति इति। तत्र यथैव क्‍त्वान्तस्य तिङन्तेनैकवाक्‍यत्वं तथा पूर्वकालक्रियाभिधायिनामाख्यातानां सर्वेषामपि क्रियाविशेषणकत्वाद्भवति। उक्तं च—

यथाऽनेकमपि क्‍त्वान्तं तिङन्तस्य विशेषकम्।
तथा तिङन्तं तत्राहुः तिङन्तस्य विशेषकम् ॥ ८० ॥

(वाप. २.६) किंच यथाकथंचिदाश्रीयमाणोऽर्थस्सामानाधिकरण्येनावधिभावेन वा विशेषणत्वं न व्यतिक्रामति। तथा हि, व्रज देवदत्तेत्यामन्त्रितस्य विशेषणत्वेनैकवाक्‍यत्वाद् ‘आमन्त्रितस्य च’ (८.७.१९) इति निघातो दृश्‍यते; कर्तृत्वाद्भविष्यतीति चेद् व्रजानि देवदत्तेत्यत्र कथम्? न हि देवदत्तो व्रजिक्रियायाः कर्ता, न खल्वपि कारकस्य विशेषकम्, नापि सुष्ठु पचतीति पदान्तरत्वेन क्रियाविशेषणमुपपद्यते। किंतु क्रियां प्रति आभिमुख्येनावस्थाप्यमानः पञ्च वारान् पचतीतिवत् बाह्यविशेषणतां लभते। कः पुनर्बाह्यान्तरयोः क्रियाविशेषणयोविंशेषः ? अयमस्ति आन्तरं हि क्रियाविशेषणं कर्मत्वं नपुंसकत्वं च प्रतिलभते; बाह्यस्य तु स्वलिङ्गता न कर्मत्वनियमः। एवं च कृत्वोक्तम्—

संबोधनपदं यच्च तत्क्रियाया विशेषकम्।
व्रजानि देवदत्तेति निघातोऽत्र तथा सति ॥ ८१ ॥

(वाप. २.५) ननु च संबोधनपदस्य तिङ्न्तेनैकवाक्‍यता युज्यते, संबोधनं ह्याक्षिप्तक्रियापदं वर्तते। देवदत्त अभिमुखो भवेत्याभिमुख्ये हि युज्यते। तत्र देवदत्तेत्येतावत्यर्थस्य परिसमाप्तत्वात् संबोधनपदमेकं वाक्‍यम्, सोऽभिमुखीभूतः क्रियान्तरे नियुज्यते; व्रजेति तदाख्यातमेव द्वितीयम्; ‘देवदत्त! व्रजानि’ इत्यत्र तु क्रियान्तरनियोगोऽपि नास्तीति भिन्नवाक्‍यत्वमेव। तन्न, वाक्‍यलक्षणायोगात्। एवं ह्याहुः—

साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम्।
कर्मप्रधानं गुणवदेकार्थं वाक्‍यमुच्यते ॥ ८२ ॥

(वाप. २.४) एवं च ब्रुवतो यथोक्तलक्षणपदसमूहो वाक्‍यमित्यभिप्रायः, न च देवदत्तेति पदसमूहः; अथाभिमुखो भवेत्याक्षेपादस्य समूहभावः; तथापि साकाङ्क्षत्वादवाक्‍यत्वम्। न ह्यभिमुखीभावमात्रमेव कश्‍चिद् विधत्ते। किं तर्ह्यभिमुखीभावं विधाय क्रियान्तरे नियुङ्क्ते। अपि चाभिमुखो भवेत्यध्याह्रियमाणयापि क्रियया संबन्धं मन्यसे व्रजेत्युपात्तयापि न मन्यस इत्यहो माध्यस्थ्यम्। किंचाभिमुखो भवेत्ययमपि नियोगः, तत्रानभिमुखस्य नियोक्तुमशक्यत्वात्। अभिमुखीकरणाय क्रियान्तराध्याहारेऽनवस्था, तद्भयाच्चाभिमुखीकार— गर्भनियोगोऽङ्गीकर्तव्यः, स च व्रजेत्यादावपि तुल्य एवेत्यलमतिप्रसङ्गेन। यदि चामन्चितस्य तिङन्तेनैकवाक्‍यता न स्यात्, ‘आमन्त्रितं पूर्वमविद्यमानवद्’ इति ( ८.१.७२) सूत्रकारो न ब्रूयात्। तत्रेदमविद्यमानवत्त्वे प्रयोजनम् निघातादयो मा भूवन्निति; निघातादयश्‍चासमान— वाक्‍यत्वादेव न भविष्यन्ति, किमविद्यमानवद्भावेन।

न चैतद् वार्त्तिककारो मन्यते। सोऽपि ह्यविद्यमानवद्भावस्य प्रयोजनानि पठति अविद्यमानवत्त्वे प्रयोजनमामन्त्रितयुष्मदस्मदादेशतिङ्‍‌निघाता इति। भवतु नाम सामानाधिकरण्येन वैयधिकरण्येन वा यथाकथंचिदाश्रीयमाणानामाख्यातानामाख्यातं प्रति विशेषणत्वमुपलक्षणत्वं हेतुमत्त्वमवधिभावो वा, समुच्‍चयोऽप्येवमेवोपपद्यताम्; साध्यसाधनभावस्तु नोपपद्यते, विरुद्धरूपयोरर्थयोरेकरूपेण शब्देनाभिधानात्। यथाऽयं दण्डो हरानेन फलानीत्ययं दण्ड इत्यनेन रूपेण दण्डशब्दो दण्डार्थमन्तर्भूतास्ति— क्रियामुपादातुमीष्टे। अनेनेत्ययं च शब्दः करणरूपेणेव वस्तुसामान्यमभिदधत् प्रत्यक्षेणोपादत्ते, न रूपान्तरेण, प्रकरणात्तु दण्डे प्रतिपत्तिः। तथेहापि पचति धावतीत्यादिराख्यातसाध्यभूतां क्रियामभिधत्ते, तामेव च सिद्धां साधनत्वमापन्नामनेनैव रूपेण वक्ष्यतीत्यसम्भवः।

नासम्भवः, साध्यत्वेनैव साधनत्वात्।

यदेवं हि क्रियायास्साध्यमानत्वमनिदन्तानिर्देश्‍यं परिनिष्ठितं रूपं तेनैव साधनभावं प्रतिपद्यते, न रूपान्तरेण; तस्याभावाल्लकारोऽपि चैतां साध्यतया भवन्तीं कर्तृभावेनाभिधत्ते पचति भवतीति।

ननु किमन्यद्भवनं पचतिक्रियायास्साध्यताव्यतिरेकि, किं वा तदतिरिक्तं कर्तृत्वं, येन साध्यसाधनभावोऽवकल्पेत ?

