तृतीय उद्द्योतः तृतीय उद्द्योतः एवं व्यङ्ग्यमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेनैतत्प्रकाश्यते
लोचनं
तृतीय उद्द्योतः स्मरामि स्मरसंहारलीलापाटवशालिनः । प्रसह्य शम्भोर्देहार्धे हरन्तीं परमेश्वरीम् ॥ उद्योतान्तरसङ्गतिं कर्तुमाह वृत्तिकारःेवमित्यादि । तत्र वाच्यमुखेन तावदविवक्षितवाच्यादयो भेदाः, वाच्यश्च यद्यपि व्यञ्जक एव । यथोक्तम् “यत्रार्थः शब्दो वा” इति । ततश्च व्यञ्जकमुखेनापि भेद उक्तः, तथापि स वाच्योऽर्थो व्यङ्ग्यमुखेनैव भिद्यते । तथा ह्यविवक्षितो वाच्यो व्यङ्ग्येन न्यग्भावितः, विवक्षितान्यपरो वाच्य इति व्यङ्ग्यार्थप्रवण एवोच्यते इत्येवं मूलभेदयोरेव यथास्वमवान्तरभेदसहितयोर्व्यञ्जकरूपो
बालप्रिया
अथ तृतीयोद्योतटिप्पणी प्रारभ्यते अथाहं प्रौढमुद्योतं तृतीयञ्च यथामति । किमपि व्याकरिष्यामि प्रसीदन्त्वत्र मे बुधाः ॥ स्मरामीति । स्मरस्य कामस्य संहार एव लीला, तत्र यत्पाटवं सामर्थ्यं तच्छालिनः । शम्भोः देहार्धं प्रसह्य हरन्तीमित्यनेन परमेश्वर्याः तथाविधात्परमेश्वरादप्यतिशयितं पाटवं द्योत्यते । उद्योतेति । अन्य उद्योतः उद्द्योतान्तरं तृतीयोद्योतः, तस्य सङ्गात द्वितीयोयोतेन सह प्रसङ्गरूपां सङ्गतिमित्यर्थः । कर्तुं सम्पादयितुम् । व्यङ्ग्यमुखेन प्रदर्शित इत्युक्त्या व्यञ्जकमुखेनाप्रदर्शनं लभ्यते, तदनुपपन्नमित्याशङ्कामुद्भाव्य तदुक्तेरभिप्रायं दर्शयन्नवतारयतितत्रेत्यादि । यद्यपीत्यादौ योज्यम् । तत्र ध्वनौ । वाच्यमुखेनेत्यादि । अविवक्षितत्वादिविशिष्टवाच्यं भेदकमवलम्ब्यैव ध्वनेरविवक्षितवाच्यत्वादयः प्रभेदास्सम्भवन्तीत्यर्थः । ततः किमत आहवाच्यश्चेत्यादि । यथोक्तमिति । वाच्यस्य व्यञ्जकत्वमस्तीत्युक्तमित्यर्थः । एतावतापि किमायातमित्यत आहततश्चेत्यादि । स इति । व्यञ्जक इत्यर्थः । व्यङ्ग्येन न्यग्भावित इति । वाच्यस्याविवक्षितत्वोक्त्या व्यङ्ग्येनाप्रधानीकृतत्वं सिद्ध्यतीति भावः । व्यङ्ग्यार्थप्रवणः व्यङ्ग्यपरतन्त्रः । उपसंहरतिइतीत्यादि । मूलभेदयोरिति । अविवक्षितवाच्यविवक्षितान्यपरवाच्ययोरित्यर्थः । व्यङ्ग्यमुखत्यादि । व्यङ्ग्यपारतन्त्र्येणैवेत्यर्थः । अत एव उक्ताभिप्रायादेव । किञ्चेति । व्यङ्ग्यमुखेन
अविवक्षितवाच्यस्य पदवाक्यप्रकाशता । तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ॥ कारिका३.१ ॥
अविवक्षितवाच्यस्य पदवाक्यप्रकाशता । तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ॥ १ ॥
अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता यथा महर्षेर्व्यासस्य “सप्तैताः समिधः श्रियः”, यथा वा कालिदासस्य “कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्”, यथा वा “किमिव हि मधुराणां मण्डनं नाकृतीनाम्”, एतेषूदाहरणेषु “समिध” इति सन्नद्ध" इति “मधुराणा “मिति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि ।
लोचनं
योऽर्थः स व्यङ्ग्यमुखप्रेक्षिताशरणतयैव भेदमासादयति । अत एवाहव्यङ्ग्यमुखेनेति । किं च यद्यप्यर्थो व्यञ्जकस्तथापि व्यङ्ग्यतायोग्योऽप्यसौ भवतीति, शब्दस्तु न कदाचिद्य्वङ्ग्यः अपि तु व्यञ्जक एवेति । तदाहव्यञ्जकमुखेनेति । न च वाच्यस्याविवक्षितादिरूपेण यो भेदस्तत्र सर्वथैव न न प्रकाशितः किन्तु प्रकाशितोऽप्यधुना पुनः शुद्धव्यञ्जकमुखेन । तथाहि व्यङ्ग्यमुखप्रेक्षितया विना पदं वाक्यं वर्णाः पदभागः सङ्घटना महावाक्यमिति स्वरूपत एव व्.यञ्जकानां भेदः, न चैषामर्थवत्कदाचिदपि व्यङ्ग्यता सम्भवतीति व्यञ्जकैकनियतं स्वरूपं यत्तन्मुखेन भेदः प्रकाश्यत इति तात्पर्यम् । यस्तु व्याचष्टेऽव्यङ्ग्यानां वस्त्वलङ्काररसानां मुखेन” इति, स एवं प्रष्टव्यःेतत्तावत्र्रिभेदत्वं न कारिकाकारेण कृतम् । वृत्तिकारेण तु दर्शितम् । न चेदानीं वृत्तिकारोभेदप्रकटनं करोति
बालप्रिया
प्रदर्शित इत्युक्तेरभिप्रायान्तरञ्चास्तीत्यर्थः । तदाहयद्यपीत्यादि । अर्थः वाच्यः । व्यङ्ग्येत्यादि । कदाचिद्व्यङ्ग्योऽपि भवतीत्यर्थः । तदाहेति । तदभिप्रायादाहेत्यर्थः । नन्वेवं पुनर्व्यञ्जकमुखेनेत्यत्र भवतीत्यर्थः तदाहेति । तदभिप्रायादाहेत्यर्थः । नन्वेवं पुनर्व्यञ्जकमुखेनेत्यत्र पुनशश्ब्दोऽनुपपन्न इत्यतस्तात्पर्यं विवृणोतिन चेत्यादि । तत्रेति । अविवक्षितत्वादिबेदविशिष्टवाच्य इत्यर्थः । व्यञ्जकत्वन्न च नास्तीत्यन्वयः । “व्यञ्जकमुखत्वम्” इति पाठे वाच्यस्येत्यादेः वाच्यसम्बन्धियदविवक्षितादिरूपं अविवक्षितत्वादिकन्तेन हेतुना यो भेदः ध्वनेरवान्तरभेदः । तत्र ध्वनिभेद इत्यर्थः । न च नास्तीत्युक्तमेवार्थं विवृणोतिव्यञ्जकमुखेनापीत्यादि । तथाच व्यञ्जकमुखेनेत्यस्य फलितमर्थमाहशुद्धेत्यादि । केवलव्यञ्जकमुखेनेत्यर्थः । एषामिति । पदादीनामित्यर्थः । सम्भवतीति । सम्भाव्यत इतिच पाठः । इतीति हेतौ ।
लोचनं
ततश्चेदं कृतमिदं क्रियत इति कर्तृभेदे का सङ्गतिः? न चैतावता सकलप्राक्तनग्रन्थसङ्गतिः कृता भवति । अविवक्षितवाच्यादीनामपि प्रकाराणां दर्शितत्वादित्यलं निजपूज्यजनसगोत्रैः साकं विवादेन । चकारः कारिकायां यथासङ्ख्यशङ्कानिवृत्त्यर्थः । तेनाविवक्षितवाच्यो द्विप्रभेदोऽपि प्रत्येकं पदवाक्यप्रकाश इति द्विधा । तदन्यस्य विवक्षिताभिधेयस्य सम्बन्धी यो भेदः क्रमद्योत्यो नाम स्वभेदसहितः सोऽपि प्रत्येकं द्विधैव । अनुरणनेन रूपं रूपणसादृश्यं यस्य तादृग्व्यङ्ग्यं यत्तस्येत्यर्थः । महर्षेरित्यनेन तदनुसन्धत्ते यत्प्रागुक्तम्, अथ च रामायणमहाभारत प्रभृतिनि लक्ष्ये दृश्यत इति । धृतिः क्षमा दया शौचं कारुण्यं वागनिष्ठुरा । मित्राणां चानभिद्रोहः सप्तताः समिधः श्रियः ॥ समिच्छब्दार्थस्यात्र सर्वथा तिरस्कारः, असम्भवात् । समिच्छब्देन च व्यङ्ग्योऽर्थोऽनन्यापेक्षलक्ष्म्युद्दीपनक्षमत्वं सप्तानां वक्रभिप्रेतं ध्वनितम् । यद्यप “निःश्वासान्ध इवादर्शः” इत्याद्युदाहरणादप्ययमर्थो लक्ष्यते, तथापि प्रसङ्गाद्बहुलक्ष्यव्यापित्वन्दर्शयितुमुदाहरणान्तराण्युक्तनि । अत्र च वाच्यस्यात्यन्ततिरस्कारः पूर्वोक्तमनुसृत्य
बालप्रिया
स्वरूपमिति । पददिस्वरूपमित्यर्थः । इति कर्तृभेदे का सङ्गतिरिति । इत्यस्य कर्तृभेदे सति सङ्गतत्वं न सम्भवतीत्यर्थः । “व्यङ्ग्यमुखेन प्रदर्शिते पुनर्व्यञ्जकमुखेनैतत्प्रकाश्यत” इत्यनेन प्रदर्शनप्रकाशनयोरेककर्तृकत्वं स्वरसतः प्रतीयते, तदसङ्गतं भवेदिति यावत् । “का सङ्गतिः एवं प्रष्टव्य” इति सम्बन्धः । दोषान्तरञ्जाहन चेत्यादि । चकार इत्यादि । चकारस्याभावे अविवक्षितवाच्यस्य प्रदप्रकाशता, तदन्यस्य वाक्यप्रकाशतेति यथासङ्ख्येनार्थभ्रमस्स्यादिति भावः । तेनेति । समुच्चयार्थकचकारेणेत्यर्थः । “तदन्यस्ये"ति व्यधिकरणविशेषणमित्याशयेन व्याचष्टेविवक्षितेत्यादि । “अनुरणने"त्यादेर्विवरणंक्रमेत्यादि । “रूपम्” इत्यस्य विवरणम्रूपणोति । फलितमाहसादृश्यमिति । इति । यत्प्रागुक्तमिति सम्बन्धः । समिच्छब्दार्थस्य इध्मत्वविशिष्टस्य । समिच्छब्देनेति । उद्दीपकत्वं लक्ष्यतेति शेषः । समिच्छब्दोऽत्र वाच्यलक्ष्योभयानुगतोद्दीपकत्वप्रकारेण लक्षयति । एवमुद्यतत्वं लक्षयतेत्यादेरुद्यतत्वाद्युभयानुगतधर्मप्रकारेण लक्षयतेत्यर्थो बोध्यः । “शब्देन चे"त्यनन्तरं तस्यैवार्थान्तरसङ्क्रमितवाच्ये यथा “रामेण प्रियजीवितेन तु कृतं
लोचनं
योजनीयः किं पुनरुक्तेन । सन्नद्धपदेन चात्रासम्भवत्स्वार्थोनोद्यतत्वं लक्षयता वक्रभिप्रेता निष्करुणकत्वाप्रतिकार्यत्वाप्रेक्षापूर्वकारित्वादयो ध्वन्यन्ते । तथैव मधुरशब्देन सर्वविषयरञ्जकत्वतर्पकत्वादिकं लक्षयता सातिशयामिलाषविषयत्वं नात्राश्चर्यमिति वक्रभिप्रेतं ध्वन्यते । तस्यैवेति । अविवक्षितवाच्यस्य यो द्वितीयो भेदस्तस्येत्यर्थः । “प्रत्याख्यानरुषः कृतं समुचितं क्रूरेण ते रक्षसा सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः । व्यर्थ सम्प्रति बिभ्रता धनुरिदं त्वद्य्वापदः साक्षिणा” इति । रक्षःस्वभावादेव यः क्रूरोऽनतिलङ्घ्यशासनत्वदुर्मदतया च प्रसह्य निराक्रियमाणः कोधान्धः तस्यैतत्तावत्स्वचित्तवृत्तिसमुचितमनुष्ठानं यन्मूर्धकर्तनं नाम, मान्योऽपि
बालप्रिया
व्यङ्ग्योऽर्थ इति पाठो दृश्यते तत्सत्वे ध्वनितमित्यस्य बोधितमित्यर्थः । असम्भवत्स्वार्थेनेति । स्वार्थः वर्मितः । “सन्नद्धो वर्मित” इत्यमरः । ध्वन्यन्त इति । त्वत्पदार्थस्य मेघस्येति शेषः । मधुरशब्देनेति । माधुर्यरसविशिष्टवाचिनेति भावः । सर्वेति । सर्वविषयरञ्जकत्वतर्पकत्वादीनाम्मध्ये एकन्धर्ममित्यर्थः । अत्रेति । आकृतिष्वित्यर्थः । प्रत्याख्यानेति श्रीरामचन्द्रस्य देवीं सीतामुद्दिश्येदं वचनम् । विवृणोतिरक्ष इत्यादि । यः रावणः । प्रत्याख्यानरुडित्यस्य विवरणमनतीत्यादि क्रोधान्ध इत्यन्तम् । अनतिलङ्ध्यं शासनं यस्य तत्वेन या दुर्मदता अहमनतिलङ्ध्यशासन इति दुरभिमानः तयेति क्रोधान्धत्वे हेतुः । निराक्रियमाणः त्वया निराकृतः । “एतदनुष्ठानं स्वचित्तवृत्ति समुचितम्” इति सम्बन्धः । एतदिस्येतद्विवृणोतियन्मूर्धकर्तनं नामेति प्रेम्णः प्रिये नोचितम्” । अत्र रामेणेत्येतत्पदं साहसैकरसत्वादिव्यङ्ग्याभिसङ्क्रमितवाच्यं व्यञ्जकम् ।
लोचनं
कश्चिन्ममाज्ञां लङ्घयिष्यतीति । तैति यथा तादृगपि तया न गणितस्तस्यास्तवेत्यर्थः । तदपि तथा अविकारेणोत्सवापत्तिबुद्ध्या नेत्रविस्फारतामुखप्रसादादिलक्ष्यमाणया सोढम् । यथा येन प्रकारेण कुलजन इति यः कश्चित्पामरप्रायोऽपि कुलवधूशब्दवाच्यः । उच्चैः शिरो धत्तै एवंविधाः किल वयं कुलवध्वो भवाम इति । अथ च शिलःकर्तनावसरे त्वया शीघ्रं कृत्यतामिति तथा सोढं तथोच्चैः शिरो धृतं यथान्योऽपि कुलस्त्रीजन उच्चैः शिरो धत्ते नेत्यप्रवृत्ततया । एवं रावणस्य तव च समुचितकारित्वं निर्व्यूढम् । मम पुनः सर्वमेवानुचितं पर्यवसितम् । तथाहिराज्यनिर्वासनादिनिरवकाशीकृतधनुर्व्यापारस्यापि कलत्रमात्ररक्षणप्रयोजनमपि यच्चापमभूत्तत्संप्रति त्वय्यरक्षितव्यापन्नायामेव निष्प्रयोजनम्, तथापि च तद्धारयामि । तन्नूनं निजजीवितरक्षैवास्य प्रयोजनत्वेन संभाव्यते । न चैतद्युक्तम् । रामाणेति । असमसाहसरसत्वसत्यसंधत्वोचितकारित्वादिव्यङ्ग्यधर्मान्तरपरिणतेनेत्यर्थः । “कापुरुषादिधर्मपरिग्रहस्त्वादिशब्दात्” इति यद्व्याख्यातम्, तदसत् - कापुरुषस्य ह्येतदेव प्रत्युतोचितं स्यात् । प्रिय इति शब्दमामेवैतदिदानीं संवृत्तम् । प्रियशब्दस्य प्रवृत्तिनिमित्तं यत्प्रेमनाम तदप्यनौचित्यकलङ्कितमिति
बालप्रिया
रावणेन हि श्रीरामस्य पुरतो मायासीताशिरश्छेदः कृतः । इतीति । इति बुद्ध्येत्यर्थः । ते इत्यस्य प्रत्याख्यानेत्यनेन, कृतमित्यनेन च सम्बन्धः । भावार्थमाहयथेत्यादि । तादृगपि निरतिशयैश्वर्यादिविशिष्टोऽपि सः गणितः आदृतः । तदपि शिरःकर्तनमपि । बुद्ध्येत्यस्य विशेषणंनेत्रेत्यादि । विस्फारता विकासः । सोढमनुभूतम् । इत्युच्छैदिशरो धत्त इति सम्बन्धः । इत्यभिमानेन शिर उन्नतं करोतीत्यर्थः । अन्यथापि व्याचष्टेअथ चेत्यादि । तच्चेत्यस्य विवरणंशिरःकर्तनावसर इति । तथा सोढमित्यस्य व्याख्यानंतथोञ्चैरित्यादि । उच्चैशिशरो धत्त इति प्रार्थनाप्रत्याख्यानेन क्रोधान्धे कस्मिंश्चित्कामिनि शिरःकर्तनायोद्युक्ते सति शिर उन्नतं करोतीत्यर्थः । नित्यप्रवृत्ततयेति लडर्थविवरणम् । उत्तरार्धं व्याख्यास्यन्नाहएवमित्यादि । पुनरिति तुशब्दविवरणम् । “व्यर्थ” मित्यादेर्व्याख्यानम्राज्येत्यादि । “प्रियजीवितेने"त्यस्य तन्नूनमित्यादि । च । अस्येति । धनुर्धारणस्येत्यर्थः । एतदिति । निजजीवितरक्षाप्रयोजनकत्वेन धनुर्धारणमित्यर्थः । “रामेणे"त्यादिवृत्तिग्रन्थं व्याचष्टेरामेणेत्यादि । साहसैकरसत्वमित्यस्य विवरणमसमेत्यादि । आदिपदार्थकथनंसत्येत्यादि । अत्र रामपदलक्ष्यतावच्छेदकं कातरत्वमिति प्रदीपकारः, कैतवस्नेहवत्वमिति चक्रवर्ती, पुरुषकारपराङ्मुखत्वमिति भट्टगोपालः । यथा वा एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिम्बम् । परमत्थविआरे उण चन्दो चन्दो विअ वराओ ॥ अत्र द्वितीयश्चन्द्रशब्दोऽर्थान्तरसङ्क्रमितवाच्यः । अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथा या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥
लोचनं
शोकालम्बनोद्दीपनविभावयोगात्करुणरसो रामस्य स्फुटीकृत इति । एमेअ इति । एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः (इति छाया) । एवमेवेति स्वयमविवेकान्धतया । जन इति लोकप्रसिद्धगतानुगतिकतामात्रशरणः । तस्या इत्यसाधारणगुणगणमहार्धवपुषः । कपोलोपमायामिति निर्व्याजलावण्यसर्वस्वभूतमुखमध्यवर्तिप्रधानभूतकपोलतलस्यापमायां प्रत्युत तदधिकवस्तुकर्तव्यं ततो दूरनिकृष्टं शशिबिम्बं कलङ्कव्याजजिह्मीकृतम् । एवं यद्यपि गङ्डरिकाप्रवाहपतितो लोकः, तथापि यदि परीक्षकाः परीक्षन्ते तद्वराकः कृपैकभाजनं यश्चन्द्र इति प्रसिद्धः स चन्द्र एव क्षयित्वविलासशून्यत्वमलिनत्वधर्मान्तरसंक्रान्तो योऽर्थः । अत्र च यथा व्यङ्ग्यधर्मान्तरसङ्क्रान्तिस्तता पूर्वोक्तमनुसन्धेयम् । एवमुत्तरत्रापि । एवं प्रथमभेदस्य द्वावपि प्रकारौ पदप्रकाशकत्वेनोदाहृत्य वाक्यप्रकाशकत्वेनोदाहरतिया निशेति । विवक्षित इति । तेन ह्युक्तेन न कश्चिदुपदेश्यं प्रत्युपदेशः सिद्ध्यति ।
बालप्रिया
शोकेत्यादि । सम्भावितप्रियामरणमालम्बनविभावः । प्रियासम्बन्ध्यसाधारमकर्मादिस्मरणमुद्दीपनविभावः । एवमेवेत्यादेर्भावार्थं व्याचष्टेस्वयमित्यादि । तदधिकमिति । कपोलादुत्कृष्टमित्यर्थः । उपमायां कर्तव्यमित्यन्वयः । उपमानत्वेन वक्तव्यमित्यर्थः । तत इति । कपोलादित्यर्थः । शशिपदविवरणम्कलङ्केत्यादि । कलङ्कव्याजो यः शशः तेन जिह्मीकृतं मलिनीकृतम् । विअ इत्यवधारणार्थकमित्याशयेनाहचन्द्र एवेति । द्वितीयचन्द्रपदस्य चन्द्रपदवाच्यत्वेन गुणशून्यत्वेन वा रूपेण लक्षणात्र बोध्या । व्यङ्ग्यधर्मानाहक्षयित्वेत्यादि । सङ्क्रान्तो योऽर्थ इति । अर्थः चन्द्रपदार्थः । अत्रेति । उक्तयोरुदाहरणयोरित्यर्थः । पूर्वोक्तमिति । द्वितीयोद्योतस्यादावुक्तमित्यर्थः । तेन ह्युक्तेनेति । निशादिपदवाच्येन रात्र्याद्यर्थेनेत्यर्थः । अनेन हि वाक्येन निशार्थो न च जागरणार्थः कश्चिद्विवक्षितः । किं तर्हि? तत्त्वज्ञानावहितत्वमतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वम् । तस्यैवार्थान्तरसङ्क्रमितवाच्यस्य वाक्यप्रकाशता यथा विसमैओ काण वि काण वि वालेइ अभिअणिम्माओ । काण वि विसामिअमओ काण वि अविसामओ कालो ॥ (विषमयितः केषामपि केषामपि प्रयात्यमृतनिर्माणः । केषामपि विषामृतमयः केषामप्यविषामृतः कालः ॥ इति छाया )
लोचनं
निशायां जागरतव्यमन्यत्र रात्रिवदासितव्यमिति किमनेनोक्तेन । तस्माद्बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तरतालक्षणेन निमित्तेन तत्वदृष्टाववधानं मिथ्यादृष्टो च पराङ्मुखत्वं ध्वनति । सर्वशब्दार्थस्य चापेक्षिकतयाप्युपपद्यमानतेति न सर्वशब्दार्तान्यथानुपपत्यायामर्थ आक्षिप्तो मन्तव्यः । सर्वोषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां या निशा व्यामोहजननीतत्त्वदृष्टिः तस्यां संयमी जागर्ति कथं प्राप्येतेति ।
बालप्रिया
न कश्चिदिति । कश्चिदुपदेशो न सिद्ध्यतीत्यन्वयः । भगवद्गीतागतस्यास्योपदेशपरत्वमावश्यकमिति भावः । कुतो न सिद्ध्यतीत्यत्राहनिशायामित्यादि । अन्यत्र रात्रिवदिति । अहनि रात्राविवेत्यर्थः । बाधितेति । अनुपयोगबाधितेत्यर्थः । वाक्यमिति । निशा जागर्तीत्यादिपदसमुदाय इत्यर्थः । तत्तत्पदलक्ष्यार्थाः प्रदर्शयिष्यन्ते । लोकोत्तरेत्यादि । लोकोत्तरत्वेन हेतुनेत्यर्थः । नन्वत्र निद्राकालरूपनिशापदार्थे सर्वभूतसम्बन्धान्वये सर्वपदार्थघटकतया संयमिनोऽपि तदन्वयः प्राप्तः, स च जागर्तीत्येतदर्थान्वयिनोऽनुपपन्नस्तस्मादनेनोक्तव्यङ्ग्यस्याविष्कृतत्वान्न ध्वनित्वमिति शङ्कां परिहरतिसर्वशब्दार्थस्येत्यादि । आपेक्षिकतयेति । सर्वशब्दोऽत्र संयमिव्यतिरिक्ताशेषत्वावच्छिन्नवाचक इत्यतः किञ्जिदपेक्षयेत्यर्थः । सर्वशब्दार्थेति । सर्वशब्दार्थान्वयेत्यर्थः । अयमर्थः पूर्वोक्तव्यङ्ग्यार्थः । आक्षिप्तः आविष्कृतः । श्लोकं व्यचष्टेसर्वषामित्यादि । चतुर्दशानामपि भूतानामिति । ब्रह्माप्राजापत्यैन्द्रपित्र्यगान्धर्वयाक्षराक्षसपैशाचभेदादष्टविधन्दैवं मानुषमेकविधं पशुपक्षिसर्पकीटस्थावरभेदात्पञ्चविधं तैर्यग्योनं भूतमिति चतुर्दशविधानामपि देहिनामित्यर्थः । यथोक्तं साङ्ख्यकारिकायां “अष्टविकल्पो दैव” इत्यादि । व्यामोहजननीति निशापदलक्ष्यार्थकथनम् । सा केत्यत्राहतेत्वेति । “जागर्ति” पदलक्ष्यार्थमाहकथमित्यादि ।
लोचनं
न तु विषयवर्जनमात्रादेव संयमीति यावत् । यदि वा सर्वभूतनिशायां मोहिन्यां जागर्ति कथमियं हेयेति । यस्यां तु मिथ्यादृष्टौ सर्वाणि भूतानि जाग्रति अतिशयेन सुप्रबुद्धरूपाणि सा तस्य रात्रिरप्रबोधविषयः । तस्या हि चेष्टायां नासौ प्रबुद्धः । एवमेव लोकोत्तराचारव्यवस्थितः पश्यति मन्यते च । तस्यैवान्तर्बहष्करणवृत्तिश्चरितार्था । अन्यस्तु न पश्यत न च मन्यत इति । तत्वदृष्टिपरेण भाव्यमिति तात्पर्यम् । एवं च पश्यत इत्यपि मुनेरित्यपि च न स्वार्थमात्रविभ्रान्तम् । अपि तु व्यङ्ग्य एव विश्राम्यति । यत्तच्छब्दयोश्च न स्वतन्त्रार्थतेति सर्व एवायमाख्यातसहायः पदसमूहो व्यङ्ग्यपरः । तदाहअनेन हि वाक्येनेति । प्रतिपाद्यत इति ध्वन्यत इत्यर्थः । विषमयितो विषमयतां प्राप्तः । केषाञ्चिद्दुष्कृतिनामतिविवेकिनां वा । केषाञ्चित्सुकृतनामत्यन्तमविवेकिनां वा अतिक्रामत्यमृतनिर्माणः । केषाञ्चिन्मिश्रकर्मणां विवेकाविवेकवतां वा, विषाभृतमयः । केषामपि मूढप्रायाणां धाराप्राप्तयोगभूमिकारूढानां वा अविषाभृतमयः कालो"तिक्रामतीति सम्बन्धः । विषामृतपदे च लावण्यादिशब्दवन्निरूढलक्षणारूपतया सुखदुःखसाधनयोर्वर्तते, यथाविषं निम्बममृतं कपित्थमिति । न चात्र सुशदुःखसाधने तन्मात्रविश्रान्ते, अपि तु स्वकर्तव्यसुखदुःखपर्यवसिते । न च ते साधने सर्वथा
बालप्रिया
इयं कथं प्राप्येतेति मत्या तत्प्राप्त्युपायमनुतिष्ठतीत्यर्थः । भावमाहन त्वित्यादि । संयमी संयमिपदवाच्यः । तत्वदृष्टेर्मोहजनकत्वमप्रसिद्धमित्यतोऽन्यथा विवृणोतियदि वेत्यादि । मोहिन्यामिति । अविद्यायामित्यर्थः । मिथ्यादृष्टाविति । अविद्यायां तत्कार्ये द्वैतप्रपञ्चे वेत्यर्थः । तस्येति । संयमिन इत्यर्थः । अप्रबोधविषय इत्यस्यैव विवरणम्तस्या हीत्यादि । असाविति । संयमीत्यर्थः । लोकोत्तराचारव्यवस्थिति इति संयमिपदस्यैव लक्ष्यार्थकथनम् । “पश्यतो मुने” रित्यस्य विवणम्पश्यति मन्यते चेति । अत्र पश्यतीत्येतच्चरितार्थबहिष्करणवृत्तित्वेन मन्यत इत्येतच्चरितार्थान्तःकरणवृत्तित्वेन च रूपेण लक्षकमित्याहतस्यैवेत्यादि । अनेन गम्यमर्थमाहअन्य इत्यादि । फलितं व्यङ्ग्यमाहतत्वेति । व्यङ्ग्य एवेति । पूर्वोक्तमुख्यव्यङ्ग्य एवेत्यर्थः । तदाहेति । उक्ताभिप्रायादाहेत्यर्थः । “केषामपी"त्यादेर्विवरणम्केषाञ्चिदित्यादि । “प्रयाती"त्यस्य अतिक्रमतीति । “अमिअणिम्माओ “इति गाथापाठाभिप्रायेण छायामाहअमृतनिर्माण इति । अमृतस्येव निर्माणं यस्य स इत्यर्थः । विषामृतपदयोः दुःखसुखसङ्क्रमितवाच्यत्वं वृत्तावुक्तं व्यवस्थापयिष्यन्नाहविषामृतपदे इत्यादि । सुखदुःखेति व्युत्क्रमेण निर्देशः दुःखसुखसाधनयोरित्यर्थः । तथा पाठो वा । एवमुपर्यपि बोध्यम् । अत्र दृष्टान्तमाहयथेत्यादि । इतीत्यस्य इत्यादावित्यर्थः । प्रकृतोदाहरणे विशेषमाहने चेत्यादि । अत्रेति । प्रकृतोदाहरण इत्यर्थः । तन्मात्रेति । सुखदुःखसाधनमात्रेत्यर्थः । तन्मात्रविश्रान्तेन अत्र हि वाक्ये विषामृतशब्दाभ्यां दुःखसुखरूपसङ्क्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसङ्क्रमितवाच्यस्या व्यञ्जकत्वम् । विवक्षिताभिधेयस्यानुरणनरूपव्यङ्ग्यस्य शब्दशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा
लोचनं
न विवक्षिते । निस्साधनयोस्तयोरभावात् । तदाहसङ्क्रमितवाच्याभ्यामिति । केषाञ्चिदिति चास्य विशेषे सङ्क्रान्ति । अतक्रामतीत्यस्य च क्रियामात्रसङ्क्रान्तिः । काल इत्यस्य च सर्वव्यवहारसङ्क्रान्तिः । उपलक्षणार्थं तु विषामृतग्रहणमात्रसङ्क्रमणं वृत्तिकृता व्याख्यातम् । तदाहवाक्यैति । एवं कारिकाप्रथमार्धलक्षितांश्चतुरः प्रकारानुदाहृत्य द्वितीयकारिकार्धस्वीकृतान् षडन्यान् प्रकारान् क्रमेणोदाहरतिविवक्षिताभिधेयस्येत्यादिना । प्रातुमिति पूरयितुम् । धनैरिति बहुवचनं यो येनार्थी तस्य तेनेति सूचनार्थम् । अत एवार्थग्रहणम् । जनस्येति बाहुल्येन हि लोको धनार्थी, न तु गुणैरुपकारार्थी । दैवेनेति । अशक्यपर्यनुयोगेनेत्यर्थः ।
बालप्रिया
चेति सम्बन्धः । विवक्षिते इत्यपकृष्यते । स्वकर्तव्येति । स्वसाध्येत्यर्थः । स्वपदं साधनपरम् । न च न विवक्षिते विवक्षिते एव । कुत इत्यतत्राहनिस्साधनेत्यादि । तदाहेति । उक्ताभिप्रायेण सुखदुःखरूपसङ्क्रमितवाच्यत्वमाहेत्यर्थः । “विषंनिम्बममृतं कपित्थम्” इत्यादौ निरूढलक्षणया दुःखसाधनं निम्बं सुखसाधनं कपित्थमित्येवार्थे विवक्षितः, प्रकृते तु कालः केषाञ्चिद्दुःखमयः केषाञ्चित्सुखमयश्चातिक्रामतीत्यर्थस्य विवक्षिततया विषपदस्य किञ्चित्साधनकदुःखे अमृतपदस्य किञ्चित्साधनकसुखे च लक्षणा दुःखसुखयोर्विशेषो व्यङ्ग्यः, साधनत्वेन विषामृतयोर्भानादर्थान्तरसङ्क्रमितवाच्यता चेति भावः । केषाञ्चिदिति चास्य विशेषे सङ्क्रान्तिरति । अज्ञातविशेषधर्मावच्छिन्नवाचकस्य केषामपीति शब्दस्य च दुष्कृतिनामित्याद्युक्तार्थविशेषे सङ्क्रान्तिरित्यर्थः । दुष्कृत्यादीनामज्ञातत्वादिकं व्यङ्ग्यम् । क्रियामात्रे भवत्यर्थे । सर्वव्यवहारेति । व्यवहारगोचरवस्तुजातेत्यर्थः । द्वितीयेति । द्वितीयं यत्कारिकार्धं तत्स्वीकृतांस्तदुक्तानित्यर्थः । “प्रातुम्” इति । “अस्मी"त्यव्ययमहमर्थे । धनैरर्थिजनस्य वाञ्छां प्रातुं दैवेन न सृष्टो यदि नामेत्यभ्युपगमे । तर्हिति शेषः । जडोऽहं पथि प्रसन्नाम्बुधरस्तटाकः अथवा कूपः किं कस्मात् । न कृतः दैवेन न सृष्टः । तटाकस्य कूपादुत्कृष्टत्वादादावुक्तिः । लोचनेयो येनार्थाति । यो जनो गोसुवर्णादीनाम्मध्ये येन धनेनार्थीत्यर्थः । अत एवेति । उक्ताभिप्रायादेवेत्यर्थः । भावार्थकथनमशक्येत्यादि । दैवस्यादृश्यत्वादिति भावः । “अस्मि न सृष्ट” प्रातुं धनैरर्थिजनस्य वाञ्छां दैवेन सृष्टो यदि नाम नास्मि । पथि प्रसन्नाम्बुधरस्तडागः कूपोऽथवा किं न जडः कृतोऽहम् ॥ १ ॥
अत्र हि जड इति पदं निर्विण्णेन वक्रात्मसमानाधिकरणतया प्रयुक्तमनुरणनरूपतया कूपसमानाधिकरणतां स्वशक्त्या प्रतिपद्यते । तस्यैव वाक्यप्रकाशता यता हर्षचरिते सिंहनादवाक्येषु “वृत्तेऽस्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषः” । एतद्धि वाक्यमनुरणनरूपमर्थान्तरं शब्दशक्त्या स्फुटमेव प्रकाशयति । लोचनमस्मीति । अन्यो हि तावदवश्यं कश्चित्सृष्टो न त्वहमिति निर्वेदः । प्रसन्नं लोकोपयोगि अम्बु धारयतीति । कूपोऽथवेति । लोकैरप्यलक्ष्यमाण इत्यर्थः । आत्मसमामाधिकरणतयेति । जडः किङ्कर्तव्यतामूढ इत्यर्थः, अथ च कूपो जडोऽर्थिता कस्य कीदृशीत्यसम्भवद्विवेक इति । अत एव जडः शीतलो निर्वेदसन्तापरहितः । तथा जडः शीतजलयोगितया परोपकारसमर्थः । अनेन तृतीयार्थेनायं जडशब्दस्तटाकार्थेन पुनरुक्तार्थसम्बन्ध इत्यभिप्रायेणाहकूपसमानाधिकरणतामिति । स्वशक्त्येति शब्दशक्त्युद्भवत्वं योजयति । महाप्रलय इति । महस्य उत्सवस्य आसमन्तात्प्रलयो यत्र तादृशि शोककारणभूते वृत्ते धरण्या राज्यधुराया धारणायाश्वासनाय त्वं शेषः शिष्यमाणः । इतीयता पूर्णे वाक्यार्थे कल्पावसाने भूपीठभारोद्वहनक्षमेको
बालप्रिया
इत्यनेन गम्यमर्थमाहअन्यो हीत्यादि । लोकोपयोगीति । लोकैरित्यादि । च गम्यार्थविवरणम् । “आत्मसमानाधिकरणतये"ति प्रतीकधारणमादावस्मदर्थान्वयी जडपदार्थो विवरिष्यत इति ज्ञापनाय । तमर्थमाहकिङ्कर्तव्यतामूढ इति । कूपान्वयिनं व्यङ्ग्यमर्थमाहअथ चेत्यादि । अत्रार्थान्तरञ्चाहअत एवेत्यादि । अत एव विवेकाभावादेव । शीतल इति । “शिशिरो जड” इत्यमरः । अनेन गम्यमर्थमाहनिर्वेदेति । लडयोरभेदाज्जडपदं जलमयार्थकञ्चेत्याहतथेत्यादि । वृत्तौ “कूपसमानाधिकरणतां प्रतिपद्यत” इत्यनेन जडपदस्य कूपपदसामानाधिकरण्यमेवोक्तन्न तु तटाकपदसामानाधिकरण्यमपि, तत्कुत इति शङ्कां परिहरंस्तद्ग्रन्थमवतारयतिअनेनेत्यादि । अनेन तृतीयार्थेनेति । कूपान्वयित्वेनोक्तेष्वर्थेषु तृतीयेन शीतजलवाहितयेत्याद्युक्तेनार्थेन हेतुनेत्यर्थः । तटाकार्थेनेति । तेन सहेत्यर्थः । पुनरुक्तेति । “प्रसन्नाम्बुधर” इति विशेषणार्थस्यैवोक्त्या पुनरुक्तार्थसम्बन्धस्स्यादित्यर्थः । “स्वशक्त्ये"त्यत्रान्यथाप्रतिपत्तिनिरासायाहशब्देत्यादि । वाच्यार्थमाहमहस्येत्यादि । अस्मिन्नित्यस्य विवरणम्शोकेत्यादि । वृत्ते जाते । व्यङ्ग्यमर्थान्तरन्दर्शयतिकल्पेत्यादि । अस्यैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरस्यार्थशक्त्युद्भवे प्रभेदे प्रदप्रकाशता यथा हरिवजये चृअङ्कुरावअंसं छणमप्यसरमहध्घणमणहरसुरामोअम् । असमप्पिअं पि गहिअं कुसुमसरेण महुमासलच्छिमुहम् ॥ अत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसमर्पितमपीत्येतदवस्थाभिधायिपदमर्थशक्त्या कुसुमशरस्य बलात्कारं प्रकाशयति । अत्रैव प्रभेदे वाक्यप्रकाशता यथोदाहृतं प्राक् “सज्जेहि सुरहिमासो” इत्यादि । अत्र सज्जयति सुरभिमासो न तावदर्पयत्यनङ्गाय शरानित्ययं वाक्यार्थः कविप्रौढोक्तिमात्रनिष्पन्नशरीरो मन्मथोन्माथकदनावस्थां वसन्तसमयस्य सूचयति ।
लोचनं
नागराज एव दिग्दन्तिप्रभृतिष्वपि प्रलीनेष्वित्यर्थान्तरम् । चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम् । महार्घण उत्सवप्रसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्चमत्कारो यत्र तत् । अत्र महार्घशब्दस्य परनिपातः, प्राकृते नियमाभावात् । छण इत्युत्सवः । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्मीमुखम् ॥ मुखं प्रारम्भो वक्क्रं च । तच्च सुरामोदयुक्तं भवति । मध्वारम्भे कामश्चित्तमाक्षिपतीत्येतावानयमर्थः कविप्रौढोक्त्यार्थान्तरव्यञ्जकः सम्पादितः । अत्र कविनिबद्धवक्तृप्रौढोक्तिशरीरार्थशक्त्युद्भवे पदवाक्यप्रकाशतायामुदाहरणद्वयं न दत्तम् । “प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः” इति प्राच्यकारिकाया इयतैवोदाहृतत्वं भवेदित्यभिप्रायेण । तत्र पदप्रकाशता यथा सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥
बालप्रिया
“महाप्रलय” इत्यस्य कल्पावसान इति, “धरणीधारणाये"त्यस्य भूभारेत्यादि, शेष” इत्यस्य नागराज इति च विवरणम् । दिग्दन्तीत्यादि । भावार्थकथनम् । अत्रोपमा व्यङ्ग्या बोध्या । मधुमासलक्ष्म्या नायिकात्वप्रतीत्या तदनुगुणमर्थमाहवक्त्रञ्चेति । सुरा मद्यम् । अर्थान्तरव्यञ्जक इति । अर्थान्तरं वृत्तावुक्तम् । अत्रेत्यादि । इत्यभिप्रायेण न दत्तमिति सम्बन्धः । सत्यमिति । काव्यप्रकाशेऽप्युदाहृतोऽयं श्लोकः । स्वतःसम्भविशरीरार्थशक्त्युद्भवे प्रभेदे पदप्रकाशता यथा वाणिअअ हत्तिदन्ता कुत्तो अह्याण बाधकित्ती अ । जाव लुलिआलपअमुही धरम्मि परिसके सुह्णा ॥ अत्र लुलितालकमुखीत्येतत्पदं व्याधवध्वाः स्वतःसम्भावितशरीरार्थशक्त्या सुरतक्रीडासक्तिं सूचयंस्तदीयस्य भर्तुः सततसम्भोगक्षामतां प्रकाशयति । लोचनमित्यत्र कविना यो विरागी वक्ता निबद्धस्तत्प्रौढोक्त्या जीवितशब्दोऽर्थशक्तिमूलतयेदं ध्वनयतिसर्व एवामी कामा विभूतयश्च स्वजीवितमात्रोपयोगिनः, तदभावे हि सद्भिरपि तैरसद्रूपताप्यते, तदेव च जीवितं प्राणधारणरूपत्वात्प्राणवृत्तेश्च चाञ्चल्यादनास्थापदमिति विषयेषु वराकेषु किं दोषोद्धोषणदौर्जन्येन निजमेव जीवितमुपालभ्यम्, तदपि च निसर्गचञ्चलमिति न सापराधमित्येतावता गाढं वैराग्यमिति । वाक्यप्रकाशता यथा “शिखरिणि” इत्यादौ । वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावल्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ॥ इति छाया । सविभ्रमं चङ्क्रम्यते । अत्र लुलितेति सवरूपमात्रेण विशेषणमवलिप्ततया चहस्तिदन्ताद्यपाहरणं सम्भाव्यमिति वाक्यार्थस्य तावत्येव न काचिदनुपपत्तिः ।
बालप्रिया
कामाः काम्यमाना वनितादयः तदभावे जीविताभावे । जीवितमनास्थापदमिति सम्बन्धः । अत्र हेतुःप्राणेत्यादि । इतीति हेतौ । निसर्गचञ्चलमितीति । निसर्गचञ्चलत्वाद्धेतोरित्यर्थः । स्वभावस्यापरिहार्यत्वादिति भावः । वाणिजकेति । अस्माकं गृहे कुतस्सन्ति? न सन्तीत्यर्थः । अत्र कार्यान्तरव्यग्रतां हेतुत्वेन दर्शयन्नाहयावदित्यादि । यावत्यतः । लुलितेति । लुलिताः इतस्ततो विकीर्णा अलका यत्र तथाविधं मुखं यस्यास्सा । स्नुषा पुत्रभार्या । परिष्वक्कत इति । अतस्तत्परिपालनव्यग्रा वयमिति भावः । स्वत इत्यादि । स्वतस्सम्भावितं लोकेऽप्यौचित्यात्सम्भाव्यमानं शरीरं य्सय तथाविधस्यार्थस्य शक्त्या सामर्थ्येनेत्यर्थः । लोचनेऽपरिष्वक्कत” इत्यस्य व्याख्यानम्सविभ्रमं चङ्क्रम्यत इति । व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गत्वशङ्का परिहरतिअत्रेत्यादि । लुलितेतीति । इत्यादिकमित्यर्थः । स्वरूपेत्यादि । स्वरूपकथनमित्यर्थः । अवलप्ततयेति । धनित्वाद्यभिमानेनेत्यर्थः । चकारस्सम्भवतो हेत्वन्तरस्य समुच्चायकः । हस्तीत्यादि । तस्यैव वाक्यप्रकाशता यथा सिहिपिञ्छकण्णऊरा बहुआ वाहस्स गव्विरी भमै । मुत्ताफलरैअपसाहणाणं मज्झे सवत्तीणम् ॥ अनेनापि वाक्येन व्याधवध्वा शिखिपिच्छकर्णपूराया नवपरिणीतायाः कस्याश्चित्सौभाग्यातिशयः प्रकाश्यते । तत्सम्भोगैकरथो मयूरमात्रमारणसमर्थः पतिर्जातं इत्यर्थप्रकाशनात्तदन्यासां चिरपरिणीतानां मुक्ताफलरचितप्रसाधनानां दौर्भाग्यातिशयः ख्याप्यते । तत्सम्भोगकाले स एव व्याधः करिवरवधव्यापारसमर्थ आसीदित्यर्थप्रकाशनात् । ननु ध्वनिः काव्यविशेष इत्युक्तं कत्कथं तस्य पदप्रकाशता । काव्यविशेषो हि विशिष्टार्थप्रतिपत्तिहेतुः शब्दसन्दर्भविशेषः । तद्भावश्च पदप्रकाशत्वे नोपपद्यते । पदानां स्मारकत्वेनावाचकत्वात् । उच्यते स्यादेष दोषः
लोचनं
सिहिपिच्छेति । पूर्वमेव योजिता गाथा । नन्विति । समुदाय एव ध्वनिरित्यत्र पक्षे चोद्यमेतत् । तद्भावश्चेति । काव्यविशेषत्वमित्यर्थः । अवाचकत्वादिति यदुक्तं सोऽयमप्रयोजको हेतुरिति छलेन तावद्दर्शयतिस्यादेष दोष इति । एवं छलेन परिहृत्य
बालप्रिया
हस्तिदन्तादेरपाहरणमनाहरणं दन्ताद्यनाहरणमिति च पाठः । स्नुषाभर्तुरिति शेषः । समुदाय इति । वाचकवाच्यव्यङ्ग्यादिसमुदाय इत्यर्थः । इत्यत्र पक्ष इति । “अववक्षितवाच्यस्ये"त्यादिकारिकायां समुदायस्यैव ध्वनिपदार्थवादत्र पक्ष एव चोद्यस्योपपत्तेश्चेति भावः । वृत्तौ “नन्वि"त्यादि । “इत्युक्तम्” इति । “यत्रार्थश्शब्दो वे"त्यादिनेति भावः । “तत्” तस्मात् । चोद्यमुपपादयति “काव्यविशेषो ही"त्यादि । “विशिष्टे"ति । वाच्यव्यङ्ग्यभेदेन द्विविधो यो विशिष्टार्थः तत्प्रतिपत्तिहेतुरित्यर्थः । “शब्दे"त्यादि । सङ्घटितपदविशेष इत्यर्थः । विशिष्टार्थस्तत्प्रतिपादको वाक्यविशेषश्चेति यावत् । ततः किमत आह “तद्भावश्चे"त्यादि । “पदप्रकाशत्वे” पदप्रकाश्यत्वे सति । “नोपपद्यते” न सङ्गच्छते । तद्भावः पदप्रकाशत्वेन सह विरुद्ध इत्यर्थः । कुत इत्यत्राह “पदानाम्” इत्यादि । “अवाचकत्वात्” अनुभावक्तवाभावात् । तदैस्तत्तदर्थाः स्मार्यन्ते, स्मृतास्ते त्वाकाङ्गक्षादसहकृता वाक्यार्थमनुभावयन्तीति मते पदस्मारितत्वरूपं पदप्रकाशत्वं तत्तदर्थ एव वर्तते । तत्र च काव्यविशेषत्वरूपं ध्वनित्वन्नास्तीत्यतो ध्वनेः न पदप्रकाशत्वं, किन्तु वाक्यप्रकाशत्वमेव सम्भवतीति भावः । अनेन ग्रन्थेन पदन्न ध्वनिप्रकाशकमवाचकत्वादित्यर्थः फलित इत्यभिप्रेत्य “स्यादेषदोष” इत्यादिसमाधानग्रन्थमवतारयति लोचनेअवाचकत्वादित्यादि । अप्रयोजक इति । यदि वाचकत्वं प्रयोजकं ध्वनिव्यवहारे स्यात् । न त्वेवम् - तस्य व्यञ्जकत्वेन व्यवस्थानात् । किं च काव्यानां शरीराणामिव संस्थानवशेषावच्छिन्नसमुदायसाध्यापि चारुत्वप्रतीतिरन्वयव्यतिरेकाभ्यां भागेषु कल्प्यत इति पदानामपि व्यञ्जकत्वमुखेन व्यवस्थितो ध्वनिव्यवहारो न विरोधि ।
