अथ
शृङ्गारप्रकाशे द्वितीयः प्रकाशः
प्रातिपदिकप्रकाशः
(५. प्रातिपदिकम्)
प्रातिपदिकं त्रिधा—
१. विभक्तावयवम्,
२. अविभक्तावयवम्१
३. अनुकरणं च। तत्र२
१. विभक्तावयं त्रिधा— १. कृद्रूपम्, २. तद्धितरूपम्, ३. समासरूपं च। तेषु —
(१. कृद्रूपम् विभक्तावयम्)
भाव—कारकाऽभिधायिनो धातुप्रत्ययाः कृतः। तत्र—
(भावः —६)
धात्वर्थ एवाऽपूर्वापरीभूतो भावः। यदाह— (वाप. ३.८.१२)
कालानुपाति यद् रूपं धात्वर्थस्य क्रियेति तत्।
परितो यत् परिच्छिन्नं तद्भाव इति कथ्यते ॥ १ ॥
स (भाव) इह षोढा संभवति— १. सिद्धः, २. साध्यः, ३. सिद्धासमाप्तः, ४. साध्याऽसमाप्तः, ५. सिद्धसाध्यः, ६. साध्यसिद्धश्चेति। तेषु—
(१. सिद्धः)
उद्भूतप्रत्ययांशत्वेन क्रियाऽनुद्रेकात् सत्त्वभूतत्वे लिङ्गसंख्याद्युपग्राही ‘कर्तृकर्मणोः कृति’ (२.३.६५) इति सम्बन्धविभक्तेर्निमित्तं सिद्धः। यथा— ‘आश्चर्यमिदमोदनस्य च पाको ब्राह्मणानां च प्रादुर्भावः, भेदिका काष्ठानां देवदत्तस्य, चिकीर्षा यज्ञदत्तस्य कटस्य’ इति। अत्र ‘उभयप्राप्तौ कर्मणि (२.३.६६) एवेति नियमे उभयोः प्राप्तिर्यस्मिन् कृति’ इति व्याख्यानात् (मभा. २.३.६६) अकाकारयोश्च नियमप्रतिषेधात् कर्त्तर्यपि षष्ठ्येव भवन्ती भावस्य सिद्धतां द्योतयति। १. द्र. पृ० ११९। २. द्र. पृ० १२०। (२. साध्यः)
उद्भूतप्रकृत्यंशत्वेन क्रियोद्रेकादसत्त्वभूतत्वे लिङ्गसंख्याद्यनुपग्राही कर्तृकर्मणोः कारकविभक्तेरेव निमित्तं साध्यः। यथा— ओदनं भोक्तुं याति, स्वाध्यायमधीत्य स्नाति, पयः पायंपायमास्ते इति। अतएव ‘न लोकाव्ययखलर्थतॄनाम्’ (२.३.६९) इत्यादिना षष्ठी निषिध्यते।
(३. सिद्धासमाप्तः)
सिद्ध एव तद्धितानुबन्धी सिद्धासमाप्तः। यथा — व्यावक्रोशी, सांकूटिनम्, कृत्रिमम् इति। अत्र
यथा ‘आभिजित्यः, कौञ्जायन्यः’ इत्यादावणाद्यभिहितोऽप्यपत्यार्थः, तैत्तिरीयाः छागलेयिनः इत्यादौ छणाद्यभिहितोऽपि प्रोक्तार्थः, स्वार्थिकाध्येतृवेदितृविषय— तद्धितोत्पत्तिमन्तरेण न समाप्यते, तथा व्यतिहाराभिविध्युपाधिको णजिनुणुक्तः शुद्धश्च क्त्र्यभिहित सिद्धोऽपि भावः स्वार्थिकनिर्वृत्ताथीयितद्धितोत्पत्तिमन्तरेण न समाप्यत इति सिद्धासमाप्तो भवति।
(४. साध्यासमाप्तः)
साध्य एवानुप्रयोगानुबन्धी साध्यासमाप्तः। यथा चकासाञ्चकार विदाङ्कुर्वन्तु, रैपोषं पुष्यति इति। अत्र
यथा शुक्लीभवति, पटपटाकरोति इत्यादावभूततद्भावादिषु च्व्याद्यन्तम्, लुनीहि लुनीहि इत्येवायं लुनाति, भ्राष्ट्रमट मठमट खदूरमटेत्येवायमटति इत्यादिषु क्रियासमभिहारादिषु लोडन्तम् अनभिव्यक्त पदार्थकत्वादसमाप्तं स्वार्थाभिव्यक्तये कृभ्वाद्यनुप्रयोगं यथाविध्यनुप्रयोगं चापेक्षते तथा आमन्तं णमुलन्तं चाऽनभिव्यक्त— पदार्थकत्वादसमाप्तं साध्यरूपमेव स्वार्थाभिव्यक्तये कृभ्वाद्यनुप्रयोगं यथाविध्यनुप्रयोगं चापेक्षते इत्येतदुक्तो भावः साध्याऽसमाप्ते। भवति। तदाह — आम इव णमुलोऽप्यसमाप्तार्थत्वाच्चादिवदनुप्रयोगः सिद्ध एवं। यथाविध्यर्थं तु वचनं ‘कषादिषु यथाविध्यनुप्रयोगः’ (३.४.४६) इति। तेन चकासाञ्चकार इतयादिनाऽयमर्थो भवति चकास्ति स्म, विदन्तु, रायः पुष्यन्नमुं पुष्यति इति। अतएव क्रियाविशेषणेनैव सिद्धमिति न केचित् णमुल्प्रकरणमारभन्ते।
ननु च,
क्रियाविशेषणानां कर्मता नपुसकता च; कथं च पुषेरेव पुषिः कर्म भवति। न ह्यात्मनैवात्मा व्याप्यते, न हि सुशिक्षितोऽपि वटुः स्वं स्कन्धमारोढुं शक्नोति।
नैवम्।
‘नागरकवृत्तं वर्त्तेत, विश्वजिता यजेते’—त्यादौ सामान्यविशेषयोरनैकात्मयेन व्याप्त्यवच्छेदयोरूपलम्भात् समान्यपुषेरेवाऽवयवपुषिः कर्म भवति। न च क्रियाविशेषणानां कर्मतैवेति नियमः; क्रिया हि यथा साध्यायमानत्वात् कर्म, तथोत्पद्यमानत्वात् कर्त्र्यपि भवति। ततश्चोभयथाऽपि क्रियाविशेषणानियोज्यन्तेरैपोषं कृत्वा पुष्यति, रैपोषं यथा भवत्येवं पुष्यतीति।
(५. सिद्धसाध्यः)
सिद्ध एव साध्यधर्मयोगी सिद्धसाध्यः। यथा— आश्चर्ये गवां दोहोऽशिक्षितेनाऽगेपालेन, सधु खलु पयसः पानं यज्ञदत्तेन, विचित्रा हि सूत्रस्य कृतिः पाणिनिना इति। अत्र उभयप्राप्तौ कर्मण्येव षष्ठीति (३.२.८) कर्त्तरि तृतीयाम्नानात् सिद्धोऽप्ययं विवक्षातः सध्योऽपि भवतीति ज्ञायते।
अन्ये त्वन्यथा सिद्धसाध्यं वर्णयन्ति—उष्ट्रासिकामास्ते, पञ्च वारान् भुङ्क्ते पञ्च प्रयोगन् पचति इति। तत्रोष्ट्रासिकावारप्रयोगाणां क्रियाविशेषावृत्त्यनुष्ठान— रुपत्वेनापृथग्भावात् क्रियाभिख्याप्य़ानां द्वितीयादर्शनादभेदविवक्षातः सिद्धानामपि क्रियावदेव साध्यत्वमवगम्यते। तदाह—
तत्स्वभावविशेषत्वाद् व्याप्या नोष्ट्रासिकाऽनया। साध्यत्वे त्वासनैकात्म्यात् फलतः कर्म कथ्यते ॥२॥
सोऽयमित्यभिसंबन्धादभेदे धर्मधर्मिणोः। क्रियाया इव साध्यत्वं वारादीनां न दुष्यति ॥३॥
तेन उष्ट्रासिकामास्त इत्यादीनामयमर्ये भवति— ‘उष्ट्रवदास्ते, पञ्चावृत्तिं भुजिक्रियां करोति, पञ्च पाकान्निर्वर्तयति’ इति।
(६. साध्यसिद्धः)
सध्य एव सिद्धधर्मयोगी सध्यसिद्धः। यथा— कर्त्तव्यं भवतः, कार्यं भवतः, कृतं भवत इति। अत्र ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ (२.३.६९) इति लादीनां साध्यार्थाभिधायित्वात् कर्तृकर्मणोः षष्ठीनिषेधे, ‘कृत्यानां कर्त्तरि वा’ (२.३.७१), ‘क्तस्य च वर्त्तमाने’ (२.३६७), ‘नपुसके भावे क्त उपसंख्यानम्’ (२.३६७ वार्त्तिक), इत्यादिभिः पुनः षष्ठीविधानात् पक्षे विवश्क्षातः सिद्धार्थाभिधायित्वमवगम्यत इत्येतदुक्त्तो भावः सध्यसिद्धो भवति। न चाऽत्र कृत्यानां निषेधो न श्रूयते, यतः— ‘खलर्थतृनाम्’ इत्यत्र खलर्थेत्यनेन कृत्य—क्त—खलर्थाः शतृ—शनच्चानशश्च संगृह्यन्ते; तृन्नित्यनेन पुनस्तृन्नेवेति। अत एव निष्ठादिभावस्येव कृत्यभावस्य कर्मण्यपि षष्ठी न भवति। यथा—
गतमस्तं यथाऽर्केण यथाऽभ्युदितमिन्दुना। तथा मानेन शैथिल्यमागन्तव्यं मृगीदृशः ॥४॥
कथं पुनः सकर्मकाद् भावप्रत्ययः?
तेन ह्यकर्मकाद् भवितव्यम्; यदाह ‘लः कर्मणि च भावे चाऽकर्मकेभ्यः’ (३.४. ६९), ‘तयोरेव कृत्य—क्त—खलर्थाः’ (३.४.७०); न हि भवति कृतं कटं देवदत्तेनेति।
उच्यते— नैतदन्तरङ्गं द्रव्यकर्म, अपितु ‘कालाध्वभावगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्’ (मभा. १४.५१) इति बहिरङ्गेषु कालादिकर्मसु गन्तव्यलक्षणं गत्यर्थकर्म; बहिरङ्गता च ‘कालाध्वनोरत्यन्तसंयोगे’ (२.३.५) इत्यनेन द्वितीयाविधानेन, भावस्य च कालादभेदेन, गन्तव्यस्य तु ‘गत्यर्थकर्मणि द्वितीयाचतुर्थ्यै—(२.३.१२) इति पुनर्द्वितीयाग्रहणेन ज्ञायते; अन्यथा हि कर्मणि द्वितीयायाः सिद्धत्वात् गत्यर्थकर्मणि चतुर्थी चेत्येव ब्रूयात्।
यस्यैव च द्रव्यकर्मणोरन्तरङ्गस्याभावेनाकर्मकः तस्यैव भावेन सकर्मको भवति अतो विद्यमानमपि कालादिकर्म नाकर्मकव्यपदेशं विघ्नयति।
अन्ये त्वन्यथा साध्यसिद्धं वर्णयन्ति— ‘उष्ट्रासिका आस्यन्ते’ हतशायिकाः शय्यन्ते, यवाग्वाः पाकाय व्रजति इति। अत्र आसिकाशायिकयोगख्याताभिहित— क्रियात्मकत्वात् पाकस्य व्रज्ञिक्रियासाध्यत्वात्, सत्यपि साध्यत्वे लिङ्ग संख्यासम्बन्धि विभक्तियोगाद् विवक्षातः सिद्धत्वमपि गम्यत इत्ययं साध्यसिद्धो भवति। तथापि ‘उष्ट्रासिका आस्यन्ते, हतशदिकाः शय्यन्त’ इत्यमूभ्यां सामान्यविशेषोपचरित रूपो भावात्मैव प्रत्याय्यते। स आख्याताभ्यां सामान्यरूपेण, ण्वुलन्ताभ्यां विशोषरूपेण। बहुवचनं तु कुत्सातिशयार्थम्; या हि नाम उष्ट्रस्य कुय्सावत्यो बहुप्रकारजुषो बह्व्य आसिका; याश्च हतानामतिशयवत्यस्तथाभूता एव भूयस्यः शायिकाः प्रतीताः, ताभिर्विशेषरूपाभिरियमासिका शायिका चोपमानोपमेयसम्बन्धजनितभेदाऽभेद— परिग्रहाल्लकारेणापि सामान्यविशेषभावेन कुत्सातिशयार्थं बहुत्वेनैव प्रत्याय्यते, बहुत्वेन विना सामान्यविशेषभावानुपपत्तेः, तेनोष्ट्रासिका इवासनानि, हतशाविका इव शयनानि क्रियन्ते भवन्तीति वा वाक्यार्थो भवति।
नन्वेवमुष्ट्रासिकादीनां वारप्रयोगादानाञ्च कर्मतेव नपुंसकतापि प्राप्नोति; यथा— ‘मृदु पचति, प्रशस्तं पचतीति। उच्यते—
त्रिधा खल क्रियाविशेषणं भवति —
१. बाह्यम्, २. आभ्यन्तरम् ३. बाह्याभ्यन्तरं च। तत्र— बाह्यं धर्मरूपं वारादि; आभ्यन्तरं विशेषरूपमुष्ट्रासिकादि, बाह्याभ्यन्तरं गुणरूपं मृद्वादि। तेषु—
बाह्यम् ‘सोऽयमित्यभिसम्बन्धाद्’, अभेदोपचारेणाविचलितस्वरूपमेव प्रधानं विशिंषत् कथमिव स्वलिङ्गं जह्यात्?
आभ्यन्तरं तु विशेषांशपरिग्रहादाविष्टलिङ्गसंख्यं कथमिवान्यलिङ्गं गृह्णीयात्?
बाह्याभ्यन्तरं तु गुणत्वात् स्वलिङ्गविरहे ‘गुणवचनानामाश्रयतो लिङ्गवचनानी’—ति विशेष्यलिङ्गग्राह्येव भवति; तत्र साध्यैकस्वभावत्वादलिङ्गसंख्यायाः क्रियाया विशेषणत्वे मृद्वादीनां नपुंसकत्वमेव न्याय्यम्। उष्ट्रासिका—वारादीनां तु नित्यमाविष्टलिङ्गत्वाद् विशेषांक शपरिग्रहात् क्रियाविशेषणत्वेऽपि न नपुंसकलिङ्गता।
अथ ‘पाकाय व्रजति, एधेभ्यो व्रजति’ इति क्रियाया रन्धनाय स्थालीतिवत् तादर्थ्यचतुर्थ्यन्तः सिद्ध एव कस्मान्न विज्ञायते ? नैवम्, ‘भाववचनाश्च’ (३.३.११) इति तादर्थ्य एव प्रत्ययोत्पत्तेः, ‘तुमर्थाच्च भाववचनात्’ (२.३.१५) इति स्वार्थ एव चतुर्थीविधानात्। किमर्थं पुनरिदम्?
भावेहि घञादयः सिद्धा एव, तादर्थ्ये चतुर्थी। क्रियार्थोपपदेन तुमुनाऽस्मिन् विषये घञादयो मा बाधिषतः; वासरूपविधिश्चाऽत्र ‘तुमुन्ण्वुलौ’ (३.३.१०) इति ण्वुल्ग्रहणान्नावतरति।
अथ यथैधानाहर्त्तुं व्रजति एधेभ्यो व्रजतीति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (२.३.१४) इति चतुर्थी, तथा पाकं कर्त्तुं व्रजति पाकाय व्रजतीति यदि भवेत् को दोषः स्यात्? न कश्चित्। किं त्वेतत् पृच्छामि — स पाकः सिद्धः साध्यो वा ? यदि सिद्धः किं कर्त्तुं व्रजति ? अथ साध्यः क्रियार्थोपपदेषु तुमुना घञादयो बाध्यन्ते।
अथ तुमर्थत्वेन साध्याभिधायिनश्चतुर्थ्यन्तत्वेन चासत्त्वभूतार्थाः पाकायेत्यादिषु घञादयः, कथं यवाग्वा इत्यादेः संबन्धविभक्तेर्निमित्तं भवति ?
शब्दशक्तिरेषा यत् कस्यचिदेव केनचित् केनचिदेव कस्यचित् सम्बन्धः। तद्यथा अभिन्नेऽप्यर्थे ‘प्रजागरिताऽपररात्रानि’—ति तृनो बाह्य कर्मोपसर्गकर्मयोगाज् ज्ञायते ‘न जागरूक इति’ उक्तस्य; ‘ऊरीकरोति पाकादिकमि’—त्यूर्यादीना मेकानेक विशेषस्थया करोतिक्रियया भवति संबन्धः, न तदर्थविषयैः पचादिभिः, सूर्यमपि न पश्यन्त्यसूर्यंपश्या राजदारा इति व्यवहितामपि सूर्यकर्मिकां दृशिक्रियां नञ् निषेधति, न सूर्यसत्ताम्; एवं न पुनर्गीयन्ते अपुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्ते अश्राद्धभोजी ब्राह्मण इति, तथा लवणं न भुङ्क्ते अलवणभोजी भिक्षुः इत्यसूर्यंपश्यादिवदसामर्थ्येऽपि नञ्समासो दृश्यते;न त्वकिञ्चित्कुर्वाण इति, एवम् ‘अमाषं हरमाणः, अगाधादुत्सृप्त’ इति।
अपि च ‘पयः पायं पायं’, पयः पीत्वा पीत्वा, ग्रहमनु प्रवेशमनु प्रवेशम्, गेहमनुप्रविश्यानुप्रविश्य इत्याभीक्ष्ण्यवीप्सयोः पदद्विर्वचनं प्रयोजयन्ति णमुलादयः, न पाच्यते द्विशो देहीति यङ्शसादयः लोलूयत इति द्विर्वचनमन्तरेणापि क्रियासमभिहारमवगमयति यङन्तम् न लुनीहि लुनीहीति लोडन्तम्; कृतपूर्वी कटम्, अधीती व्याकरणम् इति वृत्तिवशेनोज्झितकर्माभिधानशक्तयः कर्मविभक्तिं न विघ्नयन्ति निष्ठादयः; ग्रामं गन्तुमनाः, कटं कर्त्तुकाम इति निवृत्तिच्छिन्ना अपि कर्मणि द्वितीया मेव प्रयोजयन्ति तुमुनादयः उभयप्राप्तौ कर्मण्येवेति नियमेऽपि विचित्रा सूत्रस्य कृतिः पाणिनेः इति शब्दानामनुशासनमाचार्यस्य इति समासस्य कर्त्तरि सम्बन्धविभक्तिमप्यु पाददते क्तिनादयः, साध्यार्थाभिधायिनोऽसत्त्वभूतार्था अपि यवाग्वाः पाकायेति कर्मणि सम्बन्धविभक्त्येव संबध्यन्ते घञादयः इति तदुक्तभावः साध्यसिद्धो भवति। (इति भावविमर्शः। अथ कारकविमर्शः।
(ख. कारकाभिधायिनो धातुप्रत्ययाः)
क्रियानिमित्तं कारकम्। तदपि षोढा —
१. कर्त्ता, २. कर्म, ३. करणम्, ४. संप्रदानम्, ५. अपादानम्, ६. अधिकरणं चेति। तत्र—
(१) कर्त्ता — स्वतन्त्रः, हेतुः, कर्मकर्त्ता च। तेषु — (स्वतन्त्रः) क्रियायाः स्वेच्छया करणादीनि यः प्रयुङ्क्ते, न तु तैः प्रयुज्यते, स स्वतन्त्रः। यथा— पुत्रणेत्रस्य दर्शकः, पुरां भेत्तेति।
(हेतुः) तमेव क्रियाप्रयुक्तं यः प्रयुङ्क्ते स हेतुः। यथा— राजानं योधितवान् राजयुध्वा धनुष्मान्, नखानि मोचयन्ति नखमुचानि धनूषीति।
(कर्मकर्त्ता) कर्मैव स्वातन्त्र्येण विवक्षितं कर्मकर्त्ता। यथा— स्वयमेव पच्यन्ते पचेलिमा माषाः, स्वयमेव भज्यन्ते भङ्गुराणि काष्ठानि इति।
(२) कर्म — निर्वर्त्यं, विकार्यं, प्राप्यं च। तेषु — (निर्वर्त्यम्) यदसज्जन्यते सद्वा प्रकाश्यते तन्निर्वर्त्यम्। यथा— कर्त्तव्यः कटः, उच्चार्यः शब्दः इति।
(विकार्यम्) यस्य प्रकृत्युच्छेदो गुणान्तरं वोत्पद्यते तद् विकार्यम्। यथा—भुक्त ओदनः, लूयमानः केदारः इति।
(प्राप्यम्) क्रियाकृतविशेषाऽनवगतौ कर्त्तुः क्रिययाऽनास्थितमास्थितं वा यदाप्यते तत् प्राप्यम्। यथा— ‘दुर्दर्शः प्रभुः, सुयानो मार्ग इति।
(३) करणं— बाह्यम्, आभ्यन्तरं, बाह्याभ्यन्तरं च। तेषु— (बाह्यम्) कर्त्तुः शरीराद् बहिरुपलभ्यमानं बाह्यम्। यथा— आशितं भवं भक्तम्, धृतोदकः करकः इति।
(आभ्यन्तरम्) तदि्वपरीतमाभ्यन्तरम्। यथा— प्रियंकरणं शीलम्, वशीकरणं प्रेम, इति।
(बाह्याभ्यन्तरम्) उभयगुणयोगि बाह्याभ्यन्तरम्। यथा— दर्शनं चक्षुः, संवननं साम इति।
(४) संप्रदानं— ददातिकर्माप्यम्, कर्ममात्राप्यं, क्रियाप्यं, च। तेषु
(ददातिकर्माप्यम्) सम्यक् प्रदीयतेऽस्मै इत्यन्वर्थसंज्ञाया विषयो ददातिकर्माप्यम्। यथा— दीयतेऽस्मै दानीयो ब्राह्मणः, देवा देयासुरस्मै देवदायो डिम्भ इति।
(कर्ममात्राप्यम्) ‘कर्मणा यमभिप्रैति संप्रदानम्’ (१.४.३२) इति पारिभाषिक— संज्ञामात्रविषयः कर्ममात्राप्यम्। यथा—दाश्यतेऽस्मै देयमिति दाशः कैवर्त्तः, गां हन्ति तस्मै आगतायेति गोघ्नोऽतिथिः इति।
(क्रियाप्यम्) कर्मशब्देन क्रियाया अप्युपादानात् क्रियया यदाप्यते तत् क्रियाप्यम्।
यथा— श्लाघन्तेऽस्मै जना इति श्लाघ्यो राजा, स्पृहयन्त्यस्मै लोकाः स्पृहणीयो विभव इति।
(५) अपादानम् — निर्दिष्टविषयम्, उपात्तविषयम् अपेक्षितक्रियं च। तत्र—
(निर्दिष्टविषयम्) ‘ध्रुवमपायेऽपादानम्’ (१.४.२४) इति निर्दिष्टविषयम्। यथा— प्रपतनो गिरिः, प्रस्रवणः शैलः इति।
(उपात्तविषयम्) भीत्रार्था(१.४.२५)दियोगोक्तमुपात्तविषयम्। यथा— ‘भयानको द्विषाम्, प्रभवः संपदाम्’ इति।
(अपेक्षितक्रियम्) अवधिमात्रार्थमपेक्षितक्रियम्। यथा— अवधिः पर्वतः, मर्यादा समुद्रः, इति।
(६) अधिकरणं — वैषयिकम्, औपश्लेषिकम्, नैमित्तिकं च। तेषु —
(वैषयिकम्) विविधमनेकप्रकारं जातिगुणक्रियाद्रव्यादिभिः सिनोतीति। विषयो देशकालादिः, विषय एव वैषयिकम्। यथा— निपिबन्त्यस्मिन् गवादय इति निपानं जलाशयः, राजानो धीयन्तेऽस्यां राजधानीनगरम् इति।
(औपश्लेषिकम्) उपश्लेषोऽवष्टम्भः, तस्मै प्रभवत्यौपश्लेषिकम्। यथा— इषवो धीयन्तेऽस्मिन् इषुधिः उपासङ्गम्, शेरतेऽस्यां शय्या पर्यङ्कः।
(नैमित्तिकम्) निमित्तमेव नैमित्तिकम्। यथा— रज्यन्तेऽस्मिन् सामाजिकमनांसीति रङ्गः प्रेक्षा, प्रसीदन्त्यस्मिन् नयनमनांसीति प्रासादः सौधम् इति।
तदतेदुभयमपि१ — १. शुद्धम्, २. संकीर्णम्, ३. उपाधिमत्, ४. रूढिमत्, ५. संबन्धि, ६. अनुबन्धि चेति षोढा विप्रथते। तत्र—
(१. शुद्धम्) अर्थान्तरैरसंस्पर्शः शुद्धिः।
सा भावानां यथा— ओदनस्य पाकः, अलं कृत्वा, खलु स्थित्वा इति।
कारकाणां यथा— अपां स्त्रष्टा, वर्षशतस्य पूरकः, सोमे पवमान इति।
(२. संकीर्णम्) संपर्कः संकरः।
स भावानां यथा— कालो भोक्तुम्, अलं भोक्तुम्, भोजं भोजं व्रजतीति।
कारकाणां यथा— गमनमर्हति गम्या योषित्, जेतुं शक्यते जय्यः शत्रुः, पक्तुं व्रजति, पाचको व्रजति इति। १. ‘भाव—कारकाऽभिधायिनो धातुप्रत्ययाः’ द्र. पृ. ६७ (३. उपाधिमत्) बाह्यम्, आभ्यन्तरम्, उभयं वा शास्त्रोपात्तं विशेषणमुपाधिः। स भावानां यथा— भवतः शायिका, उपसरो गवाम्, समजः पशूनामिति। कारकाणां यथा— तुन्दपरिमृजोऽलसः, स्तम्बेरमो हस्ती, दृतिहरिः पशुः इति।
(४. रूढिः) गुणवचनत्वे द्रव्यवचनत्वं रूढिः। सा भावानां यथा— मृगया, वासना, परिव्रज्येति। कारकाणां याथ— कुम्भकारः, पङ्कजम्, अमावास्येति।
(५. संबन्धः) नियोगतः प्रतियोग्यपेक्षः संबन्धः। स भावानां यथा— भुक्त्वा व्रजति, भोक्तुमिच्छति, अप्राप्य नदीं पर्वत इति। कारकाणां यथा— चङ्क्रम्यमाणोऽधीते, अधीयानो वसति, गोदायो व्रजति।
(६. अनुबन्धः) अनुषङ्गोऽनुबन्धः। स भावानां यथा— साराविणं वर्त्तते, रैपोषं पुष्यति, चकासाञ्चकार इति। कारकाणां यथा— अग्निष्टोमयाजी, उष्ट्रकोशी, शतदायी—ति।
(कृतः) अथैतदभिधाने त्रिप्रकाराः कृतो भवन्ति — १. भाववचनाः, २. कारकवचनाः, ३. भावकारकवचनाश्च। तेषु —
(१) अथुजादयः, ण्वुलादयः, णजादयः, तुमुनादयः, सयादयः, णमुलादयश्च भाववचनाः,
(२) ण्वुलादयः, अणादयः, उणादयः, क्विनादयः, शत्रादयः, तृनादयश्च कारकवचनाः
(३) तव्यादयः, तवायादयः, क्तादयः, खलादयः, ल्युडादयः, घञादयश्च भावकारकवचनाः। तत्र—
(१. भाववचनाः —६)
भाववचनेष्वनुपाधौ सिद्धभावे अथुजादयः। यथा— नन्दथुः, यज्ञः, स्वप्नः, क्रिया, कण्डूया, व्रज्या इति।
अत्रैव रोगाद्युपाधिमति ण्वुलादयः। यथा— अरोचको बाधते, प्रवाहिकातः करोति, भवत आसिका, इक्षुभक्षिकां मे धारयसि, कां त्वं कारिमकार्षीः, अकरणिस्ते वृषलः इति।
सिद्धासमाप्ते णजादयः। यथा— व्यावक्रोशी वर्त्तते, व्यावहासीं कुर्वन्ति, साङ्कूटिनं वर्त्तते, सांराविणं कुर्वन्ति, करणेन निर्वृत्तं कृत्त्रिमम्, पाकेन निर्वृत्तं पक्त्रिमम् इति।
साध्यरूपे तुमुनादयः। यथा— भोक्तुं व्रजति, भोक्तुं जानाति, भुक्त्वा व्रजति, अपमित्य याचते, स्वादुङ्कारं भुङ्क्ते, चोरङ्कारमाक्रोशति।
तुमर्थ एव छन्दोविषये सयादयः। यथा— वक्षे रायस्त्वा, दृशे विश्वाय सूर्यम्, अग्निं देवा विभाजं नाशक्नुवन्, विलुपं नाशक्नुवन्, ईश्वरोऽभिचरतोः, ईश्वरो विलिखः इति।
साध्याऽसमाप्ते णमुलादयः। यथा— समूलकाषं कषति, रैपोषं पुष्यति, चकासाञ्चकार, बिभराम्बभूव, चकासामास्, विदाङ्कुर्वन्तु इति।
(२. कारकवचनाः —६)
कारकवचनेष्वनुद्रिक्तक्रियांशाः कर्त्तर्येव ण्वुलादयः। यथा— कारकः, स्रष्टा, नन्दनः, प्रियः, यज्वा जरन्निति।
सोपपदाः कर्त्रादिष्वणादयः। यथा— काण्डलावः, पादहारकः, सुभङ्करणम्, गोघ्नः, शम्भुः, गोष्ठः इति।
निरुपपदा रूढिमन्त उणादयः। यथा— कारुः, दात्रम् धात्री, दासः, भीष्म इति।
उभयेऽपि लोपवन्तः क्विनादयः। यथा— धृतस्पृक्, सदृक्, अर्थभाक्, शुभंयुः, प्राङ्, युङ् इति।
कर्त्तर्येवोद्रिक्तक्रियांशाः शत्रादयः। यथा— यवागूं पचन्, सोमं पवमानः, आशिषं दाश्वान्, वेदमनूचानः, भुक्तवानोदनम्, ग्रामं गमी’ इति। त एव ताच्छील्याद्युपाधिमन्तस्तृनादयः। यथा— जागरितानपररात्रान्, मुण्डयितारः श्राविष्ठायनाः वधूमूढाम्, अलङ्करिष्णुः, कतीह कवचमुद्वहमानाः, शतं दायी, एधानाहारको व्रजति इति।
(३. भावकारकवचनाः —६)
भावकारकवचनेषूद्रिक्तानुद्रिक्ताक्रियांशाः तव्यादयः। यथा— कर्त्तव्यं भवता, करणीयं भवता, कार्यः कटोभवतः, कृत्यःकटो भवतः, वास्तव्यो भवान्, ब्रह्मभूयं भवत इति।
त एवच्छन्दोविषयास्तवायादयः। यथा—परिधातवै, परिस्तरितवै, अवचक्षे, अवगाहे, दिदृक्षेण्यः, कर्त्वं हविः इति।
उद्रिक्तक्रियांशाः क्तादयः। यथा— भुक्तं भवता, भुज्यमानं भवता, भोक्ष्यमाणं भवता, भुङ्क्त ओदनं भवान्, भुक्त ओदनो भवता, एवं भोक्ष्यमाण इति। त एव व्यक्तकालाः खलादयः। यथा— स्वाढ्यंभवं भवता, सूत्थानं भवता, प्राशितंभवं भवता, दुराढ्ययंभवं भवता, ईषत्पानः सोमो भवतः, आशितम्भवं भक्तम् इति। अनुद्रिक्ताक्रियांशाः प्रायो गुणवचना ल्युडादयः। यथा— व्यासस्य वचनम्, पाणिनेरुक्तिः, छात्रस्य हसितम्, इध्मानां व्रश्चनं जनानां भक्तिः, राज्ञां मत इति। त एव प्रायोद्रव्यवचना घञादयः। यथा— पर्यायः क्रियाणाम्, विपर्यायः कालस्य, संग्रहः शास्त्राणाम्, अधीतः स्वाध्यायः, अधिगत उपायः, श्रेयानुपाध्याय इति ॥
(२. तद्धितरूपं विभक्तावयम्)
भाव—कारक—सम्बन्धि—स्वार्थाभिधायिनोऽधातुप्रत्ययास्तद्धिताः।
(१. भावस्तद्धिताः) तत्र भावो द्विधा— अन्तरङ्गो बहिरङ्गश्चेति। तयोः — (अन्तरङ्गः) शब्दस्यार्थे प्रवृत्तिनिमित्तमन्तरङ्गः। यदाह ‘यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः स तस्य भावः, तदभिधाने त्वतलौ’।
तस्योपसंग्रहाय संग्रहकारः पठति—
शब्दे तां जातिं शब्दमेवाऽर्थजातौ जातिः शुक्लादौ द्रव्यशब्दे गुणं तम्।
कृत्तत्संयोगं योगि चाभिन्नरूपं वाच्यं वाच्येषु त्वादयो बोधयन्ति ॥ ५ ॥
(वाप. ५, ५.१.११९) ततः स षोढाऽभिव्यज्यते १. जातिः, २. गुणः, ३. स्वरूपम्, ४. संबन्धः, ५. संहतिः, ६. अभिन्नरूपमिति। तेषु—
जातिर्यथा— गोत्वम्, शुक्लत्वम्, मानुष्यकम्, स्त्रैणम्, पौंस्नम्, ब्राह्मण्यम् इति।
गुणो यथा— शुक्लत्वम्, शीघ्रता, म्रदिमा, माधुर्यम्, आर्जवम्, वैदग्ध्यमिति।
स्वरूपं यथा— डित्थत्वम्, आकाशत्वम्, चन्द्रत्वम्, सूर्यत्वम्, दिक्त्वम्, तदात्वमिति।
संबन्धो यथा— पाचकत्वम्, काण्डलावत्वम्, दण्डित्वम्, औपगवत्वम्, राजपुरुषत्वम्, पुरुषव्याघ्रत्वम् इति।
संहतिर्यथा— धवरवदिरत्वम्, नरसिंहत्वम्, शुक्लकृष्णत्वम्, कृष्णशारत्वम्, नीलोत्पलत्वम्, गौरखदिरत्वम् इति।
अभिन्नरूपं यथा— सत्त्वम्, विद्यमानत्वम्, गर्गत्वम्, पञ्चालत्वम्, पदार्थत्वम्, पङ्कजत्वम् इति।
ननु च
जातिगुणाज्जातिगुणे धवखदिरादौ स्वजातिसंघाते।
डित्थादौ च स्व (स्वे) रूपे कृत्तत्संयोगे तु संबन्धे ॥ ६ ॥
(दौ च स्व = दौ स्वे’—इति तूत्प्रेक्ष्येत)
त्वादय इति स्मृतिः।
कथमभिन्नरूपादावपि भवति ?