उच्यते— योऽयमस्याः कारकसंबन्धः, कारकव्यापारविषयता न कारकाणि शशविषाणवत् पराकरोति, शक्‍यते संपादयितुं तेभ्यस्संपत्तिमनुभवति। तदस्याः कारकसंबन्धलक्षणं साध्यमानत्वमेव रूपं भवनमभिधीयते। पचतिक्रिया भवनं निर्वर्तयन्ती कारकेभ्यो निर्वृत्तिं प्रतिपद्यते, कारकाणि व्यापारवन्ति करोतीत्यर्थः। यत्पुनरस्या विशेषरूपं यागादिधर्मकं पक्तिरूपं पचत्येकशब्दवाच्यमनन्यसाधारणं, तेनैषा कर्त्री संपद्यते, तदेवमनन्यसाधारणेन स्वभावेन कर्त्री संपद्य साध्यात्मना भवतिक्रियारूपत्वेन भवतिः पचति, भवतिसाध्यत्वं लभत इत्यर्थः। अथवा प्रयोगात्मको योऽधिश्रयणादिव्यापारस्तैरेषा भवनक्रियारूपतामुपयाति। फलभूतेन विक्लित्त्यात्मना भवितृरूपं कर्तृत्वं, तेन भवति पचति इत्ययमर्थः पक्तिरधिश्रयणाद्यात्मना भवति, अधिश्रयणादयोऽस्याः प्रवृत्ता इति यावत्। अधिश्रयणादिरूपेण वा भवितृत्वं पक्तिरूपेण भवनक्रियात्वं, तेनायमर्थः अधिश्रयणादयः पक्तिरूपतया भवन्ति; विक्लित्तिस्सञ्जातेति यावत्। अथवा शब्दवाच्यं बुद्धिपरिगतं यद्रूपं तेन कर्तृत्वमस्यां, बाह्यसंपक्तिरूपत्वेन भवनरूपत्वं, बाह्यरूपेण भवितृत्वं, बुद्ध्यात्मना भवनरूपत्वमिति। यदि वा सामान्यात्मना कर्तृत्वं विशेषात्मना भवनरूपतेत्युपपद्यते क्रियायां कारकत्वम्।

ननु चोक्तं न लकारः सिद्धवदभिधानेन विना कर्तृभावेनेमां प्रतिपादयितुमुत्सहते, ततश्‍च सिद्धत्वेनाभिधाने पुनरपि विरोधः। नैवम्, यदेव पचतिक्रियायास्स्वभावभूतमात्मीयरूपं साध्यतालक्षणं तेनैव रूपेण सा कर्तृत्वमुपगता लकारेणोच्यते। सिद्धत्वावभासः कुत इति चेत्, लकारस्तां कर्तृभावेन प्रतिपादयितुं प्रवृत्तस्सिद्धत्वेनावगमयति, न तु साध्यायाः क्रियायाः सिद्धत्वापत्तिः। अतो रूपान्तरापत्तेः नास्ति विरोधः। यथा चोरस्य रुजतीति धात्वर्थ एव रोगलक्षणः कर्त्रन्तराश्रयणात् कर्तृभावमुपयाति; साध्या/?/त्मन एव चास्य कर्तृत्वम्। न च सिद्धताप्राप्तिः कर्तृत्वेन प्रतीयमाना सिद्धतयाऽवभासते; तथा क्रियापि न सिद्धतया लकारेणाभिधीयते। अपि तु साध्यायामेव तस्यां तदधिकरणात् कर्तृशब्दै— रभिधीयते इति। अथवा एकस्यैव वस्तुनो नानारूपाश्शक्तयो विरुद्धाविरुद्धस्वभावा लोकयात्रां कल्पयन्ति। ततोऽस्य सर्वशक्तेर्भावस्य वाचकशब्दः कश्‍चित् सिद्धात्मिकां शक्तिवृत्तिमवलम्बते, कश्‍चित् साध्यरूपाम्। तदेवं सिद्धसाध्यताशक्तियुक्तं वस्तु शब्दाभ्यामभिधीयमानं न विरुध्यते, अनेकशक्तियुक्तत्वात्। पचतीत्यनेन तदेव साध्यत्वेनावगतं भवतीति लकारस्साध्यत्वेनाभिधत्ते। सर्वशक्तिविरहितं वा वस्तु, सकलविकल्पोल्लेखरहितत्वात्। तस्य तु शब्दा एव स्वमहिम्‍ना नानाविधबुद्ध्युप— जननहेतवश्शक्तिं संनिवेशयन्ति; शक्‍त्याविष्टमिव व्यवहारगोचरतां नयन्ति। तेन शब्दाभ्यामेव सिद्धसाध्यताशक्‍त्याधानादखिलविकल्पीकृतात्मकमपि तद्वस्तु सिद्धसाध्यभावेनोपदिश्‍यते। भवति पचतीत्येकेन शब्देन सन्निवेशितसाध्यताशक्तियुक्तमभिहितम्, इतरेण तु तदेव शक्‍त्यन्तरारोपेण प्रकाश्‍यत इति नास्ति विरोधः।

यदि वा न पदस्य पदरूपादेवाधिकार्थता; किं तर्हि ? वाक्‍यरूपात्। तद्यथा पुरुष इति पदकाले पुरुषो व्यतिरिक्त उच्यते। यदा तु राज्ञः पुरुष इति विशेषसन्निधौ प्रयुज्यते तदा विशिष्टस्य पुरुषार्थस्य गतिः, न पुरुषस्येति वाक्‍यकालेऽधिकस्य धर्मस्य प्रादुर्भावः, तथा पचतीति नैकस्मादेव पदरूपात् कर्तृत्वम्; यदा भवतीति पदान्तरसन्निधिस्तदा परत्वे साधनमदृष्टदवाक्‍यकाले पुरुषस्यैव व्यतिरेक उपजायत इति। यथापि व्यपदेशिवद्भावेना— भिन्नस्यापि धातोरवयवप्रथमैकाज्‍व्यपदेश इयायेत्यादौ प्रवर्तते तथा बुद्धिभेदकल्पनया आख्यातवाच्यस्यार्थस्य भेदेऽपि क्रियाकारकादिव्यपदेशाः प्रवर्तन्ते। ततश्‍च पचतीत्यत्रापि न काचिद् अपरा तदतिरेकिणी भवनक्रिया, कश्‍चिदपरो वा कर्ता विरोधहेतुरस्ति; अपि तु सैव व्यपदेशिवद्भावेन भवनक्रियारूपतां पक्‍तृत्वं च दर्शयन्ती चकास्ति। एतेन पश्‍य मृगो धावतीत्यादावपि सिद्धसाध्यत्वयोरविरोधः।

अपि चैकस्याप्यर्थस्य विषयभेदेन द्विधर्मत्वं न विरुध्यते। यथा राज्ञः पुरुषस्य पुरुष इति पुरुषश्शेषी भवति शेषश्‍च इति, राजानं प्रति शेषोऽविचलितस्वार्थश्शेषितामापद्यते, एवं च धावतीति मृगे कर्तरि साध्यभावं प्राधान्येनाजहत् सरणं दृशावङ्गत्वं साधनत्वं चोपैतीति न कश्‍चिद् विरोधः। अथवायमर्थः — साधनमिदमयं साध्य इति रूपं सिद्धमात्रमेतत्, यथा पदे अयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इत्येक एवासावर्थः अविशिष्टो विशिष्टो वा वाक्‍यविशेषयोर्ग्रहीतव्यः, यथा मुण्डयति, कूटयति, मूत्रयति, चर्चयतीति। तत्र मुण्डयति माणवकम्; मुण्डिः केशच्छेदनवचनः; तस्य तु व्युत्पत्तिः मुण्डं करोतीति सामान्यप्रवृत्तिविशेषं मुण्डशब्दोऽवस्थापयति; करोतिविशेषो यस्मिन् णिजुत्पद्यते, न करोतिमात्रम्। अन्ये पुनः केशच्छेदनादिवचनान्मुण्डादीनध्यवस्यन्ति; यथोक्तम् अथवा मुण्डादयो धातवः। मुण्डयतीति चैतस्मिन्नर्थे कूटयतीति च प्रयुञ्जते, कूटयति माणवकमिति। यथा च मुण्डं करोतीति प्रयुञ्जते, नैवं कूटं करोतीति; कूटशब्देन हि करोतिविशेषो न लक्ष्यते; किंतु छिदादिविशेषमवलक्ष्यमाणोद्देशविभागं कूटिरेवोपादत्ते। एवं मूत्रं करोतीति मूत्रयति, चर्चां करोतीति चर्चयति। मूत्रेण चर्चया वा करोतौ विशेष्यमाणे क्षरणं परिभाषणं वा विशेषेणोपादीयते। स एव च कदाचित् क्षरणविशेषः परिभाषणविशेषो वा नष्टोद्देशविभाग उपादीयते, यथा ‘मूत्र प्रसवणे’ मूत्रयति, ‘चर्च परिभाषणे’ चर्चयतीति।