लोचनं
वस्तुवृत्तेनापि परिहरतिकिं चेति । यदि परो ब्रूयात्न मया अवाचकत्वं ध्वन्यभावे हेतूकृतं किं तूक्तं काव्यं ध्वनिः । काव्यं चानाकाङ्क्षप्रतिपत्तिकारि वाक्यं न पदमिति तत्राहसत्यमेवं, तथापि पदं न ध्वनिरित्यस्माभिरुक्तम् । अपि तु समुदाय एव - तथा च पदप्रकाशो ध्वनिरिति प्रकाशपदेनोक्तम्. ननु पदस्य तत्र तथाविथं सामर्थ्यमिति कुतोऽखण्ड एव प्रतीतिक्रम इत्याशङ्क्याहकाव्यानामिति । उक्तं हि प्राग्विवेककाले विभागोपदेश इति । ननु भागेषु पदरूपेषु कथं सा चारुत्वप्रतीतिरारोपयितुं शक्या? तानि हि स्मारकाण्येव । ततः किम्? मनोहारिव्यङ्ग्यार्थस्मारकत्वाद्धि चारुत्वप्रतीतिनिबन्धनत्वं केन
बालप्रिया
असाधक इत्यर्थः । छलेन व्याजेन वक्ष्यमाणाभिप्रायाप्रकटनेनेति यावत् । तावतादौ । वस्तुवृत्तेनापीति । पारमार्थिकाभिप्रेतार्थप्रकटनेनापीत्यर्थः । ननु वस्तुवृत्तेन परिहारः किमर्थ इत्यतः काव्यानामित्यादिग्रन्थमवतारयिष्यन् भूमिकामाहयदि पर इत्यादि । ध्वन्यभावे ध्वनिप्रकाशकत्वाभावे । पदानामिति शेषः । हेतूकृतं हेतुत्वेनोक्तम् । किन्त्वित्यादि । काव्यविशेषो ध्वनिः काव्यञ्च तथाविधं वाक्यमिति वाक्यमेव ध्वनिः, पदन्तु न ध्वनिरित्यर्थः । तथाच पदे ध्वन्यभावे अवाक्यत्वं हेतुरिति भावः । इति ब्रूयादिति सम्बन्धः । आहेति । सिद्धान्तीति शेषः । तथापीत्यन्तमभ्युपगमे । न उक्तमिति सम्बन्धः । समुदाय एवेति । ध्वनिरित्युक्तमित्यनुषङ्गः । अत्रोपष्टम्भकमाहतथाचेत्यादि । तत्रेति । वाक्य इत्यर्थः । तथाविधं ध्वनिप्रकाशनानुकूलम् । इति कुत इत्येतत्कथं घटते । अत्र हेतुः अखएड इत्यादि । भागेषु कल्प्यत इत्यत्रोपष्टम्भकमाहौक्तं हीत्यादि । वृत्तौ “काव्यानाम्” इत्यस्य “चारुत्वे"त्यनेन सम्बन्धः । “संस्थाने"ति । संस्थानविशेषैः शब्दसन्दर्भविशेषैः मुखाद्यवयवसंयोगविशेषैश्च अवच्छिन्नो विशिष्टो यस्समुदायस्तत्साध्यापीत्यर्थः । तथाच प्रतीयमानं चारुत्वं समुदायनिष्ठमिति भावः । “भागेषु” पदेषुमुखादिषु च । “कल्प्यत” इति । प्राधान्यादिति भावः । इतीति हेतौ । “व्यञ्जकत्वमुखेन” व्यञ्जकत्वप्राधान्येन । “ध्वनिव्यवहारः” पदप्रकाशो ध्वनिरिति व्यवहारः । “अनिष्टस्ये"त्यादिग्रन्थमवतारयति लोचनेनन्वित्यादि । स्मारकाण्येवेत्यन्तः “अनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टताम् । श्रुतिदुष्टाविषु व्यक्तं तद्वादिष्टस्मृतिर्गुणम् ॥ पदानां स्मारकत्वेऽपि पदमात्रावभासिनः । तेन ध्वनेः प्रभेदेषु सर्वष्वेवास्ति रम्यता ॥ विच्छित्तिशोभिनैकेन भूषणेनेव कामिनी । पदद्योत्येन सुकवेर्ध्वनिनी भाति भारती ॥ " इति परिकरश्लोकाः
यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिर्वर्णपदादिषु । वाक्ये सङ्घटनायां च स प्रबन्धेऽपि दीप्यते ॥ कारिका३.२ ॥
यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिर्वर्णपदादिषु । वाक्ये सङ्घटनायां च स प्रबन्धेऽपि दीप्यते ॥ २ ॥
लोचनं
वार्यते । यथा श्रुतिदुष्टानां पेलवादिपदानामसभ्यपेलाद्यर्थं प्रति न वाचकत्वम् । अपि तु स्मारकत्वम् । तद्वशाच्च चारुस्वरूपं काव्यं श्रुतिदुष्टम् । तच्च श्रुतिदुष्टत्वमन्वयव्यतिरेकाभ्यां भागेषु व्यवस्थाप्यते तथा प्रकृतेऽपीति तदाहअनिष्टस्येति । अनिष्टार्थस्मारकस्येत्यर्थः । दुष्टतामित्यचारुत्वम् । गुणमिति चारुत्वम् । एवं दृष्टान्तमभिधाय पादत्रयेण तुर्येण दार्ष्टान्तिकार्थ उक्तः । अधुनोपसंहरतिपदानामिति । यत एव मिष्टस्मृतिश्चारुत्वमावैति तेन हेतुना सर्वेषु प्रकारेषु निरूपितस्य पदमात्रावभासिनोऽपि पदप्रकाशस्यापि ध्वने रम्यतास्ति स्मारकत्वेऽपि पदानामिति समन्वयः । अपिशब्दः काकाक्षिन्यायेनोभयत्रापि सम्बध्यते । अधुना चारुत्वप्रतीतौ पदस्यान्वयव्यतिरेकौ दर्शयतिविच्छित्तीति ॥ १ ॥
एवं कारिकां व्याख्याय तदसङ्गृहीतमलक्ष्यक्रमव्यङ्ग्यं प्रपञ्चयितुमाहयस्त्विति । तुशब्दः पूर्वभेदेभ्योऽस्य विशेषद्योतकः । वर्णसमुदायश्च पदम् । तत्समुदायो वाक्यम् । सङ्घटना पदगता वाक्यगता च । सङ्घटितवाक्यसमुदायः प्रबन्धः
बालप्रिया
शङ्काग्रन्थः । ततः किमित्मादिर्वक्ष्यमाणार्थकः परिहारग्रन्थः । पेलवादिपदानामिति । “अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठ” इत्यादौ पेलवादिशब्दानामित्यर्थः । असभ्येति । असभ्यो यः पेलाद्यर्थः पेलादिशब्दार्थस्तं प्रतीत्यर्थः । पेलशब्दो हि लाटभाषायां वृषणवाचकः । नवाचकत्वमिति । तदर्थस्य तद्वाक्यार्थघटकत्वाभावादिति भावः । पादत्रयेणाभिधायेति सम्बन्धः । “तेनेऽत पदस्य विवरणम्यत इत्यादि । निरूपितस्येति पूरितम् । अपिशब्दः स्मारकत्वेऽपीत्यपिशब्दः ॥ २ ॥
तत्र वर्णानामनर्थकत्वाद्द्योतकत्वमसम्भवीत्याशङ्क्येदमुच्यते
शषौ सरेफसंयोगो ढकारश्चापि भूयसा । विरोधिनः स्युः शृङ्गारे ते न वर्णा रसच्युतः ॥ कारिका३.३ ॥ त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा । तदा तं दीपयन्त्येव ते न वर्णा रसच्युतः ॥ कारिका३.४ ॥
शषौ सरेफसंयोगो ढकारश्चापि भूयसा । विरोधिनः स्युः शृङ्गारे तेन वर्णा रसच्युतः ॥ ३ ॥
त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा । तदा तं दीपयन्त्येव तेन वर्णा रसच्युतः ॥ ४ ॥
श्लोकद्वयेनान्वयव्यतिरेकाभ्यां वर्णानां द्योतकत्वं दर्शितं भवति । लोचनमित्यभिप्रायेण वर्णादीनां यथाक्रममुपादानम् । आदिशब्देन पदैकदेशपदद्वितयादीनां ग्रहणम् । सप्तम्या निमित्तत्वमुक्तम् । दोप्यतेऽवभासते सकलकाव्यावभासकतयेति पूर्ववत्काव्यविशेषत्वं समर्थितम् ॥ २ ॥
भूयसेति प्रत्येकमभिसम्बध्यते । तेन शकारो भूयसेत्यादि व्याख्यातव्यम् । रेफप्रधानस्संयोगर्ः कर्ह्रर्द्र इत्यादि । विरोधिन इति । परुषा वृत्तिविरोधिनी शृङ्गारस्य । यतस्ते वर्णा भूयसा प्रयुज्यमाना न रसांश्च्योतन्ति स्रवन्ति । यदि वा तेन शृङ्गारविरोधित्वेन हेतुनावर्णाः शषादयो रसाच्छृङ्गाराच्च्यवन्ते तं न व्यञ्जयन्तीति व्यतिरेक उक्तः । अन्वयमाहत एवत्विति । शादयः । तमिति बीभत्सादिकं रसम् । दीपयन्ति द्योतयन्ति । कारिकाद्वयं तात्पर्येण व्याचष्टेश्लोकद्वयेनेति । यथासंख्यप्रसङ्गपरहारार्थं
बालप्रिया
आदिशब्देनेति । “पदादिष्वि"त्यादिपदेनेत्यर्थः । सप्तम्येति । पदादिष्वित्यादिस्थया सप्तम्येत्यर्थः । निमित्तत्वमुक्तमिति । न त्वधिकरणत्वमिति भावः । दीप्यत इत्यस्य विवरणम्सकलकाव्यावभासकतयावभासत इति । अलक्ष्यक्रमस्तु यो ध्वनिः समुदायत्मकः काव्यविशेषः । सः वर्णादनिमित्तको दीप्यत इत्यर्थादयमर्थस्सिध्यतीति भावः । काव्यविशेषत्वमिति । ध्वनेरिति शेषः ॥ २ ॥
प्रत्येकमिति । शषावित्यादिना प्रत्येकमित्यर्थः । भूयसेति । प्रयुज्यमानो विरोधीति शेषः । सारार्थमाहपरुषेति । तल्लक्षणमुक्तं भट्टेद्भटेन"शषाभ्यां रेफसंयोगैः टवर्गेण च योजिता । परुषा नाम वृत्तिस्स्यादि"ति । रसश्च्युत इति पाठे ते न इति पदद्वयमित्याशयेन व्याचष्टेते वर्णा इत्यादि । ते वर्णाः शषादयः । रसं शृङ्गारम् । स्रवन्ति स्रावयन्ति । रसच्युत इति पाठे तु तेनेत्येकं पदमित्याहयदि वेत्यादि । तेनेत्यस्य व्याख्यानम्शृङ्गारेत्यादि, रसाच्च्यवन्त इत्यस्य तं न व्यञ्जयन्तीति च । इतीत्यादि । शषावित्यादिश्लोकेन शकारादिवर्णसत्वे शृङ्गाराव्यक्त्यभावरूपो व्यतरेकः प्रदर्शित इत्यर्थः । अन्वयमिति । शषादिसत्वे बीभत्सादिव्यक्तरूपमन्वयमित्यर्थः । “त एवे"त्यादिकारिकायाश्चतुर्थपादे रसश्च्युत इति पदे चालक्ष्यक्रमव्यङ्ग्यस्य द्योतनं यथा उत्कम्पिनी भयपरस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥
लोचनं
श्लोकाभ्यामिति न कृतम् । पूर्वश्लोकेन हि व्यतिरेक उक्तो द्वितीयेनान्वयः । अस्मिन्विषये शृङ्गारलक्षणे शषादिप्रयोगः सुकवित्वमभिवाञ्छता न कर्तव्य इत्येवंफलत्वादुपदेशस्य कारकाकारेण पूर्वं व्यतिरेक उक्तः । न च सर्वथा न कर्तव्योऽपि तु बीभत्सादौ कर्तव्य एवेति पश्चादन्वयः । वृत्तिकारेण त्वन्वयपूर्वको व्यतिरेक इति शैलीमनुसर्तुमन्वयः पूर्वमुपात्तः । एतदुक्तं भवतियद्यपि विभावानुभावव्यभिचारिप्रतीतिसम्पदेव रसाखादे निबन्धनम् । तथापि विशिष्टक्षुतिकशब्दसमर्थ्यमाणास्ते विभावादयस्तथा भवन्तीति स्वसंवित्सिद्धमदः । तेन वर्णानामपि श्रुतिसमयोपलक्ष्यमाणार्थानपेक्ष्यपि श्रोत्रैकग्राह्यो मृदुपरुषात्मा
बालप्रिया
पाठे तेनेत्येकं पदं, रसच्युत इति पाठे तु ते नेति तदद्वयमिति बोध्यम् । यथा संख्येत्यादि । श्लोकाभायामिति निर्देशे द्वाभ्यां श्लोकाभ्यां प्रतपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्या यथासङ्ख्यमन्वयस्य प्रसक्तिर्भवती, श्लोकद्वयेनेति निर्देशे तु श्लोकात्मकद्व्यवयवघटितसमुदायेन प्रतिपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्या यथासङ्ख्यमन्वयस्य प्रसक्तिर्भवति, श्लेकद्वयेनेति निर्देशे तु श्लोकात्मकद्व्यवयवघटितसमुदायेन प्रतिपादितौ यावन्वयव्यतिरेकौ ताभ्यामित्यर्थस्य प्रतीत्यान तत्प्रसक्तिरिति भावः । नन्वत्र यथासङ्ख्यमस्त्वित्यत्राहपूर्वेत्यादि । कारिकायामादौ व्यतिरेकप्रदर्शनस्य बूजमाहअस्मिन्नित्यादि । तर्हि वृत्तावन्यथा कथने किं बीजमित्यत्राहवृत्तीत्यादि । विभावादीनामेव रस्वयञ्जकत्वाद्वर्णादीनान्तात्कथमित्यशङ्कां प्रदर्श्य परिहरतिएतदित्यादि । विशिष्टेति । विशिष्टा उपनागरकादिवृत्तिविशिष्टा तद्विषयिकेति यावत् । श्रुतिः श्रवणं येषान्तैः शब्दैः समर्प्यमाणा इत्यर्थः । तथेति । रसास्वादनिबन्धनानीत्यर्थः । वर्णानामपीति । “स्वभाव” इत्यनेनास्य सम्बन्धः । श्रुतीति । अत्र हि ते इत्येतत्पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् । पदावयवेन द्योतनं यथा व्रिडायोगान्नतवदनया सन्नधाने गुरूणां बद्धोत्कम्पं कुचकलशयोर्मन्युमन्तर्निगृह्य ।
लोचनं
स्वभावो रसास्वादे सहकार्येव । अत एव च सहकारतामेवाभिधातुं निमित्तसप्तमी कृता वर्णपदादिष्विति । न तु वर्णरेव रसाभिव्यक्तिः, विभावादिसंयोगाद्धि रसनिष्पत्तिरित्युक्तं बहुशः । श्रोत्रैकग्राह्योऽपि च स्वभावो रसनिष्यन्दे व्याप्रियत एव, अपदगीतध्वनिवत्पुष्करवाद्यनियमितविशिष्टजातिकरणघ्राद्यनुकरणशब्दवच्च । पदे चेति । पदे च सतीत्यर्थः । तेन रसप्रतीतर्विभावादेरेव । ते विभवादयो यदा विशिष्टेन केनापि पदेनार्प्यमामा रसचमत्कारविधायिनो भवन्ति तदा पदस्यैवासौ महिमा समर्प्यत इति भावः । अत्र हीति । वासवदत्तादाहाकर्णनप्रबुद्धशोकनिभरस्य वत्सराजस्येदं परिदेवितवचनम् । तत्र च शोको नामेष्टजनविनाशप्रभव इति तस्य जनस्य ये भ्रूक्षेपकटाक्षप्रभृतयः पूर्वं रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षभावत्वप्राणं करुणमुद्दीपयन्तीति स्थितम् । ते लोचने इति तच्छब्दस्यल्लोचनगतस्वसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तः । तेन यत्केनचिच्चोदितं परिहृतं च तन्मिथ्यैव । तथाहि चोद्यम्प्रकान्तपरामर्शकस्य तच्छब्दस्य कथमियति सामर्थ्यमिति । उत्तरं चरसाविष्टोऽत्र पराम्रष्टेति ।
बालप्रिया
श्रुतिसमये उपलक्ष्यमाणो ज्ञायमानो योऽर्थस्तदनपेक्ष्यपीत्यर्थः । मृदुपुरुषात्मेति । मृदुत्वपरुषत्वरूप इत्यर्थः । रसनिष्यन्दे व्याप्रियत इति । रसास्वादे सहकारीत्यर्थः । दृष्टान्तमाहअपदेत्यादि । पदरहितगानशब्दवदित्यर्थः । घ्रद्यनुहारेति च पाठः । पदे च सतीति । पदविशेषसत्वनिमि कञ्चेत्यर्थः । अस्य भावमाहतेनेत्यादि । ते रसास्वादहेतवः । तस्य जनस्येति । वासवदत्तात्मकेष्टजनस्येत्यर्थः । इति स्थितमिति । इति वस्तुस्थितिरित्यर्थः । तच्छब्द इति अनुभूतार्थक इति भावः । स्पष्टमिदं काव्यप्रकाशादौ । तदित्यादि । वक्तृनायकगतं तथाविधगुणगणस्मरणं स्मरणविषयगुणगणं वा द्योतयतीत्यर्थः । प्राप्त इति । तत्स्मरणस्य शोकोद्दीपकत्वादिति भावः । तेनेत । यतोऽत्र तच्छब्दोऽनुभूतार्थकः स्मरणाकारद्योतकश्च तत इत्यर्थः । अनुत्थानोपहितमित्यनेनास्य सम्बन्धः । मथ्यैव परिहृतमित्यन्वयः । इयतीति उक्तार्थबोदन इत्यर्थः । रसाविष्ट इत्यादि । तल्लोचनगततथाविधगुणगणं बुद्धौ कृत्वा रसाविष्टेन वक्त्रा ते इत्युक्तम्, स एवार्थः प्रतिपत्त्रापि परामृश्यत इति भावः । पराम्रष्टा
लोचनं
तदुभयमनुत्थानोपहतम् । यत्र ह्यनुद्दिश्यमानधर्मान्तरसाहित्ययोग्यधर्मयोगित्वं वस्तुनो यच्छब्देनाभिधाय तद्बुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाच्यते । तत्रोच्यतेऽयत्तदोर्नित्यसम्बन्धत्वं” इति, तत्र पूर्वप्रक्रान्तपरामर्शकत्वं तच्छब्दस्य । यत्र पुनर्निमित्तोपनतस्मरणविशेषाकारसूचकत्वं तच्छब्दस्य “स घट” इत्यादौ यथा, तत्र का परामर्शकत्वकथेत्यास्तामलीकपरामर्शकैः पण्डितम्मन्यैः सह विवादेन । उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणम् । मयानिर्वाहितप्रतीकारमिति शोकावेशस्य विभावः । ते इति सातिशयविभ्रमैकायतनरूपे अप लोचने विधुरे कान्दिशीकतया निर्लक्षे क्षिपन्ती कस्त्राता क्वासावार्यपुत्र इति तयोर्लोचनयोस्तादृशीचावस्थेति सुतरां शोकोद्दीपनम् । क्रूरेणेति । तस्यायं स्वभाव एव । किं कुरुतां तथापि च धूमेनान्धीकृतो द्रष्टुमसमर्थ इति न तु सविवेकस्येदृशानुचितकारित्वं सम्भाव्यते, इति स्मर्यमाणं तदीयं सौन्दर्यमिदानीं सातिशयशोकावेशविभावतां प्राप्तमिति । ते शब्दे सति सर्वोऽयमर्थो निर्वयूढः । एवं तत्र तत्र व्याख्यातव्यम् ।
बालप्रिया
परामर्शकर्ता । यत्र हीत्यादि । यत्र यो विद्वान् स पूज्य इत्यादौ । अनूद्दिश्यमानेति अनूदेक्ष्यमाणेति च पाठः । तथाविधं यद्धर्मान्तरं पूज्यत्वादिकं तत्साहित्यस्य योग्यः प्रयोजको यो धर्मो विद्वत्त्वादिः तद्योगित्वं तत्सम्बन्ध इत्यर्थः । यच्छब्देन यच्छब्दघटितवाक्येन । तदिति । तद्बुद्धिस्थञ्च यद्धर्मान्तरं विद्धत्त्वादकं तस्य साहित्यं सम्बन्ध इत्यर्थः । निर्वाच्यते बोध्यते । तत्र पूर्वप्रक्रान्तपरामर्शकत्वमिति सम्बन्धः । मध्ये संवादकथनम्यत्रोच्यत इत्यादि । तत्रेति । यो विद्वान् स पूज्य इत्यादावित्यर्थः । पूर्वेति । पूर्वोक्तविद्वत्त्वादिधर्मविशष्टोपस्थापकत्वरूपं पूर्वपक्रान्तपरामर्शकत्वमित्यर्थः । इदमुपलक्षणं “तदन्वये शुद्धिमती” त्यादावपि तद्बोध्यम्. यत्रेति । “ते लोचने” इत्यादावित्यर्थः । स इत्यादिदृष्टन्तकथनम् । का परामर्शकत्वकथेति । पूर्वप्रकान्तपरामर्शकत्वप्रसङ्ग एव नास्तीत्यर्थः । उत्कम्पिनीत्यादिनेति । तदुक्त्या गम्यमिति भावः । तदीयेति । तदीयानां वासवदत्तासम्बन्धिनां भयानुभावानामुत्कम्पादीनामुत्प्रेक्षणमनुमानमित्यर्थः । “विभाव” इत्यनेनास्य सम्बन्धः । शोकावेशप्रकारकथनम्मयेत्यादि । अनिर्वाहितः अकृतः प्रतीकारो यस्य तत् । भयमिति शेषः । इति इतिमत्या । विभावः उद्दीपनम् । तच्छब्दद्योत्यार्थकथनं सातिशयेत्यादि । कान्दिशीकतया भयातशयेन । इति इति बुद्ध्या । क्षिपन्तीति सम्बन्धः । क्रूरेणेति तीक्ष्णेनेति च पाठः । तस्यायं स्वभाव इति । दाहकत्वादिः क्रूरस्वभाव इत्यर्थः । क्रूरत्वेऽपि न तन्मात्रेण दग्धा,किन्तु हेत्वन्तरेणापीत्याहतथेत्यादि । धूमान्धितेनेति दहनस्य विशेषणं, तच्च हेतुगर्भमिति भावः । उपसंहरतिइतीत्यादि । ते शब्दे सतीत्यादि । ते इति तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मथ्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ॥ इत्यत्र त्रिभागशब्दः । वाक्यरूपश्चालक्ष्यक्रमव्यङ्ग्यो ध्वनिः शुद्धोऽलङ्कारसङ्कीर्णश्चेति द्विधा मतः । तत्र शुद्धस्योदाहरमं यथा रामाभ्युदयेऽकृतककुपितैः” इत्यादि
लोचनं
त्रिभागशब्द इति । गुरुजनमवधीर्यापि सा मां यता तथापि साभिलाषमन्युदैन्यगर्वमन्थरं विलोकितवतीत्येवं स्मरणेन परस्परहेतुकत्वप्राणप्रवासविप्रलम्भोद्दीपनं त्रिभागशब्दसन्निधौ स्फुटं भातीति । वाक्यरूपश्चेति । प्रथमानिर्देशेनाव्यतिरेकनिर्देशस्यायमभिप्रायः । वर्णपदतद्भागादिषु सत्स्वेवालक्ष्यक्रमो व्यङ्ग्यो निर्भासमानोऽपि समस्तकाव्यव्यापक एव निर्भासते, विभावादिसंयोगप्राणत्वात् । तेन वर्णादीनां निमित्तत्वमात्रमेव, वाक्यं तु ध्वनेरलक्ष्यक्रमस्य न निमित्ततामात्रेण वर्णादिवदुपकारि, किं तु समग्रविभावादप्रतिपत्तिव्यापृतत्वाद्रसादिमयमेव तन्निर्भासत इति “वाक्य” इत्येतत्कारिकायां
बालप्रिया
पदस्यैवात्र प्राधान्यमिति भावः । वृत्तौ “झटिति कनके"त्याद्युदाहरणान्तरं प्रक्षिप्तमत एव न विवृतं लोचने । प्रवासोद्यतमात्मानं गुरुजनसन्निधाने दृष्टवत्याः प्रयाया दर्शनप्रकारं कश्चित्स्ययं परामृशति - यद्वास्निग्धं प्रति कथयतिव्रीजायोगादिति । गुरूणां पित्रादीनाम् । कुचकलशयोः बद्धः कृत उत्कम्पः येन तम् । मन्युं प्रवासनिरोधेऽपि तदुद्यमाज्जतं कोपम् । त्वं तिष्टेति मां प्रति न उक्तं किमिव, उक्तमेव । यद्यतः तया बाष्पं समुत्सृज्य चकितहरिणोव चकितहरिणीनेत्रमिव हारि, यद्वाचकितहरिण्या हारि यन्नेत्रं तस्य त्रिभागः तृतीयो भागः । चकितहरिणीहारीति भिन्नं पदमासञ्जनक्रयावशेषणमिति वा । मयि आसक्त आसञ्जिन इत्यन्वयः । त्रिभागशब्दस्य व्यञ्जकत्वं विवृणोतिगुरुजनमित्यादि । साभिलाषेति । अभिलाषादयो भावा नेत्रे प्रकाशिता इतिभावः । स्मरणेनेति । स्मरणमात्रगम्यम् । परस्परहेतुकत्वेति । परस्परास्थाबन्धहेतुकत्वेत्यर्थः । प्रथमेति । वाक्यरूपो ध्वनिरिति प्रथमान्तनिर्देशेनेत्यर्थः । अव्यतिरेकनिर्देशस्य अभेदबोधनस्य । अयं वाक्यन्त्वित्यादिना वक्ष्यमाणः । सत्स्वेव निर्भासमानोऽपीति सम्बन्धः । यद्यपि वर्णपदादप्रयुक्तमेव निर्भासनन्तथापीत्यर्थः । तेनेति । विभावादिसंयोगप्राणत्वेन निर्भासनादित्यर्थः । वर्णादिवदिति वैधर्येण दृष्टान्तः । समग्रेति । समग्रविभावादिप्रतिपादकत्वादित्यर्थः । तत्वाक्यम् । इतीति हेतौ । वाक्य इत्यादि । कारिकास्थं वाक्ये इत्येतदत्यर्थः । शलोकः । एतद्धि वाक्यं परस्परानुरागं परिपोषप्राप्तं प्रदर्शयत्सर्वत एव परं रसतत्त्वं प्रकाशयति । अलङ्कारान्तरसङ्कीर्णो यथा “स्मरनवनदीपूरेणोढाः” इत्यादिश्लोकः ।
लोचनं
रिकायां न निमित्तसप्तमीमात्रम्, अपि त्वनन्यत्र भावविषयार्थमपीति । शुद्ध इत्यर्थालङ्कारेण केनाप्यसंमिश्रः । कृतककुपितैबाष्पाम्भोभिः सदैन्यविलोकितैर्वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया । नवजलधरश्यामाः पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥ अत्र तथा तैस्तैः प्रकारैर्मात्रा धृतापीत्यनुरागपरवशत्वेन गुरुवचनोल्लङ्घनमपि त्वया कृतमिति । प्रिये प्रिय इति परस्परजीवितसर्वस्वाभिमानात्मको रतिस्थायिभाव उक्तः । नवजलधरेत्यसोढपूर्वप्रावृषेण्यजलदालोकनं विप्रलम्भोद्दीपनविभावत्वेनोक्तम् । जीवत्येवेति सापेक्षभावता एवकारेण करुणावकाशनिराकरणायोक्ता । सर्वत एवेति । नात्रान्यतमस्य पदस्याधिकं क्रिञ्चद्रसव्यक्तिहेतुत्वमित्यर्थः । रसतत्त्वमिति । विप्रलम्भशृङ्गारात्मतत्वम् । स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभिर्यदपि विधृताः तिष्ठन्त्यारादपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥
बालप्रिया
नेत्यादी । तत्सप्तम्यर्थो निमित्तमात्रं नेति यावात् । अनन्यत्रेति । अनन्यत्रभावः तदन्यत्र सम्भवाभावः, तद्रूपो यो विषयस्य अर्थो यस्य तत् । वाक्य इति सप्तम्यर्थो विषयश्चेत्यर्थः । कृतकेति । तृतीयान्तानां धृतातीत्यनेनान्वयः । यस्य प्रीत्या यस्मिन्मयि प्रेम्णा । धृता उपरुद्धा । व्याचष्टेअत्रेत्यादि । कृतमितीति । व्यज्यत इति शेषः । प्रिये प्रिय इतीति । इत्याभ्यामित्यर्थः । उक्तः व्यञ्जितः । नवजलधरतीति । इत्यनेनेत्यर्थः । जीवत्येवेत्येवकारेण सापेक्षभावतोक्तेत्यन्वयः । स्मरेति । विधृतास्तिष्ठन्त्यारादपूर्णेति च पाठः । प्रावृषेण्यः प्रावृषिभवः । प्रवाहत्वारोपे गम्यं साधर्म्यमाहसरभसेत्यादि । ऊढा इत्यनेनात्र विवक्षित माहपरस्परेत्यादि । पुनरित्यस्य विवरणमनन्तरमिति, गुरुपदेनार्थान्तरञ्ज अत्र हि रूपकेण यथोक्तव्यञ्जकलक्षणानुगतेन प्रसाधितो रसः सुतरामभिव्यज्यते । अलक्ष्यक्रमव्यङ्ग्यः सङ्घटनायां भासते ध्वनिरित्युक्तं तत्र सङ्घटनास्वरूपमेव तावन्निरूप्येते
असमासा समासेन मध्यमेन च भूषिता । तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता ॥ कारिका३.५ ॥
असमासा समासेन मध्यमेन च भूषिता । तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता ॥ ५ ॥
कैश्चित् ।
लोचनं
रूपकेणेति । स्मर एव नवनदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रवृद्धत्वात्तेनोढाः परस्परसांमुख्यमबुद्धिपूर्वमेव नीताः । अनन्तरं गुरवः श्वश्रूप्रभृतय एव सेतवः, इच्छाप्रसररोधकत्वात् । अत च गुरवोऽलङ्ध्याः सेतवस्तैः विधृताः प्रतिहतेच्छाः । अत एवापूर्णमनोरथास्तिष्ठन्ति । तथापि परस्परोन्मुखतालक्षणेनान्योन्यतादात्म्येन स्वदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं परस्पराभिलाषलक्षणमास्वादयन्ति परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्यापि कालमतिवाहयन्तीति । ननु नात्र रूपकं निर्वयूढं हंसचक्रवाकादिरूपेण नायकयुगलस्यारूपितत्वात् । ते हि हंसाद्या एकनलिनीनालानीतसलिलपानक्रीडादिषूचिता इत्याशङ्क्याहयथोक्तव्यञ्जकेति । उक्तं हि पूर्वम् “विवक्षातत्परत्वेन” इत्यादौ “नातिनिर्वहणैषिता” इति । प्रसाधित इति । विभावादिभूषणद्वारेण रसोऽपि प्रसाधित इत्यर्थः ॥ ३.॥ ,४ ॥ सङ्घटनायामिति बावे प्रत्ययः, वर्णादिवच्च निमित्तमात्रे सप्तमी । उक्तमिति । कारिकायाम् । निरूप्यत इति । गुणेभ्यो विविक्ततया विचार्यत इति यावत् । रसानिति
बालप्रिया
विवक्षितमित्याहअथ चेत्यादि । तदपीत्यस्य विवरणम्तथापीति । परस्परमुन्मुखा इत्येतल्लिखितप्रख्यैरित्यस्योपपादकमित्याहपरस्परेत्यादि । गम्यं साधर्म्यं दर्शयतिस्वदेह इत्यादि । वृत्तीति । चेष्टेत्यर्थः । अङ्गैरित्युपलक्षणे तृतीया । रसमित्यादि । परस्पराभिलाषरूपं जलमित्यर्थः । तात्पर्यमाहपरस्परेति । परस्पराभिलाषात्मकानां परस्पराभिलाषं प्रकाशयन्तीनां दृष्टिच्छटानां यो मिश्रीकारस्तस्य युक्त्या योजनयेत्यर्थः । प्रिया इत्यत्र हंसचक्रवाकेत्यत्राप्येकशेषो बोध्यः । अरूपितत्वादिति । अरूपणादित्यर्थः । तथा रूपणे युक्तिमाहतेहीत्यादि । नन्वत्र कथं रूपकेण रसस्यालङ्कृतत्वमित्यत आहविभावादीत्यादि ॥ ३.॥ ,४ ॥ भावे प्रत्यय इति । भावरूपार्थे युच्प्रत्यय इत्यर्थः । सप्ततमीति । सङ्घटनायामित्यत्र सप्तमीत्यर्थः । तां केवलमनद्येदमुच्यते
गुणानाश्रित्य तिष्ठन्ती माधुर्यादीन् व्यनक्ति सा । रसान् . . . . . . . . . . . . . . . ॥ कारिका३.६ ॥
गुणानाश्रित्य तिष्ठन्ती मादुर्यादीन्व्यनक्ति सा । रसान् सा सङ्घटना रसादीन् व्यनक्ति गुणानाश्रित्य तिष्ठन्तीति । अत्र च विकल्प्यं गुणानां सङ्घटनायाश्चैक्यं व्यतिरेको वा । व्यतिरेकेऽपि द्वयीगतिः । गुणाश्रया सङ्घटना, सङ्घटनाश्रया वा गुणा इति । तत्रैक्यपक्षे सङ्घटनाश्रयगुणपक्षे च गुणानात्मभूतानादेयभूतान्वाश्रित्यतिष्ठन्ती सङ्घटना
लोचनं
कारिकायां द्वितीयार्धस्याद्यं पदम्. “रसांस्तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः” इति कारिकार्धम् । बहुवचनेनाद्यर्थः सङ्गृहीत इति दर्शयतिरसादीनित । अत्र चेति । अस्मिन्नेव कारिकार्धे । विकल्पेनेदमर्थजातं कल्पयितुं व्याख्यातुं शक्यं किं तदित्याहगुणानामिति । त्रयः पक्षा ये सम्भाव्यन्ते ते व्याख्यातुं शक्याः । कथमित्याहतत्रैक्यपक्ष इति । आत्मभूतानिति । स्वभावस्य कल्पनया प्रतपादनार्थं प्रदर्शितबेदस्य स्वाश्रयवाचोयुक्तिर्दृश्यते शिशपाश्रयं वृक्षत्वमिति । आधेयभूतानिति । सङ्घटनाया धर्मा गुणा इति भट्टोद्भटादयः, धर्माश्च धर्म्याश्रिता इति
बालप्रिया
कुत्रोक्तमित्यत आहकारिकायामिति । सङ्घटनो दितेत्यत्र कर्तृपदं पूरयति वृत्तौ “कैश्चिदि"ति । तामित्याद्यवतारिका । “रसानि"त्यन्तः कारिकापाठ इति दर्शयति लोचनेरसानित्यादि । रसादीनित्यर्थः । कथं लब्ध इत्यत आहबह्वित्यादि । बहुवचनेन रसानिति बहुवचनेन । अत्रेत्यस्य व्याख्यानमस्मिन्नित्यादि । “विकल्प्यम्” इत्येतत्प्रकृतानुरोधेन व्याचष्टेविकल्पेनेत्यादि । इदं वक्ष्यमाणम् । शक्यमिति । विकल्प्यमित्यस्य विकल्पेन कल्प्यमिति विग्रह इति भावः । भावमाहत्रय इत्यादि । वृत्तौ “व्यतिरेको वे"ति । भेदो वेत्यर्थः । “द्वयी गति"रिति । द्वैविध्यमित्यर्थः । कथं द्वैविध्यमित्यत्राह “गुणाश्रये” त्यादि । सप्तम्यन्तपक्षपदयोरर्थ इत्यनेन सम्बन्धः । “आत्मभूतानि"ति । स्वाभिन्नानित्यर्थः । “आधेयभूतानि"ति । स्वनिष्ठानित्यर्थः । “इत्ययमर्थ” इति । कारिकाया इति शेषः । गुमसङ्घटनयोरैक्यपक्षे “गुणानाश्रित्य तिष्ठन्ती"त्याधाराधेयभावेन निर्देशस्योपपत्तिन्दर्शयति लोचनेस्वभावस्येत्यादि । स्वभावस्य प्रतिपादनार्थं वस्तुस्वभावं प्रतिपादयितुम् । कल्पनया प्रदर्शितो भेदो यत्र तस्य । स्वाभिन्नस्यापि वस्तुनस्स्वस्माद्भेदं परिकल्प्येत्यर्थः । स्वाश्रयेति । स्वाश्रयत्वेन कथनमित्यर्थः । जातिव्यक्त्योरैक्यमतानुरोधेन दृष्टान्तमाहशिंशपेत्यादि । इतीति । इत्यादीत्यर्थः । रसादीन् व्यनक्तीत्ययमर्थः । यदा तु नानात्वपक्षे गुमाश्रयसङ्घटनापक्षः तदा गुमानाश्रित्य तिष्ठन्ती गुमपरतन्त्रस्वभावा न तु गुणरूपैवेत्यर्थः । किं पुनरेवं विकल्पनस्य प्रयोजनमिति? अभिधीयतेयदि गुमाः सङ्घटाना चेत्येकं तत्त्वं सङ्घटनाश्रया वा गुणाः, तदा सङ्घटनाया इव गुमानामनियतविषयत्वप्रसङ्गः । गुणानां हि माधुर्यप्रसादप्रकर्षः करुणविप्रलम्भशृङ्गारविषय एव । रौद्राद्भुतादिविषयमोजः । माधुर्यप्रसादौ रसभावतदाभासविषयावेवेति विषयनियमो
लोचनं
प्रसिद्धो मार्गः । गुमपरतन्त्रेति । अत्र नादाराधेयभाव आश्रयार्थः । न हि गुणेषु सङ्घटना तिष्ठतीति । तेन राजाश्रयः प्रकृतिवर्ग इत्यत्र यथा राजाश्रयौचित्येनामात्यादिप्रकृतय इत्ययमर्थः, एवं गुणेषु परतन्त्रस्वभावा तदायत्ता तन्मुखप्रेक्षिणी सङ्घटनेत्ययमर्थो लभ्यतैति भावः । सङ्घटनाया इवेति । प्रथमपक्षे तादात्म्येन समानयोगक्षेमत्वादितरत्र तु धर्मत्वेनेति भावः । भवत्वनियतविषयतेत्याशङ्क्याहगुणानां हीति । हिशब्दस्तुशब्दार्थे । न त्वेवमुपपद्यते, आपद्यते तु न्यायबलादित्यर्थः । स
बालप्रिया
दृश्यत इत्यनेन सम्बन्धः, वृक्षत्वशिंशपयोरैक्येऽपि भेदकल्पनया शिंशपाया वृक्षत्वाश्रयत्वकथनं यथा, तथा प्रकृतेऽपीति भावः । आधेयभूतानित्यत्रोपष्टम्भकमाहसङ्घटनाया इत्यादि । गुणपरतन्त्रस्वभावेति व्याख्याने बीजमाहअत्रेत्यादि । आश्रयार्थः आश्रयशब्दार्थः । नेत्यत्र हेतुमाहन हीत्यादि । तेनेति । आश्रयपदमुख्यार्थस्य बाधेनेत्यर्थः । लभ्यत इत्यनेनास्य सम्बन्धः । राजाश्रयौचित्येनेति । राजाश्रयशब्दार्थस्यान्वययोग्यत्वायेत्यर्थः । फलरूपहेतौ तृतीया । अस्यानन्तरं “राजपरतन्त्रा अमात्यादिप्रकृतय” इति पठनीयं , राजपरतन्त्रा इति पाठाभावे तत्पदमध्याहार्यम् । एवमिति । तथेत्यर्थः. गुणेषु परतन्त्रेत्यादेरेव विवरणम्तदायत्तेति । वृत्तौ “किम्” इत्यादि चोद्यम् । “अभिधीयत” इत्याद्युत्तरम् । “एकं तत्वम्” इति । एकः पदार्थ इत्यर्थः । सङ्घटनाया इवेत्यादिग्रन्थस्य भावमाह लोचनेप्रथमपक्ष इत्यादि । प्रथमपक्षे एकं तत्वमिति पक्षे । गुणसङ्घटनयोरिति शेषः । समानयोगक्षेमत्वात्तुल्यस्वभावत्वात् । इतरत्र सङ्घटनाश्रया गुणा इति पक्षे । धर्मत्वेन सङ्घटनाधर्मत्वेन । तुल्ययोगक्षेमत्वादित्यनुषङ्गः । अनियतविषयत्वप्रसङ्ग इत्येतद्विवृणोतिन त्वेवमित्यादि । एवमिति । अनियतविषयत्वमित्यर्थः । न तु उपपद्यत इति । गुणानां नियतविषयत्वस्य व्यवस्थितत्वादिति भावः । आपद्यते प्रसज्यते । इत्याशङ्क्याहेति । इतीष्टापत्तिं वारयतीत्यर्थः । तुशब्दार्थे अवधारणार्थे । व्यवस्थितः, सङ्घटनायास्तु स विघटते । तथा हि शृङ्गारेऽपि दीर्घसमासा दृश्यते रौद्रादिष्वसमासा चेति । तत्र शृङ्गारे दीर्घसमासा यथा “मन्दारकुसुमरेणुपिञ्जरितालका” इति । यथा वा अनवरतनयनजललवनिपतनपरिमुषितपत्त्रलेखं ते । करतलनिषण्णमबले वदनमिदं कं न तापयति ॥ इत्यादौ । तथा रौद्रादिष्वप्यसमासा दृश्यते । यथा “यो यः शस्त्रं बिभर्ति स्वभुजगुरुमतदः” इत्यादौ । तस्मान्न सङ्घटनास्वरूपाः, न च सङ्घटनाश्रया गुणाः । ननु यदि सङ्घटना गुणानां नाश्रयस्तत्किमालम्बना एते परिकल्प्यन्ताम् । उच्यते प्रतिपादितमेवैषामालम्बनम् । लोचनमिति । योऽयं गुणेषु नियम उक्तोऽसाविर्थः । तथात्वे लक्ष्यदर्शनमेव हेतुत्वेनाहतथा हीति । दृश्यत इत्युक्तं दर्शनस्थानमुदाहरणमासूत्रयतितत्रेति । नात्र शृङ्गारः कश्चिदित्याशङ्क्य द्वितीयमुदाहरणमाहयथा वेति । एषा हि प्रमयकुपितनायिकाप्रसादनायोक्तर्नायकस्येति । तस्मादिति । नैतद्व्याख्यानद्वयं कारिकायां युक्तमिति यावत् । किमालम्बना इति । शब्दार्थालम्बनत्वे हि तदलङ्कारेभ्यः को विशेष इत्युक्तं चिरन्तनैरिति भावः । प्रतिपादितमेवेति । अस्मन्मूलग्रन्थकृतेत्यर्थः ।
बालप्रिया
स विघटत इत्यत्र तत्पदं व्याचष्टेयोऽयमित्यादि । नियम उक्त इति । शृङ्गारादावसमासैव सङ्घटना, रौद्रादौ दीर्घसमासैवेति नियम इति भावः । विघटत इत्यस्य व्यभिचरतीत्यर्थः । तथात्व इति । नियमविघटन इत्यर्थः । आसूत्रयति प्रदर्शयति । उदाहरणान्तरमवतारयतिनात्रेत्यादि । अनुभावादेरप्रतीत्येति भावः । अनवरतेति । अनवरतं यन्नयनजललवनिपतनं तेन परिमुषिता अपहृता पत्रलेखा यस्मिंस्तत् । ते तव । इदं वदनमिति सम्बन्धः । भावमाहनैतदित्यादि । “किमालम्बने"ति चोद्याशयमाहशब्देत्यादि । गुणानामिति शेषः । को विशेष इति । विशेषो न भवेदित्यर्थः । मूलग्रन्थेति । कारिकेत्यर्थः । न चैषामित्यादिग्रन्वस्य तात्पर्ये विवृणोतिन हीत्यादि । ऐक्यमिति । वस्तुनोरिति शेषः । गुणालङ्कारयोरिति यावत् । तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत् ॥ इति । अथवा भवन्तु शब्दाश्रया एव गुणाः, न चैषामनुप्रासादितुल्यत्वम् । यस्मादनुप्रासादयोऽनपेक्षितार्थशब्दधर्मा एव प्रतपादिताः । गुणास्तु व्यङ्ग्यविशेषावभासिवाच्यप्रतिपादनसमर्थशब्दधर्मा एव । शब्दधर्मत्वं चैषामन्याश्रयत्वेऽपि शरीराश्रयत्वमिव शौर्यादीनाम् । ननु यदि शब्दाश्रया गुणास्तत्सङ्घटनारूपत्वं तदाश्रयत्वं वा तेषां प्राप्तमेव । न ह्यसङ्घटिताः शब्दा अर्थविशेषप्रतिपाद्यरसाद्याश्रितानां गुणानामवाचकत्वादाश्रया भवन्ति । लोचनमथवेति । न ह्येकश्रितत्वादेवैक्यं, रूपस्य संयोगस्य चैक्यप्रसङ्गात् । संयोगे द्वितीयमपेक्ष्यमिति चेतिहापि व्यङ्ग्योपकारकवाच्यापेक्षास्त्येवेति समानम् । न चायं मम स्थितः पक्षः, अपि तु भवत्वेषामविवेकिनामभिप्रायेणापि शब्दधर्मत्वं शौर्यादीनामिव शरीरधर्मत्वम् । अविवेकी हि औपचारिकत्वविभागं विवेक्तुमसमर्थः । तथापि न कश्चिद्दोष इत्येवम्परमेतदुक्तमित्येतदाहशब्दधर्मत्वमिति । अन्याश्रयत्वेऽपीति । आत्मनिष्ठत्वेऽपीत्यर्थः । शब्दाश्रया इति । उपचारेण यदि शब्देषु गुणास्तदेदं तात्पर्यम्शृङ्गारादिरसाभिव्यञ्जकवाच्यप्रतिपादनसामर्थ्यमेव शब्दस्य माधुर्यम् । तच्च शब्दगतं विशिष्टघटनयैव लभ्यते । अथ सङ्घटना न व्यतिरिक्ता काचित्, अपि तु सङ्घटिता एव
बालप्रिया
ऐक्यप्रसङ्गादिति । घटाद्येकद्रव्याद्याश्रितत्वादिति भावः । ऐक्यप्रसङ्ग परिहरतिसंयोग इत्यादि । द्वितीयमपेक्ष्यमिति । संयोगरूपकार्यस्य द्वयोरुत्पत्या स्वस्मिन् यस्य संयोगो जायते तं प्रति तस्यापेक्षास्तीत्यर्थः । रूपस्य त्वेकस्मिन्नेवोत्पत्त्या न द्वितीयापेक्षेति भावः । परिहारप्रकारस्तुल्य इत्याह “इहे"त्यादि । इहापि गुणेष्वपि । व्यङ्ग्येति । अनेन “गुणास्तु व्यङ्ग्ये"त्यादिग्रन्थो विवृतः । शब्दधर्मत्वञ्चेत्यादिग्रन्थमवतारयतिन चेत्यादि । अयं स्थितः मम पक्षो नेति योजना । एषामिति । गुणानामित्यर्थः । शब्दधर्मत्वं भवत्वित सम्बन्धः । औपचारिकत्वविभागमिति । औपचारिकत्वस्य मुख्यत्वाद्भेदमित्यर्थः । विवेक्तुं ज्ञातुम् । एतदुक्तमथवेत्याद्युक्तम् । इत्येतदिति । उक्तमित्यर्थः । आत्मनिष्ठत्वेऽपीति । आत्मपदेन रसः जीवात्मा च ग्राह्यः । “यदि शब्दाश्रया” इत्यादि “प्राप्तमेवे"त्यन्तग्रन्थस्य तात्पर्यमाहौपचारेणेत्यादि । “गुणा “इत्यन्तस्य विवरणमुपचारेणेत्यादि । इदमिति । अनुपदं नैवम् - वर्णपदव्यङ्ग्यत्वस्य रसादीनां प्रतिपादितत्वात् ।