उच्यते— कृत्तद्धितसमासेषु सम्बन्धाभिधानम्, अन्यत्र रूढ्यभिन्नरूपाऽव्यभिचरित— संबन्धेभ्यः। अत एवोक्तम् ‘कृत् तत्संयोगं योगि चाभिन्नरूपम्’ इति ॥
अवधेरपि वाच्यत्वं त्वादीनामिष्यते बुधैः।
गोत्वाद्धि गौरितिज्ञानमभिधानं च जायते ॥ ७ ॥
ते ह्येवमाहुः ‘तस्य भावस्त्वतलौ’ (५.१.११९), भवतोऽस्मादभिधानप्रत्ययाविति भावः।
तदसत्, न हि गोत्वं गौरिति ज्ञानस्योत्पत्तावपादानतां जनयत् ‘जनिकर्त्तुः प्रकृतिः’ (१.४.३०), ‘भुवः प्रभवो’ (१.४.३१) वा भवति; यथा— शृङ्गाच्छरो जायते, हिमवतो गङ्गा प्रभवतीति। ज्ञानं त्वात्मन एव जायते, मनसैवोद्भवति। तदाह— ‘व्यापकत्वादप्यात्मनो युगपज्ज्ञानानुत्पत्तिर्मनसो (ऽणुत्वस्य) लिङ्गम्, नाहमद्राक्षम्, नाहमश्रौषम्, नाहमज्ञासिषम्, अन्यत्र मे मनोऽभूदिति। निमित्तत्वं तु गौरिति ज्ञानोत्पत्तौ शब्दस्येव गोत्वादेरपीष्यत एव। तत्र यथा समवायिनः श्वैत्यात् श्वैत्यबुद्धेः श्वेते श्वैत्यबुद्धिः, तथा समवायिनो गोत्वाद् गोबुद्धेर्गवि गोत्वबुद्धिः, ते परस्परं कारणभूता इति।
अभिधानं तु शब्दः। स च येनोच्चारितेनार्थः प्रतीयते। तस्यापि न गोत्वमवधिर्भवति। शब्दो हि आकाशादेव जायते, मुखादेव प्रभवति, न गोत्वादेः। तदाहुः ‘मुखे हि शब्दमुपलभामहे भूमावर्थम्’ (शाबरभाष्यम् १.१.५) इति। यदापि नित्यः शब्द इति मतं तदापि शब्दस्य गोत्वादयो वाच्या विशेष्याः प्रत्याय्या एव भवन्ति। तत्र च शब्दस्य गोत्वादीनां वाच्यत्वे विशेष्यत्वे वा कर्मतैव, नावधित्वम्। प्रत्याय्यत्वे तु विपरिणामविपरिवर्त्तपक्षयोर्वक्ष्यमाणन्यायेन प्रत्युत शब्दस्यैवाऽवधित्वम्। अध्यासस्तु सादृश्यादुपाधेरुपाधिसादृश्याभ्यां वा संभवति; यथा— शुक्तिकादौ रजतादेः, स्फटिकादौ रक्तादेः, प्रतिबिम्बादौ मुखादेरिति। तत्र यो यदध्यास्यते, यो यदध्यास्ते वा, स तस्याधिकरणं कर्म वा स्यान्न त्ववधिः; गोत्वं निमित्तमुपादाय गोशब्दो गामध्यास्ते गवि वाऽध्यास्यते। तदिष्यत एव ‘यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ’ इति ॥
(बहिरङ्गः) धात्वर्थरूपः कृदभिधेयो बहिरङ्गः। सोऽपि षोढा— १. भावरूपः, २. कारकरूपः, ३. संबन्धिरूपः, ४. भावविशिष्टः, ५. कारकविशिष्टः, ६. संबन्धिविशिष्टश्चेति। तत्र —
(१. भावरूपः)
प्रवृत्तिनिमित्ततुल्यो भावरूपः — ब्राह्मणस्य कर्म ब्राह्मण्यम्, पुरोहितस्य पौरोहित्यम्, स्तेनस्य स्तेयम्, सख्युः सख्यम्, दूतस्य दूत्यम्, वणिजो वाणिज्यमिति।
(२. कारकरूपः)
कारकैस्तुल्यकक्ष्यः कारकरूपः। यथा— राजानमर्हति राजवद् वृत्तम्। आप्रयोजनकालं भवति आकालिकी प्रवृत्तिः, श्येनस्येव पातोऽस्यां वर्त्तते श्यैनंपाता क्रियां, दण्डः प्रहरणमस्यां क्रीडायां दाण्डा, (४.२.५७) महिमास्त्यस्यां महिमिनी समस्या, वटकं प्रकृतमस्यां वटकमयी यात्रेति (मभा. ५.२.८२)।
(३. सम्बन्धिरूपः)
रूढे द्रव्यभूतः सम्बन्धिरूपः। यथा— चाषाणां समूहः चाषम्, नाट्यानामाम्नायो नाट्यम्, भृग्वङ्गिरसां विवाहो भृग्वङ्गिरसिका, काकोलूकस्य वैरं काकोलूकिका, अवीनां संघातोऽविकटः, तेषामेव विस्तारोऽविपटः इति।
(४. भावविशिष्टः)
अतर्कितोपनतचित्रीकरणादिसदृशो भावविशिष्टः। यथा— काकस्य चागमनं यादृच्छिकम्, तालस्य च पातः। तेन तालेन पतता काकस्य वधः। एवमेव देवदत्तस्य चागमनं दस्यूनां चोपनिपातः, तैश्च तस्य वधः। तत्र यो देवदत्तस्य दस्यूनां च समागमः स काकतालसमागम इवेत्येक उपमार्थः, यश्च देवदत्तवधः स काकवध इवेति द्वितीय उपमार्थः।
तत्र प्रथमः समासार्थः काकतालमिति, द्वितीयः प्रत्ययार्थः काकतालीयमिति। समासश्चायमस्मादेव ज्ञापकाद् यदाह ‘समासाच्च तद्विषयाद् (५.३.१०६) आकस्मिक इवार्थे छो भवति। तद्विषयादित्यत्र हि तदित्यनेन ‘इवे प्रतिकृतौ’ (५. ३.९६) इति इवार्थः। एवम्
अजाकृपाणीयम् (काशिका ५.३.१०६), अन्धकवर्त्तकीयम् (काशिका ५.३.१०६), घुणाक्षरीयम्, अर्धजरतीयम्, गोमयपा/वा—यसीयम् (गणरत्न. ३.३.१९६) इति।
(५. कारकविशिष्टः)
कारकावच्छिन्नः कारकविशिष्टः। यथा— मतस्य करणं मत्यम्, पीलूनां पाकः पीलुकुणः, जनस्य जल्पो जन्यः, शिवस्य भवनं शिवतातिः, नासाया अवनतिः अवटीटः (५.२.३१), धने कामः धनक इति।
(६. संबन्धिविशिष्टः)
सम्बन्धिनाऽवच्छिन्नः संबन्धिविशिष्टः। यथा— हल्यः, कर्षः, सौधः संकोचः, पौरुषेयो वधः, आथर्वण आम्नायः, वैदो घोषः, छान्दोग्यो धर्मः इति। उपाधिरपि संबन्ध्येव भवति। यथा— गार्गिकया विकत्थते, काठिकया अधिक्षिपति, गार्गिकामन्ववेतः, गार्गिकामवगतवान्, काठिकामवगतवान् इति। धात्वर्थोऽपिभाव एव।
क्रियापि ह्युपमानेन परीता परिच्छिन्ना साध्यसिद्धभावो भवति। स त्रिधा— १. भावविशिष्टः, २.कारकविशिष्टः, ३.संबन्धिविशिष्टश्चेति। तेषु—
१. भावविशिष्टो यथा— ब्राह्मणेन तुल्यमधीते ब्राह्मणवत्, राज्ञा सदृशं वर्त्तते राजवत्, जडस्य तुल्यं ब्रूते जडवत्, सूर्य इव प्रकाते सूर्यवत्, पिता यथा पालयति पितृवत्, गुरुरिवानुशास्ति गुरुवदिति।
अत्र ब्राह्मणादिस्थासु अध्ययनक्रियासु साहचर्याद् वृत्तिः, जातिद्रव्ययोरन्यतरेण क्रियायाः सादृश्यानुपपत्तेः। यदाह— ‘तेन तुल्यं क्रिया चेद् वतिः’ (५.१.११५); तेनेति तृतीयासमर्थात् तुल्यमित्येतस्मिन्नर्थे वतिप्रत्ययो भवति तत्तुल्यं क्रिया चेत् सा भवति। अर्थपरं चैतत्; तेन सदृशेत्यादिप्रयोगेष्वतृतीयान्तादपि भवति।
२. कारकविशिष्टो यथा— राज्ञेव व्यवहृतमनेन राजवत्, देवमिव भवन्तं पश्यामि देववत्, असिनेव दात्रेण च्छिनत्ति असिवत्, ब्राह्मणायेव यदा देवदत्ताय ददाति ब्राह्मणवत्, पर्वतादिवासनादवरोहति पर्वतवत्, पितरीव गुरावाचरते पितृवत्।
अत्र पुनरिदमेव सूत्रमन्यथा व्याख्यायते— ‘तेन कारकविशेषेण तुल्यं यथा भवति। एवं चेत् क्रिया भवति भावोत्पन्नेऽपि हि प्रत्यये कदाचित् प्रत्ययमुखेन क्रियाविशेषणं भवति, कदाचित् प्रकृतिमुखेन। यथा— तीव्रः पाकः, तीव्रं पाकम् इति।
३. सम्बन्धिविशिष्टो यथा— ब्राह्मणस्येवाऽध्ययनमस्य ब्राह्मणवत्, राजवद् रौद्रं वृत्तमस्य राजवत्, जडस्य सदृशं वचनमस्य जडवत्, सूर्यस्येव प्रकाशोऽस्य सूर्यवत्, पितुर्यथा पालनमस्य पितृवत्, गुरोस्तुल्यमनुशासनमस्य गुरुवत् इति। अत्र तु ‘तत्र तस्येव’ (५.१.११६) इत्यनेन वतिः। ननु च ‘तेन तुल्यमि’— (५.१.११५) त्यनेनैव सिद्धे किमर्थं ‘तत्र तस्येव’ इति सूत्रस्यारम्भः? द्रव्यगुणयोतुल्ययोः प्रत्ययो न लभ्य इति। यथा— मथुरायामिव पाटलिपुत्रे प्रासादा मधुरावत्, ब्राह्मणस्येव क्षत्रियस्य शुक्ला दन्ता ब्राह्मणवत् इति। यद्येवं पूर्वसूत्रे क्रियाग्रहणं न करिष्यते। साहचर्याच्च क्रियायामिव द्रव्यगुणयोः प्रातिपदिकं वर्त्तिष्यते। ततश्च मैत्रेयतुल्या गावश्चैत्रस्य, ब्राह्मणेन तुल्या दन्ताः क्षत्रियस्य इति विगृह्य पूर्वसूत्रेणैव वतिः सेत्स्यतीति। तदसत्।
एवं हि गवयेन तुल्योऽनड्वान् इत्यत्रापि प्रत्ययः प्रसजेत्, इवार्थे तु प्रत्यये सप्तमीषष्ठ्यन्ताभ्यामेव विधीयमाने गवय इवाऽनड्वानित्यत्र प्रत्ययप्रसङ्गो न स्यात्; सप्तम्यन्तषष्ठ्यन्तयोर्हि बाह्यं सम्बन्धिनमपेक्ष्य इवशब्दप्रयोगो भवति, न पुनरिवार्थापेक्षयेव; इवशब्दो ह्युपमानोपमेयलक्षणसंबन्धद्योतकः, न तु सम्बन्धि— रूपाभिधायी। तस्माद् गवयेन तुल्योऽनङ्वानित्यत्रापि मा भूत् प्रत्ययप्रसङ्ग इति पूर्वसूत्रे क्रियाग्रहणम्। तस्मिंश्च कृते द्रव्यगुणयोस्तुल्ययोः प्रत्ययो न स्यादिति सप्तमीषष्ठ्यन्ताभ्यामिवार्थे ‘तत्र तस्येव’ इति वतिर्विधीयते।
अथ ‘तदर्हम्’ (५.१.११७) इति किमर्थम् ?
अर्हतो या क्रिया कर्त्तुस्तत्रापि वतिरिष्यते।
उपमानाविवक्षायां तद्विधानं न लभ्यते ॥ ८ ॥
उपमानोपमेयत्वमन्यस्यान्येन वा सह।
अवस्थाभेदभिन्नत्वादेकस्याप्यात्मनैव वा ॥ ९ ॥
(वाप. ३ वृत्तिः।) तत्रान्यस्यान्येन यथा— अवैयाकरणोऽप्ययं वैयाकरणवद् ब्रूते; योषिदप्येषा पुंवद्वक्तीति; अवस्थाभेदभिन्नत्वादेकस्याप्यात्मनो यथा— वैयाकरणः केनचिदुच्यते वैयाकरणवद् ब्रूहीति; योषिदप्युच्य़ते स्त्रीवद् वदेति। वैयाकरणोऽप्यवज्ञया कदाचिद् — वैयाकरणवद् ब्रूते। श्रूयते हि— यर्वाणस्तर्वाणो नाम साक्षात्कृतध /?/र्म्माण ऋषयो बभूवुः। ते हि ‘अन्तर्वेद्यामेव न म्लेच्छितव्यम्, अतोऽन्यत्रावज्ञया’ इति ‘यद्वा नस्तद्वा न’ इति वक्तव्ये यर्वाणस्तर्वाण इत्यूचुः {मभा.१.१.१ (९)}। योषिदपि कदाचिदाश्रितप्रागल्भ्यात् पुंवद्वक्ति यथोच्यते—
सरस्वतीव कर्णाटी विजयाङ्का जयत्यसौ। या वैदर्भगिरां भूमिः कालिदासादनन्तरम् ॥ १० ॥
अस्यौपम्यद्वयस्यापि विवक्षातोऽपरिग्रहे।
वतिः कथमिवार्थीय इति मत्वायमुच्यते ॥ ११ ॥
(वाप. ३ वृत्तिः) तत्र ‘राजवद् वृत्तमित्यत्र यदा एवंविधा अर्थविवक्षा— ‘पृथ्वादिना राज्ञा तुल्यं वृत्तम् अनेन राज्ञा राजवद् वृत्तं राज्ञे’—ति तदाऽऽद्येनैव सूत्रेण सिद्धः प्रत्ययः; यदा त्वेतादृशी विवक्षा—‘राज्ञ इव पृथोरस्य वृत्तं राजवद्वृत्तं राज्ञ इति तदा द्वितीयसूत्रेण। यदा त्विदं वृत्तं राजानमेवाऽर्हति नान्यमित्युपमानोपमेयभावाभावे राजवद् वृत्तमिति प्रयोगस्तदा ‘तदर्हम्’ इत्यनेन वतिर्विधीयत इति नानर्थकः सूत्रारम्भः ॥
अन्ये तु ‘तेन तुल्यं क्रिया चेद् वतिः’ इत्यत्र द्वितीयव्याख्यानपक्षे क्रियायाः क्रिया विशेषणं न संभवतीति कारकविशिष्टभावपक्षं ‘तदर्हम्’ इत्यनेन संवाहयति, राजानमर्हति यद् व्यवहरणम्, देवमर्हति यद् दर्शनम्, असिमर्हति यच्छेदनम्, ब्राह्मणमर्हति यद्दानम्, पर्वतमर्हति यदवरोहणम्, पितरमर्हति यत् पारतन्त्र्यम् तदुच्यते राजवत्, देववत्, असिवत्, ब्राह्मणवत्, पर्वतवत्, पितृवदिति। राज्ञेव व्यवहृतमित्यादिभिस्तु तस्यार्थः प्रदर्शित’ इति ॥
(२. कारकस्तद्धिताः)
कारकमपि भाववदेवाऽन्तरङ्गं बहिरङ्गं च।
तयोराख्याताभिधेयमन्तरङ्गम्, अनाख्याताभिधेयं बहिरङ्गम्।
(अन्तरङ्गभेदेषु) कर्त्ता, हेतुकर्त्ता, कर्मकर्त्ता, कर्म चेति;
(बहिरङ्गभेदेषु) करणं संप्रदानमपादानमधिकरणं चेति। (द्र. पृ॰ ८४)
(कर्त्ता) तत्राऽन्तरङ्गभेदेषु कर्त्ता १. शुद्धः २. मिश्रः ३. संकीर्णश्च। तेषु —
१. क्रियाकारकान्तरासंपृक्तः शुद्धः। यथा इष्टमनेन इष्टी यज्ञे, कृतः पूर्वं कटोऽनेन कृतपूर्वी कटमिति।
२. क्रियान्तरसंपृक्तो मिश्रः। यथा— व्याकरणं वेत्ति अधीते वा वैयाकरणः, शश्वद् भवः शाश्वतिकः इति।
३. क्रियाकारकान्तरसंपृक्तः संकीर्णः। यथा— शालयां प्रवेशमर्हति शालीनः अधृष्टः, कूपे प्रक्षेपणमर्हति इति कौपीनमकार्यम्।
(हेतुकर्त्ता) हेतुः १. आत्मस्थक्रियः, २. परस्थक्रियः, ३. परात्मस्थक्रियश्चेति। तेषु —
१. आत्मस्थक्रियो यथा— पारायणं वर्त्तयति पारायणिकः, चान्द्रायणं वर्त्तयति चान्द्रायणिकः इति।
२. परस्थक्रियो यथा— वातं शमयति वातिकं तैलम्, पित्तं कोपयति पैत्तिकमिति।
३. परात्मस्थक्रियो यथा— यथामुखं दर्शयते यथामुखीन आदर्शः, संमुखं दर्शयते संमुखीनः प्रेयानिति।
कर्मकर्त्ता १. अनुद्रिक्तकर्मांशः २. उद्रिक्तकर्मांशः, ३. अनुद्रिक्तोद्रिक्तकर्मांशश्च।
१. अनुद्रिक्तकर्मांशो यथा— अक्षद्यूतेन निर्वृत्तमाक्षद्यूतिकं धनम्, पाकेन निर्वृत्तं पाकिमम्,
माणिकम् (५.४.२९) इति। (माणिक इति राघवः)
२. उद्रिक्तकर्मांशो यथा— वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः, षष्टिरात्रेण पच्यन्ते
षष्टिकाः शालय इति।
३. अनुद्रिक्तोद्रिक्तकर्मांशो यथा— वशं गतो वश्यः, शीर्षच्छेदमर्हति शीर्षच्छेद्य इति।
कर्म १. निर्वर्त्त्यम् २. विकार्यम् ३. प्राप्यं च। तत्र —
१. (निर्वर्त्त्यम्) यद् असज्जन्यते, सद् वा प्रकाश्यते तन्निर्वर्त्त्यम्। यथा— उरसा निर्मित औरसः पुत्रः, पाणिनिना प्रोक्तं पाणिनीयं व्याकरणम् इति।
२. (विकार्यम्) यस्य प्रकृत्युच्छेदो गुणान्तरं वा विधीयते तद् विकार्यम्। यथा विषेण वध्यो विष्यः शत्रुः, कुसुम्भेन रक्तं कौसुम्भं वस्त्रमिति।
३. (प्राप्यम्) आस्थितमनास्थितं वा क्रियया यदाप्तुमिष्यते तत् प्राप्यम्। यथा नावा तार्यो नाव्यो ह्रदः, अयानयं नेयः अयानयीनः शार (५.२.१ न्यास.) इति।
ननु शारोऽप्यास्थितः कस्मान्न भवति ?
त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम्।
आस्थितं कर्म यत् तत्र द्वैरूप्यं भजति क्रिया ॥ १२ ॥
(वाप. ३.१३५) यथा पन्थानं गच्छति गर्त्तमुत्तरतीति।
शारस्तु प्राप्य एव। यथा अजां नयति ग्रामम्, वहति भारमिति।
नन्वेवं ग्रामस्य प्राप्यता प्राप्नोति, नाजादेः।
कः पुनराह न प्राप्नोतीतिः किन्तु अकथितत्वेन तत्र क्रियाव्याप्यत्वाद् द्वितीयैव, न प्रत्ययान्तरम् ‘गां दोग्धि पयः, पौरवं गां याचत’ इति।
(बहिरङ्गम्) बहिरङ्गभेदेषु करणम् बाह्यमाभ्यन्तरं, बाह्याभ्यन्तरं च। तेषु—
१. बाह्यम् यथा— सुपां व्याख्यानः सौपः, ललाटस्य भूषणं ललाटिका।
२. आभ्यन्तरं यथा— मतस्य करणं मत्यम्, चतुर्णां पूरणश्चतुर्थः इति।
३. बाह्याभ्यन्तरं यथा— समिध आधीयन्तेऽनेन सामिधेन्यो मन्त्रः, स एव हृदयस्य बन्धनो हृद्य प्रति।
संप्रदानम् — ददातिकर्माप्यं, कर्ममात्राप्यं क्रियाप्यं च।
(ददातिकर्माप्यम्)
संप्रदीयते भोजनादिकमस्मै इत्यन्वर्थसंज्ञकं ददातिकर्माप्यम्। यथा— अग्रभोजनं नियुक्तमस्मै दीयते आग्रभोजनिकः, पञ्चास्मै वृद्धिर्वा, आयो वा, लाभो वा, शुल्कं वा, उपदा वा दीयन्ते पञ्चकः पुरुष इति।
(कर्ममात्राप्यम्)
कर्मणा यमभिप्रैति स संप्रदानम् (१.४.३३) इति पारिभाषिकसंज्ञकं कर्ममात्राप्यम्। यथा—‘राष्ट्रमस्मै निर्दिश्यते राष्ट्रियो राजन्यः, कलिं कुर्वन्त्यस्मै कालेयं गन्धद्रव्यम् इति।
(क्रियाप्यम्)
कर्मशब्देन क्रियाया अप्यभिधानात् क्रिययापि यमभिप्रैति स संप्रदानमिति क्रियाऽऽप्यम्। यथा—‘अलं कर्मास्मै निर्दिश्यते अलङ्कर्मीणः अन्यूनः, न षडक्षाणि अस्मै भवन्ति अषडक्षीणो मन्त्र’ इति।
अपादानम्— निर्दिष्टविषयम्, उपात्तविषयम्, अपेक्षितक्रियं च। तेषु
(निर्दिष्टविषयम्)
ध्रुवमपायेऽपादानम् (१.४.२४) इति निर्दिष्टविषयम्। यथा—अग्निः पतत्यस्माद् आग्नेयो ग्रावा, नद्यः स्यन्दन्ते अस्मान्नादेयः शैल इति।
(उपात्तविषयम्)
भीत्रार्थादियोगोक्तमुपात्तविषयम्। यथा—कुक्षिं रक्षन्ति अस्मात् कौक्षेयकः कृपाणः, मुद्गा भवन्त्यस्मान्मौद्गीनं क्षेत्रम् इति। यथा—
अवधिमात्रार्थमपेक्षितक्रियम्। यथा कर्णस्य मूलं कर्णजाहम्, पक्षस्य मूलं पक्षति’—रिति
अधिकरणम्—वैषयिकम्, औपश्लेषिकम्, नैमित्तिकं च। तेषु
(वैषयिकम्)
विविधमनेकप्रकारं जाति—क्रिया गुण द्रव्यादिभिः सिनोतीति विषयो देशकालादिः। विषय एव वैषयिकः, यथा—गावः सन्त्यस्मिन् गोमान् देशः, पौषी पौर्णमास्यस्मिन् पौषो मास इति।
(औपश्लेषिकम्)
उपश्लेषोऽवष्टम्भः, तस्मै प्रभवति औपश्लेषिकम्। यथा— दण्डिनोऽस्यां सन्ति दण्डिमती शाला, विंशतिरिहाधिका विंशं शतम् इति।
(नैमित्तिकम्)
निमित्तमेव नैमित्तिकम्। यथा—पूर्णो मासोऽस्यां पौर्णमासी रात्रिः, परिखाऽत्र स्यात् परिखेयो देशः इति।
(कारकस्तद्धिताः)
कारकं चान्तरङ्गबहिरङ्गभेदाद् द्विरूपमपि प्रकृत्युपाधेः
१. कारकविशिष्टम्, २. अकारकविशिष्टम्, ३. संबन्धविशिष्टम्, ४. निपातविशिष्टञ्चेति चतुर्धा निर्धार्यते। तेषु —
कर्म कर्मविशिष्टं यथा— अयानयं नेयः अयानयीनः शारः,
करणविशिष्टं यथा— चक्षुषा गृह्यते चाक्षुषं रूपम्,
अधिकरणविशिष्टं यथा— स्त्रुघ्ने कृतो वा लब्धो वा क्रीतो वा स्त्रौघ्नः,
अपादानविशिष्टं यथा— तन्त्रादचिरापहृतस्तन्त्रकः पटः इति।
कर्तृविशिष्टं यथा— अश्वैरुह्यत आश्वो रथः। कर्तृविशेषणमपि कर्त्तैव चतुर्भिरुह्यते चातुरं शकटम्। अपि च— (काशिका ४.२.१३)
कौमारी सा भवेद् भार्या यां कुमारः प्रपत्स्यते।
प्रपद्यते कुमारी यं स कौमारो मतः पतिः ॥ १३ ॥
संप्रदानविशिष्टं तु कारकं नास्ति।
कर्त्ता कर्मविशिष्टो यथा— श्राद्धमनेनाऽद्य भुक्तं श्राद्धिकः। क्रियाविशेषणमिति— शब्दोपसंहारं च कर्मैव। तद्विशिष्टो यथा— प्रतिकूलं वर्त्तते प्रातिकूलिकम्, माशब्द, इत्याह माशब्दिक इति;
करणविशिष्टो यथा—अक्षैर्दीव्यति आक्षिकः।
अधिकरणविशिष्टो यथा—प्रावृषिकः प्रावृषि भवः प्रावृषेण्यः।
अपादानविशिष्टो यथा—पितुरागतं पित्र्यं धनम् इति।
कर्त्तृविशिष्टः कर्त्ता नास्ति।
करणं कर्मविशिष्टं यथा— ग्रीवायां भूषणं ग्रैवेयं रुक्मदाम। एवं
सम्प्रदानमपि यथा— मांसमेभ्यो नियुक्तं दीयते मांसिकाः पितरः।
अपादानं कर्त्तृविशिष्टं यथा— ब्रीह्यो भवन्त्यस्माद् ब्रैहेयं क्षेत्रम्। एवम्
अधिकरणमपि यथा— शर्कराः सन्त्यस्मिन् शर्करिलो देशः। तदेव
कर्मविशिष्टं यथा— पदमस्मिन् दृश्यं पद्यः कर्दमः।
करणविशिष्टमपि यथा— दण्डः प्रहरणमस्यां दण्डा क्रीडा इति।
करणादयोऽस्य विशिष्टा न विद्यन्ते ॥
कर्मकर्त्रोरेव अकारकसंबन्धिनिपातैर्विशेषणयोगः। स
कर्मणोऽकारकेण यथा— मासाय भूतो मासिकः, संवत्सरमधीष्टः सांवत्सरिक इति। कर्त्तुर्यथा— संतापाय प्रभवति सांतापिकः, वर्षं भूतो भावी वा वार्षिक इति।
कर्मणः सम्बन्धिनो यथा— वाक्यपदे अधिकृत्य कृतो ग्रन्थो वाक्यपदीयः, कलापिषु उदि्भद्यमानकलापेषु देयमृणं कालापकम् इति।
कर्तुर्यथा तित्तिरिणा प्रोक्तं विदन्ति अधीयते वा तैत्तिरीयाः, पूर्वं कृतं भुक्तं पीतं वा एभिः पूर्विणः इति।
कर्मणो निपातेन यथा— यथाकथाचं क्रियते याथाकथ्यमिदम् (काशिका ५.१.९८), बहिर्दृश्यते बाह्यम् इति।
कर्त्तुर्यथा आराद् भव आरातीयः, साक्षाद् द्रष्टा साक्षी इति।
ननु, क्रिययाऽपि कर्मणः कर्त्तुर्वा विशेषणयोगः संभवति। तद् यथा— पाकेन निर्वृत्तं पाकिमम्; अपमित्या (निर्वृत्तम्) आपमित्यकम्, याचितेन (निर्वृ्त्तं) याचितकम् इति; यथा च सुस्नातं पृच्छति (४.४.१. वाप.३) सौस्नातिकः प्रभूतमाह प्राभूतिकः, कृतं(तः) पूर्वमनेन कटः कृतपूर्वी कटम् इति (५.२.८७ काशिका)।
उच्यते क्रियाऽपि प्राकृतं कर्मैव। अतस्तद्विशिष्टयोरपि कर्मकर्त्रोः कर्मविशिष्टत्वमेव भवति।
ननु च ‘निर्वृत्तमि’ त्येतस्य कथं कर्मता?