एवं पश्‍य मृगो धावतीति इदमत्र साधनपदमिदमत्र साध्यपदमिति उत्प्रेक्षैषा। इदं त्वर्थ—सतत्त्वं ‘नात्र सरणं, न दर्शनं न मृगः। किं तर्हि ? मृगकर्तृको दृशिकर्मसरणविशेषोऽयं तत्रैकार्थत्वादेकमेवेदं वाक्‍यमित्यस्ति द्वयोस्तिङन्तयोरेकस्मिन् वाक्‍ये सम्भवः। ततश्‍च पचति करोतीत्यादावपि पाकं करोतीतिवत् साध्यसाधनभावेन संबन्धोऽस्त्येवेति न कश्‍चिद् विरोधः।

अन्ये पुनर्मन्यन्ते, कस्यचिदपि बाह्यस्य वस्त्वात्मनोऽसंभवाद् भावभूतवस्तुशून्यमेवेदं जगत्, ततो बुद्धीनामेव तथाभूतव्यवहारोपजनननिबन्धनत्वम्। बुद्धय एव हि सिद्धसाध्यतारूपमुपदर्शयन्त्यः शब्दात् प्रवर्तयन्ति। ततश्‍च स्वमहिमोल्ला— सितनानाविधबुद्धिसमुपनीतभेदनकाल्पनिकाकारपरिगतोऽयं मायेन्द्रजालसदृशो व्यवहारः प्रवर्तत इति न कश्‍चिदपरं वस्तु यस्य सिद्धस्य साध्यलक्षणविरोधापत्तिः। तथा हि— बुद्धिमाकारभेदवतीमेके क्रियां मन्यन्ते। सा हि स्वमात्राभिरपर्यवसितविषयनिर्भासाभिः अन्तस्तत्त्वादिभिरिव बहिरर्थनिबन्धनामर्थक्रियां साधयति। न तदर्थं दर्शनाभि— निवेशोऽस्माकम् आराद्दवीयस्समुत्सारयन्ति प्रत्ययव्यक्तयो हि पराकृतवाक्‍यार्थसंस्पर्शा बाह्यार्थवत् तासु तास्वर्थक्रियासु यथासामर्थ्यमुपजायमानाः प्रतीताशङ्काविषय— परिगमनाद्यवस्थासु तदा सामर्थ्यं क्रियासामर्थ्ये किमर्थमन्यपदार्थरूपमभ्युपेयत इति। अत्र चूर्णी विरोधं दर्शयति; इदं किलोक्तं भाष्ये— कृदभिहितो भावः क्रियया समवायं गच्छति, पाको वर्तत इति; तिङभिहितस्तु न गच्छति (म.भा. ३.१.१७)।

न हि भवति पचति पठतीति। अत्राऽयं समाधिः—यथाभूता क्रियोपन्यस्ता तथाभूता समवायं न गच्छति, विशेषयोस्समवायो, नास्ति, सामान्ययोरस्त्येव। अस्ति स मे रोचते, असि त्वमीशिषे, नास्मि रमे, भवति, पचति करोतीति। तत्रैतच्छक्‍यते वक्तुं यत्रान्या च क्रिया भवति; यत्र तु खलु सैव सा क्रिया तत्र कथम् ? यथा भवेदपि भवेत्, स्यादपि स्यादिति। अस्ति च लोके एवंभूतः प्रयोगः। अपि भवेदेतद्देवदत्तस्यापि, स दिवसः स्याद्यत्रेदं भवेदिति। देवदत्तस्य च वर्तमानकालां सत्तामविनाशं प्रार्थयमान एतत्प्रयुङक्ते; अपि भवेदेतत्, भवेद्देवदत्त इति। अत्राप्यन्यत्वमस्ति; कुतः, साधनभेदात्कालभेदाच्च। एकस्यात्र भवतेर्भवति साधनं सर्वकालश्‍च प्रत्ययः। अपि भवेदित्यत्र यो भवति तत्र देवदत्तसत्ता न प्रकृत्यर्थः; किं तर्हि ? प्रत्ययार्थः; प्रार्थनेव लिङिति सर्वकालत्वं कालविशेषस्यानाश्रितत्वात्। ‘अपरस्य बाह्यं साधनं वर्तमानकालश्‍च प्रत्ययो भवति। तस्य बाह्यं साधनं द्रव्यं देवदत्त इत्यर्थः, देवदत्तसत्ता तु प्रकृत्यर्थः, वर्तमानसत्ता तु देवदत्तस्. प्रार्थ्यत इत्यनुपात्तकालविशेषः। शास्‍त्रे लिङ् स्वरूपादेव वर्तमानकालेऽवतिष्ठते, यथा तव्यादयो भविष्यति, कर्त्तव्यः कट इति। स्वभावाच्‍चार्थानां व्यवस्थेपि भाष्ये कालाधिकारः प्रत्याख्यातः। एवं स्यादपि स्यादित्यत्रापि स्वाभाविकं नानात्वं साधनकालभेदेन प्रतिपाद्यत इति।

नन्वस्त्यादयोऽपि निपाताः, ते चाख्यातस्वरूपत्वात् कारकाणि विशिंषन्तः कालं पुरुषं संख्यां न व्यभिचरिष्यन्ति; यत्र व्यभिचारस्तत्र कथम् ? तथा हि— भवति पक्ष्यति भवत्यपाक्षीदयूयुजस्त्वमसीति कालव्यभिचारः; भवतु गच्छाम्यहमिति पुरुषव्यभिचारः; भवतु तयैव मण्डूकाः पच्यन्तामिति संख्याव्यभिचारः; भवतु नाम द्रक्ष्यसीति कालपुरुषव्यभिचारः; भवतु तयैव मण्डूकाः पच्यन्तामिति संख्याव्यभिचारः; भवतु नाम द्रक्ष्यसीति कालपुरुषव्यभिचारः; भवतु भविष्यन्ति जीवतो धनानीति कालसंख्याव्यभिचारः; अस्त्यगमाम घोषादिति कालपुरुषसंख्याव्यभिचारः। लोके चैवंभूता वाचोयुक्तिरस्ति, प्रयुङ्क्ते हि लोकः, अस्ति गच्छामो वयमित्येवमादिः, तत्रास्तीत्येकवचनमुपलभ्यते। तेन मन्यामहे गमेरेवैकत्वाश्रयस्य कर्तृत्वं, न वयमिति बहुत्वाश्रयस्य। तदेवं सामान्यक्रियया विशेषक्रियाणां कर्तृत्वेनाभिसंबन्धात् अस्त्यनयोस्साध्यसाधनभावः। विशेषक्रियायामपि क्‍वचित्कत्वेन संबन्धो दृश्‍यते— पश्‍य धावति, पश्‍याम उदाह्रियन्ते, मन्ये यास्यसि, स्मरसि वत्स्यामः, न मर्षयामि याजयिष्यति, आशंसे युक्तोऽधीयेति। करणादिभावश्‍च तिङन्तानां च विद्यते, पचति पठतीति। अत्र तु विद्यत एव संबन्धः, सर्वनाम्‍ना परामर्शात्। न चेह वाक्‍यभेदः, सर्वथैव तदनुपलब्धेः। तत्र हि खलु वाक्‍यभेद उपेयते। त त्रासौ परामृश्‍यमानोऽन्यां बुद्धिल्लिखति। न चेहोल्लेखवान् वाक्‍यभेदो बुद्धावुपलभ्यते; तस्मादेकवाक्‍यत्वमेव। अत एवाभिजानासि देवदत्त यत् कश्‍मीरेषु वत्स्यामः, तत्रौदनं भोक्ष्यामहे इति ‘विभाषा साकाङ्क्षे’ (३.२.११४) इति सर्वनाम्‍ना परामर्शात्साकाङ्क्षत्वोपपत्तेः। तत्रेत्यनेनासंधीयमानत्वाल्लटो लङश्‍च विकल्पः प्रवर्तते। स स्वपित्येष बुध्यते, सोऽस्तमयतेऽयमुदेतीत्यत्र तु परस्परं वा आख्यातयोर्लक्ष्यलक्षणभावः, सह वा सर्वैरेव कालविशेषादिकं लक्ष्यत इत्येकपरत्वादेकवाक्‍यतैव। यथा—

