चतुर्थ उद्द्योतः चतुर्थ उद्द्योतः एवं ध्वनिं सप्रपञ्चं विप्रतिपत्तिनिरासार्थं व्युत्पाद्य तद्व्युत्पादने

लोचनं

चतुर्थ उद्द्योतः कृत्यपञ्चकनिर्वाहयोगेऽपि परमेश्वरः । नान्योपकरणापेक्षो यया तां नौमि शाङ्करीम् ॥ ॥ उद्योतान्तरसङ्गतिं विरचयितुं वृतिकार आहएवमिति । प्रयोजनान्तरमिति । यद्यपि “सहदयमनःप्रीतय” इत्यनेन प्रयोजनं प्रागेवोक्तं, तृतीयोद्योतावधौ च सत्काव्यं कर्तुं वा ज्ञातुं वेति तदेवेषत्स्फुटीकृतं, तथापि स्फुटतरीकर्तुमिदानीं यत्नः । यतस्सुस्पष्टरूपत्वेन विज्ञायते, अतोऽस्पष्टनिरूपितात्स्पष्टनिरूपणमन्यथैव प्रतिभातीति प्रयोजनान्तरमित्युक्तम् । अथवा पूर्वोक्तयोः प्रयोजनयोरन्तरं विशेषोऽभिधीयते - केन विशेषेण सत्काव्यकरणमस्य प्रयोजनं, केन च सत्काव्यबोध इति विशेषो निरूप्यते ।

बालप्रिया

अथ चतुर्थोद्योतटिप्पणी प्रारभ्यते अर्थोद्योतं चतुर्थे च लोचनस्य यथामति । किमपि व्याकरिष्यामि प्रसीदन्त्वत्र मे बुधाः ॥ ॥ कृत्येति । कृत्यपञ्चकं सृष्ट्यादिरूपम् । यथोक्तं"पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः तद्वदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य" इति । यया मायारूपया हेतुना । नान्योपकरणापेक्ष इति सम्बन्धः । मायारूपां यामेवापेक्षमाणः सृष्ट्यादिकं निर्वहतीत्यर्थः । उद्योतान्तरसङ्गतिमिति । तृतीयोद्योतेन सह चतुर्थोद्योतस्य सङ्गतिमित्यर्थः । पूर्वोक्तस्यैव प्रयोजनस्य वक्ष्यमाणत्वात्प्रयोजनान्तरमित्युक्तिरयुक्तेत्याशङ्क्य समाधत्तेयद्यपीत्यादि । ननु प्रीतिरूपप्रयोजनस्योक्तत्वेऽपि वक्ष्यमाणं तदन्यदेवेत्यत आहतृतीयेत्यादि । तदेवेति । प्रयोजनमेवेत्यर्थः । स्फुटतरीकर्तुमिति । तदेवेत्यनुषज्यते । विज्ञायत इति । वक्ष्यमाणमिति शेषः । ततः किमत आहअत इत्यादि । अस्पष्टनिरूपितादिति । प्रयोजनादिति शेषः । सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः सद्भिः ध्वनिः प्रयत्नतो विवेच्य इत्युक्त्या सत्काव्यकरणज्ञानयोः ध्वनिविवेचनप्रयोजनत्वमर्थाल्लभ्यत इत्यतस्तत्प्रयोजनमस्पष्टनिरूपितमित्यर्थः । स्पष्टनिरूपणमिति । स्पष्टमुक्तमित्यर्थः । प्रकारान्तरेण व्याचष्टेअथवेत्यादि । उक्तस्यैव विवरणम्केन विशेषेणेत्यादि । अस्येति । ध्वनिव्युत्पादनस्येत्यर्थः । प्रयोजनान्तरमुच्यते


ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः । अनेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥ कारिका४.१ ॥


ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः । अनेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥ १ ॥ य एष ध्वनेर्गुणभूतव्यङ्ग्यस्य च मार्गः प्रकाशितस्तस्य फलान्तरं कविप्रतिभानन्त्यम् । कथमिति चेत्


अतो ह्यन्यतमेनापि प्रकारेण विभूषिता । वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि ॥ कारिका४.२ ॥


अतो ह्यन्यतमेनापि प्रकारेण विभूषिता । वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि ॥ २ ॥

लोचनं

तत्र सत्काव्यकरणे कथमस्य व्यापार इति पूर्वं वक्तव्यं निष्पादितस्य ज्ञेयत्वादिति तदुच्यते ध्वनेर्य इति ॥१ ॥

ननु ध्वनिभेदात्प्रतिभानामानन्त्यमिति व्यधिकरणमेतदित्यभिप्रायेणाशङ्कतेकथमितीति । अत्रोत्तरमतो हीति । आसतान्तावद्बहवः प्रकाराः, एकेनाप्येवं भवतीत्यपिशब्दार्थः । एतदुक्तं भवतिवर्णनीयवस्तुनिष्ठः प्रज्ञाविशेषः प्रतिभानं, तत्र वर्णनीयस्य पारिमित्यादाद्यकविनैव स्पृष्टत्वात्सर्वस्य तद्विषयं प्रतिभानं तज्जातीयमेव स्यात् । ततश्च काव्यमपि तज्जातीयमेवेति भ्रष्ट इदानीं कविप्रयोगः, उक्तवैचित्र्येण तु त एवार्था निरवधयो भवन्तीति तद्विषयाणां प्रतिभानामानन्त्यमुपपन्नमिति । ननु प्रतिभानन्त्यस्य किं फलमिति निर्णेतुं वाणी नवत्वमायातीत्युक्तं, तेन वाणीनां काव्यवाक्यानां तावन्नवत्वमायाति । तच्च प्रतिभानन्त्ये सत्युपद्यते, तच्चार्थानन्त्ये, तच्च ध्वनिप्रभेदादिति ।

बालप्रिया

कथमस्य व्यापार इतीति । ध्वनिप्रतिपादनं कथमुपयोगीत्येतदित्यर्थः । इत्येतदिति सम्बन्धः ॥ १ ॥ ॥ ॥ व्यधिकरणमिति । असङ्गतमित्यर्थः । “अन्यतमेनापी"त्यपिशब्दं दर्शयतिआसतामिति । एतदुक्तं भवतीति । प्रथमकारिकोत्तरार्धेन द्वितीयकारिकया च वक्ष्यमाणो भावार्थः प्रदर्शितो भवतीत्यर्थः । तमेवाहवर्णनीयेत्यादि । ध्वनिप्रभेदादित्यन्तेन । वर्णनीयवस्तुनिष्ठः वर्णनीयतत्तद्वस्तुविषयकः । प्रज्ञाविशेष इति । स्फुर्तिरूप इत्यर्थः । कवेरिति शेषः । तज्जातीयमिति । आद्यकविप्रतिभानजातीयमित्यर्थः । तज्जातीयमेवेति । आद्यकविकाव्यजातीयमेवेत्यर्थः । इतीति हेतौ । भ्रष्ट इति । स्यादित्यनुषङ्गः । उक्तवैचित्र्येणेति । ध्वनिगुणीभूतव्यङ्ग्यवैचित्र्येणेत्यर्थः । वाणीनामित्यस्य विवरणम्काव्यवाक्यानामिति । इतीति समाप्तौ । अतो ध्वनेरुक्तप्रभेदमध्यादन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातनकविनिबद्धार्थसंस्पर्शवत्यपि नवत्वमायाति । तथाह्यविवक्षितवाच्यस्य ध्वनेः प्रकारद्वयसमाश्रयणेन नवत्वं पूर्वार्थानुगमेऽपि यथा स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोर्भिसरसः । गतानामारम्भः किसलयितलीलापरिमलः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥ लोचनम् तत्र प्रथममत्यन्ततिरस्कृतवाच्यान्वयमाहस्मितमिति । मुग्धमधुरविभवसरसकिसलयितपरिमलस्पर्शनान्यत्यन्ततिरस्कृतानि । तैरनाहृतसौन्दर्यसर्वजनवाल्लभ्याक्षीणप्रसरत्वसन्तापप्रशमनतर्पकत्वसौकुमाय्रसार्वङ्कालिकतत्संस्कारानुवृत्तित्वयत्नाभिलषणीयसङ्गतत्वानि ध्वन्यमानानि यानि, तैः स्मितादेः प्रसिद्धस्यार्थस्य स्थविरवेधोविहितधर्मव्यतिरेकेण धर्मान्तरपात्रात यावत्क्रियते, तावत्तदपूर्वमेव सम्पद्यत इति सर्वत्रेति मन्तव्यम् । अस्येति अपूर्वत्वमेव भासत इति दूरेण सम्बन्धः । सर्वत्रैवास्य

बालप्रिया

“स्मितम्” इति । किञ्चित्स्मितं मन्दस्मितम् । मुग्धं भवति इति सर्वत्र शेष । तरलश्च मधुरश्च तरलमधुरः । दृष्टिविभवः विभवविशिष्टा दृष्टिः । परिस्पन्दः प्रसरः । अभिनवा ये विलासास्तात्कालिका विशेषास्तेषामूर्मिभिः उत्तरोत्तरमुत्पद्यमानाभिः परम्पराभिः सरसः । किसलयितः किसलयसम्बन्धी लीलायाः परिमलो यत्र तथाभूतः. मोहयतीति व्युत्पत्त्या मोहकारित्वं “मुग्धा नववयःकामे"त्यादिना लक्षितं लौग्ध्यं वा यत्तद्वान्मुग्धशब्दस्य मुख्यार्थः । एवं मधुरविभावादिशब्दानां मधुररसैश्वर्यादयो मुख्यार्थाः, तेषामत्र बाधात्तत्सादृश्येन निमित्तेन मुग्धादिशब्दाः स्मितादीन् लक्षयन्ति, तेन च स्मितादीनां सौन्दर्यविशेषादिकं द्योत्यत इत्याहमुग्धेत्यादि । मुग्धमधुरेत्यादि । मुग्धमधुरादयो मुख्यार्था इत्यर्थः । अत्यन्ततिरस्कृतानीति । बाधादिति भावः । तैरित्यस्य ध्वन्यमानानीत्यनेन सम्बन्धः । अत्र यथासंख्यं तेन स्मितस्य अनाहृतमकृत्रिमं सौन्दर्यम् । दृष्टेः सर्वजनवाल्लभ्यमक्षीणप्रसरत्वं च । वचसस्सन्तापप्रशमनत्वं तर्पकत्वं च, गमनस्य सुकुमारपादकृतत्वेन मान्द्यं सार्वकालिकलीलानुवृत्तित्वं च, तारुण्यस्य यत्नाभिलषयणीयसङ्गतत्वं च ध्वन्यत इत्यर्थः । तैर्धर्मान्तरपात्रतेति सम्बन्धः । अनाहृतसौन्दर्यादिरूपधर्मान्तरपात्रत्वमित्यर्थः । स्थविरवेधाः ब्रह्मा । तदिति । स्मितादकमित्यर्थः । इतीति हेतौ । सर्वत्रेत्यादि । इत्थं सर्वत्र मन्तव्यमित्यर्थः । अपूर्वत्वमेव भासत इति । भाविभ्रमेत्यादौ स्मितादीनां

इत्यस्य, सविभ्रमस्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्गिरः । नितम्बालसगामिन्यः कामिन्यः कस्य न प्रियाः ॥ ॥ इत्येवमादिषु श्लोकेषु सत्स्वपि तिरस्कृतवाच्यध्वनिसमाश्रयेणापूर्वत्वमेव प्रतिभासते । तथा यः प्रथमः प्रथमः स तु तथाहि हतहस्तिबहलपललाशी । श्वापदगणेषु सिंहः सिंहः केनाधरीक्रियते ॥ ॥ इत्यस्य, स्वतेजःक्रीतमहिमा केनान्येनातिशय्यते । महद्भिरपि मातङ्गैः सिंहः किमभिभूयते ॥ ॥ इत्येवमादिषु श्लोकेषु सत्स्वप्यर्थान्तरसङ्क्रमितवाच्यध्वनिसमाश्रयेण नवत्वम् । विवक्षितान्यपरवाच्यस्याप्युक्तप्रकारसमाश्रयेण नवत्वं यथा निद्राकैतविनः प्रियस्य वदने विन्यस्य वक्रं वधूः बोधत्रासनिरुद्धचुम्बनरसाप्याभोगलोलं स्थिता ।

लोचनं

नवत्वमिति सङ्गतिः । द्वितीयः प्रथमशब्दोऽर्थान्तरेऽनपाकरणीयप्रधानत्वासाधारणत्वादिव्यङ्ग्यधर्मान्तरे सङ्क्रान्तं स्वार्थं व्यनक्ति । एवं सिंहशब्दोऽपि वीरत्वानपेक्षत्वविस्मयनीयत्वादौ व्यङ्ग्यधर्मान्तरे सङ्क्रान्तं स्वार्थं ध्वनति । एवं प्रथमस्य द्वौ भेदावुदाहृत्य द्वितीयस्याप्युदाहर्तुमासूत्रयतिविवक्षितेति । निद्रायां कैतवी कृतकसुप्त इत्यर्थः । वदने विन्यस्य वक्त्रमिति । वदनस्पर्शजमेव तावद्दिव्यं सुखं त्यक्तुन्न पारयतीति । अत एव प्रियस्येति । वधूः नवोढा । बोधत्रासेन प्रियतमप्रबोधभयेन निरुद्धो हठात्प्रवर्तमानः प्रवर्तमानोऽपि कथञ्चित्कथञ्चित्

बालप्रिया

चतुर्णा वर्णनेऽपि तदपेक्षया स्मितं किञ्चिदित्यादौ तद्वर्णनस्यापूर्वत्वमेव भातीत्यर्थः । एवमुत्तरत्रापि बोध्यम् । अनपेति । अनपाकरणीयप्रधानत्वासाधारणत्वादिरूपं व्यङ्ग्यं यद्धर्मान्तरं तस्मिन्नित्यर्थः । वीरत्वेत्यादेरप्येवमर्थो बोध्यः । कृतकेति । कैतवेत्यर्थः । तावदिति । आदावित्यर्थः । पारयतीति । वधूरिति शेषः । इतीति । व्यज्चत इति शेषः । अत एवेति । एवंविधप्रीतिकारित्वादेवेत्यर्थः । इतीति । इत्युक्तमित्यर्थः । निरुद्धत्वोक्त्या गम्यमाहहठात्प्रवर्तमानोऽपीति । धृतः वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः साकाङ्क्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ॥ ॥ इत्यादेःश्लोकस्य, शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ ॥ इत्यादिषु श्लोकेषु सत्स्वपि नवत्वम् । यथा वा “तरङ्गभ्रूभङ्गा”

लोचनं

क्षणमात्रन्धृतश्चुम्बनाभिलाषो यया । अत एव आभोगेन पुनः पुनर्निद्राविचारनिर्वर्णनया विलोलं कृत्वा स्थिता, न तु सर्वथैव चुम्बनान्निवर्तितुं शक्नोतीत्यर्थः । एवंभूतैषा यदि मया परिचुम्ब्यते, तद्विलक्षा विमुखीभवेदिति तस्यापि प्रियस्य परिचुम्बनविषये निरारम्भस्य । हृदयं साकाङ्क्षप्रतिपत्ति नामेति । साकाङ्क्षा साभिलाषा प्रतिपत्तिः स्थितिर्यस्य तादृशं रुहिरुहिकाकदर्थितं न तु मनोरथसम्पत्तिचरितार्थं, किन्तु रेतः परस्परजीवितसर्वस्वाभिमानरूपायाः परनिर्वृतेः केन चिदप्यनुभवेनालब्धावगाहनायाः पारङ्गतमिति परिपूर्णीभूत एव शृङ्गारः । द्वितीयश्लोके तु परिचुम्बनं सम्पन्नं लज्जा स्वशब्देनोक्ता । तेनापि सा परिचुम्बितेति यद्यपि पोषित एव शृङ्गारः, तथापि प्रथमश्लोके परस्पराभिलाषप्रसरनिरोधपरम्परापर्यवसानासम्भवेन या