इदं ह्यनुद्रिक्ते कर्मांशे कर्त्तरि वा प्रयुज्यमानं दृश्यते।
नैवम्
अन्तर्भूत—ण्यर्थत्वेनास्य सकर्मकत्वमपि मन्यन्ते। तथा च कात्यायनः —
(वररुचिः)
उत्तारणाय जगतः प्रपितामहेन
तस्मात् पदात् त्वमपि रज्जुरिव प्रवृत्ता ॥ १४ ॥
मल्लनागोऽ(कामसूत्रकृद् वात्स्यायनोऽ) प्याह ‘नागरकवृत्त्या वर्त्तेते —ति (कामसू. १.४.१)।
अथ ‘कृतपूर्वी कटम्’ इति कथम्? न ह्यनेनाऽपि प्रयोगेण भवितव्यम्।
किं कारणम्?
द्वितीयया तावन्नोत्पत्तव्यम्।
तत् कुतः?
क्तेनाऽभिहितम्।
प्रत्ययेनापि नोत्पत्तव्यम्।
किं कारणम् ?
असामर्थ्यात्। कथमसामर्थ्यम्? सापेक्षमसमर्थं भवतीति।
उच्यते— नायं कर्मणि क्तः, अपितु भावे। भावसाधनेन च कृतशब्देन योच्यते क्रिया तयेप्सितं कटादि कर्म अनभिहितमेवेति।
तत्र यथा ‘ग्रामं गतो देवदत्त’ इति धातु—निष्ठाभ्यामभिधीयमानयोः क्रियाकर्त्रोर्ग्रामादिकर्मभिरभिसम्बन्धो भवति, एवं कृतपूर्वीति कृतशब्देन तद्धितेन वाऽभिधीयमानयोः क्रियाकर्त्रो कटादिकर्मभिरभिसम्बन्धो भवतिः तथाहि— कृतं पूर्वमनेनेत्यस्मिन्नर्थे कृतपूर्वीशब्दस्तद्धितान्तो वर्तते; तेन च पूर्व कृतवानित्ययमर्थः संपद्यते। एवं च सापेक्षत्वाभावान्नास्त्यसामर्थ्यम्। अस्ति च करोतिवाच्यक्रियापेक्षं कटस्य कर्मत्वमिति तद्धितद्वितीयोत्पत्त्योर्नानुपपत्तिः। तदुक्तम्— (वाप.वृत्ति—६७) इति।
अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः।
संबध्यते क्रिया तद्वत् कृतपूर्व्यादिषु स्थिता ॥ १५ ॥
यदा तु कृतः पूर्वं कटोऽनेनेति विग्रहः, तदापि न दोषः, यतो यद्यपि कृतादिशब्दाः कर्मणि व्युत्पद्यमानाः सामानाधिकरण्यात् कटादिकर्मविशेषं निर्भुञ्जते, तथापि नेत्थम्भूता एव प्रत्ययमुत्पादयन्ति, वृत्तीनां विशेषप्रत्यायनासामर्थ्यात्; अतो वृत्तिविषयेऽनपेक्षितविशेष— कर्मान्तर्भूतकर्मसामान्योऽन्य एव कृतशब्दो भवति।
अविवक्षितकर्माणोऽन्तर्भूतकर्माणश्चाऽकर्मका एव जायन्ते, यथा— तस्माद् दीक्षितो न ददाति न पचति न जुहोति इति। एवमकर्मकत्वेऽन्तर्भावाभिधाय्येव, तच्चानपेक्षत्वात् सामर्थ्ये सति प्रत्ययमुत्पादयति। प्रत्ययार्थश्च कर्त्ता क्रियया प्रकृत्यर्थेन यदीप्सति तत् कर्म अनभिहितं प्रत्ययेन, ततो द्वितीया भवति। तदुक्तं भाष्ये (२.३.६५)— ‘योऽसौ कृतकटयोः संबन्धः स उत्पन्ने प्रत्यये निवर्त्तते; अस्ति च करोतेः कटेन सामर्थ्यमिति द्वितीया भविष्यति कृतपूर्वी कटमिटि’। हरिरप्याह—
विशेषकर्मसम्बन्धे विनिर्भुक्ते कटादिभिः।
विशेषनिरपेक्षोऽन्यः कृतशब्दोऽवकल्पते ॥ १६ ॥
अकर्मकत्वे सत्येवं क्तान्तं भावाभिधायि यत्।
तेन क्रियावता कर्त्रा योगो भवति कर्मणाम् ॥ १७ ॥
(वाप. ३.६५—६६ वृत्तिः) इति।
यदि वा शास्त्रप्रक्रियाभ्यासबाधितमतीनामेवायमभिमानः वाक्यार्थे वृत्तयो भवन्ती—ति। परमार्थतस्तु वृत्तिवाक्ययोरन्यत्वमेव मन्यन्ते, अर्थविप्रकर्षात्। यथाहि— वाक्ये यः कटादिसम्बन्धः स वृत्तौ नास्ति, तस्यान्तर्भूतकर्मणः कृतशब्दस्य भावाभिधायित्वात्। तदुक्तम्— (वाप.३.६४ वृत्तिः)
विशेषः श्रूयमाणोऽपि प्रधानेषु गुणेषु वा।
शब्दान्तरत्वाद् वाक्येषु वृत्तौ नित्यं न विद्यते ॥ १८ ॥
भाष्यकारोऽप्याह (२.३.६५)— ‘नेदमुभयं युगपद् भवति वाक्यं च प्रत्ययश्च; यदा वाक्यं न तदा प्रत्ययः, यदा प्रत्ययः सामान्येन तदा वृत्तिः। तत्राऽवश्यं विशिषार्थिना विशेषोऽनुप्रयोक्तव्यः ‘कृतपूर्वी कटमि’—ति। एवमधीतमनेन, अधीतं व्याकरणमनेन’ इति वा अधीती व्याकरणे इत्यपि व्याख्यातम्।
(३. सम्बन्धितद्धिताः (षष्ठी))
सम्बन्धी द्विधा— प्रधानं गुणभूतश्च।
तयोः प्रथमान्ताभिधेय प्रधानम्।
स त्रिधा— १. द्रव्यरूपः, २. गुणरूपः ३. अभिन्नरूपश्च। तेषु —
(१. द्रव्यरूपः) ‘तस्याऽपत्यम्’ (४.१.९२) इत्यादिराश्रयवचनो द्रव्यरूपः।
स द्विधा निरपेक्षः सापेक्षश्च। तयोः —
निरपेक्षो यथा— वसिष्ठस्यापत्यं वासिष्ठः, पाणिनेः शिष्यः पाणिनीयः, पञ्चालानां राजा पाञ्चालः, पृथिव्या ईश्वरः पार्थिवः, पाटलायाः पुष्पं पाटलम्, जम्ब्याः फलं जाम्बवम् इति।
सापेक्षो यथा— पितुः पिता पितामहः पितुर्भ्राता पितृव्यः, मातुर्मातुलः, भ्रातुरपत्यं भ्रातृव्यः, स्वसुः स्वस्त्रीयः इति।
(२. गुणरूपः) ‘तस्येदम्’ (४.३.१२०) इत्यादिराश्रितवचनो गुणवचनो गुणरूपः।
स द्विधा षष्ठीविशेष्यः अषष्ठीविशेष्यश्च। तयोः —
षष्ठीविशेष्यो यथा— युष्माकमियं गौः यौष्माकी गौः, देवदत्तस्य भूतपूर्वो देवदत्तरूप्यो राजा, पुत्रस्य निमित्तं पुत्रीयः संयोगः, विदिशाया अदूरभवं वैदिशं नगरम्, मूर्वायाः विकारो मौर्वं भस्म (४.३.१३५), दूर्वाया अवयवो दौर्वः काण्डः इति।
अषष्ठीविशेष्यो यथा— वत्सेभ्यो हितो वत्सीयो गोधुक् (५.१.५), अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि (५.१.१२), शरणे साधु शरण्यो राजा (४.४.९८, ५.३.१०३), आकर्षे कुशल आकर्षको धूर्त्तः (५.२.६४), पुष्पैर्वित्तः पुष्पचणश्चम्पकः, (५.२.२६), सूर्येणैकदृक् सौरी बलाका (४.३.११२, तैसं ५.५.१६)
(३. अभिन्नरूपश्च) प्रकृत्यैकच्छायोऽभिन्नरूपः।
स द्विधा— लिङ्गसंख्यानुग्राही लिङ्गसंख्योपग्राही च। तयोः— लुगभिधेयो लिङ्गसंख्यानुपग्राही। यथा— गर्गस्यापत्यानि गर्गाः (२.४.६४), पञ्चालस्य राजानः पञ्चालाः (४.१.१८०), अत्रेरपत्यानि अत्रयः (२.४.६५), कुसुम्भ्याः पुष्पं कुसुम्भम्, बदर्याः फलं बदरम् (३.४.१६३), लवणेन संसृष्टो लवणः सूप इति।
लुबभिधेयो लिङ्गसंख्योपग्राही। यथा— पञ्चालानां निवासः पञ्चाला जनपदः (१.२.५२, ४.२.८) वरणाः सन्त्यस्मिन् वरणा नगरी (४.२.८२), शिरीषाणामदूरभवः शिरीषोः१ ग्रामः (१.२.५१),किञ्च गोदौनाम, ह्रदौ, तयोरदूरभवो ग्रामो गोदौ (१.२.५२)। हरीतक्यादिषु पुनर्व्यक्तिमेवोपगृह्णाति, न वचनम्, हरीतक्या फलानि हरीतक्यः।
खलतिकादिषु वचनमेव न व्यक्तिम्— खलतिको नामाद्रिः तस्यादूरभवानि खलतिकं वनानि (१.२.५१) इति।
ननु च वसिष्ठस्यापत्यमित्यादौ भिन्नाधिकरणत्वाद् द्वयमेवाश्रयते पितरं पुत्रं च। तथाहि उभयमपि संबन्धादभ्यधिकं प्रतीयाते— पितुश्चामी पुत्राः स्वमिति, तत् कस्मात् एकस्मादेव षष्ठी तद्धितो वा?
उच्यते— यद्यप्ययमुभयाधिकरणः, तथाप्येक एव, भेदे हि नोभयाधिकरण एकः स्यात्, सम्बन्धद्वयप्रसङ्गात्।
सोऽयमेकोऽनेकाश्रयः, एकश्चैव विभक्त्योच्यते, एकस्मादेव च तद्धितोत्पत्तिर्भवति।
एवमपि पितुरेव षष्ठीति नियमो न स्यात्।
कः पुनराह नियम इति, यावता मातुः पिता मातामह इत्यपि भवति।
कुतः पुनरिदं यदेकदा तु स्वामिनः, अन्यदा तु स्वस्माद् विभक्तिः तद्धितो वेति?
संबन्धस्य पदन्यासातिरेकात्। नियोगतो हि पितापुत्रयोरेकस्य प्राधान्यमन्यस्यो— पसर्जनत्वम्, तुल्यत्वे सम्बन्धाऽभावात्। तत्र न प्रधानं पुत्रादि गुणानुरोधेन प्रवर्त्तितुमर्हति; उपसर्जनं तु पित्रादि यथा प्रधानाऽनुग्रहस्तथाऽऽत्मनं निर्वर्त्तयति, स्वरूपावस्थितौ प्रधानार्थाऽसिद्धेः।
अतोऽप्रधाने संबन्धस्याधिकः पदन्यासः। तत्र षष्ठी तद्धितोत्पत्तिर्वा भवति। सा चैकत्वात् संबन्धस्य पुत्रगतमप्येनमभिधत्ते। यदा तु मातुः पिता मातामह इति विवक्षातः प्राधान्यविपर्ययः तदा अपत्याद्युत्पन्नया षष्ठ्या द्विष्ठोऽप्यसावभिहित इति न सा, तद्धितो वा पितृशब्दात्। तदुक्तम्— (वाप. ३.७.१५७)
द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते।
तत्राभिधीयमानश्च प्रधानेऽप्युपयुज्यते ॥ १९ ॥
इति १. ‘शिरीषा’ इत्येव बहुवचनान्तः पाठः सर्वत्र। एवं ‘तेनैकदिक्’ (४.३.११२), ‘तदर्थं विकृतेः प्रकृतौ (५.१.१२),
‘तस्य निमित्तम्’ (५.१.३८), तेन वित्तश्चुञ्चुप्चणपौ (५.२.२६),
‘त्स्मै हितम्’ (५.१.५), वपुप्प्रकरणे ‘युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम्’ (५.२.३९ वार्त्ति. काशिका), इत्यादिषु षष्ठ्यन्ता अपि द्विष्ठत्वादेकविभक्तिवाच्यत्वेनावगन्तव्याः।
ननु च तृतीयादीनां व्यतिरेकविभक्तित्वात् षष्ठीवदेव भवतु सम्बन्धाभिधान— सामर्थ्यात्, प्रथमायाः पुनरव्यतिरिक्तप्रातिपदिकार्थाभिधायिन्याः कथमिवैतदुपपद्यते— ‘त्वमिव त्वावान्’ अहमिव मावान्’ इति। अत्रैके वर्णयन्ति—‘त्वावतः पुरूरवसः’, ‘यज्ञं विप्रस्य मावतः’, ‘न त्वावाँ अन्यो दिव्यो न पार्थिवः’ (ऋवे. ८.४६.१, १.१४२.२, ७.३२.२३) इति प्रथमान्तायाः प्रकृतेः प्रधानभूतेऽपि संबन्धिनि प्रयोगदर्शनात् प्रत्ययोऽवगम्यते।
अन्ये त्वाहुः (वाप. ३, वृत्तिः, कैयटो हेलाराजादयः)—त्वमिव त्वावान्, अहमिव मावान् इत्युपमानमत्र प्रथमान्तं प्रकृत्यर्थः, उपमेयं प्रत्ययार्थः। न तत्र तावदवच्छेदकत्वादुपमानं प्रधानम्। अवच्छेदकादप्युपमानात् षष्ठी नोत्पद्यते, व्यतिरेकहेतोरसंभवात्; इवशब्दो ह्यसत्त्वभूताभिधायित्वान्न व्यतिरेकाधायकः, सादृश्यद्योतको ह्यसौ। अन्यश्च न कश्चिदिह व्यतिरेकहेतुः श्रूयते। अतश्च गौरिव गवय इत्यादाविवाऽत्र षष्ठ्या अभावः, व्यतिरेकहेतौ तु सति इवशब्दप्रयोगे उपमानात् षष्ठ्युत्पद्यते— ‘देवदत्तस्येव यज्ञदत्तस्य दन्ता’ इति। तदुक्तम्—
इवशब्दप्रयोगे तु बाह्यात् संबन्धिनो विना।
नाधिक्यमुपमानेऽस्ति द्योतकः स प्रयुज्यते ॥ २० ॥
(वाप. ३.१४.५४५वृत्तिः)
मा भूत् षष्ठी, प्रथमयाऽपि न भवितव्यमेव, उपमानस्यावच्छेदकत्वेना— प्याधिक्यात्/?/कः पुनराह—‘अनधिक एव प्रातिपदिकार्थे प्रथमे’—ति; पाटलिपुत्राद् राजकं सप्त योजनानि, सप्तसु वा योजनेषु इति अध्वनः प्रथमा सप्तमी च स्मर्यते, संबोधने च प्रथमैव विधीयते; धिक् देवदत्तम्, हा देवदत्तम् इति च द्वितीयाविषये प्रथमाप्रयोगो दृश्यते। यथा— ‘हा धिक् कष्टमनिष्टमस्तकरूणः कोऽयं विधेः प्रक्रमः’ (मामा. ५.२४) ‘कन्यान्तःपुरमेव हा प्रविशति क्रुद्धो मुनिर्भार्गवः’ (मवीच. २.२०) इति।
षष्ठ्यन्ताभिधेयो गुणभूतः।
स त्रिधा १. भावविशिष्टः, २. कारकविशिष्टः, ३. सम्बन्धिविशिष्टश्च। तेषु— (१) भावेनावच्छिन्नो भावविशिष्टः। स द्विधा मुख्येन उपाधिना च। तयोः— मुख्येन यथा—कृषिरस्यास्तीति कृषीवलः (५.२.११२), मायावी (५.२.१२१) आमयावी (५.२.१२२), दयालुः (५.२.१२२), श्रद्धालुः (३.२.१५८) इति। उपाधिना यथा— मृदङ्गो वाद्यते इति शिल्पमस्य मार्दङ्गिकः (४.४.५५), अपूपाः क्रियन्त इति शिल्पमस्य आपूपिकः, मासं ब्रह्मचर्यमस्य भिक्षोः मासिकः, अस्ति परलोक इति मतिरस्य साधोरास्तिकः, नास्ति नरकादिकमिति मतिरस्यासाधोः स नास्तिकः, दिष्टमेव प्रभवतीति मतिरस्य जिगीषोः दैष्टिक इति।
(२) कारकेणावच्छिन्नः कारकविशिष्टः।
स द्विधा— स्वतन्त्रेण अस्वतन्त्रेण च। तयोः— स्वतन्त्रेण यथा— धनमस्यास्तीति धनवान् वदान्यः (५.२.१३०), पञ्चमोऽस्य मासो जातस्य वर्त्तते पञ्चमी बालकः (५.१.१६), तारकाः सञ्चाता अस्य तारकितं नभः (५.२.३६), समयः प्राप्तोऽस्य सामयिकं कर्म (५.१.१०४), ‘एकमन्यत् कर्माध्ययने वृत्तमस्य ऐकान्यिकः (४.४.६४) इति।
अस्वतन्त्रेण यथा— लवणं पण्यमस्य लावणिकः (४.४.५२), वासुदेवे भक्तिरस्य वासुदेवकः (४.३.९८), धनुः प्रहरणमस्य धानुष्कः (४.४.५७), प्रस्थः परिमाणमस्य प्रासिथकः (५.१.५७), सलातुरोऽस्याभिजनः सालातुरीयः (४.३. ९४), ग्रामो निवासोऽस्य ग्रमीण (४.२.९४) इति।
(३) सम्बन्धिनाऽवच्छिन्नः सम्बन्धिविशि।ष्टः।
स द्विधा विशेष्येण विशेषणेन च। तयोः—
विशेष्येण यथा—अपूपा हिता एषा आपूपिका अवन्तयः (४.४.६५), मूलमाबर्हि एषां मूल्या माषाः (४.४.८८), बृहती आदिरस्य बार्हतः प्रगाथः (४.२.५५), कालः प्रकृष्टोऽस्य कालिकमृणम् (५.१.१०८), किञ्च निशासम्बन्धादययनपि निशा। तदस्य सोढं (४.३.५२) नैशः, एवं प्रादोषिक (४.३.५१) इति।
विशेषणेन यथा— इन्द्रो देवताऽस्य ऐन्द्रं हविः (४.२.२४), संशप्तका योद्धारोऽस्य सांशप्तकः संग्रामः (४.२.५६), विनयः प्रयोजनमस्यां वैनायिकी विद्या (५.१.१७१?), देवदत्तो ग्रमणीरस्य देवदत्तकः सङ्घः (५.२.७८), पञ्चावयवा अस्यां पञ्चतयी गतिः (५.२.४२), पञ्चस्य भृतिर्वस्नो वा पञ्चकः पदार्थ (५.१.५६) इति।
ननु च ‘तस्यापत्यम्’ (४.१.९२) इत्यादौ उपगोरपत्यम् औपगवः इति ‘समर्थानां प्रथमाद् वा’ (४.१.८२) इत्यधिकारात् षष्ठ्यन्ता प्रकृतिरपत्यवतो गुणभूतस्य वाचिका, प्रथमान्त तु प्रधानभूतमपत्यं प्रत्ययार्थ एव। ‘तस्तेदम्’ (४.३.१२०) इत्यादावपि प्रधानं संबन्धि तद्धितवाच्यमित्युपपद्यते। ‘साऽस्य देवता’ (४.२.२४) इत्यादौ तु इन्द्रो देवता अस्य ऐन्द्रं हविरिति पूर्वोक्तादेवाधिकारात् सेति प्रथमान्ता प्रकृतिरिन्द्रादिदेवतावाचिका प्रधनम्। गुणभूतस्तु संबन्धी पुरोडाशादिरस्येत्यनेनाप्रधनीभूतसंबन्धि वाचकत्वेन निर्दिष्टः प्रत्ययार्थः। तत्कथमिवायं विपर्यस्तः प्रधानगुणभाव उपपन्नो भवति?
उच्यते— गुणभूतोऽपि संबन्धी बुद्ध्यन्तरेणऽप्रधानभावात् प्रच्याव्य आसादित— प्रधानभावः प्रत्ययार्थत्वेन प्रदर्श्यते। अत एवेन्द्रो देवताऽस्येत्येतावानेव विग्रहो न कार्यः; वृत्तिसमानार्थेन हि तेन भवितव्यम्। न चैतावतो वृत्तिसमानार्थता। वृत्तौ हि इन्द्रादिदेवतावच्छिन्नं पुरोडाशादि अवगम्यते, वाक्ये तु पुरोडाशाद्यवच्छन्नेन्द्रादिदेवतेति।
अयं तु विग्रहो वृत्त्या समानार्थः— ‘इन्द्रो देवता अस्य तदिदमिन्द्रस्वाम्य— वच्छिन्नमैन्द्रं हवि’ रिति। तदिदमुक्तम्—
अनन्तरोक्तः संबन्धी प्रतिपद्य प्रधानताम्। बुद्धयन्तरपरामर्शाद् वाच्यतां प्रतिपद्यते ॥२१॥
प्रकृत्यर्थविशिष्टो हि प्रत्ययार्थोऽभिधानभाक्। न्यायः स, न म तः सास्येत्यधिकारसमाश्रयात् ॥२२॥
एवं ‘सोऽस्यादिरितिच्छन्दसः प्रगथेषु’ (४.२.५५) इत्यादावपि गुणभूतः सम्बन्धी तद्धिताभिधेयो बोद्धव्यः। यत्र तु गुणभूतः सम्बन्धी प्रत्ययार्थः तत्र न प्रधानम्, यत्र प्रधानं तत्र न गुणभूतः।
कुतः पुनरिदं ज्ञायते?
आचार्यप्रवृत्तिर्ज्ञापयति—यदयं निवास—निवासवत्—संबन्धे उभयमाह— ‘तस्य निवासः’ (४.२.६९) ‘सोऽस्य निवासः’ (४.३.८९) इति।
ननु च अपत्यापत्यवत्संबन्धेऽप्युभयं संभाव्यते— ‘माता अपत्यमस्य मातामहः, पिताऽपत्यमस्य पितामह’ इति।
नैवम्, पितुः पिता पितामहः, मातुः पिता मातामह इति करिष्यते।
तथापि हृदयस्य बन्धनं श्रृङ्खलमस्य बन्धनं करभे’ (५.२.७९) इति कथम्?
नान्योऽत्र बन्धनशब्दः संबन्धवचनः, यथा हि बन्धनमित्यनेन दामोच्यते।
नैवम्, बन्धनमित्यनेन संज्ञाशब्दोपाश्रयः श्रृङ्खलकः करभः इति।
एवं च निवासतदवतोरपि शेषषष्ठ्यभ्युपगमत्वे कर्तृविशिष्टमधिकरणं वाच्यम्—शिबीनां निवासः शैब इति (४.२.६९), अपरत्राधिकरणविशिष्टः कर्त्ता— ग्रामे निवासोऽस्य सोऽयं ग्रऽयं ग्राम्य इति।
ननु च ग्रामशब्दोऽयं समुहवचनः, तद् यथा ‘अश्व/स्त्रग्रामाविधौ कृती स समरेष्वस्यास्ति तुल्यः पुमान्’ ‘न रुणत्सीन्द्रियग्रमम्’ इति।
किञ्चातः?
समूहश्च समूह्यपेक्षः इति सापेक्षत्वादसामर्थ्ये तद्धितोत्पत्तिर्न भवति।
नापि सामान्येन समूहाद् भविष्यतीति वच्यम्, तावत्येवार्थे तस्यापरिसमाप्ये— र्दुरधिगमाभिधाने च सामर्थ्याभावात्।
न च यथा देवदत्तस्य मातुः पिता मातामहो देवदत्तस्य, विष्णुमित्रस्य गुरोः कुलं गुरुकुलं विष्णुमित्रस्येति सापेक्षस्यापि तद्धितः समासो वा भवति, एवमस्यापि भविष्यतीति वाच्यम्, न ह्ययं संबन्धिशब्दः। सम्बन्धिशब्दानामेव च सापेक्षणां वृत्तयो भवन्ति। यदाह— (वाप. ३.१४.४७ वृत्तिः)
संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्त्तते। स्वार्थवत् सा व्यपेक्षाऽस्य वृत्तावपि न हीयते ॥२३॥
अन्येषां तु विशेषणानां न वृत्ति, वृत्तनां वा न विशेषणमित्येव। न हि भवति ऋद्धस्य राज्ञः पुरूष ऋद्धराजपुरूष इति, नापि ब्राह्मणानां ग्रमो निवासोऽस्य ब्रह्यणानां ग्रमायोऽयमिति। (मभा. २.१.१)।
कथं तर्हि (मभा. २.१.१) राज्ञः पुरूषः शोभनो राजपुरूष इति?
भवति वै प्रधानस्य सापेक्षस्यापि वृत्तिः।
कथं तर्हि ग्रामो निवासोऽस्योति ग्रमस्य विशेष्यत्वात् प्राधान्ये सापेक्षस्यापि वृत्तिर्न भवति?
अनन्तरोक्तन्यायेनात्र षष्ठयर्थस्य प्राधान्यात्।
नन्वयमपि संबन्धिशब्दः कस्मान्न भवति?