कुमुदानि प्रबुध्यन्ते शतपत्राणि शेरते।
शकटं गाहते व्योम मातृमण्डलमुज्झति ॥ ८३ ॥

हन्तीति पलायत इत्यादौ त्ववस्थित एव हेतुहेतुमद्भाव इति न द्योत्यते; नन्वपूर्वं क्रियते पचति पठतीत्यत्रापि प्रसङ्गात्। एते तावदवध्यवधिमद्भावो यावदादौ समुच्‍चयादौ चादयश्‍च व्याख्याताः। तदेवं सूत्रकारस्य भाष्यकारस्य च दर्शने अस्ति क्रियायाः क्रियान्तरेण संबन्धः। वार्त्तिककारस्तु युष्मदस्मदादेशनिघाताद्यर्थम्, ‘आख्यातं साव्ययकारकविशेषणं वाक्‍यम्’ ‘एकतिङ् वाक्‍यमिति अन्यदेव लौकिकात् पारिभाषिकं वाक्‍यलक्षणमारभते। न च तेन लौकिको व्यवहारस्सिध्यतीत्युपेक्ष्यते। तदुक्तम्—

निघातादिव्यवस्थार्थे शास्‍त्रे यत् पारिभाषिकम्।
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणम् ॥ ८४ ॥

(वाप. २.३) एतेन भिन्नाभिन्नप्रवक्तृकानेकवाक्योपकल्पितैकवाक्‍यस्थानामपि क्रियाणां परस्परमभिसंबन्धो व्याख्यातः। स भिन्नप्रवक्तृकत्वे यथा—

कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम्।
पुनरपि तदेव कथयसि मृतां तु कथयामि या श्वसिति ॥ ८५ ॥

अभिन्नवक्तृत्वे यथा—

यत्स्वच्छे सलिलात्मनि प्रतिफलद्देवे त्रियामापतौ पीयूषाकृति पर्यवस्यति किल ज्योत्स्‍नेति तत्त्वान्तरम्।
तिग्मं धाम चिरं चकास्ति दिवि तत् (यत्) तत्रास्ति दिव्यः पुमान् यं विज्ञातवतां त्रुटन्ति निखिला भूयोभवग्रन्थयः ॥ ८६ ॥

१. २. ‘चचाल सा चे’— ति युक्‍ततरः पाठः। (११. प्रकरणम्)

प्रबन्धाङ्गमवान्तरवाक्‍यं प्रकरणम्।

(आर्थप्रकरणम्)

तत् त्रिधा— १. प्रस्तुतं, २. कल्पितं, ३. आकस्मिकं च। तेषु

(१) प्रस्तुतं द्विधा— अङ्गं वर्णकं च। तयोः

अङ्गं यथा—(कुसं. ५. ३०)

अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्निव ब्रह्ममयेन तेजसा।
विवेश कश्‍चिज्जटिलस्तपोवनं शरीरबन्धः प्रथमाश्रमो यथा ॥ ८७ ॥

इत्यत आरभ्य—(कुसं. ५.८४)

इतो गमिष्याम्यथवेति वादिनी श्रमालसा२ च स्तनाभिन्नवल्कला।
स्वरूपमास्थाय च तां कृतस्मितस्समाललम्बे वृषराजकेतनः ॥ ८८ ॥

इति यावत्। अत्र हि—(कुसं. ५.३१)

तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती।
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ ८९ ॥

इत्यादेः प्रकरणार्थस्य कथाशरीरत्वमवगम्यते।

वर्णको यथा—(कुसं. १.३१)

असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।
कामस्य पुष्पव्यतिरिक्तमस्‍त्रं बाल्यात् परं साथ वयः प्रपेदे ॥ ९० ॥

इत्यत आरभ्य—(कुसं. १.४९)

सर्वोपमाद्रव्यसमुच्‍चयेन यथाप्रदेशं विनिवेशितेन।
सा निर्मिता विश्वसृजा प्रयत्‍नादेकस्थसौन्दर्यदिदृक्षयेव ॥ ९१ ॥

इति यावत्। अत्र हि—(कुसं. १.३२)

उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम्।
बभूव तस्याश्‍चतुरश्रशोभि वपुर्विभक्तं नवयौवनेन ॥ ९२ ॥

इत्यादेः प्रकरणार्थस्य पार्वतीरूपयौवनलावण्यवर्णनाद्यवगम्यते।

(२) कल्पितं द्विधा— साभासं निराभासं च। तयोः

साभासं यथा— (माघ. १.४२)

अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ ९३ ॥

इत्यत आरभ्य—(माघ. १. ६९)

यथोपपत्तिच्छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकाम्।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति सोऽप्यसः परैः ॥ ९४ ॥

इति यावत्। अत्र हि—(माघ. १.४८)

विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्‌वास्‍त्रिदशैस्समं पुनः।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ ९५ ॥

इत्यादिः प्रकरणार्थः कल्पितोऽपि पुराणेषूपलम्भासंभवाच्‍च तथात्वेनावभासते।

निराभासं यथा—(किराता. १६.१)

ततः किराताधिपतेरलघ्वीमाजिक्रियां वीक्ष्य विवृद्धमन्युः।
स तर्कयामास विविक्ततर्कश्‍चिरं विचिन्वन्निव कारणानि ॥ ९६ ॥

इत्यत आरभ्य—(किराता. १६.१७)

इयं च दुर्वारमहारथानामाक्षिप्य कीर्ति महतां बलानाम्।
शक्तिर्ममावस्यति हीनयुद्धे सौरीव तारापतिधाम्‍नि दीप्तिः ॥ ९७ ॥

इति यावत्। अत्र हि—(किराता. १६.२)

मदस्त्रुस्त्रतिश्‍यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः।
सिहष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवोत्क्षिपन्तः ॥ ९८ ॥

इत्यादिः प्रकरणार्थः तापसकिरातयुद्धवर्णनायामनाभासमानः काव्यकुशलेन कविनोहापोहद्वारेणोपकल्प्य कथ्यते।

