प्रथमः प्रकाशः
प्रकृत्यादिप्रकाशात्मा
अच्छिन्नमेखल - मलब्धदृढोपगूढ - मप्राप्तचुम्बन-मवीक्षित-वक्त्रकान्ति।
कान्ताविमिश्रवपुषः कृतविप्रलम्भसम्भोगसख्यमिव पातु वपुः पुरारेः॥ १ ॥
यत्पादपङ्कजरजःपरिमार्जितेषु चेतःसु दर्पणतलाऽमलतां गतेषु।
शब्दार्थसंपद उदारतराः स्फुरन्ति विघ्नच्छिदेऽस्तु भगवान् स गणाधिनाथः ॥ २ ॥
आत्मस्थितं गुणविशेषमहङ्कृतस्य शृङ्गारमाहुरिह जीवितमात्मयोनेः।
तस्यात्मरक्ति / शक्तिरसनीयतया रसत्वं युक्तस्य येन रसिकोऽयमिति प्रवादः ॥ ३ ॥
सत्त्वात्मनाममलधर्म/जन्मविशेषजन्मा जन्मान्तरानुभवनिर्मितवासनोत्थः।
सर्वात्मसंपदुदयातिशयैकहेतुर्ज्जागर्त्ति कोऽपि हृदि मानमयो/वतो विकारः ॥ ४ ॥
१. २.
[उच्यते चाभिनवेन ‘येषां काव्यानुशीलनाभ्यासवशाद् विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनयोग्यता ते हृदयसंवादभाजः सहृदया’ इति ध्वन्यालोकलोचने।]
३.
[उक्तं रत्नेश्वरेण रूढाहङ्कारतौर्जित्यमित्यस्य व्याख्याने स.क.(१.१०९) तात्कालिकनिमित्तोपनिपाते वासनाविकासात् तमोनिर्भेदस्थानेषु सुप्तप्रबुद्ध इव स्थायिभिरसंसृज्यमानः प्रथम—प्रादुर्भूतोऽभिमानोऽहङ्कारः ॥ रक्तिरित्येव युक्तः पाठः शृङ्गारादेः रत्यादिवासनावतैव सचेतसा अनुभूतेः।]
४.
[यथा चोच्यते सरस्वतीकण्ठाभरणालङ्कारे—
विशिष्टादृष्टजन्मायं जन्मिनामन्तरात्मसु।
आत्मसंपद्गुणोद्भूतेरेको हेतुः प्रकाशते ॥ इति (५.२)
]
तात्पर्यमेव वचसि ध्वनिरेव काव्ये सौभाग्यमेव गुणसंपदि वल्लभस्य।
लावण्यमेव वपुषि स्वदतेऽङ्गनायाः शृङ्गार एव हृदि मानवतो जनस्य ॥ ५ ॥
शृङ्गार-वीर-करुणाद्भुत-रौद्र-हास्य-बीभत्स-वत्सल-भयानक-शान्त-नाम्नः।
आम्नासिषुर्दश रसान् सुधियो वयं तु शृङ्गारमेव रसनाद् रसमामनामः ॥ ६ ॥
वीराद्भुतादिषु च येह रसप्रसिद्धिः सिद्धा कुतोऽपि वटयक्षवदाविभाति।
लोके गतानुगतित्ववशादुपेतामेतां निवर्त्तयितुमेष परिश्रमो नः ॥ ७ ॥
अप्रातिकूलिकतया मनसो मुदादेर्यः संविदोऽनुभवहेतुरिहाभिमानः।
ज्ञेयो रसः स रसनीयतयाऽऽत्मश/रक्ते रत्यादिभूमनि पुनर्वितथा रसोक्तिः ॥ ८ ॥
रत्यादयोऽर्धशतमेकविवर्जिता हि भावाः पृथग्विधविभावभुवो भवन्ति।
शृङ्गारतत्त्वमभितः परिवारयन्तः सुप्तार्च्चिषं द्युतिचया इव वर्धयन्ति ॥ ९ ॥
आ भावनोदयमनन्यधिया जनेन यो भाव्यते मनसि भावनया स भावः।
यो भावनापथमतीत्य विवर्त्तमानः साहङ्कृते हृदि परं स्वदते रसोऽसौ ॥ १० ॥
रत्यादयो यदि रसाः स्युरतिप्रकर्षे हर्षादिभिः किमपराद्धमतद्विभिन्नैः।
अस्थायिनस्त इति चेद् भयहासशोकक्रोधादयो वद/बत कियच्चिरमुल्लसन्ति ॥ ११ ॥
स्थायित्वमत्र विषयातिशयान्मतं चेच्चिन्तादयः कुत उत प्रकृतेर्वशेन।
तुल्यैव सात्मनि भवेदथ वासनायाः सन्दीपनात्, तदुभयत्र समानमेव ॥ १२ ॥
अतः सिद्धमेतद् १. रत्यादयः शृङ्गारप्रभवा एकोनपञ्चाशद् भावाः, २. वीरादयो मिथ्यारसप्रवादाः, ३. शृङ्गार एवैकश्चतुर्वर्गैककारणं रस इति। स चानुभवैकगम्यत्वाद् असर्वविषयत्वाच्च दुरवसेयः, सम्यगभिनयेषु वा विदग्धशैलूषैः प्रदर्श्यमानः सामाजिकैरव —धार्य्यते, प्रबन्धेषु वा महाकविभिर्यावदाख्यायमानो विदुषां मनीषाविषयमवतरति। तत्र ५. वचसीति वार्त्तालापो विवक्षितः। यथातथेतिवचनयोजनेन नेयोऽत्र वाक्यार्थः यथा विवक्षाविषयीभूतोऽर्थो वचसि तात्पर्यमिति परिभाष्यते, काव्ये ध्वनिरिति, वल्लभगुणसंपदि सौभाग्यमिति, उत्तमावयवविन्यासत एवाङ्गनापदवाच्यायां लावण्यमिति तथैव मानिनि जने शृङ्गार इति। १०. साहङ्कृताविति रा., साहङ्कृतिनीति तदा युक्तं वचः। न तथा पदार्थाः प्रत्यक्षेण प्रतीयमानाः स्वदन्ते, यथा वाग्ग्मिनां वचोभिरावेद्यमानाः।
तदाह—
अत्थणिवेसा ण हु तह चित्तविआसं कुणंति सच्चविआ१।
जह उण ते उम्मिल्लंता सुकइवओहिं सुसीसंता२॥ १३॥
इति।
(अर्थनिवेशा न हि तथा चित्तविकासं कुर्वन्ति संदृष्टाः।
यथा पुनस्त उन्मिलन्तः सुकवि—वचोभिः सुकथ्यमानाः॥)
अतोऽभिनेतृभ्यः कवीनेव बहुमन्यामहे, अभिनयेभ्यश्च काव्यमेवेति।
(काव्यलक्षणम्)
तत् (काव्यं) पुनः शब्दार्थयोः साहित्यमामनन्ति। तद् यथा ‘शब्दार्थौ सहितौ काव्यमि’ति (भामहा. १.१६)।
कः पुनः शब्दः?
येनोच्चारितेनार्थः प्रतीयते (मभा. पस्पशा.)
स (शब्दः) द्वादशधा* १. प्रकृतिः, २. प्रत्ययः, ३. उपस्कारः, ४. उपपदम्, ५. प्रातिपदिकम्, ६. विभक्तिः, ७. उपसर्जनम्, ८. समासः, ९. पदम्, १०. वाक्यम्, ११. प्रकरणम्, १२ प्रबन्ध इति।
कोऽर्थः (कः पुनरर्थः)?
यः शब्देन प्रत्याय्यते।
स च (अर्थः) द्वादशधा १. क्रिया, २. कालः, ३. कारकम्, ४. पुरुषः, ५. उपाधिः, ६. प्रधानम्, ७. उपस्कारार्थः, ८. प्रातिपदिकार्थः, ९. विभक्त्यर्थः, १०. वृत्त्यर्थः, ११. पदार्थः, १२. वाक्यार्थ इति।
किं साहित्यम्?
यः शब्दार्थयोः सम्बन्धः।
स च(सम्बन्धः) द्वादशधा १. अभिधा, २. विवक्षा, ३. तात्पर्यम्, ४. प्रविभागः, ५. व्यपेक्षा, ६. सामर्थ्यम्, ७. अन्वयः, ८. एकार्थीभावः, ९. दोषहानम्, १०. गुणोपादानम्, ११. अलङ्कारयोगः, १२. रसावियोग इति। १. प्राकृतं पदमेतत् तद्भवत्वेन नेयं ‘सत्यापिता’ इत्यस्य मूलस्य, सुसीसंता इति च कस्यचिदपरस्याऽप्रसिद्धस्य संस्कृतपदस्य, आदिगुरुणा भरतमुनिना प्राकृतस्य संस्कृतविकृतित्वेन गृहीतचरत्वात्। नाट्यशास्त्रे १७.०२ २. वामनाः पुनः सन्दर्भेषु दशरूपकं श्रेय’ इति वदन्ति। *१–४ शब्दभेदाः प्रथमप्रकाशे, ५–६ द्वितीयप्रकाशे, ९–१२ तृतीयप्रकाशे निरूपिताः। तत्र यद्यपि ‘न केवला प्रकृतिः प्रयोक्तव्या, न च केवलः प्रत्ययः’ (मभा. १.२.६४) तथापि धर्मनियमाय शास्त्रक्रियाव्यवहारे प्रकृतिप्रत्ययविभागकल्पना। (तत्र)
(१. प्रकृतिः)
शब्दार्थभावनायां प्रत्ययात् प्रथममुपादानकारणमिव योपादीयते तां प्रकृतिरिति१ व्यपदिशन्ति।
सा (प्रकृतिः) त्रिधा— (क) धातुरूपा, (ख) प्रत्ययरूपा, (ग) प्रातिपदिकरूपा च।
(क. धातुरूपा प्रकृतिः)
धातवः षोढा १. परिपठिता, २. अपरिपठिताः, ३. परिपठिताऽपरिपठिताः, ४. प्रत्ययधातवः, ५. नामधातवः, ६. प्रत्ययनामधातवश्चेति। तेषु—
१. परिपठिता भूवादयः। यथा—
भूयात् तेषां कुले जन्म जा/?/न्तां तेषु सम्पदः।
येषां स्वमिति मन्वानाः स्वीकुर्वन्ति स्वमर्थिनः ॥ १४ ॥
कविः सृजति काव्यानि हृद्यादधति सज्जनाः।
सूते मुक्ताः पयोराशिर्वहन्ति तरुणीस्तनाः ॥ १५ ॥
न रुणत्सीन्द्रियग्रामं न शृणोषि गुरोर्वचः।
नो वर्णयसि मित्राणि कथं गृहणास्यरिश्रियः ॥ १६ ॥
२. अपरिपठिता आन्दोलयत्यादयः। यथा—
नीपानान्दोलयन्नेष प्रेङ्खोलयति मे मनः।
पवनो बीजयन्नाशा मानाशामुच्चुलुम्पति ॥ १७ ॥२
तडित्खचयतीवाशा नसन्ते३ शर्म्म वर्हिणः।
पान्थस्त्रीश्वासवेगौष्ण्यं विधमन्त्यद्बवायवः ॥ १८ ॥
मिलन्त्याशासु जीमूता विक्लवन्ते दिवि ग्रहाः।
तापं क्षपयति प्रावृट् क्षीयन्ते कामिविग्रहाः ॥ १९ ॥
१. तथा च काशिका ‘प्रकृतिरुपादानकारणम्’ (सू॰ ५.१.१२)। अत्रत्या काशिकाऽवश्यमेव द्रष्टव्या। २. उच्चुलुम्पति विलोपयति। ३. नसतिराप्नोतिकर्मा (निरुक्ते ७.१७)। जसन्ते यान्ति। ३. ये सूत्रेष्वेव पठ्यन्ते, न भूवादिषु, ते परिपठिताऽपरिपाठिताः, ‘स्कु’ इत्यादयः। यथा—
अनुस्कुनुहि मा मन्तून्, वसन्तो मान—घस्मरः।
दूति! द्रुतमृतीयस्य जिजावयिषति स्मरः ॥ २० ॥१
मुसलक्षेपहुङ्कारस्तोभैः कलम—कण्डिनि!।
कुचविष्कम्भमुत्तभ्नन् निस्तुभ्नातीव ते स्मरः ॥ २१ ॥२
पतयालूनि चेष्टासु मनांसि गृहयालवः।
यूनामेकेन रूपेण योषितो दाह्यसातयः ॥ २२ ॥३
४. सनाद्यन्ताः प्रत्ययधातवः। यथा—
मीमांससे न शास्त्रार्थान् कृतार्थयसि नार्थिनः।
गोपायसि न सन्त्रस्तान् किमुद्धतमटाट्यसे ॥ २३ ॥
सूर्यीयति सुधारश्मिं नरकीयति नन्दने।
अकामं कामयाना त्वां सा जीवन्ती मृतायते ॥ २४ ॥
कपोलौ लोहितायेते बाष्पायेते विलोचने।
प्रियप्रणामकाम्यन्ती कृशाङ्गि! कलहायसे ॥ २५ ॥
५. कण्वादयो नामधातवः। यथा—
कण्डूयति न यो मर्म नर्मणा यो हृणीयते।
न कुष्यति रुषं यः स राजा राज्यं भिषज्यति ॥ २६ ॥४
१. मन्तूनपराधान् माऽनुस्कुनुहि मोदाहर। स्कुञ् उद्धरणे। ऋती घृणागत्योः। घृणा दया। ऋतीयस्व दयस्व। जिजाव/पयिषति। जु वेगितायां गतावित्यस्येति राघवः। जपतेस्तु ग्रहे जिजापयिषति साहसकौलीनश्वभ्रे पातयितुमिच्छतीत्यर्थः। २. कण्डनं प्रतीतचरं गाहासु, न तु खण्डनम्। विष्कम्भः स्तूपः। उत्तम्भः उल्लासः। निस्तुभ्नाति गायति। ३. सातिः सुखम्। दाह्येभ्यः सातिः सुखम्। योषित्सु सातिपदार्थाऽऽरोपः। ४. कण्डूयति स्पृशति। हृणीयते लज्जते। कुष् प्रकाशे दैवादिकः, कुष्यति प्रकाशयति। भिषज्यति चिकित्सते। भिषज् चिकित्सायाम्। राघवोऽत्र तैमिरिकायते।
वल्गूयति न योऽसाधुमसूयति न साधवे।
मन्तूयति न मान्याय महत्सु न महीयते ॥ २७ ॥१
कमिषुध्यन्तु यज्वानः कं मगध्यन्तु मागधाः।
कमर्थिनः कुषुभ्यन्तु रामेऽरण्यं भुरण्यति ॥ २८ ॥२
धातुप्रकरणाद् धातुः कस्य चासञ्जनादपि।
आह चायमिमं दीर्घं मन्ये धातुर्विभाषितः ॥
(मभा. ३.१.२७ भाष्यम्) (६. प्रत्ययनामधातवः)
येभ्यः परिपठितधातुभ्यो नामत्वसिद्धये, नामभ्यो वा धातुत्वसिद्धये क्विबादिप्रत्यया लुप्यन्ते ते प्रत्यये नामनि च धातव इ(श्चे)ति प्रत्ययनामधातवः। यथा होड—गल्भ— क्लीबप्रभृतयः। यथा—
गिरो गौर्ब्रह्मकामाशीः श्रियः प्रतिभुवौ भ्रुवौ।
शत्रुशीर्मित्रपूर्बाहुर्युधि ते बन्धुता सजूः ॥ २९ ॥
ब्रह्म ब्राह्मणाः, तेषां कामानाशास्ते इति ब्रह्मकामाशीः कामगवी। शत्रूँन् शास्तीति शत्रुशीः, मित्राणि पृणातीति मित्रपूः। सजूः सहजोषणः।
होडसे नाभिजातेषु क्लीबसे नाभिमानिषु।
विदग्धसि न मुग्धेषु नाऽप्रगल्भेषु गल्भसे ॥ ३० ॥
होडृ अनादरे, क्लीब् अधार्ष्ट्ये, गल्भ धार्ष्ट्ये।
सविता विधवति, विधुरपि सवितरति, तथा दिनन्ति यामिन्यः।
यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि३ ॥ ३१ ॥
१. वल्गु मनोज्ञम्। वल्गूयति प्रियंमनुते। मन्तुः क्रुत्। मन्तूयति क्रुध्यति। महीयते मह पूजायामित्यस्य। महत्सु न महीयते पूज्यम्मन्यतां वृणुते। २. इषुध अस्त्रधारणे, यज्वानः कं वीरम्, इषुध्यन्तु इषुधिमन्तं कुर्युः, मगध्यन्तु परिवेष्टयन्तु, मगध परिवेष्टन इत्यस्य। कुषुभ परोपमर्द्देनोपतिष्ठन्ताम्। भुरण्यति भुरण गतौ। भुरण्यति व्रजति। कण्वादिर्नामधातुश्च भवति। ३. साधारणधर्मस्य भिन्नत्वान्नोत्रोपमेयोपमा, तृतीयसदृशव्यवच्छेदाऽघटनात्। एवं
१. ‘कंसवधमाचष्टे कंसं घातयति’,
२. ‘आरात्रि विवासमाचष्टे रात्रिं विवासयति’,
३. ‘पुष्यचन्द्रयोगं जानाति पुष्येण चन्द्रं योजयति’,
४. उज्जयिनीतः प्रस्थितो माहिष्मत्यां सूर्योद्गमं प्राप्नोति माहिष्मत्यां सूर्यमुद्गमयती’—ति।
‘आख्यानात् कृतस्तदाचष्ट इति णिच्’ कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्’, ‘आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम्’, नक्षत्रयोगे ज्ञि’, ‘चित्रीकरणे प्रापी’—ति स्मर्य्यते।
प्रकृतिः षट्प्रकारैषा धातुरूपा निरूपिता।
अथ प्रत्ययरूपापि षट्प्रकारैव कथ्यते ॥ ३२ ॥
(ख. प्रत्ययरूपा प्रकृतिः)
प्रत्यया हि १सुप्—२तिङ्—३कृत्—तद्धित४—धातुप्रत्यय५—स्त्रीप्रत्यय६—भेदात् षट् प्रकाराः। तदन्ता प्रकृतिरपि प्रत्ययरूपा षट्प्रकारैव भवति। सा (द्र. अष्टाध्याय्याः ३–६ अध्यायाः)
१. सुप्प्रत्ययान्ता यथा— अहंयुः, शुभंयुः, सायन्तनम्, चिरन्तनम्, त्वयका, मयका, आमुष्यायणः अप्सव्यः (६.३.१८), प्राह्णेतराम्, प्रगेतराम्, पूर्वाह्णेतनम्, समांसमीना इति।
२. तिङ्प्रत्ययान्ता यथा— पचतितराम्, गच्छतितमाम्, स्पृशतिरूपम्, जल्पतिकल्पम्, जिघ्रतिदेश्यम्, पश्यतिदेशीयम्, आस्तिकः, नास्तिकः, पचतकि, भिन्धकि, पचतभृज्जत, खादतमोदत इति।
३. कृत्प्रत्ययान्ता यथा— कृत्त्रिमम्, हृत्रिमम् पाकिमम्, सेकिमम्, सांकूटिनम् सांराविणम्, व्यावक्रोशी, व्यावहासी, श्यैनम्पाता, तैलम्पाता, जित्वरी, आढ्यङ्करणी इति।
४. तद्धितप्रत्ययान्ता यथा— गार्ग्यायणः, दाक्षायणः, वार्ष्यायणिः, वार्ष्यायणीयः, फाण्टाहृतः, फाण्टाहृतायनिः, आभिजित्यः, कौञ्जायन्यः, कुतस्त्यः, तत्रत्यः, पचतितराम्, पचतितमाम् इति।
५. धातुसंज्ञाप्रत्ययान्ता यथा— चिकीर्षा, कण्डूया, पुत्रीया, कारणा, मिश्रणा, मृगया, अटाट्या, सासहिः, यायावरः, यायजूकः, चिकीर्षुः, चङ्क्रमण इति।
६. स्त्रीप्रत्ययान्ता यथा— गाङ्गेयः, सौदामेयः, कारीषगन्धेयः, द्रौपदेयः, गौरेयः, शार्ङ्गरवेयः, क्राद्रवेयः, कामण्डलेयः, यौवतेयः, सौरभेयः, बहुस्त्रीकः, सुवधूक इति।
अथ कथं यौवतेय इति प्रत्ययप्रकृतावुदाहृतम्, यावता ‘यूनस्ति’ (४.१.७७) इति एतस्य तद्धितसंज्ञया प्रातिपदिकत्वमेव।
सत्यमेतत्। स्त्रीसामान्यपर्यायो युवतिशब्दः प्रकृत्यन्तरमस्ति। यथाह ‘धर्मार्थाङ्ग— विद्याकालाननुपरोधयन् कामसूत्रं तदङ्गविद्याश्च पुरुषोऽधीयीत, प्राग् यौवनाद् युवतिः’ इति। तस्य।
‘यूनस्तिः’ इत्येतस्यैव वा, ‘एरक्तिन’ इति विभाषितङीषो ढगुत्पत्तिः। यथा— आदितेयः, सौरभेय इति।
अथ काद्रवेयः कामण्डलेय इति कथम्? ङ्यापोरप्रातिपदिकत्वेऽपि हि ‘ङ्याप्प्रातिपदिकाद्’ (४.१.१) इति विशेषविधानात्। यूनस्तिरित्येतस्य तु तद्धितत्वात् अस्तु सुबुत्पत्तिः, ऊङस्तु प्रत्ययत्वेन सा न सिद्ध्यति, समर्थाच्च तद्धितेन भवितव्यम्। अन्तादिवद्भावाद् भविष्यति, तथाहि ‘ब्रह्मबन्धूरि’—त्यादौ ‘अकःसवर्णे दीर्घः’ (६.१.१०१) इति द्वयोरेकत्वं भवति।
यद्येवं ‘स्त्रीभ्यो ढग्’ (४.१.१२०) इति ढक् (ङ्) न सिध्यति, सोऽप्याद्यन्तवद्भावाद् भविष्यती’ति। ‘साऽस्य देवता’ (४.२.२४) इति ज्ञापकाद् ऊङुत्पत्तेः प्रागेव वा सुबुत्पत्तिरिति।
उक्ता षोढैवमेषाऽपि प्रकृतिः प्रत्ययात्मिका।
अथातः प्रातिपदिकरूपा षोढैव कथ्यते ॥ ३३ ॥
(ग. प्रातिपदिकरूपा प्रकृतिः)
तत्र— १नामाऽ२व्ययाऽनुकरण३—कृत्४—तद्धित५—समासाः६ प्रातिपदिकानि। तदाह—
१. ‘अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’ (१.२.४५),
२. ‘कृत्तद्धितसमासाश्च’ (१.२.४६),
३. निपातस्य चानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या। (१.२.४६ मभा. वार्त्तिकम्)
तत्रार्थवद्ग्रहणेन नामाव्ययानुकरणानि गृह्यन्ते। कृत्तद्धितसमासास्तु कण्ठोक्त्या। इति। नन्वेतेऽप्यर्थवन्त एव।
सत्यमेतत्। किन्तु कृत्तद्धिताश्च प्रत्ययाः, तेषामप्रातिपदिकग्रहणात् प्रातिपदिकसंज्ञा न प्राप्नोतीति कृत्तद्धितग्रहणेन तदुपसंगृह्णाति।
समासग्रहणेन त्वर्थवत्समुदायस्य समासस्यैव प्रातिपदिकसंज्ञेति ज्ञापयन् तथाविधस्य वाक्यस्यैतां निवर्त्तयति। तत्र—
(१. नामप्रातिपदिकम्)
अनपेक्षितशब्दव्युत्पत्तीनि सत्त्वभूतार्थाभिधायीनि च नामानि।
तानि द्विधा— १. आविष्टलिङ्गानि २. अनाविष्टलिङ्गानि चेति। तेषु —
१. जातिद्रव्यपरिमाणाभिधायीन्याविष्टलिङ्गानि। तत्र —
जातिर्द्विधा १. आकृतिव्यङ्ग्या २. उपदेशव्यङ्ग्या च।