समूहार्थमात्र एव वृत्त्यपरिसमाप्तेः।
तर्हि न भवितव्यमेव ग्रामशब्दान्निवास—निवासवत्सम्बन्धे तद्धितेन? न भवितव्यम्, यथा अव्युत्पन्नजनसमूहार्थकोऽयमुपचारवृत्त्या भवति।
दृश्यते च तात्स्थात् तदवदुपचारः, यथा मञ्चाः क्रोशन्तीति।
यदि वा ग्रमशब्दोऽयं बह्वर्थः(मभा. १.१.७), यथा— अस्ति शलासमुदाये ग्रामो दग्ध इति; जनपद(जन)समुदाये ग्राम आगत इति। अस्ति वाटपरिक्षेपे ग्रमं प्रविष्ट इति, अस्ति सारण्यके ससीमके संस्थिण्डिलके च भूप्रदेशे ग्रमो लब्ध इति, अस्ति अव्युत्पन्नजनसमूहास्पदे ‘शूद्रकर्षकप्राये जनपदं निवेशयेत्, तत्र अष्टशतग्रममध्ये प्रधानं स्थापनीयम्, स नागराणां निवासो नगरमिति। तत्राऽव्युत्पन्नजनसमूहास्पदे यो ग्रमशब्दो वर्त्तते ततो भावितव्यं तद्धितेन— ग्रमो निवासोऽस्येति सोऽयं ग्राम्यो ग्रामीण इति॥
(४. स्वार्थाभिधायिनोऽधातुप्रत्ययाः)
अथ स्वार्थिकाः। तेऽपि द्विधा— १. असत्त्वभूतार्थाः, २. सत्त्वभूतार्थाश्च। उभयेऽपि प्रत्येकं षोढा— १. वाचकाः, २. द्योतकाः, ३. विशेषकाः, ४. सहाभिधायकाः, ५. सार्थकाः, ६. निरर्थकाश्चेति। तत्र—
(१. असत्त्वभूतार्थेः स्वार्थिकाः)
१. असत्त्वभूतार्थेषु शक्तिमात्राभिधायिनो वाचकाः। यथा— तत आगतः, तत्र वसति, पुरस्तादाकतः, पुरस्ताद् वसति, देवत्रा गच्छति, मनुष्यत्रा तिष्ठति इति।
२. पदार्थगत—कुत्सा—प्रशंसाद्यभिव्यञ्जका द्योतकाः। यथा— कुत्सितं पचति पचतकि, प्रशस्तं पचति पचतिरूपम् ईषदसमाप्तं पचति पचतिकल्पम्, प्रकृष्टं पचति पचातितराम् एवं नितराम्, अतीवतराम् इति।
३. वाचकत्वे द्योतकत्वे वा मङ्गलवीप्साद्यधिकार्थाभिधायिनो विशेषकाः। यथा— बहुभ्यो देहि बहुशो देहीति, अल्पं देहि अल्पशो देहीति, द्वाभ्यां द्वाभ्यां देहि द्विशो देहि, माषं माषं देहि माषशो दाहि। एवं कस्मिन् काले कदा केन प्रकारेण कथमिति।
४. अनुप्रयोगाद्यपेक्षिणः सहाभिधायकाः। यथा— अनग्निरग्निः संपद्यते अग्निसात्संपद्यते, देवाय देयं करोति देवत्राकरोति। एवं तं भवन्तं ततो भवन्तम्, एतेन दीर्घायुषा, अत्र दीर्घायुषा, अस्मै आयुष्मते इहायुष्मते, कस्य देवानां प्रियस्य, क्व देवानां प्रियस्य इति।
५. गतिसंज्ञादिकार्यनिमित्तभूताः सार्थकाः। यथा— शुक्लीकृत्य, पटपटायते, द्वेधाकारम्, अभितो ग्रामम्, विना देवदत्तेन, दक्षिणाहि ग्रामादि(२.३.२९)ति।
६. शब्दोपचयादिमात्रहेतवो निरर्थकाः। यथा— उरसि प्रत्येव प्रत्युरसम्, आत्मन्यध्येव अध्यात्मम्, गिरिमन्वेव अनुगिरम्, उच्चैरेव उच्चकैः, त्वयैव त्वयका, अस्माभिरेवास्माकाभिः इति। एवमन्येऽपि— देवाः अर्जुनतोऽभवन्, पूर्वतो ग्रामस्य, ग्रामं पूर्वेण, पुरस्ताद् रमणीयम्, ऐकध्यं करोति, पञ्चकृत्वः पचति, इत्यादयः असत्त्वभूतार्थाः स्वार्थिकेषु यथायोगमवगन्तव्याः।
अन्ये तु वतिमपि शक्त्यभिधायिषु विशेषकस्वार्थिकेषु वर्णयन्ति। यथा—राज्ञेव व्यवहृतमनेन राजवत्, देवमिव भवन्तं पश्यामि देववदित्युदाहृतं पुरस्तात्। एवं च सूत्रं व्याचक्षते— ‘तेन तुल्यम्’ इत्येतस्मिन्नर्थे वतिर्थवति, यत् तत्तुल्यं क्रिया चेत् सा भवति। क्रियेत्येनेन क्रियानिमित्तभूताः शक्तय उच्यन्ते।
न चैतद् वाच्यम्— ‘एवं सति क्रिया न संगृहीता भवति’ यतः क्रियापि कारकमेव। यथोच्यते— (वाक्यपदीये क्रियासमुद्देशे ८.३७—३९)—
क्रियामन्ये तु मन्यन्त क्वचिदप्यनपाश्रिताम्।
साधनैकार्थभावित्वे प्रवृत्तिमनपायिनीम् ॥ २४ ॥
सामान्यभूता सा पूर्वं धात्वर्थैः प्रविभज्यते।
ततो व्यापाररूपेण साध्ये च व्यवतिष्ठते ॥ २५ ॥
प्रकृतिः साधनानां सा प्रथमं तच्च कारकम्।
शक्तिरेकाधिकरणे स्रोतोवदुपकर्षति ॥ २६ ॥
अपूर्वं, कालशक्तिं वा, क्रियां वा, कालमेव वा।
तमेवंलक्षणं भावं केचिदाहुः कथंचन ॥ २७ ॥
इति।
‘तत्र तस्येवे’—त्यस्य च प्रयोजनमुपन्यस्तं पुरस्ताद् द्रव्यगुणयोस्तुल्ययोः प्रत्ययो न लभ्यते इति।
नन्वेवं सति ‘देवदत्त इव स्थूलः, यज्ञदत्त इव गोमान्’ इत्यत्र प्रत्ययो न प्राप्नोति सप्तमीषष्ठ्यन्तत्वयोरभावात्।
अत्रापि क्रियाग्रहणाद् भविष्यति।
कथं पुनः क्रियाशब्देन गुण उच्यते?
क्रियापूर्वकत्वात्। स्थूलगुणयोगाद्धि स्थूलो भवति, गोसंबन्धाच्च गोमानिति।
नन्वेवं सति क्रियाग्रहणमपि न कर्त्तव्यम्। प्रवर्त्ततामविशेषेणैव तेन इत्येतस्मिन्नर्थे वतिः ‘तत्र तस्येव’ इत्यनेन च नार्थः सूत्राऽऽरम्भेण। तदर्हमित्येतदपि उपमानान्न व्यतिरिच्यते, यद्धि राजानमर्हति तद् राजसदृशमेव भवति। एवं च ‘तेन तुल्यमि’त्येवावतिष्ठते। तथा चाह चन्द्रगोमी (चान्द्रव्या. ४.१.१३५)— ‘इवे वतिः’ इति। नन्वेवं सति गौरिव गवय इत्यत्रापि वतिः प्राप्नोति।
नैवम्, उपमायां वतिः, नोपमाने।
यद्यपि वतिशब्देनोभयमपि द्योत्यते तथाप्यदन्यदेवौपम्यम्, अन्येदवोपमानम्। भूयोऽवयवसादृश्यस्य योगो ह्युपमा; यथा चन्द्र इव मुखम्। सदृशात् सदृशप्रतिपत्तिरुपमानम्, यथा गौरिव गवय इति ॥
(२. सत्त्वभूतार्थाः स्वार्थिकाः)
१. सत्त्वभूतार्थभेदेषु लिङ्गविशेषाद्यभिधायिनो वाचकाः। यथा— देव एव देवता (५.४.२७), देवतैव दैवतम् (५.४.३८), उपाधिरेव औपधेयम् (५.१.१३), भाग एव भागधेयम् (५.४.२५ वा), ‘उपाय एवौपयिकम्’ (५.४.३४ वा), चत्वार एव वर्णाश्चातुर्वर्ण्यम् (७.३.३१)।
२. कुत्साप्रशंसाद्यभिव्यञ्जका द्योतकाः। यथा— कुत्सितो वैयाकरणो वैयाकरणपाशः (५.३.४७), प्रशस्ता मृत् मृत्स्ना (५.४.४०), तनुः उक्षा उक्षतरः (५.३.९१), लघुः कुटी कुटीरः (५.३.८८), ईषदसमाप्त आढ्य आढ्यकल्पः (५.३.६७), भूतपूर्वो राजा राजचरः (५.३.५३) इति।
३. वाचकत्वे द्योतकत्वे वा व्याहृतत्वाद्यर्थविशेषव्यक्तिहेतवो विशेषकाः। यथा— व्याहृतार्था वागेव वाचिकम्’ (५.४.३५), उपदेशरूपं कर्मैव कार्मणम् (५.४.३६), असहाय एक एवैकाकी (५.३.५२), अश्व इवायमश्वकः (५.३.९६), कुशाग्रमिव कुशाग्रीया बुद्धिः (५.३.१०५), शिलेव शैलेयं दधि (५.३.१०२) इति।
४. प्रकृतिविशेषेभ्यो नित्यमुपजायमानाः सहाभिधायिकाः। यथा— करीषगन्धेरपत्यं कारीषगन्ध्या (४.१.७४), अभिजितोऽपत्यमाभिजित्यः (५.३.११८), कुञ्जस्याऽपत्यं कौञ्जायन्यः (५.३.११३), परस्परं विविध आक्रोशो व्यावक्रोशी (व्याक्रोशी), समन्ताद् रावः सांराविणम्, राज्ञामायत्तं राजाधीनम् (५.४.७) इति।
५. ‘लुपि युक्तवद् व्यक्तिवचने’ (१.२.५१), इति कार्यार्थाः सार्थकाः। यथा— चञ्चा रमणी इयम्, वर्धिका दर्शनीयः, वासुदेवः प्रतिमा, बलदेवश्चित्रम्, देवपथ आकाशरेखा, हंसपथः क्रौञ्चम् (१.२.५२), वर्धिका दर्शनीयः (५.३.९८), वासुदेवः प्रतिमा (५.३.९९), बलदेवश्चित्रम् (५.३.१००), हंसपथः कौञ्चम् (५.३.१००) इति।
६. शब्दोपचयादिहेतवो निरर्थकाः। यथा—प्रज्ञ एव प्राज्ञः (५.४.३८), विनय एव वैनयिकः (५.४.३४), मृदेव मृत्तिका (५.४.३९) सूर एव सूर्यः (५.४.२५), नामैव नामधेयम् (५.४.५४/५५), देवानां राजैव देवराजः (५.४.३८) इति। एवं कतरः (५.३.९२), कतमः (५.३.९३), पटुतरः पटुतमः (५.३.५८), पटिष्ठः (५.३.५५), पटीयान् (५.३.५७) इत्यादयोऽपि सत्त्वभूताः स्वार्थाः स्वार्थिकेषु यथायोगमवगन्तव्याः।
किं पुनरमी पदप्रकृतयः प्रातिपदिकप्रकृतयो वा?
कुतस्ते संशयः?
उभयथोपलम्भात्। तथा ह्येषां ‘युष्मकाभिः, कदा, तर्हीत्यादौ प्रातिपदिकप्रकृतित्वम्; भिन्धकि, त्वयकि, मयकीत्यादौ पदप्रकृतित्वमुपलभ्यते। ततश्च यावकः अश्वकः, उच्चकैरित्यादौ संदेहः।
न सन्देहः, स्वार्थद्रव्यलिङ्गसंख्याशक्तिमात्राभिधानेन प्रातिपदिकात् स्वार्थादि— निमित्तकुत्साप्रशंसाऽनुकम्पातिशयापरिसमाप्तियाद्यधिकार्थद्योतनेन पदादेव स्वार्थिको— त्पत्तिर्भवतीति। स्वार्थाद्यभिधानेन हि परिसमाप्तार्थं पदं स्वार्थांदिनिमित्तकैः कुत्सादिभिः सम्बन्धमुत्सहते। तदाह— (वाप. ३. १४. १)
कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते।
पदं स्वार्थादयः सर्वे यस्मात् कुत्सादिहेतवः ॥ २८ ॥
यद्यपि स्वार्थाद्यन्यतमनिबन्धनाः क्वचित् कुत्सादयो भवेयुः, तथापि तत्साकल्यार्थं पदादेव कादय उत्पाद्याः तत्र—
अन्यतमनिबन्धनाः कुत्सादयो यथा—
किं द्वारि दैवहतिके ! सहकारकेण संवर्धितेन विषवृक्षक एष पापः।
यस्मिन् मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः ॥ २९ ॥
अत्र हि दैवहतशब्देन लब्धायां नीत्युपाधौ (५.३.७७) सर्वथैवानुकम्प्यमानतायाम्, सहकारसंवर्धननिबन्धनत्वमेवास्याः कपा द्योत्यते— एवं नाम त्वं दैवोपहतासि, यत्सहकारच्छद्मानं विषपादपं द्वारि संवर्धयसि इति। विषपादपशब्देन लब्धायां सहकारस्य सर्वथैव कुत्सायां पादपविकासकाले कामिनामसह्यस्मरज्वरसन्निपातहेतुकत्वमेवास्याः कप्रत्ययेन प्रत्याय्यते। तदुक्तम्—(वाप. ३.१४.४—५)
कुत्सितत्वेन कुत्स्यो वा न सम्यग् वा विकुत्सितः।
स्वशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते ॥ ३० ॥
न च साम्प्रतिकी कुत्सा शब्दाऽभेदे प्रतीयते ॥ ३१ ॥
(शब्दभेद) पूज्यते कुत्सितत्वेऽपि प्रशस्तत्वेऽपि कुत्स्यते ॥ ३२ ॥
इयमेकैव कारिका तद्यथा—
एक इह जीवलोके जीवतिरूपं नृरूपपशुरूपः।
यः प्रेमपाशपाशे मृग इव न मृगीदृशां पतति ॥ ३३ ॥
स्वार्थादिसाकल्यनिबन्धनाः कुत्सानुकम्पातिशयप्रशंसादयो यथा— कुत्सिकुत्सितकः, अनुकम्पितकः, प्रकृष्टतरः, प्रशस्यरूप इति। अत्र हि— (वाप. ३.१४.२—३)
देवदत्तादिकुत्सायां वर्त्तते कुत्सितश्रुतिः।
कुत्सितस्था तु या कुत्सा तदर्थे ‘को’ विधीयते ॥ ३४ ॥
प्रकृष्ट इति शुक्लादिप्रकर्षस्याभिधायकः।
प्रकृष्टस्य प्रकर्षे तु तरबादिर्विधीयते ॥ ३५ ॥
एवमनुकम्पाप्रशंसयोरपि वाच्यमिति।
‘अनुक—अभिक—अभीकः कमिता’ (५.२.७४) इत्यत्राऽनुकामयतेऽसावित्यनुकः, अभिकामयतेऽसावित्यभिकः, अभीको वेति वृत्तिसमानार्थवाक्यकल्पनायां धातोः पूर्वमुपसर्गेण सम्बन्धः, साधनेन वा?
किंचातः?
यद्युपसर्गेण, प्रकृत्यर्थो वक्तव्यः अनुकामयते, अभिकामयत इत्यर्थे प्रत्ययस्यैवोत्पादात्। अथ साधनेन, पश्चादुपसर्गयोगो न घटते। न ह्यसत्त्ववचना अन्वादयः (पम. ३.१.१२) सत्त्वभूतार्थवचनैः सम्बन्धमुत्सहन्ते।
यथेच्छसि तथाऽस्तु।
अस्तु तावत् कमेः प्रथममुपसर्गेणैव सम्बृन्धः।
ननु चोक्त्तं प्रकृत्यर्थो वक्तव्य इति।
स नास्ति पृथक्, प्रत्ययार्थविशेषणभूतस्यैवान्वादेः प्रकृतिभावात्। यथा ‘भृशादिभ्यो भुव्यच्वेः’ (३.१.१२) इत्यत्र मनस्वी सुष्ठु भवति सुमनायते, दुर्मनायते, अभिमनायते इति सुदुरभीनां प्रत्ययार्थस्य भवने विशेषणत्वेऽपि प्रकृतिभावः।
ननु असुमनाः सुमना भवतीति प्रकृत्यर्थविशेषणत्वमपि सुदुरभीनां कस्मान्न भवति?
तथा सति स्वमनायत, दुरमनायत इत्यडागमः स्वादीनां पूर्वतः प्राप्नोति; यथा असङ्ग्रामयतेति। तत्र सङ्ग्रामयतेः सोपसर्गस्यैव चुरादिषु पाठ इति चेत्, इहापि च तत् समानम्; भृशादिषु हि सुमनस्, दुर्मनस्, अभिमनस् इति प्रकृतयः पठ्यन्ते।
यद्येवम् अन्वरुध्यतेतिवत् स भविष्यति। नैवम्—
नैवम्, यद्यपि ‘अनो रुध कामे’ इति दिवादिषु पठ्यते, तथापि यथा अरुध्यतेति दृश्यते। नैवम् अमनायतेति। तर्हिप्रत्ययार्थ विशेषणपक्षे, यथा श्येन इवाचरति श्येनायते इत्यत्र आङः प्रयोग उक्तार्थत्वान्न भवति, एवं सुमनायत इत्यादौ स्वादीनामपि न भवेत्। नैवम् तत्र हि आङर्थ एव प्रत्ययार्थविशेषणम्, इह तु तत्र स्वादीनामर्थाः। ततश्च मनायत इत्युक्ते न ज्ञायते सुष्ठु, दुष्ठु अभि वा मनस्वी भवतीति स्वादयः प्रयुज्यन्ते; यथा— ‘पुच्छभाण्डचीवराण्णिङ्’ (३.१.२०) इत्यत्र ‘पुच्छादुदसने व्यसने पर्यसने च’ इति पुच्छमुदस्यत्युत्पुच्छयते पर्यस्यति परिपुच्छयते इति, एवमनुकामयते अनुकः, अभिकामयतेऽभिकः, अभीको वेति।
अस्तु वा कमेः पूर्वं साधनेन संबन्धः।
ननु चोक्तम् पश्चादुपसर्गयोगो न घटते इति। निपाता अन्वादयो भविष्यन्ति—अनुरूपः कमिता अनुकः, अभिरूपः अभिकः, अभीको वेति। तथापि
अनुकोऽनुकमिता, अभिकोऽभिकमिता इति वक्तव्यं स्यात् यथा ‘उत्क उन्मना’ इति।
नैवम्, सामान्येनापि विशेषाभिधानं दृश्यते; तद्यथा— ‘गम्लृ सृप्लृ गतौ’ इत्यत्र हि गच्छतीति गौः, सर्पतीति सर्प इति गमनसर्पणयोर्यद्यपि महान् विशेषः, तथापि गतावित्यविशेषेण निर्दिश्यते। एतेन ‘नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटच’ (५.२.३१) इत्याद्यपि व्याख्यातम्; अत्र हि नासिकाया अवटीटनम्, अवनमनम्, अवभ्रंश इति नतिविशेंषा नते इत्यनेन सामान्यशब्देनैवाभिधीयन्ते इति।
उपसर्गतो वा न दोषः। अनुरूपं कामयते, अभिरूपं कामयते इति क्रियाभागमात्रेणैव सम्बन्धादन्वादयः प्रत्ययार्थं विशिंषन्तः प्रकृतिभावं लप्स्यन्ते; यथा सुमनायते, विपुच्छयते इति। विषम उपन्यासः। तत्र हि मनःपुच्छादिकायाः प्रकृतेः श्रवणं विद्यते; इह तु तद्गन्धोऽपि नास्ति, यतः परः प्रत्यय उत्पद्यते।
नैवम्, इयान्, इयत्, अधुना, इत्यादावपि प्रकृतेरश्रवणात् तत्र प्रत्ययनिमित्ता प्रकृतेर्निर्वृत्तिः इति चेत्, इहापि निपातननिमित्ता भविष्यति।
कश्चैवमाह प्रकृतेः पर एव प्रत्ययो भवतीति ? अव्ययसर्वनामामकच् प्राक्टेः’ (५.३.७१) ‘विभाषा सुपो बहुच् पुरस्तात् तु’ (५.३.६८) पूर्वस्य समासान्ताश्च सर्वे टजादयो भवन्ति। अति च, प्रकृतिः प्रत्यय इति रूपसिद्धिमात्रमेतत्। इदं त्वर्थवत्त्वम् अयं शब्दोऽस्मिन्नर्थे साधुर्भवतीति। स च
क्वचिदेवमुच्यते ‘अनुकाभिकाभीककमिता’ इति;
क्वचिद् वा ‘नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटच्’ (५.२.३१) इति;
क्वचिदुत्कर्षः अनुपद्यन्वेष्टा (५.२.९०) इति;
क्वचित् ‘श्रोत्रियंश्छन्दोऽधीते’ (५.२.८४) ‘क्षेत्रियच् परक्षेत्रे चिकित्स्य (५.२.९) इति;
क्वचिद् ‘उपाधिभ्यां त्यकन्नासन्नारूढयोः’ (५.२.३४) ‘अकाबूतिलोमाभङ्गाभ्यो रजासि कटच्’ (५.२.२९ वा);
क्वचिद् ‘अवेः संघाते कटच् (५.२.२९ वा), दुग्धे सोढदूसमरीसच (४.२.३६वा) इति;
क्वचित् पशुनाभ्यः स्थाने गोष्ठच् (५.२.२९ वा), द्वित्वे गोयुगच् (५.२.२९ वा), ‘षट्त्वे षड्गच्’ (५.२.२९ वा), इति;
क्वचिद् ‘भवने क्षेत्रे शाकटशाकिनौ’ (५.२.२९ वा.), स्नेहे तैलच्’ (५.२.२९ वा.);
क्वचिद् ‘निष्फलतिलात् पिञ्जपेजौ’ (४.२.३६ वा. ४.२.८९), ‘वाचो व्याहृतार्थायां ठक्’ (५.४.३५), इति;
क्वचिद् रूढितोऽर्थमनिर्दिश्यैव ‘वेः शालच्छङ्कटचौ (५.२.२८), ‘संप्रोदश्च कटच्’ (५.२.२९), ‘अवान् कुटारच्च’ (५.२.३०), ‘नेर्बिडज्—बिरीसचौ’ (५.२.३२), ‘इनच्पिटाच्चिकचि च’ (५.२.३३), कचिकादेशश्च इति।
ननु च धातुः प्रथमं साधनेन सम्बध्यते, पश्चादुपसर्गेण।
तत्कथमुच्यते ?
यथेच्छसि तथास्तु। विशेष्यं हि पूर्वसिद्धं विशेषणसम्बन्धमनुभवति। विशेष्यश्च धात्वर्थः, क्रियारूप उपसर्गाणाम्। उक्तं च ‘क्रियावचनो धातुः’ (मभा १.३.१) इति। क्रिया च साध्यमुच्यते, साध्यं च साधनसम्बन्धमन्तरेण न स्यात्। तदुक्तम् —
प्रयोगर्हेषु सिद्धः सन् भेत्तव्योऽर्थे विशिष्यते।
प्राक् तु साधनसम्बन्धात् क्रिया नैवोपजायते ॥ ३६ ॥
(वाप. २.१८३) इति। तन्न, भाविसम्बन्धतोग्यता समाश्रयणात्। इदंचावश्यमुपगन्तव्यम्, अन्यथा हि क्रियावचनो धातुररित्यपि न स्यात्। न च ‘धातोः कर्मणः समानकर्तृकादिच्छायां वा’ (३.१.७) इति सन उत्पत्तिः। तदाह—
धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा।
धातुत्वं कर्मभावश्च तथान्यदपि दृश्यताम् ॥ ३७ ॥
(वाप. २.१८४) यदि च धातोः पूर्वमुपसर्गेण सम्बन्धो न स्यात् कथामुच्यते ‘विपराभ्यां जेः’ (१.३.१९), अधिशीङ्स्थासां कर्म (१.४.४६) इति ?
ननु पूर्वमुपसर्गसंबन्धः क्वोपयुज्यते ? साधनमन्तरेण तद्विशेषानभिव्यक्तेः। नैवम्। फलकाले बीजसंस्कारस्येव तस्योपयोगात्। तदुक्तम्
बीजकालेषु संबद्धा यथा लाक्षारसादयः।
वर्णादिपरिणामेन फलानामुपकुर्वते ॥ ३८ ॥
(वाप. २.१८५)
बुद्धिस्थादभिसम्बन्धात् तथा धातूपसर्गयोः।
अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ॥ ३९ ॥
(वाप. २.१८६)
अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम्।
धातूपसर्गयोः शास्त्रे, धातुरेव हि तादृशः ॥ ४० ॥
(वाप. २.१८०)
क्रियाविशेषाः संघातैः प्रक्रम्यन्ते क्वचित् तयोः।
तथाहि संग्रामयतेः सोपसर्गादटो विधिछ ॥ ४२ ॥ (वाप. २.१८१)
अतः अनुकामयत इत्यादौ धातोः प्रथममुपसर्गेण साधनेन वा सम्बन्धे न दोषः इति।
उपसर्गणां क्रियाविशेषणत्वे त्रती गतिः—
(१) वाचकत्वं, (२) द्योतकत्वम् (३) सहाभिधायकत्वञ्च। यथोच्यते—
स वाचको विशेषाणां संभवाद् द्योतकोऽपि वा।
शक्त्याधानाय धातोर्वा सहकारी प्रयुजयते ॥ ४२ ॥
वाप. २.१८९ तत्र— यदा वाचकत्वं तदा धातोः प्रथममुपसर्गेण संबन्धः। यथा— प्रतिष्ठते, निराकरोति इति। यदा द्योतकत्वं तदा साधनेन। यथा— प्रपचति, निकर्षति इति। यदा सहाभिधायकत्वं तदा धातूपसर्गयोस्तुल्यकालं साधनेन संबन्धः। यथा— ‘अधीते’, ‘अध्येति’ इति। तदुक्तम्—
स्थादिभिः केवलैर्यत्र गमनादि न गम्यते।
तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिरूच्यते ॥ ४३ ॥
(वाप. २.१८७)
क्वचित् संभविनो भेदाः केवलैरभिदर्शिताः।
उपसर्गेण सम्बन्धे व्यज्यन्ते प्रपरादिना ॥ ४४ ॥
(वाप. २.१८९)
यदाभिधानसामर्थ्यं धातोर्नैकाकिनस्तदा।
धातूपसर्गौ संभूय समर्थावर्थमाहतुः ॥ ४५ ॥
(वाप. २.१९० वृत्तिः) ननु च प्रथमतः साधनसम्बन्धे प्रपचतीत्यत्र प्रकृष्टः पचतीति स्यात्, न तु प्रकृष्टं पचतीति ?
तन्न, साधु पचतीत्यादावपि समानदोषत्वात्। क्रियामात्रेणैव सम्बन्ध इति चेद् इहापि स एवार्थः।
कथञ्च प्रादयश्चादिवदसत्त्ववचनाः क्रियाविशेषकाः कर्त्तृविशेषणं भवेयुः?
उपसर्गाः क्रियायोग (१.४.५९) इति वचनात्।
कथं पुनरसत्त्ववचनाश्चादयो भवन्ति ?
उच्यते—
तेषामुच्चावचार्थत्वात् सर्वसंबन्धदर्शनात्।
अन्यतन्त्रतयोद्भूतेरसत्त्वार्थत्वमुच्यते ॥ ४६ ॥
अथ किममी वाचका उत द्योतका इति ?