(३) आकस्मिकं द्विधा सबीजं निर्बीजं च। तयोः

सबीजं यथा (रघु. ५.४३)—

अथोपरिष्टाद् भ्रमरैर्भ्रमद्भिः प्राक्‍सूचितान्तः सलिलप्रवेशः।
निर्धौतदानामलगण्डभित्तिर्वन्यस्सरित्तो गज उन्ममज्ज ॥ ९९ ॥

इत्यत आरभ्य—(रघु. ५.६०)

इत्थं तयोरध्वनि दैवयोगादासेदुषोस्सख्यमचिन्त्यहेतु।
एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् ॥ १०० ॥

इति यावत्।

अत्र हि — (रघु. ५.५७)

गान्धर्वमस्‍त्र तदतः प्रतीच्छ प्रयोगसंहार—विभक्तमन्त्रम्।
प्रस्वापनं नाम यतः प्रहर्तुर्न चारिहिंसा विजयश्‍च हस्ते ॥ १०१ ॥

इति सबीजम्। यस्याग्रतः — (रघु. ७.६१)

प्रियम्वदात् प्राप्तमथ प्रियार्हः प्रायुङ्क्त राजस्वधिराजसूनुः।
गान्धर्वमस्‍त्रं कुसुमास्‍त्रकान्तः प्रस्वापनं स्वप्‍ननिवृत्तलौल्यः ॥ १०२ ॥

इति फलमुपलभ्यते।

निर्बीजं यथा—(रघु. १२.२८)

सन्ध्याभ्रकपिशस्तत्र विराधो नाम राक्षसः।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥ १०३ ॥

इत्यारभ्य—(रघु. १२.३०)

तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम्।
गन्धेनाशुचिना चेति वसुधायां निचख्‍नतुः ॥ १०४ ॥

इति यावत्। अत्र हि—(रघु. १२.२९)

स जहार तयोर्मध्ये मैथिलीं लोकशोषणः।
नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥ १०५ ॥

इत्यादेः प्रकरणार्थस्याग्रतः फलानुपलम्भादाकस्मिकस्यापि निर्बीजत्वमवगम्यते। तदिदमर्थतस्त्रिधा प्रकरणमभिहितम्।

(शाब्दप्रकरणम्)

अथ शब्दतोऽपि त्रिधैवाभिधीयते—

१. एकवाक्‍यम्, २. अनेकवाक्‍यम्, ३. एकानेकवाक्‍यम् च।

(१) तत्रैकवाक्‍यं द्विधा—सानुबन्धं निरनुबन्धं च। तयोः

सानुबन्धं यथा—(रघु. १२.७८)

स मारुतिसमानीतमहौषधिहृतव्यथः।
लङ्कास्त्रीणां पुनश्‍चक्रे विलापाचार्यकं शरैः ॥ १०६ ॥

इति। निरनुबन्धं यथा—

‘ते हिमालयमामन्त्र्य’ ॥ १०७ ॥ (कुसं. ६.९४)इत्यादि

(२) अनेकवाक्‍यं द्विधा— आद्युपसंहृतमन्तोपसंहृतं च। तयोः

आद्युपसंहृतं यथा—(कुसं. ७.५६)

तस्मिन् क्षणे पौरविलासिनीनामीशानसंदर्शनलालसानाम्।
प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि ॥ १०८ ॥

इत्यत आरभ्य

‘तासां मुखैरासवगन्धगर्भैः’ ॥ १०९ ॥ (कुसं. ७.६२. रघु.७.११) इत्यादि।

अन्तोपसंहृतं यथा—(कुसं. ७.६५)

स्थाने तपो दुश्‍चरमेतदर्थमपर्णया पेलवयाभितप्‍तम्।
या दास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम् ॥ ११० ॥

इत्यारभ्य—(कुसं. ७.६९)

इत्यौषधिप्रस्थविलासिनीनां श्रृण्वन् कथाः श्रोत्रसुखास्त्रिनेत्रः।
केयूरचूर्णीकृतलाजमुष्टिर्हिमालयस्यालयमाससाद ॥ १११ ॥

इति यावत्।

(३) एकानेकवाक्यं द्विधा— सर्वनामयोजितं विभक्तियोजितं च। तयोः सर्वनामयोजितं यथा—

‘अस्त्युत्तरस्यां दिशि’ ॥ ११२ ॥ (कुसं.१.१) इत्यादि।

इत्यत आरभ्य—(कुसं. १.१७)

यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च।
प्रजापतिः कल्पितयज्ञभागश्शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥ ११३ ॥

इति यावत्।

विभक्तियोजितं यथा— (कुसं. ३.५२)

निर्वाणभूयिष्ठमथास्य वीर्यं सन्धुक्षयन्तीव वपुर्गुणेन।
अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या ॥ ११४ ॥

इत्यत आरभ्य—(कुसं. ३.५६)

सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम्।
प्रतिक्षणं संभ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती ॥ ११५ ॥

इति यावत्।

एतेनैतद्‌व्यतिरेकोऽपि व्याख्यातः। यथा—(सेब. ९.१)

अह पेच्छंति पवंगा सअल—जअक्कमण—व़ड्‌ढिअमहासिहरं।
णिट्ठविअ—दक्खिण—दिसं सेसदिसा—मुह—पहाविअं व सुवेलं ॥ ११६ ॥

इत्यत आरभ्य—(सेब. ९.९५)

तुङ्ग—अडोज्झर-मुहले जस्स अ कसणमणिगंड—सेलद्धंते।
सेवंतीण ण पत्तो तिअस—वहूण सिढिलत्तणं अणुराओ ॥ ११७ ॥

(अथ प्रेक्षन्ते — — — — अनुरागः ॥)

इत्याश्वासकपरिसमाप्‍तिर्यावदिति।

ननु वर्णसमूहः पदं, पदसमूहो वाक्यं, वाक्यसमूहः प्रकरणमित्याचक्षते।

तत्कथमुच्यते एकवाक्यं प्रकरणमवान्तरवाक्यं प्रकरणमिति ?

उच्यते, त एव प्रष्टव्याः उच्‍चरितप्रध्वंसिनामनर्थकानां च वर्णानां समूहस्य पदत्वमर्थवत्तया वर्णयन्तः। वयं त्वेकार्थपरः पदसमूहो वाक्यमित्येव प्रतिजानीमहे। तत्र पदैरपि वाक्यमारभ्यते, वाक्यैरपि च प्रकरणमारभ्यते, वाक्यैः पदैरपि च प्रकरणैः प्रबन्ध आरभ्यते। ततश्‍च

वाक्येष्वपि वाक्यानि भवन्ति। यथा— (मवीच. १.३०)

कन्यारत्‍नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्‍नं यत्क्‍वचिदस्ति तत्परिणमत्यस्मासु शक्रादपि।
कन्यायाश्‍च परार्थतैव हि मता तस्याः प्रदानादहं बन्धुर्वो भविता पुलस्त्यपुलहप्रष्ठाश्‍च संबन्धिनः ॥ ११८ ॥

प्रकरणेष्वपि प्रकरणानि यथा— इन्दुमतीस्वयंवरे मगधेश्वरादिराजवर्णनादीनि।

प्रबन्धेष्वपि प्रबन्धा यथा— उत्तरचरितादौ गर्भनाटकादीनि।

यदि वाक्यमेव पदसमूहः, कथमाह महावाक्यो(काव्यो)पनिषदाचार्यो दण्डी—

तैश्शरीरं च काव्यानामलङ्काराश्‍च दर्शिताः।
शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ॥ ११९ ॥

इति। (काआ. १.१०) (१२. प्रबन्धः)