तयोराद्या यथा— गौः, मृगः, पक्षी, सर्पः, सिंहः, वृक्षः, कुमारी, कुण्डम्, स्त्री, पुमान्, नपुंसकम् इति।
द्वितीया यथा— ब्राह्मणः, गार्ग्यः, कठः, क्षत्रियः, वैश्यः, शूद्रः, मूर्द्धाभिषिक्त अम्बष्ठः, पारशवः, सूतः, वैदेहकः, चण्डाल इति।
द्रव्यं द्विधा १. सापेक्षम् २. अनपेक्षं च।
तयोराद्यं गुरुः, पिता, पुत्रः, भ्राता, जामाता, मित्रम्, माता, स्वसा, दुहिता, याता, ननान्दा, भार्या इति।
द्वितीयं यथा— चैत्रः, मैत्रः, इन्द्रः, उपेन्द्रः, चन्द्रः, सूर्यः, कालः, आकाशः, प्राची, प्रतीची, शची, लक्ष्मीरिति।
परिमाणं द्विधा १. नियतम् २. अनियतञ्च।
तयोराद्यं यथा— द्रोणः, खारी, पलम्, भारः, क्रोशः, योजनम्, निवर्त्तनम्, नल्वः (तल्पः), पणः, पुराणः, गणः, अक्षौहिणी—ति।
द्वितीयं यथा— संघः, पूगः, सार्थः, समाजः, वर्गः, श्रेणिः, कुटुम्बम्, परिषत्, पङ्क्तिः, यूथम्, वनम्, सेना इति।
२. गुणसंख्यावचनसर्वनामान्यनाविष्टलिङ्गानि। तेषु गुणो द्विधा १. अनुरञ्जकः २. अननुरञ्जकश्च।
तत्राऽनुरञ्जकयोगात् तदनुरक्तानि यथा श्वेता, स्वादु, शीघ्रं, मन्दं, दीर्घं, ह्रस्वम्, ऋजु, वक्रम्, मृदु, कठिनं, युवा, वृद्ध इति।
अननुरञ्जकयोगात् तद्विपरीतानि यथा— दक्षः, जिह्म—जड—प्राज्ञ—खल— साधु—स्निग्ध—क्रूर—शूर—भीरु—लघु—गुरु—रिति।
संख्या द्विधा १. लिङ्गवती २. अलिङ्गा चेति। तयोः —
आद्या लिङ्गवती यथा— एकः, एका, एकम्, द्वौ, द्वे, उभौ, उभे, त्रयः, तिस्त्रः, त्रीणि, चत्वारः, चतस्त्रः, चत्वारीति।
द्वितीया (अलिङ्गवती) यथा— पञ्च प्रातिपदिकार्थाः (मभा. ५.३.७४), पञ्च वृत्तयः, पञ्च पदजातानि, षड् विषयाः, षड् बुद्धयः, षडिन्द्रियाणि, अष्टौ वसवः, अष्टौ मूर्त्तयः, अष्टौ वर्णस्थानानि, दश दिशः, षोडश पदार्थाः, अष्टादश पुराणानि’ इति।
सर्वनामानि द्विधा १. सर्वादीनि २. असर्वादीनि च। तेषु—
आद्यानि यथा — ‘सर्व, विश्व, अन्य, इतर, कतम, यः, सः, एषः, अयं, त्वम् अहम्’ इति।
द्वितीयानि यथा— ‘प्रथम—चरम—अल्प—कतिपय—पूर्व—पर—अपर—दक्षिण—उत्तर— स्व—अन्तर—सकल—कृत्स्नम्’ इति।
(२. अव्ययप्रातिपदिकम्)
प्रायेणाऽलिङ्गसंख्याशक्तीन्यव्ययानि। तानि षोढा—
‘१अव्यय—२निपात— ३गत्युपसर्ग४ —कर्मप्रवचनीय५—विभक्तिप्रतिरूप६भेदात्। तेषु प्रायेण शक्तिसंख्याऽयोगात् स्वरादीन्यव्ययानि। यदाह (मभा. १.१.३८)
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ३४ ॥ इति
(१. अव्ययप्रातिपदिकेषु अव्ययानि)
तानि (अव्ययानि) द्विधा १. सत्त्वगन्धीनि २. असत्त्वगन्धीनि च। तेषु— सत्त्वगन्धीनि षोढा १. द्रव्यरूपाणि, २. गुणरूपाणि, ३, क्रियारूपाणि, ४. जातिरूपाणि, ५. संज्ञारूपाणि, ६. सम्बन्धिरूपाणीति।
असत्त्वगन्धीन्यपि षोढैव
१. क्रियापेक्षीणि, २. क्रियाद्रव्यापेक्षीणि, ३. क्रियाविशेषणानि, ४. क्रियाद्रव्यविशेषणानि, ५. क्रियाविशिष्टरूपाणि, ६. क्रियाद्रव्यविशिष्टरूपाणि चेति। तत्र—
सत्त्वगन्धिभेदेषु
१. द्रव्यरूपाणि यथा— स्वः, दिवं, भुवः, विहायसा, रोदसी, आपः, भूः, ऋचः, शम्, महः, तपः, हाहा, हूहू, इति।
२. गुणरूपाणि यथा— शश्वत्, आपत्, नृपत्, कूपत, कुवित्, सामि, साचि, द्राक्, स्त्राक्, ज्योक्, मनाक्, ईषद् इति।
३. क्रियारूपाणि यथा—नमः, स्वस्ति, स्वाहा, स्वधा, वषट्, वौषट्, श्रौषट्, हन्त, अच्छ, अवः, परिवः एव इति।
४. जातिरूपाणि यथा— कम्, शंयोः मयः, सायम्, प्रातः, अस्तम्, नक्तम्, दिवा, दोषा, ह्यः, श्वः’ इति।
५. संज्ञारूपाणि यथा— क्िवम्, सः, सोम्, स्वाहा, ह्राम्, ह्रीम्, ब्रूम्, दिङ्, ह्नेङ्, ऋङ्, दुङ् इति।
६. संबन्धिरूपाणि यथा— अन्तः, अन्तरा, ऊर्ध्वम्, बहिः, पारे, मध्ये, समया, निकषा, आरात्, विष्वक्, पुरः, पश्चात् इति।
असत्त्वगन्धिभेदेषु
१. क्रियापेक्षीणि यथा— द्वन्द्वम्, यथायथम्, मिथः, अन्योन्यम्, परस्परम्, इतरेतराम्, परोपराम्, उत्तराधरम्, अधरोत्तरमिति।
२. क्रियाद्रव्यापेक्षीणि यथा— साकम्, सार्धम्, सह, समम्, अमा, विना, ऋते, पृथक्, नाना, अपृथगिति।
३. क्रियाविशेषणानि यथा— अभीक्ष्णम्, मुहुः, पुनः, भूयः, युगपत्, अजस्त्रम्, अनिशम्, शनैः, उपांशु, मङ्क्षु, झटिति, प्राय इति।
४. क्रियाद्रव्यविशेषणानि यथा— अलम्, बलवत्, सुष्ठु, मृषा, वृथा, मिथ्या, मुधा, अद्धा, ऋधक्, उच्चैः, नीचैरिति।
५. क्रियाविशिष्टरूपाणि यथा— शश्वत्, सपदि, संप्रति, पुरा, असंप्रति, सनातनम्, साम्प्रतम्, जातु, बाढम्, फाण्टम्, स्वयम्, कामम् इति।
६. क्रियाद्रव्यविशिष्टरूपाणि यथा— आविः, प्रादुः, तिरस्, साक्षात्, अलम्, प्राध्वम्, सत्, असत्, धिक्, हिरुक्, तूष्णीम्, जोषम् इति।
(२. अव्ययप्रातिपदिकेषु निपाताः)
जात्यादिप्रवृत्तिनिमित्तानुपग्राहित्वेन असत्त्वभूतार्थाभिधायिनोऽलिङ्गसंख्याशक्तय उच्चावचेष्वर्थेषु निपतन्तीत्यव्ययविशेषा एव चादयो निपाताः। यदाह—‘चादयोऽसत्त्वे’ (१.४.५७) इति।
ते (निपाताः) खलु १. विध्यर्याः, २. अर्थवादार्थाः, ३. अनुवादार्थाः, ४. निषेधार्था. ५. विधिनिषेधार्थाः, ६. अविधिनिषेधार्थाश्चेति षोढा संभवन्ति। तेषु—
१. (विधिः) १. मङ्गलम्, २. अधिकारः, ३. संभ्रमः, ४. नियोगः, ५. समुच्चयः, ६. विकल्प इति विधिः।
२. (अर्थवादः) १. कुत्सा, २. प्रशंसा, ३. विषादः, ४. हर्षः, ५. ईर्ष्या, ६. विस्मय, इत्यर्थवादः।
३. (अनुवादः) १. स्मरणम्, २. उपमा, ३. अभ्युपगमः, ४. अनुप्रश्नः, ५. परकृतिः, ६. पुराकल्प इत्यनुवादः।
४. (निषेधः) १. प्रतिषेधः, २. निवारणम्, ३. अपाकरणम्, ४. असूया, ५. गर्हणा, ६. विनिग्रह इति निषेधः।
५. (विधिनिषेधः) १. संबोधनम्, २. अनुकम्पा, ३. वितर्कः, ४. प्रश्नः, ५. पक्षान्तरम्, ६. हेत्वपदेश इति विधिनिषेधः।
६. (अविधिनिषेधः) १. पदपूरणम्, २. पादपूरणम्, ३. वाक्यपूरणम्, ४. अलङ्कारपूरणम्, ५. वाक्यालङ्कारः, ६. पदसंस्कार इत्यविधिनिषेधः।
तेषु —
(१. विध्यर्था निपाताः)
(१.१ मङ्गलार्थाः) ओम्, अथ, स्वस्ति, दिष्ट्या, नह, स्म, शश्वत्, कच्चिदिति मङ्गलार्था। यथा —
‘ओम् अग्निमीडे पुरोहितम्’ (ऋवे. १.१.१),
‘अथातो ब्रह्मजिज्ञासा’ (ब्रसू. १.१.१),
स्वस्ति नो मिमीतामश्विना भगः’ (ऋवे. ५.५१.११),
दिष्ट्या वर्धसे,
नह भोक्ष्यसे भोगन्, (काशिका ८.१.३१)
ऊर्ध्वं मुहूर्त्तात् कटं करोतु स्म भवान्, (काशिका ३.३.१६५)
शश्वदध्येष्यामहे, (सक. १.१.११८)
कच्चिदध्येष्यामहे। (सक. १.१.११८)
(१.२ अधिकारार्थाः) अथ, अथो, यावत्, तावत्, अनु, पुनः, पश्चाद्, भूय इत्यधिकारार्थाः। यथा—
अथ शब्दानुशासनम्, (मभा. १.१.१)।
अथो त्वमेष्यसि,
यावत् संभवस्तावद् विधिः,
मुनिः कणादमन्वतः, (पाभा.)
पुनः प्रभातं पुनरेव शर्वरी,
पश्चादावां विरहगुणितम्, (मेघ. १०८)
भूयश्चाह त्वमसि शयने, (मेघ. १०९)
(१.३ संभ्रमार्थकाः) यावत्, तावत्, ननु, पुरा, अङ्ग, हि, हन्त, सीम् इति संभ्रमार्थाः।
यथा—‘यावत् स समयः सममेव तावत्’ (काशिका ८.१.४२)।
‘ननु गच्छामि भोः’ (काशिका ८.१.४२)
‘अधीष्व माणवक! पुरा विद्योतते विद्युत्’, (काशिका ८.१.४२)
‘अङ्ग पच, न हि पच’, (काशिका ८.१.३४)
‘हन्त प्रशाधि’, (काशिका ८.१.३४)
‘प्र सीमादित्योऽसृजत्, प्रासृजत् सर्वत्र आदित्य’ इत्यर्थः। (ऋवे.२.२८.४)
(१.४ नियोगार्थकाः) परम्, वै, वाव, एव, ह, अह, तु, उ इति नियोगार्थाः। यथा— धर्म्मः सखा परमहो परलोकयाने,
वेदो वै धर्म्ममूलम्,
द्वे वाव ब्रह्मणो रूपे, (बृप. ३.२.१)
आत्मैवेदमग्र आसीत्, (बृप. १.४.१)।
स होवाच, (काशिका ८.१.६१)।
त्वमह ग्रामं गच्छ, (काशिका ८.१.५६)।
आख्यास्यामि तु ते, (काशिका ८.१.५६)।
सत्यमु ते वदन्ति, (१.५.३)।
(१.५ समुच्चयार्थकाः)
च, वा, आ, अपि, उत, अथ, अथो, तथा इति समुच्चयार्थाः।
यथा—‘अहं च त्वं च वृत्रहन्’, (ऋवे. ८.६२.११)
‘वायुर्वा त्वा, मनुर्वा त्वा’, (१.७.७.२)
‘देवेभ्यश्च पितृभ्य आ’, (ऋवे. १०.१६.११)
‘दन्तैरपि नखैरपि’, (तैब्रा. ३.६.६)
‘दैव्याः शमितार उत मनुष्याः’, (तैब्रा. ३.६.६)
‘देवानथ पितॄन् स्तुहि’,
‘अथो खल्वाहुः’,
‘हारीतोऽत्रिरहं तथा’ इति।
(१.६. विकल्पार्थकाः)—
वा, अथ, अथो, यदि, चण्, चेत्, नेत्, मा इति विकल्पार्थाः
यथा—‘राज्यं वा कर्त्तव्यं भाष्यं वा श्रोतव्यम्’,
‘ऋतौ व्यवेयादथाऽनृतौ पर्ववर्जम्’,
‘नदीषु स्नायादथो देवखाते’,
‘यदि शमः किं तपसा’,
‘त्वं च गन्ता किमत्र मे’,
‘उपाध्यायश्चेदागच्छेद् आशंसे युक्तोऽधीयीय’, (मभा. ३.३.१३३)
‘नेज्जिह्मयन्त्यो नरकं पताम’, (निरुक्तम् १.११.१)
मा कदाचिदिदमापि स्यात्’ इति। एवमन्येऽपि प्रयोगाऽनुसारतो द्रष्टव्याः।
एते च विधेरन्यत्रापि वेदितव्या इति ॥
(२. अर्थवादार्था निपाताः) अर्थवादे—
(२.१ कुत्सार्थाः) हा, धिक्, चित्, नाम, किम्, ह, अपि, जात्विति कुत्सार्थाः।
यथा— हा किमेवं प्रवर्त्तसे, धिक् प्रमादः, (मवीच. ५.४६, ४७)
कुल्माषाँश्चिदाहर, (निरुक्तम् १.४.१२)
को नामायं सवितुरुदयो यत्र न स्वे स्फुरन्ति,
किमधीते देवदत्तः, (काशिका १.४.९६)
त्वं ह ब्राह्मणोऽसि, (काशिका ८.१.३९)
अपि सिञ्चेत् पलाण्डुम्, (काशिका ८.१.४०)
तत्र जातु गमिष्यसि, (काशिका ८.१.३७) इति।
(२.२ प्रशंसार्थाः)
तु, पश्य, पश्यत, अह, अहो, यथा, यावत्, चिद् इति प्रशंसार्थाः।
यथा यस्तु माणवको भुङ्क्ते,
पश्य माणवको भुङ्क्ते, (काशिका १.४.९६)
पश्यत माणवको भुङ्क्ते, (काशिका ८.१.३९)
अह माणवको भुङ्क्ते, (काशिका ८.१.४०)
अहो देवदत्तः पचति शोभनम्, (काशिका ८.१.३७)
यथा पचति शोभनम्,
यावत् करोति चारु,
आचार्यश्चिदिदं ब्रूयात् इति (निरुक्तम् १.४.१२)
(२.३ विषादार्थकाः)
ही, ई, हा, हन्त, बत, नाम, भोः, कष्टमिति विषादार्थाः।
यथा—ही महीशो दृश्यते,
ई ईदृशः संसारः, (गर. १.९ तिलकः)
हा प्रिये जानकि!, (उराच. ३.९)
निराश्रया हन्त हता मनस्विता, (किराता. १.४३)
अहो बत महत् कष्टम्, (मभार. वन. २.६४, गीता—१)
क्व नाम गमिष्यसि,
भोः श्रान्तोऽसि,
कष्टं भोः कष्टम्, (मवीच. ३.४१, मामा. ९.२०) इति।
(२.४ हर्षार्थाः)
दिष्ट्या, हन्त, बत, बट्, बाट्, कत्, कथम्, कच्चिदिति हर्षार्थाः।
यथा— दिष्ट्या न मृतोऽसि सखे!,
हन्त जीविताः स्मः,
सैवेयं बत मे प्रिया,
बड् महान् असि सूर्य, (ऋवे. ८.१०१.१२)
बाट् ताभ्यः स्वाहा, (शुय. १८.४०)
कद् रुद्राय प्रचेतसे, (ऋवे. १.४३.१)
कथं वत्सो मे रामभद्रः,
कच्चिज्जीवति पार्वती इति (काशिका ८.१.६०, ६१, १०६)
(२.५ ईर्ष्यार्थाः)
ह, अह, प्रत्युत, परम, किन्तु ‘अपि नाम’ ‘यदिनामे’—तीर्ष्यार्थाः।
यथा— स्वयं हौदनं भुङ्क्ते ३,
उपाध्यायं सक्तून् पाययति,
स्वयमह स्थेन याति ३,
उपाध्यायं पदातिं गमयति,
प्रत्युत मामुपालभसे,
देवो भवान् परं भृङ्गिरिटिः,
विद्वानसि किन्तु कितवः,
मातर्यपि मृतायां दीव्यसि,
भवतु नाम कामचारी तथाप्यसौ पतिरेव,
असि तपस्वी यदि नाम मू्र्खः इति।
(२.६ विस्मयार्थाः) ही, अहो, अहह, चन, नाम, पश्य, पश्यत, बतेति विस्मयार्थाः।
यथा— हतविधिललितानां ही विचित्रो विपाकः, (माघ. ११.६४)
अहो रूपमस्याः, (सक. (अलं) २)
अहह माहात्म्यं महीपतेः,
याचिता नैव कुप्यन्ति पुरुषाः केचनैव ते,
अन्धो नाम पर्वतमारोक्ष्यति,
पश्य माणवको ब्रूते,
पश्यताकाशेन याति,
कोऽयं बत दृश्यते इति।
एवमन्येऽपि यथा प्रयोगमनुसर्त्तव्याः।
एते चार्थवादादन्यत्रापि वेदितव्या इति ॥
(३. अनुवादार्था निपाताः)
(३.१. स्मरणार्थाः)
आम्, आः, अये, नाम, नूनम्, हुम्, ओमिति स्मरणार्थाः।
यथा— आम्, सैषा पञ्चवटी,
आः, स तस्याः संलापः,
आ ज्ञातं स जटायुरेषः, (उदात्तराघवे २.३१)
अये देवो दाशरथिः,
स नामाऽयं भविष्यति,
नूनमेषा जानकी,
हुं मअरंदो, (मामा. ७.१)
ओमेवमेतत् इति।
(३.२ उपमानार्थाः)
इव, वा, यथा, चित्, न, नकिः, नु प्रति इत्युपमानार्थाः।
यथा— राजेव ब्रूयात्,
मणीवोष्ट्रस्य लम्बेते, (मभार. १७१.१२)
ज्येष्ठो भ्राता यथा पिता,
अग्निश्चिद् भायात्,
मृगो न भीमो कुचरो गिरिष्ठाः, (ऋवे, १.१५४.२)
पावको नकिर्माणवकः,
वृक्षस्य नु ते पुरुहूतवयाः, (ऋवे. ६.२४.३ निरुक्त १.४१९)
अभिमन्युरर्जुनतः प्रति, (काशिका १.४.९२) इति।
(३.३ अभ्युपगमार्थाः)
ओम, तथा, आम्, नाम, अथकिम्, श्रत्, सत्यम्, वाढमित्यभ्युपगमार्थाः यथा— ओमिति होवाच,
स तथेति प्रतिज्ञाय, (कुसं. ६.३)
आम् यथा ब्रवीषि,
एवं नाम भवतु,
गमिष्यति भवान् ? अथकिम्,
श्रद्दधे यथाऽऽत्थ,
सत्यमसारः संसारः,
वाढमेषोऽस्मि कामन्दकी संवृत्तः (मामा. १ प्रस्तावना) इति।
(३.४ अनुप्रश्नार्थाः)
ननु, ही, नु,अपि, हुम्, न, किल, ननु, किल, एवम्, शश्वदित्यनुप्रश्नार्थाः।
यथा— अकार्षीः कटं देवदत्त? ननु करोमि भोः, (काशिका ३.२.१२०)
अकार्षँ ही ह्यः, (काशिका ८.२.९३)
कथं नु करिष्यामि, (निरुक्तम् १.४.१७)
अपि भवान् मकरन्दः? (मामा. ९.४१)
हुम् स एवास्मि, (निरुक्तम् १.५.७)
न किलैवम्, (निरुक्तम् १.५.७)
ननु किलैवम्, (निरुक्तम् १.५.७)
एवमेतत्? (निरुक्तम् १.५.११)
शश्वदेवम् इति। (निरुक्तम् १.५.११)
३.५. (परकृत्यर्थाः)
इति, एवं किल, खलु, ननु, स्म, अपि, नाम इति परकृत्यर्थाः।
यथा— नित्यः शब्द इति मीमांसकाः, अनित्य एवेति तार्किकाः,
एवं किलोपाध्यायः पठति, (काशिका ३.२.११९)
धन्याः खलु धर्ममाचरन्ति,
नन्वेतदकार्षीत् सर्वोऽपि,
इति स्मोपाध्यायः कथयति,
सोऽपि जानात्येव,
को नाम न मन्यत इति।
३.६. (पुराकल्पार्थाः)
पुरा, शश्वत्, इति ह, इति किल, इति स्म, इति हस्म, यत्किल शश्वत्किल इति पुराकल्पार्थाः।
यथा— नलेन स्म पुराधीयते, (काशिका ३.२.११८,१२२)
एवं शश्वदिति, (काशिका ३.२.११६)
इति ह चकार,
इति किल श्रूयते पुराणेषु,
इति स्म ब्रह्मवादिनः पूर्वे वदन्ति,
इति ह स्म तत्रभवान् भागुरायणः,
एवमिह गुरुभ्यः श्रूयते,
यत् किलेह तरुषण्डे पाण्डवा ऊषुः,
शश्वत् किलेदमित्थं बभूव,
एवमन्येऽपि यथा प्रयोगमनुसर्त्तव्याः,
एते चाऽनुवादतोऽन्यत्रापि वेदितव्या इति।
(४. निषेधार्था निपाताः)
(४.१ प्रतिषेधार्थकाः)
न, नञ्, अ, अन, नो, नकिर्, किं, न हि इति प्रतिषेधार्थाः।
यथा— युगपन्न एकधर्माणाम्,
नेन्द्रं देवममंसत, (ऋवे. ८.३.४)
शश्वत् त्वम् अब्राह्मण इव भाषसे,
अनोपमा ते बुद्धिः,
तस्य तुल्योऽपि नो भवान्,
न किर्ग्रामं गमिष्यसि,
किं गतेन करिष्यसि, न हि प्रेमा निमित्ते सति इति।
(४.२. निवारणार्थकाः)
मा, माङ्, मा स्म, माकिर्, अलम्, खलु कृतम्, पर्याप्तम् इति निवारणार्थाः।
यथा— मा करिष्यसि,
मा कार्षीः, (निरुक्तम् १.५.८)
मा स्म करोः,
माकिर्नेशन्माकीं रिषत्, (ऋवे. ६.५४.७)
अलं कृत्वा,
खलु कृत्वा,
कृतं साहसेन,
पर्याप्तं भयेन इति।
(४.३ अपाकरणार्थाः)
आः, ई, ओम्, हुम्, फट्, धिक्, खर्, अरे इत्यपाकरणार्थाः ॥
यथा— आः पाप! प्रतिहतोऽसि,
ई इतो निष्पत,
ओम् किमेवं वदसि,
हुं णिल्लज्ज ओसर,
फट् अपख्याकरोऽसि,
धिक् त्वा जाल्म,
खर् दुष्टे पिशाचि,
अरे दुरात्मन् इति।
(४.४ असूयार्थाः)
अङ्गः, हि, अहो, हुं, हे, हये, आरे, अररे इत्यसूयार्थाः।