लोचनं
शब्दाः, तदाश्रितं तत्सामथ्यमिति सङ्घटनाश्रितमेवेत्युक्तं भवतीत तात्पर्यम् । ननु शब्दधर्मत्वं शब्दैकात्मकत्वं वा तावतास्तु, किमयं मध्ये सङ्घटनानुप्रवेश इत्याशङ्क्य स एव पूर्वपक्षवाद्याहन हीति । अर्थविशेषैर्न तु पदान्तरनिरपेक्षशुद्धपदवाच्यैः सामान्यैः प्रतिपाद्या व्यङ्ग्या ये रसभावतदाभासतत्प्रशमास्तदाश्रितानां मुख्यतया तन्निष्ठानां गुणानामसङ्घटिताः शब्दा आश्रया न भवन्त्युपचारेणापीति भावः । अत्र हेतुःवाचकत्वादिति । न ह्यसङ्घटिताः व्यङ्ग्योपयोगिनिराकाङ्क्षरूपं वाच्यमाहरित्यर्थः । एतत्परिहरतिनैवमिति । वर्णव्यङ्ग्यो हि यावद्रस उक्तस्तावदवाचकस्यापि पदस्य श्रवणमात्रावसेयेन स्वसौभाग्येन वर्णवदेव यद्रसाभिव्यक्तिहेतुत्वं स्फुटमेव लक्ष्यत इति तदेव माधुर्यादीति किं सङ्घटनया? तथा च पदव्यङ्ग्यो यावद्ध्वनिरुक्तस्तावच्छुद्धस्यापि पदस्य स्वार्थस्मारकत्वेनापि रसाभिव्यक्तियोग्यार्थवभासकत्वमेव माधुर्यादीति तत्रापि कः सङ्घटनाया उपयोगः ।
बालप्रिया
वक्ष्यमाणमित्यर्थः । तच्च शब्दगतमिति । उक्तसामर्थ्यरूपं शब्दाश्रितं सामर्थ्यञ्चेत्यः । विशिष्टेति । विशिष्टा या शब्दान्तरसङ्घटना तथैव लभ्यत इत्यर्थः । ततः किमत आहअथेत्यादि । अथ अथ च । न व्यतिरिक्ता न शब्दाद्भिन्ना । तदाश्रितं सङ्घटितशब्दाश्रितम् । तत्पूर्वोक्तम् । इतीति हेतौ । सङ्घटनाश्रितमिति । सङ्घटनारूपत्वमप्युक्तरीत्या बोध्यम् । नन्विति । गुणानामिति शेषः. तावतेति । उपचारेणेत्यर्थः । स एवाहेत्यनेन “तच्च शब्दगतं विशिष्टघटनयैवे"ति ग्रन्थेनायमर्थः । स्वयं प्रदर्शिति इति प्रकाश्यते । अर्थविशेषैरिति । परस्परसाकाङ्क्षक्षपदसमुदायप्रतिपाद्यैर्विबावादिरूपैरित्यर्थः । अनेन लब्धं व्यावर्त्यमाहन त्वित्यादि । सामान्यैरिति । सामान्यरूपा अर्थाः पदवाच्या इत्युक्तं प्राक् । अवाचकत्वादित्यस्याननुभावकत्वादित्यर्थमभिप्रेत्य व्याचष्टेन हीत्यादि । शब्दा इति शेषः । वाच्यमाहुः वाक्यार्थमनुभावयन्ति । वर्णेत्यादिग्रन्थस्य भावं विवृणोतिवर्मव्यङ्ग्यो हीत्यादि । यावत्यतः । उक्तः “यस्त्वलक्ष्यक्रमव्यङ्ग्य” इत्यादिना प्रदर्शितः । तावत्ततः । अवाचकस्यापि स्वार्थास्मारकस्यापि । पदस्य वर्णसमुदायरूपस्य । वर्णवत्वर्णस्येव । स्फुटमेव लभ्यत इति । कैमुत्यन्यायेनेति भावः । तथाचेति । स्वार्थास्मारकस्यापि पदस्य रसाभिव्यक्तितहेतुत्वे सिद्धे चेत्यर्थः । शुद्धस्यापीति । असङ्घटितस्यापीत्यर्थः । अभ्युपगते वा वाक्यव्यङ्ग्यत्वे रसादीनां न नियता काचित्सङ्घटना तेषामाश्रयत्वं प्रतिपद्यत इत्यनियतसङ्घटनाः शब्दा एवं गुणानां व्यङ्ग्यविशेषानुगता आश्रयाः । ननु माधुर्ये यदि नामैवमुच्यते तदुच्यताम् - ओजसः पुनः कथमनियतसङ्घटनशब्दाश्रयत्वम् । न ह्यसमासा सङ्घटना कदाचिदोजस आश्रयतां प्रतपद्यते । उच्यते यदि न प्रसिद्धिमात्रग्रहदूषितं चेतस्तदत्रापि न न ब्रूमः । ओजसः कथमसमासा सङ्घटना नाश्रयः । यतो रौद्रादीन् हि प्रकाशयतः काव्यस्य दीप्तिरोज इति प्राक्प्रतिपादतम् । तच्चौजो यद्यसमासायामपि सङ्घटनायां स्यात्तत्को दोषो भवेत् । न
लोचनं
ननु वाक्यव्यङ्ग्ये ध्वनौ तर्ह्यवश्यमनुप्रवेष्टव्यं सङ्घटनया स्वसौन्दर्य वाच्यसौन्दर्यं व्, तया विना कुत इत्याशङ्क्याहअभ्युपगत इति । वाशब्दोऽपिशब्दार्थे, वाक्यव्यङ्ग्यत्वेऽपीत्यत्र योज्यः । एतदुक्तं भवतिअनुप्रविश तत्र सङ्घटना, न हि तस्याः सन्निधानंप्रत्याचक्ष्महे । किं तु माधुर्यस्य न नियता सङ्घटना आश्रयो वा स्वरूपं वा तया विना वर्णपदव्यङ्ग्ये रसादौ भाव्रान्माधुर्यादेः वाक्यव्यङ्ग्येऽपि तादृशीं सङ्घटनां विहायापि वाक्यस्य तद्रसव्यञ्जकत्वात्सङ्घटना सन्निहितापि रसव्यक्तावप्रयोजिकेति । तस्मादौपचारिकत्वेऽपि शब्दाश्रया एव गुणा इत्युपसंहरतिशब्दा एवेति । नन्विति । वाक्यव्यङ्ग्यध्वन्यभिप्रायेणेदं मन्तव्यमिति केचित् ।
बालप्रिया
नन्वित्यादि । सङ्घटनया सङ्घटनाविशेषेण । स्वेति । वाक्यसौन्दर्यमित्यर्थः । वृत्तौ “तेषाम्” इति । गुणानामित्यर्थः । “व्यङ्ग्यविशेषानुगता” इति । व्यङ्ग्यविशेषावभासिन इत्यर्थः । “अभ्युपगत” इत्यादिग्रन्थस्य भावमाह लोचनेएतदित्यादि । मादुर्यस्येति । माधुर्यादेरित्यर्थः । नियता सङ्घटना मादुर्यस्याश्रयो वा स्वरूपं वा नेत्यन्वयः । अत्र हेतुमाहतयेत्यादि । भावान्माधुर्यादेरिति । मादुर्यादेस्सत्वादित्यर्थः । भावादित्यन्तेन व्यभिचारः प्रदर्शितः । अत एवाहवाक्येत्यादि । रसादावित्यनुषङ्गः । सङ्घटनां विहायापि सङ्घटनायास्सहकारित्वमन्तरेणापि । तद्रसव्यञ्जकत्वात्तत्तद्रसव्यञ्जकत्वसम्भवात् । अप्रयोजिका अनुपयोगिनी । वृत्तौ “नन्वि"त्यादि । “एवम्” इति । अनियतसङ्घटनशब्दाश्रयत्वमित्यर्थः । “तत्तदा उच्यतां” तथा उच्यताम् । “पुन"रिति विशेषे । “अत्रापि न न ब्रूम” इति । अस्मिंमश्चोद्येऽपि उत्तरं ब्रूम एवेत्यर्थः । लोचनेवाक्यव्यङ्ग्येत्यादि । इदमिति । चोद्यमित्यर्थः । मन्तव्यमिति । वाक्य एव सङ्धटनायास्सम्भवादिति भावः । चाचारुत्वं सहृदयहृदयसंवेद्यमस्ति । तस्मादनियतसङ्घटनशब्दाश्रयत्वे गुणानां न काचित्क्षतिः । तेषां तु चक्षुरादीनामिव यथास्वं विषयनियमितस्य स्वरूपस्य न कदाचिद्य्वभिचारः । तस्मादन्ये गुणा अन्या च सङ्घटना । न च सङ्घटनामाश्रिता गुणा इत्येकं दर्शनम् । अथवा सङ्घटनारूपा एव गुणाः । यत्तूक्तम् “सङ्घटनावद्गुणानामप्यनियतविषयत्वं प्राप्नोति । लक्ष्ये व्यभिचारदर्शनात् । " इति । तत्राप्येतदुच्यते यत्र लक्ष्ये परिकल्पितविषय व्यभिचारस्तद्वरूपमेवास्तु । कथमचारुत्वं तादृशे विषये सहृदयानां नावभातीति चेत्? कविशक्तितिरोहतत्वात् । द्विविधो हि दोषःकवेरव्युत्पत्तिकृतोऽशक्तिकृतश्च । तत्राव्युत्पत्तिकृतो दोषः शक्तितिरस्कृतत्वात्कदाचिन्न लक्ष्यते । यस्त्वशक्तिकृतो दोषः । स झटिति प्रतियते । परकरश्लोकश्चात्र “अव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः । यस्त्वशक्तिकृतस्तस्य स झटित्यवभासते ॥ "
लोचनं
वयं तु ब्रमःवर्णपदव्यङ्ग्येऽप्योजसि रौद्रादिस्वभावे वर्णपदानामेकाकिनां स्वसौन्दर्यमपि न तादृगुन्मीलति ताद्यावत्तानि सङ्घटनाङ्कितानि न कृतानीति सामान्येनैवायं पूर्वपक्ष इति । प्रकाशयत इति “लक्षणहेत्वोः” इति शतृप्रत्ययः । रौद्रादिप्रकाशनालक्ष्यमाणमोज इति भावः । न चेति । चशब्दो हेतौ । यस्मात् “योयः शस्त्रं” इत्यादौ नाचारुत्वं प्रतिभावति तस्मादित्यर्थः । तेषान्त्विति गुणानाम । यथास्वमिति । “शृङ्गार एव परमो मनःप्रह्लादनो रसः” इत्यादिना च विषयनियम उक्त एव । अथवेति ।
बालप्रिया
वर्णेत्यादि । ओजसो वर्णपदव्यङ्ग्यत्वेऽपीत्यर्थः । रौद्रादिस्वभावे रौद्रादिरसधर्मे । तादृक्सातिशयम् । तावन्नोन्मीलतीति सम्बन्धः । तानीति । वर्णपदानीत्यर्थः । सङ्घचनाङ्कितानीति । सङ्घटनाविशिष्टनीत्यर्थः । सामान्येनैवेति । वर्मपदवाक्यव्यङ्ग्यध्वनिसामान्याभिप्रायेणैवेत्यर्थः । रौद्रादीति । रौद्रादेः प्रकाशनेन आलक्ष्यमाणमनुमीयमानमित्यर्थः । नाचारुत्वमिति । अचारुत्वं न प्रतिभातीत्यन्वयः । वृत्तौ “तेषाम्” इति । गुणानामित्यर्थः । स्वरूपस्येत्यनेन सम्बन्घः । तथा हिमहाकवीनामप्युत्तमदेवताविषयप्रसिद्धसंभोगशृङ्गारनिबन्धनाद्यनौचित्यं शक्तितिरस्कृतत्वात्ग्राम्यत्वेन न प्रतिभासते । यथा कुमारसम्भवे देवीसम्भोगवर्मनम् । एवमादौ च विषये यथौचित्यात्यागस्तथा
लोचनं
रसाभिव्यक्तावेतदेव सामर्थ्यं शब्दानां यत्तथा तथा सङ्घटमानत्वमिति भावः । शक्तिः प्रतिभानं वर्णनीयवस्तुविषयनूतनोल्लेखशालित्वम् । व्युत्पत्तिस्तदुपयोगिसमस्तवस्तुपौर्वापर्यपरामर्शकौशलम् । तस्येति कवेः । अनौचित्यमिति । आस्वादयितॄणां यः चमत्काराविघतस्तदेव रससर्वस्वं आस्वादायत्तत्वात् । उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लज्जातङ्कादिना कश्चमत्कारावकाश इत्यर्थः । शक्तितिरस्कृतत्वादिति । संभोगोऽपि ह्यसौ वर्णितस्तथा प्रतिभानवता कविना यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्शं कर्तुं न ददाति यथा निर्व्याजपराक्रमस्य पुरुषस्याविषयेऽपि युध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते न तु पौर्वापर्यपरामर्शे
बालप्रिया
“विषये"ति । चक्षुरादीनां विषया रूपादयः गुणानान्तु रसाः । “दर्शनम्” इति । मतमित्यर्थः । अथवेत्यादिग्रन्थस्य भावमाह लोचनेरसेत्यादि । तथा तथेति । तत्तद्रसानुगुण्येनेत्यर्थः । इति भाव इति । शब्दगतं माधुर्यादिकं शृङ्गारादि तत्तद्रसाभिव्यञ्जनसामर्थ्यमेव, तच्च तथा तथासङ्घटनाया । अतस्सङ्घटनारूपा एव गुणा इति भावार्थ इत्यर्थः । वृत्तौ “यत्त्वि"त्यादि । इति यत्तूक्तमित्यन्वयः । “यत्र लक्ष्ये” इति । “अनवरते"त्यादौ, “यो यश्शस्त्रम्” इत्यादौ चेत्यर्थः । “परिकल्पिते"ति । “असमासे"त्याद्युक्तविषयस्य व्यभिचार इत्यर्थः । शक्तिव्युत्पत्तिपदे विवृणोति लोचनेशक्तिरित्यादि । तदुपयोगीत । तस्य वर्णनीयस्य उपयोगीनि यानि वस्तूनि तेषां पौर्वापर्येण यः परामर्शस्तत्र कौशलं सामर्थ्यमित्यर्थः । उत्तमदेवताविषयसम्भोगशृङ्गारनिबन्धनस्यानौचित्यं विवृणोतिय इत्यादि । चमत्काराविधातः चमत्कारविघातकाभावः । पितृसम्भोग इति । मातापित्रोस्सम्भोगस्य परामर्श इत्यर्थः । “शक्तितिरस्कृतत्वा “दित्यादिग्रन्थं विवृणोतिसम्भोगोऽपीत्यादि । असाविति । उत्तमदेवताविषय इत्यर्थः । तत्रैव वर्णिते सम्भोग एव । हृदयं कर्तृ । न ददाति स्वात्मानं, सहृदयस्येति शेषः । यद्वास इति शेषः । वर्णितस्सम्भोग इत्षथः । हृदयं कर्म । अविषयेऽपीति । बालगुरुजनादिविषयेऽपीत्यर्थः । तस्मिन्नवसर युद्धकाले । वितीर्यते पश्यद्भिः दीयते । वृत्तौ “यथौचित्यात्याग “इति । यथा येन प्रकारेम वर्णने । औचित्यात्यागः अनौचित्याभावः । “दर्सिताम"ति । विभावभावेत्यादिग्रन्थजातेन प्रदर्शितमित्यर्थः । “अग्रे” उपरि । नन्वेवं दर्शयिष्यत इति वक्तव्यं न तु दर्शितमितीत्यत आह लोचने दर्शितमेवाग्रे । शक्ततिरस्कृतत्वं चान्वयव्यतिरेकाभ्यामवसीयते । तथा हि शक्तिरहतेन कविना एवंविदे विषये शृङ्गार उपनिबध्यमानः स्फुटमेव दोषत्वेन प्रतभासते । नन्वस्मिन् पक्षेऽयो यः शस्त्रं बिभर्ति” इत्यादौ किमचारुत्वम्? अप्रतीयमानमेवारोपयामः । तस्माद्गुणव्यतिरिक्तत्वे गुणरूपत्वे च सङ्घटनाया अन्यः कश्चिन्नियमहेतुर्वक्तव्य इत्युच्यते ।
. . . . तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः ॥ कारिका३.६ ॥
तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः ॥ ६ ॥
तत्र वक्ता कविः कविनिबद्धो वा, कविनिबद्धश्चापिरसभावरहितो रसभावसमन्वितो वा, रसोऽपि कथानायकाश्रयस्तद्विपक्षाश्रयो वा, कथानायकश्च धीरोदात्तादिभेदभिन्नः पूर्वस्तदनन्तरो वेति विकल्पाः । वाच्यं चध्वन्यात्मरसाङ्गं
लोचनं
तथात्रापीति भावः । दर्शितमेवेति । कारिकाकारेणेति भूतप्रत्ययः । वक्ष्यते हि “अनौचित्याद्दते नान्यद्रसभङ्गस्य कारणम्” इत्यादि । अप्रतीयमानमेवेति । पूर्वापरपरामर्शविवेकशालिभिरपीत्यर्थः । गुणव्यतिरिक्तत्व इति । व्यतिरेकपक्षे हि सङ्घटनाया नियमहेतुरेव नास्ति ऐक्यपक्षेऽपि न रसो नियमहेतुरित्यन्यो वक्तव्यः । तन्नियम इति कारिकावशेषः । कथां नयति स्वकर्तव्याङ्गभावमिति कथानायको यो निर्वहणे फलभागी । धीरोदात्तादीति । धर्मयुद्धवीरप्रधानो धीरोदात्तः वीररौद्रप्रधानो धीरोद्धतः । वीरशृङ्गारप्रधानो धीरललितः । दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति चत्वारो नायकाः क्रमेण सात्वत्यारभटीकैशिकीभारतीलक्षणवृत्तिप्रधानाः । पूर्वः कथानायकस्तदनन्तर उपनायकः । विकल्पा इति । वक्तृभेदा इत्यर्थः । वाच्यमिति ।
बालप्रिया
कारिकाकारेणेति । कारिकावचनस्य निष्पन्नत्वात्भूतनिर्देश उपपन्न इति भावः । वक्ष्यते हीति । वृत्तिकारेण चेति शेषः । वृत्तौ नन्वित्यादि । “अस्मिन् पक्षे” इति । सङ्घटनारूपा एव गुणा इति पक्ष इत्यर्थःृ । “किमचारुत्व “मिति चोद्यम् । तत्रोत्तरम् “अप्रतीयमानम्” इत्यादि । अचारुत्वमित्यनुषङ्गः । कैरप्रतीयमानमित्यत्राह लोचनेपूर्वेत्यादि । विवृणोतिव्यतरेकपक्षे हीत्यादि । नास्तीति । गुणानां विषयनियम एवोक्तः सङ्घटनायां नियमहेतुः कोऽपि नोक्त इत्यर्थः । न रसो नियमहेतुरिति । लक्ष्येषु व्यभिचारादिति भावः । वृत्तौ “इत्युच्यत” इति । इत्यतो हेतोर्नियमहेतुः प्रदर्शत इत्यर्थः । कारिकावशेष इति । न तु वृत्तिकृता पूरितमिति भावः । कथानायकपदं व्याचष्टेकथामित्यादि । स्वकर्तव्येति । स्वसाध्येत्यर्थः । स्वपदं फलभागिपरम् । धर्मेति । धर्मवीरयुद्धवीरप्रधान इत्यर्थः । धीरोद्धतादीनां क्रमेण रौद्रशृङ्गारशान्तप्राधान्येऽपि तेषूत्साहस्याप्यवश्यम्भावित्वादाहवीरेत्यादि । सात्वतीत्यादि । रसाभासाङ्गं वा, अभिनेयार्थमनभिनेयार्थं वा, उत्तमप्रकृत्याश्रयं तदितराश्रयं वेति बहुप्रकारम् । तत्र यदा कविरपगतरसभावो वक्ता तदा रचनायाः
लोचनं
ध्वन्यातामा ध्वनिस्वभावो यो रसस्तस्याङ्गं व्यञ्जकमित्यर्थः । अभिनेयो वागङ्गसत्वाहार्यैराभिमुख्यं साक्षात्कारप्रायं नेयोऽर्थो व्यङ्ग्यरूपो ध्वनिस्वभावो यस्य तदभिनेयार्थं वाच्यं, स एव हि काव्यार्थ इत्युच्यते । तस्यैव चाभिनयेन योगः । यदाह मुनिः “वागङ्गसत्त्वोपेतात्काव्यार्थान् भावयन्ति” इत्यादि तत्र तत्र । रसाभिनयनान्तरीयकतया तु तद्विभावादिरूपतया वाच्योऽर्थोऽभिनीयत इति वाच्यमभिनेयार्थमित्येषैव युक्तरा वाचोयुक्तिः । न त्वत्र व्यपदेशिवद्भावो व्याख्येयः, यथान्यैः । तदितरेति । मध्यमप्र त्याश्रयमधमप्रकृत्याश्रयञ्चेत्यर्थः । एवं वक्तृभेदान्वाच्यभेदांश्चाभिधाय तद्गतमौचित्यं नियामकमाहतत्रेति । रचनाया इति सङ्घटनायाः । रसभावहीनोऽनाविष्ठस्तापसादिरुदासीनोऽपीतिवृत्ताङ्गतया यद्यपि प्रधानरसानुयाय्येव, तथापि तावति
बालप्रिया
सात्वत्यादिवृत्तीनां लक्षणान्यन्यत्र द्रष्टव्यानि । “वकल्पा” इति पदं प्रकृतानुगुण्येन व्याचष्टेवक्तृभेदा इति । “वक्तृवाच्ययोऽरित्युक्तवक्त्रवान्तर भेदा इत्यर्थः । वाच्यमभिनेयार्थमित्येतद्व्याचष्टेअभिनेय इत्यादि । वागित्यादि । चतुर्विधैरित्यर्थः । व्यङ्ग्यरूप इत्यस्यैव विवरणम्ध्वनिस्वभाव इति । ध्वन्यात्मेत्यर्थः । उक्तमुपपादयतिस एवेत्यादि । स एव व्यङ्ग्य एव । अभिनयेन योगः अभिनेतव्यत्वम् । वागङ्घेति भावयन्तीत्यन्तं भावा इत्यस्य व्युत्पत्तिकथनम् । इत्यादि तत्र तत्राहेति सम्बन्धः । काव्येनार्थ्य इति व्युत्पत्या काव्यार्थशब्दो व्यङ्ग्यरसादिवाचीति भावः । नन्वेवं वाच्यार्थाभिनयः किं नास्तीत्यत्राहरसाभिनयेत्यादि । व्याख्यानमुपसंहरतिइतीत्यादि । इतीति हेतौ । इत्येषा वाचोयुक्तिरेव युक्ततरेत्यन्वयः । उक्तव्याख्यैवातिशयेन युक्तेत्यर्थः । न त्वित्यादि । यदि वाच्यस्यैवाभिनेयत्वं, तदा वाच्यमभिनेयार्थमित्यत्र अभिनेयः अर्थो यस्येति विग्रहे यत्पदार्थस्य वाच्यस्य अर्थपदार्थस्य चैक्यात् “राहोशिशर” इत्यादाविव व्यपदेशिवद्भावेन भेदविवक्ष्या षष्ठीति व्याख्यात इति शेषः । कविनिबद्धो वक्ता रसभावरहित इत्यस्यार्थ प्रदर्श्य तत्रानुपपत्तिमाशङ्क्य परिहरतिरसभावहीन इत्यादि । रसभावहीन इत्यस्य विवरणमनाविष्ट इति । रसाद्यावेशरहित इत्यर्थः । स क इत्यत्राहतापसादिरित्यादि । अपीति समुच्चये । प्रधानरसानुयाय्येवेति । तथाच तस्य तत्तच्चित्तवृत्त्यावेशेन कामचारः । यदापि कविनिबद्धो वक्ता रसभावरहितस्तदा स एव - यदा तु कविः कविनिबद्धो वा वक्ता रसभावसमन्वितो रसश्च प्रधानाश्रितत्वाद्ध्वन्यात्मभूतस्तदा नियमेनैव तत्रासमासामध्यसमासे एव सङ्घटने । करुणविप्रलम्भशृङ्गारयोस्त्वसमासैव सङ्घटना । कथमिति चेत् -ुच्यते रसो यदा प्राधान्येन प्रितपाद्यस्तदा तत्प्रतीतौ व्यवधायका विरोधिनश्च सर्वात्मनैव परिहार्याः । एवं च दीर्घसमासासङ्घटनासमासानामनेकप्रकारसम्भावनया कदाचिद्रसप्ततीतिं व्यवदधातीति तस्यां नात्यन्तमभिनिवेशः
लोचनं
रसादिहीन इत्युक्तम्. स एवेति कामचारः । एवं शुद्धवक्त्रौचित्यं विचार्य वाचौचित्येन सह तदेवाहयदा त्विति । कविर्यद्यपि रसाविष्ट एव वक्ता युक्तः । अन्यथा “स एव वीतरागश्चेत्” इति स्थित्या नीरसमेव काव्यं स्यात् । तथापि यदा यमकादिचित्रदर्शनप्रधानोऽसौ भवति, तदा “रसादिहीन” इत्युक्तम् । नियमेन रसभावसन्वितो वक्ता न तु कथञ्चिदपि तटस्थः । रसश्च ध्वन्यात्मभूत एव न तु रसवदलङ्कारप्रायः । तदासमासामध्यसमासे एव सघङ्टने, अन्यथा तु दीर्घसमासापीत्येवं योज्यम् । तेन नियमशब्दस्य द्वयोश्चैवकारयोः पौनरुक्त्यमनाशङ्क्यम् । कथमिति चेदिति । किं धर्मसूत्रकारवचनमेतदिति भावः । उच्यत इति । न्यायोपपत्त्येत्यर्थः । तत्प्रतीताविति । तदास्वादे ये व्यवधायका अस्वादविघ्नरूपाविरोधिनश्च तद्विपरीतास्वादमया इत्यर्थः । सम्भावनयेति । अनेकप्रकारः सम्भाव्यते सङ्घटना तु सम्भावनायां प्रयोक्त्रीति
बालप्रिया
भाव्यमिति भावः । तावतीति । स्वस्मिन्नित्यर्थः । इत्युक्तमिति । रसभावरहित इत्यनेन नैसर्गिकं तद्राहित्यं विवक्षितमित्यर्थः । शुद्धेति । शुद्धमन्येनासम्मिश्रं यद्वक्त्रौचित्यन्तदित्यर्थः । यदा तु कविरित्यादिना कदाचिद्रसभावरहितत्वं कवेर्भवतीति गम्यते पूर्वमुक्तञ्ज, तस्यानुपपत्तिमुद्भाव्य परिहरतिकविर्यद्यपीत्यादि । स एवेति । श्लोकोऽयं प्रदर्शयिष्यते । “तदा नियमेनैव समासे एव” इत्यत्र नियमेनेति पदमेवकारद्वयञ्च यथायथं योजयंस्तत्तद्व्यवच्छेद्यमर्थञ्च दर्शयन्विवृणोतिनियमेनेत्यादि । तेनेति । उक्तेन योजनेनेत्यर्थः । किन्धर्मेत्यादि । धर्मसूत्रकारवचनं हि युक्तिरहितमप्यादरणीयमिति भावः । आस्वादनविध्नरूपा इति । आस्वादनविघ्नाः संशयादयोऽभिनवभारत्यादौ दर्शिताः । तद्विपरीतेति । प्रधानरसविपरीतेत्यर्थः । सम्भावनयेत्यत्र णिजन्ताण्णजित्याहअनेकेत्यादि । सम्भाव्यत इति । प्रतिपत्तृभिरिति शेषः । प्रयोक्त्रीति । प्रयोजककर्त्रीत्यर्थः । वृत्तौ “विशेषत” इत्यादि । तस्यामित्यादेरनुषङ्गः । अभिनेयार्थे काव्ये तस्थामत्यन्तमभिनिवेशो विशेषतो न शोभते । विशेषतोऽभिनेयार्थे काव्ये, ततोऽन्यत्र च विशेषतः करुणविप्रलम्भशृङ्गारयोः । तयोर्हि सुकुमारतरत्वात्स्वल्पायामप्यस्वच्छतायां शब्दार्थयोः । प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यमसमासा सङ्घटना कदाचिद्धीरोद्धतनायकसम्बन्धव्यापाराश्रयेण दीर्घसमासापि वा तदाक्षेपाविनाभाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या । सर्वासु च सङ्घटनासु प्रसादाख्यो गुणो व्यापी ।
लोचनं
द्वौ णिचौ । विशेषतोऽभिनेयार्थेति । अत्रुटितेन व्यङ्ग्येन तावत्समासार्थाभिनयो न शक्यः कर्तुम् । काक्वादयोऽन्तरप्रसादगानादयश्च । तत्र दुष्प्रयोजा बहुतरसन्देहप्रसरा च तत्र प्रतिपत्तिर्न नाट्येऽनुरूपा स्यात् । प्रत्यक्षरूपत्वात्तस्या इति भावः । अन्यत्र चेति । अनभिनेयार्थेऽपि । मन्थरीभवतीति । आस्वादो विघ्नितत्वात्प्रतिहन्यत इत्यर्थः । तस्या दीर्घसमाससङ्घटनायाः य आक्षेपस्तेन विना यो न भवति व्यङ्ग्याभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यस्तस्य यासावपेक्षा दीर्घसमाससङ्घटनां प्रति सा अवैगुण्ये हेतुः । नायकस्याक्षेपो व्यापार इति यद्व्याख्यातं तन्न श्लिष्यतीवेत्यलम् । व्यापीति । या काचित्सङ्घटना सा तथा कर्तव्या, यथा वाच्ये झटिति भवति प्रतीतिरिति यावत् । उक्तमिति । “समर्पकत्वं काव्यस्य यत्तु” इत्यादिना । न व्यनक्तीति ।
बालप्रिया
शोभत इत्यन्वयः । कुत एतदिति जज्ञासां परिहर्तुं भावमाहअत्रुटितेनेत्यादि । तत्रेति प्रतिवाक्यं योज्यं, दीर्घसमासायां सङ्घटनायां सत्यामिति तदर्थः । अत्रुटितेन व्यङ्ग्येन कर्तुं न शक्यः, किन्तु व्यङ्ग्यार्थत्रोटनं कृत्वैव कर्तव्यो भवेदिति भावः । दोषान्तराण्यप्याहकाक्वदय इत्यादि । अन्तरेति । अन्तरे मध्ये प्रसादार्था ये गानादयस्ते । दुष्प्रयोजाः दुःखेन प्रयोज्याः । तत्र बहुतरसन्देहप्रसरा प्रतिपत्तिश्च स्यात्. सा नाट्ये न अनुरूपा च इति योजना । अत्र हेतुमाहप्रत्यक्षेति । संशयादिविध्नरहितसाक्षात्काररूपत्वादित्यर्थः । तस्या इति । नाट्यप्रतीतेरित्यर्थः । नाट्यन्नाम रसचर्वणात्मकप्रतीतिरूपमित्यभिनवभारत्यामुक्तम् । वृत्तौ “तत्रान्यत्र चे"ति । तस्यामित्यादेरनुषङ्गोऽत्रापि बोध्यः । लोचने भावार्थमाहआस्वाद इत्यादि । वृत्तौ “रसान्तर” इत्यादि । रौद्रादौरसान्तरे पुनः प्रतिपाद्ये मध्यमसमासासङ्घटना विगुणा न भवत कदाचिद्दीर्घसमासापि वा सङ्घटना विगुणा न भवतीति सम्बन्धः । दीर्घसमासाया अवैगुण्ये हेतुस्तदाक्षेपेत्यादिः । एतं ग्रन्धं व्याचष्टेतस्या इत्यादि । सङ्घटनाया इति कर्मणि षष्ठी । आक्षेपः स्ववाचकशब्दसमुदाये आकर्षः योजनमिति यावत् । तेनाविनाभावीति वाच्यस्य विशेषणमित्याहतेनेत्यादि । स हि सर्वरससाधारणः सर्वसङ्घटनासाधारणश्चेत्युक्तम् । प्रसादातिक्रमं ह्यसमासापि सङ्घटना करुणविप्रलम्भशृङ्गारौ न व्यनक्ति । तदपरित्यागे च मध्यमसमासापि न न प्रकाशयति । तस्मात्सर्वत्र प्रसादोऽनुसर्तव्यः । अत एव च “यो यः शस्त्रं बिभर्ति” इत्यादौ यद्योजसः स्थितिरनेष्यते तत्प्रसादाख्य एव गुणो न माधुर्यम् । न चाचारुत्वम् - अभिप्रेतरसप्रकाशनात् । तस्माद्गुणाव्यतिरिक्तत्वे गुणव्यतिरिक्तत्वे वा सङ्घटनाया यथोक्तादौचित्याद्विषयनियमोऽस्तीति तस्या अपि रसव्यञ्जकत्वम् । तस्याश्च रसाभिव्यक्तिनिमित्तभूताया योऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् ।
लोचनं
व्यञ्जकस्य स्ववाच्यस्यैवाप्रत्यायनादिति भावः । तदिति । प्रसादस्यापरत्यागे अभीष्टत्वादत्रार्थे स्वकण्ठेनान्वयव्यतिरेकावुक्तौ । न माधुर्यमिति । ओजोमाधुर्ययोर्ह्यन्योन्याभावरूपत्वं प्राङ्निरूपितमिति तयोः सङ्करो"त्यन्तं श्रुतिबाह्य इति भावः । अभिप्रेतेति । प्रसादेनैव स रसः प्रकाशितः न न प्रकाशित इत्यर्थः । तस्मादिति । यदि गुणाः सङ्घटनैकरूपास्तथापि गुणानियम एव सङ्घटनाया नियमः । गुणाधीनसङ्घटनापक्षेऽप्येवम् । सङ्घटनाश्रयगुणपक्षेऽपि सङ्घटनाया नियामकत्वेन यद्वक्तृवाच्यौचित्यं
बालप्रिया
यो वाच्यो व्यङ्ग्याभिव्यञ्जको न भवतीति सम्बन्धः । स्वस्ववाचकशब्दानां दीर्घसमाससङ्घटनाङ्कितत्वे सत्येव वाच्यार्था व्यञ्जका भवन्तीति भावः । अपेक्षयेत्यस्य विगुणा न भवतीत्यनेनान्वय इत्याहसेत्यादि । तदाक्षेपेत्यत्र व्याख्यानान्तरं प्रदर्श्य निराकरोतिनायकस्येत्यादि । न श्लिष्यतीति । अन्वयानुगुणुया भावादिति भावः । प्रसादाख्यो गुणो व्यापीत्युक्तं विवणोति येत्यादि । या काचित्सङ्घटना सेति । दीर्घसमादिरूपा सङ्घटनेत्यर्थः । अभीष्टत्वादिति । प्रसादानुसरणस्याभिप्रेतत्वादित्यर्थः । उक्तावित्यनेनास्य सम्बन्धः । अत्रार्थैति । सर्वत्र प्रसादस्यानुसर्तव्यत्व इत्यर्थः । स्वकण्ठेनेत्यादि । तदपरित्यागे न न प्रकाशयतीत्यनेनान्वयः, प्रसादातिक्रम इत्यादिना व्यतिरेकश्चोक्त इत्यर्थः । भावमाहओजो माधुर्ययोरित्यादि । अन्योन्येति । माधुर्याभावरूपत्वमोजसस्तदभावरूपत्वं माधुर्यस्य चेत्यर्थः । सङ्कर इति । शृङ्गारादावोजसो रौद्रादौ माधुर्यस्य च समावेश इत्यर्थः । श्रुतिबाह्य इति । अश्रुत इत्यर्थः । तस्मादित्याद्यविरुद्धमित्यन्तग्रन्थस्य तात्पर्यमाहयदि गुणा इत्यादिना ॥ ५६ ॥
विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति । काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा ॥ कारिका३.७ ॥
विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति । काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा ॥ ७ ॥
वक्तृवाच्यगतौचित्ये सत्यपि विषयाश्रयमन्यदौचित्यं सङ्घटनां नियच्छति । यतः काव्यस्य प्रभेदा मुक्तकं संस्कृतप्राकृतापभ्रंशनिबद्धम् । सन्दानितकविशेषककलापककुलकानि । पर्यायबन्धः परिकथा खण्डकथा सकलकथे सर्गबन्धोऽभिनेयार्थमाख्यायिकाकथे इत्येवमादयः । तदाश्रयेणापि
लोचनं
हेतुत्वेनोक्तं तद्गुणानामपि नियमहेतुरिति पक्षत्रयेऽपि न कश्चिद्वप्लव इति तात्पर्यम् ॥ ५॥ ,६ ॥ नियामकान्तरमप्यस्तीत्याहविषयाश्रयमिति । विषयशब्देन सङ्घातविशेष उक्तः । यथा हि सेनाद्यात्मकसङ्घातनिवेशी पुरूषः कातरोऽपि तदौचित्यादनुगुणतयैवास्ते तथा काव्यवाक्यमपि सङ्घातविसेषात्मकसन्दानितकादिमध्यनिविष्टं तदौचित्येन वर्तते । मुक्तकं तु विषयशब्देन यदुक्तं तत्सङ्घाताभावेन स्वातन्त्र्यमात्रं प्रदर्शयितुं स्वप्रतिष्ठितमाकाशमिति यथा । अपिशब्देनेदमाहसत्यपि वक्तृवाच्यौचित्ये विषयौचित्यं केवलं तारतम्यभेदमात्रव्याप्तम्, न तु विषयौचित्येन वक्तृवाच्यौचित्यं निवार्यत इति । मुक्तमिति । मुक्तमन्येनानालिङ्गितं तस्य सञ्ज्ञायां कन् । तेन स्वतन्त्रतया परिसमाप्तनिराकाङ्क्षार्थमपि प्रबन्धमध्यवर्ति न मुक्तकमित्युच्यते । मुक्तकस्यैव
बालप्रिया
सदृष्टान्तं विवृणोतियथेत्यादि । सेनेति । सेनाद्यात्मको यस्सङ्घातः समुदायः तत्र निवेशी निविष्टः । कातरोऽपीति । स्ततः अधीरोऽपीत्यर्थः । कातरादिरपीति च पाठः । तदनुगुणतयेति । सेनाद्यनुगुणतयेत्यर्थः । अकातरत्वेनेति यावत् । काव्यवाक्यमिति । काव्यरूपं वाक्यमित्यर्थः । नन्वेवं मुक्तकस्यैकपद्यात्मकस्य सङ्घातरूपत्वाभावात्वृत्तौ तस्य काव्यप्रभेदत्वेन कथनं किमर्थमित्यत आहमुक्तकन्त्वित्यादि । तत्तद्वचनम् । सङ्घाताभावेन सङ्घातरूपत्वाभावेन । स्वातन्त्र्येति । मुक्तकस्यापि रसस्यन्दित्वात्सङ्घटनानियमने स्वातन्त्र्यमस्तीत्येतावन्मात्रं प्रदर्शयितुं मुक्तकमपि काव्यप्रभेदत्वेनोक्तमित्यर्थः । अत्र दृष्टान्तमाहस्वेत्यादि । पृथिव्यादीनाञ्चतुर्णामाकाशे प्रतिष्ठितत्वमित्युक्तावाकाशस्य कुत्र प्रतिष्ठेति प्रश्ने प्रतिवाक्यमिदमाकाशं स्वस्मिन्नाकाशे प्रतिष्ठितमिति ब्रह्म ब्रह्मणीव आकाशमाकाश एव प्रतिष्ठितन्नान्यत्रेत्यर्थः । यथैतद्वचनमाकाशस्य स्वातन्त्र्यप्रदर्शकमात्रं तथेत्यर्थः । सत्यपीति । सत्येवेत्यर्थः । तारतम्येति । तारतम्यभेदमात्रप्रयोजकमित्यर्थः । अन्येनानालिङ्गितमिति । निराकाङ्क्षप्रतिपत्तये स्वेतरानपेक्षीत्यर्थः । संज्ञायां कननिति । अनेन सङ्घटना विशेषवती भवति । तत्र मुक्तमेषु रसबन्धाभिनेवेशिनः कवेस्तदाश्रयमौचित्यम् । तच्च दर्शितमेव । अन्यत्र कामचारः ।
लोचनं
विशेषणं संस्कृतेत्यादि । क्रमभावित्वात्तथैव निर्देशः । द्वाभ्यां क्रियासमाप्तौ सन्दानितकम् । त्रिभिर्विशेषकम् । चतुर्भिः कलापकम् । पञ्चप्रभृतिभिः कुलकम् । इति क्रियासमाप्तिकृता भेदा इति द्वन्द्वेन निर्दिष्टाः अवान्तरक्रियासमाप्तावपि वसन्तवर्णनादरेकर्णनीयोद्देशेन प्रवृत्तः पर्यायबन्धः । एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रकारा परिकथा । एकदेशवर्णना खण्डकथा । समस्तफलान्तेतिवृत्तवर्णना सकलकथा । द्वेयोरपि प्राकृतप्रसिद्धत्वाद्द्वन्द्वेन निर्देशः । पूर्वेषां तु मुक्तकादीनां भाषायामनियमः । महाकाव्यरूपः पुरुषार्थफलः समस्तवस्तुवर्णनाप्रबन्धः सर्गबन्धः संस्कृत एव । अभिनेयार्थं दशरूपकं नाटिकात्रोटकरासकप्रकरणिकाद्यवान्तरप्रपञ्चसहितमनेकभाषाव्यामिश्ररूपम् । आख्यायिकोच्छ्वासादिना वक्त्रापरवक्त्रादिना च युक्ता । कथा तद्विरहता । उभयोरपि गद्यबन्धस्वरूपतया द्वन्द्वेन निर्देशः । आदिग्रहणाच्चम्पूः । यथाह दण्डी “गद्यपद्यमयी चम्पूः” इति । अन्यत्रेति । रसबन्धानभिनिवेशे ।
बालप्रिया
रूढिर्दर्शिता । तेनेति । रूढेरपि सत्वेनेत्यर्थः । न मुक्तकमित्युच्यत इति । प्रबन्धानन्तर्गत एव रूढिस्वीकारादिति भावः । संस्कृतप्राकृतापभ्रंशनिबद्धमित्येकवचनान्तत्वेन निर्देशादाहमुक्तकस्यैवेत्यादि । विशेषणमिति । एकवचनान्तत्वेनोक्तेरेति शेषः । सन्दानितकेत्यादिना तु विपरिणामेन तत्पदं योज्यमिति भावः । एतेन पूर्वेषान्तु मुक्तकादीनां भाषायामनियम इति बक्ष्यमाणस्य नासङ्गतिः । हेमचन्द्रेणाप्येवमुक्तं “एतानि सर्वभाषाभिर्भवन्ती"ति । संस्कृतादीनां लक्षणानि काव्यादर्शादावुक्तानि । क्रमभावित्वादिति । संस्कृतात्प्राकृतस्य तस्मादपभ्रंशस्य चोत्पन्नत्वादिति भावः । तथैव संस्कृतेत्यादिक्रमेणैव । त्रिभिरित्यादौ क्रयासमाप्तिकृतभेदत्वेन समप्राधान्यादित्यर्थः । द्वन्द्वेन सन्दानितकेत्यादिना । प्रवृत्तः निबद्धः । एकं घर्मादीति । धर्मादिषु पुरुषार्थेष्वेकमित्यर्थः । कदेशेति । प्रसिद्धेतिवृत्तैकदेशेत्यर्थः । महाकाव्यरूप इति । महाकाव्यादीनां लक्षणानि काव्यादर्शादावुक्तानि । द्वन्द्वेनेति । “आख्ययिके"त्यादिद्वन्द्वेन । कथमपि कृत्वेत्यादिव्याजेनाश्रवणमभिनीत्येत्यर्थः । शून्ये सखीशून्ये । शलोकोऽयं काव्यालङ्कारसङ्ग्रहव्याख्यायां विवृतः । “मध्यमसमासादीर्घसमासे मुक्तकेषु प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । यथा ह्यमरुकस्य कवेर्मुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । सन्दानितकादिषु तु विकटनिबन्धनौचित्यान्मध्यमसमासादीर्घसमासे एव रचने । प्रबन्धाश्रयेषु यथोक्तप्रबन्धौचित्यमेवानुसर्तव्यम् । पर्यायबन्धे पुनरसमासामध्यमसमासे एव सङ्घटने । कदाचिदर्थौचित्याश्रयेण दीर्घसमासायामपि सङ्घटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां कामचारः, तत्रेतिवृत्तमात्रोपन्यासेन नात्यन्तंरसबन्धाभिनिवेशात् । खण्डकथासकलकथयोस्तु प्रकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद्दीर्घसमासायामपि न विरोधः । वृत्त्यौचित्यं तु यथारसमनुसर्तव्यम् । सर्गबन्धेतु
लोचनं
ननु मुक्तके विभावादिसङ्घटना कथं येन तदायत्तो रसः स्यादित्याशङ्क्याहमुक्तकेष्विति । अमरुकस्येति । कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पितमश्रुतम् । अहनसखीश्रोत्रप्राप्तिं विशङ्क्य समम्भ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः ॥ इत्यत्र हि श्लोके स्फुटैव विभावादसम्पत्प्रतीतिः । विकटेति । असमासायां हि सङ्घटनायां मन्थररूपा प्रतीतिः साकाङ्क्षा सती चिरेण क्रियापदं दूरवर्त्यनुधावन्ती वाच्यप्रतीतावेव विश्रान्ता सती न रसतत्वचर्वणायोग्या स्यादिति भावः । प्रबन्धाश्रयेष्विति ।
बालप्रिया
एवे"त्युक्तमुपपादयतिअसमासायामित्यादि । सङ्घटनायामिति । सत्यामिति शेषः । मन्थररूपेति । मन्दीभवन्तीत्यर्थः । साकाङ्क्षेति । क्रियाद्याकाङ्क्षासहितेत्यर्थः । वाच्यप्रतीतावेव विश्रान्तेति । वाच्यार्थंप्रतीतेश्चिरेणैव जायमानत्वादिति भावः । न म्यादिति । तथाच वाच्यप्रतीतिमान्थर्यादिपरिहाराय मध्यमसमासा दीर्घसमासा वा सङ्घटना कार्येति भावः । प्रबन्धाश्रयेष्वत्यत्र सन्दानितकादिष्वित्यस्यैवानुषङ्गो न तु मुक्तकेष्वित्यस्यापि पूर्वोक्तलक्षणस्य मुक्तकस्य रसतात्पर्ये यथारसमौचित्यमन्यथा तु काभचारः, द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रसतात्पर्यं साधीयः । अभिनेयार्थे तु सर्वथा रसबन्धेऽभिनिवेशः कार्यः । आख्यायिकाकथयोस्तु गद्यनिबन्धनबाहुल्याद्गद्ये च छन्दोबन्धभिन्नप्रस्थानत्वादिह नियमे हेतुरकृतपूर्वोऽपि मना विक्रयते ।
एतद्यथोक्तमौचित्यमेव तस्या नियामकम् । सर्वत्र गद्यबन्धेऽपि छन्दोनियमवर्जिते ॥ कारिका३.८ ॥
एतद्यथोक्तमौचित्यमेव तस्या नियामकम् । सर्वत्र गद्यबन्धेऽपि छन्दोनियमवर्जिते ॥ ८ ॥
यदेतदौचत्यं वक्तृवाच्यगतं सङ्घटनाया नियामकमुक्तमेतदेव गद्ये छन्दोनियमवर्जितेऽपि विषयापेक्षं नियमहेतुः । तथा ह्यत्रापि यदा कविः कविनिबद्धो वा वक्ता रसभावरहितस्तदा कामचारः । रसभावसमन्विते तु वक्तरि पूर्वेक्तमेवानुसर्तव्यम् । तत्रापि च विषयौचित्यमेव । आख्यायिकायां
लोचनं