विधिनिषेधावगतिहेतुर्महावाक्यं प्रबन्धः।

तत्त्रिधा — १. पद्यं, २. गद्यं (च), ३. मिश्रं च।

(१. पद्यम्)

तेषु च्छन्दोगतं पद्यम्। छन्दस्तु त्रिधा— अक्षरच्छन्दो, मात्राच्छन्दो, गणच्छन्दश्‍चेति। तान्यपि प्रत्येकं त्रिधा समार्धसमविषमभेदात्। तत्र —

अक्षरच्छन्दस्समं यथा—(ऋवे. १०.१०३.१)

आशुश्शिशानो वृषभो न युध्मो घनाघनः क्षोभणश्‍चर्षणीनाम्।
संक्रन्दनोऽनिमिष एकवीरश्शतँ सेना अजयत्साकमिन्द्रः ॥ १२० ॥

अर्धसमं यथा—(ऋवे. १०.८५.१९)

नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे।
भागं देवेभ्यो विदधात्यायन् प्र चन्द्रमास्तिरति दीर्घमायुः ॥ १२१ ॥

विषमं यथा—(ऋवे. १.१७०.१)

न नूनमस्ति नो श्वः कस्तद्‍वेद यदद्भुतम्।
अन्यस्य चित्तमभि संचरेण्यमुताधीतं विनश्यति ॥ १२२ ॥

पूर्वोक्तोदाहरणत्रयमपि वैदिकविषयमेव।

मात्राच्छन्दस्समं यथा—

वाउ न पुव्वु न पच्छिमु न वि दक्खिणु वहइ।
वणे न कयंबु न अंबु न पाडल महमहइ ॥ १२३a ॥

(वायुः न पूर्वः न पश्चिमः नापि दक्षिणः वहति।
वने न कदम्बः न आम्रः न पाटला गन्धं प्रसारयति ॥)

कोइल-मोर-मरालहं कोइ न वाहरइ।
माए न जाणउ माहहे केवं विरहिणि मरइ ॥ १२३b ॥

(कोकिलमोरमरालानां कोऽपि न व्याहरति।
मातर् न जाने माघे कथं विरहिणि मरइ ॥)

अर्धसमं यथा—

दिणहदिवट्ठहो इति स उप्पिज्ज्‍इउ सुरेविओ।
अवरणेह मिहइ घरुमादालव्च हि दूरे ॥ १२४ ॥

विषमं यथा—

जइविव्गव्डहीजइ विवव्डुरव्हु पहुदुग्गमुतरु अरहीजइ विगहणेसूरु।
विणदीसइ इतो इसु पुरिसु वसदि जहीते धुवट्ठहरहप अट्ठदि ॥ १२५ ॥

गणच्छन्दस्समं यथा—(कादम्बरीमङ्गलम्)

रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥ १२६ ॥

अर्धसमं यथा— (किराता. १३.१)

वपुषा परमेण भूधराणामथ संभाव्य पराक्रमं विभेदे।
मृगमाशु विलोकयाञ्चकार स्थिरदंष्ट्राङ्कमुखं नरेन्द्रसूनुः ॥ १२७ ॥

विषमं यथा—(किराता. १२.१)

अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम्।
क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धमञ्जयः ॥ १२८ ॥

तदेतत्‍त्रिविधमपि महाकाव्येतिहासश्रुत्यादिषु च द्‍ृश्यते।

(२. गद्यम्)

अच्छन्दः पदसंतानो गद्यम्। तत्‍त्रिधा वृत्तगन्धि, चूर्णम्, उत्कलिकाप्रायं च। तेषु

पद्यगन्धवद् वृत्तगन्धि। तत्‍त्रिधा— समा(र्ध)सम—विषमभेदात्। तेषु

समगणच्छन्दोगन्धि यथा—

‘पातालतालुतलवासिषु’ ॥ १२९ ॥ इति ॥

अर्धसमगणच्छन्दोगन्धि यथा—

‘क्रममारचय्य च महेन्द्रशासनात् खमुत्पपात’ ॥ १३० ॥ इति ॥

एवं मात्राक्षरच्छन्दोऽपि द्रष्टव्यः।

अनाविद्धललितपदं चूर्णम्; तत्‍त्रिधा— गुरुबहुलं, लघुबहुलं, मिश्रं चेति। तत्र

गुरुबहुलं यथा—

त्रैलोक्यैकप्रदीपस्य भगवतस्सहस्त्ररश्मेरर्चिश्शिखासहस्त्र—
निष्ठ्यूतोऽञ्जनराशिरिव शार्वरस्तमस्तोमः स्त्यायते ॥ १३१ ॥

लघुबहुलं यथा—

व्यपगतघनपटलमचलजलनिधिसदृशवपुरम्बरतलं विलोक्यते ॥ १३२ ॥

मिश्रं यथा—(मामा. १.३५/३६)

‘महाभाग! सुश्लिष्टगुणतया रमणीय एष सन्निवेशः। कुतूहलिनी च नो
भर्तृदारिका वर्तते, यतस्तस्यामभिनवो विचित्रः कुसुमेषुव्यापार’ ॥ १३३ ॥

इति। अललिताविद्धपदवाक्यम् उत्कलिकाप्रायम्। तदपि त्रिधा— अललिताविद्धपदवाक्यभेदात्।

तत्र अललितं यथा—(वेणीसंहार प्रस्तावनान्ते)

अयं ललाटतटघटितविकटकीनाशतोरणत्रिशूलायमानभीषणभ्रुकुटिः क्रुद्धो
भीमसेन इत एवाभिवर्तते ॥ १३४ ॥

आविद्धपदं यथा— (मामा. ३.१५—१६)

एसो (क)खु . . . वज्जनिग्घाददारुणचवेडामोडि(अ)पाडिदानेअ—णरतुरंगम— जंगलुग्गार—भरिदगलगुहागं भीरघग्घरोल्लि/गल्लूरण—रण—सद्दसंदब्भ— पडिरवाभोअ—भीसाविद—णठ्ठविदासेस—जणणिहओ दुट्ठसद्‍दूलो कअंत— लीलाइदं करेइ ॥ १३५ ॥

आविद्धवाक्यं यथा—(काद. कथामुखम्)

यस्य च मदकलकरिकुम्भपीठपाटनमाचरतो लग्‍नस्थूलमुक्ताफलेन द‍ृढमुष्टि— निपीडनान्निष्ठ्यूतधाराजलबिन्दुदन्तुरेणेव कृपाणेन कृष्यमाणा सुभटोरःकवाटपुट— घटितकवचसहस्रान्धकारमध्यवर्त्तिनी करिकरटतटगलितमदजलासार— दुर्दिनास्वभिसारिकेव समरनिशासु समीपमसकृदाजगाम राजलक्ष्मीः ॥ १३६ ॥

तदेतत्‍त्रिविधमपि आख्यायिकासु कथासु मधुमल्लिकादिषु च द‍ृश्यते।

(३. मिश्रम्)

गद्यपद्यव्यायोगो मिश्रम्। तत्‍त्रिधा पद्यप्रधानं, गद्यप्रधानं, तुल्यरूपं चेति। तेषु— पद्यप्रधानं त्रिधा सजातीयेन विजातीयेनोभाभ्यां च।

तत्र सजातीयेनेतिहास— सुभाषितकोशादौ,

विजातीयेन प्रस्थान—सेतुबन्धन—विवरणादौ,

उभाभ्यां भारतीयदशरूपकलक्षणादावस्य प्रयोगो दृश्यते।

गद्यप्रधानमपि तद्‍वदेव त्रिधा— तत्र सजातीयेन पञ्चतन्त्र—चकेटा(चेटक) . . . दौ, विजातीयेन कात्यायनीय—पाणिनीय—प्राकृतलक्षणादौ, उभाभ्यां मयूरशुक— मार्जारिकादावस्य प्रयोगा द‍ृश्यन्ते।