यथा— अङ्ग! कूज—३ इदानीं ज्ञास्यसि जाल्म,
स हि व्याहरतु कथं हि व्याकरिष्यति, (निरुक्तम् १.५.५)
वृषलग्राममहो गमिष्यसि,
हुं गमिष्यामि ग्रामम्,
हे देवदत्त!, (काशिका ८.२.८५)
हये जाये मनसा तिष्ठ घोरे, (ऋवे. १०.१५.१)
आरे नाहमुन्मत्तः,
अररे महाराजं प्रति कुतः क्षत्त्रियाः इति। (उराच. ४.२७/२८)
(४.५ गर्हणार्थाः)
कथम्, यत्, यदि, यदा, जातु, अपि, यच्च, यत्रेति गर्हणार्थाः।
यथा— कथं नामाऽत्रभवान् वृषलं याजयेत्,
यत् तत्रभवान् वृषलं याजयेत्,
यदि तत्रभवान् वृषलं याजयेत्,
यदा तत्रभवान् वृषलं याजयेत्,
जातु तत्रभवान् वृषलं याजयेत्,
अपि तत्रभवान् वृषलं याजयेत्,
यच्च तत्रभवान् वृषलमयाजयिष्यत्,
यत्र तत्रभवान् वृषलमयाजयिष्य इति।
(४.६ विनिग्रहार्थाः)
ह, अह, तुवै, त्वै, वै, वाव, वरम्, ननु इति विनिग्रहार्थाः।
यथा— अयमिदं ह करिष्यति, (निरुक्तम् १.५.२)
अयमहेदं करोतु, (निरुक्तम् १.५.२)
अयं तुवै तत्र गन्ता,
अयं त्वै ते नियोगः,
बृहस्पतिर्वै देवानां पुरोहित आसीत्,
अयं वाव हस्त आसीत्, (काशिका ८.१.६४)
वरमद्यकपोतः श्वोमयूरात्, (कासू. १.२.२९)
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः (किराता.२) इति,
एवमन्येऽपि यथाप्रयोगमनुसर्त्तव्याः,
एते च निषेधतोऽन्यत्रापि द्रष्टव्या इति।
(५. विधिनिषेधार्था निपाताः)
(५.१ संबोधनार्थाः)
हे, है, अयि, अङ्ग, हो, अहो, हंहो, भोः इति संबोधनार्थाः।
यथा— हे देवदत्त,
है यज्ञदत्त, मभा. ८.२.८५)
अयि विष्णुमित्र,
अङ्ग माणवक,
हो अग्निहोत्रिन्,
अहो महाराज,
हं हो महाब्राह्मण,
भोः पान्थ! प्रवर्त्तस्व निवर्त्तस्व वा इति।
(५.२ अनुकम्पार्थाः)
‘अ, इ, उ, ए, ओ, आ, ई, ऊ’ इत्यनुकम्पार्थाः।
यथा— अ अवेहि,
इ इन्द्रं पश्य,
उ उत्तिष्ठ,
ए इत एहि,
ओ ओषति त्वां तरणिः,
आ आगतस्ते तातः,
ई ईक्षितोऽसि गच्छ,
ऊ ऊषरे बीजं वपसि इति।
(५.३ वितर्कार्थाः)
किम्, नु, नूनम्, आहो, उत, स्वित्, वा, इव इति वितर्कार्थाः।
यथा— किमयं स्थाणुः किं पुरुषः,
अहिर्नु रज्जुर्नु, (काशिका ८.२.९८)
न नूनमस्ति नो श्वः, (ऋवे. १.१७०.१, निरुक्तम् १.६.२)
स्थाणुरयमाहो पुरुषः,
धूमोऽयमुत कपोतः,
पद्ममेतन्मुखं स्विद् भाति,
हन्ताहं पृथिवीमिमां निदधानीह वेह वा, (ऋवे. १०.११९.९, निरुक्तम्. १.४.२३)
ताम्यतीव मे वत्सो मकरन्दः (मामा ३.१८) इति।
(५.४ प्रश्नार्थाः)
सत्यम्, किम्, हि, कच्चित्, एवम्, अपि, अथ, उत इति प्रश्नार्थाः। यथा—
सत्यं भोक्ष्यसे?, (काशिका ८.१.३२)
किं देवदत्तः पचति?,
कटं करिष्यसि हि?, (काशिका ८.२.९३)
कच्चिज्जीवति मे माता?, (काशिका ३.३.१५३)
एवमेतद् देवदत्त?,
अपि क्रियार्थं सुलभं समित्कुशम्, (कुसं. ५.३३)
देवोऽयमथ मानुषः,
उत दण्डः पतिष्यति? (काशिका ३.३.१५२) इति।
(५.५. पक्षान्तरार्थाः)
ननु, पुनः, हि, तु, तर्हि, यावत्, यावता, अथो, चिद् इति पक्षान्तरार्थाः।
यथा— नन्वरण्यमेतन्न गृहम्,
स पठति अयं शेते,
इदं हि करिष्यति,
यत् स रोदित्ययं तु हसति,
यद्येवं तर्हि गम्यते,
जानेऽन्योऽ(यम्) यावत् स एव,
जाने गतो भवान् यावताऽद्यापि न याति, (नायाति)
अथो शरस्तेन मदर्थमुज्झितः, (सक. पृ. ३३)
कश्—चिद् भुङ्क्ते, कश्—चिद् भोजयति, इति।
(५.६ हेत्वपदेशार्थाः)
हि, नु, अतः, इति, यत्, तत्, येन, तेने’ति हेत्वपदेशार्थाः।
यथा— इदं करिष्यति हि वत्सक एहि/इदं हि करिष्यति (सि वत्सक एहि)
किमिह नु धानकाः,
अतस्त्वामर्थयामि,
हस्तीति पलायते,
यदयं ददाति तत् सुभगः,
येन लभते तेन स्तौति इति,
एवमन्येऽपि यथाप्रयोगमनुसर्त्तव्याः,
एते च विधिनिषेधादन्यत्रापि वेदितव्या इति।
(६. अविधिनिषेधार्था निपाताः)
(६.१ पदपूरणार्थाः)
उ, उत, आहो, वै, हि, वा, खलु, स्विदिति पदपूरणार्थाः।
यथा— किमु, किमुत, उताहो, नवै, नहि, अथवा, नखलु, आहोस्विद् इति।
(६.२ पादपूरणार्थाः)
कम्, ईम्, सीम्, इत्, उ, तु, हि, च इति पादपूरणार्थाः।
यथा— शिशिरं जीवनाय कम्, (निरुक्त १.१०.१)
ए (आ+ई) मं सृजता सुते, (ऋवे. १.९.२, निरुक्तम् १.१०.२)
प्र सीमादित्यो ऋ सृजद् विधर्त्ता, (ऋवे.२.२८.४, निरुक्तम् १.७.३)
तमिद् (म् इ) द्वर्धन्तु नो गिरः, (ऋवे.८.९२.२१,निरुक्तम् १.१०.३)
अयम् उ ते समतसि, (ऋवे. १.३०.४; निरुक्त १.११.४)
देवः स तु, न मानुषः,
इन्दवो वामुशन्ति हि, (ऋवेः १.२.४)
विलोलदृष्टं हरिणाङ्गनासु च (कुसं. ५.१३) इति।
(६.३ वाक्यपूरणार्थाः)
एते च, अन्ये च, नूनम्, इव, एव इति खलु इत्यादयो वाक्यपूरणार्थाः।
यथा— वि सीम् अतः सुरुचो वेन आवः, (तैसं. ४.२.८.२ निरुक्त १.७.३)
नरं च नारायणमेव चेति,
नूनं सा ते प्रति वरं जरित्रे, (ऋवे. २.११.२१, निरुक्तम् १.७.१)
कथमिव एतद् भविष्यति,
एवा ह्येव एवा हीन्द्र, (तैआ. १.२०, काशिका ६.३.१३६)
अथो खल्वाहुः,
अभीषुणः सखीनाम्, (ऋवे.४.३१.३,काशिका६.३.१३४;
८.३.१०७, ८.४.२७)
आ एवं नु मन्यसे इति। (मभा. काशिका १.१.१४)
(६.४. अलङ्कारपूरणार्थाः)
भङ्गश्लेष—भाषाश्लेष—यमक—वक्रोक्ति—चित्र—अनुप्रास—पदावृत्ति—
प्रश्नोत्तर—प्रभृतयोऽलङ्काराः। तदर्थाः यथा—
(भङ्गश्लेषार्थाः)
न वार्यन्ते, न चार्यन्ते, न स्मार्यन्ते, न हसन्ति, न हीयन्ते न वैरायते इति भङ्गश्लेषे,
(भाषाश्लेषार्थाः)
स हि अहो रणे कत्थतेपि योनराया इति भाषाश्लेषे,
(यमकश्लोके)
योषितां गात्रं न खलूनं नखलूनमिति यमकश्लोके,
(वक्रोक्तौ)
शस्त्रं न खलु वोढव्यमिति वक्रोक्तौ,
(चित्रे)
ननु हो मथना राघो घोरा नाथ महो नु न’ इति चित्रे,
(अनुप्रासे)
‘स हि महीशो वर्त्तत’ इत्यनुप्रासे,
प्रासे प्रासोऽमुना रणे इति पदावृत्तौ,
का ननाद तिमिरादपि काली इति प्रश्नोश्नोत्तरे’ इति।
(६.५ वाक्यालङ्कारार्थाः)
आर्षिक, आर्षिपुत्रक, आर्षीक, वैदिकादि—वाक्यानामलङ्कार—हेतवो वाक्यालङ्कारार्थाः यथा—
अथो, खलु, त्वयि, तर्हि, ‘अथ खलु एतर्हि’, ‘अहो नु खलु भोः’,
‘इति ह स्म भगवान् पुनर्वसुरात्रेयः’,
न ह वै सशरीरस्य सतः प्रियाऽप्रिययोरपहतिरस्ति, (छाउ. ८.१२.१)
न वा अरे जायायै कामाय जाया प्रिया भवति, (बृउ. ४.५)
न वा उ एतन्म्रियसे न रिष्यसि इति। (ऋवे. १.१६२.२१)
(६.६ पदसंस्कारार्थाः)
पदसंस्कारस्तु द्विधा विधिनिषेधरूपाभ्याम्। तयोः —
१. प्लुतविधिः, २. द्विर्वचनविधिः, ३. लडादिविधिः, ४. पररूपादिविधिरिति विधिरूपः।
१. पररूपादिप्रतिषेधः, २. संहितादिप्रतिषेधः, ३. पदादेशादिप्रतिषेधः,
४. निघातप्रतिषेध इति निषेधरूपः। तत्र —
(६.६.१ विधिरूपः पदसंस्कारार्थाः)
(१. प्लुतविधिः)
है हे प्रयोगे हैहयोः,
ओमभ्यादाने,
ब्रूहि प्रेष्य श्रौषड् वौषडावहानामादेः (८.२.८५—८७—९१) इति
प्लुतविधिः।
यथा— देवदत्त है ३,
हे ३ देवदत्त,
ओम् ३ अग्निमीडे पुरोहितम्,
अग्निमा ३ वह, (तैब्रा. ३.५.३.२)
अस्तु श्रौ ३ षट्, (तैसं. १.६.११.१.२)
वौ ३ षट् इति।
(२. द्विर्वचनविधिः)
परेर्वर्जन (८.१.५),
प्रसमुपोदः पादपूरणे (८.१.६),
उपर्यध्यसः सामीप्ये (८.१.७) इति द्विर्वचनविधिः।
यथा— परि परि त्रिगर्त्तेभ्यो वृष्टो देवः, (काशिका ८.१.५)
प्र प्रायमग्निर्भरतस्य श्रृण्वे, (ऋवे. ७.८.४)
सं समिद्युवसे वृषन्, (ऋवे. १०.१९१.१)
उपोप मे परामृश, (ऋवे. १.१२६.७)
किं नो दुदु हर्षसे दातया उ, (ऋवे. ४.१.९)
उपर्युपरि ग्रामम्।
(३. लडादिविधिः)
यावत्पुरानिपातयोर्लट् (३.३.४),
जातुयदोर्लिङ् (३.३.१४७),
अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा (३.४.१८) इति लडादिविधिः।
यथा— यावद् भुङ्क्ते,
पुरा व्रजति,
जातु तत्रभवान् वृषलं याजयेत्,
अलं कृत्वा,
खलु कृत्वा इति।
(४. पररूपादिविधिः)
ओमाङोश्च (६.१.९५),
अव्यक्तानुकरणस्यात इतौ (६.१.९८),
आङ्माङोश्च (६.१.७४) इति पररूपादिविधिः।
यथा— अद्योम्, आद्योढा, अद्येव, झडिति, आच्छादयति, माच्छिददिति।
(६.६.२ निषेधरूपाः पदसंस्कारार्थाः)
(१. पररूपादिप्रतिषेधः)
एवे चानियोगे,
नाम्रेडितस्य,
न माङ्योगे (६.१.९४ वा. ९९;) इति पररूपादिप्रतिषेधः।
यथा— अद्यैव गच्छ,
इहैव तिष्ठ,
‘पटत् पटदि’—ति करोति
मा कार्षीत्,
मा स्म कार्षीत्,
मा स्म करोत् इति।
(२. संहितादिप्रतिषेधः)
निपात एकाजनाङ् (१.१.१४),
ओत् (१.१.१५),
संबुद्धौ शाकल्यास्येतावनार्षे (१.१.१६) इति संहिताप्रतिषेधः।
यथा— अ अवेहि,
इ इन्द्रं पश्य,
उ उत्तिष्ठ,
आ एवं नु मन्यसे,
अहो आश्चर्यम्,
भानो इति।
(३. पदादेशादिप्रतिषेधः)
न चवाहाहैवयुक्ते (७.१.२४),
नानोर्ज्ञः (१.३.५८),
समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) इति पदोदशादिप्रतिषेधः।
यथा— ग्रामो युष्माकं च ग्रामोऽस्माकं च
ग्रामो युष्माकमेव ग्रामोऽस्माकमेव
पुत्रमनुजिज्ञासति
अस्नात्वा भुङ्क्ते इति।
(४. निघातप्रतिषेधः)
निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् (८.१.३०),
चादिषु च (८.१.५८),
चवायोगे प्रथमा (८.१.५९) इति निघातप्रतिषेधः।
यथा— यद् देवदत्तः पचति,
यदि देवदत्तः पचति,
देवदत्तः पचति च खादति च
देवदत्तः पचति वा खादति वा,
गर्द्दभाँश्च कालयति वीणां च परिवादयति,
गर्द्दभान् वा कालयति वीणां वा परिवादयति इति ॥
(३. अव्ययप्रातिपदिकेषु गतिसंज्ञाः)
समासार्हा निपाता एव कतिपयेऽपि गतयः।
तद्यथा—(अष्टाध्यायीसूत्राणि)
प्रादयः १.४.५८ प्रपचति, पराकरोति
क्रियायोगे १.४.५९
गतिश्च १.४.६०
ऊर्यादिच्विडाचश्च १.४.६१ ऊरीकरोति
अनुकरणं चानितिपरम् १.४.६२ खाट्कृतम्, खाट्करोति
आदरानादरयोः सदसती १.४.६३ सत्कृत्य, सत्कृतम्, यत् सत्करोति, असत्कृतम्, यदसत्करोति
भूषणेऽलम् १.४.६४ अलङ्कृत्य, अलंकृतम्, यदलङ्करोति
अन्तरपरिग्रहे १.४.६५ अन्तर्हत्य, अन्तर्हतम्, यदन्तर्हन्ति
कणेमनसी श्रद्धाप्रतीघाते १.४.६६ कणेहत्य पयः पिबति, मनो हत्य पयः पिबति
पुरोऽव्ययम् १.४.६७ पुरस्कृत्य, पुरस्कृतम्, यत्पुरस्करोति
अस्तं च १.४.६८ अस्तङ्गत्य सविता पुनरुदेति, अस्तङ्गतानि धनानि, यदस्तङ्गच्छति
अच्छगत्यर्थवदेषु १.४.६९ अच्छगत्य, अच्छगतम्, यदच्छगच्छति, अच्छोद्य, अच्छोदितम्, यदच्छगच्छति
अदोऽनुपदेशे १.४.७० अदःकृत्य, अदः कृतम्, यददःकरोति। उपेदशो मध्यमा वाक्
तिरोऽन्तर्धौ १.४.७१ तिरोभूय, तिरोभूतम्, यत् तिरोभवति तिरः
विभाषाकृञि १.४.७२ तिरःकृत्य, तिरस्कृत्य, तिरस्कृतम्, यत्तिरस्करोति, तिरस्कृत्वा, तिरःकृत्वा
उपाजेऽन्वाजे १.४.७३ उपाजेकृत्य/कृत्वा, अन्वाजेकृत्य/कृत्वा
साक्षात्प्रभृतीनि च १.४.७४ साक्षात्कृत्य, साक्षात्कृत्वा, मिथ्याकृत्य, मिथ्याकृत्वा (२१—शब्दाः)
अनत्याधान उरसिमनसी १.४.७५ उरसिकृत्य, उरसिकृत्वा, मनसिकृत्य, मनसिकृत्वा
मध्ये पदे निवचने च १.४.७६ मध्येकृत्य, मध्येकृत्वा, पदेकृत्य, पदेकृत्वा, निवचनेकृत्य/कृत्वा
नित्यं हस्तेपाणावुपयमने १.४.७७ हस्तेकृत्य, पाणौकृत्य। उपयमनं दारकर्म
प्राध्वं बन्धने १.४.७८ प्राध्वंकृत्य
जीविकोपनिषदावौपम्ये १.४.७९ जीविकाकृत्य, उपनिषत्कृत्य, उपनिषत्कृतम्
ते प्राग्धातेः १.४.८० (ते उपसर्गाः)
छन्दसि परेऽपि १.४.८१ याति नि हस्तिना, नियाति हस्तिना, हन्ति नि मुष्टिना, मुष्टिना निहन्ति
व्यवहिताश्च १.४.८२ आमन्द्रैरिन्द्र! हरिभिर्याहि। आयाहि।
(४. अव्ययप्रातिपदिकेषु उपसर्गाः)
गतिविशेषा एव प्रादय उपसर्गाः।
प्र—पराऽप—समन्वव—निर्दुर्व्याङ्न्यधयोऽप्यतिसूदभयश्च।
प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र ॥ ३५ ॥
(न्यासे १.१.१४)
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ॥ ३६ ॥
(६.२.३७) हितादिषु समो म्लोपं पाठं चाऽत्र श्रदन्तरोः ॥ ३७ ॥
(न्यासे ३.३.१०६) एवमेते विंशतिर्वपिसश्रदन्तर्भिस्सह पञ्चविंशतिर्भवन्ति (व<अव, पि<अपि, स+श्रद्+अन्तर) (निरुक्तम् १.३.३—२२)
ते खलु (उपसर्गाः)— १. वाचकाः, २. द्योतकाः, ३. विशेषकाः, ४. सहाभिधायकाः, ५. कार्यार्थकाः, ६. निरर्थकाश्चेति षोढा हि विप्रथन्ते। तेषु —
(१. वाचका)
वाचका यथा ‘प्रगता ऋषभा अस्माद् वनात् प्रर्षभं वनम् (मभा. १.४.६०)
परागता असवोऽस्येति परासुः
अपगतो मन्युरस्य अपमन्युः
सङ्गतमक्षेण समक्षम् (काशिका ५.४.१०७)
अनुप्राप्तो नासिकामनुनासिकः,
अवक्रुष्टः कोकिलया अवकोकिलः (मभा. १.४.७९),
मक्षिकाणामभावो निर्मक्षिकम् (मभा. २.१.६),
ऋद्ध्यभावो यवनानां दुर्यवनम्,
विरुद्धः पक्षो विपक्षः,
आदाय युध्यते तिदिति आयुधम् (मभा. ३.३.५८),
अत्ययो वातस्य निवातम्,
अधिगतमक्षेण अध्यक्षम्,
अपिहितः शलः अपिशलः,
अतीतः श्वानमतिश्वो वराहः (काशिका ५.४.८६),
समृद्धिर्मद्राणां सुमद्रम् (काशिका २.१.६),
उद्भूतोऽत्यर्थमुत्तमः,
अभिलक्ष्यं मुखमस्याभिमुखः,
प्रतिनिधेयः कायः प्रतिकायः,
परिम्लानोऽध्ययनाय पर्यध्ययनः (काशिका १.४.७९),
उपेत्याधीयतेऽस्मादित्युपाध्यायः (मभा. ३.३.२०)।
एवम् अवगतवान् कोटम् अवकोटः,
अपिहितः कायतीति पिकः
संपन्नं ब्रह्म बाभ्रवाणां सब्रह्म (काशिका २.१.६),
श्रद्धीयत इति श्रद्धा (मभा १.४.५९),
अन्तर्धीयते (इति) अन्तर्धिः (मभा. १.४.६५),
(२. द्योतकाः)
द्योतका यथा— प्रतिष्ठते, पराक्रमते, अपकरोति, संक्रीडति, अनुकम्पते,
अवधत्ते, निर्विवेश, दुर्ललितः, व्याददाति, आह्वयते, निशमयति,
अधिकुरुष्व, अपिदधाति, अतिशेते, सुरभिः, उत्पादयति, अभिधत्ते,
प्रतीक्षते, परिणमते, उपायंस्त।
एवं वधत्ते, पिधत्ते श्रद्धत्ते, सहितः, अन्तर्दधाति इति ॥
(३. विशेषकाः)
विशेषकास्तु द्विधा प्रकृत्यर्थविशेषकाः, प्रत्ययार्थविशेषकाश्च। तेषु —
प्रकृत्यर्थविशेषका यथा—
प्रवर्धते, पलायते, अपवदते, संसरति, अनुमन्यते, अवलोकते, निष्कर्षति, दुर्भवति, विलोकते, आलोकते, निषीदति, अधिवसति, अपिनह्यति, अतिवर्त्तत, सुभवति, उद्भवति, अभ्येति, प्रतिपद्यते, परिगणयति, उपदधाति एवं ‘वतंसः पिनद्धवान् सततम् श्रद्धनः अन्तर्भवति।
प्रत्ययार्थविशेषका यथा—
मनस्वी, सुभवति, सुमनायते (३.१.१२), दुर्भवति, दुर्मनायते (३.१.१२) एवम् अतिमनायते। पुच्छमुदस्यति, उत्पुच्छयते, (३.१.२०) व्यस्यति, विपुच्छयते, पर्यस्यति, परिपुच्छयते, भाण्डं समारचयति संभाण्डयते, चीवरं सञ्चिनोति सञ्चीवरयते (३.१.२०), हस्तेनापक्षिपति अपहस्तयति, वर्मणा संनह्यति संवर्मयति, पाशेन संयच्छति संपाशयति, चूर्णैरवध्वंसयति अवचूर्णयति, तूलैरवकुष्णाति अवतूलयति, हस्तिनाऽतिक्रामति अतिहस्तयति, सेनयाभियाति अभिषेणयति, वीणयोपगायति उपवीणयति, वास्या परिच्छिनत्ति परिवासयति, श्लोकैरुपस्तौति उपश्लोकयति, लोमान्यनुमार्ष्टि अनुलोमयति, पाशान् विमोचयति विपाशयति, तूस्तानि विहन्ति वितूस्तयति, रूपं निरीक्षते निरूपयति वस्त्रं परिदधाति परिवस्त्रयति, पर्य्याणमुत्तानयति उत्पर्याणयति इति ॥
ननु एतेऽपि क्रियाविशेषाणां वाचकाः कस्मान्न भवन्ति ? यद्धि यत्प्रयोगादवगम्यते तत् तस्य वाच्यं भवति।
नैवम्, ‘भृशादिभ्यो भुव्यच्वेः’ (३.१.१२) इत्यादिभिर्भवत्याद्यर्थ एव प्रत्ययोत्पत्तेः।
मैवं वोचः, नाहं क्यङन्तं पृच्छामि।
किं तर्हि ?