बालप्रिया

प्रतिबद्धः । भोगपदस्य साक्षात्कारार्थकत्वमभिप्रेत्याहआभागेनेत्यादि । निद्रेति । निद्राविचारेण अयं निद्रातीति बुद्ध्या या निर्वर्णना दर्शनं तयेत्यर्थः । अनेन चुम्बनाभिलाषस्य पुनराविर्भावो गम्यते । विलोलं कृत्वा चुम्बनसंशयसहितं यथा तथा । भावार्थमाहन त्वित्यादि । उत्तरार्धं विवृणोतिएवमित्यादि । विलक्षा लज्जिता सती । इतीति हेतौ । अपीति वध्वाः समुच्चये । रुहरुहिकाकदर्थितं औत्सुक्येन पीडितम् । गम्यमर्थमाहन त्वित्यादि । चरितार्थमित्यस्यानन्तरं यद्यपीति क्वचित्ग्रन्थे पाठः, तत्तु नामशब्दविवरणम् । किन्त्विति तुशब्दार्थकथनम् । अनुभवेनेति । चुम्बनालिङ्गनाद्यनुभवेनेत्यर्थः । अलब्धेति । अलब्धमवगाहनं यस्यां तस्यामित्यर्थः । अवगाहनस्यालाभेऽपि पारं गतमित्यापाततो विरोधः । श्लोकस्यास्य नवत्वं दर्शयितुमाहद्वितीयश्लोक इत्यादि । शङ्कतेतेनापीत्यादि । समाधत्तेतथापीत्यादि । परस्परेति । परस्पराभिलाषप्रसरस्य या निरोधपरम्परा तस्या यत्पर्यवसानित्यादिश्लोकस्य “नानाभङ्गिभ्रमद्भूः” इत्यादिश्लोकापेक्षयान्यत्वम् ।


युक्त्यानयानुसर्तव्यो रसादिर्बहुविस्तरः । मिथोऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात् ॥ कारिका४.३ ॥


युक्त्यानयानुसर्तव्यो रसादिर्बहुविस्तरः । मिथोऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात् ॥ ३ ॥ बहुविस्तारोऽयं रसभावतदाभासतत्प्रशमनलक्षणो मार्गो यथास्वं विभावानुभावप्रभेदकलनया यथोक्तं प्राक् । स सर्व एवानया युक्त्यानुसर्तव्यः । यस्य रसादेराश्रयादयं काव्यमार्गः पुरातनैः कविभिः सहस्र संख्यैरसंख्यैर्वा बहुप्रकारं क्षुण्णत्वान्मिथोऽप्यनन्ततामेति । रसभावादीनां हि प्रत्येकं विभावानुभावव्यभिचारिसमाश्रयादपरिमितत्वम् । तेषां चैकैकप्रभेदापेक्षयापि तावज्जगद्वृत्तमुपनिबध्यमानं सुकविभिस्तदिच्छावशादन्यथा स्थितमप्यन्यथैव विवर्तते । प्रतिपादितं चैतच्चित्रविचारावसरे ।

लोचनं

रतिरुक्ता, सोभयोरप्येकस्वरूपचित्तवृत्यनुप्रवेशमाचक्षाणा रति सुतरां पोषयति ॥ २ ॥ ॥ ॥ एवं मौलं भेदचतुष्टयमुदाहृत्यालक्ष्यक्रमभेदेष्वतिदेशमुखेन सर्वोपभेदविषयं निर्देशं करोतियुक्त्यानयेत । अनुसर्तव्य इति । उदाहर्तव्य इत्यर्थः । यथोक्तमिति । तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये । तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पना ॥ ॥ इत्यत्र । प्रतिपादितं चैतदिति । चशब्दोऽपिशब्दार्थे भिन्नक्रमः । एतदपि

बालप्रिया

तदसम्भवेन तत्सम्भवं विनेत्यर्थः । रतिरिति । निर्वृतिरित्यर्थः । उक्तेति । दर्शितेत्यर्थः । सुतरामिति । द्वितीयश्लोकतो"त्यधिकमित्यर्थः ॥ २ ॥ ॥ ॥ मौलं भेदचतुष्टयमिति । अत्यन्ततिरस्कृतवाच्यार्थान्तरसङ्क्रमितवाच्यावविवक्षितवाच्यस्य द्वौ भेदौ, असंलक्ष्यक्रमव्यङ्ग्यसंलक्ष्यक्रमव्यङ्ग्यौ विवक्षितान्यपरवाच्यस्य द्वौ भेदावित्येवमादिमं भेदचतुष्टयमित्यर्थः । उदाहृत्येति । अनेन तरङ्गेत्यादिकं संलक्ष्यक्रमव्यङ्ग्योदाहरणमिति स्फुटीकृतं विक्रमोर्वशीयस्थं, द्वितीयोद्योतोदाहृतं तत्पद्यं तु यथा तदुदाहरणं भवति, तथा सहृदयैरालोचनीयम् । नानाभङ्गीत्यादिश्लोकस्समग्रतया नोपलब्धः । अलक्ष्येति । अलक्ष्यक्रमस्यावान्तरभेदेष्वित्यर्थः । कारिकास्थस्यामुसर्तव्य इत्यस्य व्याख्यानमुदाहर्तव्य इति । यथोक्तं प्रागित्यत्रत्यप्राक्पदार्थकथनं तस्याङ्गानामित्यादि । अपिशब्दार्थ इति । समुच्चय इत्यर्थः । इत्यत्र प्रतिपादितमिति सम्बन्धः । अतथास्थितानित्यत्र पूरयतिबहिरिति । हृदयाद्बहिर्लोक इत्यर्थः । गाथा चात्र कृतैव महाकविना अतहट्ठिए वि तहसण्ठिए व्व हिअअम्मि जा णिवेसेइ । अत्थविसेसे सा जऐ विकडकैगोअरा वाणी ॥ ॥ [अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति । अर्थविशेषान् सा जयति विकटकविगोचरा वाणी ॥ इति छाया] । तदित्थं रसभावाद्याश्रयेण काव्यार्थानामानन्त्यं सुप्रतिपादतम् । एतदेवोपपादयितुमुच्यते

लोचनं

प्रतिपादितं “भावानचेतनानपि चेतनवच्चेतनानचेतनवदि"त्यत्र । अतथास्थितानपि बहिस्तथासंस्थितानिवेति । इवशब्देन एकतरत्र विश्रान्तियोगाभावादेव सुतरां विचित्ररूपानित्यर्थः । हृदय इति । प्रधानतमे समस्तभावकनकनिकषस्थान इत्यर्थः । निवेशयति यस्य यस्य हृदयमस्ति, तस्य तस्य अचलतया तत्र स्थापयतीत्यर्थः । अतेव ते प्रसिद्धार्थेभ्योऽन्य एवेत्यर्थविशेषास्सम्पद्यन्ते । हृदयनिविष्टा एव च तथा भवन्ति नान्यथेत्यर्थः । सा जयति परिच्छिन्नशक्तिभ्यः प्रजापतिभ्योऽप्युत्कर्षेण वर्तते । तत्प्रसादादेव कविगोचरो वर्णनीयोऽर्थो विकटो निस्सीमासम्पद्यते ॥ ३ ॥ ॥ ॥ प्रतिभानां वाणीनाञ्चानन्त्यं ध्वनिकृतमिति यदनुद्भिन्नमुक्तं, तदेव कारिकया भङ्ग्या निरूप्यत इत्याहौपपादयितुमिति । उपपत्या निरूपयितुमित्यर्थः । यद्यप्यर्थानन्त्यमात्रे हेतुर्वृत्तिकारेणोक्तः, तथापि कारिकाकारेण नोक्त इति भावः । यदि वा उच्यते संग्रहश्लोकोऽयमिति भावः । अत एवास्य श्लोकस्य वृत्तिग्रन्थे व्याख्यानं न कृतम् ।

बालप्रिया

इवशब्देनेति । सम्भावनार्थकेनेति भावः । इत्यर्थ इति । गम्यत इति शेषः । समस्तेति । समस्तभावाः सकलपदार्था एव कनकानि तेषां निकषस्थान इत्यर्थः । हृदये निवेशयतीत्यस्य विवरणम्यस्येत्यादि । अत एव हृदयस्थापनादेव । ते हृदयस्थापितार्थाः । अर्थविशेषानित्यस्य विवरणम्प्रसिद्धेत्यादि । तथेति । अर्थविशेषा इत्यर्थः । विकटः कविगोचरो यस्या इति व्युत्पत्तिमभिप्रेत्य विवृणोतिकविगोचर इत्यादि ॥ ३ ॥ ॥ ॥ “एतदेवे"त्यादिग्रन्थमवतारयतिप्रतिभानामित्यादि । ध्वनिकृतमिति । ध्वनिभेदकृतार्थानन्त्यप्रयुक्तमित्यर्थः । अनुद्भिन्नमिति । उपपत्तेरकथनेनास्फुटमित्यर्थः । उक्तमिति । ध्वनेर्य इत्यादिनोक्तमित्यर्थः । वृत्तिकारेणोक्त इति । “युक्त्यानये"त्यादिकारिकाव्याख्यावसर इति शेषः । संग्रहश्लोक इति । वृत्तिकारकृतः परिकरश्लोक इत्यर्थः ।


दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् । सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ॥ कारिका४.४ ॥


दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् । सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ॥ ४ ॥ तथा हि विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यप्रकारसमाश्रयेण नवत्वम् । यथा “धरणीधारणायाधुना त्वं शेषः” इत्यादेः । शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः । यदलङ्घितमर्यादाश्चलन्तीं बिभ्रते भुवम् ॥ ॥ इत्यादिषु सत्स्वपि । तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यसमाश्रयेण नवत्वम् । यथा “एवंवादिनि देवर्षौ” इत्यादि श्लोकस्य । कृते वरकथालापे कुमार्यः पुलकोद्गमैः । सूचयन्ति स्पृहामन्तर्लज्जयावनताननाः ॥ ॥ इत्यादिषु सत्स्वर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविप्रौढोक्तिनिर्मितशरीरत्वेन नवत्वम् । यथा” सज्जेइ सुरहिमासो” इत्यादेः । सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः । रागवतामुत्कलिकाः सहैव सहकारकलिकाभिः ॥ ॥ इत्यादिषु सत्स्वप्यपूर्वत्वमेव । अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरत्वेन नवत्वम् । लोचनम् दृष्टपूर्वा इति । बहिः प्रत्यक्षादिभिः प्रमाणैः प्राक्तनैश्च कविभिरित्युभयथा नेयम् । काव्यं मधुमांसस्थानीयं स्पृहां लज्जामिति, रागवतामुत्कमिका इति च । शब्दस्पृष्टेऽर्थे का हृद्यता । एतानि चोदाहरणानि वितत्य पूर्वमेव व्याख्यातानीति किं पुनरुकक्त्या सत्यपि प्राक्तनकविस्पृष्टत्वे नूतनत्वं भवत्येवैतत्प्रकारानुग्रहादित्येतावति तात्पर्यं हि ग्रन्थस्याधिकन्नान्यत् ।

बालप्रिया

द्रुमान्वयिनमर्थमाहबहिरित्यादि । अर्थान्वयिनमाहप्राक्तनैरित्यादि । का हृद्यतेति । अतश्च “कृत” इत्यादिश्लोकात् “एवंवादिनी"त्यादेः “सुरभी"त्यादिश्लोकात् “सज्जती"त्यादेश्च नवत्वमस्तीति भावः । सत्यपीत्यादि । एतेषामिति शेषः । एतत्प्रकारानुग्रहान्नूतनत्वं भवत्येवेति सम्बन्धः । यथा “वाणिअअ इत्थिदन्ता” इत्यादिगाथार्थस्य । करिणीवेहव्वअरो मह पुत्तो एक्ककाण्डविणिवाइ । इअसोन्हाएं तह कहो जह कण्डकरण्डअं वहै ॥ ॥ [करिणीवैधव्यकरो मम पुत्र एककाण्डविनिपाती । हतस्नुषया तथा कृतो यथा काण्डकरण्डकं वहति ॥ इति च्छाया] । एवमादिष्वर्थेषु सत्स्वप्यनालीढतैव । यथा व्यङ्ग्यभेदसमाक्षयेण ध्वनेः काव्यार्थानां नवत्वमुत्पद्यते, तथा व्यञ्जकभेदसमाश्रयेणापि । तत्तु ग्रन्थविस्तरभयान्न लिख्यते स्वयमेव सहृदयैरभ्यूह्यम् । अत्र च पुनःपुनरुक्तमपि सारतयेदमुच्यते


व्यङ्ग्यव्यञ्जकभावेऽस्मिन् विविधे सम्भवत्यपि । रसादिमय एकस्मिन् कविः स्यादवधानवान् ॥ कारिका४.५ ॥


व्यङ्ग्यव्यञ्जकभावेऽस्मिन्विविधे सम्भवत्यपि । रसादिमय ऐकस्मिन् कविः स्यादवधानवान् ॥ ५ ॥ अस्मिन्नर्थानन्त्यहेतौ व्यङ्ग्यव्यञ्जकभावे विचित्रं शब्दानां सम्भवत्यपि कविरपूर्वार्थलाभार्थी रसादिमय एकस्मिन् व्यङ्ग्यव्यञ्जकभावे यत्नादवदधीत । रसभावतदाभासरूपे हि व्यङ्ग्ये तद्य्वञ्जकेषु च यथानिर्दिष्टेषु वर्णपदवाक्यरचनाप्रबन्धेष्ववहितमनसः कवेः सर्वमपूर्वे काव्यं सम्पद्यते । तथा च रामायणमहाभारतादिषु सङ्घामादयः पुनःपुनरभिहिता अपि नवनवाः प्रकाशन्ते । प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानोऽर्थविशेषलाभं छायातिशयं च पुष्णाति । कस्मिन्निवेति चेत्यथा रामायणे यथा वा महाभारते । रामायेणे हि करुणो रसः स्वयमादिकविनासूत्रितः “शोकः श्लोकत्वमागतः” इत्येवंवादिना । निर्व्यूढश्च स एव

लोचनं

करिणीवैधव्यकरो मम पुत्रः एकेन काण्डेन विनिपातनसमर्थः हतस्नुषया तथा कृतो यथा काण्डकरणकं वहतीत्युत्तान एवायमर्थः, गाथार्थस्यानालीढतैवेति सम्बन्धः ॥ ४. ॥

बालप्रिया

एतत्प्रकारेत्यस्य ध्वनिप्रभेदेत्यर्थः । वृत्तौ “शरीरत्वेन नवत्व “मित्युभयत्र भवतीति शेषः. “एककाण्डविनिपाती"ति छाया, तस्य विवरणमेकेन काण्डेनेत्यादि । काण्डो बाणः ॥ ४. ॥

सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता । महाभारतेऽपि शास्त्ररूपं काव्यच्छायान्वयिनि वृष्णिपाण्डवविरसावसानवैमनस्यदायिनीं समाप्तिमुपनिबध्नता महामुनिना वैराग्यजननतात्पर्यं प्राधान्येन स्वप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थः शान्तो रसश्च मुख्यतयाविवक्षाविषयत्वेन सूचितः । एतच्चशिन विवृतमेवान्यैर्व्याख्याविधायिभिः । स्वयमेवचैतदुद्गीर्ण तेनोदीर्णमहामोहमग्नमुज्जिहीर्षता लोकमतिविमलज्ञानालोकदायिना लोकनाथेन यथा यथा विपर्येति लोकतन्त्रमसारवत् । तथा तथा विरागोऽत्र जायते नात्र संशयः ॥ लोचनम् अत्यन्तग्रहणेन निरपेक्षभावतया विप्रलम्भाशङ्कां परिहरति । वृष्णीनां परस्परक्षयः, पाण्डवानामपि महापथक्लेशेनानुचिता विपत्तिः, कृष्णस्यापि व्याधाद्विध्वंस इति सर्वंस्यापि विरसमेवावसानमिति । मुख्यतयेति । यद्यपि “धर्मे चार्थे च कामे च मोक्षे चे"त्युक्तं, तथापि चत्वारश्चकारा एवमाहुःयद्यपि धर्मार्थकामानां सर्वस्वं तादृङ्नास्ति यदन्यत्र न विद्यते, तथापि पर्यन्तविरसत्वमत्रैवावलोक्यताम् । मोक्षे तु यद्रूपं तस्य सारतात्रैव विचार्यतामिति । यथायथेति । लोकैस्तन्त्र्यमाणं यत्नेन सम्पाद्यमानन्धर्मार्थकामतत्साधनलक्षणं वस्तुभूततयाभिमतमपि । येन येनार्जनरक्षणक्षयादिना प्रकारेण । असारवत्तुच्छेन्द्रझालाडिवत् । विपर्येति । प्रत्युत विपरीतं सम्पद्यते । आस्तान्तस्य स्वरूपचिन्तेत्यर्थः । तेन तेन प्रकारेण अत्र लोकतन्त्रे । विरागो जायत इत्यनेन तत्वज्ञानोत्थितं निर्वेदं

बालप्रिया

“सीतात्यन्तवियोगपर्यन्तमित्यत्रात्यन्तग्रहणफलमाहअत्यन्तग्रहणेनेत्यादि । वृष्णिपाण्डवविरसावसानेत्युक्तं ववृणेति । वृष्णीनामित्यादि । मोक्षलक्षणः पुरुषार्थो मुख्यतया विवक्षाविषयत्वेन सूचित इति यदुक्तं तस्यानुपपत्तिमाशङ्क्य परिहरतियद्यपीत्यादिना । मोक्षे चेत्युक्तमिति । क्वचिद्दग्रन्थेऽभरतर्षभ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचि “दिति च पाठः । एवमाहुरिति । वक्ष्यमाणं विशेषं द्योतयन्तीत्यर्थः । सर्वस्वमिति । प्रधानं स्वरूपमित्यर्थः । नास्तीति । अत्रेति शेषः । यदन्यत्र न विद्यते तादृगत्र नास्तीति सम्बन्धः । यदत्रास्ति तदन्यत्राप्यस्तीति भावः । द्योत्यं विशेषं दर्शयतितथापीत्यादि । पर्यन्तविरसत्वमिति । धर्मार्थकामानामित्यनुषज्यते । लोकतन्त्रमित्येतद्व्याचष्टेलौकैरित्यादि । इत्यादि बहुशः कथयता । ततश्च शान्तो रसो रसान्तरैर्मोक्षलक्षणः पुरुषार्थः पुरुषार्थान्तरैस्तदुपसर्जनत्वेनानुगम्यमानोऽङ्गित्वेन विवक्षाविषय इति महाभारततात्पर्य सुव्यक्तमेवावभासते । अङ्गाङ्गिभावश्च यथा रसानां तथा प्रतिपादितमेव । पारमार्थिकान्तस्तत्त्वानपेक्षया शरीरस्येवाङ्गभूतस्य रसस्य पुरुषार्थस्य च स्वप्राधान्येन चारुत्वमप्यविरुद्धम् । ननु महाभारते यावान्विवक्षाविषयः सोऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैत्तत्र दृश्यते, प्रत्युत सर्वपुरुषार्थप्रबोधहेतुत्वं सर्वरसगर्भत्वं च महाभारतस्य तस्मिन्नुद्देशे स्वशब्दनिवेदितत्वेन प्रतीयते । अत्रोच्यतेसत्यं शान्तस्यैव रसास्याङ्गित्वं महाभारते मोक्षस्य च सर्वपुरुषार्थभ्यः प्राधान्यमित्येतन्न स्वशब्दाभिधेयत्वेनानुक्रमण्या दर्शितम्, दर्शितं तु व्यङ्ग्यत्वेन “भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः” इत्यस्मिन् वाक्ये । अनेन ह्ययमर्थो व्यङ्ग्यत्वेन विवक्षितो यदत्र महाभारते पाण्डवादिचरितं यत्कीर्त्यते तत्सर्वमवसानविरसमविद्याप्रपञ्चरूपञ्च, परमार्थसत्यस्वरूपस्तु भगवान् वासुदेवोऽत्र कीर्त्यते । तस्मात्तस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो, मा भूत विभूतिषु निःसारासु रागिणो गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु केषुचित्सर्वात्मना प्रतिनिविष्टधियः । तथा चाग्रेपश्यत निःसारतां संसारस्येत्यमुमेवार्थे

लोचनं

शान्तरसस्थायिनं सूचयता तस्यैव च सर्वेतरासारत्वप्रति पादनेन प्राधान्यमुक्तम् । ननु शृङ्गारवीरादिचमत्कारोऽपि तत्र भातीत्याशङ्क्याहपारमार्थिकेति । भोगाभिनिवेशिनां लोकवासनाविष्टानामङ्गभूतेऽपि रसे तथाभिमानः, यथा शरीरे प्रमातृत्वाभिमानः प्रमातुर्भेगायतनमात्रेऽपि केवलेष्विति । परमेश्वरभक्त्युपकरणेषु

बालप्रिया

वस्तुभूततयेति । परमार्थतयेत्यर्थः । तुच्छेत । तुच्छं शशशृङ्गादि । तस्यैवेति । शान्तरसस्यैवेत्यर्थः । पारमार्थिकेत्यादिग्रन्थमवतारयतिनन्वित्यादि । तत्र महाभारते । भावं विवृणोतिभोगेत्यादि । तथाभिमानः प्राधान्याभिमानः । मात्रेऽपि शरीरे इति सम्बन्धः । द्योतयन् स्फुटमेवावभासते व्यञ्चकशक्त्यनुगृहीतश्च शब्दः । एवंविधमेवार्थे गर्भीकृतं सन्दर्शयन्तोऽनन्तरश्लोका लक्ष्यन्तेऽस हि सत्यम्” इत्यादयः । अयं च निगूढरमणीयोऽर्थो महाभारतावसाने हरिवंशवर्णनेन समाप्तिं विदधता तेनैव कविवेधसा कृष्णद्वैपायनेन सम्यक्स्फुटीकृतः । अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्यतिशयं प्रवर्तयता सकल एव सांसारिको व्यवहारः पूर्वपक्षीकृतो न्यक्षेण प्रकाशते । देवतातीर्थतपःप्रभृतीनां च देवतावशेषाणामन्येषां च । पाण्डवादिचरितवर्णनस्यापि वैराग्यजननतात्पर्याद्वैराग्यस्य च मोक्षमूलत्वान्मोक्षस्य च भगवत्प्राप्त्युपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात्परब्रह्मप्राप्त्युपायत्वमेव । परम्परया वासुदेवादिसञ्ज्ञाभिधेयत्वेन चापरिमितशक्त्यास्पदं परं ब्रह्म गीतादिप्रदेशान्तरेषु तदभिधानत्वेन लब्धप्रसिद्धि माथुरप्रादुर्भावानुकृतसकलस्वरूपं विवक्षितं न तु माथुरप्रादुर्भावांश एव, सनातनशब्दविशेषितत्वात् ।

लोचनं

तु न दोष इत्यर्थः । विभूतिषु रागिणो गुणेषु च निविष्टधियो मा भूतेति सम्बन्धः । अग्र इति अनुक्रमण्यनन्तरं यो भारतग्रन्थः तत्रेत्यर्थः । ननु वसुदेवापत्यं वासुदेव इत्युच्यते, न परमेश्वरः परमात्मा महादेव इत्याशङ्क्याहवासुदेवादिसंज्ञाभिधेयत्वेनेति । बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवस्सर्वं

बालप्रिया

अन्वयं दर्शयतिविभूतिष्वित्यादि । वृत्तौ “तथाचे"त्यादि । द्योतयन् शब्दोऽवभासत इति सम्बन्धः । “न्यक्षेणे"ति । कात्स्येंनेत्यर्थः । प्राप्त्युपायत्वेन वर्णनमित्यन्वयः । देवताविशेषाणामित्यत्र प्रभावातिशयवर्णनमित्यनुषज्यते । “मोक्षस्ये"ति । अज्ञाननिवृत्तेरित्यर्थः । वासुदेवसंज्ञाभिधेयत्वेन ब्रह्म विवक्षितमित्यन्वयः । “तदभिधानत्वेन” वासुदेवसंज्ञाभिधेयत्वेन । माथुरो यः प्रादुर्भावस्तेनानुकृतं सकलस्वरूपं येन तत् । “न त्वि"त्यादि । “विवक्षित” इति विपरिमाणामेनानुषङ्गः । हेत्वन्तरमप्याह “रामयणादिष्वि"त्यादि । “पुरुषार्थ” इति “विवक्षित” इत्यनेनास्य सम्बन्धः । रामायणादिषु चानया सञ्ज्ञया भगवन्मूर्त्यन्तरे व्यवहारदर्शनात् । निर्णीतश्चायमर्थः शब्दतत्त्वविद्भिरेव । तदेवमनुक्रमणीनिर्दिष्टेन वाक्येन भगवद्य्वतिरेकिणः सर्वस्यान्यस्यानित्यतां प्रकाशयता मोक्षलक्षण एवैकः परः पुरुषार्थः शास्त्रनये, काव्यनये च तृष्णाक्षयसुखपरिपोषलक्षणः शान्तो रसो महाभारतस्याङ्गित्वेन विवक्षित इति सुप्रतिपादितम् । अत्यन्तसारभूतत्वाच्चायमर्थो व्यङ्ग्यत्वेनैव दर्शितो न तु वाच्यत्वेन । सारभूतो ह्यर्थः स्वशब्दानभिधेयत्वेन प्रकाशितः सुतरामेव शोभामावहति । प्रसिद्धिश्चेयमस्त्येव विदग्घविद्वत्परिषत्सु यदभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न साक्षाच्छब्दवाच्यत्वेन । लोचनम् इत्यादौ अंशिरूपमेतत्संज्ञाभिधेयमिति निर्णितं तात्पर्यम् । निर्णीतश्चेति । शब्दा हि नित्या एव सन्तोऽनन्तरं काकतालीयवशात्तथा सङ्केतिता इत्युक्तम्"ऋष्यन्धकवृष्णिकुरुभ्यश्चे"त्यत्र । शास्त्रनय इति । तत्रास्वादयोगाभावे पुरुषेणार्थ्यत इत्ययमेव व्यपदेशः सादरः, चमत्कारयोगे तु रसव्यपदेश इति भावः । एतच्च ग्रन्थकारेण तत्त्वालोके वितक्त्योक्तमिह त्वस्य न मुख्योऽवसर इति नास्माभिस्तद्दर्शितम् । सुतरामेवेति यदुक्तं तत्र हेतुमाहप्रसिद्धिश्चेति । चशब्दो यस्मादर्थे । यत इयं लौकिकी प्रसिद्धिरनादिस्ततो भगवद्य्वासप्रभृतीनामप्ययमेवास्वशब्दाभिधाने आशयः, अन्यथा हि क्रियाकारकसम्बन्धादौ “नारायणं नमस्कृत्ये"त्यादिशब्दार्थनिरूपणे च तथाविध एव तस्य भगवत आशय इत्यत्र किं प्रमाणामिति भावः । विदग्धविद्वद्ग्रहणेनकाव्यनये शास्त्रनय इति चानुसृतम् । रसादिमय एतस्मिन् कविः स्यादवधानवानिति यदुक्तं, तदेव प्रसङ्गागतभारतसम्बन्धनिरूपणानन्तरमुपसंहरतितस्मात्स्थितमिति ।

बालप्रिया

“गीतादिप्रदेशान्तरेषु” इत्यादिकं विवृणोति लोचनेबहूनामित्यादि । काकतालीयवशादिति यदृच्छयेत्यर्थः । इत्यत्रोक्तमिति सम्बन्धः । काशिकावृत्ताविति शेषः । शास्त्रनये मोक्षः पुरुषार्थः, काव्यनये तु शान्तो रस इत्युक्तं विवृणोतितत्रेत्यादि । सादर इति । अर्ह इत्यर्थः । यस्मादर्थ इति । हेत्वर्थक इत्यर्थः । अयमेवेति । उक्ता विदग्धविद्वत्परिषत्प्रसिद्धिरेवेत्यर्थः । अस्वशब्दाभिधाने अभिमतस्यार्थस्य स्वशब्देनानभिधाने । आशयः अभिमतो हेतुः । अत्रोपष्टम्भकमाहअन्यथेत्यदि । “नारायणं नमस्कृत्ये"त्यादिश्लोकेषु नारायणाद्यथस्य क्रियाकारकभावादिसम्बन्धेन नमस्कारादावन्वयो विवक्षितः । एवं नारायणाद्यथस्य क्रियाकारकभावादिसम्बन्धेन नमस्कारादावन्वयो विवक्षितः । एवं नारायणादिपदानां विष्ण्वादयोऽर्थाश्च तद्विवक्षा च तस्मात्स्थितमेततङ्गिभूतरसाद्याश्रयेण काव्ये क्रियमाणे नवार्थलाभो भवति बन्धच्छाया च महती सम्पद्यत इति । अत एव च रसानुगुणार्थविशेषोपनिबन्धमलङ्कारान्तरविरहेऽपि छायातिशययोगि लक्ष्ये दृश्यते । यथा मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः । येनैकचुलके दृष्टौ तौ दिव्यौ मत्स्यकच्छपौ ॥ ॥ इत्यादौ । अत्र ह्यद्भूतरसानुगुणमेकचुलके मत्स्यकच्छपदर्शनं छायातिशयं पुष्णाति । तत्र ह्येकचुलके सकलजलधिसन्निधानादपि दिव्यमत्स्यकच्छपदर्शनमक्षुण्णत्वादद्भुतरसानुगुणतरम् । क्षुण्णं हि वस्तु लोचनमत इति । यत एवं स्थितं अत एवेदमपि यल्लक्ष्ये दृश्यते, तदुपपन्नमन्यथा तदनुपपन्नमेव, न च तदनुपपन्नम् - चारुत्वेन प्रतीतेः । तस्याश्यैतदेव कारणं रसानुगुणार्थत्वमेवेत्याशयः । अलङ्कारान्तरेति । अन्तरशब्दो विशेषवाची । यदि वा दित्सिते उदाहरणे रसवदलङ्कारस्य विद्यमानत्वात्तदपेक्षयालङ्कारान्तरशब्दः । ननु मत्स्यकच्छपदर्शनात्प्रतीयमानं यदेकचुलके जलनिधिसन्निधानं ततो मुनेर्माहात्म्यप्रतिपत्तिरिति न रसानुगुणेनार्थेन च्छायापोषितेत्याशङ्क्याहअत्र हीति । नन्वेवं प्रतीयमानं जलनिधिदर्शनमेवाद्भुतानुगुणं भवत्विति रसानुगुणोऽत्र वाच्योऽर्थ इत्यस्मिन्नंशे कथमिदमुदाहरणमित्याशङ्क्याहतत्रेति । क्षुण्णं हीति । पुनः पुनर्वर्णननिरूपणादिना यत्पिष्टपिष्टत्वादतिनिर्भिन्नस्वरूपमित्यर्थः । बहुतरलक्ष्यव्यापकञ्चैतदिति