तत्रैके वर्णयन्ति—
तत्प्रयोगाऽवसेयत्वाद् वाच्यस्तेषां स गम्यते।
समुच्चयादिरर्थात्मा यथाऽन्येषां गवादिकः ॥ ४७ ॥
अन्ये त्वाहुः—
षष्ठ्यभावादसत्त्वोक्तेरेकानुक्तेः परस्थितेः।
गुणभावात् स्मृतेश्चैषां द्योतकत्वं सुनिश्चितम् ॥ ४८ ॥
तदेतदग्रतः प्रातिपदिकार्थनिर्णये निश्चेष्यत इति नेह प्रतन्यते।
(३. समासरूपं विभक्तावयवम्)
अथ पृथगर्थानामेकार्थीभावः समासः।
स त्रिधा— १. प्राकृतः, २ वैकृतः ३. शेषश्च। तेषु—
(१. प्राकृतः)
समस्तपदानामव्ययीभावादिसंज्ञानिमित्तं पूर्वपदप्रधानादिका प्रकृतिः; तत्र भवः प्राकृतः। स चतुर्धा— (१) अव्ययीभावः, (२) तत्पुरूषः, (३) बहुव्रीहिः, (४) द्वन्द्व इति। तेषु—
(१. अव्ययीभावः)
पूर्वपदा(र्थ)प्रधानोऽव्ययीभावः।
स त्रिधा— अव्ययानाम्, अनव्ययानाम्, कर्मप्रवचनीयानां च। तत्र—
अव्ययनां यथा— ‘अधिस्त्रि’ (२.१.६), उपकुम्भम् (२.१.६), १अतितैसृकम् (२.१.६), २सकिखि (२.१.६), यावदमत्रम् (२.१.८), बहिर्ग्रामम् (२.१.१२) इति।
अनव्ययानां यथा— अग्रेवणम् (८.४.४), मध्यन्दिनम्, चतुर्द्दश, द्विमुनि (२.१.१९), पारेगङ्गम् (२.१.१८), मध्येसमुद्रम् (२.१.१८) इति।
कर्मप्रवचनीयानां यथा— अप—त्रिगर्त्तम् (२.१.१२), आप्रपदम्, आपटलिपुत्रम् (२.१.१३), अनुवनम् (२.१.१५), अनुगङ्गम् (२.१.१६) इति।
(२. तत्पुरूषः)
उत्तरपदार्थप्रधानस्तत्पुरुषः।
सोऽपि त्रिधा— व्यधिकरणः, समानाधिकरणः, द्विगुश्चेति। तत्र —
व्यधिकरणो यथा— राजपुरूषः कष्टश्रितः, शङ्कुलाखण्डः, धान्यार्थः, यूपदारु, वृकभयम्, कुम्भीपाकः (२.१.४१), इति,
समानाधिकरणो यथा— नीलोत्पलम्, एकपुरूषः, केवलान्नम् (२.१.४९), पालकुलालः (२.१.५४), अब्राह्मणः, ईषत्कडार इति।
द्विगुः द्विगुर्यथा— द्वैमातुरः, पाञ्चनापितिः, पञ्चगवधनः, त्रिलोकहर्म्यम्, पञ्चपूली (२.४.१७), चतुःपात्रम् इति। १. तिसृका, ग्रामविशेषः, तैसृकं तत्र भवम् आच्छादनम्, तच्च कालविशेष एव भोग्यं भवति शैत्ये वा ग्रीष्मे वा। यच्च सार्वकालं तदतिक्रान्तमित्यतितैसृकम् (काशिका २.१.६)। २. सकिखि, किखी अपचितपरिमाणः श्रृगालः — पदमञ्जरी। सदृशः किख्येति सकिखिः। (३. बहुव्रीहिः)
अन्यपदार्थप्रधानो बहुव्रीहिः।
स त्रिधा— प्रधानसम्बन्ध्यर्थः, अप्रधानसम्बन्ध्यर्थः, कारकार्थश्चेति। तेषु —
प्रधानसम्बन्ध्यर्थो यथा— दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा (२.२.२६)। एवं दक्षिणापरा, सहाग्निना वर्त्तते साग्निः, सवंशपुत्रः, केशेषु केशेषु गुहीत्वेदं युद्धं प्रवर्त्तते केशाकेशि (३.३.१९), दण्डैश्च दण्डैश्च प्रहृत्य दण्डादण्डि। प्रथमान्तमिह प्रधानमन्यपदार्थः।
अप्रधानसम्बन्ध्यर्थो यथा— चित्रा गावोऽस्य चित्रगुः, अर्धं तृतीयमेषामर्धतृतीयाः, अविद्यमाना भार्या अस्य अभार्यः (२.२.२४), उष्ट्रस्येव मुखमस्य उष्ट्रमुखः (२.२.२४) कण्ठे स्थिताः काला अस्य कण्ठेकालः (२.२.२४), केशसंहारः चुडा अस्य केशचुडः (२.२.२४) इति। षष्ठ्यन्तमिहाप्रधानमन्यपदार्थः।
कारकार्थो यथा— आरूढो वानरो यं स आरूढवानरो वृक्षः (२.१.६), ऊढो रथो येन स ऊढरथोऽनड्वान् (२.२.२४)। एवं क्षुण्णब्रीहि मुसलम्, उपहृतपशू रुद्रः (२.२.२४), उद्धृतौदना स्थाली (२.२.२४), मत्तबहुमातङ्ग वनम् इति। अत्र द्वितीयादिवाच्यं कर्मादिकारकं समासार्थः।
(४. द्विन्द्वः)
उभयपदार्थप्रधानो द्वन्द्व।
स त्रिधा— इतरेतरविषयः. समाहारविषयः, उभयविषयश्च। तत्र —
भेदविवक्षायाम् इतरेतरयोगः। यथा— धवखदिरौ, मातापितरौ, दधिपयसी, शिववैश्रवणौ (२.४.१४), गोऽश्वौ (२.४.११), दशेमे मार्दङ्गिकपाणविकाः (२.४.१५) इति।
अभेदविवक्षायां समाहारः। यथा— पाणिपादम् (२.४.२), रथिकाश्वारोहम् (२.४.२), तक्षाऽयस्कारम् (२.४.१०), गवाश्वम् (२.४.११), प्रत्यष्ठात् कठकौथुमम् (म.भा. २.४.३), उदगात् कठकालापम् (मभा. २.४.३) इति।
विभाषितैकवद्भाव उभयविषयः। यथा— अश्वबडबौ, अश्वबडबम् (२.४.१२), हंसचक्रवाकाः, हंसचक्रवाकम् (मभा. २.४.१२)। धवखदिरपलाशा धवखदिरपलाशम् (२.२.२९) इति ॥
(२. वैकृतः)
प्रकृतेरन्यथात्वं विकृतिः, तत्र भवो वैकृतः।
सोऽपि चतुर्धा— (१) प्राधान्यविपरीतः, (२) सामर्थ्यविपरीतः, (३) वाक्याधिकारार्थः, (४) अर्थान्तरगामी च। तेषु —
(१. प्राधान्यविपरीतः)
प्रधान्यविपर्ययस्त्रिधा— पूर्वपदार्थप्राधान्यविपर्ययः, उत्तरपदार्थप्राधान्यविपर्ययः, अन्यपदार्थप्राधान्यविपर्ययश्चेति। तत्र—
पूर्वपदार्थप्राधान्यविपर्ययोऽव्ययीभावो यथा— शाकप्रति (२.१.९), अक्षपरि (२.१.१०), तिष्ठद्गु (२.१.१७), उन्मत्तगङ्गम् (२.१.२१), पञ्चनदम् (२.१.२०पा.), सप्तगोदावरम् (२.१.२० पा.) इति।
उत्तरपदार्थप्राधान्यविपर्ययस्तत्पुरुषो यथा— राजदन्तः (२.२.३१), पूर्वकायः (२.२.१), प्राप्तजीविकः (२.२.४), गोगर्भिणी (२.१.७१), अश्वमतल्लिका (२.१. ६६), गोवृन्दारक (२.१.६२) इति।
अन्यपदार्थप्राधान्यविपर्ययो बहुव्रीहिर्यथा— ‘द्वौ वा त्रयो वा’ द्वित्राः (५.४.७३), एवं पञ्चषाः (५.४.७३), आसन्नो दशानामासन्नदशः (२.१.१ वा ३), एवम् अदूरदशः (२.१.१), एवं द्विर्दश द्विदशाः, एवं त्रिदशाः (२.१.१) इति।
(२. सामर्थ्यविपरीतः)
सामर्थ्यविपर्ययस्त्रिधा पदाऽसामर्थ्यात्, वाक्यासामर्थ्यात्, वृत्त्यसामर्थ्यात्। तत्र—
पदाऽसामर्थ्यं सापेक्षत्वे यथा— देवदत्तस्य गुरुकुलम् (२.१.१ वाप.), ग्रामं गन्तुकामः, ज्ञातचित्तः कान्तया, निवेदितात्मा गुरुभ्यः, कृतप्रस्थानो नगरात्, निष्पन्नबुद्धिः शास्त्रेषु इति।
वाक्याऽसामर्थ्यमस्वपदविग्रहे यथा— ब्राह्मणेभ्योऽयं ब्राह्मणार्थः सूपः (२.१.३६ मभा.), ब्राह्मणार्था यवागूः (२.१.३६ मभा.), मासो जातस्य मासजातः (२.२.५)। एवं संवत्सरजातः (२.२.५), द्वे अहनी जातस्य द्वयहजातः, एवं द्वयह्नजात इति।
वृत्त्यसामर्थ्यं सम्बन्धे यथा— सूर्यमपि न पश्यन्ति असूर्यंपश्या राजदाराः, पुनर्न गीयन्ते अपुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्ते अश्राद्धभोजी ब्राह्मणः।
एवम् अलवणभोजी भिक्षुरिति, तीर्थे ध्वाङ्क्ष इव तिष्ठतीति तीर्थध्वाङ्क्षः (२.१.४२)। एवं तीर्थकाक (२.१.४२) इति।
(३. वाक्याधिकारार्थः)
अर्थाधिक्यं त्रिधा— विशेषणस्य, विशेष्यस्य, समुदायस्य च।
विशेषणस्य यथा— वर्षशतमायुरस्य शतायुः (तै.सं. २.३.११.५), जनसहस्रं बिभर्त्ति सहस्रंभरः (तैसं. ३.४.११.२), अश्रेणयः श्रेणयः कृताः श्रेणीकृताः (२.१. ५९), अपण्डितः पण्डित उक्तः पण्डितोक्तः, शस्त्रीव श्यामा शस्त्रीश्यामा (२.१. ५५), पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्र इति।
विशेष्यस्य यथा—घृतेन पूर्णो घटः घृतघटः (मभा. २.१.१), अश्वैर्युक्तो रथोऽश्वरथः (मभा. २.१.१), दघ्नोपसिक्त ओदनो दध्योदनः (म.भा. २.१.१), गुडेन मिश्रा धाना गुडधानाः (मभा. २.१.१), अक्षेषु प्रसक्तो धूर्त्तः अक्षधूर्त्तः (मभा. २.१.४०), शाकप्रधानः पार्थिवः शाकपार्थिव इति।
समुदायस्य यथा— श्वभिर्लेह्यः कूपः श्वलेह्यः कूपः (२.१.३३ काशिका), काकैः पेया नदी काकपेया नदी (२.१.३३ काशिका), खट्वायामारूढः खट्वाऽऽरूढो जाल्मः, पात्र एव समिताः पात्रेसमिताः, एवं किंराजा यो न रक्षति (२.१.६४ काशिका), किंगौः यो न वहति (२.१.६४ काशिका) इति। अत्र पूर्वयोरतिशयः, शेषेषु क्षेपः समुदायस्य प्रतीयते।
(४. अर्थान्तरगमनम्)
अर्थान्तरगमनं त्रिधा— पूर्वार्थत्यागात्, अत्यागात्, त्यागात्यागाभ्यां च। तत्र—
पूर्वार्थस्य त्यागो यथा— तैलपायिका, शक्रगोपः, अश्वकर्णः, पञ्चाङ्गुलः, करवीरः, पुंनाग इति।
अत्यागो यथा— कृष्णसर्पः, लोहितशाली, कालशाकः, गौरखरः, नरसिंहः, दन्तलेख(क) (२.२.१७) इति।
त्यागात्यागौ यथा— सप्त पर्णान्यस्य पर्वणि पर्वणि इति सप्तपर्णः (वाप. वृत्तिः ५५), अष्ट पदान्यस्य पङ्क्तौ पङ्क्तौ इत्यष्टापदम्, शतं पत्राणामस्याः पुष्पे पुष्पे इति शतपत्रिका, दर्शने दर्शने नवैव मालिका अस्या नवमालिका, नक्तमिव मालायामस्य नक्तमालः, कृता माला अस्य पुष्पैरिति कृतमाल इति ॥
(३. शेषः)
उदाहृतप्रकाराभ्यामन्यः शेषः।
स चतुर्धा १. सूत्रशेषः, २. असूत्रशेषः, ३. ज्ञापकशेषः, ४. एकशेषश्चेति। तेषु
(१) सूत्रशेषस्त्रिधा— गणोक्तः, वार्त्तिकोक्तः सामान्योक्तश्च। तत्र —
(गणोक्तः) तिष्ठद्गुप्रभृतीनि (२.१.१७), पात्रे समितादयः (२.१.४८) मयूरव्यंसकादयः (२.१.७२) इति गणोक्तः। यथा— ‘आयतीगवम्, समभूमि, उदुम्बरमशकम्, पिण्डीशूरः, अहंपूर्विका, आहोपुरुषिका इति।
(वार्त्तिकोक्तः) निरादयः क्रान्ताद्यर्थे पञ्चम्या (२.२.१८ वाप. ६), गमिगाम्यादि कृतापकृतानामुपसंख्यानम् (२.१.२४, ६०) अव्ययानां बहुव्रीर्हिवक्तव्यः {२.२.२४ (२)}, इति वार्त्तिकोक्तः। यथा निष्कौशाम्बिः, ओदनबुभुक्षुः, क्रयाक्रयिका, पुटापुटिका, उच्चैर्मुखः, अस्तिक्षीरा इति।
(सामान्योक्तः) सुप्सुपा (२.१.४), पूर्वादिनिः, सपूर्वाच्च (५.२.८६, ८७), कुशाग्राच्छः, समासाच्च तद्विषयात् (५.३.१०५,१०६), इति सामान्योक्तः। यथा परःशता राजानः, परःसहस्त्रा शरदः, पुनरुत्सूतं वासः, पुनर्नवं पयः, कृतपूर्वी कटम्, काकतालीयो न्यायोऽयम्।
२. असूत्रशेषस्त्रिधा— नामविषयः, कृद्विषयः, तद्धितविषयश्च। तत्र—
(नामशेषः) अपरस्पराः क्रियासातत्ये (६.१.१४४), ‘पारस्करप्रभृतीनि च संज्ञायाम् (६.१.१५७), पृषोदरादीनि यथोपदिष्टम् (६.३.१०९) इत्यादिर्नामविषयः। यथा— अपरस्पराः सार्थाः गच्छन्ति, आश्चर्यं वर्त्तते, पारस्करो मुनिः, कास्तीरं नगरम्, पृषोदरः कश्चिन्मयूरः पक्षी—ति।
(कृद्विषयः) उपपदमतिङ् (२.२.१९), कुगतिप्रादयः (२.२.१८), कर्त्तृकरणे कृता बहुलम् (२.१.३२) इत्यादिः कृद्विषयः। यथा— कुम्भकारः, पङ्कजम्, ऊरीकृत्य, प्रजवी, अश्वक्रीती।
(तद्धितविषयः) द्विगोर्लुगनपत्ये (१.४.८८), ‘तिक—कितवादिभ्यो द्वन्द्वे’ (२.४.६८), समासान्ताः (५.४.६८), इत्यादिस्तद्धितविषयः। यथा पञ्चसु कपालेषु संस्कृतः पञ्चकपालः, तैकायनश्च कैतवानयश्च तिककतवाः, उपशरदम्, देवराजः, महोक्षः, मृगनेत्रा रात्रयः इति।
३. ज्ञापकशेषस्त्रिधा— विधिज्ञापितः, निषेधज्ञापितः प्रयोगज्ञापितश्च। तत्र — (विधिज्ञापितः) कोः कत् तत्पुरुषे (६.३.१०१), ईषदर्थेऽपि (६.३.१०५), नञो नलोपः (६.३.७३), तिङ्यवक्षेपे च (वा. १), कारकेऽन्यस्य दुक् (६.३.९९), व्यतिहारे सर्वादीनां सुब्बहुलम् (८.१.१२), संख्याविसायपूर्वस्या— ह्नस्याहन्नन्यतरस्यां ङौ’ (६.३.११०), दायाद्यं दायाद (६.२.५), इत्यादिको विधिज्ञापितः। यथा कदुष्णम्, अपचसि, अन्यत्कारकः, अन्योन्यम् सायाह्नः, विद्यादायादः इति।
(अलुग्ज्ञापितः) अलुगुत्तरपदे (६.३.१), पञ्चम्याः स्तोकादिभ्यः (६.३.२), आत्मनः पूरणे तृतीयाया (६.३.६), वैयाकरणाख्यायां पराच्चतुर्थ्याः (६.३.७), ‘वाग्—दिग्पश्यद्भ्यो युक्तिदण्डहरेषु यथासंख्यमलुग् वक्तव्यः (६.३.२१ वा. १), षष्ठ्या अदसः फक्वुञोः (६.३.२१, वा.२), अपो योनियन्मन्तुषु सप्तम्याः (६.३.२१ वा) इत्यादिर्निषेधज्ञापितः। — ब्राह्मणाच्छंसी (६.३.२), आत्मनातृतीयः (६.३.६), परस्मैपदम् (६.३.७), पश्यतोहरः (६.३.२१ वा. १), आमुष्यकुलिका (६.३.२१ वा. २), अप्सुयोनिः (६.३.२१) इति।
(प्रयोगज्ञापितः) जनिकर्त्तुः प्रकृतिः (१.४.३०), तत्प्रयोजको हेतुः (१.४.४५), अपोनप्त्रपान्नप्तृभ्यां घः (४.२.२७), यथा—तथाचाऽन्तः (ण्णः) (७.३.३१ मभा.), वर्त्तमानसामीप्ये वर्त्तमानवद् वा (३.३.१३१), अपरस्पराः क्रियासातत्ये (६.१.१४४), इत्यादिः प्रयोगज्ञापितः। यथा— भूतहर्त्ता, दण्डनायकः, तनूनपात्, याथातथ्यम्, यत्नगौरवम्, क्रियासाफल्यम् (सातत्यम्) इति।
४. एकशेषस्त्रिधा — सरूपाणाम्, असरूपाणाम् सरूपासरूपाणां। तत्र —
सरूपाणां भिन्नार्थानामभिन्नार्थानां भिन्नाभिन्नार्थानां च।१
भिन्नार्थानां यथा— अक्षौ, माषौ, पक्षौ, पादौ, गावौ इति।
अभिन्नार्थानां यथा— वृक्षौ, प्लक्षौ इति।
१. सरूपत्वमभिन्नप्रयत्नोच्चार्यत्वम्। यथा ‘रामः, रामौ, रामाः’ इति। अत्र रामाविति, रामा इति च ‘रामः रामः’ इत्येवं ‘रामः, रामः, रामश्चे’—त्येवम्। एवं च प्रतीतावेकत्वं, किन्तु गर्भे बहुत्वम्। उच्चारणे त्वभिन्नप्रयत्नत्वमिति स्वाभाविक एष एकशेषः।
भिन्नाऽभिन्नार्थानां यथा— ‘अश्विनौ, पुष्पवन्तौ, गावौ, सारस्वतौ युवाम्, यूयम् इति। असरूपाणां सर्वनाम्नां, सम्बन्धिनां सहचारिणां च।
सर्वनाम्नां यथा— स च देवदत्तश्च तौ, एतौ च यज्ञदत्तश्च एते, अयं च त्वं च युवाम्, अमू च त्वं च यूयम्, त्वं चाहं च आवाम्, स च आवां च वयम् इति।
सम्बन्धिनां यथा— माता च पिता च पितरौ, स्वसा च भ्राता च भ्रातरौ, पुत्रश्च दुहिता च पुत्रौ, पिता च मातामहादयश्च पितरः, भ्रातरौ च स्वसारश्च भ्रातरः, पुत्राश्च दुहितरौ च पुत्राः इति।
सहचारिणां यथा— दस्त्रश्च नासत्यश्च दस्त्रौ, देवदत्तश्च विष्णुमित्रश्च विष्णुमित्रौ, शौण्डश्च धूर्त्तादयश्च शौण्डाः, अर्धर्चश्च गोमादयश्च अर्धर्चाः, पुरोडाशश्च धानादयश्च पुरोडाशाः, छत्रिणः।
सरूपासरूपाणां भिन्नशब्दानां, भिन्नवचनानां, भिन्नलिङ्गानां च।
भिन्नशब्दानां यथा— गार्ग्यश्च गार्ग्यायणी च गार्ग्यौ, वात्स्यश्च वात्स्यायनश्च वात्स्यौ, प्रथमश्च प्रथमानन्तरश्च प्रथमौ, भीमश्च भीमसेनश्च भीमौ, वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ, श्रीमांश्च लक्ष्मीवां(मां)श्च श्रीमन्तौ इति।
भिन्नवचनानां यथा— देवश्च दत्तश्च देवदत्तौ, तौ च देवदत्तश्च देवदत्ताः। एवं विष्णुमित्राः। कृष्णश्च सा(शा)रश्च कृष्णसा(शा)रौ, तौ च सारश्च कृष्णसा(शा)राः/एवं नीललोहिताः। अपारश्च पारश्च अपारपारौ, तौ च पारपारश्च पारपाराः। एवमपारपारा इति।
भिन्नलिङ्गानां यथा कुक्कुटश्च कुक्कुटी च कुक्कुटौ, श्वशुरश्च श्वश्रूश्च श्वशुरौ, गावश्च गावश्च गाव इमाः, वत्सकाश्च वत्सिकाश्च वत्सिकाश्च वत्सका इमे, अश्वाश्च अश्वाश्च अश्वा एते, शुक्लश्च शुक्ला च शुक्लं च तदिदं शुक्लम्, तानीमानि शुक्लानीति। (१.२.६९ काशिका)
कथं पुनरेकशेषः समासविशेषो भवति?
संक्षेपाभिधाने सति द्वन्द्वसमानार्थत्वात्। तथाहि— असरूपाणां द्वन्द्वः, सरूपासरूपाणाम् एकशेषः इति।
कोऽनयोः समानोऽर्थः?
येयं युगपदधिकरणवचनता पदार्थानां सहविवक्षेत्यर्थः। तदाह— (वाप. ३.१४.२८)
अनुस्यूतेव भेदाभ्यामेका प्रख्योपजायते।
यस्यां सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ॥ ४९ ॥ इति।
तत्र यदा प्रयोगैकतया बुद्ध्याऽनेकमर्थमवगत्य यथावगतमेवाऽभिधातुमध्यवस्यते तदैकज्ञानावच्छेदानिरूपितभेदस्यास्य भागशोऽभिधानासंभवादवयवशब्दाः संघातविषया विज्ञायन्ते। तद्यथा— ‘धवखदिरौ वृक्षौ इति।
यद्येवं, यथा धवखदिरपलाशमिति द्वन्द्वस्य समूहार्थत्वादेकवचनम्, एकशेषस्यापि प्राप्नोति। नैवम्, द्वन्द्वः समाहारेतरेतरयोगयोः, एकशेषः पुनरितरेतरयोग एव; तस्य हि समाहारपक्षे भिन्नार्थप्रतिपादकानेकशब्दनिवृत्तौ वचनमपि यद्यनेकार्थं न भवेत् केनाऽनेकार्थः प्रतीयेत? न हि वृक्ष इत्युक्ते वृक्षश्च वृक्षश्च वृक्षश्चेति कश्चिदप्यवैति ? तस्मादाम्नातोऽपि द्वन्द्वसमानार्थतया समाहार एकशेषोऽनभिधानादप्रयोगार्ह एवेति विज्ञायते। द्वन्द्वे तु यद्यपि एकवचनान्नानेकार्थावगतिः, तथाहि अनेकश्रुतिनिबन्धनासौ भविष्यतीति समाहारेऽपि न दोषः। एकशेषेऽपि च यत्राऽनेकार्थाभिधानसामर्थ्यं कथंचिद् भवति, भवत्येव तत्र समाहारैकवचनम्, यथा शुक्लं वस्त्रं, शुक्ला शाटी, शुक्लः पट इति तदिदं शुक्लमिति।
यथा तर्ह्येकस्यैव शब्दस्यानेकार्थाभिधानसामर्थ्यादेकशेषे शब्दान्तराणां निवृत्तिः एवं द्वन्द्वेऽपि कस्मान्न भवति ?
यदि भवेदेकशेषादविशेषः प्रसज्येत।
समाहार एकवचनं विशेष इति चेत्, अनेकार्थो न गम्येत। न हि पलाशमित्युक्त धवश्च खदिरश्च पलाशश्चेति कश्चिदप्यवैति।
अथ यथा पितरौ भ्रातरावित्यादिषु शब्दान्तरनिवृत्तावपि तदर्थोऽवगम्यते तथा प्लक्षन्यग्रोधौ धवखदिरावित्यादिषु द्वन्द्वेष्वपि कस्मान्न भवति ?
उच्यते शब्दशक्तिरेषा। भवति हि कश्चिदेकोऽपि शब्दो द्वयोरप्यभिधायकः। यथा रोदसीशब्दो द्यावापृथिव्योः। कौचित् पुनर्द्वावेवैकमर्थमभिदधाते, यथा अधीते अध्येति इति। अत एव शब्दशक्तिदर्शी मुनिः केषुचिदेवं विरूपेष्वेकशेषमारभते भ्रातृपुत्रौ ‘स्वसृदुहितृभ्याम्’ (१.२.६८), ‘पिता मात्रा’ (१.२.७०) इति। अन्येषु तु द्वन्द्वमेवाऽभ्यनुजानाति ॥
ननु च ‘चार्थे द्वन्द्वः’ (२.२.२९) स्मर्यते; स यथा —
समाहारेतरेतरयोगयोः तथा समुच्चयान्वाचययोरपि प्राप्नोति।
नैवम्, समुच्चयान्वाचययोः पदानामसामर्थ्यात्।
कथमसामर्थ्यम् ?
सापेक्षमसमर्थं भवतीति। तथाहि— गौश्चाश्वश्च गच्छतीत्यादिरेकक्रियापेक्षः समुच्चयः; भिक्षामट गां चाऽऽनयेत्यादिरनेकक्रियापेक्षः अन्वाचयः। एवं च बाह्यार्थापेक्षया पदानां परस्परसामर्थ्यम्। समर्थश्च पदविधिर्भवति। समाहारेतरेतरयोगयोस्तु समूहत्वात्, समूहस्य च समूहिरूपत्वादवयवानां सति सामर्थ्ये समासो भवत्यैव। यथा धवखदिरपलाशम्, धवखदिरपलाशा इति।
एवं तर्हि समूहस्यैकत्वात् समाहारवदितरेतरयोगेऽप्येकवचनमेव प्राप्नोति।
नैवम्। समाहार एव परस्परानुप्रवेशादिव समधिगताभेदानामुपसर्जनीकृतावयवः समुदायोऽभ्यनुज्ञायते, यस्यानभिव्यक्तावयवत्वादेकवचनमिव नपुंसकत्वमपि प्राप्नोति; इतरेतरयोगः पुनरवयवभेदानुगतः सङ्घातः, तस्य १प्रत्येकवर्त्तिपदैरभिधीयमानत्वात् समुदायसंख्यानिबन्धनैकवचनमवयेभ्यः प्रस्तूयते। तत्र
यथा पचतीत्यादौ अधिश्रयणादिक्रियाकलापः प्रत्यवयवं परिसमाप्यते तथा समुदायोऽपि प्रतिपदं साकल्येन परिसमाप्यते। तत एकैकस्य पदस्य समुदायनिबन्धनः संस्कारो भवति।
कथं पुनर्धवादयो निर्धारितार्थभेदाः पदान्तरस्यार्थमभिधातुं क्षमन्ते ?
प्रवृत्तिनिवृत्तिसमारोपात्। यथोक्तम् — ‘यदि प्रक्षरतीति प्लक्षः, न्यग्रोधोऽप्येवम्। यदि न्यग् रोहतीति न्यग्रोधः प्लक्षोऽप्येवम्’ इति।
साहचर्यादिवशेन वा परस्पररूपापत्तिः। यथा ‘सप्तमी शौण्डैः (२.१.४०), ‘अर्धर्चाः पुंसि (२.४.३१), ते विष्णुमित्राः छत्रिणो गच्छन्तीति।
तत्र यथा शौण्डार्धार्चादयः बहुवचनान्यथानुपपत्तिसमभिगम्यान् सहचारिणो भिन्नरूपान् धूर्त्तगोमयादीनुपाददते तथा धवादिशब्दाः प्रतीतार्थभेदाः साहचर्चादि— निमित्तानुरोधेन खदिरादीनुपाददते। तथाहि एकवृत्तिपदावरोधप्रतीतसाहचर्यौ धवखदिरौ; अत एव तयोरेव प्रत्यवयवनिवेशाद् बहुवचनं न भवति। १. अधिकरणं वर्त्तिपदार्थः, स हि समासस्यार्थस्याधारः (काशिका २.२.२९)। पदमञ्जरी वृत्तिर्वर्त्तः समासः, न्यासश्च वर्त्तनं वर्त्तः समासः, भावे घञ्। वर्तोऽस्यास्तीति वर्त्ति। कथं पुनर्धवादीनामर्थान्तराभिधानं शक्यमध्यवसातुम् ?
यावता लोकः पदसमुदायादर्थसमुदायमवैति, नावयवात्।
यदप्युक्तं प्रवृत्तिनिवृत्तिसमारोपादिति, तदप्यसारम्, न हि प्रक्षरतीति व्युत्पत्त्या न्यग्रोधः प्लक्षः, नापि न्यङ्रोहतीति व्युत्पत्त्या प्लक्षो न्यग्रोधो भवति; रूढानां हि धर्मनियमाय यथाकथञ्चिद् व्युत्पत्तिः क्रियते, न तु व्युत्पत्तिवशेन रूढयोऽवतिष्ठन्ते।
नापि प्रकृतिप्रत्ययवदन्वयव्यतिरेकसमधिगम्या धवादीनां समुदायार्थता।
यदप्युच्यते शौण्डार्धार्चादिवत् धवशब्दः साहचर्यादिलक्षणया खदिरमुपादत्त इति तदपि न सम्यक्, सति श्रुत्यर्थसंभवे लक्षणाया अयोगात्। न च खदिरार्थो धूर्त्तगोमयावल्लक्षयितव्यः, तस्य खदिरशब्देनैव साक्षादभिधानात्।
एवं तर्हि, यदा धवखदिरादयः समुदायाः प्रविभागेनान्वाचिख्यासिताः, तदा तमेव समुदायं प्रत्याय्यतयाऽभिसंधायावयवा उपादीयन्ते, न त्ववयवार्थप्रतिपादनाभिप्रायेण। अतस्तस्यां युगपदधिकरणवचनतायां समीहितायां समुदायपरत्वादवयवप्रयोगस्य, तेषामवयवानां प्रत्येकमनेकार्थत्वमुच्यते।
किं पुनः प्रयोक्तुरभिप्रायमनुरुध्यन्ते शब्दाः? येन तदभिसन्धानात् समुदायमभिदध्युः।
नेत्याह। अन्यत्राप्यवयवाभिधायिनां शब्दानामवयवमुखेन समुदायाभिधानसामर्थ्यं दृश्यते; यथा सुरभि कुक्लयम्, यन्मधुरं राजादनम् इति। यदि हि सुरभिमधुरशब्दौ गन्धरसमात्राभिधायिनावपि गन्धरसादिसमुदायान् कुसुमफलविशेषादीन् अवयवमुखेन नाचक्षाते, कुवलयादिभिः सामानाधिकरण्यं विरुध्यते।
सत्यमेतत्। अस्ति समुदायाभिधानसामर्थ्यमवयवशब्दानाम्, सुरभि कुवलयमित्यादौ सामानाधिकरण्येन तदवधार्यते; द्वन्द्वे तु निबन्धनमशक्य— मवधारयितुमिति तस्यानुपपत्तिः।
नैवम्। समुदायाभिधानस्य प्रक्रान्तत्वात्।
यद्येवं पद्वीमृद्वा(द्व्या)विति समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति।
उच्यते। अथेह कस्मान्न भवति दर्शनीयाया(:) माता दर्शनीयामाता ?
अथ मतमेतत् प्राक् समासाद् यत्र सामानाधिकरण्यम्, इहापि न दोषो भवति; न हि प्राक् समासात् सामानाधिकरण्यमत्र विद्यते।
ननु च वाक्येऽपि समुदायप्रक्रमेणैवावयवपदानां प्रयोगात् कथमुच्यते प्राक् समासात् सामानाधिकरण्यं नास्तीति ?