तुल्यरूपमपि त्रिधैव सजातीयाभ्यां, विजातीयाभ्यां, सजातीयविजातीयाभ्यां चेति।

तत्र सजातीयाभ्यां चम्पू—समीक्षा—सट्टकादौ,

विजातीयाभ्यामपि मार—साम्ब—गोविन्दाख्यानकादौ;

सजातीयविजातीयाभ्यां नाटक—नाटिकादि—विदग्धमुखमण्डनादावस्य प्रयोगो द‍ृश्यते।

प्रकृत्यादिविभागेन सैष द्वादशधा स्थितः।
अर्थावसायप्रसवनिमित्तं शब्द इष्यते ॥ १३७ ॥

(स्फोट. ३) ननु च वर्णसमूहश्शब्द इति वक्तव्ये किमर्थमुच्यते प्रकृत्यादयश्शब्दा इति? यदाह क: पुनश्शब्द इति प्रश्‍ने गकारौकारविसर्जनीया इति भगवानुपवर्षः। नैवम्; अर्थावसायप्रसवनिमित्तं शब्द इष्यते। अथ गौरिति न प्रसवनिमित्तेषु जातिक्रियागुणद्रव्यादीनाम्। कः शब्दः, येनोच्‍चारितेन अर्थः प्रतीयते, तर्हि वर्णा एव शब्दः। उच्‍चारितेषु हि गकारौकारविसर्जनीयेषु गौरिति सास्‍नादिमानर्थः प्रतीयते, सत्यमेतत्। किन्तु वर्णाः प्रत्ययनिमित्तमेकशो वा स्युः, समुदिता वा। न तावदेकशः, द्वितीयादिवर्णोच्‍चारण— वैयर्थ्यप्रसङ्गात्। नापि समुदिताः उत्पत्तिपक्षे यौगपद्येनानुत्पत्तेः, उत्पन्नस्य च क्षणादूर्ध्वमनवस्थानात्। अभिव्यक्तिपक्षे क्रमेणैवाभिव्यक्तेः अभिव्यक्त्‍यन्तरमेव च वायुभिस्तिरोधानात् कथं समुदायः ? एकस्मृत्युपारूढानां च वर्णानां वाचकत्वे क्रमस्मरणे नियमनिमित्ताभावात्। उक्तक्रमेण च स्मरणदर्शनात् सरो, रस इति प्रतीतेरविशेषः प्राप्‍नोति। वक्तृभेदे चार्थप्रत्ययप्रसङ्गः। उतो न वर्णाश्शब्दः, किन्तु वर्णसमूहभिव्यङ्ग्य— स्फोटलक्षणोक्तार्थात्मा शब्द इति। स एव स्फुटत्यस्मादर्थ इत्यर्थावसायप्रसवनिमित्तमिष्यते। कथं तर्हि शब्दं कुरु, मा शब्दं कार्षीः, शब्दकार्ययं माणवक इति ध्वनिं कुर्वन्‍नुच्यते? अभिव्यञ्जकाभिव्यङ्ग्ययोरभेदोपचारात्। नन्वभिव्यञ्जकत्वेऽपि न वर्णानामर्थवत्ता भवितुमर्हतीति? नैवम्, वर्णसमूहात्मनो ध्वनेरेवाभिव्यञ्जकत्वात्। किं पुनर्वर्णास्सर्वथैव नार्थवन्तः ? पृथक्‍त्वेन तावन्नार्थवन्तः, न हि प्रतिवर्णमर्था उपपद्यन्ते।

ननु च धातुप्रातिपदिकप्रत्ययनिपातेषूपलभ्यन्ते— धातुषु इण्—एति, ऋ—इयर्तीति; प्रातिपदिकेषु अः शार्ङ्गी, उः ब्रह्मेति, उ उपस्करोति। नैते वर्णाः, अपि तु शब्दाभिव्यक्तिहेतव एकवर्णा एकध्वनिहेतवश्शब्दशब्दवाच्याः। न तूपचारतोऽपि वर्णसमूहश्शब्दः। नैवम्, अर्थाभिव्यक्तिहेतुश्शब्दः, शब्दाभिव्यक्तिहेतुर्ध्वनिः। स तु कश्‍चिदेकवर्णः; एकस्मिन्नेव वा समूहारोपणं सामर्थ्यातिशयाद्, यथैकापूपीति। यदि ह्येकस्मिन्नपूपे समूहो नारोप्यते, समूहाभावादेकापूप इत्येव स्यात्, न त्वेकापूपीति। कथं पुनरेकस्मिन् समूहारोपणम् ? व्यपदेशिवद्भावात्। अन्यथा ‘इयाय आर’ इत्यादौ प्रथमत्वैकाच्‍त्वयोरभावाद् द्विर्वचनाभावः। यद्येवमन्येऽपि वर्णास्समूहारोपणेनैव ध्वनयो भवितुमर्हन्ति। नार्हन्ति। कुतः? शब्दशक्ति— स्वाभाव्यात्। यथा समानमीहमानानामधीयानानां च केचिदर्थैर्युज्यन्ते केचिन्न युज्यन्ते; तथा धातुप्रातिपदिकप्रत्ययनिपाता एवैकवर्णास्समूहारोपणेनैवार्थवत्त्वाय ध्वनिव्यपदेशं लभन्ते, न पुनरन्ये। स्वाभाविकं चैतत्; न च स्वभावाः पर्यनुयोगमर्हन्ति।

इतस्तर्ह्यर्थवन्तो वर्णाः। वर्णव्यत्यये वर्णविपर्यये वर्णापाये वर्णोपजने वर्णविकारे वाऽर्थान्तरं गम्यते। वर्णव्यत्यये कूपः, सूपः, यूप इति। वर्णविपर्यये कलमः, लमकः, मलक इति। वर्णापाये मशकः, शकक इति। वर्णोपजने अक्षः, प्लक्षः, पक्ष इति। वर्णविकारे नीरं, नीलं नीडमिति। तत्र कूप इति सककारेण कश्‍चिदर्थो गम्यते, सूप इति सकारव्यत्ययेऽर्थान्तरं, यूप इति तु सकारस्य ककारस्य वा यकारस्य व्यत्यये कूपात् सूपाच्‍चार्थान्तरमिति। तेन मन्यामहे यः कूपे कूपार्थस्स ककारस्य, यस्सूपे सूपार्थस्स सकारस्य, यो यूपे यूपार्थस्स यकारस्येति। यदि तु समुदायस्यायमर्थो भवेत्, कूपादिसमुदायस्स यूपादिषु भूयस्त्वाद्भूयिष्ठः कूपार्थस्सूपे स्यात्; सूपार्थश्‍च कूपे, कूपार्थश्‍च यूपे, यूपार्थश्‍च सूप इति; एवं वर्णविपर्ययेऽपि क्रमोत्क्रमयोस्समुदायाविशेषात्, कमलः. मलकः, लमक इति प्रत्ययाविशेषः प्राप्‍नोति; न हि त्रस्तेभ्यो वटपरिच्छेदे पलाशतः खदिरतो वा न अवधारणे समुदायस्य भेदो भवति। वर्णापायेऽप्येकाद्यवयवविरहे समुदायस्यानन्यत्वात् मशकः, शकक इति नार्थान्तरं गम्येत। भिन्नकर्णपुच्छोऽपि श्वा श्वैव, नाश्वतर इति। वर्णोपजनेऽप्यक्षः, प्लक्ष इति प्रत्ययविशेषो न स्यात्। न हि सूनोद्भेदे केशोद्गमे वा युवतिव्यक्तेरन्यता युक्तिमती। एवं वर्णविकारोऽपि नीरं, नीलं नीडमिति नार्थान्तरप्रतीतिर्जायेत। न ह्यपलिते पलितवति रञ्जितकेशपाशे वा विष्णुमित्रादेः स्वरूपान्यत्वं भवति। वर्णव्यत्ययविपर्ययापायोपजनविकारेषु चार्थान्तरदर्शनान्मन्यामहे अर्थवन्तो वर्णा इति। वर्णार्थवत्वे वर्णव्यत्ययविपर्ययापायोपजनविकाराः कारणमर्थान्तरोपलब्धेर्जान्ते।