ण्यन्तम्। तत्र ‘शब्दवैरकलहाऽभ्रकण्वमेघेभ्यः करणे’ (३.१.१७) इति वर्त्तते। ततश्च करोत्यर्थलक्षणे धात्वर्थसामान्ये णिङ्णिचोर्विधानात्, पुच्छस्योदसनं करोत्युत्पुच्छयते, सेनयाभियानं करोत्यभिषेणयति इति करोत्यर्थस्य प्रत्ययेन उदसनाभियानादेस्तूपसर्गेणाविधाने वाचकत्वमेषां भविष्यतीति।
उच्यते— नेह ‘करणे’ इत्यनेन सकलधात्वर्थानुयायिक्रियास्वमान्यं प्रतिनिर्दिश्यते, अपि त्वनवधारितात्मस्वरूपा उदसनाभियानादयः क्रियाविशेषा एव।
कथमिदं ज्ञायते इति चेत्,
आचार्यप्रवृत्तिर्ज्ञापयति—यदयं
(१) ‘मुण्ड—मिश्र—श्लक्ष्ण—लवणेभ्यः करणमात्रे प्रत्ययमुदाहरति। तद्यथा— मुण्डं करोति मुण्डयति, एवं मिश्रयति, श्लक्ष्णयति, लवणयति
(२) हलिकलिकृत तूस्तेभ्यो ग्रहणलक्षणे तद्विशेषे (प्रत्ययमुदाहरति)।
यथा— हलिमग्रहीत् अजहलत्, कलिमग्रहीद् अचकलत्, कृतं गृह्णाति कृतयति, त्वचं गृह्णाति त्वचयति,
(३) वर्णसत्यार्थवेदेभ्यस्तदाचष्टे (३.१.२५) इत्युपसर्गविशिष्टे धात्वर्थे।
यथा— वर्णमाचष्टे वर्णयति, सत्यमाचष्टे सत्यापयति, अर्थमाचष्टेऽ— र्थापयति, वेदमाचष्टे वेदापयति इति;
(४) व्रताद् भोजने तन्निवृत्तौ च। यथा पयो व्रतयति, वृषलान्नं व्रतयति—
अतोऽवमम्यते करण इत्यनेनाऽनवधारितविशेषो धात्वर्थः प्रत्ययाभिधेयतयाऽधिक्रियत’ इति।
एवं तर्हि ‘सविशेषणस्यैव क्रियाविशेषस्य प्रत्ययेनोक्तत्वाद् अभिषेणयत्यादिषु उपसर्गप्रयोगो न प्राप्नोति, यथा श्येन इवाचरति श्येनायत बाष्पमुद्वमति बाष्पायते, हस्तेन निरस्यति हस्तयते एवं पादयते’ इति
भवेदेतत् यत्रैक एव प्रत्ययार्थः। यथा— उपमानादाचारे (३.१.१०), ‘बाष्पोष्मभ्यामुद्वमने (३.१.१६), अङ्गान्निरसन इति।
इह तु बहवः प्रत्ययार्थाः। यथा— ‘पुच्छादुददसने व्यसने पर्यसने च’, ‘भाण्डात् समारचने विभजने च’, ‘चीबरादर्जने परिधाने च, मुण्डादिभ्यः ‘तत्करोति, तदाचष्टे, तेनातिक्रामति’ इत्यादाविति, तत्र उपात्तस्यापि क्रियाविशेषस्य प्रत्ययतो रूपसामान्यादनवधारणे तदवच्छेदायोपसर्गविशेषः प्रयुज्यते। यथा प्रत्ययार्थविशेषणपक्षे मनःशब्दादुत्पन्नेन क्यङैवोपसर्गार्थविशिष्टप्रत्ययाभिधाने ‘सुमनायते,’ ‘दुर्मनायते’, ‘अभिमनायत’ इति सुदुरभयः प्रयुज्यन्ते।
एवं तर्हि ‘हस्तिनातिक्रामत्यतिहस्तयती’—त्यादिवत् ‘श्वेताश्वमाचष्टे श्वेतयति’, ‘अश्वतरमाचष्टे अश्वयति’, ‘गालोडितमाचष्टे गालोडयति’ ‘आह्वरकमाचष्टे
आह्वरयति’ इत्यादावाङ्प्रयोगः प्राप्नोति।
नैवम्, अत्राडः सहाऽभिधायकत्वात्। न हि क्रामतीत्यादिवच् चष्टे इत्यस्यैकाकिनः स्वार्थाऽभिधाने सामर्थ्यमस्ति। अतो विशेषकत्वमेवैषाम्, न वाचकत्वमिति ॥
(४. सहाभिधायकाः)
अथ सहाभिधायकाः, यथा— प्रस्नुते, प्राणिति, प्रञ्चते, प्राप्नोति, संग्रामयते, संचष्टे, संरम्भते, संधुक्षयति, अनुरुध्यते, विक्लबते, विलोकते, विश्राणयति, आचष्टे, आशास्ते, आचामति, आतङ्कयति, निद्रायति, नियमयते, अधीते, अध्येति, अभिवादयते, परिष्वजते, उज्जासयति, उत्तंसयति’ इति।
(५. कार्यार्थाः)
कार्यार्थाः। यथा— ‘विजयते, पराजयते, न्यविक्षत, समगंस्त, अन्वकरोत्, पराकरोत्, विरराम्, उपरराम, उदसिष्यति, उदसिष्यते, अपस्किरते, प्रतिचस्कार, उपस्कुरुते, प्लायते, प्रार्षभीयति, निष्टपति, अभिषेणयति, विषहते, परिष्वजते, विष्णवति, प्रहिणोति, प्रणश्यति, परिणेष्यति, अन्तर्णयति’ (काशिका ८.३.६५)
(६. निरर्थकाः)
निरर्थकाः, यथा— प्रारभते, प्रलम्बते, प्रसूयते, प्रयच्छति, अपहरति, अपत्रपते, अपह्नुते, अभिषुणोति, निमीलति, निवार्यते, निष्ठीवति, निमज्जति, निखञ्जति, विगाहते, विराजते, विजानाति, विनश्यति, विकत्थते, विदीर्यते, आश्रयति, आश्लिष्यति, संयुज्यते, अध्यागच्छति, पर्यागच्छति इति ॥
(५. अव्ययप्रातिपदिकेषु कर्मप्रवचनीयाः —११)
प्रादय एव क्रियाविशेषोपजनितसंबन्धावच्छेदहेतवः कर्म्मप्रवचनीयाः। यदाह—
क्रियाविशेषजन्यानां संबन्धानां प्रकाशने।
कर्म्मप्रवचनीयाः स्युर्निमित्तमवधारिताः ॥ ३८ ॥ इति।
(संवादी चाऽत्र भर्तृहरिः वाक्यपदीये २.१९९, २.२०४ कारिकाभ्याम्)
किं पुनरमीषामवधारणम् ?
कर्मप्रवचनीयसंज्ञाधिकारे ‘अनुप्रभृतयः शब्दा एकादश, लक्षणादयोऽर्था द्वाविंशति। तद्यथा ‘अनुर्लक्षणे, तृतीयार्थे, हीने (१.४.८४—८६), लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः (१.४.९०), अभिरभागे (१.४.९१), प्रतिः प्रतिनिधिप्रतिदानयोः (१.४.९२), अधिपरी अनर्थकौ (१.४.९३), सुः पूजायाम् (१.४.९), अतिरतिक्रमणे (१.४.९), अपिः पदार्थसंभावनाऽन्ववसर्ग—गर्हा—समुच्चयेषु (१.४.९६), अधिरीश्वरे (१.४. ९७), विभाषा कृञि (१.४.९८)।
एवम् ‘अनु’, उप, अप, परि, आङ्, प्रति, अभि, अधि, सु, अति अपि’ इत्येकादश शब्दाः।
हेतु—१लक्षणम्, २सहार्थः, हीनता३, ४आधिक्यम्, ५वर्जनम्, ६मर्यादावचनम्, लक्षणम्७, इत्थम्भूताख्यानम्८, भागः९, वीप्सा१०, प्रतिनिधिः११, प्रतिदानम्१२, आनर्थक्यम्१३, पूजा१४, अतिक्रमणम्१५, पदार्थः१६, संभावना१७, अन्ववसर्गः१८, गर्हा१९, समुच्चयः२०, स्वाम्यम्२१, अधिकारः२२, इति द्वाविंशतिरर्थाः।
तत्राऽनुः सप्तार्थः, प्रतिपरी षडर्थौ, अपिः पञ्चार्थः, अध्यभी ञ्यर्थौ, उपाती द्वयर्थो, आङपसव एकार्थाः’ इति। तेषु—
(१. अनुः)
अनुः हेतु१—लक्षण२—सहार्थ३—हीनता४—५लक्षणेत्थंभूताख्यान—भाग६—वीप्सासु७ कर्मप्रवचनीयः। तद्योगे द्वितीया यथा— ‘शाकल्यस्य संहितामनुप्रावर्षत्’ पर्वतमन्ववसिता सेना, अनुशाकटायनं वैयाकरणाः, वृक्षमनु विद्योतते विद्युत्, साध/?/ /?/र्देवदत्तो मातरमनु, यदत्र मामनुस्यात्, वृक्षं वृक्षमनुतिष्ठति’ इति।
क्रियाया द्योतको नायं सम्बन्धस्य न वाचकः।
नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः।
तथाहि शाकल्यस्य संहितामनु प्रावर्षदिति संहिताप्रवर्षणयोर्हेतुफलभूतयो— र्लक्ष्यलक्षणभावो निशमयतिक्रियोपजनित इत्यनुना प्रकाश्यते ‘शाकल्यस्य संहितामनु निशम्य प्रावर्षत्’ इति। एवमन्यत्राऽप्यवगन्तव्यम्। इत्यनुः सप्तार्थः।
(२. प्रतिः)
लक्षणेत्थम्भूताख्यान—भाग—वीप्सा—प्रतिनिधि—प्रतिदानेषु प्रतिः। स चतुर्षु द्वितीयां, द्वयोः पञ्चमीमुत्पादयति। यथा— ‘वृक्षं प्रति विद्योतते, साधुर्देवदत्तो मातरं प्रति, यदत्र मां प्रति स्यात्, वृक्षं वृक्षं प्रति सेकः, अभिमन्युरर्जुनतः प्रति, माषानस्मै तिलेभ्यः प्रति प्रयच्छति।
(३. परिः)
लक्षणेत्थंभूताख्यानभागवीप्सावर्जनानर्थक्येषु परिः। सोऽपि चतुर्ष्षु द्वितीयां द्वयोः पञ्चमीमुत्पादयति। यथा—‘वृक्षं परि विद्योतते, साधुर्देवदत्तो मातरं परि, यदत्र मां परि स्यात्, वृक्षं वृक्षं परि सेकः, परि परि त्रिगर्त्तेभ्यो वृष्टो देवः, विश्वप्स्निया विश्वतस्परि इति प्रतिपरी षडर्थौ।
(४. अपिः)
१पदार्थ—संभावना२ऽन्ववसर्ग३—४गर्हा—५समुच्चयेष्वपिः। तस्यैतेषूपसर्गसंज्ञा बाध्यते।
(१. पदार्थः)
पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थः। सर्पिषोऽपि स्यात्, मधुनोऽपि स्यात्। मात्रा बिन्दुः स्तोकमित्यस्यार्थे अपिशब्दो वर्त्तते।
(२. संभावना)
अधिकार्थवचनेन शक्तेरप्रतिघाताविष्करणं संभावना।
‘अपि सिञ्चेन्मूलकसहस्त्रम्’, ‘अपि स्तुयाद् राजानम्’ इति।
(३. अन्ववसर्गः)
कामचारानुज्ञानमन्ववसर्गः। ‘अपि सिञ्च’, ‘अपि स्तुहि’ इति।
(४. निन्दा)
निन्दा गर्हा। अपि सिञ्चेत् पलाण्डुम्’, ‘अपि स्तुयाद् वृषलम्’ इति।
(५. समुच्चयः)
अनेकक्रियोपनिपातः समुच्चयः। ‘अपि सिञ्च’, ‘अपि स्तुहि’, सिञ्च च स्तुहि चेत्यर्थः। उपसर्गबाधनात् षत्वं न भवति। इत्यपिः पञ्चार्थः।
(५. अधिः)
अधिरानर्थक्याऽधिकारस्वाम्येषु कर्मप्रवचनीयः।
स आद्ययोः ‘गतिर्गतौ’ (८.१.७०), ‘तिङि नोदात्तवति (८.१.७१) इति गत्युपसर्गसंज्ञा— बाधनान् निघातादिकं नानुभवती’—ति। यथा— ‘कुतोऽध्यागच्छति, यदत्र मामधिकरिष्यति’ इति
स्वाम्ये तु द्विधा १. अधियोगे सप्तमी भवति कदाचित् स्वामिनः
२. कदाचित् स्वात्। यथा —
अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्तः’ (इति)।
(६. अभिः)
अभिर्लक्षणेत्थंभूताख्यानवीप्सासु द्वितीयामुत्पादयति।
यथा— वृक्षमभि विद्योतते, साधुर्देवदत्तो मातरमभि, वृक्षं वृक्षमभि सिञ्चति। इत्यध्यभी ञ्यर्थौ।
(७. उपः)
हीनाऽधिकार्थयोः उपः। तत्र यथासंख्यं द्वितीयासप्तम्यौ।
यथा— उपार्जुनं योद्धारः, उप खार्यां द्रोणः’ इति
(८. अतिः)
अतिः पूजायामतिक्रमणे च। तत्र पूजा स्तुतिः। निष्पन्नेऽपि फले क्रियाप्रवृत्तिरतिक्रमणम्। यथा— ‘शोभनं स्तुतम्’, अति स्तुतं भवता, अति सिक्तमेतद् भवता’ इति।
उपसर्गसंज्ञाबाधनात् षत्वं न भवति। इत्युपाती द्वयर्थौ।
(९. आङ्)
आङ् मर्यादावचने पञ्चमीमुत्पादयति—‘आ पाटलिपुत्राद् वृष्टो देवः।’
वचनग्रहणादभि— विधिरपि गृह्यते। तत्रापीदमेवोदाहरणम्।
(१०. अपः)
अपो वर्जने पञ्चमीमुत्पादयति। ‘अप त्रिगर्त्तेभ्यो वृष्टो देवः’।
(११. सुः)
सुः पूजायामुपसर्गसंज्ञांबाधते। ‘सुस्तुतं भवता’, ‘सुसिक्तं भवता’ इति षत्वं न भवती’ ति। इत्याङपसव एकार्था इति ॥
(६. अव्ययप्रतिपदिकेषु विभक्तिप्रतिरूपाणि)
अव्ययानि द्विधा —
सुबन्ततिङन्तानुकारीणि विभक्तिप्रतिरूपाणि चेति।
तानि प्रत्येकं षोढा। यथा— १. प्रकृत्यर्थानि, २. प्रत्ययार्थानि, ३. उभयार्थानि, ४. अनुभयार्थानि, ५. प्रकृत्यन्तरार्थानि, ६. प्रत्ययान्तरार्थानि चेति। तेषु —
(१) सुबन्तानुकारीणि विभक्तिप्रतिरूपाणि चेति —
प्रकृत्यर्थानि यथा— उच्चैः, नीचैः, चिराय, विहायसेति।
प्रत्ययार्थानि यथा— आरात्, अकस्मात्, एकपदे, प्रगे इति।
उभयार्थानि यथा— अहं शुभं पारे मध्ये इति।
अनुभयार्थानि यथा— ऋते दिष्ट्या साक्षात् अह्नाय इति।
प्रकृत्यन्तरार्थानि यथा— कृतं दिवा दोषा अन्तरेणेति।
प्रत्ययान्तरार्थानि यथा— सायं स्वयं चिरस्य परस्परस्येति।
(२) तिङन्तानुकारीणि (विभक्तिप्रतिरूपाणि) —
प्रकृत्यर्थानि यथा— ‘मन्ये शङ्के अये आम’ इति।
प्रत्ययार्थानि यथा— एहि अपेहि पश्य पश्यत’ इति।
उभयार्थानि यथा— ‘अस्ति, असि, अस्मि, ब्रूहि’ इति।
अनुभयार्थानि यथा— याति, नयाति, वर्त्तते नवर्त्तत इति।
प्रकृत्यन्तरार्थानि यथा— अस्तु, भवतु, पूर्यते, आस इति।
प्रत्ययान्तरार्थानि यथा— आह, स्यात्, ब्रूयात्, भूयात् इति।
(अव्ययभेदाः)
स्वरादिनिपातमव्ययम् (१.१.३७) इत्यव्ययप्रकरणे
१. कृन्मेजन्तः (१.१.३९) क्त्वातोसुन्कसुनः (१.१.४०)
२. तद्धितश्चासर्वविभक्तिः (१.१.३८)
३. अव्ययीभावश्च (१.१.४१) इति पठ्यते। तत्र —
(१)‘आम्, क्त्वा, ल्यप्, तुमुन्, णमु्ल्, खमुञ्’ इति कृतः षड् भाषायाम्।
ते तु कृतः ‘क्रियारूपाः, क्रियाफलरूपाः, क्रियाविशेषणरूपाः, क्रियावधिरूपाः, क्रियाकर्मरूपाः, क्रियावयवरूपाश्च’ भवन्ति। तेषु—
१. क्रियारूपा यथा— चकासाञ्चकार, कारयामास, बिभराम्बभूव, विदाङ्कुर्वन्तु, अलंकृत्वा, खलु कृत्वा, अलमालप्य, खल्वालप्य, अलं भोक्तुम्, ‘कालो भोक्तुम्, श्रोतुं श्रोत्रम्, द्रष्टुं चक्षुः’ इति।
२. क्रियाफलरूपा यथा— भोक्तुं व्रजति, पक्तुमपतिष्ठते, भोक्तुं भुङ्क्ते पक्तुं पचति, भोक्तुं ग्लायति, भोक्तुं घटते, भोक्तुं क्षमते, भोक्तुं सहते, भोक्तुमस्ति, भोक्तुं विद्यते, भोक्तुमीष्टे, भोक्तुं प्रभवति’ इति।
३. क्रियाविशेषणरूपा यथा— इत्थङ्कारम्, अन्यथाकारम्, यथाकारमृ, तथाकारम्, उच्चैःकारम्, नीचैःकारम्, तिर्यक्कारम्, मुखतःकारम्, नानाभावम्, द्विधाभावम्, तूष्णींभावम्, अन्वग्भावम्’ इति।
४. क्रियावधिरूपा यथा—
भुक्त्या व्रजति, अपमित्य याचते, अग्रेभोजं व्रजति, द्व्यहात्यासं गाः पाययति, द्व्यङ्गुलोत्कर्षं खण्डिकाश्छिनत्ति, शय्योत्थायं राजद्वारमेति, कन्यादर्शं वरयति, ब्राह्मणवेदं भोजयति, यावज्जीवमधीते, चर्मपूरं स्तृणाति, गोष्पदपूरं वृष्टो देवः, चेलक्नोपं वृष्टो देव’ इति।
५. क्रियाकर्मरूपा यथा—
शक्नोति भोक्तुम्, धृष्णोति भोक्तुम्, जानाति भोक्तुम्, आरभते भोक्तुम्, पारयति भोक्तुम्, प्रक्रमते भोक्तुम्, लभते भोक्तुम्, अर्हीत भोक्तुम्, इच्छति भोक्तुम्, कामयतेभोक्तुम्, एषितुमिच्छति, कमितुं कामयते’ इति।
६. क्रियावयवरूपा यथा—
मूलकोपदंशं भुङ्क्ते, दण्डोपघातं गाः कालयति, पार्श्वोपपीडं शेते, व्रजोपरोधं गाः सादयति, पाण्युपकर्षमुत्थापयति, केशग्राहं युध्यन्ते, भ्रूविक्षेपं जल्पति, गेहानुप्रवेशमास्ते, नामग्राहमाकारयति, चोरङ्कारमाक्रोशति, स्वादुङ्कारं भुङ्क्ते, स्वाद्वकृत्य भुङ्क्ते’ इति।