बालप्रिया

लोकप्रसिद्ध्यनुरोधिनीति भावः । “अत एवे"त्यादि “दृश्यत” इत्यन्तं विवृणोतियत इत्यादि । तस्या इति । चारुत्वेन प्रतीतेरित्यर्थः । “अलङ्कारान्तरविरहेऽपी"त्यत्रालङ्कारान्तरशब्दं द्वेधा विवृणोतिअलङ्कारान्तरशब्द इत्यादि । इतीति हेतौ । नेत्यादि । किन्तूक्तेन ब्यङ्ग्येनैव छाया पोषितेति भावः । वृत्तौ “अद्भूतरसानुगुणम्” इति । मुन्यालम्बितस्याद्भतरसस्यानुगुणमित्यर्थः । काकतालीयेनेति भावार्थविवरणम् । “प्रतिलग्न” इति । नायकपार्श्वेन सम्बन्ध इत्यर्थः । असीत्यव्ययं त्वमित्यर्थे । हे सुभग त्वं येन तस्या येन पार्श्वेण अतिक्रान्तः, तस्याः रथ्या तुलाग्रप्रतिलग्नस्स पार्श्वोऽद्यापि स्विद्यतीत्याद्यन्वयः । “परस्परे"ति । पार्श्वसम्बन्धातिक्रमणेन नायकगतस्याप्यनुरागस्य प्रतीतेरिति भावः । लोकप्रसिद्य्धाद्भूतमपि नाश्चर्यकारि भवति । न चाक्षुण्णं वस्तूपनिबध्यमानमद्भुतरसस्यैवानुगुणं यावद्रसान्तरस्यापि । तद्यथा सिज्जै रोमञ्चिज्जै वेवै रत्थातुलग्गपडिलग्गो । सोपासो अज्ज वि सुहअ जेणासि वोलीणो ॥ ॥ एतद्गाथार्थाद्भाव्यमानाद्या रसप्रतीतिर्भवति, सा त्वां स्पृष्ट्वा स्विद्यति रोमाञ्चते वेपते इत्येवंविधादर्थात्प्रतीयमानान्मनागपि नो जायते । तदेवं ध्वनिप्रभेदसमाश्रयेण यथा काव्यार्थानां नवत्वं जायते तथा प्रतिपादितम् । गुणीभूत्वयङ्ग्यस्यापि त्रिभेदव्यङ्ग्यापेक्षया ये प्रकारास्तत्समाश्रयेणापि काव्यवस्तूनां नवत्वं भवत्येव । तत्त्वतिविस्तारकारीति नोदाहृतं सहृदयैः स्वयमुत्प्रेक्षणीयम् ।

लोचनं

दर्शयतिन चेत्यादिना । रथ्यायान्तुलाग्रेण काकतालीयेन प्रतिलग्नस्सा मुख्येन स पार्श्वोऽद्यापि सुभग तस्या येनास्यतिक्रान्तः । रसप्रतीतिरिति । परस्परहेतुकशृङ्गारप्रतीतिः । अस्यार्थस्य रसानुगुणत्वं व्यतिरेकद्वारेण द्रढयतिसा त्वामित्यादिना । “ध्वनेर्यस्सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शित” इत्युद्योतारम्भे यः श्लोकः तत्र ध्वनेरध्वना कवीनां प्रतिभागुणोऽनन्तो भवतोत्येष भागो व्याख्यात इत्युपसंहरतितदेवमित्यादिना । सगुणीभूतव्यङ्ग्यस्येत्यमुं भागं व्याचष्टेगुणीभूतेत्याहिना । त्रिप्रभेदो वस्त्वलङ्काररसात्मना यो व्यङ्ग्यः तस्य यापेक्षा वाच्येगुणीभावः तयेत्यर्थः । तत्र सर्वे ये ध्वनिभेदास्तेषां गुणीभावादानन्त्यमिति तदाहअतिविस्तरेति । स्वयमिति । तत्र वस्तुना व्यङ्ग्येन गुणीभूतेन नवत्वं सत्यप पुराणार्थस्पर्शे यथा ममैव भअविहलरख्खणेककमल्लसरणागआणअथ्थाण । खणमत्तं विण दिण्णा विस्सामकहेत्ति जुत्तमिणम् ॥ ॥ अत्र त्वमनवरतमर्थास्त्यजसीति औदार्यलक्षणं वस्तु ध्वन्यमानं वाच्यस्योपस्कारकं

बालप्रिया

त्रिभेदव्यङ्ग्यापेक्षयेत्येतद्व्याचष्टेत्रिप्रभेद इत्यादि । भअवहलेति । भयविह्वलरक्षणैकमल्लशरणागतानामर्थानाम् । क्षणमात्रमात्रमपि न दत्ता विश्रामकथेति युक्तमिदम् ॥ ॥ इतिछाया । इतीदंयुक्तमित्यत्र काक्वा इत्येतन्न युक्तमित्यर्थः । चाइअणेति ।

लोचनं

नवत्वन्ददाति, सत्यपि पुराणकविस्पृष्टेऽर्थे । तथाहि पुराणीगाथा चाइअणकरपरम्परसञ्चारणखे अणिस्सहससरीरा । अथ्था किवणधरन्थ्था सथ्नापथ्थास्ववन्तीव ॥ अलङ्कारेण व्यङ्ग्येन वाच्योपस्कारे नवत्वं यथा ममैव वसन्तमत्तालिपरम्परोपमाः कचास्तवासन् कल रागवृद्धये । श्मशानभूभागपरागभासुराः कथन्तदेतेन मनाग्विरक्तये ॥ ॥ अत्र ह्याक्षेपेण विभावनया च ध्वन्यमानाभ्यां वाच्यमुपस्कृतमिति नवत्वं सत्यपि पुराणार्थयोगित्वे । तथाहि पुराणश्लोकः क्षुत्तृष्णाकाममात्सर्यं मरणाच्च महद्भयम् । पञ्चैतानि विवर्धन्ते वार्धके विदुषामपि ॥ इति । व्यङ्ग्येन रसेन गुणीभूतेन वाच्योपस्कारेण नवत्वं यथा ममेव जरा नेयं मूर्ध्नि ध्रुवमयमसौ कालभुजगः क्रुधान्धः फूत्कारैः स्फुटगरलफेनान् प्रकिरति ॥ ॥ तदेनं संपश्यत्यथ च सुखितम्मन्यहृदयः शिवो पायन्नेच्छन् बत बत सुधीरः खलु जनः ॥

बालप्रिया

त्यागिजनकरपरम्परासञ्चारणखेदनिस्सहशरीराः । अर्थाः कृपणगृहस्थाः स्वस्थावस्थाः स्वपन्तीव ॥ ॥ इति छाया । अर्थःस्पष्टः । वसन्तेति । कञ्चन मित्रं प्रति कस्यचिदुक्तिः । वसन्ते वसन्तेन वा मत्ता ये अलयो भृङ्गास्तत्परम्परोपमाः तेषां परम्परया तुल्याः अतिनीलस्निग्धा इति यावत् । तथाभूताः कचा इत्यनेन यौवनदशा प्रदर्शिता । तव रागस्य वृद्धये आसन् किल । श्मशानभूभागे ये परागाः भस्मरेणवस्ते इव भासुराः शुभ्राः जरया शुक्ला इति यावत् । एते कचाः । रागस्य वैराग्यस्य चोद्दीपकत्वात्तत्तदुपमानमुपात्तम् । तव मनागीषदुपि विरक्तये वैराग्याय न भवन्ति । तत्तथं वैराग्यस्य कारणे सत्यपि तदजननं कुत इत्यर्थः । अनेन प्रत्युत कारणाभावेऽपि काम एव वर्धन्त इत्यर्थस्य कामस्य महिमा वर्णयितुमशक्य इत्यर्थस्य च प्रकाशनाद्विभावनाक्षेपौ व्यज्येते, ताभ्यां च वाच्यमुपस्क्रियत इत्याहअत्र हीत्यादि ॥ ॥ क्षुत्तृण्णेत्यादिसमाहारद्वन्द्वः । जरेति । जराजीर्ण कञ्चिदुश्योक्तिः । मूर्ध्नि इयं दृश्यमाना जरा न भवति । अयमसौ क्रधान्धः । कालभुजगः कृण्णसर्पः । अथ च अन्तकरूपो भुजगः । फूत्कारैः स्फुटं गरलं येषु तथाभूतान् फेनान् प्रकिरति वर्षति । इयं न जरा, किन्तु शिरस्थकालभुजगाभिवृष्टः फेननिकर


ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् । न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः ॥ कारिका४.६ ॥


ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् । न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः ॥ ६ ॥

सत्स्वपि पुरातनकविप्रबन्धेषु यदि स्यात्प्रतिभागुणः, तस्मिंस्त्वसति न किञ्चिदेव कवेर्वस्त्वस्ति । बन्धच्छायाप्यर्थद्वयानुरूपशब्दसन्निवेशोऽर्थप्रतिभानाभावे कथमुपपद्यते । अनपेक्षितार्थविशेषाक्षपपतनैन बन्धच्छायेति नेदं नेदीयः सहृदयानाम् । एवं हि सत्यर्थानपेक्षचतुरमधुरवचनरचनायामपि लोचनम् अत्राद्भुतेन व्यङ्ग्येन वाच्यमुपस्कृतं शान्तरसप्रतिपत्यङ्गत्वाच्चारु भवतीति नवत्वं सत्यप्यस्मिन् पुराणश्लोके जराजीर्णशरीरस्य वैराग्यं यन्न जायते, तन्नुनं हृदये मृत्युर्दृढन्नास्तीति निश्चयः ॥ ५ ॥ ॥ ॥ सत्स्वपीत्यादि कारिकाया उपस्कारः । त्रीन् पादान् स्पष्टान्मत्वा तुर्यं पादं व्याख्यातुं पठतियदीति । विद्यमानो ह्यसौ प्रतिभागण उक्तरीत्या भूयान् भवति, न त्वत्यन्तासन्नेवेत्यर्थः । तस्मिन्निति । अनन्तीभूते प्रतिभागुणे । न किञ्चिदेवेति । सर्व हि पुराणकविनैव स्पृष्टमिति किमिदानीं वर्ण्यं, यत्र कवेर्वर्णनाव्यापारस्स्यात् । ननु यद्यपि वर्ण्यमपूर्वन्नास्ति, तथाप्युक्तिपरिपाकगुम्भघटनाद्यपरपर्यायबन्धच्छाया नवनवा भविष्यति । यन्नवेशने काव्यान्तराणां संरम्भ इत्याशङ्क्याहबन्धच्छायापीति । अर्थद्वयं गुणीभूतव्यङ्ग्यं प्रधानभूतं व्यङ्ग्यं च । नेदीय इति । निकटतरं हृदयानुप्रवेशि न भवतीत्यर्थः । अत्र हेतुमाहएवं हि सतीति ।

बालप्रिया

इत्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् । तदिति जनः । तदेनान् तथाभूतान् फेनान् । फेनमिति तदेनमिति वा पाठः । सम्पश्यति अथ च सुखितमन्यहृदयः शिवोपायं नेच्छंश्च । अतः सुधीरः खल्वित्यन्वयः । बतेत्यद्भुते । जरेति । तदिति तस्मादित्यर्थः । मृत्युर्नास्तीति विश्चयः हृदयेदृढमस्ति नूनमित्यन्वयः ॥ ५ ॥ ॥ ॥ उपस्कार इति । सत्स्वपीत्यादेः न काव्यार्थविरामोऽस्तीत्यनेनान्वय इति भावः । यदीत्यादेर्भावं विवृणोतिविद्यमान इत्यादि । वृत्तौ “बन्धच्छाये"त्यस्य विवरणम् “अर्थद्वयानुरूपशब्दसन्निवेश “इति । तद्रूपा बन्धच्छायेत्यर्थः । “अनपेक्षिते"त्यादिशङ्काग्रन्थः । इतीदं सहृदयानां न नेदीय इति सम्बन्धः । पुनश्शङ्कतेऽशब्दार्थयोऽरित्यादि । “काव्यत्व” इति निमित्ते सप्तमी । शब्दार्थयोः सहितयोः काव्यत्वेन हेतुनेत्यर्थः । “तथाविध” इति । अर्थानपेक्षचतुरमधुरवचनरचन इत्यर्थः । “कव्यव्यवस्थे"ति । काव्यव्यपदेश इत्यर्थः । समाधत्तेऽपरे"त्यादि । “तत्काव्यत्वे"ति तत्पदेन परः परामृश्यते । “काव्यसन्दर्भाणाम्” इति । तत्काव्यत्वव्यवहार इत्यनुषज्यते । काव्यव्यपदेशः प्रवर्तेत । शब्दार्थयोः साहित्येन काव्यत्वे कथं तथाविधे विषये काव्यव्यवस्थेति चेत्परोपनिबद्धार्थविरचने यथा तत्काव्यत्वव्यवहारस्तथा तथाविधानां काव्यसन्दर्भाणाम् । न चार्थानन्त्यं व्यङ्ग्यार्थापेक्षयैव यावद्वाच्यार्थापेक्षयापीति प्रतिपादयितुमुच्यते


अवस्थादेशकालादिविशेषैरपि जायते । आनन्त्यमेव वाच्यस्य शुद्धस्यापि स्वभावतः ॥ कारिका४.७ ॥


अवस्थादेशकालादिविशेषैरपि जायते । आनन्त्यमेव वाच्यस्य शुद्धस्यापि स्वभावतः ॥ ७ ॥ शुद्धस्यानपेक्षितव्यङ्ग्यस्यापि वाच्यस्यानन्त्यमेव जायते स्वभावतः । स्वभावो ह्ययं वाच्यानां चेतनानामचेतनानां च यदवस्थाभेदाद्देशभेदात्कालभेदात्स्वालक्षण्यभेदाच्चानन्तता भवति । तैश्च तथाव्यवस्थितैः सद्भिः प्रसिद्धानेकस्वभावानुसरणरूपया स्वभावोक्त्यापि तावदुपनिबध्यमानैर्निरवधिः

लोचनं

चतुरत्वं समाससङ्घटना । मधुरत्वमपारुष्यम् । तथाविधानामिति । अपूर्वबन्धच्छायायुक्तानामपि परोपनिबद्धार्थनिबन्धने परकृतकाव्यत्वव्यवहार एव स्यादित्यर्थस्यापूर्वत्वमाश्रयणीयम् । कवनीयं काव्यं तस्य भावः काव्यत्वं, न त्वयं भावप्रत्ययान्तात्भावप्रत्यय इति शङ्कितव्यम् ॥ ६ ॥ ॥ ॥ प्रतिपादयितुमिति । प्रसङ्गादिति शेषः । यदि वा वाच्यन्ताबद्विविधव्यङ्ग्योपयोगि तदेव चेदनन्तं तद्बलादेव व्यङ्ग्यानन्त्यं भवतीत्यभिप्रायेणेदं प्रकृतमेवोच्यते । शुद्धस्येति । व्यङ्ग्यविषयो यो व्यापारः तत्स्पर्शं विनाप्यानन्त्यं स्वरूपमात्रेणैव पश्चात्तु तथा स्वरूपेणानन्तं सद्व्यङ्ग्यं व्यनक्तीति भावः । न तु सर्वथा तत्र व्यङ्ग्यं नास्तीति मन्तव्यमात्मभूततद्रूपाभावे काव्यव्यवहारहानेः - तथा चोदाहरणेषु रसध्वनेस्सद्भावोऽस्त्येव । आदिग्रहणं व्याचष्टेस्वालक्षेयेति । स्वरूपेत्यर्थः । यथारूपस्पर्शयोस्तीव्रैकावस्थयोरेकद्रव्यनिष्ठयोरेककालयोश्च ।