सन्दानितकादिषु कुलकान्तेषु । यदिवा प्रबन्धेऽपि मुक्तकस्यास्तु सद्भावः, पूर्वापरनिरपेक्षेणापि हि येन रसचर्वणा क्रियते तदेव मुक्तकम् । यथा"त्वामालिख्य प्रणयकुपितां” इत्यादिश्लेकः । कदाचिदिति रौद्रादिविषये । नात्यन्तमिति । रसबन्धे यो नात्यन्तमभिनिवेशस्तस्मादिति सङ्गतिः । वृत्तयौचात्यमिति । परुषोपनागरिकाग्राम्याणां वृत्तीनामौचित्यं यथाप्रबन्धं यथारसं च । अन्यथेति । कथामात्रतात्पर्ये वृत्तिष्वपि कामचारः । द्वयोरपीति सप्तमी । कथातात्पर्ये सर्गबन्धो यथा भट्टजयन्तकस्य कादम्बरीकथासारम् । रसतात्पर्यं यता रघुवंशादि । अन्ये तु संस्कृत प्रकृतयोर्द्वयोरिति व्याचक्षते । तत्र तु रसतात्पर्यं साधीय इति यदुक्तं तत्किमपेक्षयेति नेयार्थं स्यात् ॥ ७ ॥
बालप्रिया
प्रबन्धेष्वसम्भवादित्याहसन्दानितकादिष्वित्यादि । पक्षान्तरमाहयदि वेत्यादि । ननु तर्हि किं मुक्तकलक्षणमित्यत आहपूर्वेत्यादि । नात्यन्तमित्याद्येकं पदम् । रसबन्धेऽभिनिवेशो रसबन्धाभिनिवेशः अत्यन्तं रसबन्धाभिनिवेशो यस्तस्याभावः । नात्यन्तंरसबन्धाभिनिवेशस्तस्मादित्यर्थ इत्यभिप्रायेण व्याचष्टेरसबन्ध इत्यादि । अत्यन्तं रसबन्धानभिनिवेशादिति च वृत्तौ पाठः । द्वयोरपि मार्गयोरिति सप्तम्यन्ते । तात्पर्यस्येति शेषः । कथातात्पर्यस्य रसतात्पर्यस्य चेत्यर्थ इत्याहद्वयोरित्यादि । द्वयोरपि मार्गयोरित्यस्य व्याख्यानान्तरमाहअन्य इत्यादि । तद्दूषयतितत्रेत्यादि ॥ ७ ॥
तु भूम्ना मध्यमसमासादीर्घसमासे एव सङ्घटने । गद्यस्य विकटबन्धाश्रयेण छायावत्त्वात् । तत्र च तस्य प्रकृष्यमाणत्वात् । कथायां तु विकटबन्धप्राचुर्येऽपि गद्यस्य रसबन्धोक्तमौचित्यमनुसर्तव्यम् ।
रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता । रचना विषयापेक्षं तत्तु किंचिद्विभेदवत् ॥ कारिका३.९ ॥
रसबन्धोक्तमौचित्यं भाति सर्वत्र संश्रिता । रचना विषयापेक्षं तत्तु किञ्चिद्विभेदवत् ॥ ९ ॥
अथवा पद्यवद्गद्यबन्धेऽपि रसबन्धोक्तमौचित्यं सर्वत्र संश्रिता रचना
लोचनं
विषयापेक्षमिति । गद्यबन्धस्य भेदा एव विषयत्वेनानुमन्तव्याः ॥ ८ ॥
स्थितपक्षन्तु दर्शयतिरसबन्धोक्तमिति । वृत्तौ च वाशब्दोऽस्यैव पक्षस्य स्थितिद्योतकः । यथा स्त्रियो नरपतिर्वह्निर्विषं युक्त्या निषेवितम् । स्वार्थाय यदि वा दुःखसम्भारायैव केवलम् ॥ इति । रचना सङ्घटना । तर्हि विषयौचित्यं सर्वथैव त्यक्तं नेत्याहतदेन रसौचित्यं विषयं सहकारितयापेक्ष्य किञ्जिद्विभेदोऽवन्तरवैचित्र्यं विद्यते यस्य सम्पाद्यत्वेन तादृशं
बालप्रिया
विषयत्वेनेति । विषयशब्दार्थत्वेनेत्यर्थः ॥ ८ ॥
“रसबन्धे"ति कारिकायां रचना सर्वत्र रसबन्धोक्तमौचित्यं संश्रिता भातीत्यन्वयः । वृत्तौ “अथवे"ति न विकल्पार्थक इत्याहवृत्तौ च वाशब्द इति । चकारो वाक्यालङ्कारे । वाशब्द इति । अथवेत्यत्र वाशब्द इत्यर्थः । अस्येति । पद्यवदित्यादिना वक्ष्यमाणस्येत्यर्थः । स्थितिद्योतक इति । निश्चितत्वरूपस्थितत्वद्योतक इत्यर्थः । सम्मतत्वद्योतक इति यावत् । अथवेत्यादिना पक्षान्तरकथने खलु शास्त्रकाराणां निर्भरः । उक्तार्थे महाकविप्रयोगमुपष्टम्भकतया दर्शयति स्त्रिय इति । युक्त्या निषेवितं स्त्र्यादिचतुष्टयं स्वार्थस्य स्वप्रयोजनाय भवत । इत्थं प्रसिद्ध्यनुरोधेनोक्त्वा स्वमतमाहयदि वेत्यादि । युक्त्यान्यथा वा निषेवितं तच्चतुष्टयं केवलं दुःखसम्भाराय दुःखातिशयायैव भवति । अत्र यदिवेति दुःखसम्भारायैवेति सथितपक्षद्योतकम् । “विषप्यमृतं क्वचिद्भवेदभृतं वा विषमीश्वरेच्छये"ति रघुवंशश्लोकव्याख्याने “वाशब्दो वाक्यार्थस्य स्थितपक्षतां द्योतयती"त्यरुणाचलनाथाः । कारिकां व्यचष्टेरचनेत्यादि । तर्हीति । रचनाया रसबन्धोक्तौचित्याश्रयणेन सर्वत्र भवनस्वीकारे सतीत्यर्थः । त्युक्तमिति । किन्त्यक्तमिति चोद्यम् । नेत्याहेति । न त्यक्तमिति प्रतिवक्तीत्यर्थः । तत्त्वित्यस्य व्याख्यानम्तदेवेति । तत्पदार्थमाहरसौचित्यमिति । रसबन्धोक्तौचित्यमित्यर्थः । विषयापेक्षमित्यस्य विवरणम्विषययमित्यादि । भवति । तत्तु विषयापेक्षं किञ्जिद्वशेषवद्भवति, न तु सर्वाकारम् । तथा हि गद्यवन्धेऽप्यतिदीर्घसमासा रचना न विप्रलम्भशृङ्गारकरुणयोराख्यायिकायामपि शोभते । नाटकादावप्यसमासैव न रौद्रवीरादिवर्णने । विषयापेक्षं त्वौचित्यं प्रमाणतोऽपकृष्यते प्रकृष्यते च । तथा ह्याख्यायिकायां नात्यन्तमसमासा स्वविषयेऽपि नाटकादौ नातिदीर्घसमासा चेति सङ्घटनाया दिगनुसर्तव्या । इदानीमलक्ष्यक्रमव्यङ्ग्यो ध्वनिः प्रबन्धात्मा रामायणमहाभारतादौ
लोचनं
भवति । एतद्व्याचष्टे तत्त्विति । सर्वाकारमिति क्रियाविशेषणम् । असमासैवेति । सर्वत्रैवेति शेषः । तथा हि वाक्याभिनयलक्षणेऽचूर्णपादैः प्रसन्नैः” इत्यादि मुनिरभ्यधात् । अत्रापवादमाहन चेति । नाटकादाविति । स्वविषयेऽपीति सम्बन्धः ॥ ९ ॥
एवं सङ्घटनायां चालक्ष्यक्रमो दीप्यत इति निर्णीतम् । प्रबन्धे दीप्यत इति तु निर्विवादसिद्धोऽयमर्थ इति नात्र वक्तव्यं किञ्चिदस्ति । केवलं कविसहृदयान् व्युत्पादयितुं रसव्यञ्जने येतिकर्तव्यता प्रबन्धस्य सा निरूप्येत्याशयेनाहैदानीमिति । इदानीं तत्प्रकारजातं प्रतिपाद्यत इति सम्बन्धः । प्रथमं दावदिति प्रबन्धस्य व्यञ्जकत्वे ये प्रकारास्ते क्रमेणौवोपयोगिनः । पूर्वं हि कथापरीक्षा । तत्रादिकावापः फलपर्यन्ततानयनम्,
बालप्रिया
किञ्चिद्विभेदवदित्यस्य विवरणम् किञ्जिदित्यादि । यस्य सम्पाद्यत्वेन विद्यत इति सम्बन्धः । सर्वत्रैवासमासेत्यत्र मुनिवचनं प्रमाणयतितथाहीत्यदि । वृत्तौ “न चे"त्यत्र असमासैवेत्यस्यानुषङ्गः । “प्रमाणत” इति । रसबन्धोक्तौचित्यरूपात्प्रमाणादित्यर्थः । “आख्यायिकाया “मित्यादि । “स्वविषयेऽपी"ति । अत्यन्तासमासाया विषये शृङ्गारादावपीत्यर्थः । “ने"ति । शोभत इत्यस्यानुषङ्गः । न चारुरित्यर्थः । “नाटकादा “विति । स्वविषयेऽपीत्यस्यानुषङ्गः । अतिदीर्घसमासासङ्घटना न शोभत इत्यर्थः । “इतीकाव्यार्थे"त्यादिश्लेकः क्वचिद्ग्रन्थे न दृश्यते, अत एव न व्याख्यातः ॥ ९ ॥
लोचनेऽवतारयतिएवमित्यादि । येतिकर्तव्यतेति । यः प्रकार इत्यर्थः । निरूप्या निरूपणार्हा । “इदानी “मित्यस्यान्वयं “तत्प्रतिपाद्यत” इत्यत्र तत्पदार्थञ्ज दर्शयतिइदानीमित्यादि । प्रथमन्तावदितीति प्रतीकधारणम् । विभावेत्यादिनिर्देशक्रमस्य बीजन्दर्शयतिप्रबन्धस्येत्यादि । फलपर्यन्ततानयनमिति । कथाया इति प्रकाशमानः प्रसिद्ध एव । तस्य तु यथा प्रकाशनं तत्प्रतिपाद्यते
विभावभावानुभावसञ्चार्यौचित्यचारुणः । विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥ कारिका३.१० ॥
इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिम् । उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः ॥ कारिका३.११ ॥
सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया । न तु केवलया शास्त्रस्थितिसम्पादनेच्छया ॥ कारिका३.१२ ॥
उद्दीपनप्रशमने यथावसरमन्तरा । रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः ॥ कारिका३.१३ ॥
अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् । प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥ कारिका३.१४ ॥
विभावभावानुभावसञ्जार्यौचित्यचारुणः । विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥ १० ॥
इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिम् । उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः ॥ ११ ॥
सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया । न तु केवलया शास्त्रस्थितिसम्पादनेच्छया ॥ १२ ॥
उद्दीपनप्रशमने यथावसरमन्तरा । रसस्यारब्धविश्रान्तेरनुसन्धानमङ्गिनः ॥ १३ ॥
अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् । प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥ १४ ॥
प्रबन्धोऽपि रसादीनां व्यञ्जक इत्युक्तं तस्य व्यञ्जकत्वे निबन्धनम् । प्रथमं तावद्विभावभावानुभावसञ्चार्योचित्यचारुणः कथाशरीरस्य विधिर्यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया य उचतो विभावो भावोऽनु भावः सञ्जारी वा तदौचित्यचारुणः कथाशरीरस्य विधिर्व्यञ्जकत्वे निबन्धनमेकम् ।
लोचनं
रसं प्रति जागरणम्, तदुचितविभावादिवर्णनेऽलङ्कारौचित्यमिति । तत्क्रमेण पञ्जकं व्याचष्टेविभावेत्यादिना । तदौचित्येति । शृङ्गारवर्णनेच्छुना तादृशी कथा संश्रयणीया यस्यामृतुमाल्यादेर्विभावस्य लीलादेरनुभावस्य
बालप्रिया
शेषः । तत्पञ्जकमिति । आद्यञ्चतुष्टयं श्लोकचतुष्टयेन क्रमान्नर्दिष्टं, पञ्चमन्त्वर्धश्लोकेनेति बोध्यम् । विभावाद्यौचित्यचारुणः कथाशरोरस्य विधिरित्येतद्रसविशेषमुपादाय विवृणोतिशृङ्गारवर्णने चुम्बनेत्यादि । वृत्तौ “प्रकृति"रित्यादि । प्रकृतिः स्वभावः । “दिव्ये"त्यादि । दिव्या मानुषी दिव्यमानुषी पातालीयेत्यादिर्बहुविधेत्यर्थः । तत्र दिव्या प्रकृतिरमर्त्यैकरूपत्वं यथा श्रीमहेश्वरादेः । मानुषी मर्त्यैकरूपत्वं यथा माधवादेः । दिव्यमानुषी पाण्डवादेरिति बोध्यम् । “ताम्” इति । प्रकृतिमित्यर्थः । “असङ्कीर्णः” स्थाय्यन्तरासङ्कीर्णः । “औचित्यभागिति च पाठः । क्वचिद्ग्रन्थे भवतीत्यनन्तरं नान्यथेति च पाठः । “अन्यथे"त्यादि । अन्यथा उक्तप्रकारातिक्रमणेन । दिव्यस्य उत्साहादयः केवलमानुषाश्रयेम केवलमानुषस्योत्साहादयः केवलदिव्याश्रयेण वा उपनिबध्यमाना इत्यन्वयः । “तथाचे"ति । तथाहीत्यर्थः । लोचनेतद्विषयेति । व्यापारविषयकेत्यर्थः । एतदिति । व्यापारपदमित्यर्थः । कुत इत्यत आहस्थायीत्यादि । वृत्तौ “भान्ती"ति “भवन्ती"ति च पाठः । अत एव च भरते प्रख्यातवस्तुविषयत्वं प्रख्यातोदात्तनायकत्वं च नाटकस्यावश्यकर्तव्यतयोपन्यस्तम् । तेन हि नायकौचित्यानौचित्यविषये कविर्न व्यामुह्यति । यस्तूत्पाद्यवस्तु नाटकादि कुर्यात्तस्याप्रसिद्धानुचितनायकस्वभाववर्णने महान् प्रमादः । लोचनमेतदुक्तं भवतियत्र विनेयानां प्रतीतिखण्डना न जायते तादृग्वर्णनीयम् । तत्र केवलमानुषस्य एकपदे सप्तार्णवलङ्घनमसम्भाव्यमानतयानृतमिति हृदये स्फुरदुपदेश्यस्य चतुर्वर्गोपायस्याप्यलीकतां बुद्धौ निवेशयति । रामदेस्तु तथाविधमपि चरितं पूर्वप्रसिद्धिपरम्परोपचितसम्प्रत्ययोपारूढमसत्यतया न चकास्ति । अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव । न त्वसम्भावनापदं वर्णनीयमिति । तेन हीति । प्रख्यातोदात्तनायकवस्तुत्वेन । व्यामुह्यतीति किं वर्णयेयमिति । यस्त्विति कवः । महान् प्रमाद इति । तेनोत्पाद्यवस्तु नाटकादि न
बालप्रिया
शङ्कतेऽनन्वि"त्यादि । “नागलोके"ति । नाकलोकेति च पाठः । “तदि"ति । तस्मादित्यर्थः । क्षमाभुजामित्यस्य वर्णने इत्यनेन सम्बन्धः । किमिति प्रश्ने निषेधे वा । परिहरत “नैतदि"त्यादि । नैतदस्ति एतच्चोद्यं न भवति । कुत इत्यत्राह “ने"त्यादि । राज्ञां प्रभावातिशयवर्णनं यद्द्वयं तदनुचितं न ब्रूम इति सम्बन्धः । व्यतिरिक्तन्त्वित्यादिग्रन्थस्य सारार्थमाह लोचनेएतदुक्तमित्यादि । यत्रेति । वर्ण्यमाने यस्मिंश्चरित इत्यर्थः । प्रतीतिखण्डना प्रतीतेरप्रतिष्ठा । केवलमानुषस्येति । वर्ण्यमानमिति शेषः । सप्तार्णवलङ्घनं कर्तृ निवेशयतीति सम्बन्धः । अनुतमितीति । अलीकतामिति । असत्यतामित्यर्थः । विशेषमाहरामादेस्त्विति । तथाविधमिति । अर्णवलघङ्नादिरूपमित्यर्थः । पूर्वप्रसिद्धीति । पूर्वा पुरातनी या प्रसिद्धिपरम्परा तया उपचितो यः सम्प्रत्ययो विश्वासः तमुपारूढमिति हेतुगर्भम् । तस्यापि रामादेरपि । उत्प्रेक्ष्यते कल्पनापूर्वकं वर्ण्यते । तादृशमेव असत्यतया स्फुरेदेव । परमतात्पर्यमाहन त्वित्यादि । असम्भावनापदमिति । असम्भाव्यत्वबुद्धिविषयभूतमित्यर्थः । व्यामोहाकारमाहकिमित्यादि । मुनिना नाटकादेरुत्पाद्यवस्तुत्वस्यानिरूपितत्वादुत्पाद्यवस्तुनाटकादीति यथाश्रुतार्थस्यासङ्गत्या यो नाटकादि उत्पाद्यवस्तु सत्कुर्यात्तस्य महान् प्रमादस्स्यादिति योजनाम्मनसि कृत्य तात्पर्यं विवृणोतितेनेत्यादि । तेन कवेर्महतः प्रमादस्य प्रसङ्गेन हेतुना । मुनिना नाटकादि ननु यद्युत्साहादिभाववर्णने कथञ्चिद्दिव्यमानुष्याद्यौचित्यपरीक्षा क्रियते तत्क्रियताम्, रत्यादौ तु किं तया प्रयोजनम्? रतिर्हि भारतवर्षेचितेनैव व्यवहारेम दिव्यानामपि वर्णनीयेति स्थितिः । नैवम् - तत्रौचित्यातिक्रमेण सुरां दोषः । तथा ह्यधमप्रकृत्यौचित्येनोत्तमप्रकृतेः शृङ्गारोपनिबन्धने का भवेन्नोपहास्याता । त्रिविधं प्रकृत्यौचत्यं भारते वर्षेऽप्यस्ति शृङ्गारविषयम् । यत्तु दिव्यमौचित्यं तत्तत्रानुपकारकमेवेति चेत्न वयं दिव्यमौचित्यं शृङ्गारनिषयमन्यत्किञ्चिद्ब्रूमः । किं तर्हि? भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु प्रसिद्धिषु प्रसिद्धग्राम्यशृङ्गारोपनिबन्धनं प्रसिद्धं नाटकादौ, तथैव देवेषु तत्परिहर्तव्यम् । नाटकादेरमिनेयार्थत्वादभिनयस्य च सम्भोगशृङ्गारविषयस्यासभ्यत्वात्तत्र परिहार इति चेत्न - यद्यभिनयस्यैवंविषयस्यासभ्यता तत्काव्यस्यैवंविषयस्य सा केन निवार्यते? तस्मादभिनेयार्थेऽनभिनेयार्थे वा काव्ये यदुत्तमप्रकृते राजादेरुत्तमप्रकृतिभिर्नायिकाभिः सह ग्राम्यसम्भोगवर्णनं तत्पित्रोः सम्भोगवर्णनमिव सुतरामसभ्यम् । तथैवोत्तमदेवतादिविषयम् ।
लोचनं
निरूपितं मुनिनेति न कर्तव्यमिति तात्पर्यम् । आदिशब्दः प्रकारे, हिमादेः प्रसिद्धदेवचरितस्य सङ्ग्रहार् “थः ।
बालप्रिया
उत्पाद्यवस्तु सत्न निरूपितमिति सम्बन्धः । इतीति हेतौ । न कर्तव्यमिति । कविना नाटकादि उत्पाद्यवस्तु सन्न निबद्धव्यमित्यर्थः । “नाटकादी"त्यत्रादिशब्दं विवृणोतिप्रकार इत्यादि । प्रकारे सादृश्ये, तच्च प्रख्यातवस्तुत्वेन बोध्यम् । “डिमादेऽरित्यादिपदेन व्यायोगो ग्राह्यः । “प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चे"त्यादि डिमलक्षणम् । व्यायोगस्तु विधिज्ञैः कर्यः प्रख्यातनायकशरीर इत्यादिव्यायोगलक्षणञ्ज नाट्यशास्त्रादावुक्तम् । नाटकादीत्यत्र नाटकमादिः यस्येति व्युत्पत्त्या नाटकादिपदेनातद्गुणसंविज्ञानबहुव्रीहिणा प्रकारणं विवक्षितमतो न यथाश्रुतार्थानुपपत्तिरिति कश्चिदाह, तन्मतमाहअन्यस्त्वित्यादि । न च सम्भोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः, यावदन्येऽपि प्रभेदाः परस्परप्रेमदर्शनादयः सम्भवन्ति, ते कस्मादुत्तमप्रकृतिविषये न वर्ण्यन्ते ? तस्मादुत्साहवद्रतावपि प्रकृत्यौचित्यमनुसर्तव्यम् । तथैव विस्मयादिषु । यत्त्वेवंविधे विषये महाकवीनाप्यसमीक्ष्यकारिता लक्ष्ये दृश्यते स दोष एव । स तु शक्तितिरस्कृतत्वात्तेषां न लक्ष्यत इत्युक्तमेव । अनुभावौचित्यं तु भरतादौ प्रसिद्धमेव । लोचनमन्यस्तु “उपलक्षणमुक्तो बहुव्रीहिरिति प्रकरणमत्रोक्तम्” इत्याह । “नाटिकादि” इति वा पाठः । तत्रा दिग्रहणं प्रकारसूचकम्, तेन मुनिनिरूपिते नाटिकालक्षणेऽप्रकरणनाटकयोगादुत्पाद्यं वस्तु नायको नृपतिः” इत्यत्र यथासंख्येन प्रख्यातोदात्तनृपतिनायक्त्वं बोद्धव्यमिति भावः । कथं तर्हि सम्भोगशृङ्गारः कविना निबध्यतामित्याशङ्क्याहन चेति । तथैवेति । मुनिनाप स्थाने स्थाने प्रकृत्यौचित्यमेव विभावानुभावादिषु बहुतरं प्रमाणीकृतं “स्थैर्येणोत्तममध्यमाधमानां नीचानां सम्भ्रमेण” इत्यादि वदता ।
बालप्रिया
उक्तो बहुव्रीहिरुपलक्षणमिति । नाटकादीति बहुव्रीहिरन्योपलक्षक इत्यर्थः । इतीति हेतौ । प्रकारान्तरेणाहनाटिकादीत्यादि । प्रकारसूचकं सादृश्यबोधकम् । सादृश्यमुत्पाद्यवस्तुत्वेन बोध्यम्, प्रकरणादिकमादिपदेन ग्राह्ममिति भावः । तेनेति नाटिकादेरुत्पाद्यवस्तुत्वकथनेनेत्यर्थः । वस्तुन एवोत्पाद्यत्वोकस्येति यावत् । बोद्धव्यमिति । नायके उत्पाद्यत्वस्यान्वयो नेति भावः । वृत्तौ “नन्वि"त्यादि । “दिव्ये"ति । दिव्यं मानष्यञ्ज तदादि यदौचित्यं तस्य परीक्षा । यदि क्रियत इति सम्बन्धः । “तत्” तर्हि । “तया” दिव्यमानुष्याद्यौचित्यपरीक्षया । “तत्रे"ति । रत्यादावित्यर्थः । पुनश्शङ्कतेऽयत्त्वि"त्यादि । परिहरति “ने"त्यादि । “दिव्याश्रयोऽपीति । शृङ्गारोपनिबन्ध इत्यनुषङ्गः । “न चे"ति । नाटकादौ राजादिषु न च प्रसिद्धमित्यन्वयः । “प्रसिद्धे"ति । अधमपात्रगतत्वेन प्रसिद्धेत्यर्थः । “तदि"ति । ग्राम्यशृङ्गारोपनिबन्धनमित्यर्थः । शङ्कतेऽनाटकादेरि"ति । “तत्रे"ति । नाटकादावत्यर्थः । “एवं विषयस्यासभ्यते"ति । सम्भोगशृङ्गारविषयस्यासभ्यतेत्यर्थः । “से"ति । असभ्यतेत्यर्थः । न च सम्भोगशृङ्गारस्येत्यादिग्रन्थमवतारयति लोचनेकथन्तर्हीत्यादि । तथैव विस्मयादिष्वित्यत्र प्रमाणमाहमुनिनापीत्यादि । स्थैयंणेति । इयत्तूच्यतेभरतादिविरचितां स्थितिं चानुवर्तमानेन महाकविप्रबन्धांश्च पर्यालोचयता स्वप्रतिभां चानुसरता कविनावहतचेतसा भूत्वा विभावा द्यौचित्यभ्रंशपरित्यागे परः प्रयत्नो विधेयः । औचित्यवतः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ग्रहो व्यञ्जक इत्यनेनैतत्प्रतिपादयतियदितिहासादिषु कथासु रसवतीषु विविधासु सतीष्वप यत्तत्र विभावाद्यौचित्यवत्कथाशरीरं तदेव ग्राह्यंनेतरत् । वृत्तादपि च कथाशरीरादुत्प्रेक्षिते विशेषतः प्रयत्नवता भवितव्यम् । तत्र ह्यनवधानात्स्खलतः कवेरव्युत्पत्तिसम्भावना महती भवति । परिकरश्लोकश्चात्र कथाशरीरमुत्पाद्यवस्तु कार्यं तथातथा । यथा रसमयं सर्वमेव तत्प्रतभासते ॥ लोचनमित्यत्त्विति । लक्ष्णज्ञत्वं लक्ष्यपरिशीलनमदृष्टप्रसादोदितस्वप्रतिभाशालित्वं चानुसर्तव्यमिति संक्षेपः । रसवतीष्वित्यनादरे सप्तमी । रसवत्त्वं चाविवेचकजनाभिमानाभिप्रायेण मन्तव्यम् । विभावाद्यौचित्येन हि विना का रसवत्ता । कवेरिति ।
बालप्रिया
“स्त्रीनीचप्रकृतिष्विष शोको व्यसनसम्भवः । धैर्येणोत्तममध्यानां नीचानां रुदितेन च” ॥ इति भावाध्याये पाठः । अत्राभिनेय इत्यस्यानुषङ्गः । “भरतादिविरचतां स्थितिञ्चानुवर्तमानेने"त्यादितृतीयान्तपदत्रयलब्धमर्थमाहलक्षणज्ञत्वमित्यादि । अदृष्टेति । अदृष्टं सुकृतं प्रसादो देवतादिप्रसादः ताभ्यामुदिता या स्वप्रतिभा तच्छालित्वमित्यर्थः । अनादरे सप्तमीति । इतिहासादिषु विविधासु रसवतीषु कथासु सतीष्वपि ताः कथा अनादृत्य तत्र तासाम्मध्ये यत्कथाशरीरमौचित्यवत्तदेव कविना ग्राह्यं, नेतरद्विभावाद्यौचित्यशून्यं कथाशरीरं रसवदपि न ग्राह्यमिति वृत्त्यर्थ इति भावः । ननु विभावाद्यौचित्याभावे कथं रसवत्वमित्यत आहरसवत्वञ्चेति । अविवेचकेत्यादि । कविवेचकजनानां योऽभिमानः रसवत्वाभिमानः तदभिप्रायेण ज्ञातव्यमित्यर्थः । अत्र हेतुमाहविभावाद्यौचित्येनेत्यादि । महती अव्युत्पत्तिसम्भावना भवतीत्युक्तं विवृणोतिन हीत्यादि । तत्रेति । स्वयमुत्प्रेक्षिते कथाशरीर इत्यर्थः । जात्युत्तरमिति । असमीचीनमुत्तरमित्यर्थः । तत्र इति जात्युत्तरमपि न सम्भवतीति सम्बन्धः । सन्तीत्यादिकं विवृणोतिसिद्ध इत्यादि । आस्वादेति । आस्वादमात्रं तत्र चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणम् । तच्च दर्शितमेव । किञ्च सन्ति सिद्धरसप्रख्या ये च रामायणादयः । कथाश्रया न तैर्योज्या स्वेच्छा रसविरोधिनी ॥ तेषु हि कथाश्रयेषु तावत्स्वेच्छैव न योज्य । यदुक्तम् “कथामार्गे न चाल्पोऽप्यतक्रमः” । स्वेच्छापि यदि योज्या तद्रसविरोधिनी न योज्या । इदमपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् । इतिवृत्तवशायातां कथञ्चिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयो विधेयः यता कालिदासप्रबन्धेषु । यथा च सर्वसेनविरचिते
लोचनं
न हि तत्रेतिहासवशादेव मया निबद्धमिति जात्युत्तरमपि सम्भवति । तत्र चेति । रसमयत्वसम्पादने । सिद्धेति । सिद्धः आस्वादमात्रशेषो न तु भावनीयो रसो येषु । कथानामाश्रया इतिहासाः, तैरितिहासार्थैः तैस्सह स्वेच्छा न योज्या । सहार्तश्चात्र विषयविषयिभाव इति व्याचष्टेतेष्विति सप्तम्या । स्वेच्छा तेषु न योज्या, कथञ्चिद्वा यदि योज्यते तत्तत्प्रसिद्धरसविरुद्धा न योज्या । यथा रामस्य धीरललितत्वयोजनेन नाटिकानायकत्वं कश्चित्कुर्यादिति त्वत्यन्तासमञ्जसम् । यदुक्तमिति । रामाभ्युदये यशोवर्मणा “स्थितमिति यथा शय्याम्” । कालिदासेति । रघुवंशेऽजादीनां राज्ञां विवाहादवर्णनं नेतिहासेषु निरूपितम् । हरिविजये कान्तानुनयनाङ्गत्वेन पारिजातहरणादिनिरूपितमितिहासेष्वदृष्टचमपि । तथार्जुनचरितेऽर्जुनस्य पातालविजयादि
बालप्रिया
सहृदयास्वाद एव शेषः शिष्टांशो यस्य सः । मात्रपदव्यवच्छेद्यमाहन त्वित्यादि । भावनीयः वर्णनया सम्पादनीयः । सिद्धरसाः प्रख्याः प्रख्याताश्च सिद्धरसप्रख्या ये रामायणादयः कथाश्रयास्सन्तीति सम्बन्धः । तत्र कथाश्रयपदं व्याचष्टे कथानामित्यादि । तैरित्येतद्व्याचष्टे इतिसाहासार्थैरिति । न तैरित्यादिकं वाक्यद्वये पर्यवसन्नमित्याशयेन तेष्वित्यादि व्याख्यातं वृत्तौ, तत्र तैरित्यनेन तेष्वित्यर्थः । कथं लब्धं इत्यतस्तद्ग्रन्थमवतारयतितैरित्यादि । तेष्विति सप्तम्येत । सप्तमीयं वैषयिकाधिकरण इति भावः । स्वेच्छेति । स्वेच्छानिर्मिता अर्था इत्यर्थः । तेष्विति । सिद्धरसप्रख्येषु कथाश्रयेष्वित्यर्थः । यथा रामस्येति । रामायणप्रसिद्धस्तदीयो रसो हि वीर इति भावः । वृत्तौ “न चाल्पोऽप्यतिक्रम” इति । अल्पोऽप्यतिक्रमो न कार्यं इत्यर्थः । “इति वृत्ते"त्यादि । कथञ्चिद्रसाननुगुणां कयापि विधया हरिविजये । यथा च मदीय एवार्जुनचरिते महाकाव्ये । कविना काव्यमुपनिबन्धता सर्वात्मना रसपरतन्त्रेण भवितव्यम् । तत्रेतिवृते यदि रसाननुगुणां स्थितिं पश्येत्तदेमां भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेत् । न हि कवेरितिवृत्तमात्रनिर्वहणेन किञ्चित्प्रयोजनम्, इतिहासादेव तत्सिद्धेः । रसादिव्यञ्जकत्वे प्रबन्धस्य चेदमन्यन्मुख्यं निबन्धनं, यत्सन्धीनां मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्यानां तदङ्गानां चोपक्षेपादीनां घटनं
लोचनं
वर्णितमिथासाप्रसिद्धम् । एतदेव युक्तमित्याहकविनेति । सन्धीनामिति । इह प्रभुसम्मितेभ्यः श्रुतिस्मृतिप्रभृतिभ्यः कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्यः शास्त्रेभ्यो ये न व्युत्पन्नाः, न चाप्यस्येदं वृत्तममुष्मात्कर्मण इत्येवं युक्तियुक्तकर्मफलसम्बन्धप्रकटनकारिभ्यो मित्र्रसम्मितेभ्य इतिहासशास्त्रेभ्यो लब्धव्युत्पत्तयः, अथ चावश्यं व्युत्पाद्याः प्रजार्थसम्पादनयोग्यताक्रान्ता राजपुत्रप्रायास्तेषां हृदयानुप्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया । हृदयानुप्रवेशश्च रसास्वादमय एव । स च रसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोचितविभावाद्युपनिबन्धे रसास्वादवैवश्यमेव स्वरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिका । प्रीत्यात्मा च रसस्तदेव नाट्यं नाट्यमेव वेद इत्यस्मदुपाध्यायः । न चैते प्रीतिव्युत्पत्ती भिन्नरूपे एव, द्वयोरप्येकविषयत्वात् । विभावाद्यौचित्यमेव
बालप्रिया
रसानुगुण्यरहिताम् । “उत्प्रेक्ष्य” आलोच्य । “अन्तरा” मध्ये । “अभीष्टे"ति । अभीष्टस्य रसस्य उचितायाः कथाया उन्नयः घटनम् । उक्तमेवार्थंस्फुटं विवृणोति “कविने"त्यादि । “प्रबन्धम्” इति “काव्यम्” इति च पाठः । लोचनेऽसन्धीनाम्” इत्यादिग्रन्थार्थं विवृणोतिइह प्रभुसम्मितेभ्य इत्यादि । कर्तव्यमिदमिति उपलक्षणमेतदिदं न कर्तव्य मित्यस्य । शास्त्रेभ्य इति हेतौ पञ्चमी । न चापीति । लब्धव्युत्पत्तय इत्यनेनास्य सम्बन्धः । अस्येति नायकविशेषस्य निर्देशः । इदं वृत्तमिति । एतत्फलं जातमित्यर्थः । शास्त्रीति । शास्त्रमितिहासात्मकानि शास्त्राणि इतिहासशास्त्राणि तेभ्यः । अथ चावश्यं व्युत्पाद्या इत्यत्र हेतुमाहप्रजार्थेति । प्रजानामर्थपम्पादने परिपालने या योग्यता राजकुलप्रसूतत्वादिरूपा तया आक्रान्ता आश्रिता इत्यर्थः । चतुरिति । चतुर्वर्गोपायव्युत्पत्तिः नान्तरीयकमानुषङ्गिकफलं यस्य तथाविधो यो विभावादिसंयोगः तत्प्रसादोपनतः तेनोत्पादित इत्यर्थम् । इत्येवमिति । उक्तप्रकारेणेत्यर्थः । प्रीतिरेवेति । रसास्वादानन्द एवेत्यर्थः । भिन्निरूपे इति । विभिन्नविषयके इत्यर्थः ।
लोचनं
सत्यतः प्रीतेर्निदानमित्यसकृदवोचाम । विभावादीनां तद्रसोचतानां यथास्वरूपवेदनं फलपर्यन्तीभूततया व्युत्पत्तिरित्युच्यते । फलं च नाम यददृष्टवशाद्दवता प्रसादादान्यतो वा जायते । न च तदुपदेश्यम्, तत उपाये व्युतत्पत्ययोगात् । तेनोपायक्रमेण प्रवृत्तस्य सिद्धिः अनुपायद्वारेण प्रवृत्तस्य नाश इत्येवं नायकप्रतिनायकगतत्वेनार्थानर्थेपायव्युत्पत्तिः कार्या । उपायश्च कर्त्राश्रीयमाणः पञ्चवस्था भजते । तद्यथास्वरूपं, स्वरूपात्किञ्चिदुच्छूनतां, कार्यसम्पादनयोग्यतां, प्रतबन्धोपनिपातेनाशङ्क्यमानतां, निवृत्तप्रतिपक्षतायां बाधकबाधनेन सुदृढफलपर्यन्तताम् । एवमार्तिसहिण्णूनां विप्रलम्भभीरूणां प्रेक्षापूर्वकारिणां तावदेवं कारणोपादानम् । ता एवंविधाः पञ्चावस्था - कारणगता मुनिनोक्तः संसाध्ये फलयोगे तु व्यापारः कारणस्य यः ।
बालप्रिया
फलपर्यन्तीभूततयेति । स्वरूपसंवेदनमित्यनेन सम्बन्धः । तदिति । अदृष्टादिजन्यं फमित्यर्थः । ततः तथाविधफलोपदेशेन । उपाये व्युत्पत्त्ययोगादिति । तत्तत्फलोपायविषयकव्युत्पत्यनुदयादित्यर्थः । तेनेति । उक्तहेतुनेत्यर्थः । सिद्धिरिति । फलसिद्धिरित्यर्थः । अनुपायेति । अनुपायशब्देनाहेतुरनिष्टहेतुश्च विवक्षितः । नाश इति । फलासिद्धिरनिष्टसिद्धिश्चेत्यर्थः । नायकप्रतिनायकगतत्वेनेति । अर्थानर्थेत्यनेन सम्बन्धः । यथासङ्ख्यं नायकप्रतिनायकगतौ यावर्थानर्थौ तदुपायस्य व्युत्पत्तिरित्यर्थः । कार्येति । कविना सम्पादनीयेत्यर्थः । कर्त्रेति । नायकादिनेत्यर्थः । स्वरूपमित्यादिद्वितीयान्तानां पञ्चावस्था इत्यनेन पूर्वस्थेन सम्बन्धः । स्वरूपमिति । उपायस्यानुष्ठीयमानत्वस्वरूपमित्यर्थः । किञ्चिदुच्छूनतामिति । किञ्चित्पोषमित्यर्थः । तद्रूपां कार्यसम्पादनयोग्यतामिति द्वितीयावस्था । प्रतिबन्धकेत्यादि । प्रतिबन्धकोपनिपातेनाशङ्क्यमानकार्यसिद्धिकत्वमित्यर्थः । निवृत्तप्रतिपक्षतायामिति । प्रतिवन्धकनिवृत्तमित्यर्थः । प्रतिबन्धकनिवृत्त्या निश्चीयमानकार्यकत्वमिति यावत् । प्रतापरुद्रीयव्याख्यायान्तु प्रथमावस्थास्वरूपात्किञ्चिदुच्छूनत्वं, द्वितीया तु कार्यसम्पादनयोग्यता, तृतीया तु प्रतिबन्धकोपनिपातेन कार्यस्य शङ्क्यमानत्वं, चतुर्थी तु प्रतिबन्धकनिवृत्त्या कार्यस्य निश्चयः, पञ्चमी तु बाधबाधनेन फलपर्यन्ततादार्ढ्यमित्युक्तम्, तदनुरोधे तु स्वरूपात्किञ्चिदुच्छूनतामित्यस्य स्वरूपमित्यनेनान्वयो बोध्यः । आर्तिसहिण्णुनामिति । श्रमसहिण्णूनमित्यर्थः । यथोक्तम्"विध्नैर्मुहुर्मुहुरपि प्रतिहन्यमाना” इत्यादि । विप्रलम्भेति । कार्यासिद्धीत्यर्थः । संसाध्य इति । कारणस्येति । नायकादेरित्यर्थः । प्रारम्भादीनाम्मुखादिसन्धीनां
लोचनं
तस्यानुपूर्व्या विर्ज्ञयाः पञ्चावस्थाः प्रयोक्तृभिः ॥ प्रारम्भश्च प्रयत्नश्च तथा प्राप्तेश्च सम्भवः । नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ॥ इति । एवं या एताः कारणस्यावस्थास्तत्सम्पादकं यत्कर्तुरितवृत्तं पञ्चधा विभक्तम् । त एव मुखप्रतिमुखगर्भावमर्शनिर्वहणाख्या अन्वर्थनामानः पञ्च सन्धय इतिवृत्तखणडाः,
लोचनं
सन्धीयन्त इति कृत्वा । तेषामपि सन्धीनां स्वनिर्वाह्यं प्रति तथा क्रमदर्शनादवान्तरभिन्ना इतितवृत्तभागाः । सन्ध्यङ्गानि “उपक्षेपः परिकरः परिन्यसो विलोभनम्” इत्यदीनि । अर्थप्रकृतयोऽत्रैवान्तर्भूताः । तथा हि स्वायत्तसिद्धेर्बीजं बिन्दुः कार्यमिति तिस्रः । बीजेन सर्वव्यापाराः बिन्दुनानुसन्धानं कार्येण निर्वाहः सन्दर्शनप्रार्थनाव्यवसायरूपा ह्येतास्तिस्रोऽर्थसम्पाद्ये कर्तुः प्रकृतयः स्वभाववशेषाः । सचिवायत्तसिद्धित्वे तु सचिवस्य तदर्थमेव वा स्वार्थमेव वा स्वार्थमपि वा प्रवृत्त्त्वेन प्रकीर्णपताकाशब्दाभ्यामुक्त इति । एवं प्रस्तुतफलनिर्वाहणान्तस्याधिकारिकस्य वृत्तस्य पञ्चसन्धित्वं पूर्णसन्ध्यङ्गता च सर्वजनव्युत्पत्तिदायिनी निबन्धनीया । प्रासङ्गिके त्वितिवृत्ते नायं नियम इत्युक्तम् “प्रासङ्गिके पराथत्वान्न ह्येष नियमो भवेत्” इति मुनिना । एवं स्थिते रत्नावल्यां धीरललितस्य नायकस्य धर्माविरुद्धसम्भोगसेवायामनौचित्याभावात्प्रत्युत न निस्सुखः स्यादिति श्लाध्यत्वात्पृथ्वीराज्यमहाफलान्तरानुबन्धिकन्यालाभफलोद्देशेन
बालप्रिया
तदङ्गानामुपक्षेपादीनाञ्च लक्षणानि दशरूपकादिषु द्रष्टव्यानि । स्वनिर्वाह्यमिति । स्वनिर्वाह्यं फलमित्यर्थः । अर्थप्रकृतयोऽत्रैवेति । ताः “बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणा” इत्युक्ता बोध्याः । स्वायत्तसिद्धेरिति । नायकस्त्रिविधःस्वायत्तसिद्धिस्सचिवायत्तसिद्धिरुभयायत्तसिद्धिश्चेति । बीजेन सर्वव्यापारा इति । विवक्षिता इति शेषः । एवमुत्तरवाक्ययोरपि बोध्यम् । अनुसन्धानमिति । अवान्तरार्थैर्मुख्यप्रयोजनस्य विच्छेदे तत्सन्धानकरणमित्यर्थः । सन्दर्शनेत्यादि । तत्ततप्रयोजनं मनसि कृत्य तात्सिद्धिं सम्प्रार्थ्य तदर्थो व्यवसायो भवतीति सन्दर्शनादिजन्यत्वाद्बीजादयस्तत्स्वरूपा इत्यर्थः । अर्थे इत्यादि । अनेनार्थप्रकृतय इत्यस्यावयवार्थो दर्शितः । अथ प्रकरीपताकापदार्थौ दर्शयिष्यन्नाहसचिवेत्यादि । तदर्थं नायकार्थम् । प्रकरीपताकापदाभ्यां व्यपदेशे क्रमेम हेतुः प्रकीर्णत्वप्रसिद्धत्वाभ्यामिति । इति मुनिना इत्युक्तमिति सम्बन्धः । इतीत्यस्य इति वदता इत्यर्थः । लक्ष्यं दर्शयतिएवमित्यादि । एवं स्थिते रत्नावल्यां दर्शिता एवेत्यन्वयः । इति श्लाध्यत्वादिति । इति वचनेन धर्माविरुद्धसम्भोगसेवायाः रसाभिव्यक्त्यपेक्षया, यथा रत्नावल्याम् - न तु केवलं शास्त्रस्थितिसम्पादनेच्छया । यथा वेणीसंहारे विलासाख्यस्य प्रतिमुखसन्ध्यङ्गस्य प्रकृतरसनिबन्धाननुगुणमपि द्वितीयेऽङ्के भरतमतानुसरणमात्रेच्छया घटनम् ।
लोचनं
प्रस्तावनोपक्रमे पञ्चापि सन्धयोऽवस्थापञ्चकसहिताः समुचितसन्ध्यङ्गपरिपूर्णा अर्थप्रकृतियुक्ता दर्शिता एव । “प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ” इति हे बीजादेव प्रभृति “विश्रान्तविग्रहकथः” इति “राज्यं निर्जितशत्रु” इति च वचोभिः “उपभोगसेवावसरोऽयम्” इत्युपक्षेपात्प्रभृति हि निरूपितम् । एतत्तु समस्तसन्ध्यङ्गस्वरूपं तत्पाठपृष्ठे प्रदर्श्यमानमतितमां ग्रन्थगौरवमावहति । प्रत्येकेन तु प्रदर्श्यमानं पूर्वापरानुसन्धानवन्ध्यतया केवलं संमोहदायि भवतीति न विततम् । अस्यार्थस्य यत्नावधेयत्वेनेष्टत्वात्स्वकण्ठेन यो व्यतिरेक उक्तोऽन तु केवलया” इति तस्योदाहरणमाहन त्विति । केवलशब्दमिच्छाशब्दं च प्रयुञ्चानस्यायमाशयःभरतमुनिना सन्ध्यङ्गनां रसाङ्गभूतमितिवृत्तप्राशस्त्योत्पादनमेव प्रयोजनमुक्तम् । न तु पूर्वरङ्गाङ्गवददृष्टसम्पादनं विध्नादिवारणं वा । यथोक्तमिष्टस्यार्थस्य रचना वृत्तान्तस्यानपक्षयः । रागप्राप्तिः प्रयोगस्य गुह्यानां चैव गूहनम् ॥ आश्चर्यवदभिख्यानं प्रकाश्यानां प्रकाशनम् । अङ्गानां षड्विधं ह्येतद्दृष्टं शास्त्रे प्रयोजनम् ॥ इति । ततश्च समीहा रतिभोगार्था विलासः परिकीर्तितः ।
बालप्रिया
श्लाघनीयत्वादित्यर्थः । तत्पाठपृष्ठे प्रदर्श्यमानमिति । रत्नालीस्थतत्तद्वाक्यानि सर्वाण्युदाहृत्य प्रदर्श्यमानमित्यर्थः । प्रत्येकेनेति । पूर्वापरवाक्यं विना उदाहरणमात्रमित्यर्थः । न विततमिति । सविस्तरं सोदाहरणं वृत्तौ नोक्तमित्यर्थः । अस्यार्थस्येति । सन्धिसन्ध्यङ्गघटनं रसादिव्यक्त्यपेक्षयेत्युक्तस्यार्थस्येत्यर्थः । इति यो व्यतिरेक इति सम्बन्धः । न त्वितीति । न त्वित्यादिग्रन्धेनेत्यर्थः । प्रयुञ्जानस्येति । कारिकाकर्तुरिति शेषः । अयमिति । नाधिगतार्थ इत्यन्तेन ग्रन्थेन वक्ष्यमाण इत्यर्थः । सन्ध्यङ्गानामिति प्रयोजनमित्यनेन सम्बध्नाति । इष्टस्येति रचनाप्रतिपादनम् । प्रयोगस्य रागप्राप्तिः अभिनयरागसमृद्धिः । अभिनयदर्शनेन सामाजिकमनोरञ्जनसमृद्धिरिति यावत् । आश्चर्यवदिति । चमत्कारकारीत्यर्थः । ततश्चेति । उक्तेन हेतुनेत्यर्थः । प्रयुक्त इत्यनेनास्य सम्बन्धः । समीहेति । इदं चापरं प्रबन्धस्य रसव्यञ्जकत्वे निमित्तं यदुद्दीपनप्रशमने यथावसरमन्तरा लोचनमिति प्रतिमुखसन्ध्यङ्गविलासलक्षणे । रतिभोगशब्द आधिकारिकरसस्थायिभावोपव्यञ्जकविभावाद्युपलक्षणार्थत्वेन प्रयुक्तः, यथा तत्त्वं नाधिगतार्थ इति, प्रकृतो ह्यत्र वीररसः । उद्दीपन इति । उद्दीपनं विभावादिपरिपूरणया । यथा “अयं स राआ उदयणो त्ति” इत्यादि सागरिकायाः । प्रशमनं वासवदत्तातः पलायने । पुनरुद्दीपनं चित्रफलकोल्लेखे । प्रशमनं सुसङ्गताप्रवेशे इत्यादि । गाढं ह्यनवरतपरिमृदितो रसः सुकुमारमालतीकृसुमवज्झटित्येव म्लानिमवलम्बेत । विशेषतस्तु शृङ्गारः । यदाह मुनिः यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते । दुर्लभत्वं यतो नार्या कामिनः सा परा रतिः ॥ इति । वीररसादावपि यथावसरमुद्दीपनप्रशमनाभ्यां विना झटित्येवाद्भुतफलकल्पे साध्ये लब्धे प्रकटीचिकीर्षित उपायोपेयभावो न प्रदर्शित एवल स्यात् । पुनरिति । इतिवृत्तवशादारब्धाशङ्क्यमानप्राया