क्रियाकर्मावयवरूपाः खल्वपि संभवन्ति, यथा— स्वपोषं पुष्यति, आत्मपोषं पुष्णाति, गोपोषं पुष्यति, रैपोषं पुष्णाति, निमूलकाषं कषति, समूलकाषं कषति, समूलघातं हन्ति, पाणिघातं वेदिमाहन्ति, शुष्कपेषं पिनष्टि, चूर्णपेषं पिनष्टि, रूक्षपेशं पिनष्टि, उदपेषं पिनष्टि, अकृतकारं करोति, जीवग्राहं गृह्णाति, हस्तग्राहं गृह्णाति, हस्तवर्त्तं वर्त्तयति, चूडकनाशं नष्टः, सुवर्णनिधायं निहितः, ओदनपाकं पक्वः, क्रौञ्चबन्धं बद्धः, जीवनाशं नश्यति, पुरुषवाहं वहति, ऊर्ध्वशोषं शुष्कः, ऊध र्वपूरं पूर्ण’ इति।
शेषाश्छन्दसि चतुर्विंशतिर्भवन्ति। तद् यथा—
‘एश्, केन्, तवै, के, से, सेन्, असे, असेन्, क्स, कसेन्, अध्यै, अघ्यैन्, कध्यै, कध्यैन्, शध्यै, शध्यैन्, तवेङ्, तवेन्, कै, इष्यै, णमुल्, तोसुन्, कसुन्’ इति।
(१—२) एश्केनौ तेषु कृत्यार्थे एशकेनौ। एश् अवचक्षे, केन् नावगाहे।
(३) तवै कृत्यार्थे तुमर्थे च।
कृत्यार्थे परिधातवै, परिस्तरितवै।
तुमर्थे सोममिन्द्रपातवै, अन्वेतवै।
(४—२०) (के — इष्यै) कया(के आ)दयः सप्तदश तुमर्थे। तेषु—
(१) के दृशे विश्वाय सूर्यम्, विख्ये त्वा हरामि, (२) से वक्षे रायः, (३) सेन् ता वामेषे रथानाम्, (४) असे क्रत्वे दक्षाय जीवसे। (५) असेन् इह क्षयाय जीवसे, (६) क्सेप्रेषे भगाय, श्रियसे, (७) कसेनप्येवंरूपः, स्वरे विशेषः, (८) अध्यैकाममुपाचरध्यै, (९) अध्यैनप्येवंरूपः, स्वरे विशेषः, (१०) कध्यै इन्द्राग्नी आहुवध्यै, (११) कध्यैन्—श्रियध्यै, (१२) शध्यै पिबध्यै, (१३)शध्यैन् सह मादयध यै, (१४) तवेङ् दशमे मासि सूतवे, (१५) तवेन् सोममिन्द्राय पातवे सुवर्देवेणु गन्तवे, कर्त्तवे, हर्त्तवे, (१६) कै प्रयै देवेभ्यः, (१७) इष्यै अपामोषधीनां रोहिष्यै, अव्यथिष्यै रोहणाय चाऽव्यथनाय चेत्यर्थः।
(२१) तुमर्थ एव ‘शकि णमुल्कमुलौ’ (३.४.१२) अग्निं देवा विभाजं नाशक्नुवन् अपलुपं नाशक्नुवन्।
(२२—२३) ईश्वरे तोसुन्कसुनौ (३.४.१३)— ईश्वरोऽभिचरितोः, ईश्वरो विलिखः, ईश्वरो वितृदः। तोसुन्कसुनौ भावलक्षणे च।
तत्र ‘स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् (३.४.१६), सृपितृदोः कसुन्’ (४.३.१७)। यथा— आसंस्थातोर्वेद्यां सीदन्ति, पुरा सूर्यस्योदेतोराधेयः, पुरा वत्सानामपाकर्त्तो, पुरा प्रवदितोरग्नौ होतव्यम्, पुरा प्रचरितोराग्नीध्रे होतव्यम्, आहोतोरप्रमत्तस्तिष्ठति, आतमितोरुपतिष्ठन्ते, आविजनितोः संभवाम, पुरा क्रूरस्य विसृपः, पुरा जत्रुभ्य आतृदः।
(२) तद्धितेष्वसर्वविभक्तिषु (पा. १.१.३८ मभा., ५.३.१४६, ७.२.१०४, १०५, ५. ४.४२, ४३, ४४, १.३.३८) तसिलादयः प्राक् पाशपः, शस्प्रभृतयः प्राक् समासान्तेभ्यः, मान्तः, कृत्वोऽर्थाः, तसिवती, नानाञौ इति।
यथा — यतः, तत्र, इह, क्व, एकदा, एतर्हि, अधुना, इदानीम्, सद्यः, परुत्, परारि, ऐषमः, अद्य, परेद्यवि, पूर्वेद्युः, उभयेद्युः, सर्वथा, इत्थम्, पुरस्तात्, प्राक्, अधः, उपरि, उपरिष्टात्, पुरः, पश्चात्, दक्षिणात्, दक्षिणा, दक्षिणाहि, दक्षिणेन, दक्षिणतः, द्विधा, द्वेधा, द्वैधम्, एकध्यम्, बहुशो देहि, वासुदेवतः प्रति, शुक्लीभवति, अग्निसात् संपद्यते, देवत्रागच्छति पटपटाकरोति, पचतितराम्, बहुकृत्वो भुङ्क्ते, द्विर्भुङ्क्ते, सकृद् भुङ्क्ते, बहुधा भुङ्क्ते, आदितो भवति, ब्राह्मणवद् ब्रवीति, विना देवदत्तम्, नाना देवदत्तात्। (४९)
(३) अव्ययीभावो द्विधा (१) सत्त्वभूतार्थः,
(२) असत्त्वभूतार्थश्चे—ति। तयोः —
सत्त्वभूतार्थो यथा— उपकुम्भम्, सुमद्रम्, दुर्यवनम्, निर्मक्षिकम्, निःशीतम्, सब्रह्म, बहिर्ग्रामम्, सूपप्रति, मध्येसमुद्रम्, द्विमुनि, पञ्चनदम्, लोहितगङ्गम्’ इति।
असत्त्वभूतार्थो यथा— अधिस्त्रि, प्रत्युरसम्, अनुरथम्, प्रत्यर्थम्, यथाशक्ति, सचक्रम्, यावदमत्रम्, परित्रिगर्त्तम्, आपाटलिपुत्रम्, अभ्यग्नि, द्विपरि, ‘अनुगङ्गं वारणसी’ ति।
(३. अनुकरणप्रातिपादिकम् —६)
शब्दस्य ताद्रूप्येणाभिधानमनुकरणम्।
यदाह—व्यक्ताऽव्यक्त—वर्ण—पद—वाक्य— सादृश्योक्तयोऽनुकरणानि। तत्र —
१. व्यक्तवर्णसादृश्योक्तिर्यथा— (सक. २)
छिन्नेन पतता वह्नौ यन्मुखेन हठात्कृते।
स्वेति हेति हरेणोक्तेः स्वाहासीत् सैव रावणः ॥ ३९ ॥
२. व्यक्तपदसादृश्योक्तिर्यथा— (काद. २.१४७)
गच्छेति वक्तुमिच्छामि मत्प्रिय! त्वत्प्रियैषिणी।
निर्गच्छति मुखाद् वाणी मा गा इति करोमि किम् ॥ ४० ॥
३. व्यक्तवाक्यसादृश्योक्तिर्यथा— (उराच. १)
त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण ॥ ४१ ॥
४. अव्यक्तवर्णसादृश्योक्तिर्यथा
गतेऽर्धरात्रे परिमन्दमन्दं गर्जन्ति यत् प्रावृषि कालमेघाः।
अपश्यती वत्समिवेन्दुबिम्बं तच्छर्वरी गौरिव हुङ्करोति ॥ ४२ ॥
५. अव्यक्तपदसादृश्योक्तिर्यथा—
चटच्चटिति चर्मणि च्चिमिति चोच्चलच्छोणिते धगद्धगितिमेदसि स्फुटरवोऽस्थिषु ष्ठागिति।
पुनातु भवतो हरेरमरवैरिराजोरसि क्वणत्करजपञ्जरक्रकचकाषजन्मानलः ॥ ४३ ॥
६. अव्यक्तवाक्यसादृश्योक्तिर्यथा—
पिपिप्रिय ससस्वयं मुमुमुखासवं देहि मे ततत्यज दुदुद्रुतं भभभाजनं काञ्चनम्।
इति स्खलितजल्पितं मदवशात् कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्यैयत ॥ ४४ ॥
एतेन यानि साधून्यर्थवन्ति पदानि, यानि च वाक्यानि, यच्चाशक्तिजम् असाधु शब्दरूपम्, ये चापभ्रंशाः, ये चानर्थका वर्णाः, याश्चाव्यक्तवर्ण— पदवाक्योक्तयः, तदनुकरणानां साधुत्वमुपपत्रं भवति, न प्रतिषिद्धस्य, यो ह्येवमसौ ब्राह्मणं हन्तीति तस्यानुकुर्वन् ब्राह्मणं हन्यात् सोऽपि मन्ये पतितः स्यात्।
नैवम्,
यश्च ब्राह्मणं हन्ति, यश्चानुहन्ति, उभौ तौ हतः, यस्तु खल्वेवमसौ ब्राह्मणं हन्तीति तस्याऽनुकुर्वन् कदलीस्तम्भं छिन्द्यान्न स मन्ये पतितः स्यादिति। न चानुकरणमपशब्दः। अन्यो ह्यसावपशब्दपदार्थकः साधुशब्दः, न चापशब्दपदार्थकः शब्दोऽपशब्दो भवति, अपशब्द इत्येतस्याप्यपशब्दत्वप्रसङ्गात्। यः पुनरेवमसावपशब्दं प्रयुङ्क्ते इति तस्यानुकुर्वन्नपशब्दमभिधेयेषु प्रयुङ्क्ते सोऽपशब्दकार्येव भवतीति।
(४. कृत्प्रातिपदिकम् —६)
भावकारकाभिधायिनो धातुप्रत्ययाः कृतः।
ते षोढा— १. लिङ्गिनः २. अन्यलिङ्गिनः ३. स्वलिङ्गिनः ४. अलिङ्गिनः ५. शक्त्याद्यपेक्षिणः ६. अनुप्रयोगाद्यपेक्षिणश्च। तेषु —
१. द्रव्यवचना अणादयो लिङ्गिनः। यथा— कुम्भकारः, पङ्कजम्, धात्री, दात्रम्, कारुः, कृकवाकुः इति।
२. गुणवचना ण्वुलादयोऽन्यलिङ्गिनः। यथा— कारकः, कारिका, कारकम्, दर्शनीयः दर्शनीया, दर्शनीयम् इति।
३. उत्पत्तावपेक्षितनियतलिङ्गाः ‘स्त्रियां क्तिन् (३.३.९४) इत्येवमादयः स्वलिङ्गिनः। यथा— पक्तिः पचनम्, पाकः, व्रजः, शय्या, सुप्तम्, इति।
४. असत्त्वभूतार्थत्वेनानुपगृहीत—लिङ्ग—संख्या—शक्तय—स्तुमुनादयोऽलिङ्गिनः। यथा— कालो भोक्तुम्, अलं कृत्वा, खलु प्रहृत्य, नावगाहे, ईश्वरोऽभिचरितोः, ईश्वरो विलिखः इति।
५. शक्तिहेतुमल्लक्ष्यक्रियाद्यपेक्षाः शत्रादयः शक्त्यापेक्षिणः। यथा— व्रजता कृतम्, क्रियमाणं पश्य, आवर्जयन् वसति, चङ्क्रम्यमाणोऽधीते, पक्ष्यन् व्रजति, भोजको व्रजति इति।
६. अपेक्षितानुप्रयोगतद्धिताद्यनुषङ्गा णमुलादयोऽनुप्रयोगाद्यपेक्षिणः। यथा— रैपोषं पुष्यति, चोरङ्कारमाक्रोशति, कारयाञ्चकार, कृत्त्रिमम्, व्यावक्रोशी, सांराविणम् इति।
(५. तद्धितप्रातिपदिकम् —६)
भावकारकसंबन्धिस्वार्थाभिधायिनोऽधातुप्रत्ययास्तद्धिताः। ते षोढा— १. अलोपिनः, २. लोपिनः, ३. सर्वलोपिनः, ४. आदेशिनः, ५. प्रदेशिनः, ६. अप्रदेशिनश्चेति।
तेषु —
१. निरनुबन्धा अलोपिनः। यथा ‘अश्वत्वम्, अश्वकः, अश्वत्थामा, सभ्यः, सख्यम्, देवदत्तरूप्य इति।
२. सानुबन्धा लोपिनः। यथा ब्राह्मण्यम्, मृत्तिका, दाक्षिः, वैयाकरणः, स्तेयम्, कैदार्यम् इति।
३. (सर्वलोपिनः) येषां लुग्लुपादिभिः किमपि नावतिष्ठते ते सर्वलोपिनः। यथा—गर्गाः, चरकाः, पञ्चालाः, चञ्चा, गार्गी, सामग्री इति।
४. (आदेशिनः) येषामायन्नादय आदिश्यन्ते ते आदेशिनः। यथा— ऐतिकायनः, कापेयम्, आत्मनीनम्, अश्वीयम्, क्षत्रियः शाश्वतिकम् इति।
५. (प्रदेशिनः) प्रकृतेरादिमध्यविषयाः प्रदेशिनः। यथा— बहुतृणम्, बहुराजा, सर्वकः, उच्चकैः, त्वयका, पचतकि इति।
६. (अप्रदेशिनः) तस्या एवान्त्यावयवभूता अप्रदेशिनः। यथा— वाक्त्वचम्, प्रत्युरसम्, केशाकेशि, युवजानिः, सरजसम्, निष्प्रवाणिः इति।
(६. समासप्रातिपदिकम् —६)
पृथगर्थानामेकार्थीभावः समासः।
स षोढा— १. सुबन्ताभ्याम्, २. तिङन्ताभ्याम्, ३. सुप्तिङन्ताभ्याम्, ४. सुब्धातुभ्याम्, ५. सुबन्तनामभ्याम्, ६. नामभ्याञ्चेति। तेषु—
१. सुबन्ताभ्यां यथा— उपकुम्भम्, राजपुरुषः, नीलोत्पलम्, अष्टाकपालः, चित्रगुः, धवखदिरौ इति।
अत्र ‘समर्थः पदविधिः’ (२.१.१) इति सामर्थ्ये सति समासः। सामर्थ्यं च सम्बन्धः। स च द्वयोरुपसर्जनप्रधानभावे भवति। न हि प्रधानयोरुपसर्जनयोरेव वा मिथोऽनपेक्षयोः संबन्धो घटते।
प्रधानोपसर्जनभावश्च द्विधा (१) अभिधीयमानः (२) प्रतीयमानश्च।
अभिधीयमानो व्यतिरेकविभक्तिः, यदा वैयधिकरण्यम् ‘कुम्भस्य समीपम्, राज्ञः पुरुष’ इति।
तत्रोपकुम्भमिति पूर्वपदप्रधानोऽव्ययीभावः।
राजपुरुष इत्युत्तरपदप्रधानस्तत्पुरुषः।
प्रधानमविचलितस्वार्थं प्रथमयैवाभिधीयते,
उपसर्जनं पुनः प्रधानाऽनुग्रहायाश्रितव्यतिरेकं षष्ठ्यादिभिः। इदं च सुबन्तत्वं एव भवति।
प्रतीयमानस्तुल्य़विभक्तिः, यदा सामानाधिकरण्यम्— ‘नीलं च तदुत्पलं च नीलोत्पलम्, अष्टसु कपालेषु संस्कृतोऽष्टाकपाल इति।
अयं च ‘विशेषणं विशेष्येणे—(२.१.५७)—ति कर्मधारयः।
‘संख्यापूर्वः (२.१.५२), ‘तद्धितार्थोत्तरपदसमाहारे—च’ (२.१.५१) इति च द्विगुत्वं विशेषण—विशेष्यभावेन प्रतीयमानोपसर्जनप्रधानभावयोः सामानाधिकरण्ये स्मर्यते। स च तुल्यविभक्तित्वे स्यादिति सुबन्त एव भवति। अतश्च सर्वत्र सुबन्तेन सब सुबन्तं समस्यते इति स्मर्यते।
२. तिङन्ताभ्यां यथा—अश्नीतपिबता, खादतमोदता, पचतभृज्जता, उन्मृजावमृजा, आवपनिवपा ‘एहि—रे—आहि रे(रा) इति।
अत्र ‘आख्यातमाख्यातेन क्रियासातत्ये’ (२.१.७२ गसू.) इति ‘मयूरव्यंसका’ दिपाठात् (२.१.७२) तिङन्तानां समासः स्मर्य्यते। ‘अश्नीत’ ‘पिबते’त्यादि यासु क्रियासु सातत्येन विद्यते ता एवमुच्यन्ते। तन्मध्यपतितस्तद्ग्रहणेन गृह्यत’ इति ‘उदादीनां रे’ इत्येतस्य चाख्यातत्वं भवति ॥
३. सुप्तिङन्ताभ्यां यथा— अपचसि, प्रावर्षत्, अनुव्यचलत्, अस्तिक्षीरा, एहिवाणिजा, जहिस्तम्बः इति। अत्र ‘सह सुपा (२.१.४) इत्यत्र तृतीययैव सहार्थस्याक्षेपे सहग्रहणादतिरिक्ताद् योगविभागाश्रणेन सुबन्ततिङन्ताभ्यां। समासः क्रियते। स च नञो नलोपस्तिङ्यवक्षेपे (पा. ६.३.७३ वा.), इति उदात्तवता तिङा गतिमता च’ (२.२.१८ भाष्ये) इति, ‘सुबधिकारेऽस्तिक्षीरा’ दिवचनम् (२.२.२४वा.) ‘एहीडादयोऽन्यपदार्थे’ (२.१.७२ गसू. १८.१), जहिकर्मणा बहुलमाभीक्ष्णये समस्यते कर्त्तारं चाभिदधातीत्युपपन्नो (२.१.७२ गसू. १८.१) भवति। तेनायमर्थः संगच्छते ‘अवक्षिप्तोऽसि न पचसि त्वमभिहितोऽपि वृषल इति, प्रकर्षेणावर्षदिति, पश्चाद् विशिष्टं चलनमकरोदिति, अस्ति क्षीरमस्या’ इति, एहि वाणिजेत्यामन्त्र्यमाण— वाणिजविशिष्टा क्रियेति, जहि जहि स्तम्बमिति कर्त्ता योऽभिधीयते स एवमुच्यत इति।
४. सुब्धातुभ्यां यथा— संग्रामयते, अनुरुध्यते, श्रद्धा, अन्तर्धिः, परमनियौ, प्रतिभुवौ इति। अत्र ‘संग्राम युद्धे अनुरुध कामे इति समस्तयोरेव पाठः। आतश्चोपसर्गे (३.३.१०६), उपसर्गे घोः किः (३.३.९२) इति अङ्—किविधाने ‘प्रादिषु श्रदन्तरोरुपसंख्यानम्’ ‘अचि श्नुधातुभ्रुवां य्वोरियङुवङौ’ (६.४.७७) इत्यादिकार्यसिद्धये क्विबन्तस्य प्रत्ययनामधातुत्वाद् धातुत्वमिति सुब्धातुभ्यां समासो भवति ॥
५. सुबन्तनामभ्यां यथा— दधिसेक्, चर्मकारः, चर्मक्रीती, धनक्रीता, ब्राह्मणाच्छंसी, सरसिजम्’ इति। अत्र ‘कुगतिप्रादयः (२.२.१८), ‘उपपदमतिङ्’ (२.२.१९) इत्यत्र अतिङ्ग्रहणेनोभयसूत्रशेषतया व्याख्यायमानेन सुबित्येतस्य निवृत्तिः क्रियते; ‘कर्त्तृकरणे कृता बहुलम् (२.१.३२), इत्यत्र च कर्त्तृकरणयोः समासविध /?/नादुत्तरपदस्य कृदन्ततायां लब्धायां कृद्ग्रहणादतिरिक्तात् तदन्तावस्थायामेव समासाभ्यनुज्ञाने सुपेत्येतदपि निवर्त्तते। ततश्च ‘गतिकारकोपपदानां कृद्भिः सह समासवचनम् सुबुत्पत्तेः प्रागेव’ भवतीत्याख्यातम्; बहुलग्रहणस्य चेष्टसिद्ध यर्थत्वात्।