बालप्रिया

स्यादिति शेषः । लोचने भावं विवृणोतिअपूर्वबन्धेत्यादि । काव्यत्वमित्यस्य व्युत्पत्तिं दर्शयतिकवनीयमित्यादि ॥ ६ ॥ ॥ ॥ कारिकास्थं शुद्धस्येति पदमन्यथाप्रतिपत्तिपरिहाराय व्याचष्टेव्यङ्ग्येत्यादि । व्यापार इति । वाच्यस्येति शेषः । आत्मेति । आत्मभूतस्य व्यङ्ग्यस्याभाव इत्यर्थः । हानिः अभावः । ननु कीदृशं व्यङ्ग्यं तत्र भवतीत्यत्राहतथाचेत्यादि । वृत्तौ “अनपेक्षितव्यङ्ग्यस्ये"त्येतदप्युक्तरीत्या व्याख्येयम् । “तैश्चे"ति । “तैः” वाच्यार्थैः । “प्रथममेवे"ति । काव्यार्थः सम्पद्यते । तथा ह्यवस्थाभेदान्नवत्वं यथाभगवतीपार्वती कुमारसम्भवेऽसर्वोपमाद्रव्यसमुच्चयेन” इत्यादिभिरुक्तिभिः प्रथममेव परिसमापितरूपवर्णनापि पुनर्भगवतः शम्भोर्लोचनगोचरमायान्ती “वसन्तपुष्पाभरणं वहन्ती” मन्मथोपकरणभूतेन भङ्ग्यन्तरेणोपवर्णिता । सैव च पुनर्नवोद्वाहसमये प्रसाध्यमाना “तां प्राङ्मुखीं तत्र निवेश्य तन्वीम्” इत्याद्युक्तिर्भिर्नवेनैव प्रकारेण निरूपितरूपसौष्ठवा । न च ते तस्य कवेरेकत्रैवासकृत्कृता वर्णनप्रकारा अपुनरुक्तत्वेन वा नवनवार्थनिर्भरत्वेन वा प्रतिभासन्ते । दर्शितमेव चैतद्विषमबाणलीलायां ण अ ताण घडै ओही ण अ ते दीसन्ति कह वि पुनरुत्ता । जे विब्भमा पिआणं अत्था वा सुकैवाणीणम् ॥ ॥ अयमपरश्चावस्थाभेदप्रकारो यदचेतनानां सर्वेषां चेतनं द्वितीयं रूपमभिमानित्वप्रसिद्धं हिमवद्गङ्गादीनाम् । तच्चोचितचेतनबिषयस्वरूपयोजनयोपनिबध्यमानमन्यदेव सम्पद्यते । यथा कुमारसम्भव एव पर्वतस्वरूपस्य हिमवतो वर्णनं, पुनः सप्तर्षिप्रियोक्तिषु चेतनतस्स्वरूपापेक्षया प्रदर्शितं तदपूर्वमेव प्रतिभाति । प्रसिद्धश्चायं सत्कवीनां मार्गः । इदं

लोचनं

न च तेषां घटतेऽवधिः, न च ते दृश्यन्ते कथमपि पुनरुक्ताः । ये विभ्रमाः प्रियाणामर्था वा सुकविवाणीनाम् ॥ ॥ चकाराभ्यामतिविस्मयस्सूच्यते । कथमपीति । प्रयत्नेनापि विचार्यमाणं पौनरुक्त्यं न लभ्यमिति यावत् । प्रियाणामिति । बहुवल्लभो हि सुभगो राधावल्लभप्रायस्तास्ताः कामिनीः परिभोगसुभगमुपभुञ्जानोऽपि न विभ्रमपौनरुक्त्यं पश्यति तदा । एतदेव प्रियात्वमुच्यते, यदाह

बालप्रिया

प्रथमसर्ग इत्यर्थः । “उपवर्णिते"ति । तृतीयसर्ग इति शेषः । “निरूपितरूपसौष्ठवे"ति । सप्तमसर्ग इति शेषः । ते वर्णनप्रकाराः न च भासन्त इति सम्बन्धः । “तस्य कवेरि"ति । कालिदासस्यापि कवेरित्यर्थः । “णअ” इत्यादेः छायां दर्शयति लोचनेन चेत्यादि । प्रियाणां विभ्रमाः कथमपि पुनरुक्ता न दृश्यन्त इत्येतद्विवृणोतिबहुवल्लभ इत्यादि । तदा विभ्रमपौनरुक्त्यं न पश्यतीति सम्बन्धः । तदा परिभोगकाले । यदाहेतु माघकविरिति शेषः । च प्रस्थानं कविव्युत्पत्तये विषमबाणलीलायां सप्रपञ्चं दर्शितम् । चेतनानां च बाल्याद्यवस्थाभिरन्यत्वं सत्कवीनां प्रसिद्धमेव । चेतनानामवस्थाभेदेऽप्यवान्तरावस्थाभेदान्नानात्वम् । यथा कुमारीणां कुसुमशरभिन्नहृदयानामन्यासां च । तत्रापि विनीतानामविनीतानां च । अचेतनानां च भावानामारम्भाद्यवस्थाभेदभिन्नानामेकैकशः स्वरूपमुपनिबध्यमानमानन्त्यमेवोपयाति । यथा हंसानां निनदेषु यैः कवलितैरासज्यते कूजता मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः । ते सम्प्रत्यकठोरवारणवघूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ ॥ एवमन्यत्रापि दिशानयानुसर्तव्यम् ।

लोचनं

क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयताया इति । प्रियाणामिति चासंसारं प्रवहद्रूपरो योऽयं कान्तानां विभ्रमविशेषः स नवनव एव दृश्यते । न ह्यसावग्निचयनादिवदन्यतश्शिक्षितः, येन तत्सादृश्यात्पुनरुक्ततां गच्छेत् । अपि तु निसर्गोद्भिद्यमानमदनाङ्कुरविकासमात्रन्तदिति नवनवत्वम् । तद्वत्परकीयशिक्षानपेक्षनिजप्रतिभागुणनिष्यन्दभूतः काव्यार्थ इति भावः ।

बालप्रिया

प्रियाणां विभ्रमा इत्यनेन गम्यमर्थमाहप्रियाणामिति चेत्यादि । न हीत्यादि । असौ विभ्रमविशेषः । यथा अग्निचयनमन्यतश्शिक्ष्यते तथा शिक्षितो नेत्यर्थः । येनेति । अन्यतश्शिक्षितत्वेनेत्यर्थः । तदिति । विभ्रमविशेष इत्यर्थः । नवनवत्वमिति । तस्येति शेषः । “अर्था वा सुकविवाणीनामिति प्रकृतं विवृणोतितद्वदित्यादि । तद्वदिति । तेन तुल्यो भवति नवनवो भवतीत्यर्थः । वृत्तौ “चेतनतत्स्वरूपापेक्षये"ति । हिमवतो वर्णनमित्यनुषज्यते । “प्रदर्शितं तदि"ति । वर्णितं तदित्यर्थः । “अवस्थाभेदेऽपी"ति । कौमारादिशरीरावस्थाया भेदाभावेऽपीत्यर्थः । “आन्तरे"ति । मानसिकेत्यर्थः । “हंसानाम्” इति । “कबलितैः” भक्षितैः । यैः कूजतां हंसानां निनदेषु कषायकण्ठलुण्ठनादाघर्घरः अन्यः कोऽपि विभ्रमः आसज्यते आसक्तः क्रियत इत्याद्यन्ययः । तच्च यथावस्थितमपि तावदुपनिबध्यमानमित्यत्र तावत्पदं लोचने विवृणोतिउत्तरकालन्त्वित्यादि । देशभेदान्नानत्वमचेतनानां तावत् । यथा वायूनां नानादिग्देशचारिणामन्येषामपि सलिलकुसुमादीनां प्रसिद्धमेव । चेतनानामपि मानुषपशुपक्षिप्रभृतीनां ग्रामारण्यसलिलादिसमेधितानां परस्परं महान्विशेषः समुपलक्ष्यत एव । स च विविच्य यथायथमुपनिबध्यमानस्तथैवान्त्यमायाति । तथा हिमानुषाणामेव तावद्दिग्देशादिभिन्नानां ये व्यवहारव्यापारादिषु विचित्रा विशेषास्तेषां केनान्तः शक्यते गन्तुम्, विशेषतो योषिताम् । उपनिबध्यते च तत्सर्वमेव सुकविभिर्यथाप्रतिभम् । कालभेदाच्च नानात्वम् । यथर्तुभेदाद्दिग्व्योमसलिलादीनामचेतनानाम् । चेतनानां चौत्सुक्यादयः कालविशेषाश्रयिणः प्रसिद्धा एव । स्वालक्षण्यप्रभेदाच्च सकलजगद्गतानां वस्तूनां विनिबन्धनं प्रसिद्धमेव । तच्च यथावस्थितमपि तावदुपनिबध्यमानमनन्ततामेव काव्यार्थस्यापादयति । अत्र केचिदाचक्षरिन्यथा साभान्यात्मना वस्तूनि वाच्यतां प्रतिपद्यन्ते न विशेषात्मना - तानि हि स्वयमनुभूतानां सुखादीनां तन्निमित्तानां च स्वरूपमन्यत्रारोपयद्भिः स्वपरानुभूतरूपसामान्यमात्राश्रयेणोपनिबध्यन्ते कविभिः । न हि तैरतीतमनागतं वर्तमानञ्च अपरिचितादिस्वलक्षणं योगिभिरिव प्रत्यक्षीक्रीयते - तच्चानुभाव्यानुभवसामान्यं सर्वप्रतिपत्तृसाधारणं परिमितत्वात्पुरातनानामेव गोचरीभूतम्, तस्या विषयत्वानुपपत्तेः । लोचनम् तावदिति । उत्तरकालन्तु व्यङ्ग्यस्पर्शनेन विचित्रतां परां भजतान्नाम, तावति तु स्वभावेनैव सा विचित्रेति तावच्छब्दस्याभिप्रायः । तन्निमित्तानाञ्चेति । ऋतुमाल्यादीनां स्वेत । स्वानुभूतपरानुभूतानां यत्सामान्यं तदेव विशेषान्तररहितन्तन्मात्रं तस्याश्रयेण । न हि तैरिति कविभिः । एतच्चात्यन्तासंभावनार्थमुक्तम् ।

बालप्रिया

स्वपरानुभूतेत्येतत्व्याचष्टेस्वानुभूतेत्यादि । मात्रशब्दार्थविवरणम्विशेषान्तररहितमिति । वृत्तौ “अपरिचितादिस्वलक्षणम्” इति । अपरिचितादीनां वस्तूनां स्वरूपमित्यर्थः । एतच्चोक्तमिति सम्बन्धः । न हीत्यादि कथनं चेत्यर्थः । “अत्यन्तासम्भावनार्थम्” इति । अत्यन्तंयदसम्भावनं वस्तूनां विशेषात्मना प्रतिपादनसम्भवाभावस्तदर्थं तत्प्रतिपत्त्यर्थमित्यर्थः । एतदेव विशदयतिप्रत्यक्षेत्यादि । अत एव स प्रकारविशेषो यैरद्यतनैरभिनवत्वेन प्रतीयते तेषामभिमान मात्रमेव भणितकृतं वैचित्र्यमात्रमत्रास्तीति । तत्रोच्यतेयत्तूक्तं सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तस्य च परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यप्रवृत्तिस्तस्य च परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यवस्तूनामिति, तदयुक्तम् - यतो यदि सामान्यमात्रमाश्रित्य काव्यं प्रवर्तते किङ्कृतस्तर्हि महाकविनिबध्यमानानां काव्यर्थानामतिशयः । वाल्मिकिव्यतिरिक्तस्यान्यस्य कविव्यपदेश एव वा सामान्यव्यतिरिक्तस्यान्यस्य काव्यार्थस्यभावात्, सामान्यस्य चादिकविनैव प्रदर्शितत्वात् । उक्तिवैचित्र्यान्नैष दोष इति चेत्किमिदुमुक्तिवैचित्र्यम्? उक्तिर्हि वाच्यविशेषप्रतिपादि वचनम् । तद्वैचित्र्ये कथं न वाच्यवैचित्र्यम् । वाच्यवाचकयोरवनाभावेन प्रवृत्तेः ।

लोचनं

प्रत्यक्षदर्शनेऽपि हि शब्दास्संकेतितं प्राहुर्व्यवहाराय स स्भृतः । तदा स्वलक्षणं नास्ति सङ्केतस्तेन तत्र नः ॥ ॥ इत्यादियुक्तिभिस्सामान्यमेव स्पृश्यते । किमिति । असंवेद्यमानमर्थपौनरुक्त्यं कथं प्राकरणिकैरङ्गीकार्यमिति भावः । तमेव प्रकटयत न चेदिति । उक्तिर्हीति । पर्यायमात्रतैव यद्युक्तिविशेषस्तत्पर्यायान्तरैरविकलं तदर्थोपनिबन्धे अपौनरुक्त्याभिमानो न भवति ।

बालप्रिया

प्रत्यक्षदर्शनेऽपीति । कवीनां वस्तुस्वरूपप्रत्यक्षदर्शने सत्यपीत्यर्थः । स्पृश्यत इति । कविवाचेति शेष । वृत्तौ “अनुभाव्ये"ति । अनुभाव्यानामनुभवितव्यानां वस्तूनामनुभवानां च यत्सामान्यं सामान्यस्वरूपमित्यर्थः । “तस्ये"ति । अनुभाव्यानुभावसामान्यस्येत्यर्थः । “अविषयत्वे"ति । पुरातनानामित्यनुषङ्गः । “तेषाम्” इति । अद्यतनानामित्यर्थः । इत्यभिमानमात्रमेवेति सम्बन्धः । “तत्रोच्यत” इत्यस्यानन्तरं “यत्तूक्तं सामान्यमात्राश्रयेण काव्यप्रवृत्ति"रित्यादि पाठः । क्वचिद्गन्थे त्वस्मात्पूर्वं “यदि सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तत्प्रर्शितप्रकारं काव्यवैचित्र्यमवस्थादिविशेषात्किं पुनरुक्तमेवास्तु न चेत्तथा तत्कर्थं न काव्यानन्त्यम्” इत्यपि पाठः । तदसुरोधी किमितीत्यादि न चेदितीत्यन्तो लोचनग्रन्थः । “उक्तिर्ही"त्यादिग्रन्थस्य भावं विवृणोतिपर्यायेत्यादि । पर्यायमात्रतैव शब्दान्तरेण निर्देश एव । तत्तर्हि । अविकलं वैकल्यं विना । अपौनरुक्त्याभिमानो न भवतीति ।

वाच्यानां च काव्ये प्रतिभासमानानां यद्रूपं तत्तु ग्राह्यविशेषाभेदेनैव प्रतीयते । तेनोक्तवैचित्र्यवादिना वाच्यवैचित्र्यमनिच्छताप्यवश्यमेवाभ्युपगन्तव्यम् । तदयमत्र सङ्क्षेपः

वाल्मीकिव्यतिरिक्तस्य
यद्येकस्यापि कस्यचित् ।
इष्यते प्रतिभार्थेषु
तत्तदानन्त्यमक्षयम् ॥ ॥

किञ्च, उक्तिवैचित्र्यं यत्काव्यनवत्वे निबन्धनमुच्यते - तदस्मत्पक्षानुगुणमेव । यतो यावानयं काव्यार्थान् अन्त्यभेदहेतुः प्रकारः प्राग्दर्शितः स सर्व एव पुनरुक्ति-वैचित्र्याद् द्विगुणताम् आपद्यते । यश् चायम् उपमाश्लेषादिरलङ्कारवर्गः