बालप्रिया
समीहा इच्छा । रतिभोगार्थेति । सुरतानुभवविषयिकेत्यर्थः । यद्वारतेः रत्याख्यस्थायिनः यो भुज्यत इति भोगो विषयः प्रमदादिः तदर्था तत्सम्भोगार्था इत्यर्थः । आधिकारिकेति । आधिकारिको यो रसो वर्ण्यमानः तस्य यः स्थायीभावस्तदुपव्यञ्जको यो विभावादिः तदुपलक्षमार्थत्वेन तदुपलक्षकत्वेनेत्यर्थः । न तु पूर्वेक्तवाच्यार्थमात्रपरत्वेनेति भावः । प्रयुक्त इति । मुनिनेति शेषः । यथेति । यथातत्त्वमधिगतो ज्ञातोऽर्थो मुन्यभिप्रेतार्थे यस्य तथाभूतो न, किन्तु तद्वाच्यार्थ एवाधिगत इति भावः । वेणीसंहारकृतेति शेषः । इतीत्यस्याशय इत्येननान्वयः । ननु वेणीसंहारे क आघिकारिको रस इत्यत्राहप्रकृत इति । न तु शृङ्गार इति भावः । अन्यथा दोषं दर्शयतिगाढमित्यादि । अनवरतपरिमृदितः अविच्छेदेनास्वादितः । मालतीति । अनवरतमृदितमालतीत्यर्थः । यदिति । वामाभिनिवेशित्वं नार्याः प्रतिकूलाचरणाभिलाषः । यतश्च यच्च विनिवार्यते नार्या सम्भोग इति शेषः । यतः यत्सा एतत्र्रयम्, परा रतिः विध्नितसम्भोगाया नार्यास्सम्भोगः परमप्रीतिहेतुरित्यर्थः । न केवलं शृङ्गारे रसान्तरेऽप्युक्तं ग्राह्यमित्याहवीरेत्यादि । अद्भुतफलेति । इन्द्रजालादिदर्शितफलेत्यर्थः । प्रकटीचिकीर्षितः कविना प्रकटीकर्तुमभिलषितः । उपायेति । नायकादितत्तद्य्वापारस्य चतुर्वर्गस्य च हेतुहेतुमद्भाव इत्यर्थः नैवेति योजना । आरब्धेत्यनेन प्रकृते विवक्षितमाहआशङ्क्यमानप्रायेति । उपनता जाता । विश्रान्तिपदार्थमाहविच्छेद इति । तथाच यत्र यत्रा ङ्गिनो रसस्य विच्छेदः प्राप्नुयात्तत्र रसस्य, यता रत्नावल्यामेव । पुमराब्धविश्रान्ते रसस्याङ्गिनोऽनसन्धिश्च । यथा तापसवत्सराजे । प्रबन्धविशेषस्य नाटकादे रसव्यक्तिनिमित्तमिदं चापरमवगन्तव्यं यदलङ्कृतीनां शक्तावप्यानुरूप्येण योजनम् । शक्तो हि कविः कदाचिदलङ्कारनिबन्धने तदाक्षिप्ततयैवानपेक्षितरसबन्धः प्रबन्धमारभते तदुपदेशार्थमिदमुक्तम् । दृश्यन्ते च कवयोऽलङ्कारनिबन्धनैकरसा अनपेक्षितरसाः प्रबन्धेषु ।
लोचनं
न तु सर्वर्थवोपनता विश्रान्तिर्विच्छेदो यस्य स तथा । रसस्येति । रसाङ्गाभूतस्य कस्यापीति यावत् । तापसवत्सराजे हि वासवदत्ताविषयो जीवतसर्वस्वाभिमानात्मा प्रेमबन्धस्तद्विभावाद्यौचित्यात्करुणविप्रलम्भादिभूमिका गृह्णन्समस्तेतिवृत्तव्यापी । राज्यप्रत्यापत्त्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपझावतीलाभानुगतयानुप्राण्यमानरूपा परमामभिलषणीयतमतां प्राप्ता वासवदत्ताधिगतिरेव तत्र फलम् । निर्वहणे हि “प्राप्ता देवी भूतधात्री च भूयः संबन्धोऽभूद्दर्शकेन” इत्येवं देवीलाभप्राधान्यं निर्वाहितम् । इयति चेतिवृत्तवैचित्र्यचित्रे भित्तिस्थानीयो वासवदत्ताप्रेमबन्धः प्रथममन्त्रारम्भात्प्रमृति पझावतीविवाहादौ, तस्यैव व्यापारात् । तेन स एव वासवदत्ताविषयः प्रेमबन्धः कथावशादाशङ्क्यमानविच्छेदोऽप्यनुसंहितः । तथाहिप्रथमे
बालप्रिया
तत्र तदनुसन्धानं सम्पादयितव्यमित्यर्थः । अङ्गिनो रसस्येत्यत्र रसपदेन विवक्षितमाह रसाङ्गभूतस्येति । कस्यापीति । विभावादेरित्यर्थः । “यथा तापसवत्सराज” इत्युक्तं विवृणोति तापसवत्सराजे हीत्यादि । प्रेमबन्ध इति । वत्सराजगत इति शेषः । समस्तेति । वृत्तव्यापीत्यनेनास्य सम्बन्धः । करुणेति । क्रमोऽत्र बोध्यः । उक्तं दृढीकरोति राच्येत्यादि । प्राप्तेत्यत्र हेतुःराज्यप्रत्यापत्यानुप्रेयमालरूपेति । राज्यप्रत्यापत्तेः विशेषणद्वयम्रचिवेत्यादि । उक्तमुपपादयतिनिर्वहण इत्यादि । प्रात्पेति । दृष्टायूयं निर्जिता विद्विषश्च प्राप्ता देवी भूतधात्री च भूयः । सम्बन्धोऽभूद्दर्शकेनापि सार्धं किं ते दुःखं यत्ततश्शान्तमद्य ॥ इति सम्पूर्णश्लोकः । “रसस्यारब्धविश्रान्तेरि"त्याद्युक्तं सङ्गमयतिइयतीत्यादि । इतिवृत्तवैचित्र्यचित्र इति । आलेख्यतल्ये विचित्रेतिवृत्त इत्यर्थः । प्रभृतिभितिस्थानीय इत्यन्वयः । व्यापारादिति । व्यापरणादित्यथः व्याप्तेरिति यावतित्यादिनेति । “निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः तां सम्प्रत्यपि मार्गदत्तनयनां
लोचनं
तावदङ्के स्फुटं स एवोपनिवद्धः “तद्वक्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठ्यैव” इत्यादिना, “बद्धोत्कण्ठमिदं मनः किमथवा प्रेमासमाप्तोत्सवम्” इत्यन्तेन । द्वितीयेऽपि “दृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न किम्” इत्यादिना स एव विच्छिन्नोऽप्यनुसंहितः । तृतीयेऽपि सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्गुते श्वासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तथा । हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे ॥ इत्यादिना । चतुर्थेऽपि देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् । इत्थं यन्त्रणया कथङ्कथमपि क्षीणा निशा जाग्रते ।
बालप्रिया
प्रष्टुं प्रवृत्तस्य मे” इत्यादिपदेन ग्राह्यम् । तद्वक्त्रेति । तत्पदेनात्र तत्पदेनात्र सर्वत्र वासवदत्तायाः परामर्शः दिवसः अहस्ममयः । तया सह गोष्ठी सम्भाषणादिस्तद्गोष्ठी तया । निशापीत्यत्र नीतेति विपरिणामेन सम्बन्धः । मन्मथेति । मन्मथेन कृतः उत्पादितः उत्साहः येषां तैः किं कुतः बद्धोत्कण्ठं भवति । विमृश्याहअथवेत्यादि । असमाप्तः उत्सवः वक्त्रेन्दुविलोकनादिरूपो यत्र । यद्वाअसमाप्तः असमापितः उत्सवः येन तत् । भवति इत्यन्तेनानुसंहित इति सम्बन्धः । दृष्टिरिति । नामृतधर्मिणीति च पाठः । आदिपदेन “नोर्ध्वार्द्रं हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा कस्मिन् लब्धपदेन ते कृतमिदं क्रूरेण पाताग्रिना । नूनं वज्रमयोऽन्य एव दहनस्तस्येदमाचेष्टितम् ॥ इत्यस्य सङ्ग्रहः । ते दृष्टिः अमृतवर्षिणी न किममृतवर्षिण्येवेत्यर्थः । एवमुपर्यपि किशब्दो नञ्पदैर्योज्यः । ऊर्ध्वार्द्रमुपरिभागे आर्द्रताविशिष्टम् । नो वार्द्रमिति वा पाठः । पूर्वार्द्धेन दृष्ट्याद्यङ्गेषु विरोघिसद्भावादग्नेः पदलाभो न भवतीति दर्शितमत एवाह “कस्मिन्नि"त्यादि कस्मिन् कृताङ्गे इदं कृतमित्येतद्विवृणोति “क्रूरेणे"त्यादि त्वं क्रूरेणाग्निना पीता दग्धा इति यदिदमिति सम्बन्धः । शोकावेशवशादाह “नूनम्” इत्यादि । दहनः त्वद्दाहकोऽग्निः । वज्रमयोन्य एव । नूनं सम्भावयामि । सर्वत्रेति । वराक्या निर्भाग्यया तया देव्या तथा दग्धमिति सम्बन्धः । देवीति । देवीतायदिहेतुगर्म । देवी वासवदत्ता । नियतमिति सम्भावनायाम् । स्वप्ने सम्भाव्यमानात्तद्गात्रग्रहणादित्यर्थः । इयमिति । पझावतीत्यर्थः । इत्थं यन्त्रणया एवं
लोचनं
दाक्षिण्योपहतेन सा प्रियतमा स्वप्तेऽपि नासादिता ॥ इत्यादिना । पञ्चमेऽपि समागमप्रत्याशया करुणे निवृत्ते विप्रलम्भेऽङ्कुरिते तथाभूते तस्मिन्मुनिवचसि जातागसि मयि प्रयत्नान्तर्गूढां रुषमुपगता मे प्रियतमा । प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिमधुरं समुद्भिना पीतैर्नयनसलिलैः स्थास्यति पुनः ॥ इत्यादिना । षष्टेऽपि"त्वत्सम्प्राप्तिविलोभितेन सचिवैः प्राणा मया धारिताः” इत्यादिना । अलङ्कृतीनामिति योजनापेक्षया कर्मणि षष्ठी । दृश्यन्ते चेति । यथा स्वप्नवासवदत्ताख्ये नाटकेऽस्वञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन । उद्धाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा ॥ “इति ॥ १४ ॥
बालप्रिया
चिन्तनरूपनिद्राप्रतिबन्धकेन जाग्रतो मे निशा क्षीणेति सम्बन्धः । निशा निद्रां विनैवातीतेत्यर्थः । अत आहदाक्षिणेयेत्यादि । दाक्षिण्यमत्र पझावतीविषयकं बोध्यम् । सा वासवदत्ता । अङ्कुरित इत्यादिना अनुसंहित इति सम्बन्धः । तथा भूत इति । मुनिवचसीति निमित्ते सप्तमी । स्थास्यतीत्यनेनास्यान्वयः । सा प्रियतमा तथा मम पुनःपश्चादपिपुर इतिवा पाठः । स्थास्यतीत्याशंसायां ळट् । प्रयत्नान्तर्गूढामिति । प्रयत्नैरन्तर्नियमितामित्यर्थः । उक्त्या मधुरं मनोहरं यथा तथा । समुद्भिन्न संमिश्रा, युक्तेति यावत्पीतैः अन्तःस्तम्भितैः समुद्भिन्नप्रीतिरिति पाठः । साधिष्ठः समुद्भिन्न प्रकाशिता प्रीतिः यया सेत्यर्थः । नयनसलिलोद्गमो हि कुपितानां स्त्रीणां प्रीतेरनुवः । त्वदिति । आदिपदेन “तन्मत्वा त्यजतश्सरीरकमिदं नैवास्ति निस्स्नेहता आसन्नोऽवसरस्तवानुगमने जाता धृतिः किन्त्वयम् । खेदो यच्च तवानुगं न हृदयं तस्मिन् क्षणे दारुण ॥ इत्यस्य सङ्ग्रहः । सचिवैः प्रयोजकैः मया प्रयोज्येन । “तदि"ति । त्वत्सम्प्राप्तिमित्यर्थः । अत्यजत इति च्छेदः । इत्यादिनेति तृतीयान्तानामनुसंहित इत्यने नान्वयो बोध्यः । योजनापेक्षयेति । योजनमिति कृदन्तापेक्षयेत्यर्थः । स्वञ्चितेति । वत्सराजोक्तिरियम् । स्वञ्तिते प्रवेशप्रतिबन्धाय सुष्टु मिथः सम्बद्धे पक्ष्मणी एव कवाटे यस्य तत् । नयनद्वारं नयनमेव द्वारम् । स्वरूपताडेन स्वस्यरूपमाकृतिः तदेव ताडः ताडनक्रिया साधनमुद्गाढनकरणमिति यावत्तेन । स्वरूपतडितैवेति पाठेस्वरूपमेव तडिद्विद्युत्तया करणेनेति तदर्थः । सा नृपतनूजा वासवदत्ता । अत्र नयनद्वारमित्येतावदेव रूपणं शृङ्गारानुगुणतया सुन्दरं न त्वन्यदपीति भावः ॥१४॥
किञ्च
अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः । ध्वनेरस्य प्रबन्धेषु भासते सोऽपि केषुचित् ॥ कारिका३.१५ ॥
अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः । ध्वनेरस्य प्रबन्धेषु भासते सोऽपि केषुचित् ॥ १५ ॥
अस्य विवक्षितान्यपरवाच्यस्य ध्वनेरनुरणनरूपव्यङ्ग्योऽपि यः प्रभेद उदाहृतो द्विप्रकारः सोऽपि प्रबन्धेषु केषुचिद्द्योतते । तद्यथा मधुमथनविजये पाञ्चजन्योक्तिषु । यथा वा ममैव कामदेवस्य सहचरसमागमे
लोचनं
न केवलं प्रबन्धेन साक्षाद्व्यङ्ग्यो यावत्पारम्पर्येणापीति दर्शयितुमुपक्रमतेकिञ्चेति । अनुस्वानोपमःशब्दशक्तिमूर् “थशक्तिमूलश्च, यो ध्वनेः प्रभेद उदाहृतः सः केषुचित्प्रबन्धेषु निमित्तभूतेषु व्यञ्चकेषु सत्सु व्यङ्ग्यतया स्थितः सन् । अस्येति रसादिध्वनेःप्रकृतस्य भासते व्यञ्जकतयेति शेषः । वृत्तिग्रन्थोऽप्येवमेव योज्यः । अथ वानुस्वानोपमः प्रभेद उदाहृतो यः प्रबन्धेषु भासते अस्यापि “द्योत्योऽलक्ष्यक्रमः क्वचित्” इत्युत्तरश्लोकेन कारिकावृत्त्योः सङ्गतिः । एतदुक्तं भवतिप्रबन्धेन कदाचिदनुरणनरूपव्यङ्ग्यो ध्वनिः साक्षाद्व्यज्यते स तु रसादिध्वनौ पर्यवस्यतीति । यदि तु स्पष्टमेव व्याख्यायते तदा ग्रन्धस्य पूर्वोत्तरस्यालक्ष्यक्रमविषयस्य मध्ये ग्रन्थोऽयमसङ्गतः स्यात्नीरसत्वं च पाञ्चजन्योक्त्यादीनामुक्तं स्यादत्यलम् ।
बालप्रिया
स्वव्याख्यास्यमानार्थाभिप्रायेण “किञ्चे"त्यादिग्रन्थमवतारयतिन केवलमित्यादि । पारम्पर्येणापीति । व्यङ्ग्यान्तरद्वारेणापीत्यर्थः । कारिकां व्याचष्टेअनुस्वानेत्यादि । ध्वनेरित्यस्य प्रभेद इत्यनेन सम्बन्ध इति दर्शयतिध्वनेः प्रभेद इति । पूरयतिव्यञ्चकेष्वित्यादि । अस्येत्यस्य व्याख्यानम्रसादिध्वनेः प्रकृतस्येति । अत्रापि पूरयतिव्यञ्जकतयेति । भासते इत्यनेन सम्बन्धः । प्रकारान्तरेण व्याचष्टेअथवेत्यादि । य उदाहृतः स केषुचित्प्रबन्धेषु भासते इत्यन्त अनुवादः । अस्य ध्वनेरपीत्यवशिष्टांशस्य उत्तरकारिकास्थेन द्योत्य इत्यनेनान्वयः । अस्य ध्वनेरपीत्यस्यानुस्वानोपमध्वनेरपीत्यर्थश्चेति भावः । एवं द्वेधापि व्याख्यानेन लब्धमर्थंमाहएतदित्यादि । यथाश्रुतार्थपरित्यागे बीजमाहयदीत्यादि । ग्रन्थोऽयमिति । अनुस्वानोपमेत्यादिकारिकेत्यर्थः । दोषान्तरं चाहनीरसत्वमित्यादि । नीरसत्वमुक्तं स्यादिति । नीरसत्वं विषमबाणलीलायाम् । यथा च गृध्रगोमायुसंवादादौ महाभारते ।
लोचनं
लीलादाढा शुध्यूड्ढासअलमहिमण्डलसश्चिअ अज्ज । कीस्मसुणालाहरतुज्जआइ अङ्गम्मि ॥ इत्यादयः पाञ्चजन्योक्तयो रुक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदनाभिप्रायमभिव्यञ्जयन्ति । सोऽभिव्यक्तः प्रकृतरसस्वरूपपर्यवसायी । सहचराः वसन्तयौवनमलयानिलादयस्तैः सह समागमे । मिअवहण्डिअरोरोणिरङ्कुसो अविवेअरहिओ वि । सविण वि तुमम्मि पुणोवन्ति अ अतन्ति पंमुसिम्मि ॥ इत्यादयो यौवनस्योक्तयस्तत्तन्निजस्वभावव्यञ्चिकाः, स स्वभावः प्रकृतरसपर्यवसायी । यथा चेति । श्मशानावतीर्णं पुत्रदाहार्थमुद्योगिनं जनं विप्रलब्धुं गृध्रो दिवा शवशरीरभक्षणार्थी शीघ्रमेवापसरत यूयमित्याह । अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसङ्कुले । कङ्कालबहले घोरे सर्वप्राणिभयङ्करे ॥
बालप्रिया
लीलेति । “लीलादाढग्गुद्धरिअस अलमहीमण्डलस्सविअअज्ज । कीसमुणालहरणं वितुझगुरु आइ अङ्गम्म ॥ इति पाठः । लीलादंष्ट्रग्रोद्धृतसकलमहीमण्डलस्यैवाद्य । कस्मान्मृणालाभरणमपि तव गुरु भवत्यङ्गे ॥ इतिच्छाया । लीलया दंष्ट्राग्रेण उद्धृतं सकलमहीमण्डलं येन वराहरूपिणा तस्येत्यनेन गुरुतरवस्तुवहने अनायासस्सूच्यते । एवकारो विरोधद्योतकः । मृणालाभरणमपि अतिलधुमृणालरूपमाभरणमपि । कस्माद्गुरु भवतीति सम्बन्धः । अनेन भगवतो विरहावस्थातिशयो द्योत्यते । एतमर्थं दर्शयतिरुक्मिणीत्यादि । रुक्मिणीविप्रलब्धोरुक्मिणीविरही यो वासुदेवस्तस्याशयो रुक्मिण्यामभिलाषः, तस्य प्रतिभेदनमाविष्करणं तदभिप्रायमित्यर्थः । प्रकृतरसेति । विप्रलम्भशृङ्गारेत्यर्थः । सहचरसमागमे इत्येतद्विवृणोतिसहचरा इत्यादि । मिश्रवेति । हुम्मि अवहत्थिअरे होणिरङ्कुसो अहविवेअरहिओवि । सिविणेवि तुमम्मि पुणो भन्तिं णपसुमरामि । इति पाठः । भवाम्यपहस्तितरेखो निरङ्कुशोऽथ विवेकरहितोऽपि । स्वप्नेऽपि तव पुनर्भक्तिं न प्रस्मरामि ॥ इति छाया । अपहस्तितरेख इति । अतिक्रान्तमर्याद इत्यर्थः । तत्तन्निजस्वभावेति । कामानुवर्तनादिस्वभावेत्यर्थः । अलमित्यादि । काव्यप्रकाशेऽप्युदाहृता इमे श्लोकोः ।
सुप्तिङ्वचनसम्बन्धैस्तथा कारकशक्तिभिः । कृत्तद्धितसमासैश्च द्योत्योऽलक्ष्यक्रमः क्वचित् ॥ कारिका३.१६ ॥
सुप्तिङ्वचनसम्बन्धैस्तथा कारकशक्तिभिः । कृत्तद्वितसमासैश्च द्योत्योऽलक्ष्यक्रमः क्वचित् ॥ १६ ॥
अलक्ष्यक्रमो ध्वनेरात्मा रसादः सुब्विशेषैस्तिङ्विशेषैर्वचनवशेषैः सम्बन्धविशेषैः कारकशक्तिभिः कृद्विशेषैस्तद्धितविशेषैः समासैश्चेति ।
लोचनं
न चेह जीवितःस कश्चित्कालधर्ममुपागतः । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥ अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात्कथं बालस्त्यक्ष्यध्वमविशङ्किताः ॥ इत्यादि । स चाभिप्रायो व्यक्तः शान्तरस एव परिनिष्ठततां प्राप्तः ॥ १५ ॥
एवमलक्ष्यक्रमव्यङ्ग्यस्य रसादध्वनेर्यद्यपि वर्णेभ्यः प्रभृति प्रबन्धपर्यन्ते व्यञ्जकवर्गे निरूपिते ननिरूपणीयान्तरमवशिष्यते, तथापि कविसहृदयानां शिभां दातुं पुनरपि सूक्ष्मदृशान्वयव्यतिरेकावाश्रित्य व्यञ्जकवर्गमाहसुप्तिङ्डित्यादि । वयं त्वित्थमेतदनन्तरं सवृत्तिकं वाक्यं बुध्यामहे । सुबादिभिः योऽनुस्वानोपमो भासते वक्त्रभिप्रायादरूपः अस्यापि सुबादिभिर्व्यक्तस्यानुस्वानोपमस्यालक्ष्यक्रमव्यङ्ग्यो द्योत्यः । क्वचिदिति पूर्वकारिकया सह संमील्य सङ्गतिरिति । सर्वत्र हि सुबादीनामभिप्रायविशेषाभिव्यञ्जकत्वमेव । उदाहरणे स त्वभिव्यक्तोऽभिप्रायो यथास्वं विभावादिरूपताद्वारेण रसादीन्व्यनक्ति ।
बालप्रिया
इत्याहेति । इत्यभिप्रायेणाहेत्यर्थः । कालधर्ममिति । मरणमित्यर्थः । जीवेदपीति । बालोऽयमिति शेषः । कनकवर्णवदाभातीति कनकवर्णाभः, कनकवर्णस्य हेमकुम्भादेराभा कान्तिरिवाभा यस्य इति वा तम् । त्यक्ष्यध्वं पितृपिण्डदमिति च पाठः । त्यक्ष्यध्वमित्यार्षः प्रयोगः । स चाभिप्राय इति । जनविसर्जनाभिप्रायः, भक्षणाभिप्राय इति वा अर्थः ॥ १४॥
एवमित्यादि । निरूपिते निरूपिते सति न अवशिष्यत इति सम्बन्धः । यथानुस्वानेत्यादिपूर्वग्रन्थो व्याख्यातस्तथा सुबित्यादिग्रन्थं व्याख्यातुमारभतेवयमित्यादि । एतदनन्तरं सुप्तिङ्वचनेत्यादिकम् । सुबित्यादीनां तृतीयान्तानां पूर्वकारिकास्थेन भासत इत्यनेन तत्स्थस्यास्य ध्वनेरपीत्यस्यात्रत्येन द्योत्य इत्यनेन च सम्बन्ध इति व्याचष्टेसुबादिभिरित्यादि । उक्तमुपपादयतिसर्वत्र हीत्यादि । चशब्दान्निपातोपसर्गकालादिभिः प्रयुक्तैरभिव्यज्यमानो दृश्यते । यथा न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥ लोचनमेतदुक्तं भवतिवर्णादिभिः प्रबन्धान्तैः साक्षाद्वा रसोऽभिव्यज्यते विभावादिप्रतिपादनद्वारेण यदिवा विभावादिव्यञ्जनद्वारेम परम्परयेते तत्र बन्धस्यैतत्परम्परया व्यञ्जकत्वं प्रसङ्गादादावुक्तम् । अधुना तु वर्णपदादीनामुच्यत इति । तेन वृत्तावपि “अभिव्यज्यमानो दृश्यते” इति । व्यञ्जकत्वं दृश्यत इत्यादौ च वाक्यशेषोऽध्याहार्यः विभावादिव्यञ्जनद्वारतया पराम्पर्थेणेत्येर्वरूपः । ममारय इति । मम शत्रुसद्भावोनोचित इति सम्बन्धानौचित्यं क्रोधविभावं व्यनक्ति अस्य इति बहुवचनम् । तपोविद्यते यस्येति पौ षकथाहीनत्वं तद्धितेन मत्वर्थीयेनाभिव्यक्तम् । तत्रापिशब्देन निपातसमुदायेनात्यन्तासम्भावनीयत्वम् । मत्कर्तृका यदि जीवनक्रया तदा हननक्रिया तावदनुचिता । तस्यां च स कर्ता अपिशब्देन मनुष्यमात्रकम् । अत्रैवेतिमदधिष्ठितो
बालप्रिया
तात्पर्यमाहएतदुक्तमित्यादि । विभावादिप्रतिपादनद्वारेण साक्षाद्वा विभावादिव्यञ्जनद्वारेण परम्परया वा रसोऽभिव्यज्यत इति सम्बन्धः । आदाविति । पूर्वकारिकायामित्यर्थः । व्याख्यातार्थानुरोधेन वृत्तिग्रन्थं योजयतितेनेत्यादि । इत्येवंरूपो वाक्यशेष इत्यन्वयः । व्यञ्जनद्वारतयेति । रसादिस्सुब्विशेषादिभिर्विभावादिव्यञ्जनद्वारा पारम्पर्येणाभिव्यज्यमानो दृश्यत इत्याद्यर्थ इति भावः । “न्यक्कार” इति । इयं श्रीरामेण राक्षसकुलक्षये क्रियमाणे क्रुद्धस्य रावणस्य स्वाधिक्षेपोक्तिः । मे अरयस्सन्ति यदयमेव न्यक्कार इत्याद्यन्वयः । “प्रबोधितवते"ति । णिजन्ताद्भावे क्ते ततो मतुपि बोध्यम् । स्वर्ग एव ग्रामटिका स्वल्पग्रामः । श्लोकोऽयं काव्यप्रकाशेऽप्युदाहृतः । वृत्युकतं व्यञ्जकत्वं विवृणोतिमे इत्यादि । बहुत्वेन शत्रुमत्ता ममानुचितेति सम्बन्धानौचित्यरूपं क्रोधविभावमरय इति बहुवचनं व्यञ्जयतीति बहुवचनमित्यस्यार्थः । वृत्तौ “सम्बन्धे"त्यस्य षष्ठ्यर्थसम्बन्धेत्यर्थः । अभिव्यक्तमिति । अदश्शब्दार्थस्येति । शेषः । अत्यन्तासम्भावनीयत्वमिति । तापसगतशत्रुताया अत्यन्तासम्भाव्यत्वमभिव्यक्तमित्यर्थः । अभिव्यक्तपदस्य यथायोगमुत्तरत्रापि सम्बन्धो बोध्यः । हननक्रियेति । यत्क्रिंञ्चित्कर्तृकापीति शेषः । सः तापसः मानुषमात्रकः कुत्सितो मनुष्य एव । नीत्युपसर्गार्थविवरणम्निशशेषेणेति । यथा अत्र हि श्लोके भूयसा सर्वेषामप्येषां स्फुटमेव व्यञ्जकत्वं दृश्यते । तत्र “मे यदरयः” इत्यनेन सुप्सम्बन्धवचनानामभिव्यञ्जकत्वम् । “तत्राप्यसौ तापस” इत्यत्र तद्वितनिपातयोः “सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः” इत्यत्र तिङ्कारकशक्तीनाम् । “धिग्धिक्छक्रजितम्” इत्यादौ श्लोकार्धे कृत्तद्धितसमासोपसर्गाणाम् । एवंविधस्य व्यञ्चकभूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्धच्छाया समुन्मीलति । यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावदाविर्भावस्तत्रापि काव्ये कापि बन्धच्छाया किमुत यत्र तेषां बहूनां समवायः । यथात्रानन्तरोदतश्लोके । अत्र हि रावम इत्यस्मिन् पदेऽर्थान्तरसंक्रमितवाच्येन ध्वनिप्रभेदेनालङ्कृतेऽपि पुनरनन्तरोक्तानां व्यञ्जकप्रकाराणामुद्भासनम् । दृश्यन्ते च महात्मनां प्रतिभाविशेषभाजां बाहुल्येनैवंविधा बन्धप्रकाराः ।
लोचनं
देशोऽधिकरणं निःशेषेम हन्यमानतताया राक्षसबलं च कर्मेति तदिदमसंभाव्यमानमुपनतमिति पुरुषकारासम्पत्तिर्ध्वन्यते तिङ्कारकशक्तिप्रतिपादकैश्च शब्दैः । रावण इति त्वर्थान्तरसङ्क्रमितवाच्यत्वं पूर्वमेव व्याख्यातम् । धिग्धिगिति निपातस्य शक्रं जितवानित्याख्यायिकेयमिति उपपदसमासेन सहकृतः स्वर्गेत्यादिसमासस्य स्वपौरुषानुस्मरणं प्रति व्यञ्जकत्वम् । ग्रामटिकेति स्वार्थिकतद्धितप्रयोगस्य स्त्रीप्रत्ययसहितस्याबहुमानास्पदत्वं प्रति, विलुण्ठनशब्दे विशब्दस्य निर्दयावस्कन्दनं प्रति व्यञ्जकत्वम् । वृथाशब्दस्य निपातस्य स्वात्मपौरुषनिन्दां प्रति व्यञ्जकता । भुजैरिति बहुवचनेन प्रत्युत भारमात्रमेतदिति व्यज्यते । तेन तिलशस्तिलशोऽपि विभज्यमानेऽत्र श्लोके सर्व एवांशो व्यञ्जकत्वेन भातीति किमन्यत् । एतदर्थप्रदशनस्य फलं दर्शयतिएवमिति । एकस्य पदस्येति यदुक्तं तदुदाहरतियथात्रेति ।
बालप्रिया
राक्षसकुलनामापि नक्ष्यति तथेत्यर्थः । राक्षसबलमिति । राक्षसकुलमिति च पाठः । सोऽपीत्यादिवाक्यव्यङ्ग्यं दशयतितदिदमित्यादि । पुरुषकारासम्पत्तिरिति । स्वपौरुषप्रकर्षाभाव इत्यर्थः । तिङ्कारकशक्तिप्रतिपादकैश्शब्दैर्ध्वन्यत इत्यन्वयः । तिङ्च कारकशक्तिप्रतपादकाश्चतैः । तिङ्निहन्तीति कारकशक्तयःधिकरणत्वकर्तृत्वकर्मत्वरूपाः । पूर्वमेव व्याख्यातमिति । महेन्द्रपुरीविमर्दनादिकारित्वं रावणपदेन व्यज्यत इति भावः । निपातस्येति । व्यञ्जकत्वमिति शेषः । आख्यायियिकेति । कल्पितार्था वागित्यर्थः इतीति । इत्यर्थं प्रतीत्यर्थः । सहकृत इति षष्ठ्यन्तं निपातस्येत्यस्य विशेषणम् । उपसंहरतितेनेत्यादि । विभज्येत्यत्र निर्भज्येति च पाठः । यथा महर्षेर्व्यासस्य अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवसा पृथिवी गतयौवना ॥ अत्र हि कृत्तद्धितवचनैरलक्ष्यक्रमव्यङ्ग्यः, “पृथिवी गतयौवना” लोचनमतिक्रान्तं न तु कदाचन वर्तमानतामवलम्बमानं सुखं येषु ते काला इति, सर्व एव न तु सुखं प्रति वर्तमानः स कोऽपि काललेश इत्यर्थः । प्रतीपान्युपस्थितानि वृत्तानि प्रत्यावर्तमानानि तथा दूरभावीन्यपि प्रत्युपस्थितानि निकटतया वर्तमानानि भवन्ति दारुणानि दुःखानि येषु ते । दुःखं बहुप्रकारमेव प्रतिवर्तमानाः सर्वे कालांशा इत्यनेन कालस्य तावन्निर्वेदमभिव्यञ्जयतः शान्तरसव्यञ्जकत्वम् । देशस्याप्याहपृथिवी श्वः श्वः प्रातः प्रातर्दिनाद्दिनं पापीयदिवसाः पापानां सम्बन्धिनः पापिष्ठजनस्वामिका दिवसा यस्यां सा तथोक्ता । स्वाभावत एव तावत्कालो दुःखमयः तत्रापि पापिष्ठजनस्वामिकपृथिवीलक्षयौवना वृद्धस्त्रीवदसंभाव्यमानसंभोगा गतयौवनतया हि यो यो दिवस आगच्छति
बालप्रिया
अत्र व्यङ्गयत्वेनोक्तानामर्थानां रावणगतक्रोधनिर्वेदातिशयव्यञ्जकत्वं बोध्यम् । श्लोकं व्याख्यातिअतिक्रान्तमित्यादि । भूतार्थकक्तप्रत्ययेन गम्यमर्थमाहन त्वित्यादि । काला इति बहुवचनार्थविवरणम्सर्व एवेति । तेन गम्यमाहन त्वित्यादि । प्रतीत्यस्य विवरणम्प्रतीपानीति । प्रतिकूलानीन्त्यर्थः । वृत्तानि प्रत्यावर्तमानान्युपस्थितानीति सम्बन्धः । गतान्यपि प्रत्यावर्तमानत्वेन ज्ञायमानानीत्यर्थः । अन्यथापि व्याचष्टेतथेत्यादि । उक्तमेवार्थं स्फुटमाहदुःखमित्यादि । इत्यनेनेत्यादि । निर्वेदाभिव्यञ्जनद्वारा प्रकृतशान्तरसव्यञ्जकत्वमित्यर्थः । पापीयेति छप्रत्ययान्तमित्याशयेन व्याचष्टेपापानामित्यादि । पापानां सम्बन्धिन इत्यस्यैव विवरणम्पापिष्ठेत्यादि । भूमार्थकाजन्तः पापशब्दोऽत्रातिशयिततपापविशिष्टार्थक इति भावः । पापत्रयतात्पर्यमाहस्वभावत इत्यादि । पापिष्ठेति । पापिष्ठजनस्वामिकः पृथिवीलक्षणो यो देशस्तस्य दौरात्म्यादित्यर्थः । श्वः श्व इत्यस्य गतयौवनेत्यनेनापि सम्बन्ध इत्याहश्वःश्व इत्यादि । गतयौवनेत्यस्य मुख्यार्थं तस्य प्रकृते बाधल्लक्षणानिमित्तं तत्सारूप्यं च दर्शयतिवृद्धेत्यादि । सम्भोगस्मुखानुभवः । गतयौवनापदेनात्र सुखानाधायिकेत्यर्थो लक्ष्यते, सुखानुभवस्य सम्भावनापि नास्तीत्यर्थो व्यङ्ग्यश्चेति भावः । गतयौवनेति पापीयानित्यत्र हेतुगर्भं पापीयपदमर्थान्तरपरं चेत्यन्यथा व्याचष्टेगतेत्यादि । यदि वेत्यादौ योज्यम् । गतेति । इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिः प्रकाशितः । एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेण दृश्यते । सुबन्तस्य व्यञ्जकत्वं यथा तालैः शिञ्जद्वयसुभगैः कान्तया नर्तितो मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ तिडन्तस्य यथा अवसर रोउं चिअ णिम्मिआइं मा पुंस मे हअच्छीइम् । दंसंणमेत्तुम्भत्तेहिं जहि हिअअं तुह ण णाअम् ॥
लोचनं
स स पूर्वपूर्वापेक्षया पापीयान्निकृष्टत्वात् । यदिवेयसुनन्तोऽयं शब्दो मुनिनैवं प्रयुक्तो णिजन्तो वा । अत्यन्तेति । सोऽपि प्रकारोऽस्यैवाङ्गतामेतीति भावः । सुबन्तस्येति । समुदितत्वे तूदाहरणं दत्तं व्यस्तत्वे चोज्यत इति भावः । तालैरिति बहुवचनमनेकविधं वैदग्ध्यं ध्वानत्विप्रलम्भोद्दीपकतामेति । अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे । दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातम् ॥ अन्मत्तो हि न किञ्चिज्जानातीति न कस्याप्यत्रापराधः दैवेनेत्थमेव निर्माणं
बालप्रिया
पृथिव्या इति शेषः । ननु पापीयानित्युक्तार्थः कथं लभ्यत इत्यत्राहैतसुनन्त इति । नन्वस्मिन् पक्षे पापीयो दिवसेति भाव्यमित्यत आहमुनिनेत्यादि । आर्षोऽयं प्रयोग इत्यर्थः. अ६ पक्षान्तरमाहणिजन्तो वेति । मुनिना प्रयुक्त इत्यनुषज्यते णिजन्तेयसुनन्तो मुनिनाप्रयुक्तो वेत्यर्थः । लोकान् पापीयसः करोतीत्यर्थे पापीयश्शब्दाण्णचि कर्तर्यवि टेर्णिचश्च लोपादकारान्तोऽयं पापीयशब्द इति भावः । अनुस्वानेत्यादिकारिका यथा व्याख्याता, तथा प्रकृते योजयतसोऽपीत्यादि । सोऽपि प्रकारः अत्यन्ततिरस्कृवाच्यो ध्वनिः । रसस्येति । प्रकृतस्य शान्तस्येत्यर्थः । दत्तमिति । न्यक्कार इत्यादिश्लोकेन दर्शितमित्यर्थः । “तालै, रित्याद्युत्तरमेघसन्देशस्थम् । वैदग्ध्यमिति नर्तनविषयकं वैदगध्यमित्यर्थः । अपसरेत्यादिविरहिण्याश्शठं प्रत्युक्तिः । मे हताक्षिणी इत्छाया । त्वमपसर अपेहि । कुत इत्यत्राहरोदितुमित्यादि । रीदितुमेव निर्मिते सृष्टे मे हताक्षिणी कुत्सिते नयने । मा पुंसय मा अभिवर्धय, मा त्वदभिमुखं विकासयेति । यावत् । पुंस अभिवर्धन इति चुरादी । हृदयं तव न ज्ञातमित छाया । तद्य्वाख्यानम्तवेत्यादि । एवंरूपमिति । मथि अनासक्तं भावीत्यर्थः । भावार्थमाहौन्मत्तो हीत्यादि । तिङ्न्त इति अपसरेति यथा वा मा पन्थं रुन्धीओ अवेहि बालअ अहोसि अहिरीओ । अम्हेअ णिरिच्छाओ सुण्णधरं रक्खिदव्वं णो ॥ सम्बन्धस्य यथा अणणत्त वच्च बालअ ह्णा अर्न्ति किं मं पुलोएसिएअम् । भो जाआभीरुआणं तडं विअण होरि ॥
लोचनं
कृतमिति । अपसर मा वृथा प्रयासं कार्षीः दैवस्य विपरिवर्तयितुमशक्यत्वादिति तिङन्तो व्यञ्जकः तदनुगृहीतानि पदान्तराण्यपीति भावः । मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अह्नीकः । वयं परतन्त्रा यतः शून्यगृहं मामकं रक्षणीयं वर्तते ॥ इत्यत्रापेहीति तिङन्तमिदं ध्वनतित्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि । अस्ति तु सङ्केतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति । “अन्यत्र व्रज बालक” अप्रौढ बुद्धे स्नान्तीं मां किं प्रकर्षेणालोकयस्येतत् । भो इति सोल्लुण्ठमाह्वानम् । जायाभीरुकाणां सम्बन्धितडमेव न भवति । अत्र जायातो ये भीरवस्तेषामेतत्सथानमिति दुरापेतः
बालप्रिया
तिङन्तशब्द इत्षथः । व्यञ्जक इति । रिर्ष्यादिव्यञ्जक इत्यर्थः । बालकेत्यस्य विवरणमप्रौढेति । णिरिछाओ इत्यस्य छायाविवरणम् । वयं परतन्त्रा इति । शून्यगृहं रक्षणीयं न इति छाया । अस्य व्याख्यानम्यत इत्यादि । प्रकाशयसीति । सम्भोगेच्छामिति शेषः । अत्र श्लोके शृङ्गारः सम्भोगो व्यङ्य पूर्वश्लोरके तु विप्रलम्भ इति भेदः । वृत्तौ “अण्णत्ते"ति अन्यत्र व्रज बालकस्नान्तीं किं मा प्रलोकयस्येतत् । भो जायाभीरुकाणां तटमेव न भवति ॥ इति । या । जलाशये स्नान्तीं कञ्चिदनुरागेण पश्यन्तं कञ्चन गृहस्थं प्रति तं कामयमानायास्तस्या उक्तिरियम् । तडमित्यस्य स्थाने तित्थमिति पाठोऽपि दृश्येति । तस्य तीर्थमिति छाया । लोचनेसम्बन्धीति षष्ठ्यर्थकथनम् । एतत्तटं जायाभीरुकाणां सम्बन्धि न भवत्येवेति योजना । उक्तस्यैव विवरणम्जायात इत्यादि । इति सम्बन्धो दूरापेत इत्यन्वयः । तथाविधानामत्र स्थाने वर्तनरूपः सम्बन्धो दूरापेत इत्यर्थः । अतो व्रजेति । अनेन सम्बन्धेनेति । षष्ठ्यर्थसम्बन्धेनेत्यर्थर्ः । इर्ष्येति । कृतकप्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव । अवज्ञातिशये कः । समासानां च वृत्त्यौचित्येन विनियोजने । निपातानां व्यञ्जकत्वं यथा अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपात्वरम्यैः ॥ इत्यत्र चशब्दः । यथा वा मुहुरङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ अत्र तुशब्दः । निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्तमिति द्रष्टव्यम् । उपसर्गाणां व्यञ्चकत्वं यथा नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरुणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगभादभिन्नगतयः शब्दं सहन्ते मृगा स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दलेखाङ्किताः ॥
लोचनं
सम्बन्ध इत्यनेन समबन्धेनेर्ष्यातिशयः प्रच्छन्नकामिन्याभिव्यक्तः । कृतकेति कग्रहणं तद्धितोपलक्षणार्थम् । कृतः कप्रत्ययप्रयोगो येषु काव्यवाक्येषु यथा जायाभीरुकाणामिति । ये ह्यरसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्थादिति कप्रत्ययोऽवज्ञातिशयद्योतकः । समासानां चेति । केवलानामेव व्यञ्जकत्वमावेद्यत इति सम्बन्धः । चशब्द इति जातावेकवचनम् । द्वौ चशब्दावेवमाहतुः काकतालीयन्यायेन गण्डस्योपरि स्फोट इतिवत्तद्वियोगश्च वर्षसमयश्च सममुपनतौ एतदलं प्राणहरणाय । अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् । तुशब्द इति । पश्चात्तापसूचकस्सन् तावन्मात्रपरिचुम्बनलाभेनापि कृतकृत्यता स्यदिति ध्वनतीति भावः । प्रसिद्धमपीति ।
बालप्रिया
जायासक्तिनिमित्तकेर्ष्येत्यर्थः । कग्रहणं तद्धितोपलक्षणार्थमिति । कृतकप्रयोगेष्वित्यत्र कप्रत्ययग्रहणं कादितद्धितोपलक्षकमित्यर्थः । व्याचष्टेकृत इत्यादि । केत्यस्य विवरणम्कप्रत्ययेति । “अवज्ञातिशये क” इत्येतद्विवृणोतिय इत्यादि । प्रेमेत्यत्र कामेति च पाठः । केवलानामेवेति पूरितम् । “अयम्” इत्यादिविक्रमोर्वशीयस्थम् । द्वौ चशब्दाविति । “उपनतश्च “भवितव्यञ्जे"ति चशब्दावित्यर्थः । इत्यादौ द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सोऽपि रसव्यक्त्यनुगुणतयैव निर्देषः । यथा “प्रभ्रश्यत्युत्तरीयत्विषि समासि समुद्वीक्ष्य वीतावृतीन्द्राग्जन्तून्” इत्यादौ । यथा वा “मनुप्यवृत्त्या समुपाचरन्तम्” इत्यादौ ।
लोचनं
वैयाकरणादिगृहेषु हि प्राक्प्रयोगस्वातन्त्र्यप्रयोगाभावात्षष्ठ्याद्यश्रवणाल्लिङ्गसंख्यावरहाच्च वाचकवैलक्षण्येन द्योतका निपाता इत्युद्धोष्यत एवेति भावः । प्रकर्षेण स्निग्धा इति प्रशब्दः प्रकर्षं द्योतयन्निङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयन्ध्वनति । “तापसस्य फलविसेषविषयोऽभिलाषातिरेको ध्वन्यते” इति त्वसत् - अभिज्ञानशाकुन्तले हि राज्ञ इयमुक्तिर्न तापसस्येत्यलम् । द्वित्राणामित्यनेनाधिक्यं निरस्यति । सम्यगुच्चैर्विशेषेणेक्षितित्वे भगवतः कृपातिशयोऽभिव्यक्तः । मनुष्यवृत्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः । योगीश्वरैरप्यसुबोधमीश त्वां बोद्धुमिच्छन्त्यबुधाः स्वतर्कैः ॥ सम्यग्भूतमुपांशुकृत्वा आ समन्ताच्चरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वनितः ।