समुदायप्रक्रमस्य निर्निबन्धनत्वेनाप्रतीयमानत्वात्। कुवलयादिशब्दसामाना— धिकरण्यं हि सुरभिप्रभृतीनामसमासेऽपि समुदायतानिबन्धनम्; इह त्वेकार्थीभावः समुदायाभिधाने निमित्तमिति वाक्ये सामानाधिकरण्यप्रसिद्धिः।
एवमपि, विप्रतिषिद्धेषु युगपदधिकरणवचनताया अनुपपत्तिः, यथा सुखदुःखे जननमरणे, शीतोष्णे इति। सुखादिप्रतिघातेन हि दुःखादयः, दुःखादिप्रतिघातेन च सुखादय इति।
नैवम्। सर्व एव शब्दा विप्रतिषिद्धाः, प्लक्षन्यग्रोधावित्यत्रापि, हि प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थं संप्रत्याययति, न्यग्रोधार्थं निवर्त्तयति; न्यग्रोधशब्दः प्रयुज्यमानो न्यग्रोधार्थं प्रत्याययति प्लक्षार्थं निवर्त्तयति। तत्र चेद् युक्ता युगपदधिकरणवचनता दृश्यते, इहापि युक्तं दृश्यताम्।
एवमपि शब्दपौर्वापर्यप्रयोगादर्थपौर्वापर्याभिधानं प्राप्नोति।
ततः किम्? युगपदधिकरणवचनताया अनुपपत्तिः— प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा’ इति; यथैव हि शब्दानां पौर्वापर्यं तद्वदर्थानाम/?/पि स्यात्।
नैवम्। एवं सति द्विवचनबहुवचनयोरप्यनुपपत्तिः; प्लक्षशब्दो हि सार्थको निवृत्तः; न्यग्रोधशब्द उपस्थितः; स चैक एकार्थ इति तस्मादेकवचनमेव प्राप्नोति। विग्रहे खल्वपि युगपदधिकरणवचनता दृश्यते, किं पुनः समासे। तद्यथा ‘द्यावा ह क्षामा’ ‘द्यावा चिदस्मै पृथिवी सन्नमेते’ इति (ऋवे. १०.११.१, २.१२.१३)
समुदायात् सिद्धमिति चेत्, तन्न, समुदायस्यैकार्थत्वात्; एकार्था हि समुदाया भवन्ति। तद्यथा शतम्, यूथम्, वनमिति। नायमेकार्थः। किंतर्हि। द्व्यर्थो बह्वर्थश्च। प्लक्षोऽपि द्व्यर्थः;, न्यग्रोधोऽपि द्व्यर्थः।
यद्येवम् अनेकार्थत्वाद् ‘बहुषु बहुवचनमि’ (१.४.२१)—ति बहुवचनं प्राप्नोति? तन्न, बहुत्वाऽभावात् (मभा. २.२.२९ ); याभ्यामेवात्रैको द्व्यर्थस्ताभ्यामेवाऽपरोऽपि। यद्येवमन्यवाचकेन शब्देनान्यस्य वचनं नोपपद्यते।
एवं तर्हि प्लक्षस्य न्यग्रोधत्वान्न्यग्रोधस्य च प्लक्षत्वात् स्वशब्देनैवाभिधानं भविष्यतीति (मभा. २.२.२९)।
कथं पुनः प्लक्षोऽपि न्यग्रोधो न्यग्रोधोऽपि प्लक्षः स्यात् ? यावता कारणाद् द्रव्ये शब्दसन्निवेशो भवति।
कारणाद्द्रव्ये शब्दसन्निवेश इति चेत् कारणमुक्तं पुरस्तात् यदि प्रक्षरतीति प्लक्षः न्यग्रोधेऽप्येतद् भवति, यदि न्यङ् रोहतीति न्यग्रोधः, प्लक्षेऽप्येतद् भविष्यतीति।
दर्शनं वै हेतुः। न च न्यग्रोधे प्लक्षशब्दो दृश्यते। दर्शनं हेतुरिति चेत् तुल्यमेतद् भवति प्लक्षेऽपि न्यग्रोधशब्दो दृश्यते।
नन्वेतद् ब्रवीमि— ‘नैषं लोके संप्रत्ययोऽस्ति, न हि प्लक्ष आनीयतामित्युक्ते न्यग्रोध आनीयते।’
द्वन्द्वविषयमेवैतद् द्रष्टव्यम्।
युक्तं पुनर्यन्नियतविषया नाम शब्दाः स्युः?
वाढं युक्तम्, अन्यत्रापि दर्शनात्; तद् यथा समानेऽपि रक्ते वर्णे गौर्लोहित इति भवति, अश्वः शोणित इति। समाने शुक्ले वर्णे गौः श्वेत इति भवति अश्वः कर्क इति।
यदि तर्हि प्लक्षोऽपि न्यग्रोधः, न्यग्रोधोऽपि प्लक्षः, एकेनैवोक्तत्वादपरस्य प्रयोगोऽनुपपन्नः। अनुक्तः प्लक्षेण न्यग्रोध इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते।
कथमनुक्तः? यदिदानीमेवोक्तं प्लक्षोऽपि न्यग्रोधः, न्यग्रोधोऽपि प्लक्ष इति। सहभूतावन्योन्यस्यार्थमाहतुः, न पृथग् भूतौ।
किं पुनः कारणम् ?
शब्दशक्तेः स्वभावः। प्रतिनियता हि वृत्तिवाक्ययोः शब्दानामभिधानशक्तिः, तद्यथा शस्त्रीश्यामा देवदत्ता’ इति। ‘उपमानानि सामान्यवचनैः’ (२.१.५५) इति समासे शस्त्रीशब्देनावच्छिद्यमानविशेषावरुद्धः श्यामाशब्दो यद्यपि न सामान्यवचनः तथाप्यसौ देवदत्तायामुपमीयमानायां वर्त्तते शस्त्रीव श्यामा देवदत्तेति, तदिदमुक्तं ‘प्रागभिसम्बन्धाद् यः सामान्यवचन’ (मभा. २.१.५५ वा—२) इति। समासमभिसम्बन्धवचनेन दर्शयति; यतस्तत्र विनिवृत्तविशेषान्तराकाङ्क्षाणि यथासमीहितविशेषाऽवरुद्धानि पदानि। सोऽयं वृत्तिवाक्ययोर्विशेषः।
किञ्च, निष्कौशाम्बिः, निर्वाराणसिरिति भेदे सति निरादीनां न क्रान्ताद्यर्थसंभवः (मभा. २.४.२६)। अपि च ‘गौर—खर—वदरण्यम्’ (मभा. २.१.६९), ‘लोहितशालिमान् ग्रामः’ इति।
प्राग्वृत्तेर्जातिवाचित्वं न च गौर—खरादिषु ॥ ५० ॥
(वाप. ३ वृत्तिः ३९)
यथा स्निग्धकिसलयमरण्यं मत्तमातङ्गं वनमिति।
वृत्तिरन्यपदार्थे या तस्या वाक्येष्वसंभवः ॥ ५१ ॥
(वाप. ३ वृत्तिः ३८) एवं च प्लक्षन्यग्रोधौ प्राथमकल्पिकौ कौचित्, क्रियया गुणेन वा प्लक्ष इवायं प्लक्षः, न्यग्रोध इवायं न्यग्रोध इति। तत्र प्लक्षावित्युक्ते संदेहः स्यात्— ‘किमिमौ प्लक्षावेव आहोस्वित् न्यग्रोधावेव, अथवा प्लक्षन्यग्रोधाविति। तत्राऽसन्देहार्थो न्यग्रोधशब्दः प्रयुज्यते। सेयं युगपदधिकरणवचनता दुःखा दुरुपपादा च (मभा. २.२.२९)।
यदपि चास्या ज्ञापकं ‘द्यावा च क्षामा’ इति, तदपि छान्दसम्। इदं तर्हि ज्ञापकमस्तु ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ (२.४.२६), पूर्ववदश्वबडवौ (२.४.२७)। यदि ह्यत्र ‘कुक्कुटमयूर्या’—(२.४.२६ वा. २. मभा. काशिके)— वित्यादिषु सहविवक्षा न स्यात् अनर्थकः सूत्रारम्भः स्यात्।
ननु च तत्पुरुषस्योत्तरपदार्थप्रधानत्वात् तत्र परवल्लिङ्गतातिदेशोऽनर्थकः।
नानर्थकः, तत्पुरुषस्य क्वचित् पूर्वपदार्थप्रधानत्वात्, यथा ‘अर्धं’ पिप्पल्या अर्धपिप्पली (२.४.२६ मभा.), पूर्वं कायस्य पूर्वकायः, उत्तरं शरीरस्योत्तरशरीरम् इति। यद्येवं ‘प्राप्तो जीविकां प्राप्तजीविकः, निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः, अलंकुमार्यै अलंकुमारिः’ इत्यत्रापि परवल्लिङ्गता प्राप्नोति।
एवं तर्हि, द्वन्द्वेन सह निर्देशाच्चार्थाविषयोऽत्र तत्पुरुषो गृह्यते; यथा १’क्रयाक्रयिका, पुटापुटिका, फलाफलिकेति, २अश्वमतल्लिका कुमारीतल्लजकः, गोप्रकाण्डम्’ इति। अत्र हि, यथा धवश्च खदिरश्चेति युगपदधिकरणवचनतायां तथा समानाधिकरणतायामपि विशेषणविशेष्यभावेन संमूर्च्छन्ताविवान्योन्यमर्थौ भवतः। तथाहि प्रयोजनवत्तया महत्त्वाश्रयश्चासावल्पमूल्यत्वेन लघुत्वात् क्रयिका चेत्युपपद्यते नीलोत्पलादिवद् विशेषणविशेष्यभावः। एवं फलाफलिका, पुटापुटिकेति। अश्वमतल्लिकेत्यत्राश्वशब्दः प्रवर्त्तमानः सर्वाश्वावग्रहरूपेण प्रवर्त्तते; मतल्लिकाशब्दः प्रशंसावचन प्रवर्त्तमानो विशिष्टावग्रहरूपेणावच्छिनत्ति। यादि वा— मतल्लिकेत्येतत् प्रशंसावचनं न्यूनाधिकभावमनपेक्ष्य प्रवर्त्तमानमनेनैव धर्म्मेण सर्वयोग्यं सत् अश्व इत्यनेन विशिष्टायां योग्यतायां नियम्यते। ततो यथा शुक्लः कृष्णश्चायं मृगः सारङ्गः शबल इति वा तथा ऽश्वमतल्लिकेत्येतदुभयरूपोऽर्थ इत्युभयमुभयेन सन्निवेश्यते। एवं कुमारीतल्लजकः गोप्रकाण्डमिति। १. ‘महान् क्रयः क्रयः, अल्पीयाँस्तु क्रयिका’ इति न्यासः। मभा. २.१.६० वा. ५। २. काशिका २.१.६६। यद्येवम् अर्धपिप्पलीत्यादिषु षष्ठीसमासापवादेषु परवल्लिङ्गता न प्राप्नोति।
नैवम्। तत्रापि अर्धं च तत् पिप्पलीति चार्धपिप्पलीति, पूर्वश्चासौ कार्यश्च पूर्वकाय इति सामानाधिकारण्यमेव परमार्थः। अत एव यत्र सामानाधिकरण्यस्यासम्भवः तत्र षष्ठीसमास एव भवति, यथा— वेद्यर्धं दाक्षिणं मेरोः (?), स्वरार्धम्, चूडिकार्धम्, पणार्धम् इति। न चार्धादीनामेवैष नियमः, यतोऽन्यत्रापि सामानाधिकरण्यस्य विवक्षाऽविवक्षाभ्यामुभयथा तत्पुरुषो भवति, तद्यथा ‘अग्रहस्तः, हस्ताग्रम्, १तलपादः, पादतलम्’ इति (मभा. २.२.६९, न्यासश्च) ॥
ननु च ‘चार्थे द्वन्द्वः’ (२.२.२९) इत्युच्यते २चश्चाव्ययं तेन समासस्याव्ययसंज्ञा प्राप्नोति।
नैष दोषः। ३पाठेनाव्ययसंज्ञा क्रियते। न च समासस्तत्र पठ्यते।
मा भूदपाठे संज्ञा तथाप्यभिधेयवल्लिङ्गवचनानि भवन्ति, यश्चेहार्थोऽभिधीयते, न तस्य लिङ्गसंख्याभ्यां योगोऽस्ति। नेदं वाचनिकम् अलिङ्गता असंख्यता च। किं तर्हि ? स्वाभाविकमेतत्। तद्यथा समानमीहमानानामधीयानानां केचिदर्थेन युज्यन्ते, अपरे न; चेदानीं कश्चिदर्थवानित्यतः सर्वैरर्थवद्भिः शक्यं भवितुम्, कश्चिद् वाऽनर्थक इति सर्वैरनर्थकैः। तत्र किमस्माभिः शक्यं वक्तुम्, यत् प्राक् समासात् लिङ्गसंख्याभ्यां योगो नास्ति, समासे च भवति।
अथवा आश्रयतो लिङ्गवचनानि भविष्यन्ति। गुणवचनानां हि शब्दानामाश्रयता लिङ्गवचनानि भवन्ति। तद्यथा शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ कम्बलौ, शुक्लाः कम्बला इति। यदसौ द्रव्याश्रितो भवति गुणस्तस्य यल्लिङ्गं वचनं च १. २.२.३—अष्टाध्याय्यां ‘तलाग्रादयश्चे’ति भोजस्य योगः। स च वामनस्यानुकारः। तथाहि काव्यालङ्कारसूत्रवृत्तिः— ५.२.२०— हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात्। हस्ताग्रमग्रहस्तः पुष्पाग्रमग्रपुष्पम् इत्यादयः प्रयोगाः कथम् ‘आहिताग्न्यादिषु अपाठात्, पाठे वा तदनियमः स्यात्।’ आह गुणगुणिनोर्भेदाऽभेदात्। तत्र भेदात् हस्ताग्रादयः, अभेदाद् अग्रहस्तादय’ इति। २. मभा. २.२.२९। ३. पाठेन— ‘सूत्रगतेने’ति भावः वस्तुतस्तु व्याहारमात्रगत एष भेदो, न तु व्यवहारेऽपि। अत एव पत्नीति वक्तव्ये ‘दारा’ इत्युच्यमानं न दोषाय। व्याहार एव हि परायणं शिष्टानां व्यवहारनियमने। राघवेणाऽत्र नाङ्गीकृतः पाण्डुलेखनिगडः, अर्थसङ्गतिं पश्यता। धन्य एष। तद् गुणस्यापि; यदसौ द्रव्यं श्रितो भवति समासः, लिङ्गं वचनं च तत् समासस्यापि भविष्यति।
अथेह कस्मान्न भवति— याज्ञिकश्चायं वैयाकरणश्च, कठश्चायं बह्वचश्च, औक्थिकश्चायं मीमांसकश्चेति? शेष इति वर्त्तते—
उपास्नातं स्थूलसिक्तं तूष्णींगङ्गं महाह्रदम्।
द्रोणं चेदशको गन्तुं मा त्वा ताप्तां कृताकृते ॥ ५२ ॥
इत्येतन्न सिद्ध्यति।
नैष दोषः। अन्यद्धि कृतमन्यदकृतम्। चार्थे द्वन्द्ववचने असमासेऽपि चार्थसंप्रत्ययादनिष्टं प्राप्नोति।
अहरहर्नयमानो गामश्वं पुरुषं पशुम्।
वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥ ५३॥
(मभा. २.२.२९) इन्द्रस्त्वष्टा वरुणो वायुरादित्य (तैआ. ६.५.३; मभा. २.२.२९) इति।
नैष दोषः। इह ‘चे द्वन्द्व’ इतीयता सिद्धम्।
कथं पुनश्चे नामवृत्तिः स्यात् ?
शब्दो ह्येष शब्देऽसम्भवादर्थे कार्यं विज्ञास्यते। सोऽयमेवं सिद्धे सिद्धे सति यदर्थग्रहणं करोति तस्यैतत् प्रयोजनम्। यथैवं विज्ञायेत ‘चकृतेऽर्थे चार्थ’ इति।
(न चकृतेऽर्थे चार्थः)
कः पुनश्चकृतोऽर्थः ?
समुच्चयः, अन्वाचयः, इतरेतरयोगः, समाहार इति।
तत्र द्वयोः सापेक्षत्वात् समासो न भवति (समासो भवति)।
द्वयोस्तु भवतीति प्रतिपादितं पुरस्तात्।
ननु चैवं ‘चकृतोऽर्थश्चार्थ’ इति पक्षे प्लक्षन्यग्रोधावित्यत्र प्लक्षश्च न्योग्रोधश्चेति विग्रहः प्राप्नोति; यावता प्लक्षश्च न्यग्रोधश्चेत्यप्युक्ते गम्यत एतत् प्लक्षोऽपि न्यग्रोधसहायः, न्यग्रोधोपि प्लक्षसहाय इति।
तत्र को दोषः स्यात् ?
प्लक्षौ च न्यग्रोधौ चेति यदुक्तं तन्न घटते। युगपदधिकरणवचनता— प्रदर्शनमात्रपरमेतत्, न त्वयमेव परमार्थः।
एवं हि क्रियमाणे एकश्च विंशतिश्च एकविंशतिः, द्वौ च दश च द्वादशेति द्विवचनं बहुवचनं च प्राप्नोति।
किं पुनरेकविंशतिरित्यादयो द्वन्द्वाः ?
बाढम्। एकाधिका विंशतिरिति पक्षे हि संख्यास्वरो न प्राप्नोति। स हि शतसहस्त्रमिति षष्ठीसमासे मा भूदिति द्वन्द्व एवाभ्यनुज्ञायते।
यद्येवमितरेतरयोगपक्षे द्विवचनम्, समाहारपक्षे च नपुंसकत्वं प्राप्नोति।
नैवम्, ‘लिङ्गमशिष्यं लोकाश्रयत्वा’ —दिति समाहारेऽपि नपुंसकत्वं न भविष्यति। अथ द्वादशेत्यत्रापि समाहारः कस्मान्न भवति आ दशभ्यः संख्याः संख्येय एव वर्त्तते; अत उद्भूताऽवयवसमुदायतायामितरेतरयोग एव प्राप्नोति; यथा ‘अधिकरणैतावत्त्वे च (२.४.१५), दशेमे मार्द्दङ्गिकपाणविका (काशिका २.४.१५) इति ॥
तदेतत् कृत्तद्धितसमासभेदाद् विभक्तावयवं त्रिधा प्रातिपदिकमभिहितम्।
(२. अविभक्तावयवं प्रातिपदिकम्)
अथाविभक्तावयवमुच्यते। तदपि (अविभक्तावयवमपि) प्रातिपदिकं त्रिधा —
१. नामरूपम्, २. अव्ययरूपम् ३. निपातरूपं च। तत्र —
(१. नामरूपम्)
अनपेक्षितशब्दव्युत्पत्तीनि सत्त्वभूतार्थाभिधायीनि च नामानि।
तानि त्रिधा— १. एकार्थानि, २. अनेकार्थानि ३. एकानेकार्थानि चेति। तत्र— एकार्थानि यथा— वृक्षः, कुण्डम्, कुमारी, डित्थः, शुक्लः, शीघ्रः, इन्द्रः, शक्रः, पुरन्दरः, कोष्ठः, कुसूल इति।
अनेकार्थानि यथा— अक्षाः, माषाः, पादाः, अवयः, हरयः, गावः, भूतयः, पुण्डरीकम्, पुष्करम्, साम, ललाम इति।
एकानेकार्थानि यथा— दस्त्रौ, नासत्यौ, पुष्पवन्तौ, उभौ, रोदसी, रोदस्यौ, दाराः, वर्षाः, आपः, वनम्, पङ्क्तिः, सेना इति।
(२. अव्ययरूपम्)
प्रायेणालिङ्गसंख्याशक्तीनि अव्ययानि।
तान्यपि त्रिधा १. द्रव्यवचनानि, २. गुणवचनानि ३. संबन्धवचनानि चेति। तेषु द्रव्यवचनानि यथा— स्वः, प्रातर्, दिवा, दोषा, नक्तम्, सायम्, विहायसा, भूः, कम्, शम्, शंयो, मय इति।
गुणवचनानि यथा—उच्चैः, नीचैः, सुष्ठु, अपष्ठु, मुधा, अद्धा, मृषा, मिथ्या, अलम्, बलवत्, पृथक्, विष्वक् इति।
संबन्धवचनानि यथा— समया, निकषा, बहिः, अन्तः, अन्तरेण, ऋते, आरात्, युगवत्, साकम्, सार्धम्, अमा, सह इति।
(३. निपातरूपम्)
असत्त्ववचनाश्चादयो निपाताः। तेऽपि त्रिधैव —
१. स्वतन्त्राः, २. परतन्त्राः ३. विशेषपरतन्त्राश्च। तेषु —
(स्वतन्त्राः) अस्त्यादयः स्वतन्त्राः। यथा— अस्ति, असि, अस्मि, एहि, ब्रूहि, मृदु (द्नु) हि, मन्ये, जाने, पश्य, पश्यत, स्यात् इति।
(परतन्त्राः) कर्मप्रवचनीयाश्चादयः परतन्त्राः। वृक्षमनु विद्योतते, उपार्जुनं योद्धारः, अप त्रिगर्त्तेभ्यो वृष्टो देवः, अभिमन्युरर्जुनतः प्रति, यदत्र मां प्रतिस्यात्, अधिब्रह्मदत्ते पञ्चालाः, अहं च त्वं च वृत्रहन्, वायुर्वा त्वा मनुर्वा त्वा, अहमेव पशूनामीशे, सरोजमिव ते मुखम्, न नूनमस्ति नोश्वः, कः स्विदेकाकी चरति इति; (तैसं.७.४.१८.१)।
(विशेषपरतन्त्राः) गतिप्रादयो विशेषपरतन्त्राः। यथा— प्रकरोति, पराकरोति, ऊरीकरोति, १गुलुगुधाकरोति (काठकसं. २५.१), कारिकाकरोति, खाट्करोति, पटपटाकरोति, तिरस्करोति, पुरस्करोति, श्रद्धा, अन्तर्धिः इति ॥
(३. अनुकरणप्रतिपदिकम्)
अथानुकरणम्। तदपि त्रिधैव —
(१. साध्वनुकरणम्, २. असाध्वनुकरणम् ३. अव्यक्तानुकरणं च।
(१. साध्वनुकरणम्)
(तत्र२ साध्वनुकरणं द्वेधा सार्थकं निरर्थकं च)। तयोः—
सार्थकं यथा— ‘द्विःपचत्वित्याह’ अग्नी इत्याह, पचतीत्याह। अत्र सार्थकत्वात् ‘तिङ्ङतिङः (८.१.२८) इति निघातः,‘ईदूदेद्द्विवचनं प्रगृह्यम् (१.१.११) इति प्रगृह्यत्वम्, तिङ्न्तत्वादप्रातिपादिककार्यत्वे सुबुत्पत्तिश्च न भवतीति। १. ‘गुलुगुधा पीडार्थे’ १.४.६१ काशिका। २. कोष्ठकगता पङ्क्तिरस्माभिरुपकल्पिता याथापूर्व्यं प्रमाणीकृत्य। राघवः पुनरे वं (तत्र प्रथमं सार्थकं, निरर्थकं च)। अत्र याथापूर्व्यं नान्वापालीतिं विमृश्यम्। निरर्थकं यथा— ‘सुः पूजायाम्’ (१.४.९४) ‘अपिः पदार्थसंभावनान्ववसर्ग— गर्हासमुच्चयेषु’ (१.४.९६) ‘चः समुच्चये’ (?)३। अत्रार्थस्यानुकरणात् स्वस्वरूपत्वाच्च प्रातिपदिकत्वे सुपः श्रवणं भवतीति।
(असाध्वनुकरणम्) द्वितीयम् अशक्तिजम् अपभ्रंशश्च।
तत्राशक्तिजं यथा— अहो ऋतक इति वक्तव्ये शक्तिवैकल्याद् ‘अहो लृतक’ इत्याह।
अपभ्रंशो यथा— ‘हेरयो हेरय’ इति वक्तव्ये असुरा ‘हेलयो हेलय’ इति वदन्तः पराबभूवुः।
(अव्यक्तानुकरणं) तृतीयम् निरुल्लेखं सोल्लेखं च। तयोः —
निरुल्लेखं यथा— पटत्पटदिति करोति पटपटायते।
सोल्लेखं यथा— तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्ददद इति। दाम्यत, दत्त, दयध्वमिति तदेतत्त्रयं शिक्षेद् दमं दानं दयामि’—ति ॥
(६. विभक्तिः)
प्रत्ययविशेष एव शक्ति—संख्या—विभागकृद् विभक्तिः। सा त्रिधा —
१. तिङ्विभक्तिः, २. सुब्विभक्तिः, ३. अव्ययविभक्तिश्च। तासु —
(१) तिङ्विभक्तिः षोढा —
१. परस्मैपदविभक्तिः, २. आत्मनेपदविभक्तिः, ३. सार्वधातुकविभक्तिः, ४. आर्धधातुकविभक्तिः, ५. व्यक्तकालविभक्तिः, ६. अव्यक्तकालविभक्तिश्च।
तासु—
परस्मैपदविभक्तिर्यथा पचति, पचतः, पचन्ति; आत्मनेपदविभक्तिर्यथा पच्यते, पच्येते, पच्यन्ते; सार्वधातुकविभक्तिर्यथा व्यपच्यत, व्यपच्येतां, व्यपच्यन्त; आर्धधातुकविभक्तिर्यथा पपाच, पक्ता, पक्षीष्ट; व्यक्तकालविभक्तिर्यथा अपाक्षीत्, अपचत्, पक्ष्यते; अव्यक्तकालविभक्तिर्यथा पचतु, पचेत्, अपक्ष्यत इति।
(२) सुब्वि भक्तिरपि षोढा —
१. कारकविभक्तिः, २. सम्बन्धविभक्तिः, ३. शेषविभक्तिः, ४. उपपदविभक्तिः, ५. प्रधानविभक्तिः, ६. संबोधनविभक्तिश्च। तासु — ३. नेदं सूत्रमिति राघवः। कारकविभक्तिर्यथा कटं करोति, दात्रेण लुनाति, ब्राह्मणाय ददाति,
सम्बन्धविभक्तिर्यथा विद्यया यशः, यूयाय दारु गवां कृष्णा संपन्नक्षीरतमा इति
शेषविभक्तिर्यथा मातुः स्मरति, वृक्षस्य पर्ण पतति, माणवकस्य पितरं पन्थानं पृच्छति,
उपपदविभक्तिर्यथा वृक्षं प्रति विद्योतते विद्युत्, नमो देवेभ्यः, ऋते देवदत्तात्।
प्रधानविभक्तिर्यथा देवदत्तः पचति, चैत्रेण पच्यते, वीरः पुरुष इति।
संबोधनविभक्तिर्यथा हे देवदत्त, आगच्छ देवदत्त इति।
(३) तद्धितप्रत्ययविशेषोऽव्ययविभक्तिः।
सा द्विधा— १. विभक्तिकार्यवती, २. अविभक्तिकार्यवती च। (तत्र) —
१. विभक्तिकार्यवती— ‘प्राग्दिशो विभक्तिः’ (५.३.१), इति। सा त्रिधा—
१. विभक्त्यादेशरूपा, २. प्रत्ययादेशरूपा ३. प्रत्ययरूपा च। तासु— (विभक्त्यादेशरूपा) यथा— पञ्चम्यास्तसिल् (५.३.७), सप्तम्यास्तल् (५.३.१०), इदमो सः (५.३.११), किमोत् (५.३.१२), भवान्, दीर्घायुः, आयुष्मान्, देवानां प्रियः, (५.३.१४ मभा.), तेऽन्यासां चेति। यथा— सर्वस्मात् सर्वतः, यस्मिन् यत्र, तं भवन्तं ततो भवन्तं, एतेन दीर्घायुषा अत्र दीर्घायुषा, इहायुष्मते, कस्य देवानां प्रियस्य क्व देवानां प्रियस्य इति।
(प्रत्ययादेशरूपा)—‘तसेश्च’ (५.३.८) तसि। स च प्रतियोगे पञ्चम्यास्तसिः (५.४.४४), ‘अपादाने चाहियरुहोः’ (५.४.४५), ‘अतिग्रहा व्यथनक्षेपेष्वकर्त्तरि तृतीयायाः’ (५.४.४६), षष्ठ्या व्याश्रये (५.४.४८), ‘आद्यादिभ्यश्च सर्वविभक्तिः’, इति। यथा— ‘अभिमन्युरर्जुनतः प्रति’, शैलतोऽवतरति, शीलतोऽविगृह्यते, देवा अर्जुनतोऽभवम्, आदौ आदितः, प्रमाणेन प्रमाणतः इति।
(प्रत्ययरूपा)— सर्वैकान्यकिंयत्तदः काले दा’ (५.३.१५), इदमोर्हिल् (५.३.१६), प्रकारवचने थाल् (५.३.२३), था हे तौ च च्छन्दसि (५.३.२६), ‘इदमस्थमुः’ (५.३.२४), ‘किमश्च’ (५.३.२५) इति। यथा— सर्वदा, एतर्हि, सर्वथा प्रकथा, इत्थं, कथम् इति।
२. अविभक्तिकार्यपि त्रिथा —
१. शब्देक्ता २. अर्थोक्ता ३. प्रयोगोक्ता च। तासु —
शब्दोक्ता यथा— सप्तमीपञ्चमीप्रथमाभ्योऽस्तातिः (५.३.२७), देवमनुष्यपुरुष— पुरु—मर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् (५.४. ५६), इति। यथा— पुरस्ताद् वसति (५.३.२७, ५.४.५६ काशिका), पुरस्तादागतः, पुरस्ताद् रमणीयम्, देवत्रा गच्छति, मनुष्यत्रा वसति, पुरुषत्राऽभिनिविशते इति।
अर्थोक्ता ‘बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्’ (५.४.४२), संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (५.४.१७) इति। यथा— बहु देहि बहुशो देहि, द्वौ द्वौ देहि द्विशो देहि, द्वाभ्यां द्वाभ्यां देहि द्विशो देहि, माषं माषं देहि माषशो देहि, पञ्च वारान् देहि पञ्चकृत्वो देहि इति।
प्रयोगोक्ता—‘तेन तुल्यं क्रिया चेद् वतिः’ (५.१.११५), ‘तत्र तस्येव’ (५.१.११६) इति। यथा— अग्निना तुल्यमयं वर्त्तते अग्निवत्, दैवमिव भवन्तं पश्यामि देववत्, ब्राह्मणेन तुल्यमस्मै दीयते ब्राह्मणवत्, व्याघ्रेण तुल्यमस्माद् बिभेति व्याघ्रवत्, मथुरायामिव पाटलिपुत्रे प्रासादाः मधुरावत्, श्रोत्रियस्येवास्य शुक्ला दन्ताः श्रोत्रियवत्। तद्धितविभक्तिरिति वक्तव्ये अव्ययग्रहणम्। अधिस्त्रि, प्रत्युरसम्, पारेगङ्गम्, पुरा, स्वयं, साक्षात्, इत्येवमादीनामुप— संग्रहणार्थमिति ॥
(७. उपसर्जनम्)
प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३), ‘एकविभक्ति चापूर्वनिपाते’ (१.२.४४)।
तत् त्रिधा — १. विशेष्यरूपम्, २. विशेषणरूपम्, ३. तुल्यरूपं च।
(१. विशेष्यरूपम्)
तत्र विशेष्यरूपं यथा— पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः, पूजितोऽश्वः अश्वकुञ्जरः, गर्भिणी गौर्गोगर्भिणी, स्तोकोऽग्निरग्निस्तोकः, कायस्य पूर्वं पूर्वकायः, अर्धं पिप्पल्या अर्धपिप्पली इति।
(२. विशेषणरूपम्)
विशेषणरूपं यथा— राज्ञः पुरुषो राजपुरुषः, दन्तानां राजा राजदन्तः, कष्टं श्रितः कष्टश्रितः, जीविकामापन्न आपन्नजीविकः, नीलमुत्पलं नीलोत्पलम्, उत्तमः पुरुषः पुरुषोत्तम इति।
(३. तुल्यरूपम्) तुल्यरूपं यथा— शस्त्रीव श्यामा शस्त्रीश्यामा, खञ्जश्चासौ कुब्जश्चेति खञ्जकुब्जः, निर्गतः कौशाम्ब्या निष्कौशाम्बिः, चित्रा गावोऽस्य चित्रगुः, अर्धं तृतीयमेषाम् अर्धतृतीयाः (मभा.२.२.२४(वा.२२)), के सब्रह्मचारिणोऽस्य ‘किंसब्रह्मचारी’ (मभा.२.२.२४ (वा. २२)) इति।
ननु च अर्धं तृतीयमेषामिति अन्यपदार्थो नोपपद्यते, स हि तत्र स्यात्, यत्र येषां पदानां समासः ततोऽन्यस्य पदस्यार्थो भवति।
नैष दोषः। अवयवेन विग्रहः समुदायः समासार्थः।
नन्वेवं सति, ‘असि—द्वितीयोऽनुससार पाण्डवम्’ (मभा.), ‘संकर्षणद्वितीयस्य बलं कृष्णस्य वर्धतामि’—त्यादिषु द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति।
नैवम्। असिर्द्वितीयो यस्येत्यन्यपदार्थेनैक एवोच्यते। यथा—‘जनार्दनस्त्वात्मचतुर्थ एव’ {६.३.५ (२) मभा.} इति। यदि वा द्वितीयशब्दोऽयमस्ति तृतीयान्तः संख्यापूरणः। अस्ति चाव्युत्पन्नः सहायवाची, तस्येह ग्रहणम् असिद्वितीयोऽसिसहाय इत्यर्थः।
आत्मचतुर्थ इति कोऽयं समासः ?