लोचनं

तस्माद्विशिष्टवाच्यप्रतपादकनैवोक्तेर्विशेष इति भावः । ग्राह्यविशेषेति । ग्राह्यः प्रत्यक्षादिप्रमाणैर्यो विशेषः तस्य यो अभेदः । तेनायमर्थःपदानान्तावत्सामान्ये वा तद्वति वापोहे वा यत्र कुत्रापि वस्तुनि समयः, किमनेन वादान्तरेण? वाक्यात्तद्विशेषः प्रतीयत इति कस्यात्र वादिनो विमतिः । अन्विताभिधानतद्विपर्ययसंसर्गभेदादिवाक्यार्थपक्षेषु सर्वत्र विशेषस्याप्रत्याख्येयत्वात् । उक्तिवैचित्र्यञ्च न पर्यायमात्रकृतमित्युक्तम् । अन्यत्तु यत्तत्प्रत्युतास्माकं पक्षसाधकमित्याहकित्र्चेति । पुनरिति । भूय इत्यर्थ. उपमा हि निभ, प्रतिं च्छल, प्रतिबिम्ब, प्रतिच्छाय, तुल्य, सदृशाभासादिभिर्विचित्राभिरुक्तिभिर्विचित्रीभवत्येव । वस्तुत एतासामुक्तीनामर्थवैचित्र्यस्य विद्यमानत्वात् । नियमेन भानयोगाद्धि निभशब्दः,

बालप्रिया

किन्तु पौनरुक्त्यबुद्धिरेव भवतीत्यर्थः । विशिष्टवाच्येति । वाच्यविशेषेत्यर्थः । प्रत्यक्षादिप्रमाणैः ग्राह्य इति सम्बन्धः । तेनायमर्थ इति । उक्तग्रन्थेन वक्ष्यमाणोऽर्थस्सिध्यतीत्यर्थः । मीमांसकादीनां मते सामान्ये वस्तुनि, नैयायिकमते तद्वति, बौद्धमते अपोहे समयः । वादान्तरेणवादविशेषेण । तद्विशेषः वस्तुविशेषः । कस्यात्र विमतिः न कस्यापि । अत्र हेतुमाहअन्वितेत्यादि । अन्विताभिधानादीनां ये वाक्यार्थत्वपक्षास्तेषु सर्वेष्वपीत्यर्थः । विशेषस्याप्रत्याख्येयत्वादिति । प्रतीताविति शेषः । वस्तुविशेषप्रतीतेः प्रत्याख्यातुमशक्यत्वादित्यर्थः । पुनरुक्तिवैचित्र्यादित्यत्रत्यपुनश्शब्दस्य व्याख्यानम्भूय इति । “यश्चायम्” इत्यादिग्रन्थस्य भावार्थविवरणमुपमेत्यादि । उपमा हि विचित्रीभवत्येवेति सम्बन्धः । ननु निभप्रतिमादिशब्दानां समानार्थकत्वात्कथं त चित्र्यमित्यत आहवस्तुत इत्यादि । उपसंहरतिएवमिति । तदिति । रलङ्कारवर्गः प्रसिद्ध स भणितिवैचित्र्यादुपनिबध्यमानः स्वयमेवानवधिर्धत्ते पुनः शतशाखताम् । भणितिश्च स्वभाषाभेदेन व्यवस्थिता सती प्रतिनियतभाषागोचरार्थवैचित्र्यनिबन्धनं पुनरपरं काव्यार्थानामानन्त्यमापादयति । यथा ममैव महमह इत्ति भणन्तौ वज्जदि कालो जणस्स । तोइ ण देउ जणद्दण गोअरी भोदि मणसो ॥ ॥ इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यतेऽन्तः काव्यार्थानाम् । इदं तूच्यते अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् । यत्प्रदर्शितं प्राक्

लोचनं

तदनुकारतया तु प्रतिमशब्द इत्येवं सर्वत्र वाच्यं केवलं बालोपयोगि काव्यटीकापरिशीलनदौरात्म्यादेषु पर्यायत्वभ्रम इति भावः । एवमर्थानन्त्यमलङ्कारानन्त्यञ्च भणितिवैचित्र्याद्भवति । अन्यथापि च तत्ततो भवतीति दर्शययिभणितिश्चेति । प्रतिनियताया भाषाया गोचरो वाच्योयोऽर्थस्तत्कृतं यद्वैचित्र्यं तन्निबन्धनं निमित्तं यस्य, अलङ्काराणां काव्यार्थानाञ्चानन्त्यस्य । तत्कर्मभूतं भणितिवैचित्र्यं कर्तृभूतमापादयतीति सम्बन्धः । कर्मणो विशेषणच्छलेन हेतुर्दर्शितः । मम मम इति भणतो व्रजति कालो हेतुर्दर्शितः । तथापि न देवो जनार्दनो गोचरो भवति मनसः ॥ ॥ मधुमथन इति यो अनवरतं भणति, तस्य कथन्न देवो मनोगोचरो भवतीति वीरोधालङ्कारच्छाया । सौन्धवभाषया महमह इत्यनया भणित्या समुन्मेषिता ॥ ७ ॥

अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् ।

बालप्रिया

अर्थाद्यानन्त्यमित्यर्थः । तत इति । भणितिवैचित्र्यादित्यर्थः । यस्तेत्यन्यपदार्थविवररणमलङ्काराणामित्यादि । विशेषणच्छलेनेति । प्रतिनियतेत्यादिविशेषणव्याजेनेत्यर्थः । “महे"त्यादेः छायामाहममेत्यादि । मम मम इति भणतः ममायं ममेदमित्यादि भणतः । अत्र ममेति प्रकृतार्थः । मधुमथन इति प्रतीयमानो विरुद्धार्थः । तथापीति विरोधद्योतकम् । समुन्मिषितेति । महमह इत्यस्य मम मम इति मधुमथन इति च छाया भवतीति भावः ॥ ७ ॥ ॥ ॥ इत ऊर्ध्वङ्कारिकावृत्योर्भेदस्य दुर्ग्रहतया तदुभयं पृथक्प्रदर्शयन् विवृणोतिअवस्थेत्यादि । भूम्नैव दृश्यते लक्ष्ये


न तच्छक्यमपोहितुम् । . . . . . . . . . . .तत्तु भाति रसाश्रयात् ॥ कारिका४.८ ॥


… न तच्छक्यमपोहितुम् । तत्तु भाति रसाश्रयात् ॥ ८ ॥ तदिदमत्र सङ्क्षेपेणाभिधीयते सत्कवीनामुपदेशाय


रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी । अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥ कारिका४.९ ॥


रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी । अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥ ९ ॥ तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् ।


वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतिर्जगतामिव ॥ कारिका४.१० ॥


वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः । निबद्धा सा क्षयं नैति प्रकृतर्जगतामिव ॥ १० ॥ ॥ ॥ यथाहि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती

लोचनं

भूम्नैव दृश्यते लक्ष्ये तत्तु भाति रसाश्रयात् ॥ ॥ इति कारिका । अन्यस्तु ग्रन्थो मध्योपस्कारः ॥ ८ ॥ ॥ ॥ अत्र तु पादत्रयस्यार्थमनूद्य चतुर्थपादार्थोऽपूर्वतयाभिधीयते । तदित्यादि । शक्तीनामित्यन्तं कारिकयोर्मध्योपस्कारः । द्वितीयकारिकायास्तुर्यं पादं व्याचष्टेयथाहीति ॥ १॥ , १० ॥

बालप्रिया

अन्यस्तु ग्रन्थ इति । “यत्प्रदर्शितं प्रागि"ति “न तच्छक्यमपोहितुम्” इति च ग्रन्थ इत्यर्थः ॥ ८ ॥ ॥ ॥ चतुर्थेत्यादि । “तत्तु भात रसाश्रया “दित्यस्यार्थोऽत्र विधीयमान इत्यर्थः । करिकयोरिति । “रसभावे"त्यादेः “वाचस्पती"त्यादेश्च कारकयोरित्यर्थ ।

उपस्कार इति । यद्य् अन्वीयते अन्यैः कविभिः तत्तर्हि इत्यर्थः । अन्येषां वाल्मीकिव्यतिरिक्तानाम् । कवीनां गणना का । ते अगण्या भवेयुरिति तदर्थः । तुर्यं पादमिति । प्रकृतिर्जगतामिवेति पादमित्यर्थः । व्याचष्ट इति । क्षयं नैतीत्यनेन सह विवृणोतीत्यर्थः । यथाहीतीति । “यथाही"त्यादिना “अभिधातुम्” इत्यन्तग्रन्थेनेत्यर्थः. “तद्वदि"त्यादिकं तु वाचस्पतीत्यादिपादत्रयार्थविवरणम् । वृत्तौ “जगत्प्रकृतिरि"ति । जगत्कारणभूता प्रकृतिरित्यर्थः । “अतीते"ति । अतीतानां कल्पनां परम्परायामाविर्भून्तः आविर्भावितः विचित्राणां वस्तूनां प्रपञ्चो यया सा “परी"ति । परिक्षीणा नष्टा अपरपदार्थानां निर्माणशक्तिर्यस्यास्सेत्यर्थः ॥ १॥ , १० ॥

पुनरिदानीं परिक्षीणा परपदार्थानिर्माणशक्तिरिति न शक्यतेऽभिधातुम् । तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदानीं परिहीयते, प्रत्युत नवनवाभिर्व्युत्पत्तिभिः परिवर्धते । इत्थं स्थितेऽपि


संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् । स्थितं ह्येतत्संवादिन्य एव मेधाविनां बुद्धयः । किन्तु नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥ कारिका४.११ ॥


संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् । स्थितं ह्येतत्संवादिन्य एव मेधाविनां बुद्धयः । किन्तु नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥ ११ ॥ कथमिति चेत् संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् । आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ १२ ॥ संवादो हि काव्यार्थस्योच्यते यदन्येन काव्यवस्तुना सादृश्यम् । तत्पुनः शरीरिणां प्रतिबिम्बवदालेख्याकारवत्तुल्यदेहिवच्च त्रिधा व्यवस्थितम् । किञ्चिद्धि काव्यवस्तु वस्त्वन्तरस्य शरीरिणः प्रतिबिम्बकल्पम्, लोचनम् संवादा इति कारि काया अर्धं, नैकरूपतयेति द्वितीयम् ॥ ११ ॥ किमियं राजाज्ञेत्यभिप्रायेणाशङ्कतेकथमिति चेदिति । अत्रोत्तरम्


संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् । आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ कारिका४.१२ ॥


संवादो ह्यन्यसादृश्यन्तत्पुनः प्रतिबम्बवत् । आलेख्या कारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ १२ ॥ इत्यनेया कारिकया । एषा खण्डीकृत्य वृत्तौ व्याख्याता । शरीरिणामित्ययञ्चशब्दः प्रतिवाक्यं द्रष्टव्य इति दर्शितम् । शरीरिण इति । पूर्वमेव प्रतिलब्धस्वरूपतया

बालप्रिया

लोचनेसंवादा इत्यादि । “संवादा” इत्यादि “सुमेधसाम्” इत्यन्तं कारिकायाः प्रथमार्धं, “नैके"त्यादि “विपश्चिते” त्यन्तं द्वितीयार्धं चेत्यर्थः । अत्र सुमेधसां संवादा इत्यस्य सुमेधसां बुद्धीनां काव्यानां च संवादा इत्यर्थ इत्यभिप्रेत्य “स्थितं ह्येतदि"त्यादिकं “संवादो हि काव्यार्थस्योच्यत” इति च वृत्तावुक्तमिति बोध्यम् ॥११ ॥ ख एडीकृत्य(?) वृत्तौ व्याख्यातेति । केषुचित्पुस्तकेष्विति शेषः । अत एव वक्ष्यतेकेषुचित्पुस्तकेषु कारिका अखण्डीकृता एव दृश्यन्त इति । खण्डीकृत्य व्याख्यानं तु “संवादो ह्यन्यसादृश्यम् " “संवादो हि काव्यार्थस्योच्यते, यदन्येन काव्यवस्तुना सादृश्यम्, तत्पुनः प्रतिबिम्बवत्, तत्पुनश्शरीरिणां प्रतिबिम्बवत्” इत्यादिकं बोध्यम् । प्रतिवाक्यमित्यादि । शरीरिणामित्यस्य प्रतिबिम्बादिभिस्त्रिभिस्सम्बन्ध इति भावः । अन्यदालेख्यप्रख्यमन्यत्तुल्येन शरीरणा सदृशम् ।


तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् । तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः ॥ कारिका४.१३ ॥


तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् । तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः ॥ १३ ॥ तत्र पूर्वं प्रतिबिम्बकल्पं काव्यवस्तु परिहर्तव्यं सुमतिना । यतस्तदनन्यात्म तात्त्विकशरीरशून्यम् । तदनन्तरमालेख्यप्रख्यमन्यसाम्यं शरीरान्तरयुक्तमपि तुच्छात्मत्वेन त्यक्तव्यम् । तृतीयं तु विभिन्नकमनीयशरीरसद्भावे सति ससंवादमपि काव्यवस्तु न त्यक्तव्यं कविना । न हि शरीरी शरीरिणान्येन सदृशोऽप्येक एवेति शक्यते वक्तुम् ।

लोचनं

प्रधानभूतस्येत्यर्थः ॥ १२ ॥

तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् । तृतीयन्तु प्रसिद्धत्म नान्यसाम्यन्त्यजेत्कविः ॥ ॥ इति कारिका । अनन्यः पूर्वोपनिबन्धकाव्यादात्मा स्वभावो यस्य तदनन्यात्म येन रूपेण भाति तत्प्राक्कविस्पृष्टमेव, यथा येन रूपेण प्रतिबिम्बं भाति, तेन रूपेण बिम्बमेवैतत् । स्वयन्तु तत्कीदृशमित्यत्राहतात्विकशरीरशून्यमिति । न हि तेन किञ्चिदपूर्वमुत्प्रेक्षितं प्रतिबिम्बमप्येवमेव । एवं प्रथमं प्रकारं व्याख्याय द्वितीयं व्याचष्टेतदनन्तरन्त्विति । द्वितीयमित्यर्थः । अन्येन साम्यं यस्य तत्तथा । तुच्छात्मेति । अनुकारे ह्यनुकार्यबुद्धिरेव चित्रपुस्तादाविव न तु सिन्दूरादिबुद्धिः स्फुरति, सापि च न चारुगत्वायेति भावः ॥१३॥

बालप्रिया

वृत्तौ “काव्यार्थस्ये"ति पूरतम् । काव्यार्थगतमन्यसादृश्यं विवृणोति “यदन्येने"त्यादि । प्रतिबिम्बवदित्यादित्रये षष्ट्यन्ताद्वतिः । प्रतिबिम्बे अन्यसादृश्यं शरीरिणा बिम्बेन सादृश्यमेवमालेख्याकारतुल्यदेहनोश्च शरीरिणा सादृश्यं बोध्यम् । “किञ्चिद्धी"त्यादिफलितरथकथनम् । तत्र शरीरिण इत्येतत्पदस्य विवरणं लोचनेपूर्वमेवेत्यादि । नान्यसाम्यं त्यजेत्कविरित्युक्त्या गम्यस्यार्थस्य विवरणं वृत्तौ “परिहर्तव्यं सुमतिने"ति । “त्यक्तव्यम्” इति च ॥ १२ ॥ ॥ ॥ तात्विकशरीरशून्यमित्यनन्यात्मेत्यस्य विवरणमित्यन्यथा प्रतिपत्तिः स्यादित्यतो लोचने विवृणोतअनन्य इत्यादि । भातीति । काव्यवस्त्विति शेषः । तस्य प्रतिबिम्बकल्पत्वं दर्शयतियथेत्यादि । इत्यत्राहेति । तथाच तात्विकेत्यादिकमनन्यात्मेत्यस्य विवरणं नेति भावः । तात्विकशरीरशून्यत्वे हेतुमाहन हीत्यादि । तेनेति । नवीनकविनेत्यर्थः । अपूर्वमिति । काव्यवस्त्विति शेषः । तुच्छात्मत्वमुपपादयतिअनुकारे हीत्यादि । सापीति । सा अनुकार्यबुद्धिः ॥ १३॥