बालप्रिया
समयश्चेत्यनन्तरं द्वयमिति शेषः । मुहुरित्यादिश्लोकद्वयं शाकृन्तलस्थमस्मदीयशाकुन्तलव्याख्यायां विस्तरेण व्याख्यातम् । प्रसिद्धिं विवृणोतिवैयाकरणादीत्यादि । गृहेष्वित्यस्योद्धोप्यत इत्यनेन सम्बन्धः । वाचकवैलक्षण्ये हेतुचतुष्टयमाहप्रागित्यादि । प्राक्प्रयोगस्वातन्त्र्यप्रयोगाभावादिति । प्राक्प्रयोगश्च स्वातन्त्रयेण प्रयोगाभावश्च तस्मात्प्राक्प्रयोगादिति व्यस्ततया पाठः साधीयानुपसर्गसंज्ञाविशिष्टानां प्रसाक्षादित्यादीनां निपातानां धातोः प्रागेव प्रयोगादिवैवमादीनां प्रतियोग्यादिवाचकपदं विना स्वतन्त्रतया प्रयोगस्याभावाच्चेत्यर्थः । षष्ठ्याद्यश्रवणादिति । यथा चन्द्रस्य चन्द्रेण वा सदृशं मुखमित्यादौ षष्ठ्यादिकं श्रूयते, तथा चन्द्र इवेत्यादौ षष्ठ्यादिकं न श्रूयते यतस्तस्मादित्यर्थः । लिङ्गेति । निपातार्थस्येति शेषः । समुद्वीक्ष्ये” त्येतद्व्याचष्टेसम्यगित्यादि । भगवतः सूर्यस्य । मनुष्येति । कृताभिमानी इति “च पाठः । समुपाचरन्तमित्येतद्विवृणोतिसम्यगित्यादि । “ये जीवन्ती"ति । ऊर्जिते गुणिनि दृष्टे सत, ये जीवन्ति स्म उत्कृष्टजीविता अभूवन् । ये प्रीत्या वपुषि न मान्ति स्म, ये प्रस्यन्दिप्रमदाश्रवः पुलकिताः सन्तः प्रनृत्यन्ति स्मेत्याद्यन्वयः । “साधुद्धिष” असज्जनान् । साधुद्विषामिति पाठे कर्मणश्शेषत्वविवक्षया षष्ठी । “पुष्यता” पोषयता । ये स्ववपुषीति पाठे तु जीवन्तीत्यादौ निपातानामपि तथैव । यथा “अहो बतासि स्पृहणीयवीर्यः” इत्यादौ । यथा वा ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते । हा धिक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते नीतानां प्रलयं शठेन विधिना साधुद्विषः पुष्यता ॥ इत्यादौ । पदपौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामावहत । यथा यद्वञ्जनाहितमतिर्बहुचाटुगर्भं कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत्साधवो नन विदन्त विदन्ति किन्तु कर्तु वृथाप्राणयमस्य न पारयन्ति ॥ इत्यादौ ।
लोचनं
तथैवेति । रसव्यञ्जकत्वेन द्वित्राणामपि प्रयोगो निर्देष इत्षथः । श्लाघातिशयो निर्वेदातिशयश्च अहो बतेति हा धिगिति च ध्वन्यते । प्रसङ्गात्पौनरुक्त्यान्तरमपि व्यञ्जकमित्याहपदपौनरुक्त्यमिति । पदग्रहणं वाक्यादेरपि यथासंभवमुपलक्षणम् । विदन्तीति । त एव हि सर्वं विदन्ति सुतरामिति ध्वन्यते । वाक्यपौनरुक्त्यं यथा “पश्य द्वीपादन्यस्मादपि” इति वचनानन्तरं “कः संदेहः द्वीपादन्यस्मादप” इत्यनेनेप्सितप्राप्तिरविध्नितैव ध्वन्यते । “किं किम्? स्वस्स्था भवन्ति मयि जीवति” इत्यनेनामर्षातिशयः । “सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी” इत्युन्मादातिशयः ।
बालप्रिया
वर्तमानसामीप्ये भूते लडिति बोध्यम् । लोचनेध्वन्यत इति । अत्र यथासंख्यं बोध्यम् । “यद्वञ्जने"ति । काव्यप्रकाशेऽप्युदाहृतम् । द्वीपादित्यादिरत्नावलीस्थम् । स्वस्था इति । वेणीसंहारस्थमिदम् । अमर्षातशय इति । वक्तुर्भीमसेनस्येति शेषः । सर्वेत्यादि विक्रमोर्वशीयस्थम् । उन्मादातिशय इति । वक्तुः पुरूरवस इति शेषः । कालस्य व्यञ्जकत्वं यथा समविसमणिव्विसेसा समन्तओ मन्दमन्दसंारा । ऐरा होहिन्ति पहा मणोरहाणं पि दुल्लङ्घा ॥ (समविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्जाराः । अचिराद्भविष्यन्ति पन्थानो मनोरथानामपि दुर्लङ्घ्याः ॥ इति छाया) अत्र ह्यचिराद्भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन् पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहेतुः प्रकाशते । अयं हि गाथार्थः प्रवासविप्रलम्भशृङ्गारविभावतया विभाव्यमानो रसवान् । यथात्र प्रत्ययांशो व्यञ्जकस्तथा क्वचित्प्रकृत्यंशोऽपि दृश्यते । यथातद्गेहं नतमिति मन्दिरमिदं लब्धावगाहं दिवः सा धेनुर्जरती चरन्ति करिणामेता धनाभा धटाः । स क्षुदो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता माश्चर्यं दिवसौर्द्विजोऽयमियतीं भूमिं समारोपितः ॥
लोचनं
कालस्येति । तिङन्तपदानुप्रवष्टस्याप्यर्थकलापस्य कारककालसंख्योपग्रहरूपस्य मध्येऽन्वयव्यतरेकाभ्यां सूक्ष्मदृशा भागगतमपि व्यञ्जकत्वं विचार्यमिति भावः । रसपरिपोषेति । उत्प्रेक्ष्यमाणो वर्षासमयः कम्पकारी किमुत वर्तमान इति ध्वन्यते । अंशांशिकप्रसङ्गादेवाहयथात्रेति ।
बालप्रिया
ध्वन्यते इत्यस्यानुषङ्गः । भावमाहतिङन्तेत्यादि । तिङ्न्तपदानुप्रविष्टस्य तिङ्न्तपदबोध्यस्य । कारकेत्यादि । कारकादिचतुष्टयरूपस्येत्यथः । उपग्रहः, आत्मनेपदपरस्मैपदे तद्योत्यः कर्त्रभिप्रायक्रियाफलादिरिति यावत् । भागगतमिति । कारकादिचतुष्टयैकदेशभूतकालगतमपीत्यर्थः । वृत्तौ “समे"ति । समविषमाः समाः विषमाश्च देशाः निर्विशेषाः जलप्रवाहनिमग्नतया एकरूपाः येषु ते । “मनोरथानाम “पीति । किमुत जनानामित्यपिशब्दार्थः । “रसपरिपोषहेतुः प्रकाशत” इत्युक्तं विवृणोतिउत्प्रेक्ष्यमाणः इत्यादि । उत्प्रेक्ष्यमाणः अचिराद्भावित्वेनोह्यमानः । कम्पेति । विरहिजनानामिति शेषः । “तद्गेहम्” इति । काव्यप्रकाशेऽप्युदाहृतोऽयं श्लोकः । “इयतीं भूमि” मिति । समृद्धिसीमामित्यर्थः । भूतिमिति च पाठः । अत्र श्लोके दिवसैरित्यस्मिन् पदे प्रकृत्यंशोऽपि द्योतकः । सर्वनाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते श्लोके । अत्र च सर्वनाम्नामेव व्यञ्जकत्वं हृदि व्यवस्थाप्य कविना क्वेत्यादिशब्दप्रयोगो न कृतः । अनया दिशा
लोचनं
दिवसार्थे ह्यत्रात्यन्तासम्भाव्यमानतामस्यार्थस्य ध्वनि । सर्वनाम्नां चेति । प्रकृत्यंशस्य चेत्यर्थः । तेन प्रकृत्यंशेन सम्भूत सर्वनामव्यञ्जकं दृश्यत इत्युक्तं भवतीति न पौनरुक्त्यम् । तथा हि तदिति पदं नतभित्तीत्येतत्प्रकृत्यंशसहायं समस्तामङ्गलनिधानभूतां मूषकाद्याकीर्णतां ध्वनति । तदिति हि केवलमुच्यमाने समुत्कर्षातिशयोऽपि संभाव्येत । न च नतभित्तिशब्देनाप्येते दौर्भाग्यायतनत्वसूचका विशेषा उक्ताः । एवं सा धेनुरित्यादावपि योज्यम् । एवंविदे च विषये स्मरणाकारद्योतकता तच्छब्दस्य । न तु यच्छब्दसंबद्धतेत्युक्तं प्राक् । अत एवात्र तदिदंशब्दादिना स्मृत्यनुभवयोरत्यन्तविरुद्धविषयतासूचनेनाश्चर्यविभावता योजिता । तदिदंशब्दाद्यभावे तु सर्वमसङ्गतं स्यदिति तदिदमंशयोरेव प्राणत्वं योज्यम् । एतच्च द्विशः सामस्त्यं त्रिशः सामस्त्यमिति व्यञ्जकमित्युपलक्षणपरम् । तेन लोष्टप्रस्तारन्यायेनानन्तवैचत्र्यमुक्तम् ।
बालप्रिया
दिवसैरित्याद्युक्तं विवृणोति दिवसार्थो हीत्यादि । दिवसार्थः दिवसरूपप्रकृत्यर्थः । अस्यार्थस्य सम्पत्समृद्धिप्राप्तिरूपार्थस्य । ननु प्रकृत्यंशो द्योतक इत्युकत्यैव सर्वनाम्नामपि व्यञ्जकत्वे प्राप्ते पुनस्तद्वचनं पुनरुक्तमित्यत आहप्रकृत्यंशस्य चेति । सर्वनाम्नाञ्चेति चकारेणोक्तार्थस्य लाभ इति भावः । एवं व्याख्यानेन लब्धमाहतेनत्यादि । तदिति पदमिति । “तद्गेह” मित्यत्र तत्पदमित्यर्थः । ध्वनतीति । गेहस्येति शेषः । द्वयोः सम्भूय व्यञ्जकत्वमुक्तमुपपादयतितदित्यादि । सम्भाव्यतेति । व्यङ्ग्यत्वेनेति शेषः । नतभित्तिशब्देनापीति । केवलेनेति विपरिणामेनानुषङ्गः । एते विशेषा इति । मूषकाद्याकीर्णतारूपा विशेषा इत्यर्थः । न च उक्ता इति सम्बन्धः । भवेयुरिति शेषः । केवलयोस्तयोरुक्तार्थव्यञ्जकत्वं न भवेदित्यर्थः । ते लोचने इत्यत्र पूर्वमुक्तं स्मारयतिएवंविध इत्यादि । अत एवेति । तच्छब्दानां स्मरणाकारद्योतकत्वादेवेत्यर्थः । स्मृत्यनुभवयोरिति । तच्छब्दगम्यायाः स्मृतेरिदमेतच्छब्दगम्यस्यानुभवस्य चेत्यर्थः । अत्यन्तेति । अत्यन्तविरुद्धौ विषयौ ययोस्तत्तायास्सूचनेनेत्यर्थः । अत्र गेहस्य नतभित्तित्वमूषकाद्याकीर्णत्वादिधर्मप्रकारेण स्मृतिः दिवो लब्धावकाशमित्याद्युक्तधर्मप्रकारेणानुभवश्चेति बोध्यम् । तदिदं शब्दादिना योजितेत्यन्वयः । तदिदमंशयोरेवेति । तदित्यादेरिदमित्यादेश्चैवेत्यर्थः । प्रामत्वमिति । चमत्कारकारित्वमित्यर्थः । एवेच्चेत्यादि । द्वयोः सम्भूय तथा त्रयाणां सम्भूय व्यञ्जकत्वमित्येतदुपलक्षणमित्यर्थः । उक्तमिति । दर्शितमित्यर्थः । सहृदयैरन्येऽपि व्यञ्जकविशेषाः स्वयमुत्प्रेक्षणीयाः । एतच्च सर्वं पदवाक्यरचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम् । ननु चार्थसामर्थ्याक्षेप्या रसादय इत्युक्तम्, तथा च सुबादीनां व्यञ्जकत्ववैचित्र्यकथनमनन्वितमेव । उक्तमत्र पदानां व्यञ्जकत्वोकत्यवसरे । किञ्जार्थविशेषाक्षेप्यत्वेऽपि रसादीनां तेषामर्थविशेषाणां व्यञ्जकशब्दाविनाभावित्वाद्यथाप्रदर्शितं व्यञ्जकस्वरूपपरिज्ञानं विभज्योपयुज्यत एव । शब्दविशेषाणां चान्यत्र च चारुत्वं यद्विभागेनोपदर्शितं तदपि तेषां व्यञ्जकत्वेनैवावस्थितमित्यवगन्तव्यम् । यत्रापि तत्सम्प्रति न प्रतिभासते तत्रापि व्यञ्जके रचनान्तरे यद्दृष्टं सौष्ठवं तेषां प्रवाहपतितानां तदेवाभ्यासादपोद्धृतानामप्यवभासत इत्यवसातव्यम् । लोचनम् । यद्वक्ष्यत्यन्येऽपीति । अतिविक्षिप्ततया शिष्यबुद्धिसमाधानं न भवेदित्यभिप्रायेण संक्षिपतिएतच्चेति । वितत्याभिधानेऽपि प्रयोजनं स्मारयतिवैचित्र्येणेति । नन्विति । पूर्वं निर्णीतमप्येतदविस्मरणार्थमधिकाभिधानार्थं चाक्षिप्तम् । उक्तमत्रेति । न वाचकत्वं ध्वनिव्यवहारोपयोगि येनावाचकस्य व्यञ्जकत्वं न स्यातिति प्रागेवोक्तम् । ननु न गीतादिवद्रसाभिव्यञ्जकत्वेऽपि शब्दस्य तत्र व्यापारोऽस्त्येव - स च व्यञ्जनात्मैवेति भावः । एतच्चास्माभिः प्रथमोद्द्योते निर्णीतचरम् । न चेदमस्माभिरपूर्वमुक्तमित्याहशब्दविशेषाणां चेति । अन्यत्रेति । भामहविवरणे । विभागेनेति । स्रक्चन्दनादयः शब्दाः शृङ्गारे चारवो बीभत्से त्वचारव इति रसकृत एव विभागः । रसं प्रति च शब्दस्य व्यञ्जकत्वमेवेत्युक्तं प्राक् । यत्रापीति । स्रक्चन्दनादिशब्दानां तदानीं शृङ्गारादिव्यञ्जकत्वाभावेऽपि व्यञ्जकत्वशक्तेर्भूयसा
बालप्रिया
अत्रोपष्टम्भकमाह यद्वत्त्यत्यन्येऽपीति । इत्यभिप्रायेण वक्ष्यतीति सम्बन्धः । “नन्वि"त्याद्याक्षेपस्य फलं दर्शयतिपूर्वमित्यादि । अधिकाभिधानार्थे चाक्षिप्तमिति । वृत्तावनुपदं वक्ष्यमाणस्याधिकांशस्य बोधनार्थं चाक्षेपः कृत इत्यर्थः । वृत्तौ “अनन्वित “मिति । असङ्गतमित्यर्थः । समाधतेऽउक्तम्” इत्यादि । “उक्तमत्रे"ति । अत्र प्रत्यक्तमित्यर्थः । एतद्विवृणोतिन वाचकत्वमित्यादि । येनेति । वाचकत्वस्य ध्वनिव्यवहारोपयोगित्वेनेत्यर्थः । न तु नेत्यस्य व्यापारोऽस्तीत्यनेनान्वयः । भावमाहस्रक्चन्दनादय इत्यादि । “यत्रापी"त्यादेः “अवसातव्य” मित्यन्तग्रन्थस्य तात्पर्यं विवृणोतिस्रक्चन्दनादिशब्दानामित्यादि । कोऽन्यथा तुल्ये वाचकत्वे शब्दानां चारुत्वविषयो विशेषः स्यत् । अन्य एवासौ सहृदयसंवेद्य इति चेत्किमिदं सहृदयत्वं नाम? किं रसभावानपेक्षकाव्याश्रितसमयविशेषाभिज्ञत्वम्, उत रसभावादिमयकाव्यस्वरूपपरिज्ञाननैपुण्यम् । पूर्वस्मिन् पक्षे तथाविधसहृदयव्यवस्थापितानां शब्दविशेषाणां चारुत्वनियमो न स्यात् । पुनः समयान्तरेणान्यथापि व्यवस्थापनसम्भवात् । द्वितीयस्मिंस्तु पक्षे रसज्ञतैव सहृदयत्वमिति । तथाविधैः सहृदयैः संवेद्यो रसादिसमर्पणसामर्थ्यमेव नैसर्गिकं शब्दानां विशेष इति व्यञ्जकत्वाश्रय्येव तेषां मुख्यं चारुत्वम् । वाचकत्वाश्रयाणांतु
लोचनं
दर्शनात्तदधिवाससुन्दरीभूतमर्थं प्रतपादयितुं सामर्थ्यमस्ति । तथाहि “तटी तारं ताम्यति” इत्यत्र तटशब्दस्य पुण्टशब्दस्य पुंस्त्वनपुंसकत्वे अनादृत्य स्त्रीत्वमेवाश्रितं सहृदयैः “स्त्रीति नामापि मधुरं” इति कृत्वा । यथा वास्मदुपाध्यायस्य विद्वत्कविसहृदयचक्रवर्तिनो भट्टेन्दुराजस्य इन्दीवरद्युति यदा बिभृयान्न लक्ष्म स्युर्विस्मयैकसुहृदोऽस्य यदा विलासाः । स्यान्नाम पुण्यपरिणामवशात्तथापि किं किं कपोलतलकोमलकान्तिरिन्दुः ॥ अत्र हीन्दीवरलक्ष्मविस्मयसुहृद्विलासनामपरिणामकोमलादयः शब्दाः शृङ्गाराभिव्यञ्जनदृष्टशक्तयोऽत्र परं सौन्दर्यमावहन्ति । अवश्यं चैतदभ्युपगन्तव्यमित्याहकोऽन्यथेति । असंवेद्यस्तावदसौ न युक्त इत्याशयेनाहसहृदयेति । पुनरिति ।
बालप्रिया
तदानीमिति । प्रकृतप्रयोगकाल इत्यर्थः । शृङ्गारातिरिक्तवर्णनस्थल इति यावत् । पुंस्त्वनपुंसकत्वे इति । “तटं त्रिष्वि” त्यनुशासनप्राप्ते ते इत्यर्थः । इन्दीवरेति । पुण्यपरिणामवशादिन्दुः इन्दीवरद्युति लक्ष्य न बिमृयाद्यदा, अस्य विलासाः विस्मयैकसुहृदः स्युः यदा, तथापि कपोलतलकोमलकान्तिः किं किं स्यान्नामेति सम्बन्धः । यदेति यदीत्यर्थे । कपोलेति । सुन्दरीकपोलतल इव कोमलकान्तिरित्यर्थः । केरीकपोलेति पाठे केरीशब्दः स्त्रीविशेषवाची बोध्यः । किं किं स्यान्नामेति । नैव स्यादित्यर्थः । अत्रेति । चन्द्रं विलोक्य मध्यस्थस्य कस्यचिद्रसिकस्य वचन इत्यर्थः । “अन्य” इत्यादिशङ्काग्रन्थमवतारयतिअसंवेद्य इत्यादि । असाविति प्रसाद एवार्थापेक्षायां तेषां विशेषः । अर्थानपेक्षायां त्वनुप्रासादिरेव । एवं रसादीनां व्यञ्जकस्वरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितुमिदमुपक्रम्यते
प्रबन्धे मुक्तके वापि रसादीन् बन्धुमिच्छता । यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ कारिका३.१७ ॥
प्रबन्धे मुक्तके वापि रसादीन्बन्द्धुमिच्छता । यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ १७ ॥
प्रबन्धे मुक्तके वापि रसभावनिबन्धनं प्रत्यादृतमनाः कविर्विरोधिपहिहारे परं यत्नमादधीत । अन्यथा त्वस्य रसमयः श्लोक एकोऽपि सम्यङ्न समप्द्यते । लोचनमनियन्त्रीतपुरुषेच्छायत्तो हि समयः कथं नियतः स्यात् । मुख्यं चारुत्वमिति । विशेष इति पूर्वेण सम्बन्धः । अर्थापेक्षायामिति । वाच्यापेक्षायामित्यर्थः । अनुप्रासादिरेवेति । शब्दान्तरेण सह या रचना तदपेक्षोऽसौ विशेष इत्यर्थः । आदिग्रहणाच्छब्दगुणालङ्काराणां सङ्ग्रहः । अत एव रचनया प्रसादेन चारुत्वेन चोपबृंहिता एव शब्दाः काव्ये योज्या इति तात्पर्यम् ॥ १५॥ ,१६ ॥ रसादीनां यद्व्यञ्जकं वर्णपदादिप्रबन्धान्तं तस्य स्वरूपमभिधायेति सम्बन्धः । उपक्रम्यत इति । विरोधिनामपि लक्षणकरणे प्रयोजनमुच्यते शक्यहानत्वं नाम अनया कारिकया । लक्षणं तु विरोधिरससम्बन्धीत्यादिना भविष्यतीत्यर्थः ॥ १७ ॥
ननु “विभावभावानुभावसञ्चार्यौचित्यचारुणः” इति यदुक्तं तत एव व्यतिरेकमुखेनैतदप्यवगंस्यते । मैवम् -व्यतिरेकेण हि तदभावमात्रं प्रतीयते न तु तद्विरुद्धम् । तदभावमात्रं च न तथा दूषकं यथा तद्विरुद्धम् । पथ्यानुपयोगो हि न तथा व्याधिं
बालप्रिया
शब्दगतो विशेष इत्यर्थः । अनियन्त्रितेत्यादिना “पुन"रित्यादिग्रन्थस्य भावार्थ उक्तः । अनुप्रासपदार्थं व्याचष्टेशब्दान्तरेणेत्यादि । फलितमाहअत एव रचनयेत्यादि । उपबृंहिताः विशिष्टाः ॥ १५॥ ,१६ ॥ भावमाहविरोधिनामपीत्यादि । शक्यहानत्वं नाम प्रयोजनमनया कारकया उच्यत इति सम्बन्धः । विरोधिनां लक्षणे ज्ञाते तेषां परिहारः शक्य इति तदेव प्रयोजनमित्यर्थः ॥ १७ ॥
एतदपीति । विरोधिनां परिहरणमपीत्यर्थः । तदभावमात्रमिति । विभावाद्यौचित्यशालिनः कथाशरीरस्य विधिरित्यादिना तदौचित्यविरहिणो विधिर्न कार्य इत्याद्यथमात्रमित्यर्थः । यत्नत इतीति । यत्नत इत्यादिनेत्यर्थः । वृत्तौ “शान्ता “दीति कानि पुनस्तानि विरोधीनि यानि यत्नतः कवेः परिहर्तव्यानीत्युच्यते
विरोधिरससम्बन्धिविभावादिपरिग्रहः । विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ॥ कारिका३.१८१९ ॥
अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् । परिपोषं गतस्यापि पौनःपुन्येन दीपनम् । रसस्य स्याद्विरोधाय वृत्त्यनौचित्यमेव च ॥ कारिका३.१९ ॥
विरोधिरससम्बन्धिविभावादिपरिग्रहः । विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ॥ १८ ॥
अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनम् । परिपोषं गतस्यापि पौनःपुन्येन दीपनम् । रसस्य स्याद्विरोधाय वृत्त्यनौचित्यमेव च ॥ १९ ॥
प्रस्तुतरसापेक्षया विरोधी यो रसस्तस्य सम्बन्धिनां विभावभावानुभावानां परिग्रहो रसविरोधहेतुकः सम्भवनीयः । तत्र विरोधिरसविभावपरिग्रहो यथा शान्तरसविभावेषु तद्विभावतयैव निरूपितेष्वनन्तरमेव शृङ्गारादिविभाववर्णने । विरोधिरसभावपरिग्रहो यथा प्रियं प्रति प्रणयकलहकुपितासु कामिनीषु वैराग्यकथाभिरनुनये । विरोधिरसानुभावपरिग्रहो यथा प्रणयकुपितायां प्रियायामप्रसीदन्त्यां नायकस्य कोपावेशविवशस्य रौद्रानुभाववर्णने ।
लोचनं
जनयति यद्वदपथ्योपयोगः तदाहयत्नत इति । “विभावे"त्यादिना श्लोकेन यदुक्तं तद्विरुद्धं विरोधीत्यादिनार्धश्लोकेनाह । “इतवृत्ते"त्यादिना श्लोकद्वयेन यदुक्तं तद्विरुद्धं विस्तरेणेत्यर्धश्लोकेनाह । “उद्दीपने"त्यर्धश्लोकोक्तस्य विरुद्धं अकाएड इत्यर्धश्लोकेन । “रसस्ये"त्यर्धश्लोकोक्तस्य विरुद्धं परिपोषं गतस्येत्यर्धश्लोकेन । “अलङ्कृतीनाम्” इत्यनेन यदुक्तं तद्विरुद्धमन्यदपि च विरुद्धं वृत्यनौचित्यमित्यनेन । एतत्क्रमेण व्याचष्टेप्रस्तुतरसापेक्षयेत्यादिना । हास्यशृङ्गारयोर्वीराद्भुतयो रौद्रकरुणयोर्भयानकबीभत्सयोर्न विभावविरोध इत्यभिप्रायेण शान्तशृङ्गारावुपन्यस्तौ, प्रशमरागयोर्विरोधात् । विरोधिनी रसस्य यो भावो व्यभिचारी तस्य परिग्रहः, विरोधिनस्तु यः स्थायी स्थायितया
बालप्रिया
“शृङ्गारादी “चि च निर्देशे बीजमाहहास्यशृङ्गारयारित्यादि । भयानकबीभत्सयोरित्यस्यानन्तरं “शान्तबीभत्सयो"रिति च क्वचित्ग्रन्थे पाठः । शान्तशृङ्गारयोर्विरोधे हेतुमाहप्रशमेति । विरोधादिति । सहानवस्थानादत्यर्थः । प्रतिपत्तर्येकस्मिन् शमे उद्बुद्धे तदव्यवधानेन रागोद्बोधासम्भवादिति भावः । अतः शान्तविभावे वर्णिते तदनन्तरमेव शृङ्गारादिविभाववर्णनं न कायम् । विरोधिरसस्येत्यादिग्रन्थं अयं चान्यो रसभङ्गहेतुर्यत्प्रस्तुतरसापेक्षया वस्तुनोऽन्यस्य कथञ्चिदन्वितस्यापि विस्तरेण कथनम् । यथा विप्रलम्भशृङ्गारे नायकस्य कस्यचद्वर्णयितुमुपक्रान्ते कवेर्यमकाद्यलङ्कारनिबन्धनरसिकतया महता प्रबन्धेन पर्वतादिवर्णने । अयं चापरो रसभङ्गहेतुरवगन्तव्यो यदकाण्ड
लोचनं
तत्परिग्रहोऽसम्भवनीय एव तदनुत्थानप्रसङ्गात् । व्यभिचारितया तु परग्रहो भवत्येव । अत एव सामान्येन भावग्रहणम् । वैराग्यकथामिरित वैराग्यशब्देन निर्वेदः शान्तस्य यः स्थायी स उक्तः । यथा “प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषम्” इत्याद्युपक्रम्यार्थान्तरन्यासोऽन मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः” इति । मनागप निर्वेदानुप्रवेशे सति रतेर्विच्छेदः । ज्ञातविषयसतत्त्वो हि जीवितसर्वस्वाभिमानं कथं भजेत । न हि ज्ञातशुक्तिकारजततत्त्वस्तदुपादेयधियं भजते ऋते संवृतिमात्रात् । कथाभिरिति बहुवचनं शान्तरसस्य व्यभिचारिणो धृतिं मतिप्रभृतीन् सङ्गृह्णात । नन्वन्यदनुन्मत्तः कथं वर्णयेत्, किमुत विस्तरत इत्याहकथञ्जिदन्वितस्येति
बालप्रिया
विवृणोतिविरोधिन इत्यादि । तदनुत्थानप्रसङ्गादिति । तस्य स्थायित्वेनोत्थाने प्रसङ्गस्याभावादित्यर्थः । तदुत्थाने प्रकृतस्थायिनो विच्छेदः स्यादिति भावः । सामान्येनेत्यादि । स्वत एव व्यभिचारिणः व्यभिचारत्वेन स्थायिनश्च बोधनाय भाव इति सामान्यत उक्तमित्यथः । प्रसाद इति । काव्यप्रकाशेऽप्युदाहृतोऽयं श्लोकः । “प्रिये शुष्यन्त्यङ्गान्यभृतमिव ते सिञ्चितु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखम्” इति द्वितीयतृतीयपादौ । हे मुग्धे विवेकरहिते, गतः काल एव हरिणः अस्थिरत्वात्प्रत्येतुं प्रत्यागन्तुं न प्रभवति स पुनर्नागच्छतीत्यर्थः । अत्र शान्तस्य विभावः कालानित्यत्वलक्षणो निबन्धः तत्प्रकाशितो निर्वेदो व्यभिचारी चेत्यतोऽत्र विरोधिरसविभावभावयोः परिग्रहः स च प्रकृतरसप्रतिकूल इत्याहमनागपीत्यादि । निर्वेदानुवेधे इति च पाठः । विच्छद इति । भवेदिति शेषः । अत्र हेतुमाहज्ञातेत्यादि । ज्ञातं विषयाणां सतत्वं दुःखमिश्रितत्वपरिणामविरसत्वादिना हेयत्वरूपं तत्त्वं येन सः । जीवितसर्वस्वाभिमानमिति । वनितादौ विषय इति शेषः । भजेतेत्यत्र करोत्विति च पाठः । दृष्टान्तमाहन हीत्यादि । शुक्तौ भासमानं रजतं शुक्तिकारजतमित्युच्यते, ज्ञातं शुक्तिकारजततत्वं येन सः । तदिति । तद्विशेष्यकोपादेयत्वबुद्धिमित्यर्थः । संवृतिमात्रादृत इति । संवृत्त्यैव तत्रोपादेयत्वबुद्धिं भजत इति भावः । संवृतिरविद्या भ्रमरूपा तद्वृत्तिर्वा वृत्तौ “कथञ्चिदन्वितस्ये"ति । यया कयापि विधया प्रकृतेन सम्बद्धस्येत्यर्थः । एतद्ग्रन्थमवतारयतिनन्वित्यादि । अपि तावदिति शब्दाभ्यामिति । एव विच्छित्तिः रसस्याकाण्ड एव च प्रकाशनम् । तत्रानवसरे विरामो रसस्य यथा नायकस्य कस्यचित्स्पृहणीयसमागमया नायिकया कयाचित्परां परिपोषपदर्वी प्राप्ते शृङ्गारे विदिते च परम्परानुरागे समागमोपायचिन्तोचितं व्यवहारमुत्सृज्य स्वतन्त्रतया व्यापारान्तरवर्णने । अनवसरे च प्रकाशनं रसस्य यथा प्रवृत्ते प्रवृत्तविविधवीरसङ्क्षये कल्पसङ्क्षयकल्पे सङ्ग्रमे रामदेवप्रायस्यापि तावन्नायकस्यानुपक्रान्तविप्रलम्भशृङ्गारस्य निमित्तमुचितमन्तरेणैव शृङ्गारकथायामवतारवर्णने । न चैवंविधे विषये दैवव्यामोहितत्वं कथापुरुषस्य परिहारो यतो रसबन्ध एव कवेः प्राधान्येन प्रवृत्तिनिबन्धनं युक्तम् । इतिवृत्तवर्णनं तदुपाय एवेत्युक्तं प्राक् “आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः” इत्यादिना । अत एव चेतिवृत्तमात्रवर्णनप्राधान्येऽङ्गाङ्गिभावरहितरसभावनिबन्धेन च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यङ्ग्यतात्पर्यमेवैषां
लोचनं
व्यापारान्तरेति । यथावत्सराजचरिते चतुर्थेऽङ्केरत्नावलीनामधेयमप्यगृङ्णतो विजयवर्मवृत्तान्तवर्णने । अपि तावदिति शब्दाभ्यां दुर्योधनादेस्तद्वर्णनं दूरापास्तमिति वेणीसंहारे द्वितीयाङ्कमेवोदाहरणत्वेन ध्वनति । अत एव वक्ष्यति “दैवव्यामोहितत्वम्” इति । पूर्वं तु सन्ध्यङ्गाभिप्रायेण प्रत्युदाहरणमुक्तम् । कथापुरुषस्येति प्रतिनायकस्येति यावत् । अत एव चेति । यतो रसबन्ध एव मुख्यः कविव्यापारविषयः इतिवृत्तमात्रवर्णनप्राधान्ये
बालप्रिया
रामदेवप्रायस्यापि तावदित्यत्रत्याभ्यां ताम्यामित्यर्थः । ध्वनतीत्यनेनास्य सम्बन्धः । तद्वर्णनमिति । सङ्ग्रामे प्रवृत्ते निमित्तमुचितमन्तरेणैव शृङ्गारवर्णनमित्यर्थः । अत एवेति । द्वितीयाङ्कस्य उदाहरणत्वेन ध्वननादेवेत्यर्थः । दैवव्यामोहितत्वमिति । दैवेन व्यामोहितः कृत्याकृत्यविवेकराहित्यं प्रापितस्तत्वमित्यर्थः । वेणीसंहारे दुर्योधनस्य तद्गम्यत इति भावः । यथा वेणीसंहारे इति पूर्वमुक्तमन्याभिप्रायेणेति स्मारयतिपूर्वमित्यादि । कथापुरुषस्येत्यनेन विवक्षितमाहप्रतिनायकस्येति । न तु प्रधाननायकस्येत्यर्थः । तस्य तथात्वेनौचित्यापातादिति भावः । वृत्तौ “रसबन्ध” इति प्रथमान्तं रसानुकूलशब्दार्थनिबन्ध इत्यर्थः । प्रवृत्तिनिबन्धनमिति । प्रवृत्तिविषय इत्यर्थः । यद्वा रसबन्धे इति सप्तम्यन्तम् । “प्रवृत्तिनिबन्धनं” प्रवृत्तेः सम्बन्धो विषयतेत्यर्थः । “अत एवे"त्यस्यारब्ध इत्यनेन सम्बन्धः । लोचने व्याचष्टेयत इत्यादि । वृत्तौ प्राधान्ये सति यदिबन्धनं तस्मिन्निति सम्बन्धः । युक्तमिति यत्नोऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन । पुनश्चायमन्यो रसभङ्गहेतुरवधारणीयो यत्परिपोषं गतस्यापि रसस्य पौनःपुन्येन दीपनम् । उभयुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमाणः परिम्लानकुसुमकल्पः कल्पते । तथा वृत्तेर्व्यवहारस्य यदनौचित्यं तदपि रसभङ्गहेतुरेव । यथा नायकं प्रति नायिकायाः कस्याश्चिदुचितां भङ्गिमन्तरेण स्वयं सम्भोगाभिलाषकथने । यदि वा वृत्तीनां भरतप्रसिद्धानां कैशिक्यादीनां काव्यालङ्कारान्तरप्रसिद्धानामुपनागरिकाद्यानां वा यदनौचित्यमविषये निबन्धनं तदपि रसभङ्गहेतुः । एवमेषां रसविरोधिनामन्येषां चानया दिशा स्वयमुत्प्रेक्षितानां परिहारे सत्कविभिरवहितैर्भवितव्यम् । परिकरश्लोकाश्चात्र मुख्या व्यापारविषयाः सुकवीनां रसादयः । तेषां निबन्धने भाव्य तैः सदैवाप्रमादिभिः ॥ नीरसस्तु प्रबन्धो यः सोऽपशब्दो महान् कवेः । स तेनाकविरेव स्यादन्येनास्मृतलक्षणः ॥
लोचनं
सति यदङ्गाङ्गिभावरहितानामविचारितगुणप्रधानभावानां रसभावानां निबन्धनं तन्निमित्तानि स्खलितानि सर्वे दोषा इत्यर्थः । न ध्वनिप्रतिपादनमात्रेति । व्यङ्ग्योऽर्थो भवतु मा वा भूत्कस्तत्राभिनिवेशः? काकदन्तपरीक्षाप्रायमेव तत्स्यादिति भावः । वृत्त्यनौचित्यमेव चेतिबहुदा व्याचष्टे तदपीत्यनेन चशब्दं कारिकागतं व्याचष्टे । रसभङ्गहेतुरेव इत्यनेनैवकारस्य कारिकागतस्य भिन्नक्रमत्वमुक्तम् । रसस्य विरोधायैवेत्यर्थः । नायकं प्रतीति । नायकस्य हि धीरोदात्तादिभेदभिन्नस्य सर्वथा वीररसानुवेधेन भवितव्यमिति तं प्रति कातरपुरुषोचितमधैर्ययोजनं दुष्टमेव । तेषामिति रसादीनाम् । तैरिति सुकविभिः । सोऽपशब्द इति दुर्यश इत्यर्थः । ननु कालिदासः
बालप्रिया
चकारौ वाक्यालङ्कारे इत्याशयेन व्याचष्टेइतिवृत्तेत्यादि । बहुधा व्याचष्ट इति । वृत्तेर्व्यवहारस्येत्यादिना रसभङ्गहेतुरित्यन्तग्रन्थेन त्रेधा व्याचष्ट इत्यर्थः । तदपीत्यनेनेति । तत्पदोत्तरापिशब्देनेत्यर्थः । नायकं प्रति नायकया स्वयं सम्भोगाभिलाषस्य कथने निबद्धे नायकस्याधैर्ययोजनमापतति, तच्च दुष्टमिति भावं विवृणोतिनायकस्येत्यादि । भावितव्यमिति । सर्वेषां वीरशब्देन व्यवहारादिति भावः । कातरपुरुषेति । अधीरपुरुषेत्यर्थः । वृत्तौ “उचितां भङ्गिमन्तरेणे” पूर्वे विशृङ्खलगिरः कवयः प्राप्तकीर्तयः । तान्समाश्रित्य न त्याज्या नीतिरेषा मनीषिणा ॥ वाल्मीकिव्यासमुख्याश्च ये प्रख्याताः कवीश्वराः । तदभिप्रायबाह्योऽयं नास्माभिर्दर्शितो नयः ॥ इति ।
विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् । बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ॥ कारिका३.२० ॥
विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनाम् । बाध्यानामङ्गभावं वा प्राप्तानामुक्तिरच्छला ॥ २० ॥
स्वसामग्न्या लब्धपरिपोषे तु विवक्षिते रसे विरोधिनां विरोधिरसाङ्गानां बाध्यानामङ्गभावं वा प्राप्तनां सतामुक्तिरदोषा । बाध्यत्वं हि विरोधिनां शक्याभिभवत्वे सति नान्यथा । तथाच तेषामुक्तिः प्रस्तुतरसपरिपोषायैव सम्पद्यते । अङ्गभावं प्राप्तानां च तेषां विरोधित्वमेव निवर्तते । अङ्गभावप्राप्तिर्हि तेषां स्वाभाविकी समारोपकृता वा । तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भशृङ्गारे तदङ्गानां
लोचनं
परिपोषं गतस्यापि करुणस्य रतिविलासेषु पौनःपुन्येन दीपनमकार्षीत्, तत्कोऽयं रसविरोधिनां परिहारनिर्बन्ध इत्याशङ्क्याहपूर्व इति । न हि वसिष्ठादिभिः कथञ्चिद्यदि स्मृतिमार्गस्त्यक्तस्तद्वयमपि तथा त्यजामः । अचिन्त्यहेतुकत्वादुपरिचरितानामिति भावः । इति शब्देन परिकरश्लोकसमाप्तिं सूचयति ॥ १९ ॥
एवं विरोधिनां परिहारे सामान्येनोक्ते प्रतिप्रसवं वियतविषयमाहविवक्षित इती । बाध्यानामिति । बाध्यत्वाभिप्रायेणाङ्गत्वाभिप्रायेण वेत्यर्थः । अच्छला निर्देषेत्यर्थः । बाध्यत्वाभिप्रायं व्याचष्टेबाध्यत्वं हीति । आङ्गभावाभिप्रायमुभयथा व्याचष्टे,
बालप्रिया
त्येनेन भङ्ग्या तत्कथनं दुष्यन्तादेर्नायकस्येव नायिकाया अपि न दोष इति दर्शितम् । भावार्थमाहन हीत्यादि । न हि त्यजाम इति सम्बन्धः । वसिष्ठादीनां तत्त्यागेऽपि न दोष इत्याहअचिन्त्येत्यादि । अचिन्त्यहेतुकत्वादुपरचरितानामिति च पाठः । उपरिचरितानामित्यस्योत्कृष्टचरितानामित्यर्थः ॥ १९ ॥
“बाध्यानाम्” इत्यादिकारिकाभागं व्याचष्टेबाध्यत्वेत्यादि । उक्तिरित्यनेनास्य सम्बन्धः । उभयथा व्याचष्ट इति । “अङ्गभावप्राप्तिर्हि"त्यादिग्रन्थेन द्वेधा व्याख्यातवानित्यर्थः । वृत्तौ “तदङ्गानां व्याध्यादीनाम्” इति । उक्तावविरोध इत्यस्यानुषङ्गः । उपरि वाक्ये उक्तावित्यस्यैवानुषङ्गः । तत्पदेनात्र विप्रलम्भपरामर्शः । व्याध्यादीनां व्याध्यादीनां तेषाञ्च तदङ्गानामेवादोषो नातदङ्गानाम् । तदङ्गत्वे च सम्भवत्यपि मरणस्योपन्यासो न ज्यायान् । आश्रयविच्छेदे रसस्यात्यन्तविच्छेदप्राप्तेः । करुणसय तु तथाविदे विषये परिपोषो भविष्यतीति चेत्न - तस्याप्रस्तुतत्वात्प्रस्तुतस्य च विच्छेदात् । यत्रतु करुणरसस्यैव काव्यार्थत्वं तत्राविरोधः । शृङ्गारे वा मरणस्यादीर्घकालप्रत्यापत्तिसम्भवे कदाचिदुपनिबन्धो नात्यन्तविरोधी । दीर्घकालप्रत्यापत्तौ तु तस्यान्तरा प्रवाहविच्छेद एवेत्येवंविधेतिवृत्तोपनिबन्धनं रसबन्धप्रधानेन कविना
लोचनं
तत्र प्रथमं स्वाभाविकप्रकारं निरूपयतितदङ्गानामिति । निरपेक्षभावतया सापेक्षभाववप्रलम्भशृङ्गारविरोधिन्यपि करुणे ये व्याध्यादयस्सर्वथाङ्गत्वेन दृष्टाः तेषामिति । ते हि करुणे भवन्त्येव त एव च भवन्तीति । शृङ्गारे तु भवन्त्येव नापि त एवेति । अतदङ्गानामिति । यथालस्यौग्रजुगुप्सानामित्यर्थः । तदङ्गत्वे चेति । “सर्व एव शृङ्गारे व्यभिचारिण इत्युक्तत्वादि"ति भावः । आश्रयस्य स्त्रीपुरुषान्यतरस्याधिष्ठानस्यापाये रतिरेवोच्छिद्येत तस्या जीवितसर्वस्वाभिमानरूपत्वेनोभयाधिष्ठानत्वात् । प्रस्तुतस्येति । विप्रलम्भस्येत्यर्थः । काव्यार्थत्वमिति । प्रस्तुतत्वमित्यर्थः । नन्वेवं सर्व एव व्यभिचारिण इति विघटितमित्याशङ्क्याहशृङ्गारे वेति । अदीर्घकाले यत्रमरणे विश्रान्तिपदबन्ध एव नोत्पद्यते तत्रास्य व्यभिचारित्वम् । कदाचिदिति । यदि तादृशीं भङ्गिं घटयितुं सुकवेः कौशलं भवति । यथा तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहन्यासादमरगणनालेख्यमासाद्य सद्यः ।
बालप्रिया
विरोधिरसाङ्गत्वं प्रकृतरसाङ्गत्वं च दर्शयतिनिरपेक्षभावतयेत्यादि । ते हीति । व्याध्यादयो हीत्यर्थः । करुणे इत्यादि । करुणे भवन्त्येव ते एव भवन्तीति द्वेधा नियम इत्यर्थः । नापीत्यादि । ते एवेति नियमोऽपि नेत्यर्थः । मरणस्य विप्रलम्भाङ्गत्वसम्भवे मानमाहसर्व इत्यादि । आलस्यौग्न्यजुगुप्सावर्जास्सर्वं एव व्यभिचारिण इति मुनिना उक्तत्वादित्यर्थः । आश्रयविच्छेद इत्यादिग्रन्थं व्याचष्टेआश्रयस्येत्यादि । वृत्तौ “शृङ्गारे वे"त्यादि । “मरणस्ये"ति । नायकयोरेकस्य यन्मरणं तस्येत्यर्थः । अस्य उपनिबन्ध इत्यनेन सम्बन्धः । “अदीरघे"ति । मरणादूर्ध्वमदीर्घो यः कालस्तस्मिंस्तेन वा प्रत्यापत्तिः नायकयोः समागमस्तत्सम्भवे सतीत्यर्थः । लोचने भावमाहयत्रेत्यादि । विश्रान्तिपदबन्धः प्रतीतिविश्रान्तेः प्रतिष्ठा । तत्र तथाविधस्थले । अस्य मरणस्य । काव्यानुशासनेऽप्येवमुक्तम्"शृङ्गारे तु मरणाध्यवसायो तत्र लब्धप्रतिष्ठे तु विवक्षिते रसे विरोधिरसाङ्गानां बाध्यत्वेनोक्तावदोषो यथा क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ॥
लोचनं
पूर्वाकाराधिकचतुरया सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ अत्र स्फुटैव रत्यङ्गता मरणस्य । अत एव सुकविना मरणे पदबन्धमात्रं न कृतम्, अनूद्यमानत्वेनैवोपनिबन्धनात् । पदबन्धनिवेशे तु सर्वथा शोकोदय एवातिपरिमितकालप्रत्यापत्तिलाभेऽपि अथ दूरपरामर्शकसहृदयसामाजिकाभिप्रायेण मरणस्यादीर्घकालप्रत्यापत्तेरङ्गतोच्यते, हन्त तापसवत्सराजेऽपि यौगन्धरायणादिनीतिमार्गाकर्णनसंस्कृतमतीनां वासवदत्तामरणबुद्धेरेवाभावात्करुणस्य नामापि न स्यादित्यलमवान्तरेण बहुना । तस्माद्दीर्घकालतात्र पदबन्धलाभ एवेति मन्तव्यम् । एवं नैसर्गिकाङ्गता व्याख्याता । समारोपितत्वे तद्विपरीतेत्यर्थलब्धत्वात्स्वकण्ठेन न व्याख्याता । एवं प्रकारत्रयं व्याख्याय क्रमेणोदाहरतितत्रेत्यादिना । क्वाकार्यमिति ।
बालप्रिया