स क्वचिन्नामभ्यां, क्वचित् सुबन्ताभ्याम्, क्वचिन्नामसुबन्ताभ्यां निश्चीयते। तत्र ‘दधिसेक्’ इत्यत्र उत्तरपदस्य, ‘सात्पदाद्योः (८.३.१११) इति पदादिनिबन्धन— षत्व—प्रतिषेध—सिद्धये ‘चर्मकार’ इत्यत्र तु पूर्वपदस्य पदान्तलक्षणनलोपार्थं सुबन्तता क्रियते। चर्मक्रीतीत्यत्र पूर्वपदं नलोपार्थमेव सुबन्तम्, उत्तरपदं तु प्रातिपदिकं क्रियते; तेन ‘क्रीतात् करणपूर्वात् (४.१.५०) अकारान्तात् इति ईकारः सिद्धो भवति। सुबुत्पत्तौ तु प्राक् सुबुत्पत्तेरन्तरङ्गलिङ्गसंस्करनिमित्तः टाबुत्पद्यमानः क्रीतस्य आकारान्तरङ्गंत्वात् ङीषं प्रतिबध्नीयात्, धनक्रीतेत्यत्र तु ‘सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी’ इति शिष्टप्रयोगदर्शनादुत्तरपदस्य सुबुत्पत्तौ टाबुत्पत्तेराकारान्तत्वान्न ङीष उत्पत्ति।
ब्राह्मणाच्छंसी सरसिजमित्यत्र पूर्वपदयोः साक्षात् सुपः श्रवणम्; उत्तरपदयोस्तु प्रयोजनाभावाद् विभक्तेरनुत्पत्तिरिति।
६. नामभ्यां यथा— अश्वक्रीती, धनक्रीती, प्रवापिणी, माषवापिणी, असूर्यंपश्या, राजदाराः, कृतपूर्वी कटम् इति। अत्र अश्वक्रीती धनक्रीती इत्येतयोः प्राग्वदेव ङीषुत्पत्तौ विभक्त्युत्पत्तिमन्तरेणापि पञ्चकप्रातिपदिकार्थपक्षे करणत्वाऽविरोधः। प्रवापिणी माषवापिणी इत्यत्र तु प्राक् सुबुत्पत्तेः समासे प्रातिपादिकस्यान्तो नकार इति ‘प्रातिपदिकान्तनुम्विभक्तिषु च’ (८.४.११) इति णत्वं भवति, सुबन्ताभ्यां तु समासेऽन्तरङ्गत्वात् ङीबुत्पत्तौ ङीबत्र प्रातिपदिकान्तः, न नकार इति णत्वं न स्यात् यथा गर्गभगिनीति।
‘असूर्यंपश्या’ इत्यत्र नञ्सूर्ययोर्दृशिक्रियया संबन्धात् परस्परमसम्बन्धे सामर्थ्याभावाद् विभक्त्यभावः, अत्र हि सूर्यमपि न पश्यन्तीति नञ् सूर्यकर्मिकां दृशिक्रियामपेक्षते, न सूर्यसत्ताम्, ‘असूर्यंललाटयोर्दृशितपोः’ (३.२.३६) इति वचनादसामर्थ्येऽपि नाम्नोरेव समासो भवति। एतेन कृतपूर्वीत्यपि व्याख्यातम्। अत्रापि हि कृतं पूर्वं कटोऽनेनेति कृतशब्दस्य कटापेक्षायां पूर्वशब्देना— सम्बन्धादसामर्थ्येऽपि ‘पूर्वादिनिः’ (५.२.८६) ‘सपूर्व्वाच्च’ (५.२.८७) इति वचनात् कृतपूर्वयोस्सुबन्तयोरेव समासो भवतीति स्थितम्।
(समासविचारः) उपलक्षणं चेह सुबन्ताभ्यामित्यादिषु द्विवचनम्। तेन यथा द्वाभ्यां तथा त्रिभिर्बहुभिश्च समासो भवति। तत्र—
अव्ययीभावः कर्म्मधारयश्च द्वाभ्याम्।
यथा —अधिस्त्रि, शाकप्रति, पञ्चाम्राः, पुरुषव्याघ्र इति।
षष्ठीलक्षणः कालपरिमाणलक्षणश्च तत्पुरुषो द्वाभ्यां त्रिभिश्च।
यथा— राजगवीक्षीरम्, राजगोक्षीरम्, द्व्यहजातः, द्व्यह्नजातः इति। अत्र यदा राज्ञो गौः राजगवी तस्याः क्षीरमिति तदा द्वाभ्याम्, यदा तु राज्ञो गोः क्षीरं राजगोक्षीरमिति तदा त्रिभिः। तदुक्तं— ‘राजगवीक्षीरे द्विसमासप्रसङ्गः, द्विषष्ठीभावात्; (२.१.१ वा. १४,१५), सिद्धं तु राजविशिष्टाया गोः क्षीरेणाभिसम्बन्धाद् राजगवीक्षीरम् राजगोक्षीरमिति च।
ननु च ‘गोः क्षीरं गोक्षीरम्, राज्ञो गोक्षीरं राजगोक्षीरमिति द्वितीयपक्षे भविष्यति। नैवम्। अर्थभेदात्। यथैवायं गवि यतते, न महिष्यादेः क्षीरमात्रेण तुष्यति, एवं राजन्यपि यतते ‘राज्ञो या गौः, तस्या यत् क्षीरमिति तच्चैवं न सिध्यति। एवं हि यतः कुतश्चिदागतं गोक्षीरमात्रं राज्ञः सम्बन्धि प्रतीयते।
कथं पुनर्गोः क्षीरमप्यपेक्षमाणायाश्च राज्ञा राजानमप्यपेक्षमाणायाश्च क्षीरेण समासः (मभा. २.१.१ वा.)?
उच्यते— न गौः प्रधानत्वात् तथा राजनमपेक्षते यथा उपसर्जनत्वेन गां राजा, क्षीरमप्यविचलितस्वार्थत्वादनौत्सुक्येन न तथा गामपेक्षते यथोद्भूतसम्बन्धव्यतिरे— कत्वादौत्सुक्येन गौः क्षीरम्।
एवं चानुकूल्ये गमकत्वात् प्रधानसापेक्षत्वे सति समासो भवत्येव। यथा देवदत्तगुरुकुलम्, राजपुरुषभार्य्या इति। तदुक्तम्—‘भवति वै प्रधानस्य सापेक्षस्यापि समास’ इति (मभा. २.१.१)।
एवं द्वे अहनी समाहृते द्व्यहः। द्व्यहो जातस्येति यदा समासस्तदा द्वाभ्याम्, यदा तु द्वे अहनी जातस्य द्वयहजात इति तदा त्रिभिः। ‘सुप् सुपा (२.१.४) इति वचनाद् द्वयोरेव समास इति चेत्, न, ‘कालाः परिमाणिना (२.२.५) इति बहुवचननिर्द्देशात् ‘सुप् सुपा’ इत्येतस्मिन् गुणपदेऽपि संख्या न विवक्ष्यते; तेन त्रिष्वपि पदेषु समासाभ्यनुज्ञाने, द्विशब्दस्यापि कालसंख्यायकत्वेन कालाभिधायित्वे द्वे अहनी जातस्येति विगृह्य जातेन परिमाणिना द्विशब्दाहःशब्दौ कालाभिधायिनौ समस्येते। पूर्वस्य पदस्योत्तरपद— निमित्तायास्तत्पुरुषसंज्ञायाः प्रवर्त्तनात् ‘न संख्यादेः समाहारे’ (५.४.८९) इति प्रतिषेधाभावात् ‘अह्लोऽह्न एतेभ्यः’ (५.४.८८) इति समासान्तसिद्धौ द्वयह्नजात इति विवक्षितरूपसिद्धिः।
अथ राजगोक्षीरमित्यत्रापि कथं न समासान्तः ?
गोशब्दस्य युगपत् पूर्वोत्तरपदापेक्षायामसामर्थ्यात्।
द्वयह्नजात इत्यत्रापि तुल्यमिति चेत्ब।
तन्न ‘उत्तरपदयोग एव द्विगोराम्नानात्।
अपि च ‘द्वे अहनी’ इति द्वे अपि प्रथमान्ते, राज्ञो गोरिति द्वे अपि षष्ठ्यन्ते। अस्ति च प्रथमान्तषष्ठ्यन्तयोर्विशेषः। प्रथमान्तं ह्यनुपजातव्यतिरेकत्वान्निरौत्सुक्यं नान्यदपेक्षते; षष्ठ्यन्तं पुनरुद्भूतव्यतिरेकत्वात् परोपकारायौत्सुक्येन प्रवर्त्तमानं नानवाप्योकार्यं विरमति।
एवं च सापेक्षत्वादसामर्थ्ये समासः कथमिति चेत् ? गमकत्वात्। यथा— सूर्यमपि व पश्यन्तीत्यसूर्यम्पश्या राजदाराः, न पुनर्गीयन्ते अपुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्ते अश्राद्धभोजी ब्राह्मणः, अशूद्रान्नभोजी, एवम् अलवणभोजी, एकान्नविंशतिः; यथा अवतप्ते नकुलस्येव स्थितमवतप्तेनकुलस्थितं तवैतदिति।
बहुव्रीहिद्वन्द्वौ द्वाभ्यां त्रिभिर्बहुभिश्च। यथा— चित्रगुः, कण्ठेकालः, प्लक्षन्यग्रोधौ, पाणिपादम्, पञ्चगवधनः, मत्तबहुमातङ्गम्, शङ्खदुन्दुभिवीणाः, धवखदिरपलाशम् इति। अत्र ‘अनेकमन्यपदार्थे’ (२.२.२४) बहुब्रीहिः, ‘चार्थे द्वन्द्वः’ (२.२.२९) इति च स्मृतिः। उक्तं च (मभा. २.१.१)—
सुसूक्ष्मजटकेशेन सुनताजिनवाससा।
समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिध्यति ॥ ४५ ॥
द्वन्द्वो यावदि्भरारब्धः प्राधान्यं तत्र तावताम्।
इतरेतरयोगे स्यात् समाहारे तु संहतेः ॥ ४६ ॥
ननु च शोभनाः सूक्ष्मा जटाः केशा अस्य, शोभनं नतमजिनं वासोऽस्य, संजातान्यन्तेषु शितिरन्ध्राण्यस्येति कर्मधारयादिगर्भा एते बहुव्रीहयः। तत्र सुसूक्ष्मजटकेशेन सुनताजिनवाससा’ इत्येतयोः मध्यपदस्योत्तरपदेन पूर्वपदेन वा कर्मधारयम्, अन्त्यस्य तूत्तरपदेनैव सप्तमीतत्पुरुषं विधाय द्वयोरपि वृत्तौ बहुव्रीहिः कस्मान्न क्रियते ?
उच्यते
पूर्वयोः पूर्वपदेन कर्मधारयस्यानुपपत्तिः असमानाधिकरण्यात्; नहि द्वयोरपि विशेषणयोः सामानाधिकरण्यं भवति। उत्तरेण तु ‘विशेषणं विशेष्येणे (२.१.५७)ति सामानाधिकरण्ये भवति कर्मधारयः; किन्तु न तदुत्तरकालमन्यपदार्थे विवक्षितार्थसिद्धिः। तथा हि सति सूक्ष्मजटासम्बन्धनिबन्धनमेव केशानां शोभनत्वमुपलभ्यते न तु स्वाभाविकम्, नतिनिमित्तमेव चाजिनवाससश्चारुत्वं गम्यते, न तु नैसर्गिकम्। अन्त्ये पुनरन्तेषु इत्येतस्य सापेक्षत्वादसामर्थ्ये सति नोत्तरपदेन सप्तमीतत्पुरुषः; अन्तेषु शितिरन्ध /?/णीति ह्युक्ते, कस्यान्तेष्वित्यपेक्ष्यं स्यात्, तच्च शित्यर्थ उत्पद्यमाने बहुव्रीहावेवोपन्नं भवति ‘संजातान्यन्तेषु सूक्ष्मच्छिद्राण्यस्येति, न पुनस्तत्पुरुषे।
ननु च ‘दृश्यते द्वयोरपि विशेषणत्वे सापेक्षत्वे च समासः। तद् यथा ‘खञ्जश्चासौ कुब्जश्च खञ्जकुब्जः, भ्रातुर्भार्या भ्रातृभार्या देवदत्तस्ये—ति।
उक्तमत्राऽऽचार्यैः।
किमुक्तम् ?
कस्यचित् खञ्जो निर्ज्ञातः, कस्यचित् कुब्ज इति प्रधानोपसर्जनभावाद् भवत्येव विशेष्य—विशेषणभावः। अपि च— (वाक्यपदीये ३.१४.४७)
सम्बन्धिशब्दः सापेक्षो नित्य सर्वः प्रवर्त्तते।
स्वार्थवत् सा व्यपेक्षाऽस्य वृत्तावपि न हीयते ॥ ४७ ॥ (इति)
यथा— पितुः पिता पितामहो देवदत्तस्येति। इह तु सूक्ष्मजट इत्येतदन्यपदार्थ एवाम्नायते। नतमित्येतदपि क्रियाभिधायित्वेन गुणवचनत्वादाश्रितमेव भवति। सु इत्येतत् पुनरव्यं शोभनार्थे वर्त्तमानं समस्यते। तस्य चास्तां द्रव्यवचनत्वम्, गुणवचनत्वेऽपि विप्रतिपत्तिः, अव्ययानां सत्त्वार्थवाचित्वात्।
केचित् पुनस्तत्रापि विवन्दन्ते— द्योतका हि किलैते, न वाचका इति। समासश्च ‘सुप् सुपा’ इति द्योतकानामपि भवति। मा भूत् पूर्वयोः कर्मधारयः, अन्त्ये पुनरन्तशब्दस्य सम्बन्धिशब्दत्वेन भ्रातृभार्यादिवत् कथं न तत्पुरुष ?
उच्यते,
यद्यपि संबन्धिशब्दाः सापेक्षत्वेऽपि समस्यन्ते तथापि सन्देहविपर्य्यासादयो न जायन्ते तत्रैव तदुत्पत्तिः। अत्र तु अन्तशिति रन्ध्राणीत्युक्ते सन्देहः— ‘किमन्तेषु शितिरन्ध्राण्यस्य, उत ‘अन्तशितीनि रन्ध्राणी’ ति। अथ यदा ‘सुष्ठु सूक्ष्मजटाः केशा अस्ये’—ति विग्रहः, तदा भवितव्यं पूर्वपदयोः कर्मधारयेण।
न भवितव्यम्।
किं कारणम् ?
स्वरे दोषः स्यात्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरं बधित्वा समासस्यान्त उदात्त इत्यन्तरङ्गत्वादवयवसमासस्वरः प्राप्नोति।
तदाह—(वाप. ३.१४.५७)
सुसूक्ष्मजटकेशादौ समासोऽवयवे यदि।
स्यात् स्यात् तत्राऽन्तरङ्गत्वाद् बाधकोऽवयवस्वरः ॥ ४८ ॥
अतश्च यत्र द्वे अपि विशेषसंज्ञे तत्रोत्तरपदे नित्यमेव द्विगुर्द्वन्द्वश्च समासो भवति। तद् यथा— ‘पञ्चगवप्रिय’ इति ‘छत्रोपानहप्रिय’ इति। यत्र किञ्चित् सामान्यं कश्चिच्च विशेषः तत्र विकल्पेन। यथा— राजगवीक्षीरम्, राजगोक्षीरम् इति। यत्रैकतः सामान्यम्, अन्यतो विशेषः तत्र न भवत्येव। यथा— ‘सुसूक्ष्मजटकेशेन सुनताजिनवाससा’ इति। अत्र बहुव्रीहिरिति विशेषसंज्ञायामवयवयोः ‘विशेषणं विशेष्येण बहुलम् (२.१.५७) इति या समाससंज्ञा सा ‘सुप्सुपा’ इति तत्पुरुषादिभेदाऽपरामर्शेन भवन्ती सामान्यसंज्ञेत्युच्येत।
ननु ‘द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् इति महावार्त्तिककारः, अयमपि च तत्पुरुष एवेति कस्मादिहापि समासो न भवति ?
उत्तरपदोपादानात्। य उत्तरपद एवाम्नायते सोऽत्र तत्पुरुषो ग्रहीतव्यः, यथा ‘द्वयह्नजातः’, ‘पञ्चगवधन’ इति। द्वन्द्वः पुनरनुत्तरपद एवेति बहुव्रीहिविषयेणोत्तरपदेन सर्व एव गृह्यते। किमर्थं पुनरेवमुच्यते यावता बहुलग्रहणेनैव सिद्धम्, समुदायवृत्त्याववयवानां मा कदाचिद् वृत्तिर्भूदिति।
तथापि न वक्तव्यम्। इह द्वौ पक्षौ (१) वृत्तिपक्षश्च (२) अवृत्तिपक्षश्च। यदा वृत्तिः तदा सर्वेषां वृत्तिः, यदा तु न वृत्तिस्तदा सर्वेषामवृत्तिरिति।
नैवम्। अस्त्यत्र विशेषः। तथाहि पञ्चगवप्रिय इत्यादौ नास्य पञ्चसंख्यामात्रं प्रियं, नापि गोमात्रम्, किं तर्हि पञ्चसंख्योपलक्षिताः काश्चिदेव गावः, यथा पञ्चाम्राः सप्तर्षय इति। तच्च द्विगौ पूर्वमसति दुरुपपादमेव भवति। एतेन छत्रोपानहप्रिय इत्येतदपि व्याख्यातम्, तत्रापि युगपदधिकरणवचनद्वन्द्वमन्तरेण नाभिवाञ्छितसिद्धिः। न ह्यस्योपनन्मात्रमेव प्रियम् अपितुछत्रमपि, उपानच्छब्दादेव च परः प्रियशब्दो निशम्यमानः न द्वन्द्वं विना छत्रमुपग्रहीतुं शक्नोति। तस्मादनाक्षेप इति।
‘सुसूक्ष्मजटकेशादिना च मत्तबहुमात्तङ्गं वनम्’ इत्यादावप्यनेकमेव पदमित्युक्तं भवति। अत्रापि मत्ता बहव एव मातङ्गा इत्यापि न भवति।
किं कारणम् ?
‘बहुगणवतुडति’ संख्या (१.१.२३) इति बहुशब्दस्य संख्यावाचित्वात्, संख्यापूर्वस्य च कर्मधारयस्य, द्विगुत्वात्, द्विगोः पुनः ‘तद्धितार्थोत्तरपदसमाहारे’— (२. १.५१) ष्वेव भावात्, यथा’पञ्चकपालः, त्रिलोकहर्म्यम्, पञ्चपूली’ इति।
कथं तर्हि ‘सप्तर्षयः पञ्चाम्रा’ इति ?
‘दिक्संख्ये संज्ञायाम्’ (२.१.५०) इति संज्ञायामेव तद् भवति।
ननु च मा भूत् तद्धितार्थ उपपदं वा, तथापि ‘बहुमातङ्गमि’—ति समाहारे भविष्यति—बहवो मातङ्गाः समाहृताः बहुमातङ्गम्, ततश्च ‘मत्तं बहुमातङ्गमस्मिन् वने तन्मत्तबहुमातङ्गं वनमिति बहुव्रीहिर्भविष्यति।
उच्यते।
अथ समाहार इति कः शब्दार्थः ?
ननु समाङ्पूर्वाद्धरतेः कर्मणि घञ् ‘समाह्रियत इति समाहार’ इति।
यद्येवं पञ्च कुमार्यः समाहृताः पञ्चकुमारि, दशकुमारि इति
‘गोस्त्रियोरुपसर्जनस्य’ (२.१.४८) इति ह्रस्वत्वं न प्राप्नोति।
समाहारस्यैकत्वात् द्विगुरेकवचनम् (२.४.९) इत्येतदपि वक्तव्यं भवति।
एवं तर्हि भावसाधनो भविष्यति समाहरणं समाहार इति।
अथ भावसाधनेन किमभिधीयते ?
यत् तदौत्तरार्ध्यम्।
कः पुनः पञ्चगवं, पञ्चपूलीत्यादौ गवादीनां समाहारः ?
यत् तद् आर्जनं, क्रयणं, भिक्षणम्, अपहरणम् वा।
यद्येवं विक्षिप्तेषु पूलेषु चरन्तीषु गोषु न सिध्यति।
तर्हि समभ्याशीकरणं समाहारः।
एवमपि पञ्चग्रामी, षण्णगरी इत्यादेरनुपपत्तिः।
किं कारणम्?