एतदेवोपपादयितुमुच्यते


आत्मनोऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि । वस्तु भातितरां तन्व्याः शशिच्छायमिवाननम् ॥ कारिका४.१४ ॥


आत्मनोऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि । वस्तु भातितरां तन्व्याः शशिच्छायमिवाननम् ॥ १४ ॥ ॥ ॥ तत्त्वस्य सारभूतस्यात्मनः सद्धावेऽन्यस्य पूर्वस्थित्यनुयाय्यपि वस्तु भातितराम् । पुराणरमणीयच्छायानुगृहीतं हि वस्तु शरीरवत्परां शोभां पुष्यति । न तु पुनरुक्तत्वेनावभासते । तन्व्याः शशिच्छायमिवाननम् । एवं तावत्ससंवादानां समुदायरूपाणां वाक्यार्थानां विभक्ताः सीमानः । पदार्थरूपाणां च वस्त्वन्तरसदृशानां काव्यवस्तूनां नास्त्येव दोष इति प्रतिपादयितुमुच्यते


अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी । नूतने स्फुरति काव्यवस्तुनि व्यक्तमेव खलु सा न दुष्यति ॥ कारिका४.१५ ॥


अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी । नूतने स्फुरति काव्यवस्तुनि व्यक्तमेव खलु सान दुष्यति ॥ १५ ॥ ॥ ॥ न हि वाच्यस्पतिनाप्यक्षराणि पदानि वा कानिचिदपूर्वाणि घटयितुं लोचनमेतदेवेति तृतीयस्य रूपस्यात्याज्यत्वम् । आत्मनोऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि । वस्तु भातितरान्तन्व्याश्शशिच्छायमिवाननम् ॥ ॥ इति कारिका खण्डीकृत्य वृत्तौ पठिता । केषुचित्पुस्तकेषु कारिका अखण्डीकृता एव दृश्यन्ते । आत्मन इत्यस्य शब्दस्य पूर्वपठिताभ्यामेव तत्वस्य सारभूतस्येति च पदाभ्यामर्थो निरूपितः ॥ १४ ॥ ससंवादानामिति पाठः । संवादानामिति तु पाठे वाक्यार्थरूपाणां समुदायानां ये संवादाः तेषामिति वैयधिकरण्येन संगतिः । वस्तुशब्तदेन एको वा द्वौ वा त्रयो

बालप्रिया

एतदेवेत्यत्रत्यैतत्पदार्थविवरणम्तृतीयस्येत्यादि । आत्मन इत्यस्यार्थो निरूपित इति सम्बन्धः तत्त्वस्य सारभूतस्येति चात्मपदार्थविवरणमिति भावः । वृत्तौ । “पूर्वस्थिती” त्याद्युक्तस्यैव विवरणं “पुराणे"त्यादि । “पुष्यती” त्यन्तम् । “पुराणे"ति । पुराणी रमणीया च या छाया तयानुगृहीतमित्यर्थः । “शरीरवत्” शरीरेण तुल्यम् ॥१४ ॥ ॥ ॥ कारिकायां वस्तुरचनेत्यत्र वस्तुपदं विवृणोति लोचनेवस्तुशब्देनेत्यादि । शक्यन्ते । तानि तु तान्येवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि । तस्मात्यदपि तदपि रम्यं यत्र लोकस्य किञ्चित्स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते । स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते ।


अनुगतमपि पूर्वच्छायया वस्तु तादृक् सुकविरुपनिबध्नन्निन्द्यतां नोपयाति ॥ कारिका४.१६ ॥


अनुगतमपि पूर्वच्छायया वस्तु तादृक् । सुकविरुपनिबध्नन्निन्द्यतां नोपयाति ॥ १६ ॥

लोचनं

वा चतुरादयो वा पदानामर्थाः । तानि त्विति । अक्षराणि च पदानि च । तान्येवेति । तेनैव रूपेण युक्तानि मनागप्यन्यरूपतामनागतानीत्यर्थः । एवमक्षरादिरचनैवेति दृष्टान्तभागं व्याख्याय दार्ष्टान्तिके योजयतितथवेति । श्लेषादिमयानीति । श्लेषादिस्वभावानीत्यर्थः । सद्वृत्ततेजस्विगुणद्विजादयो हि शब्दाः पूर्वपूर्वैरपि कविसहस्रैः श्लेषच्छायया निबध्यन्ते, निबद्धाश्चन्द्रादयश्चोपमानत्वेन । तथैव पदार्थरूपाणीत्यत्र नापूर्वाणि घटयितुं शक्यन्ते इत्यादि विरुध्यन्तीत्येवमन्तं प्राक्तनं वाक्यमभिसन्धानीयम् ॥ १५ ॥ ॥ ॥ “लोक्ये"ति व्याचष्टेसहृदयानामिति । चमत्कृतिरिति । आस्वादप्रधाना बुद्धिरित्यर्थः । “अभ्युज्जीहीत” इति व्याचष्टेउत्पद्यत इति । उदेतीत्यर्थः । बुद्धेरेवाकारं दर्शयतिस्फुरणेयं काचिदिति । यदपि तदपि रम्यं यत्र लोकस्य किञ्चि त्स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते ।

बालप्रिया

अर्था इति । विवक्षिता इति शेषः । तानि त्वित्यादिकं विवृणोतिअक्षराणीत्यादि । तान्येवोपनिबद्धानीत्यस्य विवरणम्तेनैवेत्यादि । व्याख्यायेति । न हीत्यादिना विरुध्यन्तीत्यन्तेनेति शेषः । सद्वृत्तेत्यादि । सद्वृत्तादयो हि शब्दा नानार्थकाः । निबद्धा इत्यादि । पूर्वैरुपमानत्वेन निबद्धाश्चन्द्रादयश्चाद्यतनैरुपमानत्वेन निबध्यन्त इत्यर्थः । अभिसन्धानीयमिति । अनुषञ्जनीयमित्यर्थः । कारिकायां यत्रेत्युक्त्या तत्रेत्यध्याहृत्य काव्यवस्तुनीत्यनेन योज्यम् । यत्रेत्यस्य स्थाने या त्विति वा पाठः । कारिकायां “यदपी"त्यादि । “यदपि तदपि” यत्किञ्चित्तद्वस्त्वपि । “रम्यं” काव्ये चारु भवति । तत्पदार्थं विवृणोति “यत्रे"त्यादि । “यत्र” निबद्धे यस्मिन् वस्तुनि । इदं किञ्चित्स्फुरितमितीयं बुद्धिः लोकस्य उज्जिहीते इत्यन्वयः । तदनुगतमपि पूर्वच्छायया वस्तु तादृक्तादृक्षं सुकविर्विवक्षितव्यङ्ग्यवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छाययोपनिबध्नन्निन्धतां नैव याति । तदित्थं स्थितं प्रतायन्तां वाचो निमितविविधार्थामृतरसा न सादः कर्तव्यः कविभिरनवद्ये स्वविषये । सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थविरचने न कश्चित्कवेर्गुण इति भावयित्वा ।


परस्वादानेच्छाविरतमनसो वस्तु सुकवेः सरस्वत्येवैषा घटयति यथेष्टं भगवती ॥ कारिका४.१७ ॥


परस्वादानेच्छाविरतमनसो वस्तु सुकवेः । सरस्वत्येवैषा घटयति यथेष्टं भगवती ॥ १७ ॥

लोचनमनुगतमिपि पूर्वच्छायया वस्तु तादृक्सुकविरुपनिबध्नन्निन्द्यतां नोपयति ॥ ॥ इति कारिका खण्डीकृत्य पठिता ॥ १६ ॥ स्वविषय इति । स्वयन्तात्कालिकत्वेनास्फुरित इत्यर्थः । परस्वादानेच्छेत्यादिद्वितीयं श्लोकार्धं पूर्वोपस्कारेम सह पठतिपरस्वादानेच्छाविरतमनसो

बालप्रिया

तत्र लोकस्येत्यादेर्विवरणं वृत्तौ “स्फुरणेयम्” इत्यादि । तदेतद्दर्शयन्नाह लोचनेलोकस्येत्यादि । खण्डीकृत्य पठितेति । “यदपी"त्यादिकारिकापूर्वार्धं पाठानन्तरं “स्फुरणेय “मित्यादिवृत्तिग्रन्थपाठः, स्तदनन्तरं “अनुगतमपी"त्याद्युत्तरार्धपाठः, तदनम्तरं “गतम्” इत्यादिवृतितग्रन्थपाठश्चेति भावः ॥ १६ ॥ “प्रतायम्ताम्” इति । निमिताः तुलिताः विविधार्थामृतरसाः अमृतरसतुल्याः विविधार्थाः याभिः ताः, यावन्तोऽर्थास्तावत्य इति भावः । यथा माधेऽयावदर्थपदां वाचम्” इति । वाचः काव्यरूपाः । कविभिः “प्रतायन्तां” सविस्तराः निबध्यन्ताम् । “अनवद्ये” भिर्देषे । “स्वविषये” काव्यवस्तुनि विषये कविभिः “सादः” मनस्सादः, कुतः खल्वपूर्वमानयमीत्यादिचिन्तया विषाद इति यावत् - न कर्तव्यः, कुत इत्यत्राह “परस्वे"त्यादि । “वस्तु” काव्यम् । सुकवेर्घटयतीति सम्बन्धः । “यथेष्टं” कवेरिष्टमनतिक्रम्य इति कारिकार्थं स्पष्टं मत्वा स्वविषय इत्यत्र पूरयति लोचनेस्वयं तात्कालिकत्वेनास्फुरित इति । तत्काले कवेरस्फुरित इत्यर्थः । अनेन सादस्य हेतुर्दर्शितः । पूर्वोपस्कारेण सह पठतीति । करिकापूर्वार्धपाठानन्तरं सन्ती परस्वादानेच्छाविरतमनसः सुकवेः सरस्वत्येषा भगवती यथेषृं घटयति वस्तु । येषां सुकवीनां प्राक्तनपुण्याभ्यासपरिपाकवशेन प्रवृत्तिस्तेषां परोपरचतार्थपरिग्रहनिःस्पृहाणां स्वव्यापारो न क्वचिदुपयुज्यते । सैवभगवती सरस्वती स्वयमभिमतमर्थमाविर्भावयति । एतदिव हि महाकवित्वं महाकवीनामित्योम् । इत्यक्लिष्टरसाश्रयोचितगुणालङ्कारशोभाभृतो यस्माद्वस्तु समीहितं सुकृतिभिः सर्वं समासाद्यते ।

लोचनं

वस्तु सुकवेरिति तृतीयः पादः । कुतः खल्वपूर्वमानयामीत्याशयेन निरुद्योगः परोपनिबद्धवस्तूपजीवको वा स्यादत्याशङ्क्याहसरस्वत्येवेति । कारिकायां सुवेरिति जातावेकवचनमित्यभिप्रायेण व्याचष्टेसुकविनामिति । एतदेव स्पष्टयतिप्राक्तनेत्यादि । न तेषामित्यन्तेन । आविर्भावयतीति । नूतनमेव सृजतीत्यर्थः ॥ १७ ॥ ॥ ॥ इतीति । कारिकातद्वृत्तिनिरूपणप्रकारेणेत्यर्थः । अक्लिष्टा रसाश्रयेण उचिता ये गुणालङ्कारास्ततो या शोभा तां बिभर्ति काव्यम् । उद्यानमप्यक्लिष्टः कालोचितो यो लसः सेकादिकृतः तदाश्रयस्तत्कृतो यो गुणानां सौकुमार्यच्छायावत्वसौगन्ध्यप्रभृतीनमलङ्कारः पर्याप्तताकारणं तेन च या शोभा तां बिभर्ति । यस्मादिति काव्याख्यादुद्यानात् । सर्वे समीहितमिति । व्युत्पत्तिकीर्तिप्रीतिलक्षणमित्यर्थः ।

बालप्रिया

त्यादिभावयित्वेत्यन्तस्य वृत्तिग्रन्थस्य पाठः । तस्य परस्वादानेच्छाविरतमनस इत्यत्र विरतेत्यनेन सम्बन्धश्चेति भावः । अवतारयतिकुत इत्यादि । आशयेन चिन्तया । निरुद्योगः काव्यविषयकोद्योगरहितः । स्यादिति । कुतो न स्यात्, स्यादेवेत्यर्थः ॥ १७ ॥ इत्यक्लिष्टेत्यादिश्लोकस्थस्येतिपदस्य विवरणम्कारिकेत्यादि । कारिका च तद्वृत्तिश्च ताभ्यां यन्निरूपणं तत्प्रकारेणेत्यर्थः । अस्य ध्वनिर्दर्शित इत्यनेन सम्बन्धः । अक्लिष्टेति शोभायाः रसाश्रयोचितेति गुणालङ्कारयोश्च विशेषणमिति दर्शयन् व्याचष्टेअक्लिष्टेत्यादि । तत इति । गुणालङ्कारहेतुकेत्यर्थः । तत्कृत इति । तत्प्रयुक्त इत्यर्थः । कालोचितजलसेकेन हि पल्लवपत्रपुष्पादिसमृद्ध्या लतावृक्षादिसमुदायरूपस्योद्यानस्य सौकुमार्यादिगुणसम्पत्तिर्भवति । अलंशब्दोऽत्र पर्याप्ततावाचीत्याशयेन विवृणोतिपर्याप्तताकरणमिति । परिपूर्णताप्रापणमित्यर्थः । काव्याख्येऽखिलसौख्यधाम्नि विबुधोद्याने ध्वनिर्दर्शितः सोऽयं कल्परूपमानमहिमा भोग्योऽस्तु भव्यात्मनाम् ॥ सत्काव्यतत्त्वनयवर्त्मचिरप्रसुप्त कल्पं मनस्सु परिपक्वधियां यदासीत् । लोचनमेतच्च सर्वं पूर्वमेव वितत्योक्तमिति श्लोकार्थमात्रं व्याख्यातम् । सुकृतिभिरिति । ये कष्टोपदेशेनापि विना तथावि धफलभाजः तैरित्यर्थः । अखिलसौख्यधाम्नीति । अखिलं दुःखलेशेनाप्यननुविद्धं यत्सौख्यं तस्य धाम्नि एकायतन इत्यर्थः । सर्वथा प्रियं सर्वथा च हितं दुर्लभं जगतीति भावः । विबुधोद्यानं नन्दनम् । सुकृतीनां कृतज्योतिष्टोमादीनामेव समीहितासादनिमित्तम् । विबुधाश्च काव्यतत्वविदः । दर्शित इति । स्थित एव सन् प्रकाशितः, अप्रकाशितस्य हि कथं भोग्यत्वम् । कल्पतरुणा उपमानं यस्य तादृङ्महिमा यस्येति बहुव्रीहिगर्भो बहुव्रीहिः । सर्वसमीहितप्राप्तिर्हि काव्ये तदेकायत्ता । एतच्चोक्तं विस्तरतः ॥ सत्काव्यतत्वनयवर्त्म चिरप्रमुक्तकल्पं मनस्सु परिपक्वधियां यदासीत् ।