अत्रापि ब्रुमः — य एते त्वया वर्णानामर्थवत्तायां हेतव उपन्यस्ता वर्णव्यत्ययादयः, तेषु कूपस्सूपो यूप इति सङ्घातान्तराण्येवैते, अर्थान्तरे च वर्तन्ते। यदि हि वर्णव्यत्ययादिकृतमर्थान्तरगमनं स्यात्, भूयिष्ठः, कूपार्थस्सूपे स्यात्, ककारमात्रस्यैव व्यत्ययात्। सूपार्थश्‍च कूप इति समानं पूर्वेण। यतस्तु न किंचित् कूपादिनां सूपादिष्वतोऽन्वयाभावान्मन्यामहे सङ्घातान्तराण्येवैतान्यर्थान्तरेषु वर्तन्त इति। एतेन वर्णविपर्ययादयोऽपि व्याख्याताः। तान्यपि हि अर्थान्तरवर्तीनि सङ्घातान्तराण्येवेति। इदं खल्वपि भवता वर्णानामर्थवत्तां ब्रुवता साधीयोऽनर्थकत्वं द्योतितम्। यो हि मन्यते यः कूपे कूपार्थः स ककारस्य, ऊपशब्दस्तस्यानर्थकः स्यात्।

ननु च समुदायस्यार्थवत्त्वे समुदायैकदेशविनाशे समुदायस्य कारणभावे कार्याभाव इति विनाशो वाभ्युपेयते; छिन्नकर्णपुच्छश्वन्यायादपि विनाशो वा। किंचातः ? विनाशपक्षे समुदायाभावादर्थाभावप्रसङ्गः। पक्षान्तरेऽपि स एवार्थो, न त्वर्थान्तरम्; ततश्‍च कथं श्लोकः, शोकः, लोकः, ओकः, कः, इत्यर्थान्तरप्रतीतिः ? उक्तमत्र— समुदायान्तराण्ये— वैतान्यर्थान्तरेषु वर्तन्ते। भवेदेतत्, यत्रार्थान्तरं गम्यते; यत्र तु स एव सोऽर्थस्तत्र कथम्? यथा उदकं, दकं, कम् इति। इमान्यपि सङ्घातान्तराण्येवैकार्थवृत्तीनि; यथा कन्दुः कोष्ठः, कुसूल इति। क्रमात्तस्य चार्थवत्तां ब्रुवता त्वयैव दकारोकारयोरानर्थक्यमुक्तं भवति। कश्‍चैवमाह ? वर्णव्यत्ययविपर्ययापायोपजनविकारेष्वर्थान्तरदर्शनमेव; यतः श्‍यामा, रामा, वामा इति वर्णव्यत्ययो नार्थव्यत्ययः। तर्कुः, सिकता, सिंह इति वर्णविपर्ययो नार्थविपर्ययः। सन्ति, घ्‍नन्तीति, स्यन्ति, वर्णापायो नार्थापायः। आस्थात्, अवोचत्, सञ्चस्कारेति वर्णोपजने नार्थोपजनः। घातयति, क्षिणोति, रोपयतीति वर्णविकारो नार्थविकारः। तेन मन्यामहे वर्णव्यत्ययादिष्वप्यनर्थान्तरगमनादनर्थका एव वर्णा इति।

इतस्तर्ह्यर्थवन्तो वर्णाः; यदेषां सङ्घाता अर्थवन्तः। येषां ह्यवयवा अर्थवन्तस्त एव समुदायादर्थवन्तः; तद्यथा— एकश्‍चक्षुष्मान् पश्‍यति, तत्समुदायश्शतमपि पश्‍यति। एकतिलस्तैलं प्रसूते, तत्समुदायः खारीशतमपि प्रसूते। येषां पुनरवयवा नार्थवन्तस्तत्समुदाया अपि नार्थवन्तः। तद्यथा एकोऽन्धो न पश्‍यति, शतमप्यन्धानां न पश्‍यति। एका सिकता तैलं न प्रसूते, तत्समुदायः खारीशतमपि न प्रसूत इति। नैवम्, अतदर्थेनाप्यवयवेनावय— विनोऽर्थसद्भावो दृश्यते। यथा एक ऊर्णातन्तुः शीतत्राणासमर्थः, तत्समुदायश्‍च कम्बलः समर्थः; एकस्तण्डुलः क्षुत्प्रतिघातेऽसमर्थः, तत्समुदायश्‍च १वर्धितकं समर्थमिति। नैवं भवति। तत्र प्रत्येकमपि कियत्यप्यर्थमात्रा; इमे पुनर्वर्णा अत्यन्तायैवानर्थकाः। यथा तर्हि रथाङ्गानि विहितानि तानि प्रत्येकं न२ व्रजिक्रियासमर्थानि, तत्समुदायश्‍च रथस्समर्थ इति। एवमेषां वर्णानां समुदायाश्शब्दाभिव्यक्तिहेतवोऽर्थवन्तः, अवयवास्त्वनर्थका इति।

अतः स्थितमेतत् प्रकृतिप्रत्ययादिवर्णजनितध्वनिसमूहोऽभिव्यङ्ग्यस्फोटलक्षणो— ऽर्थात्माऽर्थावसायप्रसवनिमित्तं शब्दः। तद्‌विशेषाश्‍च प्रकृत्यादिस्फोटः पदस्फोटो वाक्‍यस्फोट इति।

योऽभूदित्यादिकश्शब्दो भवतीत्यादिकश्‍च यः।
भूरस्तीत्यादिको यश्‍च स स्फोटं नातिवर्तते ॥ १३८ ॥

प्रतिपाद्यो निवर्त्त्यश्‍च प्रतिपादक एव च।
त्रिधा स्फोटस्स्फुटत्यस्मादतोऽस्ते घटादयः ॥ १३९ ॥

उक्तः क्रमाद् द्वादशभेदभिन्नश्शब्दप्रपञ्चोऽयमनादिसिद्धः।
अथार्थमूर्त्त्याऽस्य विवर्तमाद्यं तावत्प्रकारं प्रतिपादयामः ॥ १४० ॥

इति महाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे

प्रकृत्यादिशब्दप्रकाशो नाम

॥ तृतीयः प्रकाशः ॥ ३ ॥

तृतीय एषोऽस्ति मया प्रकाशः प्रसाधितो हन्त सनातनेन।

भोजप्रकाशः प्रकिरेत् प्रकाशं साहित्य—सौहित्य—समुत्सुकेषु ॥ १. अन्नपूर्णं पिठरादि पात्रम्। मनुः ३.२२४। २. नकारं राघवो न पठति HOS २००