अभ्याशीकरणार्थे समाहारशब्दे समिति समन्तादित्यभिविधौ वर्त्तते, आङाभिमुख्ये, हरतिर्देशान्तरप्रापणे इति।
नावश्यं हरतिर्देशान्तरप्रापणे एव वर्त्तते। किं तर्हि ? सादृश्येऽपि, मातुरनुहरति पितुरनुहरतीति।
अथवा— ‘पञ्चग्रामी, षण्णगरीति नेदमित्येवावतिष्ठते, अवश्ये ह्यसौ ततः किञ्चिदाकाङ्क्षति, क्रियां गुणं वा। यदाकाङ्क्षति तदेकं, स समाहार इति।
अयं तर्हि भावसाधने सति दोषः, पञ्चपूली आनीयतामिति द्रव्यस्यानयनं न प्राप्नोति।
नैष दोषः। तद् यथा ‘गौरनुबन्ध्यः’ ‘अजोऽग्नीषोमीय’ इति जातौ चोदितायां तत्राऽसंभवादालम्भनप्रोक्षणविशसनादीनि द्रव्ये भवन्ति इहापि भावानयनस्यासंभवाद् द्रव्यस्थानयनं भविष्यति।
अव्यतिरेकाद् वा। न हि समूहिभ्यः समाहारलक्षणः समूहो व्यतिरिक्तो भवति। एवं तर्हि बहुमातङ्गमिति समाहारे एष दोषो भवति— ‘अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यत’ इति पञ्चपूलीतिवद् ईकारान्तत्वं प्राप्नोति। न वाऽयं पात्रादिषु पठ्यते, येन ‘चतुष्पात्र—त्रिभुवनादिवत् तन्निषेधो भविष्यति; नाप्याबन्तो येन ‘पञ्चखट्वी पञ्चखट्वम्’ इत्यादिवद् विकल्पोऽवकल्पेत।
ननु द्विगावपीकारो न दृश्यते यथा एकपुत्रः एकभिक्षेति।
नायं द्विगुः।
किन्तर्हि? ‘पूर्वकालैकसर्वजरत्पुराणे—(२.१.४९) त्यादिना कर्म्मधारयः। किं च भोः। संख्यापूर्वोऽपि द्विगुर्न भवति ?
वाढम्, तस्य तद्धितार्थोत्तरपदसमाहारेष्वेव भावात्। न चेह तद्धितार्थ उत्तरपदं वा विद्यते, न चैकस्य समाहारः संभवति।
यदा तु सामर्थ्यातिशयादेकस्मिन्नपि समूहारोपणम्, तदा, भवत्येव, यथा— ‘एकापूपी एकशाटीति। किं पुनर्द्विगुसंज्ञा प्रत्ययोत्तरपदयोर्भवति ? एवं तावत्। एतर्हीतरेतराश्रयत्वादप्रसिद्धिः।
कथमितरेतराश्रयत्वम्?
द्विगुनिमित्ते प्रत्ययोत्तरपदे, प्रत्ययोत्तरपदनिमित्ता च द्विगुसंज्ञेति।
एवं तर्हि ‘अर्थ’ इति वक्ष्यामि
अर्थे चेत् तद्धितानुत्पत्तिर्बहुव्रीहिवत्। तत्र यथा ‘चित्रगुः शबलगुः’ इति बहुव्रीहिणोक्त— त्वान्मत्वर्थस्य मत्वर्थीयो न भवति, एवं द्वैमातुरः पाञ्चनापितिः’ इत्यादौ तद्धितार्थस्य द्विगुनोक्तत्वात् तद्धितोत्पत्तिर्न प्राप्नोति।
यथेच्छसि तथाऽस्तु। अस्तु तावत् प्रत्ययोत्तरपदयोरिति।
ननूक्तमितरेतराश्रयत्वादप्रसिद्धिरिति, नैष दोषः, नेदं तुल्यमन्यैरितरेतराश्रयैः, शब्दनित्यत्वात्।
ननु च न संज्ञा नित्या।
किं तर्हि? शब्दः।
यद्येवं भाविनी संज्ञा विधास्यते। तद्यथा— ‘कश्चित् तन्तुवायमाह अस्य सूत्रस्य शाटकं वयेति।
स पश्यति यदि शाटको न वातव्यः, अथ वातव्यो न शाटकः। शाटको वातव्यश्चेति विप्रतिषिद्धम्। भाविनी तु खल्वस्य संज्ञाभिप्रेता; स मन्यते — ‘वातव्यम्, यस्मिन्नुते शाटक इत्येतद्भवती’—ति। एवमिहापि— ‘तस्मिन् द्विगुर्भवति यस्याभिनिर्वृत्तस्य प्रत्यय उत्तरपदमित्येते संज्ञे भविष्यतः इति।
अथवा पुनस्त्वर्थ इति।
ननु चोक्तम् ‘अर्थे चेत् तद्धिताऽनुत्पत्तिर्बहुव्रीहिवदि’—ति। नैष दोषः। नावश्यमर्थशब्दोऽभिधेय एव वर्त्तते, किं तर्हि, स्यादर्थेऽपि। तद् यथा— ‘दारार्थं भिक्षामहे, जनार्थं भिक्षामहे; दारा नः स्युः जना नः स्युरिति। एवमिहापि तद्धितार्थे द्विगुर्भवति तद्धितः स्यादिति। द्विगोर्वा लुग्वचनं ज्ञापकम् (वा.५); यदयं ‘द्विगोर्लुगनपत्ये’ (४.१.८८) इति द्विगोस्तद्धितस्य लुकं शास्ति, तज्ज्ञापयति— ‘उत्पद्यते द्विगोस्तद्धित’ इति।
यद्येवम् समाहारसमूहयोरविशेषात् समाहारग्रहणमनर्थकम्, ‘तस्य समूह’ (४.२.३७) इति तद्धितार्थे/नैव कृतत्वात्। तथाहि ‘समाहारः समूह’ इत्यविशिष्टावेतावर्थौ। तत्र समूह इव समाहारेऽपि तद्धितार्थे द्विगुरित्येव भविष्यति। यदि तद्धितार्थे द्विगुर्भवतीत्युच्यते, तद्धितोत्पत्तिः प्राप्नोति। उत्पद्यताम् लुग्भविष्यति। लुक्कृतानि प्राप्नुवन्ति। कानि पुनस्तानि? ‘पञ्चपूली’ ‘दशपूली’ इति।
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (४.१.२२) ङीप्प्रतिषेधः प्राप्नोति; ‘पञ्चगवं दशगवमिति ‘गोरतद्धितलुकि (५.४.९२) इति टच् न प्राप्नोति।
नैष दोषः, अविशेषेण द्विगो ङीब्भवतीत्युक्त्वा ‘अपरिमाणबिस्ताचितकम्बल्येभ्यः समाहारे इति वक्ष्यामि; अविशेषेण च गोष्टच् भवतीत्युक्त्वा द्विगोः समाहारे इति वक्ष्यामि; तदुभयमपि नियमार्थं भविष्यति ‘समाहार एव नान्यत्रे’—ति।
एवं तर्हि अभिधानार्थं समाहारग्रहणम्; समाहारेणाभिधानं यथा स्यान्न तद्धितार्थेन।
यदि स्यात् को दोषः स्यात् ?
तद्धितोत्पत्तिः प्रसज्येत।
प्रसज्यताम्, लुग्भविष्यति। लुक्कृतानि प्राप्नुवन्ति।
सर्वाणि परिहृतानि।
न सर्वाणि परिहृतानि। ‘पञ्चकुमारि, दशकुमारी’—ति लुक् तद्धितलुकि (१.२.४९) इति ङीपो लुक् प्रसज्यत इति।
ननु च यदि तद्धितार्थे द्विगुरित्युच्यते ‘पञ्चखट्वः, दशखट्वः’ इति मत्वर्थेऽपि द्विगुसंज्ञायां ‘द्विगोः’ (४.१.२१) इतिकारः प्राप्नोति। बहुव्रीहिसंज्ञया द्विगुसंज्ञाया बाधितत्वान्न भविष्यति; समानाधिकरणानां मत्वर्थे बहुव्रीहिर्भवति।
यद्युत्तरपदे द्विगुरित्युच्यते, उत्तरपदोक्तिर्वक्तव्या। इयमुच्यते — ‘उत्तरपदेन परिमाणिना द्विगोः समासवचनम् (वा०९); ‘द्वौ मासौ जातस्य द्विमासजात:’, द्वे अहनी जातस्य द्वयह्नजात’ इति।
किमुच्यते परिमाणिनैवेति, न पुनरन्यत्रापि; तद् यथा ‘पञ्चगवप्रियः पञ्चगवधन’ इति। अन्यत्र समुदायस्य बहुव्रीहित्वादुत्तरपदं प्रसिद्धमेव (वा.१०); तथाहि— ‘अनेकमन्यपदार्थे (२.२.२४) समस्यते, बहुव्रीहिश्च समासे। भवति।
अथ द्वन्द्वस्य का वार्त्ता ? द्वन्द्वोऽग्रतो विशेषेण व्याकरिष्यत इति।
अथ बहुभिर्बहुव्रीहिः — (वेसं. १.२१)
चञ्चद्भुजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्त सुयोधनस्य’ इति। तत्र चञ्चद्भ्यां भुजाभ्यां भ्रमितायाश्चण्डाया गदाया अभिघातेन सञ्चूर्णितमूरुयुगलमस्येति विग्रहः। न चैतद् वाच्यम्, समानाधिकरणानामेव बहुव्रीहि, ‘सप्तमीविशेषणे बहुव्रीहौ (२.२.३५) इति ज्ञापकेन वैयधिकरण्येऽपि बहुव्रीहेः स्मरणात्। एतेन सर्वपदप्रधानो द्वन्द्वोऽपि व्याख्यातः, यथा ‘सूर्याऽनलाऽनिलहिमांशु— धनेशशक्रप्रेताधिनाथवरुणाः करुणास्पदं नः’ (मायुराजस्योदात्तराघवे २.२९) इति।
ननु चान्यपदार्थे बहुव्रीहिः स्मर्यते। तत्र ‘चित्रगुर्देवदत्त’ इति देवदत्तादेरनुप्रयोगो न प्राप्नोति; नहि चैत्रादिशब्दप्रयोगादवधृतेषु चैत्रादिषु पुनश्चैत्रादिश्रुतयः प्रयुज्यन्ते। नैवम्; चित्रगुशब्दः चित्रगवीनां स्वामिसामान्यमभिधत्ते। तत्राऽवश्यं विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः।
चित्रगुः कः?
देवदत्त इति।
यत्र त्वसाधारणविशेषणादिभिर्विशेष एव समासस्तत्रानुप्रयोगो न भवत्येव; यथा त्रिलोचनः शूलपाणिरिति। एवं तर्हि, सामान्यवचनानामनुप्रयोगस्याऽप्राप्तिः। यथा— ‘चित्रगु सर्वम्’, ‘चित्रगु विश्वम्’ इति। सामान्यमपि यथा विशेषः, तथाहि यथा चित्रगुशब्दादिप्रयोगे विशेषान्तराणां निवृत्तिः तथा सर्वादिशब्दप्रयोगे विशेषाणां निवृत्तिः प्रतीयते।
यदि वा, ‘चित्रा गावोऽस्य देवदत्तस्योति षष्ठ्यर्थस्य समासेनाऽभिधानात् षष्ठी नाऽनुप्रयुज्यते, सम्बन्धी तु न समासोपादान इत्यनुप्रयुज्यते।
एवं तर्हि विभक्त्यर्थाभिधायिनो बहुव्रीहिपदस्य देवदत्तादिभिर्द्रव्यवचनैः सामानाधिकरण्यं न प्राप्नोति।
मुब्लोपाद् भविष्यति।
मैवम्; मतुपोऽपि संबन्धार्थत्वात् द्रव्यवचनैरसामानाधिकरण्यमेव।
न च बहुव्रीहेर्विभक्त्यर्थाभिधायिनो मतुप्प्रत्ययो विधातुं शक्यते; स हि प्रथमासमर्थादस्त्युपाधिर्विधीयते; न च विभक्त्यर्थवृत्तेर्बहुव्रीहिपदस्यास्त्यादिक्रियाभिः सामानाधिकरण्येन सम्बन्धो भवति।
अथ अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति सामानाधि /?/करण्यमुपपत्स्यते।
तन्न; अभिहितोऽप्यसौ यतो यत्रेत्यादिवन्न स्वरूपं हास्यति।
एवं तर्हि, यथा— ‘जातौ पदार्थे जातेः कार्यमुच्यमानमसंभवात् तत्सहचरितासु व्यक्तिषु निविशेत् तथा बहुव्रीह्यर्थे संबन्धे सामानाधिकरण्यक्रियायोगादिकार्यं प्रयुज्यमानं तदाश्रये भविष्यति; एवं च सोऽयमित्युपचरितसंबन्धेषु संबन्धिषु बहुव्रीहिपदैरभिधीयमानेषु, शुक्लादिविशेषणानामिवाश्रयतो लिङ्गवचनान्यपि न विरोत्स्यन्ते।
यदिवा ‘अन्यपदार्थ’ इत्यर्थग्रहणसामर्थ्यात् सद्रव्यस्य सलिङ्गस्य ससंख्यस्य चोपादानं भविष्यति, न विभक्त्यर्थमात्रस्य।
कथं पुनरर्थशब्दोपादानादयमर्थो लभ्यते ?
श्रूयताम्— ‘अन्यपद इतीयत्युच्यमाने पदे वृत्त्यसंभावात् पदसहचरितां यां काञ्चिदर्थमात्रां पदशब्दो लक्षयेत् पदत्वस्य वा निमित्तत्वेन प्रत्यासन्नोपकारिणं विभक्त्यर्थं प्रत्याययेत्; सोऽयमेवं सिद्धे समीहिते यदर्थग्रहणं करोति तेनैतत् ज्ञापयति ‘यावानर्थश्रुतेः पदविषयोऽर्थः प्रतीयते, तावान् सर्वोऽपि त्यागनिमित्ताऽभावादुपादीयत इति।
अपि च, पदमर्थस्य परिच्छेदायोपादीयते; अर्था हि प्रकृत्यादीनां सामान्येन प्रसक्ताः पदेनावच्छिद्यन्ते पदावधिकोऽर्थ उपादेय इति; तत्र यथा वाक्यार्थस्यानाश्रयण— माधिक्यात् तथा पदार्थैकदेशस्यापि, न्यूनत्वात्। तदेवमर्थग्रहणसामर्थ्यात् सलिङ्गः ससंख्यः सद्रव्यश्च समर्थः पदार्थ उपादीयते।
ननु च बहुव्रीहिणा समस्तपदार्थाभिधाने तथा सम्बन्धाभिधायिका षष्ठी न प्रयुज्यते तथा संख्याभिधायिनः स्वादयः, लिङ्गाभिधायिनष्टावादयो वा न प्रयुज्येरन् ?
उच्यते— एकादिपदैरिव वृत्तिपदैरभिहिताऽपि न संख्या संख्याकार्यं विघ्नयिष्यति; न हि षष्ठ्यादिविधान इव वचनविधावनभिहिताधिकारो विद्यते, कर्मादयश्च कारकविशेषाः प्रत्याययितव्या इत्यवश्यविधेया द्वितीयादयः; प्रथमा तु वचनग्रहण— सामर्थ्यात् ‘न केवला प्रकृतिः प्रयोक्तव्या’ इति समयाद् वा प्राथमिककल्पिकी भविष्यति।
स्यादेतत्,
यथा अभिहिता एकत्वादयो वचनव्यवस्थानिमित्तं तथाऽभिहितः सम्बन्धोऽपि षष्ठीनिमित्तं भवति। तदयुक्तमनभिहिताधिकारात्। अपि च, सम्बन्धोपसर्जनं प्रातिपदिकार्थो वृत्तिशब्दे— नाभिधीयते; न चायं षष्ठीविषयः, तस्याः प्रातिपादिकार्थोपसर्जने संबन्धे विधानात्। टाबादयस्तु स्वार्थिकत्वादभिहितेऽपि लिङ्गोभवन्ति, तदुक्तम्— ‘सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादय, इति (मभा. ४.१.१ वार्त्ति. २१)।
यदि वाऽन्य एव वाक्यार्थो वृत्त्यर्थात्। तथाहि— ‘चित्रा गावोऽस्येति अन्यपदार्थोपसर्जनाश्चित्रगव्यो वाक्येनाभिधीयन्ते, चित्रगुरिति पुनर्वृत्तौ गवार्थोपसर्जनः स्वामी प्रतीयते; तत्र यदा निर्ज्ञातपराधीनतानां चित्रगवीनां स्वामिविशेषा— ऽवच्छेदायाऽन्यपदार्थ उपादीयत ‘अस्यैता गाव’ इति तदा बहुव्रीहिर्न भवति। यदा तु ताश्चित्रा गावः स्वामिनो विशेषाभिधानाय प्रत्यवमृश्यन्ते गवीनामासामयं स्वामी’—ति तदा बहुव्रीहिर्भवति चित्रगुः, शबलगुरिति। तामेव च स्वामिविशेषणतां स्फुटमुपदर्शयन्तो निदर्शयन्ति—‘यस्य चित्रा गावः स चित्रगुः, यस्य शबलाः स शबलगुरिति।
उपलक्षणं चाऽत्र षष्ठी। तेन कर्मकर्त्तृप्रवचनेनाऽप्रथमाया अपि बहुव्रीहिर्वक्तव्यः—‘ऊढो रथोऽनेन ऊढरथोऽनड्वान् उद्धृत ओदनः अस्या उद्धृतौदना़ स्थाली, उपहृतः पशुरस्मै उपहृतपशू रुद्रः, आरूढो वानरोऽमुम् आरूढवानरो वृक्षः, प्राप्ता अतिथयोऽस्मिन् प्राप्तातिथिर्ग्रामः, सिद्धः साधकोऽनया सिद्धसाधका विद्ये—‘ति।
अथ अप्रथमाया इति किमर्धम् ?
इह मा भूद्— ‘वृष्टे देवे गत’ इति।
अथ इह कस्मान्न भवति— ‘वृष्टे देवे गतं पश्ये’—ति ?
बहिरङ्गाऽत्र प्रथमा।
यद्येवं षष्ठ्याद्यन्तरङ्गत्वे ‘चित्रगोर्देवदत्तस्ये’—त्यादौ पुनः षष्ठ्यादयो न स्युः। बाह्यं सम्बन्धिनमपेक्ष्य भविष्यन्ति।
अथ यथा चित्रगुप्रभृतिभ्यः षष्ठ्यादयः तथा ‘यतो यत्रे’—त्यादिभ्यः पञ्चमीसप्तम्यादयोऽपि कस्मान्न भवन्ति?
उच्यते— ‘तसिलू—त्रलादिभिः पञ्चमीसप्तम्यादीनामभिहितोऽर्थोनन्तर्भूतः। चित्रगुप्रभृतिषु तु बहुव्रीहिणाऽभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्नः इति।
अथेह बहुव्रीहिः कस्मान्न भवति ‘पञ्चभिर्भुक्तमस्य’ ?
बहुव्रीहिः समानाधिकरणानामेवेति स्मरणात्।
यद्येवम्— ‘अस्तिक्षीरा, उच्चैर्मुखः, अभार्यः, प्रपर्णः, उष्ट्रमुखः, चन्द्रवदना, केशचूडः, सुवर्णाऽलङ्कारः, चन्द्रशेखरः, शूलपाणिः, कण्ठेकालः, उरसिलोमेति बहुव्रहिसंज्ञा न प्राप्नोति। तथाहि— आद्येषु चतुर्षु पूर्वपदमव्ययम्, तस्याऽसत्त्ववाचित्वात् सत्त्वभूतैः क्षीरादिभिः सह सामानाधिकरण्यं नास्ति; मध्यमेष्वपि विशेषणविशेष्य— भावानुपपत्तेर्न सामानाधिकरण्यं घटतो; अन्त्येषु तु सप्तम्यन्त—प्रथमान्तयो— रसामानाधिकरण्यं व्यक्तमेनेति।
नैवम्।
एतेष्वपि सामानाधिकरण्योपपत्तेः। तत्र
अस्तीति निपातो विभक्तिप्रतिरूप इति कालं पुरुषं संख्यां साधनं च न व्यभिचरति। उच्चैःशब्दस्यापि सत्त्ववचनत्वं दृश्यते ‘किं पुनर्यस्तथोच्चैः (मेघ. १७) इति। अतएव एताभ्यामस्तितोच्चस्त्वमिति भावप्रत्यया अपि। अभार्य इत्यादिषु दध्यो दनादिवन्मध्यमपदलोपो व्यवस्थितविभाषया वृत्तिविषये द्रष्टव्यः। तेनायमर्थः सम्पद्यते—
अस्ति क्षीरमस्याः अस्तिक्षीरा गौः,
उच्चैर्मुखमस्य उच्चैर्मुखो मैत्रेयः,
अविद्यमाना भार्या अस्य अभार्यः, अविद्यमानभार्यो वा,
प्रपतितानि पर्णानि अस्य प्रपर्णः, प्रपतितपर्णो वा।
‘उष्ट्रमुखः चन्द्रवदने—‘त्येतयोस्तु उष्ट्रचन्द्रशब्दौ भूयोऽवयवसामान्ययोगातिशया— दभेदोपचारेण मुखविशेषणं भवन्तौ गौणी वृत्तिमनुभवतः।
ननु किमुष्ट्रमुखयोर्मिथः सादृश्यम्?
उष्ट्रशब्देनेह उष्ट्रमुखमभिधीयते, अवयवेऽप्यवयविवद् उपचारो द्रष्टव्य इति। केशचूडः, सुवर्णालङ्कारः, इत्येतयोस्तु केशसंघाते केशशब्दो वर्त्तते, सुवर्णविकारे तु सुवर्णशब्द, कारणे कार्योपचारात्।
‘चन्द्रशेखरः, शूलपाणिः’ इत्यत्र चन्द्रशूलोपलक्षितौ शेखरपाणी चन्द्रशूल— शब्दाभिधेयौ। यथा ‘कुन्तान् प्रवेशय यष्टीः प्रवेशये’ ति।
‘कण्ठेकाल उरसिलोमा’ इत्येतयोस्तु कण्ठे स्थितः काल अस्य, उरसि जातानि लोमान्यस्ये—ति पदान्तरम् अध्याह्रियते; यथा द्वारं द्वारमित्युक्ते अपाव्रियतां संव्रियतां वेति। एतेन सुबधिकारेऽस्तिक्षीरेत्युपसंख्यानम् (२.२.२४ वा., मभा.)