मरणादूर्ध्वं झटिति पुनर्योगो वा निबध्यत “इति । तीर्थ इति रघुवंशस्थम् । देहत्यागादिति च पाठः । कान्तया इन्दुमत्या । असौ अजः । रत्यङ्गतेति । रमणाङ्गतेत्यर्थः । मरणस्येति । देहत्यागादित्यनेन दर्शितस्य मरणस्येत्यर्थः । प्रपूर्वश्लोकेन सङ्गमाशाया वर्णितत्वादत्र मरणस्य विप्रलम्भाङ्गत्वं स्फुटमिति भावः । पदबन्धः प्रतीतविश्रान्तेः पदबन्धः । अनूद्यमानत्वेनेति । देहत्यागादित्यनेनेति भावः । अतीति । अतिपरिमितोऽल्यल्पः कालस्तेन प्रत्यापत्तेः सङ्गमस्य लाभः सम्भवः प्रतीतिर्वा तस्मिन्नपीत्यर्थः । शोकोदय एवेत्यनेनास्य सम्बन्धः । सहृदयानां शोकचर्वणैव भवेदिति तदर्थः । केचिददीर्घकालेत्यादिग्रन्थस्य भावमन्यथा व्याचक्षये, तदनुवदन्नाहअथेत्यादि । अथेति प्रश्ने । प्रतिवक्तिहन्तेत्यादि । अयुक्तकथनहेतुको विषादो विस्मयो वा हन्तेत्यनेन प्रकाश्यते । स्वमतेनोपसंहरतितस्मादित्यादि । दीघति । दीर्घकालतापदार्थोऽत्र मरणे सहृदयप्रतीतिविश्रान्तेः पदबन्ध एवेत्यर्थः । समारापिता त्विति । अङ्गतेति शेषः । एतद्विपरीतेति । वास्तवाङ्गत्वाभावान्नैसर्गिकाङ्गता विपरीतेत्यर्थः । व्याख्यातेति । पदर्शितेत्यर्थः । वृत्तौ “तस्ये"त्यादि । “तस्य “शृङ्गारस्य । यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्तनिर्भरानुरागस्य द्वितीयमुनिकुमारोपदेशवर्णने । स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा भ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छां तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥ इत्यादौ । समारोपितायामप्यविरोधो यथा “पाण्डुक्षामम्” इत्यादौ । यथा वा “कोपात्कोमललोलबाहुलतिकापाशेन” इत्यादौ । इयं
लोचनं
वितर्क औत्सुक्येन मतिः स्मृत्या शङ्का दैन्येन धृतिश्चिन्तया च बाध्यते । एतच्च द्वितीयोद्द्योतारम्भ एवोक्तमस्माभिः । द्वितीयेति । विपक्षीभूतवैराग्यविभावाद्यवधारणेऽपि ह्यशक्यविच्छेदत्वेन दार्ढ्यमेवानुरागस्योक्तं भवतीति भावः । समारोपितायामिति । अङ्गभावप्राप्ताविति शेषः । पाण्डुक्षामं वक्त्रं हदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥ अत्र करुणोचितो व्याधिः श्लेषभङ्ग्या स्थापितः कोपादिति बध्वेति हन्यत इति च रौद्रानुभावनां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् । तच्च पूर्वमेवोक्तं “नातिनिर्वहणैषिता” इत्यत्रान्तरे ।
बालप्रिया
“अन्तरा” मध्ये । “प्रवाहविच्छेदः” अनुसन्धानधाराया विच्छेद इत्यर्थः । लोचनेविपज्ञीभूतेति । अनुरागस्य विरोधिभूतेत्यर्थः । अनुरागस्येति । पुण्डरीकगतानुरागस्येत्यर्थः । वृत्तौ “भ्रमिम्” इति । इदं पाण्डिवत्यादि च काव्यप्रकाशेऽप्युदाहृतम् । भ्रमिर्नाम दिशां भ्रमणमिव दर्शयन्नान्तरः कश्चिद्विकारः । प्रलयोनष्टचेष्टता, मूर्छा बाह्याभ्यन्तरेन्द्रयवृत्तिनिरोधः । तमः आन्ध्यम् । जलद एव भुजगस्तज्जम् । विषं जलमेव गरलम् । अत्र करुणोचतव्याधेरनुभावानां भ्रम्यादीनां विप्रलम्भेऽपि सम्भवान्नैसर्गिकी अङ्गता । पाण्डुक्षाममिति । हृदयं उरः । सरसं अन्नरससहितं, यद्वाचन्दनादिरससहितम् । अलसं बाह्यक्रियायामक्षमम् । क्षेत्रियो देहान्तरे चिकित्स्योऽसाध्य इति यावत् । रोगः गदः । क्षेत्रियो रोगः क्षयरोग इति केचित्तम् । आवेदयतीति । वक्त्रादीनां प्रत्येकमन्वयाभिप्रायेणैकवचनान्ततया निर्देशः । अत्र करुणोचितव्याधेः विप्रलम्भे समारोपादङ्गतेत्याह लोचने अत्रेत्यादि । श्लेषभङ्ग्येत । उभयसाधारणानुभावप्रदर्शनेनेत्यर्थः । स्थापित इति । आरोपेणाङ्गतया प्रदर्शित इत्यर्थः । बध्वेतीत्यादि । बन्धनादीनामित्यर्थः । तदनिर्वाहादिति । रूपकानिर्वादित्यर्थः । अङ्गत्वमिति । शृङ्गाराङ्गत्वमित्यर्थः । वृत्तौ अङ्गभावगमनं यदियं चाङ्गभावप्राप्तिरन्या यदाधिकारिकत्वात्प्रधान एकस्मिन्वाक्यार्थे रसयोर्भावयोर्वा परस्परविरोधिनोर्द्वयोरङ्गभावगमनं तस्यामपि न दोषः । यथोक्तं “क्षिप्तो हस्तावलग्नः” इत्यादौ । कथं तत्राविरोध इति चेत्, द्वयोरपि तयोरन्यपरत्वेन व्यवस्थानात् । अन्यपरत्वेऽपि विरोधिनोः कथं विरोधनिवृत्तिरिति चेत्, उच्यते विधौ विरुद्धसमावेशस्य लोचनमन्येति । चतुर्थोऽयं प्रकार इत्यर्थः । पूर्वं हि विरोधिनः प्रस्तुतरसान्तरेऽङ्गतोक्ता, अधुना तु द्वयोर्विरोधिनोर्वस्त्वन्तरेऽङ्गभाव इति शेषः । क्षिप्त इति । व्याख्यातमेतत् “प्रधानेऽन्यत्र वाक्यार्थे” इत्यत्र । नन्वन्यपरत्वेऽपि स्वभावो न निवर्तते, स्वभावकृत एव च विरोध इत्यभप्रायेणाहअन्यपरत्वेऽपीति । विरोधिनोरति । तत्स्वभावयोरिति हेतुत्वाभिप्रायेम विशेषणम् । उच्यत इति । अयं भावःसामग्रीविशेषपतितत्वेन भावानां विरोधाविरोधौ न स्वभावमात्रनिबन्धनौ शीतोष्णयोरपि विरोधाभावात् । विधाविति । तदेव कुरु मा कार्षीरिति
बालप्रिया
चान्या अङ्गभावप्राप्तिरिति सम्बन्धः । “तस्यामपो"ति । तथाविधाङ्गभावप्राप्तावपीत्यर्थः । अन्येत्यस्य विवरणं लोचनेचतुर्थ इति । पूर्वोक्ताद्विशेषं दर्शयतिपूर्वमित्यादि । विरोधिन इति । विरोधिरसाङ्गास्येत्यर्थः । रसान्तरे रसविशेषे वस्त्वन्तर इति । प्रस्तुते इत्यनुषज्यते । अन्यपरत्वेऽपीति । अन्याङ्गत्वेऽपीत्यर्थः । आहेति । पृच्छतीत्यर्थः । विशेषणमिति । अनुषज्यमानयोर्द्वयोरित्यस्य विशेषणमित्यर्थः । अयं भावः विधावित्यादिग्रन्धस्यायं भावार्थः । क इत्यत्राहसामग्रीत्यादि । अयमर्थःपदार्थानां मध्ये कस्यचित्केनचित्सह विरोधश्चाविरोधश्च स्वभावमात्रकृतौ न, किन्तु सामग्रीविशेषानुप्रवेशेनापि सम्भवतः । अत्र तद्विरोधो नाम तदसामानाधिकरण्यं तदुत्पत्तिप्रतिबन्धश्च घटत्वादीनां पटत्वादिभिश्शीतस्पर्शदीनामुण्णस्पर्शादिभिश्च सहासामानाधिकरण्यरूपो विरोधः स्वभावकृतः । एवं तेषां द्रव्यत्वादिभिः रूपादिगुणैश्च सह सामानाधिकरण्यरूपाविरोधश्च बोध्यः । शीतस्पर्शासौरभगन्धादीनां स्वाश्रयारब्धद्रव्ये उण्णस्पर्शासौरभगन्धाद्युत्पत्तिप्रतिबन्धरूपस्तद्विरोधस्सामग्रीविशेषानुप्रवेशकृतः, एवं शीतोण्णस्पर्शयोरविरोधः कोमलभक्तोत्पत्तिसामग्रीविशेषानुप्रवेशकृतोबोध्यः । विथिस्थले प्रवृत्तिसामग्रीं निषेधस्थले निवृत्तिसामग्रीं चादाय तदनुप्रवेशेन विरोधाविरोधौ ग्राह्याविति । शीतोण्णयोरिति । शीतोण्णस्पर्शयोरित्यर्थः । विरोधाभावादिति । सामग्रीविशेषानुप्रवेशेनेति शेषः । विधावत्यदेर्दृष्टन्तमाहतदेवेत्यादि । तदित्यनेनैकं कर्म विवक्षितम् । एकदेति शेषः । इति यथेति । इति विधौदुष्टत्वं यथा तथेत्यर्थः । करणाकरणयोरेकेनैकदानुष्ठातुमशक्यत्वादिति भावः । उपष्टम्भकमाह अत एवेत्यादि । दुष्टत्वं वानुवादे ।
लोचनं
यथा । विधिशब्देनात्रैकदा प्राधान्यमुच्यते । अत एवातिरात्रे षोडशिनं गृह्णन्तीति विरुद्धविधिर्विकल्पपर्यवसायीति वाक्यविदः । अनुवाद इति । अन्याङ्गतायामित्यर्थः ।
बालप्रिया
अत एव विरुद्धायोरेकत्रैकदा प्राधान्यस्य दुष्टत्वादेव । अतिरात्र इत्यादि । अतिरात्रे अतिरात्रयागे षोडशिनं सोमपात्रविशेषं गृह्णन्ति यथा एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ इत्यादौ । अत्र हि विधिप्रतिषेधयोरनूद्यमानत्वेन समावेशे न विरोधस्तथेहापि भविष्यति । श्लोके ह्यस्मिन्नीर्ष्याविप्रलम्भशृङ्गारकरुणवस्तुनोर्न विधीयमानत्वम् । त्रिपुररिपुप्रभावातिशयस्य वाक्यार्थत्वात्तदङ्गत्वेन च तयोर्व्यवस्थानात् ।
लोचनं
क्रीडाङ्गत्वे न ह्यत्र विरुद्धानामर्थानामभिधानमिति राजनिकटव्यवस्थिताततायिद्वयन्यायेन विरुद्धानामप्यन्यमुखप्रेक्षितापरतन्त्रीकृतानां येन विरोधः स्यात् । केवलं विरुद्धत्वादरुणाधिकरणस्थित्या
बालप्रिया
गृह्णीयुः इति षोडशिग्रहणं विहितम् । पुनश्च “नातिरात्रे षोडशिनं गृह्णाती"त्यनेन तन्निषिद्धञ्चेति यद्यपि ग्रहणाग्रहणयोर्विरुद्धयोर्विधिः, तथापि स विधिः षोडशिनं गृह्णीयान्न गृह्णीयाद्वा इति विकल्पे पर्यवस्यतीत्यर्थः । वृत्तौ “एही"ति । हे अर्थिन् त्वमेहि आगच्छ । “एव “मिति । उक्तप्रकारेणेत्यर्थः । “आशे"ति । आशारुपैर्ग्रहैर्ग्रस्तास्तैरित्यर्थः । “अर्थिभिः” याचकैः धनिनः क्रीडन्तीति सम्बन्धः । अत्र एहीति क्रीडन्ति गच्छेति क्रीडन्तीत्यादिरीत्या भावाभावरूपयोरपि गमनागमनाद्योः प्रधानभूतक्रीडायां प्रकारतयान्वयेन तदङ्गत्वान्न दुष्टत्वमिति दर्शयन्नाह लोचनेक्रीडाङ्गत्वेनेत्यादि । अत्रेति । एहीत्यादिश्लोक इत्यर्थः । विरुद्धानामर्थानामिति । एकदैकत्र विरुद्धयोः गमनागमनयोः पतनोत्थानयोर्वचनमौनयोश्चार्थानामित्यर्थः । इतीति हेतौ । राजेति । राजनिकटव्यवस्थितौ राजाश्रयत्वेन स्थितौ यावातताथिनौ मिथो वैरेण वधोद्यतौ पुरुषौ तयोर्द्वेयं तन्न्यायेनेत्यर्थः । अन्येति । अन्यमुखप्रेक्षिता अन्यायत्तता तया परतन्त्रीकृतानामुपसर्जनीकृतानामित्यर्थः । औतेन क्रमेण एहि गच्छेत्यादिश्रुतिक्रमेम यः स्वात्मनां परामर्शः प्रतीतः तस्मिन् सत्यपि । अविश्राम्यतामिति । स्वात्मनि प्रतीतिविश्रान्तिमलभमानानामित्यर्थः । क्रीडायामङ्गत्वेनान्वयादिति भावः । परस्पररूपेति । परस्परस्य यद्रूपं स्वभावः तच्चिन्तायां का कथा तच्चिन्ता नोदेत्येवेत्यर्थः । विशेषमाहकेवलमित्यादि । अरुणेति । अरुणाधिकरणन्यायेनेत्यर्थः । सम्भाव्यत इत्यनेनास्य सम्बन्धः । अरुणयेत्यादिविधिवाक्ये कारकाणां भावनान्वयनियमान्मिथोऽनन्वितानामेवारुण्यपिङ्गाक्षीत्वादीनां करणविभक्त्यन्तपदार्थानां सोमक्रयणभावनायां करणत्वेनादावन्वयः, पश्चात्परस्परान्वयः न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम्, तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य वाच्यस्य च यौ विध्यनुवादौ तौ
लोचनं
यो वाक्यीय एषां पाश्चात्यः सम्बन्धः सम्भाव्यते स विघटताम् । ननु प्रधानतया यद्वाच्यं तत्र विधिः । अप्रधानत्वेन तु वाच्येऽनुवादः । न च रसस्य वाच्यत्वं त्वयैव सोढमित्याशङ्कमानः परिहरतिन चेति । प्रधानाप्रधानत्वमात्रकृतौ विध्यनुवादौ, तौ च व्यङ्ग्यतायामपि भवत एवेति भावः । मुख्यतया च रस एव काव्यवाक्यार्थ इत्युक्तम् । तेनामुख्यतया यत्र सोऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम् । यदि वानूद्यमानविभावादिसमाक्षिप्तत्वाद्रसस्यानूद्यमानता तदाहवाक्यार्थस्येति । बलप्रिया या गौस्सा अरुणा पिङ्गाक्षीत्यादि । स्पष्टमिदं मीमांसापरिभाषादौ । वाक्यीय इति । वाक्यप्रतिपाद्य इत्यर्थः । एषामित्यादि । य आगच्छति स गच्छतीत्यादिपार्ष्ठिकान्वय इत्यर्थः । विरुद्धत्वात्स केवलं विघटतामिति सम्बन्धः । वृत्तौ “विधिप्रतिषेधयोऽरिति । गमनागमनाद्योरत्यर्थः । “अनूद्यमानत्वेने"ति । क्रीजाविधाने इति शेषः । तथेत्याद्युक्तमेव विवृणोति “श्लोक” इत्यादि । “विधीयमानत्व “मिति । प्राधान्यमित्यर्थः । “न चे"त्याद्यभ्युपगमादित्यन्तं ग्रन्थमवतारयति लोचनेनन्वित्यादि । यद्वाच्यमिति । यो वाच्यार्थ इत्यर्थः । तत्र विधिरिति । तस्य विधिरनुवादश्चेति भावः । तेषामित्यादिपरिहारग्रन्थस्य भावमाहप्रधानेत्यादि । युक्तमित्यन्तेन । विध्यनुवादाविति । अर्थस्येति शेषः । व्यङ्गयतायामपि व्यङ्ग्यत्वे सत्यपि । कुत्रानूद्यमानत्वं रसस्येत्यत्राहमुख्यतयेत्यादि । सोऽर्थः व्यङ्ग्यार्थः । यदिवेति पक्षान्तरद्योतकम् । तदाक्षिप्तानां रसानां केन वार्येते । यैर्वा साक्षात्काव्यार्थता रसादीनां नाभ्युपगम्यते, तैस्तेषां तन्निभित्तता तावदवश्यमभ्युपगन्तव्या । तथाप्यत्र श्लोके न विरोधः । यस्मादनूद्यमानाङ्गनिमित्तोभयरसवस्तुसहकारिणो विधीयमानांशाद्भावविशेषप्रतीतिरुत्पद्यते ततश्च न कश्चिद्विरोधः । दृश्यते विरुद्धोभयसहकारिणः कारणात्कार्यविशेषोत्पत्तिः विरुद्धफलोत्पादनहेतुत्वं हि युगपदेकस्य कारणस्य विरुद्धं न तु विरुद्धोभयसहकारित्वम् ।
लोचनं
यदि वा मा भूदनूद्यमानतया विरुद्धयो रसयोः समावेशः, सहकारितया तु भविष्यतीति सर्वथाविरुद्धयोर्युक्तियुक्तोऽङ्गाङ्गिभावो नात्र प्रयासः कश्चिदिति दर्शयतियैवति । तन्निमित्ततेति । काव्यार्थो विभावादिर्निमित्तं येषां रसादीनां ते तथा तेषां भावस्तत्ता । अनूद्यमाना ये हस्तक्षेपादयो रसाङ्गभूता विभावादयस्तन्निमित्तं यदुभयं करुणविप्रलम्भात्मकं रसवस्तु रससजातीयं तत्सहकारि यसेय विधीयमानस्य शाम्भवशरवह्निजनितदुरित्दाहलक्षणस्य तस्माद्भावविशेषेप्रेयोलङ्कारविषये भगवत्प्रभावातिशयलक्षणे प्रतीतिरिति सङ्गतिः । विरुद्धं यदुभयं वारितेजोगतं शीतोष्णं तत्सहकारि यस्य तण्डुलादेः कारणस्य तस्मात्कार्यविशेषस्य कोमलभक्तकरणलक्षणस्योत्पत्तिर्दृश्यते । सर्वत्र हीत्थमेव कार्यकारणभावो बीजाङ्कुरादौ नान्यथा । ननु विरोधस्तर्हि सर्वत्राकिञ्चित्करः स्यादित्याशङ्क्याहविरुद्धफलेति । तथा चाहुः “नोपादानं विरुद्धस्य” इति । नन्वभिनेयार्थे काव्ये यदीदृशं वाक्यं भवेत्तदा
बालप्रिया
अन्वित्यादि । अनूद्यमानैर्विभावादिभिः समाक्षिप्तत्वाद्य्वञ्चितत्वादित्यर्थः । तदाह तदभिप्रायेणाह । “तन्निमित्तते"त्येतद्य्वाचष्टेकाव्येत्यादि । अनूद्यमानाङ्गेत्यादिकं क्षिप्त इत्यादिश्लोके योजयन् व्याचष्टेअनूद्यमाना इत्यादि । हस्तक्षेपादयो विभावादय इत्यत्र यथासंख्येनान्वयो न विवक्षितः । हस्तक्षेपस्यानुभावत्वातनुभावादय इति वा पाठः । तन्निमित्तमिति । ते निमित्तानि यस्य तदित्यर्थः । रससजातीयमिति । रसात्मकं स्थाय्यात्मकं वेत्यर्थः । यस्य विधीयमानांशस्येत्यस्यैव विवरणम्शाम्भवेत्यादि । विधीयमानांशादिति विशेष्यसन्निधानेन यस्य विधीयमानांशस्येति व्याख्यातं, तदेतद्दर्शयितुमाहतस्मादिति । भावविशेषप्रतीतिरित्येतद्य्वाचष्टेभावेत्यादि । भावविशेषे इत्यस्य विवरणम्प्रेयोऽलङ्कारविषय इति । स क इत्यत्राहभगवदित्यादि । सर्वत्रेत्यादि । तेजोजलाद्यात्मकविरुद्धोभयसहकारिण एव बीजादेरङ्कुरादिकार्योत्पत्तिरिति भावः । नोपादानमिति । नोत्पादनमिति पाठेन भाव्यमिति प्रतिभाति । एवंविधव्रिदेधपदार्थविषयः कथमभिनयः प्रयोक्तव्य इति चेत्, अनूद्यमानैवंविधवाच्यविषये या वार्ता सात्रापि भविष्यति । एवं विध्यनुवादनयाश्रयेणात्र श्लोके परिहृतस्तावद्विरोधः । किं च नायकस्याभिनन्दनीयोदयस्य कस्यचित्प्रभावातिशयवर्णने तत्प्रतिपक्षाणां यः करुणो रसः स परीक्षकाणां न वैक्लव्यमादधाति
लोचनं
यदि समस्ताभिनयः क्रियते तदा विरुद्धार्थविषयः कथं युगपदभिनयः कर्तुं शक्य इत्याशयेनाशङ्कमान आहएवमिति । एतत्परिहरतिअनूद्यमानेति । अनूद्यमानमेवंविधं विरुद्धाकारं वाच्यं यत्र तादृशो यो विषयः “एहि गच्छ पतोत्तिष्ठ” इत्यादिस्तत्र या वार्ता सात्रापीति । एतदुक्तं भवति “क्षिप्तो हस्तावलग्न” इत्यादौ प्राधान्येन भीतविप्लुतादिदृष्ट्युपपादनक्रमेण प्राकरिणकस्तावदर्थः प्रदर्शयितव्यः । यद्यप्यत्र करुणोऽपि पराङ्गमेव तथापि विप्रलम्भापेक्षया तस्य तावन्निकटं प्राकरणिकत्वं महेश्वरप्रभावं प्रति सोपयोगत्वात् । विप्रलम्भस्य तु कामीवेत्युत्प्रेक्षोपमाबलेनायातस्य दूरत्वात् । एवं च सास्रनेत्रोत्पलाभिरत्यन्तं प्राधान्येन करुणोपयोगाभिनयक्रमेण लेशतस्तु विप्रलम्भस्य करुणेन सादृश्यात्सूचनां कृत्वा । कामीवेत्यत्र यद्यपि प्रणयकोपोचितोऽभिनयः कृतस्तथापि ततः प्रतीयमानोऽप्यसौ विप्रलम्भः समनन्तराभिनीयमाने स दहतु दुरितमित्यादौ साटोपाभिनयसमर्पितो यो भगवत्प्रभावस्तत्राङ्गतायां पर्यवस्यतीति न कश्चिद्विरोधः । एतं विरोधपरिहारमुपसंहरतिएवमिति । विषयान्तरे तु प्रकारान्तरेण विरोधपरिहारमाहकिञ्चेति । परीक्षकामामिति सामाजिकानां विवेकशालिनाम् । न वैक्लव्यमिति । न तादृशे विषये चित्तद्रुतिरितेपद्यते करुणास्वादविश्रान्त्यभावात् । किन्तु वीरस्य योऽसौ क्रोधो व्यभिचारतां प्रतिपद्यते तत्फलरूपोऽसौ करुणरसः । स्वकारणाभिव्यञ्जनद्वारेण वीरास्वादातिशय एव पर्यवस्यति ।
बालप्रिया
नटशिक्षार्थं विवृणोतिएतदुक्तमित्यादि । प्रदर्शयितव्यः अभिनेतव्यः । उत्प्रेक्षापमाबलेनेति । उत्प्रेक्षाया उपमाया वा बलेनेत्यर्थः । कृत्वा अभिनय इति सम्बन्धः । शङ्कतेकामीत्यादि । समाधत्तेतथापीत्यादि । कृत इति । कृतिविषय इत्यर्थः । भवेदिति शेषः । किञ्चेत्यादिग्रन्थमवतारयतिविषयान्तरेऽपीत्यादि । विषयान्तरे स्थलान्तरे कुरवकेत्यादौ । प्रकारान्तरेणेति । पञ्चमेन प्रकारेणेत्यर्थः । आहेति । प्रसङ्गादाहेत्यर्थः । तादृशे विषय इति । कुरवकेत्यादद्युदाहरणादावित्यर्थः । वैक्लव्यमित्यस्य प्रत्युत प्रीत्यतिशयनिमित्ततां प्रतिपद्यत इत्यतस्तस्य कुण्ठशक्तिकत्वात्तद्विरोधविधायिनो न कश्चिद्दोषः । तस्माद्वाक्यार्थीभूतस्य रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न्याय्यः, न त्वङ्गभूतस्य कस्यचित् ।
लोचनं
यथोक्तम् “रौद्रस्य चैव यत्कर्म स ज्ञेयः करुणो रसः” इति । तदाहप्रीत्यतिशयेति । अत्रोदाहरणं कुरबक कुचाघातक्रीडासुखेन वियुज्यसे बकुलविटपिन् स्मर्तव्यं ते मुखासवसेवनम् । चरणघटनाशून्यो यास्यस्यशोक सशोकता मिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रयः ॥ भावस्य वेति । तस्मिन् रसे स्थायिनः प्रधानभूतस्य व्यभिचारिणो वा यथा विप्रलम्भशृङ्गार औत्सुक्यस्य ।
बालप्रिया
विवरणम्चित्तद्रुतिरिति । कुरवकेति । मुखासवसेवनमित्यपि पाठः । स पादाघातादशोकस्तिलककुरवकौ वीक्षणालङ्गनाभ्यां स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति बकुलश्शीधुगण्डूषसेकात् ॥ इति वचनमत्रानुसन्धेयम् । वृत्तौ “करुणो रस “इति । निबध्यमान इति शेषः । “प्रीत्यतिशये"ति । वीररसास्वादेत्यर्थः । “तस्ये"ति । करुणस्येत्यर्थः । “कुण्ठशक्तिकत्वादि"ति । अन्याङ्गत्वेन शक्तेः कुण्ठीभावादित्यर्थः । न दोष इत्यनेनास्य सम्बन्धः । “तद्विरोधविधायिन” इति तस्येत्यस्य विशेषणम् । वीररसास्वादातिशयविरोधविधायिन इत्यर्थः । अकुण्ठशक्तिकत्वादिति पाठे तस्येत्यस्य वीरास्वादस्येत्यर्थः । तद्विरोधविधायिन इति पञ्जम्यन्तं करुणादिति शेषः । निगमयति “तस्मादि"त्यादि । “वाक्यार्थीभूतस्ये"ति । प्रधानस्य प्रस्तुतस्येत्यर्थः । “रसविरोधीति वक्तुम्” इति । “विरोधिरसे"त्यादौ विरोधिपदेन वक्तुमित्यर्थः । तथाच वाक्यार्थभूतरसादिविरोधिरससम्बन्धिपरिग्रहो दोष इति भावः । “न त्वि"त्यादि । अङ्गभूतस्य कस्यचिद्रसस्य भावस्य वा विरोधी रसविरोधीति वक्तुं न न्याय्य इत्यर्थः । तथाचाङ्गभूतस्य कस्यचिद्विरोधी यो लसः तत्सम्बन्धिपरिग्रहो न दोष इति भावः । यथाक्षिप्तेत्यादौ शृङ्गारविरोधी यः करुणस्तत्सम्बन्धिपरिग्रहः । भावस्य वेत्यत्र भावपदेन स्थायी व्यभिचारी च विवक्षित इत्याह लोचनेतस्मिन्नित्यादि । तस्मिन् रसे प्रकृतरसे । वाक्यार्थभूतस्येत्यस्य विवरणम्प्रधानभूतस्येति । अथवा वाक्यार्थीभूतस्यापि कस्यचित्करुणरसविषयस्य तादृशेन शृङ्गारवस्तुना भङ्गिविशेषाश्रयेण संयोजनं रसपरिपोषायैव जायते । यतः प्रकृतिमधुराः पदार्थाः शोचनियतां प्राप्ताः प्रगवस्थाभाविभिः संस्मर्यमाणैर्विलासैरधिकतरं शोकावेशमुपजनयन्ति । यथा लोचनमधुना पूर्वस्मिन्नेव श्लोके क्षिप्त इत्यादौ प्रकारान्तरेण विरोधं परिहरतिअथवेति । अयं चात्र भावःपूर्वं विप्रलम्भकरुणयोरन्यत्राङ्गभावगमनान्निर्विरोधत्वमुक्तम् । अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नः कथं विरोधीति व्यवस्थाप्यतेतथा हि करुणो रसो नामेष्टजनविनिपातादेर्विभावादित्युक्तम् । इष्टता च नाम रमणीयतामूला । ततश्च कामीवार्द्रापराघ इत्युत्प्रेक्षयेदमुक्तम् । शांभवशरवह्निचेष्टितावलोकने प्राक्तनप्रणयकलहवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रतिपद्यते । तदाहभङ्गिविशेषेति । अग्राम्यतया विभावानुभावादिरूपताप्रापणया
बालप्रिया
अथ वेत्यादिग्रन्थस्यार्थान्तरभ्रमनिवारणाय तद्रग्रन्थमवतारयतिअधुनेत्यादि । अथ वेति इत्यस्य स्थाने अथवेत्यादिना दोषाभाव इत्यन्तेनेति च पाठः । वृत्तौ “अथवे"त्यादि । “वाक्यार्थभूतस्ये"ति । वाच्यस्येत्यर्थः । अपिशब्दः अनन्तरोक्तनीत्या रसपरपोषणे आपाततो विरोधं द्योतयति “कस्यचिदि"ति । विभावादिरूपस्य कस्यचिदित्यर्थः । “करुणरसविषयस्य” कुणाङ्गस्य । “तादृशेन” वाच्यतया तत्तुल्येन । यद्वाविरोधिना शृङ्गारवस्तुना शृङ्गाराङ्गेन । उक्तस्योदाहरणमाह “अयम्” इत्यादि । काव्यप्रकाशेऽप्युदाहृतोऽयं श्लोकः । प्रकृते क्षिप्त इत्यादावुक्तं योजयन्नाह “तदत्रे"त्यादि । “व्यवहरति स्मे"ति । करग्रहणादिकमकरोदिति तदर्थः । वृत्तिग्रन्थेन विवक्षिता स्यास्पष्टत्वाद्भावमाह लोचने अयञ्चात्रेत्यादि । अन्यत्र त्रिपुररिपुप्रभावातिशये । अधुना तु इत्यस्य इति व्यवस्थाप्यत इत्यनेन सम्बन्धः । कथं विरोधीति । करुणस्य विरोधी नेत्यर्थः । विभावादित्युक्तमिति । मुनिनेति शेषः । रमणीयतामूलेति बहुव्रीहिः । इत्युत्प्रेक्षयेति । इदं चात्रोत्प्रेक्षालङ्कार इति पक्षाभिप्रायेणोक्तम् । इदमुक्तमिति । वक्ष्यमाणार्थः प्रकाशित इत्यर्थः । शाम्भवेति । शाम्भववह्नेश्चेष्टितानामवलोकनेनेत्यर्थः । अवलोकने इत्यपि पाठः, स्मर्यमाण इत्यनेनास्य सम्बन्धः । प्राक्तनेति । प्राक्तनः पूर्वानुभूतः प्रणयकलहवृत्तान्तः करग्रगणासहनादिरित्तयर्थः । स्मर्यमाण इति । त्रिपुरयुवतिभिरिति शेषः । विध्वस्ततयेति । नष्टतयेत्यर्थः शोकविभावतामित्यस्यानन्तरं प्रकृष्टामिति च क्वचित्पाठः । प्रतिपद्यत इति । तथाचात्र विशिष्टवैशिष्ट्यन्यायेन विप्रलम्भोपस्कृतः करुणः त्रिपुररिपुप्रभावातिशयं अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शि नीवीविस्रंसनः करः ॥ इत्यादौ । तदत्र त्रिपुरयुवतीनां शाम्भवः शराग्निरार्द्रापराधः कामी यथा व्यवहरति सम तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येव निर्विरोधत्वम् । तस्माद्यथा यथा निरूप्यते तता तथात्र दोषाभावः । इत्यं च क्रामन्त्यः क्षयकोमलाङ्गुलिवलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव पतद्बाष्पाम्बुधौताननाः । भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनार्थाधुना दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥ इत्येवमादीनां सर्वेषामेव निर्विरोधत्वमवगन्तव्यम् । एवं तावद्रसादीनां विरोधिरसादिभिः समावेशासमावेशयोर्विषयविभागो दर्शितः । इदानीं तेषामेकप्रबन्धविनिवेशने न्याय्यो यः क्रमस्तं प्रतिपादयितुमुच्यते
लोचनं
ग्राम्योक्तिरहितयेत्यर्थः । अत्रैव दृष्टान्तमाहयथा अयमिति । अत्र भूरिश्रवसः समरभुवि निपतितं बाहुं दृष्ट्वा तत्कान्तानामेतदनुशोचनम् । रशनां मेखलां सम्भोगा वसरेषूर्ध्वं कर्षतीति रसनोत्कर्षी । अमुना विरोधोद्धरणप्रकारेण बहुतरं लक्ष्यमुपपादितं भवतीत्यभिप्रायेणाहैत्थं चेति । होमाग्निधुमकृतं बाष्पाम्बु यदि वा बन्धुगृहत्यागदुःखोद्भवम् । भयं कुमारीजनोचितः साध्वसः । एवमियताङ्गभावं प्राप्तानामुक्तिरच्छलेति कारिकाभागोपयोगि निरूपितमित्युपसंहरतिएवमिति । तावद्ग्रहणेन वक्तव्यान्तरसप्यस्तीति सूचयति ॥२०॥
तदेवावतारयतिइदानीमित्यादिना । तेषां रसानां क्रम इति योजना ।
बालप्रिया
तदालम्बितं इतिभावं वा उपस्करोतीति भावः । तदाहेति । उक्ताभिप्रायेणाहेत्यर्थः । अग्राम्यतयेत्यस्यैव विवरणम्विभावेत्यादि । अत्र भूरिश्रवस इत्यादि । श्लोकेऽस्मिन्नायकगतशृङ्गारो नायिकागतकरुणस्याङ्गमित्यादिकं काव्यप्रदीपोद्योतादौ द्रष्टव्यम् । अमुनेति । उक्तेनेत्यर्थः । विवाहकाले कथं बाष्पोद्गम इत्यत आहहोमेति । अयमपि श्लोकः काव्यप्रकाशे उदाहृतः । क्षिप्त इत्यादाविवात्रापि सर्वं बोध्यम् ॥२०॥
इदानीं तेषामित्यत्र तेषामितिपदं व्याचष्टेरसानामिति । क्रम इत्यादि ।
प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने । एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥ कारिका३.२१ ॥
प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने । एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥ २१ ॥
प्रबन्धेषु महाकाव्यादिषु नाटकादिषु वा विप्रकीर्णतयाङ्गाङ्गिभावेन बहवो रसा उपनिबध्यन्त इत्यत्र प्रसिद्धौ सत्यामपि यः प्रबन्धानां छायातिशययोगमिच्छति तेन तेषां रसानामन्यतमः कश्चिद्विवक्षितो रसोऽङ्गित्वेन विनिवेशयितव्य इत्ययं युक्ततरो मार्गः । ननु रसान्तरेषु बहुषु प्राप्तपरिपोषेषु सत्सु कथमेकस्याङ्गिता न विरुध्यत इत्याशङ्क्येदमुच्यते
रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः । नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावभासिनः ॥ कारिका३.२२ ॥
रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः । नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावभासिनः ॥ २२॥
प्रबन्धेषु प्रथमतरं प्रस्तुतः सन् पुनः पुनरनुसन्धीयमानत्वेन स्थायी यो रसस्तस्य सकलबन्धव्यापिनो रसान्तरैरन्तरालवर्तिभिः समावेशो यः
लोचनं
प्रसिद्धेऽपिति । भरतमुनिप्रभृतिभिर्निरूपितेऽपीत्यर्थः । तेषामिति प्रबन्धानाम् । महाकाव्यादिष्वित्यादिशब्दः प्रकारे । अनभिनेयान्भेदानाह, द्वितीयस्त्वभिनेयान् । विप्रकीर्णतयेति । नायकप्रतिनायकपताकाप्रकरीनायकादिनिष्ठतयेत्यर्थः । अङ्गाङ्गिभावेनेत्येकनायकनिष्ठत्वेन । युक्ततर इति । यद्यपि रमवकारादौ पर्यायबन्धादौ च नैकस्याङ्गित्वं तथापि नायुक्तता तस्याप्येवंविधो यः प्रबन्धः तद्यथा नाटकं महाकाव्यं वा तदुत्कृष्टतरमिति तरशब्दस्यार्थः ॥ २१ ॥
नन्विति । स्वयं लब्धपरिपोषत्वे कथमङ्गत्वम्? अलब्धपरिपोषत्वे वा कथं रसत्वमिति रसत्वमङ्गत्वं चान्योन्यविरुद्धं तेषां चाङ्गत्वायोगे कथमेकस्याङ्गित्वमुक्तमिति भावः । रसान्तरेति । प्रस्तुतस्य समस्तेतिवृत्तव्यापिनस्तत एव विततव्याप्तिकत्वेनाङ्गिभावोचितस्य
बालप्रिया
क्रम इत्येनेन तेषामित्यस्य सम्बन्ध इत्यर्थः । ग्रसिद्धेऽपीत्येतद्विवृणोतिभरतेत्यादि । वृत्तिग्रन्धं व्याचष्टेमहेत्यादि । “युक्ततर” इत्यत्र तरबर्थं दर्शयतियद्यपित्यादि । तथापि च तस्यापि नायुक्तता इति सम्बन्धः । तस्यापीति । समबकारादेरपीत्यर्थः । एवंविध इति । नानारसकोऽङ्गिभूतैकरसकश्चेत्यर्थः ॥ २१ ॥
“नन्वि"त्यादिशङ्काग्रन्थस्य भावमाहस्वयमित्यादि । लब्धपरिपीषत्वे इति । रसान्तराणामिति शेषः । नन्वङ्गत्वं मास्त्वित्यत्राहतेषां चेत्यादि । वृत्तौ स नाङ्गितामुपहन्ति । एतदेवोपपादयितुमुच्यते
कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते । तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ कारिका३.२३ ॥
कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते । तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ २३ ॥
लोचनं
रसस्य रसान्तरैरितिवृत्तवशायातत्वेन परिमितकथाशकलव्यापिभिर्यः समावेशः समुपबृंहणं स तस्य स्थायित्वेनेतिवृत्तव्यापितया भासमानस्य नाङ्गितामुपहन्ति, अङ्गितां पोषयत्येवेत्यर्थः । एतदुक्तं भवतिअङ्गभूतान्यपि रसान्तराणि स्वविभावादिसामग्न्या स्वावस्थायां यद्यपि लब्धपरिपोषाणि चमत्कारगोचरतां प्रतिपद्यन्ते, तथापि स चमत्कारस्तावत्येव न परितुष्य विश्राम्यति किं तु चमत्कारान्तरमनुधावति । सर्वत्रैव ह्यङ्गाङ्गिभावेऽयमेवोदन्तः । यथाह तत्रभवान् गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥ इति ॥ २२ ॥
उपपादयितुमिति । दृष्टान्तस्य समुचितस्य निरूपणेनेति भावः । न्यायेन चैतदेवोपपद्यते - कार्यं हि तावदेकमेवाधिकारिकं व्यापकं प्रासङ्गिककार्यान्तरोपक्रियमाणमवश्यमङ्गीकार्यम् । तत्पृष्ठवर्तिनीनां नायकचित्तवृत्तीनां तद्बलादेवाङ्गाङ्गिभावः । प्रवाहापतित इति किमत्रापूर्वमिति तात्पर्यम् । तथेति व्यापितया । यदि वा एवकारो भिन्नक्रमः, तथैव तेनैव प्रकारेण कार्याङ्गाङ्गिभावरूपेण रसानामपि बलादेवासावापततीत्यर्थः । तथा च वृत्तौ वक्ष्यति “तथैवे"ति । कार्यमिति । “स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति” इति लक्षितं बीजम् ।
बालप्रिया
क्वचिद्ग्रन्थे बहुष्विति पाठो न, “कथमेकस्याङ्गिता न” इत्यस्य स्थाने एकस्याङ्गितेति पाठश्च दृश्यते । कारिकां व्याचष्टेप्रस्तुतस्येत्यादि । अस्येत्यस्य विवरणम्तस्येति । कारिकयानया लब्धं नन्वित्यादिशङ्कायाः समाधानं दर्शयतिएतदुक्तमित्यादि । गुण इति । गुणः अङ्गभूतः । अन्येन कृतात्मसंस्कारः सन् तथा कृतात्मसंस्कारः गुणः प्रधानस्य अङ्गिनः भूयसि उपकारे वर्तते भूयसे उपकाराय भवति हि । श्लोकोऽयं काव्यप्रकाशेऽपि दर्शितः । निरूपणेनेति । प्रदर्शनेनेत्यर्थः । एतदेवेति । कार्यमित्यादिना वक्ष्यमाणमेवेत्यर्थः । तत्पृष्ठवर्तिनीनामिति । तत्तत्कार्यानुषक्तानामित्यर्थः । नायकचित्तवृत्तीनामिति । नायकपदेन नायकोपनायकादयस्सर्वेऽत्र विवक्षिताः । तद्बलादेवेति । कार्याणामङ्गाङ्गिभावस्य बलादेवेत्यर्थः । कारिकास्थं तथेति पदं व्याचष्टेव्यापितयेति । अन्यथापि व्याचष्टेयदि वेत्यादि । भिन्नक्रम इति । नैवेत्येवकारस्तथेत्यनेन सम्बध्नातीत्यर्थः । सन्ध्यादिमयस्य प्रबन्धशरीरस्य यथा कार्यमेकमनुयायि व्यापकं कल्प्यते न च तत्कार्यान्तरैर्न सङ्कीर्यते, न च तैः सङ्कीर्यमाणस्यापि तस्य प्राधान्यमपचीयते, तथैव रसस्याप्येकस्य सन्निवेशे क्रियमाणे विरोधो न कश्चित् । प्रत्युत प्रत्युदितविवेकानामनुसन्धानवतां सचेतसां तथाविधे विषये प्रह्लादातिशयः प्रवर्तते । ननु येषां रसानां परस्पराविरोधः यथावीरशृङ्गारयोः शृङ्गारहास्ययो
लोचनं
बाजात्प्रभृति प्रयोजनानां विच्छेदे यदविच्छेदकारणं यावत्समाप्तिबन्धं स तु बिन्दुः” इति बिन्दुरूपयार्थप्रकृत्या निर्वहणपर्यन्तं व्याप्नोति तदाहअनुयायीति । अनेन बीजं बिन्दुश्चेत्यर्थप्रकृती सङ्गृहीते । कार्यान्तरैरिति । “आगर्भादाविमर्शाद्वा पताकाविनिवर्तते” इति प्रासङ्गिकं यत्पताकालक्षणार्थप्रकृतिनिष्ठं कार्यं यानि च ततोऽप्यूनव्याप्तितया प्रकरीलक्षणानि कार्याणि तैरित्येवं पञ्चानामर्थप्रकृतीनां वाक्यैकवाक्यतया निवेश उक्तः । तथाविध इति । यथा तापसवत्सराजे । एवमनेन श्लोकेनाङ्गाङ्गितायां दृष्टान्तनिरूपणमितिवृत्तबलापतितत्वं च रसाङ्गाङ्गिभावस्येति द्वयं निरूपितम् । वृत्तिग्रन्थोऽप्युभयाभिप्रायेणैव नेयः । शृङ्गारेण वीरस्याविरोधो युद्धनयपराक्रमादिना कन्यारत्नलाभादौ । हास्यस्य तु स्पष्टमेव तदङ्गत्वम् । हास्यस्य स्वयमपुरुषार्थस्वभावत्वेऽपि समधिकतररञ्चनोत्पादनेन शृङ्गाराङ्गतयैव तथात्वम् । रौद्रस्यापि तेन कथञ्चिदविरोधः । यथोक्तम् “शृङ्गारश्च तैः प्रसभं सेव्यते” ।
बालप्रिया
असाविति । अङ्गाङ्गिभाव इत्यर्थः । कार्यपदेन योगव्युत्पत्त्या विवक्षितमर्थं दर्शयन् विवृणोतिस्वल्पमात्रमित्यादि । बीजमित्यस्य व्याप्नोतीत्यनेन सम्बन्धः । अनेनेति । कार्यपदेनेत्यर्थः । कार्यान्तरैरित्यनेन विवक्षितं विवृणोतिआगर्भादित्यादि । ततोऽप्यूनव्याप्तीति । ततः पताकालक्षणार्थप्रकतेः । तैरित्यन्तेन कार्यान्तरैरित्यस्य विवरणम् । उपसंहरतिइत्येवमित्यादि । उक्त इति । कार्यं कार्यान्तरैरित्याभ्यां बोधित इत्यर्थः । तथाविधे विषये इत्यस्योदाहरणं दर्शयतियथा तापसेति । सारार्थमाहएवमित्यादि । अनेनेति । कार्यमित्यादिनेत्यर्थः । अङ्गाङ्गितायां दृष्टान्तनिरूपणं रसाङ्गाङ्गिभावस्य इतिवृत्तबलापतितत्वं चेति द्वयमनेन श्लोकेन निरूपितमिति सम्बन्धः । रसानामविरोधमुपपादयतिशृङ्गारेणेत्यादि । अविरोध इति । एकाश्रयत्वे विरोधाभाव इत्यर्थः । तदङ्गत्वं शृङ्गाराङ्गत्वम् । समधिकरञ्जनोत्पादनेनेति । रौद्रशृङ्गारयोर्वीराद्भुतयोर्वीररौद्रयो रौद्रकरुणयोः शृङ्गाराद्भुतर्योर्वा तत्र भवत्वङ्गाङ्गिभावः । तेषां तु स कथं भवेद्येषां परस्परं बाध्यबाधकभावः । यथाशृङ्गारबूभत्सयोर्वीरभयानकयोः शान्तरौद्रयोः शान्तशृङ्गारयोर्वा इत्याशङ्क्येदमुच्यते
लोचनं
तैरिति रौद्रप्रभृतिभिः रक्षोदानवोद्धतमनुष्यैरित्यर्थः । केवलं नायिकाविषयमौग्न्यं तत्र परिहर्तव्यम् । असम्भाव्यपृथिवीसम्मार्जनादिजनितविस्मयतया तु वूराद्भुतयोः समावेशः । यथाह मुनिः “वीरस्य चैव यत्कर्म सोऽद्भुतः” इति । वीररौद्रयोर्धीरोद्धते भीमसेनादौ समावेशः क्रोधोत्साहयोरविरोधात् । रौद्रकरुणयोरपि मुनिनैवोक्तः “रौद्रस्यैव च यत्कर्म स ज्ञेयः करुणो रसः” इति । शृङ्गाराद्भुतयोरिति । यथा रत्नावल्यामैन्द्रजालिकदर्शने । शृङ्गारबीभत्सयोरिति । ययोहि परस्परोन्मूलनात्मकतयैवोद्भवस्तत्र कोऽङ्गाङ्गिभावः आलम्बननिमग्नरूपतया च रतिरुत्तिष्ठति ततः पलायमानरूपतया जुगुप्सेति समानाश्रयत्वेन तयोरन्योन्यसंस्कारोन्मूलनत्वम् । भयोत्साहावप्येवमेव विरुद्धौ वाच्यौ । शान्तस्यापि तत्त्वज्ञानसमुत्थितसमस्तसंसारविषयनिर्वेदप्राणत्वेन सर्वतो निरीहस्वभावस्य विषयासक्तिजीविताभ्यां रतिक्रोधाभ्यां विरोध एव ॥ २३ ॥