नन्वन्यपदार्थ ‘आत्मा चतुर्थः अस्ये’—ति। आत्मना चतुर्थ इति तत्पुरुषः कस्मान्न भवति ? ‘आत्मनः पूरणे’ (६.३.६) इति तृतीयाया अलुक्प्रसङ्गात्।
यद्येवम् अलुक् न वक्तव्यः—‘आत्मना चतुर्थ इति वाक्यं भविष्यति, आत्मचतुर्थ इति च वृत्तिः।
न चात्मचतुर्थ इत्युक्ते बहुव्रीहौ तत्पुरुषे वाऽर्थभेदो विद्यते, उभयथाऽपि चतुःसंख्योपलक्षित— समुदायः प्रतीयते।
नैवम्। एवं सति, ‘राज्ञः सखा’ राजसख इत्यप्युक्ते संबन्धादेतद् गन्तव्यम्—नूनं राजा अस्य सखा; राजसखेति चोक्ते गन्तव्यमेतत् ‘राज्ञः सखाऽयम्’ इति। ततश्च बहुव्रीहितत्पुरुषयोरन्यतरो न प्राप्नोति।
मैवम्। अस्त्यत्र विशेषः— तत्पुरुषे समासान्तो भवति ‘यथा स्वस्ति १सोमसखाय ते’ {तैसं. १.२.४.२, मभा. २.१.२४(५)}, बहुव्रीहौ न भवति। यथा— ‘वृत्रं जहि मरुत्सखे!‘२ इति।
इहापि तर्ह्यस्ति विशेषः— तत्पुरुषे ३आत्मनाचतुर्थसाध्यमेतत्, बहुव्रीहौ ‘आत्मचतुर्थ— साध्यमेतदि’ति। अपि च १. स्वयं भोज एव वेदमन्त्रानन्यथयते। तथाहि अत्र संहिता—‘स्वस्ति सोमसखा पुनरेहीति पाठः, स एव च महाभाष्ये—रा। २. कुत्रत्यमिदं वचनमिति प्रश्ने राघवोऽब्रूत आकरो नैव ज्ञायत इति। वयं तु मन्यामहे तदिदं भोजवचनमेवेति। ३. अलुगापत्तिरियम्। अन्यथाजातीयः प्रत्यक्षेणार्थसंप्रत्ययः,अन्यथाजातीयः खल्वनुमानेन भवति। तत्रायं राज्ञः सखा, आत्मना चतुर्थ इति प्रत्यक्षेण, सम्बन्धस्य उभयनिष्ठत्वान्नूनं राजाऽप्यस्य सखा, आत्माऽप्यस्य चतुर्थ इत्यनुमानेन। एवं बहुव्रीहावपि द्रष्टव्यम्।
अथ यथात्मचतुर्थ इति समुदायस्यैकार्थत्वादेकवचनम् एवम् अर्धतृतीया इत्यत्रापि कस्मान्न भवति ?
अन्येऽप्येकार्थाः समुदाया भवन्ति। तद्यथा— शतम्, यूथम्, वनमिति।
विषम उपन्यासः। आत्मचतुर्थ इत्यत्र हि बहुव्रीहिणोपसर्जनीकृतप्रतीयमाना— परसंख्येयसमानाधिकरणात्मचतुर्थशब्दशक्त्यभिधेयो जनार्दन एकोऽस्येत्यन्यपदार्थः प्रतिपाद्यते; इह तु अर्धतृतीयशब्दशक्त्यभिधेयास्त्रयः संख्येयाः।
तत्र यद्येकवचनं वाक्ये वृत्तौ वा भवति केषां तदर्धं तृतीयं भवति ?
नन्वेवमपि अर्धतृतीया द्रोणा इति द्रोणशब्दः समुदाये वृत्तो नार्धे वर्त्तते।
नैष दोषः। समुदायेषु वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते। तद्यथा पूर्वे पञ्चालाः, उत्तराः कुरवः {मभा. २.२.२४(२५)},
अथ द्वौ द्रोणावर्धाढकं च कर्त्तव्यमर्धतृतीयद्रोणा इति।
न कर्त्तव्यम्।
समुदाये शब्दाः प्रवृत्ताः तेष्ववयवेषु वर्त्तन्ते, योऽवयवस्तं समुदायं न व्यभिचरति (मभा. २.२.२४), यथा द्रोणार्धं द्रोणम्। आढकार्धमाढकमिति।
यद्यर्धं तृतीयमनयोरिति विग्रहः क्रियते तो दोषः स्यात् ? षष्ठ्यर्थो नोपपद्यते।
किं हि द्वयोस्तृतीयमर्धं भवति ? भवानपि पृष्टो व्याचष्टाम्।
अथेह देवदत्तस्य भ्रातेति कः सम्बन्धार्थः ?
एकस्मात् प्रादुर्भाव इति चेत्, वार्त्तं तत, तद्यथा आर्थिकानामेकप्रतिश्रयद्विजानां प्रातरुत्थाय विप्रतिष्ठमानानां न कश्चित् परस्परमभिसम्बन्धो भवति एवंजातीयं भ्रातृत्वं नाम, तत्र चेद् युक्तः षष्ठ्यर्थो दृश्यते इहापि युक्तो दृश्यताम्। द्वयोर्ह्यनुजन्मा तृतीयो भवति। दृश्यते चान्यत्रापि द्वयोस्तृतीयेन संबन्धः। तद्यथा— (रघुवंशे ६.२९)
निसर्गभिन्नास्पदमेकसंस्थमस्मिन् द्वयं श्रीश्च सरस्वती च।
कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि ! तयोस्तृतीया ॥ ५४ ॥
इति। नन्वेवम् अर्धतृतीया आनीयन्तामित्यर्धानयनं न प्राप्नोति, बहुवचनं च नोपपद्यते।
नैष दोषः। भवति हि बहुव्रीहौ तद्गुणसंविज्ञानमपि/?/। तद्यथा— ‘शुक्लवाससमानय,’ लोहितोष्णीषा ऋत्विजः प्रचरन्तीति तद्गुण आनीयते, तद्गुणाश्च प्रचरन्ति। बहुवचनं तु द्वित्रादिवदुपपद्यते इति। तत्र यथा आनीयन्तामिति त्रयाणामिव द्वयोरप्यानयनपक्षे बहुवचनमुपपन्नं भवति, तथेहापि भविष्यति।
विषम उपन्यासः। तत्र हि द्वौ वेत्युक्तो त्रयो वेति गम्यते, त्रयो वेत्युक्ते द्वौ वेति गम्यते; सैषा समानाधिकरणपदार्थपञ्चकाधिष्ठाना वाक्। तत्र युक्तं बहुवचनम्, इह त्वर्धं तृतीयमनयोरित्युक्तं, यद्यपि गम्यते त्रयाणां पूरणस्तृतीयो भवतीति तथापि समासेऽन्यपदार्थपरतया द्वयोरेवाभिधानाद् बहुवचनस्य नोत्पत्तिः। तद्गुणसंविज्ञानमपि समासाभिधानपक्ष एवोपपद्यते, समासश्च सामर्थ्ये सति भवति, सामर्थ्यं च वृत्तिवाक्ययोरैकार्थ्यम्, तच्च तदोपजायते, यदि वृत्ताविव वाक्येऽपि समासार्थस्य बहुवचनं भवति ॥
अथ ‘किंसब्रह्मचारी’—ति कोऽयं समासः? के सब्रह्मचारिणोऽस्येति।
कः सब्रह्मचारीति कर्मधारयः कस्मान्न भवति?
भवति, यदि क्षेपो गम्यते, यथा किंराजा यो न रक्षति, किंगौः यो न वहति।
केषां सब्रह्मचारीति तत्पुरुषस्तर्हि भवतु कठ इति प्रतिवचनं नोपपद्यते। न ह्यन्यत् पृष्टेनान्यदाख्येयम्, अतः कठानामिति प्रतिवक्तव्यं भवति।
बहुव्रीहावप्येतत् तुल्यमेव, तत्राऽपि के सब्रह्मचारिणोऽस्येति बहुवचनप्रश्ने कठ इति नैकवचनेनोत्तरं भवति।
बहुव्रीहावप्येतत् तुल्यमेव, तत्राऽपि के सब्रह्मचारिणोऽस्येति बहुवचनप्रश्ने कठ इति नैकवचनेनोत्तरं भवति।
नैष दोषः। ‘अग्नौ करवाणी’— (मभा. २.२.२४)—ति न्यायेन भविष्यति। तद्यथा कश्चिदाह— ‘अग्नो करवाणीति, तत्र कुर्विति तत्कर्त्तर्यनुज्ञाते कर्माप्यनुज्ञातं भवति, अपर आह ‘अग्नौ करिष्ये, तत्र क्रियतामिति कर्मण्यनुज्ञाते कर्त्ताप्यनुज्ञातो भवति। एवं यथैव के सब्रह्मचारिणोऽस्येत्युक्ते कठा इति प्रत्युक्ते सम्बन्धादेतद् गम्यते अयमपि कठः, तथा कठ इत्यप्युक्ते संबन्धादेतदवगन्तव्यं तेऽपि कठाः। समासेन तु प्रतिनिर्देष्टुमशक्यम्, उपसर्जनं हि तत्र ते भवन्तीति ॥
(८. समासः)
ऐकपद्यं समासः।
स त्रिधा— १. उपश्लिष्टक्रियः, २. गमितक्रियः, ३. अक्रियश्च। तेषु—
(१) उपश्लिष्टक्रियो द्विधा १. उभयस्थक्रियः २. अन्यतरस्थक्रियश्च। तयोः
उभयस्थक्रियो यथा— कृताकृतम्, क्लिष्टाक्लिशितः, स्नातानुलिप्तः, भ्रष्टलुञ्चितः (काशिका २.२.३१) कृष्टाऽतिकृष्टम्, क्रयाक्रयिका इति।
अन्यतरस्थक्रियो यथा— भोज्योष्णम्, प्राप्तजीविकः, आहिताग्निः, कष्टश्रितः, काकपेया, इध्मप्रव्रश्चन इति।
(२) गमितक्रियो द्विधा १. उभयकारकः, अन्यतरकारकश्च। तयोः—
उभयकारको यथा— दध्नोपश्लिष्ट ओदनो दध्योदनः, गुडेन मिश्रा धाना गुडधानाः, शङ्कुलया कृतः खण्डः शङ्कुलाखण्डः, अक्षेषु प्रसक्तः शौण्डः अक्षशौण्डः, कण्ठे स्थितः कालो यस्य कण्ठेकालः, पञ्चसु कपालेषु संस्कृतः पञ्चकपाल इति।
अन्यतरकारको यथा— ‘प्रगत आचार्यः प्राचार्यः’, ‘अतिक्रान्तो मालामतिमालः, अवक्रुष्टः कोकिलया अवकोकिलः, परिग्लानोऽध्ययनात् पर्यध्ययनः, निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः, प्रपतितानि पलाशान्यस्य प्रपलाश इति।
(३) अक्रियो द्विधा १. वस्तुरूपः २. अवस्तुरूपश्च। तयोः
वस्तुरूपो यथा— उपकुम्भम्, त्रिभुवनम्, नीलोत्पलम्, राजपुरुषः, चित्रगुः, धवखदिरौ इति।
अवस्तुरूपो यथा— अधिस्त्रि, प्रत्युरसम्, यथाशक्ति, यावदमत्रम्, पारेगङ्गम्, मध्येसमुद्रम् इति।
अयं तूपश्लिष्टक्रियो गमितक्रियश्च भवति। यथा—
आयतीगवमागच्छत्यातिष्ठद्गूपतिष्ठते।
निकुच्यकर्णि शार्दूलोऽपोह्यपुच्छि प्रधावति ॥ ५५ ॥
(५.४.१२८ काशिका), यथा च—
१शलाकापर्यभिद्यूनं चतुष्पर्यक्षपर्यपि।
विपर्यस्ते विधौ यश्च नलादेरपि जायते ॥ ५६ ॥
(२.१.१०) केशाकेशि, बाहूवाहवि, दण्डादण्डि, मुष्टीमुष्टि, इत्यपि गमितक्रियमसत्त्वरूपं केचित्। यथा— (माघ. १८.१२)
रोषावेशादाभिमुख्येन कौचिन्नामग्राहं रंहसैवोपजातौ।
भित्त्वा हेती मल्लवन्मुष्टिघातैर्घ्नन्तौ बाहूबाहवि व्यासजेताम् ॥ ५७ ॥
केचित् पुनरस्य वस्तुरूपत्वं ब्रुवते। यथा—
दण्डादण्डि न कुर्वन्ति न कचाकचि कोकिलाः।
तथापि जितमेवाभिर्वाग्भिरेव जगत्त्रयम् ॥ ५८ ॥
इति। कुतः पुनरेतद् यदेकदा दण्डादण्ड्यादयः सत्त्वरूपाः, अन्यदा त्वसत्त्वरूपा इति ?
‘तत्र तेनेदमिति सरूपे’ (२.२.२७) सूत्रस्य व्याख्यानभेदात्। तत्रास्य सूत्रस्यायमर्थः—द्वे समानाकृती शब्दरूपे अन्यपदार्थे समस्येते तत्रेति तेनेति च।
कः पुनरिहान्यपदार्थः ?
केचिदाहुः — इतिशब्दस्य प्रकारवाचकत्वादित्थमिति, केचित् पुनः इदमित्थमिति। तत्र पूर्वस्मिन् पक्षेऽसत्त्वरूपता, इतिशब्दस्यासत्त्ववाचित्वात्। उत्तरस्मिन् सत्त्वरूपता, इदमिति सर्वनाम्ना वस्तुरूपपरामर्शात्।
कः पुनरिहेतिशब्दार्थः ?
योऽसौ तत्रेत्यधिकरणे तेनेति करणे वा इदमर्थानुयायिनी इतिकर्त्तव्यतारूपा क्रिया, ‘तत्र गृहीत्वा’, ‘तेन प्रहृत्य’ इत्यादिकः सर्वनामार्थो यत्तदिति, तदिति व्यपदेशार्थग्रहण— प्रहरणादिकायाः क्रियायाः साध्यं युद्धादि।
तदाह चन्द्रगोमी ‘तत्र गृहीत्वा तेन प्रहृत्य युद्धे सरूपम्, सुप्सुपैकार्थं भवति’ (चान्द्रव्या. २.२.४७, २.२.१) इति। १. अत्र ‘शलकापरि, चतुष्परि, अक्षपरीति द्यूतपरिभाषाः। ततश्चोत्तरार्धे नलादेरित्येव युज्यते पठितुम् न तु ‘तलादे’ रिति। तत एव उत्तरार्धमस्पष्टमिति राघवाचार्यः। न च ‘पाण्डुलेखो न परिवर्त्तनीय’ इति मर्यादाया नलपाठे नास्ति रक्षेति राघवार्यैरपि न रक्षिता सा ‘सर्वत्र’ पाठान्तरं पश्यद्भिरेभिरारम्भत एव स्वैरं पठितान्यथामूलपाठत्वस्य दृष्टचरत्वात्। नस्य तत्वेनावबोधो लिपिभ्रम एव। किमेतद् वक्तव्यम्?
(न वक्तव्यम्)१।
कथमनुच्यमानं गम्यते?
‘सरूप’ इत्येकशेषापवादने द्वयोरधिकरणयोः करणयोश्च तुल्यकालनिर्देशात्। तर्हि द्वयोस्तुल्यबलयोः प्रतियोगिनोर्व्यापारमन्तरेण द्वयोरधिकरणयोः करणयोर्वा तुल्यकालनिर्देशो भवति, तथापि युद्धादिनियमो (न) लभ्यते।
कः पुनराह नियम इति?
युद्धग्रहणादेरन्यत्रापि प्रयोगात्। हस्ते हस्ते च गृहीत्वा मित्राय पुत्रं समर्पयति हस्ताहस्ति, गालिभिश्च गालिभिश्च निर्भर्त्स्य प्रवृत्तः परिहासो गालागालि इति ॥
ननु चान्यपदार्थे बहुव्रीहिरित्युच्यमाने—
विस्पष्टपटुर्वटुः, (६.२.२४), पुनरुत्स्यूतं वासः, परश्शताः शरद’ (सक. ३.२.५५) इति सामान्यसमासानां;
स्वयंधौतौ पादौ (२.१.२५), सामिभुक्तमन्नम् (सक. ३.२.५५), श्रेणीकृताः पत्तयः (सक. ३.२.५५) इति विशेषसमासानाम्;
विनिकृत्तप्ररूढो वृक्षः (२.१.४९), कृष्णपिङ्गलो ग्रावा, ईषत्कडारोऽश्मेति विशेषणसमासानाम्;
अवकोकिलं वनम् {२.२.१८(३)}, पर्यध्ययनश्छात्र {२.२.१८(४)}, निष्कौशाम्बिः सार्थः {२.२.१८(५)} इति प्रादिसमासानाम्;
शस्त्रीश्यामा देवदत्ता, अवतप्तेनकुलस्थितं तवैतत्, कूपमण्डूको माणवक इति उपमानसमासानाम्;
राजवल्लभा वलभी, वरप्रदेया कन्या (स.क. ३.२.४७), मासे जातोऽस्येति (२.२.५) षष्ठीसमासानाम्;
कष्टश्रितो रिपुः (२.१.२४), वृकभीतो न्यङ्कुः (२.१.३७), शङ्कुलाखण्डः (२.१.३०), पोगण्ड इति कारकसमासानाम् (श्रृ.प्र. ८);
अश्राद्धभोजी ब्राह्मणः, पुमान् (अभार्यः), अनेकः पदार्थः (श्रृप्र. ८, सक. ३.२.१२८), इति न्ञ्समासानां च बहुव्रीहिसंज्ञा प्राप्नोति।
नैवम्, नैषामन्यपदार्थत्वं समासेन क्रियते, अपितु गुणवचनेन। यदसौ द्रव्यं श्रितो १. इदमत्र राघवाचार्येणायोजि ‘सर्वत्र लुप्तमि’—ति टिप्पणं ददता। भवति गुणस्तस्य यल्लिङ्गं वचनमर्थो वा स तस्यापि भवति। तद्यथा शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ पटौ, शुक्लाः पटा इति {मभा. १.२.६४(५४)}।
कथं पुनः विस्पष्टपटुप्रभृतीनां सामान्यसमासता ?
विस्पष्टादीनि गुणवचनेषु (६.२.२४) इति ज्ञापकैः समासावगमे विशेषणसमास— संज्ञाभावे ‘सह सुपा’ (२.१.४) इति समासाभ्युपगमे न ‘प्राक्कडारात् समासः’ (२.१.३) इति समासस्य समाससंज्ञाश्रवणात्।
कथं स्वयंधौतादीनां विशेषणसमासता?
‘स्वयं क्तेन’ (२.१.२५), ‘सामि’ (२.१.२७), इति ‘स्वयंसामी’—ति शब्दयोर्वृत्तिवाक्याविशेषेऽपि स्वरैकपद्यार्थमेव (२.१.२७ काशिका) समासारम्भात्। श्रेण्यादयः कृतादिभिः (२.१.५९), चव्यर्थे(२.१.५९ वा) इति वृत्तावर्थविशेषात्।
कथं छिन्नप्ररूढादीनां विशेषणसमासता?
छिन्नश्चासौ प्ररूढश्चेत्यादिप्रकारेण विशेषणविशेष्यभावात्।
ननु च यदा छिन्नो न तदा प्रारूढः, यदा प्ररूढो न तदा छिन्नः। तत् कथमर्थयोः परस्परमसंमूर्च्छनायां समानाधिकरणलक्षणो विशेषणविशेष्यभावो भवति?
य एव छिन्नः स एवायं प्ररूढ इत्यनुसन्धानात्।
अथेह कथं कृष्णपिङ्गल इति?
यो ह्यस्य कृष्णो भागः न स पिङ्गलः, यस्तु पिङ्गलः स न कृष्ण इति।
समुदायेषु वृत्ताः शब्दा अवयवेषु वर्त्तन्ते, यथा पूर्वे पाञ्चालाः, ‘उत्तरा कुरव’ इति। यदि वा कृष्णावयवयोगात् स एव कृष्णः, पिङ्गलावयवयोगात् स पिङ्गल इत्युपपद्यते सामानाधिकरण्यम्।
अथ ईषदित्यनेन किं विशेष्यम्?
कडारगुणयुक्तः पदार्थः।
कथं पुनरव्ययानामसत्त्ववचनत्वे सत्त्वभूतार्थविशेषणत्वं भवति?
क्रियाविशेषणत्वात्।
का पुनरत्र क्रिया?
कडारेण गुणेन योगः। यदि वाऽव्ययानां केषाञ्चित् सत्त्वगन्धित्वेन शक्तियोगादिः सत्त्वधर्मो दृश्यते। तद्यथा दोषामन्यम् अहः, दिवामन्या रात्रिः (मभा. १.१.४१)।
(ग्रन्थपातोऽत्र—रा.)
‘दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम्’ (कुसं. १.१२) इति ‘ग्रहवति? मित्रहारिणि? न त्वं योषाऽसि, दोषाऽसि’ इति। एवमयमपि सत्त्वगन्धित्वेन गुणं विशिंषन् द्रव्यं विशेषयिष्यति।
ननु कडारं द्रव्यमेव कस्मान्न विशेषयति? यथा ईषत्तन्त्रं कातन्त्रमिति।
तथा सति गुणस्येषद्भावो न लभ्यते, तदुक्तम् ‘ईषद्गुणवचनेन’ (२.२.७) इति।
अथ कथं प्रादीनां द्रव्यवचनैः समासः?
यत्र हि कश्चित् क्रियावाची शब्दः प्रयुज्यते तत्रैव प्रादिनां प्रयोगो भवति।
उच्यते, प्रयोगादेवैतद् गन्तव्यम् नूनमत्र प्रयोगार्हः शब्दो न प्रयुज्यते, येन प्रादेः सामर्थ्यमिति। तद्यथा धूमं दृष्ट्वाऽग्निरत्रेति गम्यते, १त्रिविष्टब्धकं दृष्ट्वा ‘परिव्राजक’ इति।
के पुनरत्र प्रयोगार्हाः शब्दाः?
ये कृदन्ताः कर्मकर्त्तृवाचिनः, तद्यथा अवक्रुष्टं कोकिलया अवकोकिलम्, परिग्लानोऽध्ययनात् पर्यध्ययनः, निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः’ इति।
अथ कथं शस्त्रीश्यामादय उपमानसमासा उपपद्यन्ते?
उपमानानि सामान्यवचनैः (२.१.५५) इत्यादिभिः।
यद्येवम्, ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च’ (२.१.४) इति न वक्तव्यम्, ‘वाससी इव, कन्ये इव’ इत्यादिप्रयोगाणाम्, उपमानानि सामान्यवचनैरित्यनेनैव सिद्धेः, विभक्त्यलोपमात्रं पुनरलुक्प्रकरणे वक्तव्यं भवति।
उच्यते नायामिवशब्दः सामान्यवाची, अपि तु सामान्यद्योतकः। तद्यथा—नेत्रे नीलोत्पले इत्युक्ते तदाकार—कान्त्यादयः प्रतीयन्ते। शस्त्रीशयामेत्यादिषु साक्षात् सामान्यवचनः श्यामाशब्दः प्रयुज्यते।
अथ अवतप्तेनकुलस्थितामित्यत्र कथम्?
न ह्ययमुपमायाम्, अपितु क्षेपे। उपमानेनाऽत्र क्षेपो गम्यते—अवतप्ते नकुलस्येव स्थितं तवैतच्चापलमिति यथाऽवतप्ते नकुलश्चिरस्थाता न भवति तद्वत् कार्थमारभ्य यंशिचरं तत्र नावतिष्ठते स एवमुच्यते ‘अवतप्ते—नकुल—स्थितं तवैतदिति।
एतेन कूपमण्डूक इत्यपि व्याख्यातम्। यथा कूपमण्डूकः कूपाद् बहिरनिःसरन् न देशान्तरव्यवहारवेदी, स एवमेवमुच्यते कूपमण्डूकोऽयमिति। १. त्रिविष्टब्धकं त्रिदण्डमिति राघवाचार्यः। अथ राजवल्लभेत्यादयः कथं षष्ठीसमासाः? यतो राजवल्लभेत्ययं बहुव्रीहिः कस्मान्न भवति राजा वल्लभोऽस्या इति?
अचेतनत्वेन वलभ्या वाल्लभ्यायोगात्। राज्ञस्तु वल्लभेति भवति। तत्र राजा निर्ज्ञातस्यार्थः, स्वभावतः सामान्यात् प्रच्युतः, सामान्ये व्यवस्थितस्योपकर्त्तुमशक्तेः, सम्बन्धिसामान्यापेक्षः संबन्धिविशेषापेक्षो वा, सम्बन्ध्यन्तरस्य व्यवच्छेदार्थं प्रवृत्तेः, उभयाधिष्ठानत्वे सत्यपि संबन्धस्य परार्थमुपादानादुद्भूतसंन्धप्रवृत्ति, उपजात— प्रतिपादिकार्थव्यतिरेकः, आत्मनि सम्बन्धोपभोगात् प्रधानेऽप्युपयुजयमानसम्बन्धषष्ठ्यन्त उपादीयते। प्रधानानि चानिर्ज्ञातार्थानि प्रथमयैव विभक्त्या युज्यन्ते। तद्यथा— क्व पुनरिदं पठितम्, भ्राजा नाम श्लोका (मभा. पृ. ३कील्हार्न)। ततश्च वल्लभा— शब्दोऽनिर्ज्ञातार्थत्वात्मव्यपदेशाय स्वार्थविशेषे नियम्यमान उपरतौत्सुक्य औदासीन्येन प्रवर्त्तते। तत्र भेदाधिष्ठानस्य सम्बन्धस्य वाचिका षष्ठी, पदान्तराभिधेये सम्बन्धिन्याकाङ्क्षावाता गुणपदेन विशेष्यमाणा गुणपदस्था श्रूयते, विशेषविषयत्वात् समासस्य। गुणाश्च स्वार्थेपसर्जनप्रधानार्थेपपादिनो भेदे निवर्त्तमाने भेदाधिष्ठानं सम्बन्धमभ्यन्तरीकृत्य प्रवर्त्तन्ते। तत्र राजवल्लभेति सम्बन्धे प्रातिपदिकार्थतामापाद्यमाने तद्विषया षष्ठी, स्वभावतो निवृत्ता कार्यार्थं सामान्येन प्रसक्ता ‘सुपो धातुप्रातिपदिकयोः’ (२.४.७१) इति शास्त्राद् विनिवर्त्तमाने वान्वाख्यायते।
अथ ‘वरप्रदेया कन्ये’—ति कोऽयं समासः?
षष्ठीतत्पुरूष एव यथा देवदेयं पुष्पम्, ब्राह्मणदेयं धनम् इति।
नन्वेवमेते चतुर्थीसमासाः कस्मान्न भवन्ति?