अव्ययानां बहुव्रीहिर्वक्तव्यः, ( " )
सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च ( " )
समुदायविकारषष्ठ्याश्च ( " )
प्रादिभ्यो धातुजस्य वा ( " )
इत्यपि न भवति। ( " )
ननु परिगणनार्थमप्येतदवश्यं वक्तव्यम्,
नैवम्, क्रियमाणेऽपि हि परिगणने यत्राभ़िधानं नास्ति न तत्र समानाधिकरणानामपि बहुव्रीहिः, तद्यथा पञ्च भुक्तवन्तोऽस्येति। (मभा. २.२.२४ वा. १०, १६)
एवं तर्हि मत्वर्थग्रहणं करिष्यते—’ समानाधिकरणानां मत्वर्थ बहुव्रीहिर्भवतीति; तथाऽपि ऊढो रथोऽनेन ऊढरथोऽनड्वान्, दक्षिणस्याश्च पूर्वस्याश्च दिशो यदन्तरालं सा दक्षिणपूर्वा, पुत्रेण सह सपुत्रः, केशेषु केशेषु च गृहीत्वा प्रवृत्तं युद्धं केशाकेशि, दण्डैश्च दण्डैश्च प्रहृत्य दण्डादण्डि, त्रिर्दशैते त्रिदशाः, इत्येवमादिभिरव्याप्तिरेव।
तस्मात् सुदूरमपि गत्वाऽभिधानमेवाश्रयितव्यम्। अभिधानलक्षणा हि कृत्तद्धितसमासा इति कृतं परिगणनेन।
अथ त्रिदशा इति कोऽस्य विग्रहः ?
त्रिर्दशैते त्रिदशा इति। संख्यासमासे सुजन्तस्य संख्येत्यप्रसिद्धिः’ इति (२.२.२५ वार्त्तिक—१) न हि अत्कारान्ता संख्याऽस्ति।
अस्तु तर्हि अयमेव विग्रहः— ‘त्रिर्दशैते त्रिदशा’ इति। ननु चोक्तं संख्यासमासे सुजन्तस्य संख्येत्यप्रसिद्धिरिति, नैष दोषः, सुजन्तस्य संख्येत्यप्रसिद्धिः, न चाऽत्र समासे सुजन्तं पश्यामः।
किं तर्हि ?
वाक्ये सुच् दृश्यते, समासे तु न दृश्यते ?
अभिहितत्वात्,
अभिहितः सुजर्थः।
केन ?
समासेन। किं च भोः सुजर्थे समास उच्यते ?
नैवम्, सामर्थ्यादिह सुजर्थो गम्यते।
कथम् ?
यावता संख्या संख्यया संख्यायते, स च क्रियाभ्यावृत्त्यर्थ उक्तः समासेनेति कृत्वा सुज् न भविष्यति।
प्रकृतिः प्रातिपदिकरूपाऽप्येषोपदर्शिता।
स्वरूपं प्रत्ययादीनां पृथक् पृथगथोच्यते ॥ ४९ ॥
(२. प्रत्ययः)
तत्र प्रतीयतेऽनेनार्थ इति प्रत्ययः।
स त्रिधा १. धातुप्रत्ययः २. प्रत्ययप्रत्ययः ३. प्रातिपदिकप्रत्यय इति। तेषु— (१. धातुप्रत्ययाः—)
सनादयः, तिबादयः, तुमुनादयः, तव्यादयः, ण्वुलादयः, उणादयश्चेति धातुप्रत्ययभेदाः। तत्र—
(सनादयः)
इच्छाप्रयोजकव्यापारादिक्रियासु क्रियासमभिहारादिषु च ये विधीयमानाः क्रियावचनत्वाद् भूवादिवदेव प्रत्ययान्तरमपेक्षन्ते ते सनादयः। यथा— चिकीर्षति, अध्यापयति, पापच्यते, गोपायति, ऋतीयते, कामयते इति।
(तिबादयः)
क्रियाप्रधानाः कर्तृकर्मणोः क्रियायां च ये विहिताः साध्यरूपापन्नक्रियाभिधायित्वेन प्रत्ययान्तरं नापेक्षन्ते ते तिबादयः। यथा ‘व्रजति देवदत्तः, पच्यते ओदनः, रज्यति वस्त्रम्, लूयते केदारः, चोरस्य रुजति, आस्यते युष्माभिः’ इति।
(तुमुनादयः)
अनुपातिक्रिया— क्रियाभिधायिनोऽसत्त्वभूतार्थाः साध्यभावे ये विधीयन्ते ते तुमुनादयः। यथा—‘पक्तुमिच्छति, भुक्त्वा व्रजति, अधीत्य स्नाति, पायंपायमास्ते, चोरङ्कारमाक्रोशति, चकासाञ्चकार इति।
(तव्यादयः)
प्रायेण भावकर्म्मणोः कर्त्रादिषु च ये विधीयन्ते ते तव्यादयः। यथा— गन्तव्यं भवता, करणीयः कटः, कृतं भवता, लूयमानः केदारः, दुर्गमो मार्गः, वास्तव्यो लोक’ इति।
(ण्वुलादयः)
प्रायेण कर्त्तरि कर्मादिषु च ये विधीयन्ते ते ण्वुलादयः। यथा— पाचकः पुमान् सोमं पवमानम्, पचन्यवागूम्, कन्यामलङ्करिष्णुः, पादहारकः पङ्कः, प्रियङ्करणं शीलम् इति।
(उणादयः)
सर्वकारकेषु सिद्धभावे च ये विधीयमानाः प्रायेण द्रव्यवचनत्वं लभन्ते ते उणादयः। यथा— शीतो वायुः, वत्सला धात्री, तीक्ष्णं दात्रम्, वृद्ध उपाध्यायः, रम्यः प्रासादः, पाको वर्त्तत इति।
(२. प्रत्ययप्रत्ययाः —६)
यदादयः, घादयः, मबादयः, फगादयः, युजादयः, ढगादयश्च प्रत्ययप्रत्ययभेदाः।
(यदादयः)
तेषु भवापत्यस्वार्थमत्वर्थादिषु सुबन्तेभ्यो य उत्पद्यन्ते ते यदादयः। यथा— अप्सव्यः, पूर्वाहणेनम्, चिरन्तनम्, आमुष्यायणः, त्वयका, शुभंयुः इति।
(घादयः)
प्रकर्षाऽपकर्ष—कुत्सा—प्रशंसादिषु तिङन्तेभ्यो य उत्पद्यन्ते ते घादयः। यथा— पचतितराम्, गच्छतितमाम्, जल्पतिकल्पम्, स्पृशतिदेश्यम्, पचतकि, पचतिरूपम् इति।
(मबादयः)
निर्वृत्तस्वार्थमत्वर्थादिषु कृद्भ्यो उत्पद्यन्ते ते मबादयः यथा— कृत्रिमम्, पाकिमम्, सांराविणम्, व्यावक्रोशी, जित्वरी, श्यैनंपाता इति।
(फगादयः)
जीवद्वंश्य—प्रशस्तकुत्सितस्वार्थादिषु अपत्यादितद्धितान्तेभ्यो य उत्पद्यन्ते ते फगादयः। यथा— गार्ग्यायणः, दाक्षायणः वार्ष्यायणिकः आभिजित्यः कौञ्जायन्य इति।
(युजादयः)
सिद्धभाव—ताच्छील्योपाधिकर्त्रादिषु णिजादिधातुप्रत्ययान्तेभ्यो य उत्पद्यन्ते ते युजादयः। यथा— कारणा, अटाट्या, यायजूकः, सासहिः, यायावरः, चिकीर्षुः इति।
(ढगादयः)
अपत्याद्यर्थ—स्वार्थ—शक्ति—संख्यादिषु स्त्रीप्रत्ययान्तेभ्यो य उत्पद्यन्ते ते ढगादयः। यथा— गाङ्गेयः, यौवतेयः, वाराणसेयः, सुवधूकः, नद्याम्, खटवायां, युवतयः इति।
(३. प्रातिपदिकप्रत्ययाः —६)
टाबादयः, स्वादयः, तसिलादयः, कादयः, अणादयः, क्यजादयश्चेति प्रातिपदिकप्रत्ययभेदाः। तेषु —
(टाबादयः)
प्रकृतिलिङ्गाभिधायिनः प्रातिपदिकाद्य उत्पद्यन्ते ते टाबादयः। यथा— खट्वा, सुदामा, कारीषगन्ध्या, ब्रह्मबन्धूः, कुमारी युवतिः इति।
(स्वादयः)
प्रकृत्यर्थसंख्याभिधायिनः प्रातिपदिकादेव य उत्पद्यन्ते ते स्वादयः। यथा— कुण्डम्, कुण्डे, कुण्डाभ्याम्, कुण्डेभ्यः, कुण्डयोः, कुण्डेषु इति।
(तसिलादयः)
शक्तिमात्राभिधायिनः सोपाधिशक्त्यभिधायिनो वा सुबन्तप्रातिपदिकात् स्वार्थादिषु य उत्पद्यन्ते ते तसिलादयः। यथा— यतः, यत्र, कदा, पुरस्तात्, बहुशः, पुरुत्रावसति इति।
(कादयः)
कुत्सा—प्रशंसाऽतिशयाऽनतिशयाद्युपाधेरनुपाधेश्च सुबन्तादेव प्रातिपदिकात् स्वार्थादिषु य उत्पद्यन्ते ते कादयः। यथा— अश्वकः, युष्मकाभिः, वैयाकरणरूपः, पटुतरः कुटीरः, तार्तीयीकम् इति।
(अणादयः)
समर्थप्रातिपदिकात् सम्बन्धिकारकभावेषु य उत्पद्यन्ते ते अणादयः। यथा— औपगवः, तावकीनः, आक्षिकः, वामदेव्यम्, ब्राह्मणत्वम्, पौराहित्यम् इति।
(क्यजादयः)
कर्मादिकारकोपहित—क्रियेच्छाचार—च्व्यर्थादिषु समर्थादेव प्रातिपंदिकाद् य उत्पद्यन्ते ते क्यजादयः। यथा— चित्रीयते, पुत्रकाम्यति, श्येनायते, लोहितायति, कण्डूयते, मुण्डयति’ इति।
(३. उपस्कारः)
प्रकृतिप्रत्ययानामुपसर्गोपग्रहागमलोपवर्णविकारविकरणादिरूपः संस्कारं उपस्कारः।
स च त्रिधा (१) प्रकृत्युपस्कारः, (२) प्रत्ययोपस्कारः, (३)उभयोपस्कारश्चेति।
ते पुनर्भूषण—समवायाऽ—ध्याहार—वैकृत—यत्न—प्रतियत्नभेदात् प्रत्येकं षट्प्रकारा भवन्ति। तत्र—
(१. प्रकृत्युपस्काराः —६)
१. प्रकृतेर्भूषणरूप निरर्थकोपसर्गस्वार्थक—वैकल्पिकादयः। यथा— अध्यागच्छति, पर्यागच्छति, प्रलम्बते, निखञ्जति इति; यावकः, षाङ्गुण्यम्, औपयिकम्, मानसम् इति; आली, मृदवी, कमण्डलूः, चञ्चूः इति।
२. समवायरूपाः सार्थकोपसर्गसन्क्यङादयः। यथा—आशास्ते, प्रतिष्ठते, सुमनायते, दुर्मनायते, इति। जुगुप्सते, गोपायते, ऋतीयते, कामयते इति। पुत्रीयति, पुत्रकाम्यति, श्येनायते, मुण्डयति इति।
३. अध्याहाररूपाः सहाभिधायकोपसर्गद्विर्वचनसुडागमादयः। यथा—अधीते, अध्येति, अनुरुध्यते, संग्रामयते इति; जञ्जप्यते, संपनीपद्यते, अरार्यते, उन्दिदिषति इति। उपस्कुरुते, अपप्तत्, आस्थत्, मध्वस्यति इति।
४. वैकृतरूपा वर्णव्यत्यय—विपर्ययापायादयः। यथा—निषिञ्चति, प्रणयति, यन्ति, उशन्ति इति; तरुः, सिंहः, सिकता, सक्तव इति; सन्ति, घ्नन्ति, द्यन्ति, समगत इति।
५. यत्नरूपा उपचय—प्रसव—संवृत्यादयः। यथा—यौति, मेद्यति,दीव्यति, निगूहति इति; कीर्यते, पूर्यते, सौधातकिः, स्वायम्भुवम् इति; आस्त, आस्ते, अवोचत्, घटयति इति।
६. प्रतियत्नरूपाः विशेषादेशविधिनिषेधादयः। यथा—आह, अघसत्, वध्यात्, अध्यगीष्महि इति; जप्यः, पित्र्यम्, सनम्, गव्यम्, नाव्यम् इति; तितउः, प्रउगम्, कोकूयते, कथयति इति।
(२. प्रत्ययोपस्काराः —६)
१. प्रत्ययस्य भूषणरूपा इडसुगीकगादयः। यथा सहिता, वारिता भ्रुवै, भ्रूणाम् इति; देवासः, पारयामसि, तारिषत्, भवाति इति; तार्तीयीकम्, पीत्वाय, त्वयका, पचतकि इति।
२. समवायरूपाः स्यसिच्सीयुडादयः। यथा करिष्यति, अकरिष्यत्, वक्ता, ब्रवीतिं इति, अपाक्षीत् अपीपचत्, अशिषत्, अलिक्षत् इति; कृषीष्ट, कुर्यात्, कुर्वीत, करवामहै इति।
३. अध्याहाररूपाः प्रत्ययार्थविशेषकोपसर्गमप्तरबादयः। यथा— सुमनायते, दुर्मनायते, अभिमनायते, अभिषेणयति इति। कृत्रिमं सांराविणम्, व्यावहासी, कौञ्जायन्यः इति; पचतितरां, पचमानः, सर्वेषाम्, वृक्षाणामिति।
४. वैकृतरूपाः आदेश—सर्वादेशप्रत्ययादेशादयः। यथा—गार्ग्यायणः, चान्द्रमसायनिः, कौबेरकः, गौधेरः, कौलेयक इति, पवनः, पावकः, वृक्षस्यः, वृक्षैः इति; वेद, विवेद, विद्वान्, विद्धि इति।
५. यत्नरूपा लुग्लुम्पनविलुम्पनादयः। यथा—पचत्, जुहोति, पञ्चालाः, दधि इति। ददृशे, अद्राक्षीत्, कारकः, कामण्डलेय इति। अग्निचित्, शुभंयाः, मूलखाः, अश्वति’ इति।
६. प्रतियत्नरूपाः विशेषादेशविधिनिषेधादयः। यथा—तस्थौ, वेद, प्रशाधि, जीवतात्, इति; उदपादि, राष्ट्रियः, आग्नेयः, स्त्रैणम् इति; सुभ्रूः, सुप्रेयसी, व्यतिहसन्ति, व्यतिगच्छन्ति इति।
(३. उभयोपस्काराः —६)
१. उभयोर्भूषणरूपा युष्मत्प्रभृतिप्रयोगादयः। यथा— त्वं पचसि, युवां पचथः, यूयं पचथ, अहं पचामि, आवां पचावः, वयं पचामः, वायुर्वाति, देवो वर्षति, भज्यते शाखा स्वयमेव, अवकिरते हस्ती स्वयमेव, भूषयते कन्या स्वयमेव, ब्रूते कथा स्वयमेवेति।
२. समवायरूपा विकरणादयः। यथा— भवति, चोरयति, दीव्यति, सुनोति, तुदति, तनोति, रुणद्धि, क्रीणाति, स्वयं नमते, दुग्धे, तप्यते तपः लूयते केदारः, इति।
३. अध्याहाररूपा द्विरुक्त्यादयः। यथा— पायंपायम् पचतिपचति, ग्रामो ग्रामो रमणीयः, मूले मूले स्थूलाः, अग्रे अग्रे सूक्ष्माः, पूर्वं पूर्वं पुष्यति, प्रथमं प्रथमं पच्यते, ज्येष्ठं ज्येष्ठमुपवेशय, माषं माषं देहि, उपर्युपर्यास्ते, अहिरहिः, बुध यस्व बुध्यस्वेति।
४. वैकृतरूपा वानावादयः। यथा— ग्रामो वाम्, ग्रामो नौ, ग्रामो वः, ग्रामो नः, ग्रामस्ते, ग्रामो मे, ग्रामस्त्वा रक्षत्, ग्रामो मा रक्षत्, हैयङ्गवीनम्, मातुलः, क्षत्रियः, श्रोत्रियः इति।
५. यत्नरूपा अनुप्रयोगादयः। यथा— अग्निसात् संपद्यते भस्मसाद् भवति, ब्राह्मणसात् स्यात्, देवत्राकरोति, मर्त्यत्रागच्छति, मनुष्यत्रावसति, शुक्लीभवति, पटपटाकरोति, चकासांचकार कारयामास, बिभराम्बभूव, विदांकुर्वन्तु इति।
६. प्रतिपयत्नरूपा विध्यनुप्रयोगादयः। यथा— रैपोषं पुष्णाति, समूलकाषं कषति, जीवग्राहं गृह्णाति, पुरुषवाहं वहति, ऊर्ध्वशोषं शुष्कः, चूडकनाशं नष्टः, ओदनपाकं पक्वः, सुवर्णनिधायं निहितः, लुनीहि लुनीहित्येवायं लुनाति, अधीष्वाधीष्वे— त्येवायमधीते, भ्राष्टमट मठमट, खदूरमटेत्येवायमटति, ‘सक्तून् पिब, धानाः खाद ओदनं भुङ्क्ष्वेत्येवायमभ्यवहरति इति।
(४. उपपदम्)
उपस्कारविशेष एव प्रकृतिसमीपोच्चारितं पदमुपपदम्।
तत् त्रिधा १. तिङुपपदम्, २. कृदुपपदम्, ३. सुबुपपदं च।
(१. तिङुपपदम् —६)
तेषु प्रथमं क्रियारूपम्, कारकरूपम्, नामरूपम्, अव्ययरूपम्, निपातरूपम् उपसर्गरूपं च। तेषु—
क्रियारूपं यथा— एहि मन्ये रथेन यास्यति न मर्षयामि यत् तत्रभवान् वृषलं याजयेत्।
कारकरूपं यथा— अश्वेन संचरते, दास्या संप्रयच्छते।
नामरूपं यथा— कालो यद् भुञ्जीत भवान्।
अव्ययरूपं यथा— कथं नाम तत्रभवान् वृषलं याजयेत्, नमते दण्डः स्वयमेव।
निपातरूपं यथा— यावद् भुङ्क्ते, पुरा व्रजति
उपसर्गरूपं यथा— पराक्रमते पराजयते इति।
(२. कृदुपपदम् —६)
द्वितीयमपि क्रियारूपम्, कारकरूपम्, नामरूपम्, अव्ययरूपम्, निपातरूपम् उपसर्गरूपं च। तेषु —
क्रियारूपं यथा— भोक्तुं व्रजति, भोजको व्रजति, गोदायो व्रजति, कर्त्तुमिच्छति इति।
कारकरूपं यथा— कुम्भकारः, उत्तानशयः, शय्योत्थायम्, मूलकोपदंशम् इति।
नामरूपं यथा— कालो भोक्तुम्, समयो भोक्तुम्, ब्रह्मभूयम्, ब्रह्मोद्यम् इति।
अव्ययरूपं यथा— दिवाकरः, दोषाकरः, मृषोद्यम्, ईषत्पानः इति।
निपातरूपं यथा— अलंकृत्वा, खलु कृत्वा, यावद्वेदम् अन्यथाकारमिति।
उपसर्गरूपं यथा— प्रजयी, प्रसवी, विकत्थी, निराकरिष्णुः इति।
(३. सुबुपपदम् —६)
तृतीयं क्रियारूपम् कारकरूपं नामरूपम् अव्ययरूपम्, निपातरूपम् कर्मप्रवचनीयरूपं चेति। तेषु —
क्रियारूपं यथा— न त्वां तृणाय मन्ये, संतापाय प्रभवति, गोषु दुह्यमानासु गतः, क्रोशतः प्राव्राजीदिति।
कारकरूपं यथा— चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्, केशेषु प्रसितः, ब्राह्मणेषु भुञ्जानेषु वृषला आसते, वृषलेष्वासीनेषु ब्राह्मणा भुञ्जते इति।
नामरूपं यथा— गवां स्वामी, अन्नस्य हेतोर्वसति, पित्रा सदृशः, शिवं प्रजाभ्य इति।
अव्ययरूपं यथा— समया ग्रामम्, सहच्छात्रेण, नमो देवेभ्यः, दक्षिणाहि ग्रामात् इति।
निपातरूपं यथा— हे देवदत्त? हा देवदत्तम्, विना विष्णुमित्रेण, ऋते यज्ञदत्तादिति।
कर्मप्रवचनीयरूपं यथा— वृक्षमनु विद्योतते, उपार्जुनं योद्धारः, अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्त इति ॥
प्रकृतिप्रत्ययावेवमुपस्कारश्च दर्शितः।
क्रमादुपपदस्यापि स्वरूपमुपवर्णितम् ॥ ५० ॥
अव्ययानि निपाताश्च गतयश्च निरूपिताः।
कर्मप्रवचनीयाश्च सोपसर्गाः प्रकाशिताः ॥ ५१॥
न केवलेह प्रकृतिः प्रयुज्यते न केवलाः सुप्तिङजण्क्यजादयः।
भवत्युपस्कार इहाऽपृथग्द्वयोर्द्वयार्थमेवोपपदं प्रयुज्यते ॥ ४२ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे प्रकृत्यादिप्रकाशो नाम ॥ प्रथमः प्रकाशः ॥ १ ॥*
प्रकाश एषोऽद्य सनातनेन व्यधायि नूनं विततप्रकाशः।
प्रश्लेषबन्धादुपमुच्य तत्तत्प्रघट्टराजत्प्रविभक्तगात्रः ॥
एवमत्र प्रथमप्रकाशे द्वादशसु शब्दभेदेषु प्रथमे चत्वारो भेदा निरूपिताः। मध्यवर्त्तिनश्चत्वारो द्वितीये द्रष्टव्याः। अन्तिमाश्चत्वारो पुनस्तृतीये। एवं शब्दभेदाय प्रकाशत्रयमधिक्रियते।