बालप्रिया

तथाविधफलभाज इति । तथाविधानि व्युत्पत्यादीनि फलानि भजन्ते तद्भजनशीलाः तदर्हा इत्यर्थः । तैरिति । राजकुमारादिभिरित्यर्थः । खिलशब्दोऽत्र दुःखार्थकः । नास्ति खिलं यस्मिंस्तदखिलं इति बहुव्रीहिश्चेत्याशयेन विवृणोतिदुःखेत्यादि । भावमाहसर्वर्थत्यादि । कृतज्योतिष्टोमेत्यादिना उद्यानपक्षे सुकृतिपदार्थो विवृतः । उद्यानस्येव काव्यस्यापि विबुधपदार्थसम्बन्धोऽर्थाद्विवक्षित इत्याशयेनाहविबुधाश्चेत्यादि । काव्यतत्वविदश्चेति योजना । चकारेण देवा इत्यर्थस्य समुच्चयः । दर्शित इति भोग्यत्वोपपादकमिति दर्शयन्नाहअप्रकाशितस्येत्यादि । उपमानपदस्योपमित्यर्थकत्वाभिप्रायेण विग्रहमाहकल्पतरुणोत्यादि । उपमानपदस्योपमितिकरणाथकत्वे तु कल्पतरुरुपमानमिति विग्रहः । बहुव्रीहिरिति । अत्र कल्पतरुसाम्यस्य महिम्नि शब्देन बोधनेऽपि महिमाश्रये ध्वनौ तस्य पर्यवसानं बोध्यम् । काव्यं नन्दनोद्यानेन तुल्यं ध्वनिः कल्पतरुतुल्यश्चेति भावः । अत एव ध्वनेः कल्पतरुसाम्यप्रयोजकं दर्शयन्नाहसर्वेत्यादि । समीहितं प्रीत्यादि । तदेकायत्ता ध्वन्येकप्रयुक्ता । सत्काव्ये"ति । सत्काव्यत्वस्य ध्वनिस्वरूपस्य “नयवर्त्म, न्याय्यमार्गः साधकं युक्तिजातमित्यर्थः । “चिरे"ति । चिरकालादारभ्य प्रसुप्ततुल्यं स्फुटमप्रकाशमित्यर्थः । “परिपक्वधियां” परिणतपरोज्ञातां पूर्वेषां ग्रन्थकृताम् । “तदि"ति । ध्वनिस्वरूपं तत्सा तद्य्वाकरोत्सहृदयोदयलाभहेतो रानन्दवर्धन इति प्रथिताभिधानः ॥ इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थ उद्द्योतः समाप्तोऽयं ग्रन्थः ॥ लोचनम् तद्व्याकरोत्सहृदयोदयलाभहेतोः इति सम्बन्धाभिधेयप्रयोजनोपसंहारः । इह बाहुल्येन लोको लोकप्रसिष्या सम्भावनाप्रत्ययबलेन प्रवर्तते । स च सम्भावनाप्रत्ययो नामश्रवणवशात्प्रसिद्धान्यतदीयसमाचारकवित्वविद्वत्तादिसमनुसमरणेन भवति । तथाहिभर्तृहरिणेदं कृतम्यस्यायमौदार्यमहिमा यस्यास्मिञ्छास्त्रे । एवंविधस्सारो दृश्यते तस्यायं श्लोकप्रबन्धस्तस्मादादरणीयमेतदित लोकः प्रवर्तमानो दृश्यते । लोकश्चावश्यं प्रवर्तनीयः तच्छास्त्रोदितप्रयोजनसम्पत्तये । तदनुग्राह्यश्रोतृजनप्रवर्तनाङ्गत्वाद्ग्रन्थकाराः स्वनामनिबन्धनं कुर्वन्ति, तदभिप्रायेणाहआनन्दनवर्धन इति । प्रथितशब्देनैतदेव प्रथितं यत्तु

बालप्रिया

धकं युक्तजातं चेत्यर्थः । “व्याकरोत्” विशदीकृतवान् । “सहृदये"ति । सहृदयानां य उदय अभ्युदयः ध्वनिस्वरूपावबोधहेतुका प्रीतिः तल्लाभस्य हेतोः । तल्लाभरूपप्रयोजनायेत्यर्थः । “तेन ब्रूमः सहृदयमनः प्रीतये तत्स्वरूपम्” इत्युपक्रमानुरूपोऽयमुपसंहारः । श्लोकार्थं स्पष्टं मत्वा वक्तव्यमंशं विवृणोति लोचनेसत्काव्येत्यादि । इतिसम्बन्धाभिधेयप्रयोजनोपसंहार इति । सम्बन्धः ध्वनिस्वरूपस्यैतद्गन्थस्य च प्रतिपाद्यप्रतिपादकभावः । अभिधेयं ध्वनिस्वरूपं, प्रयोजनं ध्वनिस्वरूपज्ञानहेतुका प्रीतिः । तद्य्वाकरोत्सहृदयोदयलाभहेतोरित्यनेनाभिधेयप्रयोजने स्पष्टमुक्ते, सम्बन्धस्त्वर्थाल्लभ्यते । अथानन्देत्यादिचतुर्थपादमवतारयतिइहेत्यादि । सम्भावनाप्रत्ययेति । बहुमानेत्यर्थः । नामेति । ग्रन्थकारनाम्नो यच्छ्रावणं तद्वशादित्यर्थः । प्रसिद्धेति । प्रसिद्धमन्यन्नाम्नोऽन्यत् । यद्वाप्रसद्धान्यमसाधारणमित्यर्थः । तथाविधं यत्तदीयं ग्रन्थकारसम्बन्धिसमाचारस्सदाचारः तदादि तत्स्मरणेनेत्यर्थः । स च सम्भावना प्रत्ययो भवतीति सम्बन्ध । उक्तं सदृष्टान्तमाहतथाहीत्यादि । भर्तृहरिणेदं कृतमित्यादिकं लोकबुद्ध्याकारकथनम् । यस्य भर्तृहरेः । अयमिति ग्रन्थमुद्दिश्योक्तिः । इतीति । इति बुद्ध्येत्यर्थः । सम्पत्तये प्रवर्तनीय इति सम्बन्धः ।

लोचनं

तदेव नामश्रवणं केषाञ्चन्निवृत्तिं करोति, तन्मात्सर्यविजृम्भितं नात्र गणनीयम्, निश्रेयसप्रयोजनादेव हि श्रुतात्कोऽपि रागान्धो यदि निवर्तते किमेतावता प्रयोजनमप्रयोजनमप्यवश्यं वक्तव्यमेव स्यात् । तस्मादर्थिनां प्रवृत्यङ्गन्नाम प्रसिद्धम् । स्फुटीकृतार्थवैचित्र्यबहिःप्रसरदायिनीम् ॥ ॥ तुर्यां शक्तिमहं वन्दे प्रत्यक्षार्थनिदर्शिनीम् ॥ आनन्दवर्धनविवेकविकासिकाव्यालोकार्थतत्त्वघटनादनुमेयसारम् । यत्प्रोन्मिषत्सकलसद्विषयप्रकाशि व्यापार्यताभिनवगुप्तवि

लोचनं

तत् ॥

बालप्रिया

तदिति । तस्मादित्यर्थः । एतदेव प्रथितमिति । उक्तमेव प्रकाशितमित्यर्थः । तदेव नामश्रवणमिति । यदेव नामश्रवणं बहूनां प्रवृत्तिं करोति, तदेव नामश्रवणमित्यर्थः । करोति उत्पादयति । निःश्रेयसेति । निश्रेयसं प्रयोजनं यस्य तस्मादित्यर्थः । श्रुतादिति । श्रुतिप्रतिपादितात्तत्वाज्ज्ञानादित इत्यर्थः । एतावतेति । रागान्धनिवृत्तिमात्रेणेत्यर्थः । प्रयोजनमिति । वस्तुतः प्रयोजनमित्यर्थः । अप्रयोजनं प्रयोजनभिन्नम् । वक्तव्यमेव स्यात्कमिति सम्बन्धः । न वक्तव्यमिति भावः । प्रथितं नामप्रवृत्त्यङ्गमिति सम्बन्धः । प्रथमोद्योतान्ते पराया द्वितीयोद्योतान्ते पश्यन्त्यास्तृतीयोद्योतान्ते मध्यमायाश्च वन्दनं कृतवान् ग्रन्थकारः, चतुर्थोद्योतान्ते वैखर्या वन्दनमनुतिष्ठतिस्फुटीत्यादि । स्फुटीकृतानि वक्त्रा मनसि स्पष्टीकृतानि यानि अर्थवैचित्र्याणि विचित्रार्थाः तेषां यःबहिःप्रसरः श्रोतृजनेषु प्रकाशः तद्दायिनीम् । प्रत्यक्षेति । प्रत्यक्षं यथा तथा अर्थनिदर्शिनीमर्थान्निदर्शयन्तीम् । अप्रत्यक्षानप्यर्थान् प्रत्यक्षानिव प्रदर्शयन्तीमिति यावत् । तुर्यी शक्तिं वैखरीरूपां शक्तिम् । अहं वन्दे इत्यर्थः । आनन्देत । आनन्दवर्धनस्य यो विवेकः विविच्यतत्तदर्थावबोधः तेन विकासी प्रकाशमानो यः काव्यलोकस्तस्य यान्यर्थतत्वानि सारार्थाः तेषां घटनात्संयोजनाद्धेतोः । अनुमेयस्सार उत्कर्षो यस्य तत्, किञ्च यत्प्रोन्मिषत्सहृदयेषु प्रकाशमानमथ च प्रकर्षेण उन्मिषत्सत्सकलानां सर्वेषां सर्वेषां काव्यादीनां सद्विषयान् सारार्थान् सकलान् सद्विषयान्वा अथ च सकलानां सर्वेषां काव्यादीनां सद्बिषयान् सारार्थान् सकलान् सद्विषयान् वा अथ च सकलान् सद्विषयान् विद्यमानान् पदार्थान् प्रकाशयतीति तथा भवति तत्तथाविधम् । अभिनवगुप्तस्य तन्नाम्नः स्वस्य, अथ च अभिनवं नवीनां गुप्तमन्येषामविदितं च लोचनमा

लोचनं

ज्ञानं नेत्रं च व्यापार्यत आत्मना व्यापारितम् । णिजन्तात्कर्मणि लङ् । अत्र ज्ञाने नेत्रसाम्यं गम्यते । श्रीसिद्धीति । श्रीमतः सिद्धिचेलस्य तन्नाम्नः गुरोः चरणाब्जपरागैः पूतो यो

लोचनं

श्रीसिद्धिचेलचरणाब्जपरागपूतभट्टेन्दुराजमतिसंस्कृतबुद्धिलेशः । वाक्यप्रमाणपदवेदिगुरुः प्रबन्धसेवारसो व्यरचयदध्वनि वस्तुवृत्तिम् ॥ सज्जनान् कविरसौ न याचते ह्लादनाय शशमृत्किमर्थितः । नैव निन्दति खलान्मुहुर्मुहुः धिक्कृतोऽपि न हि शीतलोऽनलः ॥ ॥ वस्तुतश्शिवमये हृदि स्फुटं सर्वतश्शिवमयं विराजते । नाशिवं क्वचन कस्यचिद्वचः तेन वश्शिवमयी दशा भवेत् ॥ इति महामाहेश्वराभिनवगुप्तविरचिते काव्यालोकलोचने चतुर्थ उद्योतः समाप्तश्चावं ग्रन्थः ॥

बालप्रिया

भट्टेन्दुराजः तस्य मत्या ज्ञानेन संस्कृतो बुद्धिलेशो यस्य सः । वाक्येति । वाक्यं मीमांसाशास्त्रं, प्रमाणं न्यायशास्त्रं, पदं व्याकरणशास्त्रं, तद्वेदिनां गुरुरित्यर्थः । प्रबन्धसेवायां रसो यस्य सः । अभिनवगुप्त इति शेषः । ध्वनिवस्तुवृर्त्ति ध्वनिग्रन्थविवृतिम् । व्यरचयत्कृतवान् । सज्जनानिति । असौ कविरित्यात्मानं निर्दिश्योक्तिः । ह्लादनाय स्वग्रन्थादरणेव स्वप्रीणनाय सज्जनान्न याचते । कुतो न याचत इत्याशङ्कां दृष्टान्तप्रदर्शनेन परिहरितिशशभृत्किमर्थित इति । ह्लादनायेत्यनुषङ्गः । किमिर्थितः जनैरर्थितः । किं नैवेत्यर्थः । चन्द्र इव सज्जनः स्वयमेव परानाह्लादयतीति चन्द्रस्येव पराह्लादनं सज्जनस्य स्वभाव इत्यर्थः । नैवेति । मुहुर्मुहुः धिक्कृतोऽपि खलैः पुनः पुनरधिक्षिप्तोऽपि । असौ कविरित्यनुषङ्गः । खलान्नैव निन्दति कुत इत्यत आहन हीत्यादि । अनलः अग्निः, शीतलः अनुष्णः । न हि यथा अग्निः सर्वदा उष्णस्वभाव एव तथा खलजनः परदूषणस्वभाव एव, स्वभावश्चापरिहार्य इत्यर्थः । अत इत्युभयत्र पूर्वेण सम्बन्धः । अथ परममाहेश्वरो ग्रन्थकारो ग्रन्थान्ते परमशिवानुसन्धानात्मकं परममङ्गलमनुतिष्ठन्नाहवस्तुत इत्यादि । जनस्य हृदि हृदये वस्तुतः शिवमये सति शिवमये हृदीति वा योजना, सर्वतः सर्वं वस्तु स्फुटं शिवमयं विराजते भाति । नाशिवमित्यादि । क्वचन क्वचिदपि कस्यचिद्वचः अशिवं न भवति, किन्तु सर्वत्र शिवमेव भवतीत्यर्थः । अनेन वस्तुतः शिवमये स्वस्य हृदये सर्वं शिवमयं भाति । अतस्सर्वत्रापि विषये स्ववचः शिवमेवेत्यर्थः प्रदर्शितः । तेनेति । स्ववचनेनेत्यर्थः । व इति श्रोतॄनुद्दिश्योक्तिः । शिवमयी मङ्गलमयी दशा भवेत्भवत्विति सर्वं शिवम् । देवी विजयतां वाणी समं सत्कविसूरिभिः । हृद्यस्सचेतसां काव्यालोकश्च सहलोचनः ॥ ॥ सर्वविद्याब्धिराजर्षिमहागोश्रीभृदादितः । विरुदं यस्सहृदयतिलकाद्यमवाप्तवान् ॥ ॥ सम्मानितश्चाङ्गलश्रीचक्रवर्तिसुते नयः । शाकुन्तलादि यो व्याख्याद्गोश्रीशादिगुरुश्च यः ॥ ॥ शास्त्रसाहित्यविन्मौलिः परीक्षिदुपनामकः । सुहृत्सतीर्थ्यो गोश्रीशो यस्यालम्बोऽस्ति सर्वतः ॥ ॥ रामाख्यष्षारकस्सोऽहमकार्षं टिप्पणीमिमाम् । इष्वग्निखेषु कल्यब्दे बालानामस्त्वियं प्रिया ॥ ॥ प्रौढं क्व

लोचनं

क्वाहं मन्दधीर्बहुधात्र तत् । टिप्पण्यां स्खलितानि स्युस्तदियं शोध्यतां बुधैः ॥ इति श्रीसहृदयतिलक पण्डितराज बिरुदद्वयशालिना रामनाम्ना शारकेण विरचितायां काव्यालोकलोचनटिप्पण्यां

बालप्रिया

ख्यायां चतुर्थ उद्योतः समाप्तोऽयं ग्रन्थः ॥