‘चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः’ (२.१.३६) इति तदर्थादिष्वेव तत्समाम्नानात्।
तदर्थ्य एव हि तर्हि समासा भवन्तु, तद्धि यस्मै प्रदीयते तदर्थमेव तद् भवति।
नैवम्, न तादर्थ्यमात्रे चतुर्थी समस्यते, यथाऽवहननायोलूखलम्, अपि तु प्रकृति— विकारतादर्थ्ये, यथा यूपरूपाया विकृतेः प्रकृतिभूतं दारू यूपदार्विति (२.१.३६ काशिका)।
ननू च नाऽत्र प्रकृतिविकारग्रहणमस्ति, दृश्यते चाप्रकृतिविकारभावेऽपि अश्वघासः, अश्वसुरम्, ‘अथातो धर्मजिज्ञासा’ (पूर्वमीमांसादर्शनं १.१.१), इति चतुर्थीसमासः। तत्कथमुच्यते प्रकृतिविकारतादर्थ्य एव चतुर्थ्याः सामार्थ्यमिति?
अचार्यप्रवृत्तिर्ज्ञापयति यदयं बलिरक्षितग्रहणं करोति। यथाजातीयकानां च समासे बलिरक्षितग्रहणमपुनरूक्तं भवति, तथाजतीयकानां समासः। विकृतीनामेव चतुर्थ्यन्तानां प्रकृतिभिः सह समासे बलिरक्षितग्रहणमपुनरूक्तं भवति, न तादर्थ्यमात्रे। अश्वघासादयस्तु षष्ठीसमासा भविष्यन्ति। यद्धि यदर्थं भवति अयमपि तत्राभिसम्बन्धः, तस्येदमिति तद्यथा गुरोरिदं यद्गुर्वर्थमिति। तादर्थ्यं हि सम्बन्धविशेषः। विशेषे चावश्यमेव सामान्यं संभवति। न चैतत् कर्मादिष्वपि न दृश्यते, न माषाणामश्नीयात्, क्षुतं ते सर्वमेवैतदिति।
ननु च वरप्रदेया कन्येति यदि ददातिप्रयोगेऽपि न संप्रदानम्, सम्प्रदानेऽपि न चतुर्थे, कोऽन्यस्तयोर्विशेषो भविष्यति?
कः पुनराह नात्र संप्रदानम्? संप्रदान एवैषा चतुर्थ्यर्थे षष्ठी। दृश्यते हि संप्रदानादौ षष्ठीचतुर्थ्येरविशेषेण प्रयोगः, तद्यथा ‘हिमवतो हस्ती’ ‘पुरूषमृगश्चन्द्रमसे’, ‘न वा अरे जायायै कामाय जाया प्रिया भवति आत्मनस्तु कामाय जाया प्रिया भवति, चिराय दृष्टः चिररात्राय दृष्टः’, ‘रोचते मम घृतं सह मुद्गैः शालयो दधिशरं क्रमुकाश्च’, घृतमेव ममापि रोचते श्रृतशीतं च सशर्करं पयः इति।
अथ मासजातोऽयमिति किंप्रधानोऽयं समासः?
उत्तरपदार्थप्रधानः। सधर्मणाऽनेनान्यैरूत्तरपदार्थप्रधानैर्भवितव्यम्। अन्येषु चोत्तर— पदार्थप्रधानेषु यैवासावन्तर्वर्त्तिनी विभक्तिस्तस्याः समासेऽपि श्रवणं भवति। तद्यथा— राज्ञः पुरूषो राजपुरुषः इति। इह पुनर्वाक्ये षष्ठी, समासे प्रथमा। केनैतगदेवं भवति? योऽसौ मासजातयोः अभिसंबन्धः स समासे निवर्त्तते, अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति, तत्र ‘प्रातिपदिकार्थे प्रथमा’ (२.३.४६) इति प्रथमा भवति।
न तर्हीदानीमिदं भवति मासजातस्येति।
बाह्यं सम्बन्धिनमपेक्ष्य भविष्यति।
ननु च ‘कालाः परिमाणिना’ (२.२.५) इत्यनेनायं समासः। न च जातस्य मासः परिमाणम्, अपितु त्रिंशदरा्त्रस्य, यथा द्रोणो बदराणां दवदत्तस्येति न देवदत्तस्य द्रोणः परिमाणम्, अपितु बदराणाम्। तदाह ‘कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देश’ (मभा. २.२.५ वा—१) इति।
(कालपदार्थः)
किं पुनर्भवान् कालं मन्यते ?
येन मूर्त्तीनामुपचया अपचयाश्च लक्ष्यन्ते।
तस्यैव तर्हि कयाचित् क्रियया युक्तस्याहरिति (नाम) भवति, रात्रिरिति च।
कया क्रियया ?
आदित्यगत्या। तयैवासकृदावृत्तया मास इति च भवति, संवत्सर इति च भवति। यद्येवं भवति जातस्य मासः परिमाणम्, किं नु मासौ जातस्येतिवत् मासो जातस्य, मासा जातस्येति प्राप्नोति।
नैवम्। मासजात इत्युक्ते द्वित्वादिसंख्याविशेषस्यानुपलम्भात्। यत्र तूपलब्धे— र्निमित्तमस्ति तत्र भवत्येव, यथा—द्वौ मासौ जातस्य द्विमासजातः, एवं त्रिमासजात इति।
कथं पुनः कारकाणां समास इत्युपपन्नं भवति ? तेषां हि क्रिययैवाभिसंबन्धः। न च क्रियावाचिनः सुबन्तत्वमस्ति; सुबन्तयोरेवान्तर्भूतक्रियाविशेषयोर्भविष्यतीति चेत्, नैवम्, द्रव्याणां क्रियोपजनितः सम्बन्धः शेषविषयो भवति, न कारकविषयः। स्वभावसिद्धं हि द्रव्यं सिद्धवदभिधीयमानं द्रव्यान्तरं प्रति आत्मप्रतिलम्भे निराकाङ्क्षं, न कर्मादिभावं भजते। न च समासप्रकरणे कारकाणि समस्यन्त इति वचनमस्ति।
उच्यते— मा भूद् वचनम्, अर्थंतस्तु गम्यते, यदाह ‘द्वितीया श्रिता’—दिभिः समस्यते कष्टं श्रितः कष्टश्रित इति। तत्र श्रित इत्युपात्तक्रियाविशेषपरिच्छिन्नः कर्त्ता, अभ्यन्तरीकृत—साध्यसाधन—संबन्ध—क्रियान्तरसम्बन्धार्हः स्वाश्रयविषयासु बाह्यासु क्रियासु शक्त्यन्तरैरपि विरूद्धैकार्थसमवायः कष्टादीन्युपसर्जनीभूतया श्रयतिक्रिययाऽपेक्षते। ततश्च श्रयतिक्रियया संबन्धात् कष्टे कर्मत्वमिति श्रयणक्रियापूर्वकः कष्टश्रितयोरभिसंबन्धो भवति। तस्मिन् स्ववृत्त्यवयवार्थशक्त्य— नुगृहीतेऽर्थान्तरे प्रादुर्भूते तदभिधायी शब्दः समाससंज्ञां लभते। एवं ‘वृकाद् भीतो वृकभीत’ इत्यत्रापि ‘पञ्चमी भयेन’ (२.१.३७) इति वृकस्य भये ‘भीत्रार्थानां भयहेतुः’ (१.४.२५) इत्यपादानत्वात् सति सामर्थ्ये, अभ्यन्तरीकृतक्रियाकारकसंबन्धः समुदायः समाससंज्ञां लभते।
ननु च, न वृकस्य भीतं प्रति अपादानत्वम्, अपितु भयं भीतिः इत्येतानि।
उच्यते— यथा मासो जातस्येति मासाख्यः क्रियाकलापः प्रथमकुक्षिगर्भ— वियोगाख्यस्य जन्मनोऽवधिभावेन परिच्छेदको भवति, जन्म प्रतिलब्धां वा सत्तां समावृत्त्या परिमितेन जातमपेक्षते तथेहापि वृकादित्ययमपादानशब्दो भयमात्रस्यैवा— वच्छेदको भविष्यति, न भीतस्य।
यदि वा यथा कष्टश्रित इत्यत्रोपात्त—श्रयति—क्रियासंबन्धात् कष्टे कर्मत्वमिति श्रयणक्रियापूर्वकं कष्टेन संबध्यते, तथेहाप्युपात्तभयक्रियावच्छिन्नः कर्त्ता भयक्रिया— संबन्धाद् वृकस्यापादानत्वमिति भयक्रियापूर्वकं वृकेन संभन्त्स्यत इति।
भवतु यत्रोपसर्जनीभूताया अपि क्रियायाः श्रवणं, यत्र तु क्रिया न श्रूयते तत्र कथं शङ्कुलाखण्ड इति?
प्रतीयमाना भविष्यति। तथाहि श्ङ्कुलाखण्ड इत्युक्ते कृत इति प्रतीयते। तदेतद् द्योतयतन्नाह ‘तृतीया तत्कृतेन१ गुणवचनेन’ (२.१.३०) इति।
न्यासासिद्धत्वाद् वचनानर्थक्यमिति चेत्, न, वचनस्य नियमार्थत्वात्—‘यत्रैव कृत इत्यादि गम्यते तत्रैव समासः, अन्यत्र मा भूदि’ति।
एवं च गम्यमान—करोतिक्रियोपगृहीतकरणकर्तृकं तृतीयान्तेन शङ्कुलादिना खण्डादीनां गुणमुक्तवतां मतुब्लोपादिना द्रव्यवचनानां तृतीयान्तार्थकृतत्वे सति सामर्थ्यमवसीयते, न तूक्तवैपरीत्ये, यथा आक्ष्णा काणः, पादेन खञ्जः इति। तदेवमाक्षिप्त करोतिक्रियाऽवच्छिन्नः क्रियान्तरसम्बन्धार्हः खण्डशब्दार्थो गम्यमानोपसर्जनीभूतया करोतिक्रियया शङ्कुलादीनपेक्षमाणः करणभूतैः कर्त्तृभूतैर्वा शङ्कुलादिभिः सम्बध्यते। तद्वचनश्च समुदायोऽभ्यन्तरीभूतक्रियाकारकसंबन्धः समाससंज्ञो भवति।
अथेह कस्मान्न भवति ‘दध्ना पटुः’ ‘घृतेन पटुः’ इति?
असामर्थ्यात्।
कथमसामर्थ्यम्?
सापेक्षमसमर्थं भवति। न हि दध्नः पटुना सामर्थ्यम्।
किंतर्हि! भुजिना, दध्ना भुङ्क्ते पटुरिति।
इहापि तर्हि न प्राप्नोति शङ्कुलया खण्ड इति, अत्रापि न शङ्कुलायाः खण्डेन सामर्थ्यम् किं तर्हि? करोतिना, शङ्कुलया कृतः खण्ड इति।
तत्कृतेनेति वचनाद् भविष्यति।
वचनादिति चेद्, अथेह गुणवचनेत्युच्यमाने कथं मतुब्लोपाद् द्रव्यवचनेन खण्डादिना प्रतीयते?
१. मभा. २.१.३० तत्कृतार्थेनेति सूत्रपाठः।
इह तृतीया तत्कृतेन गुणेनेति सिद्धे यद्वचनग्रहणं करोति तस्यैतत् प्रयोजनम्। एवं यथा विज्ञायेत गुणमुक्तवान् गुणवचनः, खण्डगुणवान् खण्डः, पाण्डुगुणवान् पाण्डुः (मभा, २.१.३०) इति।
यद्येवम्— नार्थस्तत्कृतग्रहणेन भवति, भवति हि शङ्कुलायाः खण्डेन सामर्थ्यम्। असामर्थ्यादिह न भविष्यति दध्ना पटुरि— (मभा. २.१.३०)—ति।
इदं तर्हि तत्कृतस्य प्रयोजनम्— द्रव्यवचनैः कारकसमासे तदनुरूपा क्रियाऽध्याहर्त्तव्येति। तद्यथा अक्षेषु प्रसक्तः शौण्डः अक्षशौण्ड इति।
अथ द्रव्यवचनैस्यत्कृतसमासे गुणवचनेनेत्यपि किमर्थम् ?
इह मा भूद्—धान्येन धनवान्, गोभिर्वपावानिति ॥
अथ अश्राद्धभोजीति कोऽयं समासः ?
असमर्थनञ्तत्पुरूषः। (मभा. २.१.१)।
किं पुनरिहाऽसामर्थ्यम् ?
पूर्वोत्तरपदयोर्मिथोऽनपेक्षा। तथाहि अश्राद्धभोजीति भुजिक्रियया नञः सम्बन्धः, न श्राद्धेन। न हि तस्यायं नियमो न श्राद्धं भोक्तव्यमिति, अपितु श्राद्धं न भोक्तव्यमिति। यत्र हि वर्त्तिपदार्थसमवायिनी क्रियाऽभिधीयमाना प्रतीयमाना वा स्वभावतो निवृत्ता नञा द्योत्यते ‘अपाचकः, अब्राह्मण’ इति, तत्रैव सामर्थ्यम्। यत्र तु बाह्यक्रियया नञः संबन्धस्तत्राऽसामर्थ्यमेव। यथा सूर्यमपि न पश्यन्ति असूर्यंपश्या राजदाराः, न पुनर्गीयन्ते अपुनर्गेयाः श्लोकाः, लवणं न भुङ्क्ते अवलणभोजी भिक्षुरिति।
नन्वेवम्— अवयवार्थव्यतिरिक्तसमुदायार्थाभावेऽर्थवत्त्वाभावात् कथं प्रातिपदिकंसंज्ञा ?
समासग्रहणादिति चेद् अनर्थके कृतार्थत्वान्नियमाऽनुपपत्तिः। ततश्चार्थवतो वाक्यस्यापि प्रातिपदिकत्वप्रसङ्गः।
ननु च असू्र्यललाटयोदृशितपोः (३.२.३६), इत्यनेनासमर्थनञ्समासानां साधुत्वे ज्ञापिते ‘अकिञ्चित्कुर्वाण’, ‘अमाषंहरमाणः’, अगाधादुत्सृप्त/ष्टम् (मभा. २.१.१.) इत्यादीनामपि मा भूत् समास इत्यसूर्यंपश्यादयश्चत्वार एवाऽसमर्थसमासाः परिगण्यन्ते, (मभा.२.१.१.) परिगणनसामर्थ्यादेव प्रातिपदिकसंज्ञापि भविष्यति, तथाप्यनर्थकत्वादा— श्रयाऽभावे, संख्याकर्माद्यभावे तेषा वाचिका द्योतिका वापि विभक्तयो नोत्पद्येरन् ?
नैवम्, समुदायस्तावदानर्थक्येऽपि ‘न केवला प्रकृतिः प्रयोक्तव्या’ इति नियमादवश्यमेवाव्ययादिवद् विभक्तिमात्रमपेक्षते, अवयवस्त्वर्थवत्त्वात् संख्याकर्मा— देराश्रयत्वेन तां विशिष्टामेवाङ्गीकरोति। ततश्च यथाऽऽतुरानातुरयोरेकभोजन— प्रतिपत्तावातुराणां भोजनमनातुरोऽपि प्रतिपद्यते तथाऽवयवार्थाऽनुग्रहार्थकोऽपि समुदायो विभक्तिविशेषमेव प्रतिपत्स्यत इति न कश्चिद् दोषः।
ननु ‘असत्येकार्थीभावे व्यपेक्षाधर्माः कथं न निवर्त्तन्ते ?’
के पुनस्ते ? ‘विशेषणयोगः, समुच्चयः, संख्याविशेष’ इति (श्रृ.प्र. ७)। तत्र—
ब्राह्मणस्य शोभनं ‘श्राद्धं न भुङ्क्त’ इति विशेषणयोगः,
श्राद्धं न भुङ्क्ते बलिमामन्त्रणं चेति समुच्चयः,
श्राद्धं श्राद्धानि वा भुङ्क्ते इति संख्याविशेषयोगः।
ते च वाक्य एवोपलभ्यन्ते, न त्वश्राद्धभोजीति वृत्तौ, न ह्यश्राद्धभोजी(जो)ब्राह्मणस्य शोभनमित्यादि। तत् कथमुच्यते नास्त्यत्रैकार्थीभाव इति ?
नैवम्। अश्राद्धशब्दो ह्यत्राऽसमर्थः, न त्वश्राद्धभोजिशब्दः। अश्राद्धभोजि— विषयाश्चैते विशेषणयोगदयः प्रतीयन्ते, नाश्राद्धविषया इति।
ननु च यद्यश्राद्धशब्दः समुदायार्थाभावादनर्थकः, अश्राद्धभोजिशब्दोऽप्यर्थवद— नर्थकसंघातत्वादनर्थकः प्राप्नोति।
अस्त्वानर्थक्यम्। वाक्यविषयास्तु धर्मा भविष्यन्ति तच्चानर्थक्यमपि परिहर्त्तव्यम् इदं च वरिह्रियते, शब्दशक्तिरेषा यदभिन्नेऽप्यर्थे केनचिच्छब्देनाभिधीयमाने विश्ोषणादियोगो भवति, केनचिन्न भवति। तत्र वाक्येऽसमर्थसमासपदानामविद्यमानमापि वृत्तौ शब्दान्तरत्वा— दस्त्येकार्थाभिधायित्वमिति।
ननु च, यद्यसामर्थ्येऽपि वचनात् समासः ‘किमद्य मे वस्त्रं नीलमुत्पलमालि कर्णे, नेह कश्चित् पुरूषो व्याघ्रः सरति पल्लीम्, पश्य सखि। कष्टं श्रितः प्रियो मे गुरूकुलम्; किं ते शङ्कुलया खण्डो देवदत्त उत्पलेन; गच्छ त्वं यूपाय दारू शोभनं शैले, निवर्त्तस्व वृकाद् भयं देवदत्तस्य यज्ञदत्तात्, भार्या राज्ञः पुरूषो देवदत्तस्य; सक्तस्त्वमक्षेषु शौण्डः पिबति पानागारे’ इत्यादावपि समासः प्राप्नोति; स तर्ह्यत्रापि वचनाद् ‘विशेषणं विशेष्येण’, ‘द्वितीया श्रितादिभिः’, ‘तृतीया तत्कृतेन’, चतुर्थी तदर्थेन’, पञ्चमी भयेन’, ‘षष्ठी सुबन्तेन’, ‘सप्तमी शौण्डादिभिः’ समस्यत इति।
विषम उपन्यासः; परिगणनादीन्यसामर्थ्य एव समासार्थमारभ्यन्ते। यथा ‘कृतपूर्वी कटमि’ त्याद्यर्थं ‘पूर्वादिनिः’ (५.२.८६), सपूर्वाच्च (५.२.८७) इति। ‘विशेषणं विशेष्येण’ इत्येवमादीनि तु ‘समर्थः पदविधिः’ (२.१.१) इति सामर्थ्ये सत्युपादीयन्ते। सामर्थ्यविषयप्रदर्शनार्थमेव च ‘विशेषणं विशेष्येण’ इति प्रथमायां सामानाधिकरण्यं द्वितीयायां च श्रितादिनियमः, तृतीयायां तत्कृतादिवचनम्, चतुर्थ्यां प्रकृतिविकारभावः, पञ्चम्यां भयादिपरिगणनम्, षष्ठ्यां पूरणादिनिषेधः, सप्तम्यां शौण्डादिनिर्देश इत्युपपद्यते। तेन यत्र विशेषणादिषु सामानाधिकरण्यादेरभावस्तत्रासामर्थ्यात् समासो न भवति ॥
अब्राह्मणोऽयमिति कोऽयं समासः ? समर्थनञ्तत्पुरूषः।
किं प्रधानोऽयम् ?
उत्तरपदार्थप्रधानः। अब्राह्मणमानतेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोति।
नैष दोषः। इदं तावदयं प्रष्टव्यः—अथेह राजपुरूषमानयेत्युक्ते पुरूषमात्रस्यानयनं कथं न भवति राजाऽत्र विशेषकः प्रयुज्यते तेन राजविशिष्टस्याऽऽनयनं भवष्यिति।
इहापि नञ्—विशेषकः प्रयुज्यते, तेन नञ्विशिष्टस्यानयनं भविष्यति।
कः पुनरसौ ?
निवृत्तपदार्थकः। यदा पुनरस्य पदार्थो निवर्त्तते तदा किं स्वाभाविकी निवृत्तिः ? आहोस्विद् वाचनिकी ?
किं चाप्तः ? यदि स्वाभाविकी किं नञ् प्रयुज्यमानः करोति ?
तर्हि वाचनिकी भविष्यति; किं च प्रतिकीलवत्। तत्र यथा कील आहन्यमानः प्रतिकीलं निवर्त्तयति, एवं नञ् प्रयुज्यमानः पदार्थं निवर्त्तयति।
यद्येतन्नञो माहात्म्यं स्यात्, न जातुचिद् राजानो हस्त्यश्वं बिभृयुः, नेत्येव ब्रूयुः।
एवं तर्हि स्वाभाविकी निवृत्तिः, नञ्निमित्ता तूपलब्धिः, तद्यथा सन्तमसान्धकारे द्रव्याणां प्रदीपनिमित्तं दर्शनम्, न च तेषां प्रदीपो निवर्त्तको भवति। यदि पुनरयं निवृत्तिपदार्थको नञ्, किमर्थं ब्राह्मणशब्दः प्रयुज्यते ?
एवं यथा विज्ञायेत ‘अस्य पदस्यार्थो निवृत्त’ इति,
नेति ह्युक्ते संदेहः स्यात् कस्य पदार्थो निवर्त्तत इति; तत्रासंदेहार्थं ब्राह्मणशब्दः प्रयुज्यते। यदि वा सर्व एते शब्दाः अवयवेष्वपि वर्त्तन्ते ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्र इति।
तपः श्रुतं च योनिश्च तत्र ब्राह्मणकारणम्।
तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ॥ ५१ ॥
तथा गौरः, कपिलः, पिङ्गलकेशः इत्येतानप्यन्तरान् ब्राह्मण्ये गुणान् ब्रुवन्ति। समुदायेषु च वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते। तद्यथा पूर्वे पञ्चालाः, उत्तराः कुरव इति। एवमयं समुदाये ब्राह्मणशब्दो वृत्तोऽवयवेऽपि वर्त्तते गुणे जातौ च। गुणे तावद् अब्राह्मणोऽयं यस्तिष्ठन् मूत्रयतीति, अब्राह्मणोऽयं गच्छन् भक्षयतीति।
अपि च कालं कल्माषं माषराशिवर्णमापणे आसीनं दृष्ट्वाऽध्यवस्यति नायं ब्राह्मणः, अब्राह्मणोऽयमिति निर्ज्ञातं तस्य भवति, गुणकृता चार्थस्य निवृत्तिः। अथ जातौ जातिहीने संदेहाद् दुरूपदेशाद्वाऽन्यो ब्राह्मणशब्दः प्रवर्त्तते। संदेहात् तावद् गौरमयं शुच्याचारं पिङ्गलं कपिलकेशं दृष्ट्वाऽध्यवस्यति ब्राह्मणोऽयमिति। ततः पश्चादुलभ्यते नायं ब्राह्मणः अब्राह्मणोऽयमिति। तत्र दुरुपदेशो ब्राह्मणशब्दो वर्त्तते। जातिकृता चार्थस्य निवृत्तिः।
ननु च —नञ्व्यवच्छेदाय ब्राह्मणादिशब्दप्रयोगे समासस्य पूर्वपदप्रधानता प्राप्नोति ?
नैवम्। अव्ययसंज्ञाप्रसङ्गात् अव्ययं ह्यस्य पूर्वपदम्।
नैष दोषः। पाठेनाव्ययसंज्ञा क्रियते, न च नञ्समासस्तत्र पठ्यते। मा भूदव्ययेषु पाठः; तथाप्यभिधेयवल्लिङ्गवचनानि भवन्ति; यश्चेहार्थोऽभिधीयते न तस्य लिङ्गसंख्याभ्यां योगोऽस्ति। नेदं वाचनिकम्— अलिङ्गता, असंख्यता वा। किं तर्हि? स्वाभाविकमेतत्। तत्र किमस्माभिः शक्यं वक्तुम्, यन्नञः प्राक् समासाल्लिङ्गसंख्याभ्यां योगो नास्ति, समासे च भवति।
यदि वा गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्ति। यदसौ द्रव्यं श्रितो भवति गुणः समासो वा, तस्य यल्लिङ्गं वचनं च तद् गुणस्येव समासस्यापि भवति।
उच्यते इह त्रयी गतिः १. कदाचिन्नञर्थेनोत्तरपदार्थो विशेष्यते,
२. कदाचिन्नञर्थ उत्तरपदार्थेन,
३. कदाचिन्नञर्थोत्तरपदार्थाभ्यामन्यः पदार्थ इति। तत्र—
(१) यदा नञर्थोत्तरपदार्थाभ्यामन्यपदार्थो विशेष्यते तदा ‘समानाधिकरणानां बहुव्रीहिः’, ‘नञर्थश्च विशेष्यो भवती’ ति षट् समासार्थभेदा जायन्ते — १. अत्यन्ताभावः, २. अनत्यन्ताभावः, ३. अन्यतराभावः, ४. तादात्म्याभावः, ५. संबन्धाऽभावः, ६. प्रध्वंसाभाव इति। यथा— अरूपो वायुः, अनुदारा कन्या, अकिञ्चनः पुमान्, अपिशाचः कुड्यः, अघटं भूतलम्, अनङ्ग काम इति।
(२) यदा तूत्तरपदार्थेन नञर्थो विशेष्यते तदा पूर्वपदार्थप्रधानस्तत्पुरुषः। नञर्थोपाधेश्च षट् समासार्थभेदा जायन्ते— १. प्रागभावः, २. सामर्थ्याभावः, ३. आवश्यकताऽभावः, ४. इतरेतराभावः, ५. सत्ताऽभावः, ६. भावाभाव इति। यथा— अनुत्पन्नो घटः, अप्रधृष्यः सुभटः, अभूषितः कान्तः, अवर्षा (मभा. २.२.६) हेमन्तः, असच्छशविषाणम्, अनुद्भिन्नः प्रवाल इति।
(३) यदा तु नञर्थेनोत्तरपदार्थो विशेष्यते तदोत्तरपदार्थप्रधानस्तत्पुरुषः, पदार्थस्य च नञर्थोपाधे षट् समासभेदा जायन्ते, यथा— १. तदभावः, २. तदन्यः, ३. तत्सदृशः, ४. तद्विरुद्धः, ५. तदपकृष्टः, ६. तदुत्कृष्ट इति। यथा— अनन्यः, अनत्रिः, अब्राह्मणः, असितः, अमनुष्यः, अमानुषः इति। ननु च, अन्यपदार्थतत्पुरुषयोरन्यत्रापि नञ्समासो दृश्यते। यथा मक्षिकाणामभावोऽमक्षिकमिति।
नायं नञ्समासः, किन्तर्हि ‘अव्ययं विभक्ति’ (२.१.६) इत्यादिना अव्ययमभावार्थे समस्यते, अव्ययीभावश्च समासो भवति। यथा निवातं निशीतम् इति।
किं पुनरमी नञ्समासार्था अन्यपदार्थादिषु व्यवतिष्ठन्ते उत सप्लवन्ते? केचिद् व्यवतिष्ठन्ते प्रध्वंसाभावादयः। तद्यथा—
भवेदभीष्ममद्रोणं धृतराष्ट्रबलं कथम्।
यदि तत्तुल्यकक्षोऽत्र भवान् धुर्यो न युज्यते ॥ ६० ॥
(वेसं. ३.२५) यथा च अनुदरा कन्या, अलोमिका एडकेति।
केचित् तु संप्लवन्ते प्रागभावादयः। तद्याथा—
अजन्मा पुरुषस्तावदपुमान् पशुरेव वा।
यावल्लीलावतीवक्रप्रेक्षितार्थं न बुध्यते ॥ ६१ ॥
(इति)। यथा च — अनेके, अनेक इति।
ननु च — एकशब्दो बह्वर्थः। तद्यथा—
(१) एकः कोऽपि स कुम्भसंभवमुनिः इत्युत्कर्षार्थः। तत्र—
(२) एके तावदाहुरिति पक्षान्तरार्थः,
(३) एक एवायमावयोः स्वभाव इति तुल्यार्थः,
(४) नैकः शयीतेत्यसहायार्थः,
(५) एकमेवेदं शब्दब्रह्मेत्यभेदार्थः,
(६) एकः द्वौ बहव इति संख्यार्थः।
तत्कस्येह ग्रहणम्?
संख्यार्थस्य।
उत्कर्षादीनां कस्मान्न भवति ?
अनभिधानात्। तदयथा अमित्र इत्युक्ते पूर्वपदार्थप्रधानतत्पुरुषे शत्रुकरेव प्रतीयते, न त्वसूर्यः, एवमनेक इत्युक्ते बहव एव प्रतीयन्ते, न पुनरनुत्कर्षादिमन्तः। एतेन तत्पुरुषस्योत्तरपदप्राधान्ये सत्यनेक इत्यपि व्याख्यातम्।
कथं पुनरेकस्य प्रतिषेधे बहूनां सम्प्रत्ययः स्यात् ?
प्रसज्यायं क्रियागुणौ ततः पश्चान्निवृत्तं करोति। तद् यथा— आसय, भोजय, शायय अनेकमिति।
स्यादेतत्, यत्र क्रियागुणौ प्रसज्येते, यत्र तु खलु न प्रसज्येते तत्र तु कथमनेकस्तिष्ठति इति ?
भवत्येवंजातीयतेष्वपि एकस्य प्रतिषेधे बहूनां सम्प्रत्ययः। तद् यथा— न न एकं प्रियम्, न न एकं सुखमिति।
प्रकृतिप्रत्ययौ त्रेधा त्रिधोपस्कारभक्तयः। त्रिधैवोपपदप्रातिपदिकानां विभक्तयः॥ ६२॥
त्रिधोपसर्जनं त्रेधा समास इति कीर्त्तितः। प्रातिपादसशब्दोऽयमथान्वाख्येय उच्यते॥ ६३॥
पदमिह त्रिविधं प्रतिपाद्यते त्रिविधमेव च वाक्यमथ त्रिधा। व्यवहृतिः खलु शब्दनिबन्धना यदनयोरुभयोः प्रितितिष्ठति॥ ६४॥
इति महाराजाधिराजभोजदेवविरचिते श्रृङ्गारप्रकाशे
प्रातिपदिकादिप्रकाशो नाम
॥ द्वितीयः प्रकाशः॥ २॥
रेवाप्रसादेन सनातनेन भोजादृतेनैष प्रकाश—लेखः।
स्वयं स्वहस्ताद् विहितोऽत्र मूलं कृपा महाकालमहेश्वरस्य॥