बालप्रिया
स्मधिकरसोत्पादनेनेति च पाठः । शृङ्गाररसनाया आधिक्योत्पादनेनेत्यर्थः । तथात्वं पुरुषार्थत्वम् । तेन शृङ्गारेण । उक्तमिति । मुनिनेति शेषः । विशेषमाहकेवलमिति । असम्भाव्येत्यादि । वीरस्य ह्यसम्भाव्यवस्तुलाभेन विस्मयो भवति । उक्त इति । अविरोध इति शेषः । अत्रैकालम्बनकत्वेनाविरोधो बोध्यः । रौद्रकरुणयोर्भिन्नाश्रयकत्वस्यैव सम्भावत् । “शृङ्गाराद्भुतयोरपी"ति अविरोध इति शेषः । बाध्यबाधकभावमुक्तं विवृणोतिययोर्हीत्यादि । ययोरिति । शृङ्गारबीभत्साद्योरित्यर्थः । तत्र तयोः । उक्तार्थे हेतु दर्शयतिआलम्बनेत्यादि । उत्तिष्ठति प्रादुर्भवति । तत इति । आलम्बनादित्यर्थः । जुगुप्सेति । उत्तिष्ठतीत्यनुषङ्गः । इतीति हतौ । समनाश्रयत्वेनेति । एकालम्बनकत्वेनैकाधिकरणकत्वेन चेत्यर्थः । तयोरिति । रतिजुगुप्सयोरित्यर्थः । अन्योन्येति । अन्योन्यस्य यः संस्कारः, तदुन्मूलनत्वं तद्विनाशकारित्वमित्यर्थः । एवमेवेति । एकाश्रयत्वेनेत्यर्थः ॥ २३ ॥
अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे । परिपोषं न नेतव्यस्तथा स्यादविरोधिता ॥ कारिका३.२४ ॥
अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे । परिपोषं न नेतव्यस्तथा स्यादविरोधिता ॥ २४ ॥
अङ्गिनि रसान्तरे शृङ्गारादौ प्रबन्धव्यङ्ग्ये सति अविरोधी विरोधी वा रसः परिपोषंन नेतव्यः । तत्राविरोधिनो रसस्याङ्गिरसापेक्षयात्यन्तमाधिक्यं न कर्तव्यमित्ययं प्रथमः परिपोषपरिहारः । उत्कर्षसाम्येऽपि तयोर्विरोधासम्भवात् । यथा लोचनमविरोधी विरोधी वेति । वाग्रहणस्यायमभिप्रायःङ्गिरसापेक्षया यस्य रसान्तरस्योत्कर्षो निबध्यते तदा तदविरुद्धोऽपि रसो निबद्धश्चोद्यावहः । अथ तु युक्त्या ङ्गिनि रसोऽङ्गभावतानयेनोपपत्तिर्घटते तद्विरुद्धोऽपि रसो वक्ष्यमाणेन विषयभेदादियोजनेनोपनिबध्यमानो न दोषावह इति विरोधाविरोधावकिञ्चित्करौ । विनिवेशनप्रकार एव त्ववधात्व्यमिति । अङ्गिनीति सप्तम्यनादरे । अङ्गिनं रसविशेषमनादृत्य परिपोषपरिहारे त्रीन् प्रकारानाहतत्रेत्यादिना तृतीय इत्यन्तेन । ननु न्यूनत्वं कर्तव्यमिति वाच्ये आधिक्यस्य का सम्भावना येनोक्तमाधिक्यंन कर्तव्यमित्याशङ्क्याहौत्कर्षसाम्य इति । एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः । स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् ॥
बालप्रिया
अयमिति । वक्ष्यमाण इत्यर्थः । अपेक्षयेत्यस्य उत्कर्ष इत्यनेन सम्बन्धः । तदविरुद्धोऽपीति । अङ्गिरसाविरुद्धोऽपीत्यर्थः । अङ्गेति । अङ्गत्वप्रापणेनेत्यर्थः । तदिति । तर्हि इत्यर्थः । अङ्गिनीति इति प्रतीकधारणम् । सप्तमिति । अङ्गिनि रसान्तरे इत्यत्र सप्रमीत्यर्थः । अनादर इति । “षष्ठी चानादर” इति सूत्रानुशिष्टा सप्तमीत्यर्थः । रसान्तरपदविवरणम्रसविशेषमिति । अनादृत्येत्यस्यैव विवरणम्न्यक्कृत्येनति । इति वाच्य इति । तत्राविरोधिनो रसस्याङ्गिरसापेक्षया न्यूनत्वं कर्तव्यमिति वक्तव्ये सतीत्यर्थः । वृत्तौ “तयोरि"ति । अङ्गिनो रसस्य तदविरोधिनो रसन्तरस्य चेत्यर्थः । कत इति । एकतः एकस्मिन् देशे । अन्यतः अन्यस्मिन् देशे । डोलायितं सन्देहाकुलम् । “कण्ठदि"ति कण्ठाच्छित्वा । हालं कण्ठादुद्धृत्य । मेखलाया गुणेनैव विषधरपति नेति रूपकम् । “सन्ध्ये"ति । सन्ध्याया नायिकात्वं गम्यते । तस्यां या अभ्यसूया तया हेतुना हसितः पशुपत्तिः सन्ध्यां सेवमानः परमेश्वरो यया सा । हृष्टा सन्तुष्टा श्लोकोऽथं प्रक्षिप्तः । उत्कर्षसाम्यं विवृणोति लोचनेरोदितीत्यादि । इत्यत इति । एकन्तो रुऐ पिआ अण्णन्तो समरतूरणिग्घोसो । णेहेण रणरसेण अ भडस्स दोलाइअं हिअअम् ॥ यथा वा कण्ठाच्छित्त्वाक्षमालावलयमिव करे हारमावर्तयन्ती कृत्वा पर्यङ्कबन्धं विषधरपतिना मेखलाया गुणेन । मिथ्यामन्त्राभिजापस्फुरदघरपुटव्यञ्जिताव्यक्तहासा देवी सन्ध्याभ्यसूयाहसितपशुपतिस्तत्र दृष्टा तु वोऽव्यात् ॥ इत्यत्र । अङ्गिरसविरुद्धानां व्यभिचारिणां प्राचुर्येणानिवेशनम्, निवेशने वा क्षिप्रमेवाङ्गिरसव्यभिचार्यनुवृत्तिरिति द्वितीयः । लोचनमिति च्छाया । रोदिति प्रियेत्यतो रत्युत्कर्षः । रसरतूर्येति भटस्येति चोत्साहोत्कर्षः । दोलायितमिति तयोरन्यूनाधिकतया साम्यमुक्तम् । एतच्च मुक्तकविषयमेव भवति न तु प्रबन्धविषयमिति केचिदाहुस्तच्चासत् - आधिकारिकेष्वितिवृत्तेषु त्रिवर्गफलसमप्राधान्यस्य सम्भवात् । तथाहिरत्नावल्यां सचिवायत्तसिद्धित्वाभिप्रायेण पृथिवीराज्यलाभ आधिकारिकं फलं कन्यारत्नलाभः प्रासङ्गिकं फलं, नायकभिप्रायेण तु विपर्यय इति स्थिते मन्त्रिबुद्धौ नायकबुद्धौ च स्वाम्यमात्यबुद्ध्येकत्वात्फलमिति नीत्या एकीक्रियमाणायां समप्राधान्यमेव पर्यवस्यति । यथोक्तम् “कवेः प्रयत्नान्नेतॄणां युक्तानाम्” इत्मलमवान्तरेण बहुना । एवं प्रथमं प्रकारं निरूप्य द्वितीयमाहअङ्गीति । अनिवेशनमिति । अङ्गभूते
बालप्रिया
प्रियाकर्तृकरोदनरूपानुभावोक्त्येत्यर्थः । रत्युत्कर्ष इति । उक्त इति विपरिणामेन सम्बन्धः । उक्तः व्यञ्जितः । तयोरिति । रत्युत्कर्षस्य उत्साहोत्कर्षस्य चेत्यर्थः । साम्यमुक्तमिति । अत्र प्रकृतो रसो वीरः भटस्येत्युक्तबलाद्गम्यः समप्राधान्येन वर्णितस्तदविरोधी शृङ्गारः, कण्ठादित्यादौ तु प्रकृतो रसो विप्रलम्भः तदविरोधीहास्यस्समप्राधान्येन दर्शितः । एतदिति । द्वयोरुत्कर्षसाम्यमित्यर्थः । मुक्तकविषयमेवेति । मुक्तके एवेत्यर्थः । त्रिवर्गेति । त्रिवर्गरूपं यत्फलं तस्य समप्राधान्यं यत्तस्येत्यर्थः । समप्राधान्यमेवेति । वीरशृङ्गारयोरिति शेषः । कृत्रानिवेशनमित्यतः पूरयतिअङ्गभूतैति । असाविति । अङ्गभूतो रस इत्यर्थः । अङ्गत्वेन पुनः पुनः प्रत्यवेक्षा परिपोषं नीयमानस्याप्यङ्गभूतस्य रसस्येति तृतीयः । अनया दिशान्येऽपि प्रकारा उत्प्रेक्षणीयाः । विरोधिनस्तु रसस्याङ्गिरसापेक्षया कस्यचिन्न्यूनता सम्पादनीया । यथा शान्तेऽङ्गिनि शृङ्गारस्य शृङ्गारे वा शान्तस्य । परिपोषरहितस्य रसस्य कथं रसत्वभिति चेतुक्तमत्राङ्गिरसापेक्षयेति । अङ्गिनो हि रसस्य
लोचनं
रस इति शेषः । नन्वेवं नासौ परितुष्टो भवेदित्याशङ्क्य मतान्तरमाहनिवेशने वेति । अत एव वाग्रहणमुत्तरपक्षदार्ढ्यं सूचयति न विकल्पम् । तथा चैक एवायं प्रकारः । अन्यथा तु द्वौ स्याताम् । अङ्गिनो रसस्य यो व्यभिचारी तस्यानुवृत्तिरनुसन्धानम् । यथा “कोपात्कोमललोल” इति श्लोकेऽङ्गिभूतायां रतावङ्गत्वेन यः क्रोध उपनिबद्धस्तत्र बद्ध्वा दृढं इत्यमर्षस्य निवेशितस्य क्षिप्रमेव रुदत्येति हसन्निति च रत्युचितेर्ष्यौत्सुक्यहर्षानुसन्धानम् । तृतीयं प्रकारमाहअङ्गत्वेनेति । अत्र च तापसवत्सराजे वत्सराजस्य पझवतीविषयः सम्भोगशृङ्गार उदाहरणोकर्तव्यः । अन्येऽपीति । विभावानुभावानां चापि उत्कर्षो न कर्तव्योऽङ्गिरसविरोधिनां निवेशनमेव वा न कार्यम्, कृतमपि चाङ्गिरसविभावानुभावैरुषबृंहणीयम् । परिपोषिता अपि विरुद्धरसविभावानुभावा अङ्गत्वं प्रतिजागरयितव्या इत्यादि । स्वयं शक्यमुत्प्रेक्षितुम् । एवं विरोध्यविरोधिसाधारणं प्रकारमभिधाय विरोधिविषया साधारणदोषपरिहारप्रकारगतत्वेनैव विशेषान्तरमप्याहविरोधिन
बालप्रिया
रतावङ्गत्वेनेति । उपनिबद्ध इत्यनेनास्य सम्बन्धः । अनुभावद्वारा प्रदर्शित इत्यर्थः । तत्रेति । क्रोधे इत्यर्थः । तद्व्यभिचारितयेति यावत् । उदाहरणीकर्तव्य इति । स तत्राङ्गमिति भावः । अन्येऽपीत्याद्युक्तं विवृणोतिविभावेत्यादि । विभावानुभावानामित्यस्य विशेषणमङ्गिरसविरोधिनामिति । निवेशनमेव वेति । षष्ठ्यन्तयोरत्रानुषङ्गः । कृतमपीति । निवेशनमित्यनुषज्यते । अङ्गीति । अङ्गिरसस्य ये विभावानु भावाः तदेकरूपं सत्तदेकरूपतां सम्पाद्येत्यर्थः । बृहंणीयं पोषणीयम् । अङ्गत्वं प्रतिजागरयितव्याः अङ्गतां नेतव्याः विरोध्यविरोधिसाधारणं प्रकारमिति । सम्भवन्तमिति शेषः । विरोधीति । विरोधिविषयः असाधारणश्च यो दोषपरिहारप्रकारः तद्गतत्वेन तत्सम्बन्धित्वेनेत्यर्थः । सम्भवीति । अत्र पूरयतिप्रधानेत्यादि । वृत्तौ “एतच्चे"त्यादि । बहुरसेषु प्रबन्धेष्वेकस्य रसस्य आपेक्षिकमेतत्प्रकर्ष योगित्वमशक्यप्रतिक्षेपमिति सम्बन्धः । केनाशक्यप्रतिक्षेपमित्यत्रोक्तम्रसानामित्यादि । मतमेतद्विवृणोतिउपकार्येत्यादि । अन्यथेति । स्वचमत्कारविश्रान्तत्वाभाव यावान् परिपोषस्तावांस्तस्य न कर्तव्यः, स्वतस्तु सम्भवी परिपोषः केन वार्यते । एतच्चापेक्षिकं प्रकर्षयोगित्वमेकस्य रसस्य वहुरसेषु प्रबन्धेषु रसानामङ्गाङ्गिभावमनभ्युपगच्छताप्यशक्यप्रतिक्षेपमित्यनेन प्रकारेणाविरोधिनां विरोधिनां च रसानामङ्गाङ्गिभावेन समावेशेप्रबन्धेषु स्यादविरोधः । एतच्च सर्वं येषां रसो रसान्तरस व्यभिचारीभवति इति दर्शनं लोचनमिति । सम्भवीति । प्रधानाविरोधित्वेनेति शेषः । एतच्चेति । उपकार्योपकारकभावो रसानां नास्ति स्वचमत्कारविश्रान्तत्वात् - अन्यथा रसत्वायोगात्, तदभावे च कथमङ्गाङ्गितेत्यपि येषां मतं तैरपि कस्यचिद्रसस्य प्रकृष्टत्वं भूयः प्रबन्धव्यापकत्वमन्येषां चाल्पप्रबन्धानुगामित्वमभ्युपगन्तव्यमितिवृत्तसङ्घटनाया एवान्यथानुपपत्तेः, भूयः प्रबन्धव्यापकस्य च रसस्य रसान्तरैर्यदि न काचित्सङ्गतिस्तदितिवृत्तस्यापि न स्यात्सङ्गतिश्चेदयमेवोपकार्योपकारकभावः । न च चत्मकारविश्रान्तेर्विरोधः कश्चिदिति समनन्तरमेवोक्तं तदाहअनभ्युपगच्छतापीति । शब्दमात्रेणासौ नाभ्युपगच्छति । अकाम एवाभ्युपगमयितव्य इति भावः । अन्यस्तु व्याचष्टेएतच्चापेक्षिकमित्यादिग्रन्थो द्वितीयमतमभिप्रेत्य यत्र रसानामुपकार्योपकारकता नास्ति, तत्रापि हि भूयो वृत्तव्याप्तत्वमेवाङ्गित्वमिति । एतच्चासत् - एवं हि एतच्च सर्वमिति सर्वशब्देन य उपसंहार एकपक्षविषयः
बालप्रिया
इत्यर्थः । तदभाव इति । रसत्वाभाव इत्यर्थः । कथमङ्गाङ्गितेति । रसयोहङ्गाङ्गिभावः । कथमित्यर्थः । तैरपीत्यस्याभ्युपगन्तव्यमित्यनेन सम्बन्धः । कस्यचिद्रसस्य प्रकृष्टत्वमित्यनेनैतच्चापेक्षिकमित्यादिग्रन्थो विवृतः । प्रकृष्टत्वं विवृणोतिभूय इत्यादि । अशक्यप्रतिक्षेपमित्यस्य विवरणमभ्युपगन्तव्यमिति । अत्र हेतुमाहैतिवृत्तेत्यादि । इतिवृत्तघटनायाः कथासङ्घटनस्य । एवमभ्युपगमे उपकार्योपकारकभावोऽप्यभ्युपगतो भवेदित्याहभूय इत्यादि । सङ्गतिरिति । सम्बन्ध इत्यर्थः । तदिति । तदेत्यर्थः । न स्यादिति । सङ्गतिरित्यनुषज्यते । न च चमत्कारेति । चमत्कारविश्रान्तेः कश्चिद्विरोधो न चेत्यन्वयः । तदाहेति । तदभिप्रायेणाहेत्यर्थः । शब्देति । वचनमात्रेणेत्यर्थः । अभ्युपगमयितव्य इति । युक्त्येति शेषः । द्वितीयं मतमिति । मतान्तरे त्वित्यादिना वक्ष्यमाणं मतमित्यर्थः । रसानामित्यादि । किन्तु सास्थायिनामिति भावः । तत्रापीति । तन्मतेऽपीत्यर्थः । भूय इत्यादि । तथाच बह्वितिवृत्तव्याप्तत्वमङ्गित्वमल्पेतिवृत्तव्याप्तत्वमङ्गत्वं चेति भावः । सर्वशब्देनेति । सर्वशब्दं प्रयुज्येत्यर्थः । उपसंहार इति । तन्मतेनोच्यते इत्युपसंहार इत्यर्थः । एकपक्षविषय इति । रसो रसान्तरस्येत्युक्तैकपक्षविषयक इत्यर्थः । एतत्पक्षविषय
लोचनं
मतान्तरेऽपीत्यादिना च यो द्वितीयपक्षोपक्रमः सो"तीव दुःश्लिष्ट इत्यलं पूर्ववंश्यैः सह बहुना संलापेन । येषामिति । भावाध्यायसमाप्तावस्ति श्लोकः बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसस्थायी शेषाः सञ्चारिणो मताः ॥ इति । तत्रोक्तक्रमेणाधिकारिकेतिवृत्तव्यापिका चित्तवृत्तिरवश्यमेव स्थायित्वेन भाति प्रासङ्गिकवृत्तान्तगामिनी तु व्यभिचारितयेति रस्यमानतासमये स्थायिव्यभिचारिभावस्य न कश्चिद्विरोध इति केचिद्व्याचचक्षिरे । तथा च भागुरिरपि किं रसानामपि स्थायिसञ्चारितास्तीत्याक्षिप्याभ्युपगमेनैवोत्तरमवोचद्बाढमस्तीति । अन्ये तु स्थायितया पठितस्यापि रसस्य रसान्तरे व्यभिचारित्वमस्ति, यथा क्रोधस्य वीरे व्यभिचारितया पठितस्यापि स्थायित्वमेव रसान्तरे, यथा तत्वज्ञानविभावकस्य निर्वेदस्य शान्ते - व्यभिचारिणो वा सत एव व्यभिचार्यन्तरापेक्ष्या स्थायित्वमेव, यथा विक्रमोर्वश्यामुन्मादस्य चतुर्थेऽङ्के इतीयन्तमर्थमवबोधयितुमयं श्लोकः बहुनां चित्तवृत्तिरूपाणां भावानां मध्ये यस्य बहुलं रूपं यथोपलभ्यते स स्थायी भावः, स च रसो ससीकरणयोग्यः - शेषास्तु सञ्चारिण इति व्याचक्षते, न तु रसानां स्थायिसञ्चारिभावेनाङ्गाङ्गितोक्तेति । अत एवान्ये रसस्थायीति षष्ठ्या सप्तम्या द्वितीयया वाश्रितादिषु
बालप्रिया
इति च पाठः । स दुःश्लिष्ट इत्यपकर्षः । बहुनामिति । समवेतानामात्मनिष्ठानां बहुनां भावानामिति शेषः । चित्तवृत्तिविशेषाणामित्यर्थः । मध्ये यस्य भावस्य, रूपं बहु भूयः प्रबन्धव्यापकं भवेत् । रस स्थायीति । रसः स्थायीति छेदः । “खर्परे शरी"ति विसर्गलोपः । सः स्थायी रसो मन्तव्य इति योजना । शेषा इति । रसा इति विपरणामेनानुषङ्गः । उक्तमर्थं दर्शयन्नाहतत्रेत्यादि । तत्रोक्तक्रमेण तस्मिन् श्लोके उक्तो यः क्रमस्तेन । रस्यमानतासमये इति । रस्यमानतायामपीति च पाठः । स्थायिव्यभिचारिभावस्येति । रसानामिति शेषः । तथोचेत्यादि । भागुरिरपि बाढमस्तीत्यम्युपगमेनैवावोचदित्यन्वयः । “मतान्तर” इत्यादिग्रन्थं तन्मतस्योपपत्तिं दर्शयन्नवतारयतिअन्ये त्वित्यादि । अत्र वीर इत्यन्तमेकं वाक्यं, शान्त इत्यन्तं द्वितीयं, चतुर्थेऽङ्क इत्यन्तं तृतीयं बोध्यम् । उन्मादस्येति । वितर्काद्यपेक्षयेति शेषः । समवेतानामित्यस्य विवरणं चित्तवृत्तिरूपाणां भावानामिति । सः स्थायी रसश्च मन्तव्य इति योजना । स्थायीत्यस्य व्याख्यानम्त्थायिभाव इति । रस इत्यस्य रसीकरणयोग्य इति । शेषा इति । अन्ये भावा इत्यर्थः । न त्वित्यादि । किन्तु स्थायिनामेवेति भावः । युक्तेति । उक्तेति च पाठः । षष्ठ्येत्यादि । रसस्य रसे रसं स्थायीति विग्रह इति भावः । तन्मतेनोच्यते । मतान्तरे तु रसानां स्थायिनो भावा उपचाराद्रसशब्देनोक्तास्तेषामङ्गत्वं निर्विरोधमेव । एवमविरोधिनां विरोधिनां च प्रबन्धस्थेनाङ्गिना रसेन समावेशे साधारणमविरोधोपायं प्रतिपाद्येदानीं विरोधिविषयमेव तं प्रतिपादयितुमिदमुच्यते ।
विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् । स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता ॥ कारिका३.२५ ॥
विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् । स विभिन्नाश्रयः कार्यस्तस्य पोषोऽप्यदोषता ॥ २५ ॥ । ऐकाधिकरण्यविरोधी नैरन्तर्यविरोधी चेति द्विविधो विरोधी । तत्र प्रबन्धस्थेन स्थायिनाङ्गिना रसेनौचित्यापेक्षया विरुद्धैकाश्रयो यो विरोधी यथा वीरेण भयानकः स विभिन्नाश्रयः कार्यः । तस्य वीरस्य य आश्रयः कथानायकस्तद्विपक्षविषये सन्निवेशयितव्यः । तथा सति च तस्य विरोधिनोऽपि यः परिपोषः स निर्देषः विपक्षविषये हि भयातिशयवर्णने
लोचनं
गमिगाम्यादीनामिति समासं पठन्ति । तदाहमतान्तरेऽपीति । रसशब्देनेति । “रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः” इत्यादिप्राक्तनकारिकानिविष्टेनेत्यर्थः ॥ २४ ॥
अथ साधारणं प्रकारमुपसंहरन्नसाधारणमासूत्रयतिएवमिति । तमित्यविरोधोपायम् । विरुद्धेति । विशेषणं हेतुगर्भम् । यस्तु स्थायीं स्थाय्यन्तरेणासंभाव्यमानैकाश्रयत्वाद्विरोधी भवेद्यथोत्साहेन भयं स विभिन्नाश्रयत्वेन नायकविपक्षादिगामित्वेन कार्यः । तस्येति । तस्य विरोधिनोऽपि तथाकृतस्य तथानिबद्धस्य
बालप्रिया
आश्रितादिषु गम्यादीनामिति । द्वितीयया वेति सम्बन्धः । द्वितीयाश्रितेत्यादिसूत्रे “गम्यादीनामुपसंख्यान” मिति वार्तिकमनेन स्मारितम् ॥ २४ ॥
साधारणं प्रकारमिति । विरोध्यविरोधसाधारणं अविरोधोपायप्रकारमित्यर्थः । उपसंहरन्निति । अनेन प्रतिपाद्येत्यन्तवृकत्त्यर्थो दर्शितः । असाधारणं विरोधिमात्रविषयकम् । अनेन विरोधिविषयमेवेतिवृत्त्यर्थो दर्शितः । विरुद्धेतीति । विरुद्धैकाश्रय इतीत्यर्थः । विरुद्धपदं विवृणोतिस्थायीत्यादि । असम्भाव्यमानः एकाश्रयः यस्य तत्त्वात् । सः तथाविधः स्थायी । तस्येति । तत्पदार्थं विवृण्वन्नाहतस्य विरोधिनोऽपीत्यादि । तथा कृतस्य विभिन्नाश्रयत्वेन कृतस्य । अस्यैव विवरणम्तथानिबद्धस्येति । नायकस्य नयपराक्रमादिसम्पत्सुतरामुद्द्योतिता भवति । एतच्च मदीयेऽर्जुनचरितेऽर्जुनस्य पातालावतरणप्रसङ्गे वैशद्येन प्रदर्शितम् । एवमैकाधिकरण्यविरोधिनः प्रबन्धस्थेन सथायिना रसेनाङ्गभावगमने निर्विरोधित्वं यथा तथा तद्दर्शितम् । द्वितीयस्य तु तत्प्रतिपादयितुमुच्यते
एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् । रसान्तरव्यवधिना रसो व्यङ्ग्यः सुमेधसा ॥ कारिका३.२६ ॥
एकाश्रयत्वे निर्देषो नैरन्तर्ये विरोधवान् । रसान्तरव्यवधिना रसो वल्यङ्ग्यः सुमेधसा ॥ २६ ॥
यः पुनरेकाधिकरणत्वे निर्विरोधो नैरन्तर्ये तु विरोधी स रसान्तख्यवधानेन
लोचनं
परिपुष्टतायाः प्रत्युत निर्देषता नायकोत्कर्षाधानात् । अपरिपोषणन्तु दोष एवेति यावत् । अपिशब्दो भिन्नक्रमः । एवमेव वृत्तावपि व्याख्यानात् । ऐकाधिकरण्यमेकाश्रयेण सन्बन्धमात्रम्, तेन विरोधी यथाभयनोत्साहः, एकाश्रयत्वेऽपि सम्भवति कश्चिन्नि रन्तरत्वेन निर्व्यवधानत्वेन विरोधी, यथा रत्या निर्वेदः । प्रदर्शितमिति । “समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनो महानुप्लवोऽभवत्पुरे पुरन्दरद्विषाम्” इत्यादिना ॥ २५ ॥
द्वितीयस्येति । नैरन्तर्यविरोधिनः । तदिति । निर्विरोधित्वम् । एकाश्रयत्वेन
बालप्रिया
“पोषे अदोषते” त्येतद्विवृणोतिपरीत्यादि । गम्यमर्थमाहअपरिपोषणन्त्वित्यादि । अपिशब्द इति । “पोषेऽप्यदोषते"त्यपिशब्द इत्यर्थः । व्याख्यानादिति । तस्य विरोधिनोऽवपीति व्याख्यानादित्यर्थः । एवं कारिकाव्याख्यानेन “तत्रे"त्यादिवृत्तिग्रन्थस्य विवरणादैकाधिकरण्यविरोधीत्यादिपूर्वभागमात्रं भयेनोत्साह इति । “नैरन्तर्यविरोधी” त्येतद्विवृणोतिएकेत्यादि । एकाश्रयत्वे सम्भवत्यपि कश्चिन्निरन्तरत्वेन विरोधीति सम्बन्धः । निरन्तरत्वेनेत्यस्य विवरणम्निर्व्यवधानत्वेनेति । समुत्थित इति । “श्रवेण तस्य तु ध्वनेर्विलुप्तलबन्धनमशेषदैत्ययोषितां श्लथीबभूव जीवितमि” त्युत्तरार्धम् । किरीटिनोऽर्जुनस्य धनुर्ध्वनाविति सम्बन्धः । पुरन्दरद्विषामसुराणाम् । उपप्लवस्यैव किञ्चिद्विवरणं श्रवेणेत्यादि ॥ २५ ॥
वृत्तौ “ऐकाधिकरण्यविरोधिन” इत्यस्य “अङ्गभावगमने निर्विरोधित्व “मित्यनेन सम्बन्धः । कारिकायाम् । “एकाश्रयत्वे नैरन्तर्येऽइत्युभयत्र सप्तमी निमित्त इत्याशयेन व्याचष्टेएकाश्रयत्वेनेत्यादि । निर्देष इत्यस्य व्याख्यानम्न विरोधीति । प्रबन्धे निवेशायितव्यः । यथा शान्तशृङ्गारौ नागानन्दे निवेशितौ ।
लोचनं
निमित्तेन यो निर्देषः न विरोधी किं तु निरन्तरत्वेन निमित्तेन विरोधमेति स तथाविधविरुद्धरसद्वयावरुद्धेन रसान्तरेण मध्ये निवेशितेन युक्तः कार्य इति कारिकार्थः । प्रबन्ध इति बाहुल्यापेक्षं, मुक्तकेऽपि कदाचिदेवं भवेदपि । यद्वक्ष्यति “एकवाक्यस्थयोरपि” इति । यथेति । तत्र हि “रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः” इत्यादिनोपक्षेपात्प्रभृति परार्थशरीरवितरणात्मकनिर्वहणपर्यन्तः शान्तो रसस्तस्य विरुद्धो मलयवतीविषयः शृङ्गारस्तदुभयाविरुद्धमद्भुतमन्तरीकुत्य क्रमप्रसरसम्भावनाभिप्रायेण कविना निबद्धः “अहो गीतमहो वादित्रम्” इति । एतदर्थमेव “व्यक्तिर्व्यञ्जनधातुना” इत्यादि नीरसप्रायमप्यत्र निबद्धमद्भुतरसपरिपोषकतयात्यन्तरसरसतावहमिति “निर्देषदर्शनाः कन्यकाः पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेने"ति । अनन्तरं च निमित्तनैमित्तिकप्रसङ्गागतो यः शेखरकवृत्तान्तोदितहास्यरसोपकृतः शृङ्गारस्तस्य विरुद्धो यो वैराग्यशमपोषको नागीयकलेबरास्थिजालावलोकनादिवृत्तान्तः स
बालप्रिया
विरोधवानित्यस्य विवरणम्विरोधमेतीति । उत्तरार्धं व्याचष्टेस इत्यादि । प्रबन्ध इतीति । प्रबन्धे निवेशायितव्य इत्यत्र प्रबन्धग्रहणमित्यर्थः । यथा शान्तशृङ्गारौ नागानन्दे निवेशितावित्येतद्विवृणोतितत्रेत्यादि । इत्यादिना य उपक्षेपस्त स्मादित्यर्थः । परेति । परार्थं यच्छरीरवितरणं तदात्मकं यन्निर्वहणं तत्पर्यन्त इत्यर्थः । शान्तो रस इति निबद्ध इत्यस्यापकर्षः । तस्येत्यादि । शृङ्गारः इत्यद्भुमन्तरीकृत्य निबद्ध इत्यन्वयः । क्रमेति । क्रमेण यः प्रसरः रतिरूपशृङ्गारस्य नायके प्रसरणं तस्य सम्भावनारूपो य अभप्रायस्तेनेत्यर्थः । इत्यादिनिबद्धमिति सम्बन्धः । इति चेति । निर्देषदर्शनाः कन्यका इत्युक्त्या वक्तरि रत्यनाविर्भावप्रकाशनादिति भावः । चित्तवृत्तीति । चित्तवृत्तीनां रागादीनां ये प्रसरास्तेषु, यद्वा चित्तवृत्तीनां प्रसरो येषु विषयेषु तेषु यत्प्रसंख्यानं दोषदर्शनं, तदेव धनं येषां ते । तद्वचनमाहपुरुषार्थेत्यादि । सांख्यकारिकायाः पूर्वार्धमिदम् । “प्रकृतेर्विभुत्वयोगान्नटवद्य्ववतिष्ठते लिङम्” इत्युत्तरार्थम् । निमित्तं धर्मादिनैमित्तिकं धर्मादिकारणं स्थूलदेहादि तयोः प्रसङ्गेन सम्बन्धेन । “इदं लिङ्गं” सक्ष्मशरीरम् । “नटवद्व्यवतिष्ठते” यथा नटो विविधं रूपङ्गृहीत्वा व्यवहरति तथा देवादिशरीरं गृहीत्वा व्यवहरति । किमर्थम्, तत्राह “पुरुषार्थे"ति । पुरुषार्थफलकमित्यर्थः । तत्तद्भोगादृष्टबलात्तत्तद्भोगार्थमेव तथा व्यवहरतीति यावत् । कुतोऽस्यैंवविधो महिमेत्यत्राह “प्रकृतेऽरित्यादि । इति तद्य्वाख्या । शान्तश्च तृष्णाक्षयसुरवस्य यः परिपोषस्तल्लक्षणो रसः प्रतीयत एव । तथा चोक्तं यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥
लोचनं
मित्रावसोः प्रविष्टस्य मलयवतीनिर्गमनकारिणः “संसर्पद्भिः समन्तात्” इत्यादि । काव्योपनिबद्धक्रोधव्यभिचार्युपकृतवीररसान्तरितो निवेशितः । ननु नास्त्येव शान्तो रसः तस्य तु स्थाय्येव नोपदिष्टो मुनिनेत्याशङ्क्याहशान्तश्चेति । तृष्णानां विषयाभिलाषाणां यः क्षयः सर्वतो निवृत्तिरूपो निर्वेदः तदेव सुखं तस्य स्थायिभूतस्य यः परिपोषो रस्यमानताकृतस्तदेव लक्षणं यस्य स शान्तो रसः । प्रतीयत एवेति । स्वानुभवेनापि निवृत्तभोजनाद्यशेषविषयेच्छाप्रसरत्वकाले सम्भाव्यत एव । अन्ये तु सर्वचित्तवृत्तिप्रशम एवास्य स्थायीति मन्यन्ते । तृष्णासद्भावस्य प्रसज्यप्रतषेधरूपत्वे चेतोवृत्तित्वाभावेन भावत्वायोगात् । पर्युदासे त्वस्मत्पक्ष एवायम् ।
बालप्रिया
कामादितत्तत्पुरुषार्थलाभः क्रमेणैव भवतीत्यंशे उपष्टम्भकमिदं वचनमिति बोध्यम् । निवेशित इथि । नागानन्दनाटकमवलोकयतां सहृदयानां स्पष्टोऽयं विषयः । निवृत्तिरूपो निर्वेद इति । निवृत्तिरूपः प्रध्वंसहेतुः । निर्वेद इति । तत्त्वज्ञानजनितो विषयेषु हेयत्वबुद्धिरित्यर्थः । यद्वासर्वतो निवृत्तिरूप इति । सर्वस्माद्विषयान्मनोनिवृत्तिरूप इत्यर्थः । निवृत्तिर्नाम काचिच्चित्तवृत्तिः । तस्य स्थायिभूतस्येति । सुखस्येत्यन्तस्य विवरणम् । रस्यमानताकृतो यः परिपोष इति सम्बन्धः । निवृत्तेति । निवृत्तः भोजनाद्यशेषविषयाया इच्छायाः प्रसरो यतः पुरुषात्तस्य भावस्तत्वं तस्य काले प्रसरकाले इति वा पाठः । सम्भाव्यते ज्ञायते । शमः स्थायीति केचित् । तन्मतमाहअन्य इति । सर्वेति । सर्वासां चित्तवृत्तीनां रत्यादिरूपाणां प्रशमः प्रकर्षेण शम इत्यर्थः । तृष्णाक्षयशब्दार्थोऽप्ययमेवेति भावः । अस्येति । शान्तस्येत्यर्थः । सर्वचित्तवृत्तिप्रशम इत्यनेन सर्वासां चित्तवृत्तीनामभावस्य विवक्षणेदोषं दर्शयन्नाहतृष्णेत्यादि । तृष्णानां सर्वासां चित्तवृत्तीनां सद्भावस्य प्रसरस्य यः प्रसज्यप्रतिषेधो"त्यन्ताभावस्तद्रूपत्वे । सर्वचित्तवृत्तिप्रशमपदार्थस्येति शेषः । चेतोवृत्तित्वाभावेनेति । अभावरूपत्वादिति भावः । भावत्वायोगादिति । भावान्तर्भावासम्भवादित्यर्थः । पर्युदास इति । विवक्षिते इति शेषः । पर्युदासन्यायेनार्थे विवक्षिते सतीत्यर्थः । यथा अधर्मादिपदस्य धर्मवरोधिपापादिकमर्थः, तथा तृष्णाक्षयपदस्य सर्वञ्चित्तवृत्तिप्रशमपदस्य वा सर्वचित्तवृत्तिविरोधी लोचनमन्ये तु स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्तते । पुनर्निमित्तापाये तु शान्त एव प्रलीयते ॥ इति भरतवाक्यं दृष्टवन्तः सर्वरससामान्यस्वाभावं शान्तमाचक्षणा अनुपजातविशेषान्तरचित्तवृत्तिरूपं शान्तस्य स्थायिभावं मन्यन्ते । एतच्च नातीवास्मत्पक्षाद्दूरम् । प्रागभावप्रध्वंसाभावकृतस्तु विशेषः । युक्तश्च प्रध्वंस एव तृष्णानाम् । यथोक्तम् “वीतरागजन्मादर्शनात्” इति । प्रतीयत एवेति । मुनिनाप्यङ्गीक्रियत एव “क्वचिच्छमः” इत्यादि । वदता । न च तदीया पर्यन्तावस्था वर्णनीया येन सर्वचेष्टोपरमादनुभावाभावेनाप्रतीयमानता स्यात् । “शृङ्गारादेरपि फलभूमाववर्णनीयतैव पूर्वभूमौ तु “तस्य प्रशान्तवाहिता संस्कारात् । तच्छिद्रेषु प्रत्ययान्तराण संस्कारेभ्यः”
बालप्रिया
चित्तवृत्तिविशेषो यदि विवक्षितस्तदेति यावत् । अस्मत्पक्ष एवायमिति । निर्वेदरूपचित्तवृत्तिविशेषे एव पर्यवसानादिति भावः । स्वं स्वमिति । षष्ठाध्यायान्तिमभागस्थोऽयं श्लोकः । अस्मात्पूर्वोऽयं श्लोकः भावा विकारा रत्याद्याः शान्तस्तु प्रकृतर्मतः । विकारः प्रकृतेर्जातः पुनस्तत्रैव लीयते ॥ इति । स्वमिति । स्वं स्वीयम् । निमित्तं वनितादिरूपम् । शान्तान्निर्विकारादन्तः करणरूपात्प्रकृतेः । भावः रत्यादिः । अनुपेति । अनुपजातविशेषा बाह्यवनितादिविषयविशेषानाश्रया आन्तरी आत्मविषयिका च या चित्तवृत्तिः, तद्रूपमित्यर्थः । एतदिति । उक्तमतमित्यर्थः । नातीवेत्यादि । अस्मत्पक्षसन्निकृष्टमित्यर्थः । प्रागभावेति । पक्षस्यास्य सर्वचित्तवृतितिप्रागभावे पर्यवसानमस्मत्पक्षस्य तु सर्वचित्तवृत्तिप्रध्वंसाभाव इति विशेष इत्यर्थः । युक्तश्चेत्यादि । तृष्णाप्रध्वंसपक्ष एव युक्त इत्यर्थः । यथोक्तमिति । सर्वासां तृष्णानां प्रध्वंसो भवतीत्येतदुक्तमित्यर्थः । न्यायसूत्रकृतेतिशेषः । वीतेति । तृतीयाध्यायप्रथमाह्निकस्थमिदं सूत्रम् । वीतरागस्य रागादिरहितस्य । जन्मनः अदर्शनात्यतो जन्म न भवति, तस्मादित्यर्थः । किन्तु सरागस्यैव जन्मेति भावः । आत्मनो नित्यत्वसाधकमिदम् । प्रतीयत एवेत्येतदन्यथापि व्याचष्टेमुनिनेत्यादि । वदता मुनिनेत्यन्वयः । शमपदमत्र योगेन निर्वेदपरमिति भावः । चेष्टोपरमादयो हि शान्तस्यानुभावा वक्तव्यास्ते च न प्रयोगयोग्याः । अतस्तस्यानुभावैरप्रतीयमानतेति केचिद्वदन्ति, तन्मतन्निराकर्तुमाहने चेत्यादि । तदीयेति । शान्तसम्बन्धिनीत्यर्थः । पर्यन्तावस्था निरीहावस्था । अप्रतीयमानतेति । शान्तस्येति शेषः । फलभूमाविति । सुरतावस्थायामित्यर्थः । पूर्वभूमावित्यादि । पूर्वभूमौ तु शान्तस्यापि जनकादेश्चेष्टा दृष्टेवेति सम्बन्धः । चित्तस्य क्षिप्ताद्या लोचनमित सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा राज्यधुरोद्वहनादलक्षणा वा शान्तस्यापि जनकादेर्दृष्टैवेत्यनुभावसद्भावाद्यमनियमादिमध्यसम्भाव्यमानभूयोव्यभिचारिसद्भावाच्च प्रतीयत एव । ननु न प्रतीयते नास्य विभावाः सन्तीत चेत्न - प्रतीयत एव तावदसौ । तस्य च भवितव्यमेव प्राक्तनकुशलपरिपाकपरमेश्वरानुग्रहध्यात्मरहस्यशास्त्रवीतरागपरिशीलनादिभिर्विभावैरितीयतैव विभावानुभावव्यभिचारिसद्भावः स्थायी च दर्शितः । ननु तत्र हृदयसंवादाभावाद्रस्यमानतैव नोपपन्ना । क एवमाह स नास्तीति, यतः प्रतीयत एवेत्युक्तम् । ननु प्रतीयते सर्वस्य श्लाघास्पदं न भवति । तर्हि वीतरागाणं शृङ्गारो न
बालप्रिया
नानावस्थाः, ता भूमय इत्युच्यन्ते । प्रशान्तेत्यादि । “तस्य प्रशान्तवाहितासंस्कारात्, तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः” इमे योगसूत्रे । अत्राद्यस्येयं भोजवृत्तिः “तस्य चेतसः उक्तान्निरोधसंस्कारात्प्रशान्तवाहिता भवति परिहृतविक्षेपतया सदृशप्रवाहपरिणाम चित्तं भवतीत्यर्थः” इति । सूत्रमिदं तृतीये पादे, तच्छिद्रेत्यादि चतुर्थे । अस्यापीयं भोजवृत्तिः"तस्मिन् समाधौ स्थितस्य छिद्रेव्यन्तरालेषु यानि प्रत्ययान्तराणि व्युत्थानरूपाणि ज्ञानानि तानि, प्राग्भूतेभ्यो व्युत्थानानुभवजेभ्यः संस्कारेभ्यः अहं ममेत्येवंरूपाणि क्षीयमाणेभ्योऽपि भवन्ति” इति । चित्राकारेति । विस्मयावहेत्यर्थः । राज्येत्यादि । चेष्टेति शेषः । अत्र समाधिकाले यमादिचेष्टा व्यत्थानकाले राज्यधुरोद्वहनादिचेष्टेति विभागः । जनकादेरिति । जनकमहाराजो महायोगीति प्रसिद्धिः । इतीति हेतौ । यमेति । यमनियमादीनां योगाङ्गानां मध्ये अन्तरे सम्भाव्यमानाः भूयांसश्च ये व्यभिचारिणः मतिधृतिस्मृत्यादयः, तेषां सम्भवादित्यर्थः । प्रतीयत एवेति । शान्तो रस इति शेषः । शङ्कतेनन्वित्यादि । नन प्रतीयत इति । शान्त इति शेषः । कुत इत्यत्राहनास्येत्यादि । समाधत्तेनेति । के वा विमाबा इत्यत्राहतस्येत्यादि । तस्य च विभावैर्भवितव्यमेवेत्यन्वयः । तानाहप्राक्तनेत्यादि । प्राक्तनानां कुशलानां सत्कर्मणां परिपाकः तथा परमेश्वरानुग्रहः तथाध्यात्मरहस्यशास्त्रेषु वेदान्तादिषु बीतरागेषु च परिशीलनं तदादिभिरित्यर्थः । उपसंहरतिइतीत्यादि । इयतैव उक्तप्रकारेणैव । शङ्कतेनन्विति । तत्र शान्ते । हृदयेति । प्रतिपत्तॄणामिति शेषः । समाधत्तंक इति । सः हृदयसम्वादः उक्तमिति । वृत्तिकृतेति शेषः । “यदि नामे"त्यादिग्रन्थमवतारयतिनन्वित्यादि । प्रतीयत इति शान्त इति शेषः । विशेषमाहसर्वस्येति । प्रतिबन्द्या उत्तरमाहतर्हित्यादि । सोऽपि शृङ्गारोऽपि तदाहेति । तदभिप्रायेणाहेत्यर्थः । नन्वित्यादि । असौ धर्मप्रधानो यदि नाम सर्वजनानभवगोचरता तस्य नास्ति नैतावतासावलोकसामान्यमहानुभावचित्तवृत्तिविशेषः प्रतिक्षेप्तुं शक्य । न च वीरे तस्यान्तर्भावः कर्तं युक्त । तस्याभिमानमयत्वेन व्यवस्थापनात् । अस्य चाहङ्कारप्रशमैकरूपतया स्थितेः । तयोश्चैवंविधविशेषसद्भावेऽपि यद्यैक्यं
लोचनं
श्लाध्य इति सोऽपि रसत्वाच्च्यवतामिति तदाहयद नामेति । ननु धर्मप्रधानोऽसौ वीर एवेति सम्भावयमान आहन चेति । तस्येति । वीरस्य । अभिमानमयत्वेनेति । उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः । अस्य चेति शान्तस्य । तयोश्चेतिर् । इहामयत्वनिरीहत्वाभ्यामत्यन्तविरद्धयोरपीति चशब्दार्थः । वीररौद्रयोस्त्वत्यन्तविरोधोऽपि नास्ति । समानं रूपं च धर्मार्थकामार्जनोपयोगित्वम् । नन्वेवं दयावीरो धर्मवीरो दानवीरो वा नासौ कश्चित्, शान्तस्यैवेदं नामान्तरकरणम् । तथा हि मुनिः दानवीरं धर्मवीरं युद्धवीरं तथैव च । रसवीरमपि प्राह ब्रह्मा त्रिविधसम्मितम् ॥
बालप्रिया
वीर एवेति सम्बन्धः । असौ शान्तः धर्मप्रधानो वीरः धर्मवीरः । इतीत्यादि । इति सम्भावनां कुर्वस्तां परिहर्तुमाहेत्यर्थः । वृत्तौ “न चे"त्यादि । “वीरे” धर्मवीरे । “तस्य” शान्तस्य न च युक्त इति सम्बन्धः । “तस्ये"ति । वीरस्येत्यर्थः । “अभिमानमयत्वेन, गर्वमयत्वेन । इममर्थं विवृणोति लोचनेउत्साहो हीत्यादि । उत्साहः वीरस्थायी । एवंविध इत्यादि सर्वं साधयितुं शक्नोमीत्यादि बुद्धिरेव प्राणा जीवितं यस्य स इत्यर्थः । तयोश्चेति चकारार्थमाहैहेत्यादि । तद्वीररौद्रयोरपि तथा प्रसङ्ग इत्युक्तं विवृणोतिवीररौद्रयोरित्यादि । धर्मेति । धर्मर्थकामानां यदर्जनं तदुपयोगित्वं समानरूपं चास्तीत्यर्थः । अतस्तयोरैक्यं स्यादिति भावः । दयावीरादीनामित्यादिग्रन्थमवतारयतिनन्वित्यादि । एवं वीरशान्तयोरुक्तरीत्या भेदाङ्गीकारे । दयावीर इत्यादि । दयावीरः धर्मवीरान्तर्गतो दानवीरान्तर्गतो वेत्यर्थः । दयावीर इत्यस्यानन्तरं “कोऽभिधीयता “मिति च पाठः । प्रतिवक्तिनासावित्यादि । दयावीर इत्यनुषज्यते । असौ कश्चिन्नेति । धर्मवीरो दानवीरो वा नेत्यर्थः । तर्हि किमात्मक इत्यत्राहशान्तस्यैवेत्यादि । इदं दयावीर इत्येतत् । शान्तस्यैव नामान्तरकरणं दयावीरश्शान्त एवान्तर्भूत इत्यर्थः । कुत मुनवचनं प्रमाणयतितथेत्यादि । तथाहीति । दयावीरस्य शान्तान्तर्भावाद्धेतोरित्यर्थः त्रैविध्यमेवाभ्यधादित्यनेनास्य सम्बन्धः । दानवीरमिति । त्रिविधसम्मितमिति । त्रैविध्येन विभक्तमित्यर्थः । परिकल्प्यते तद्वीररौद्रयोरपि तथा प्रसङ्गः । दयावीरादीनां च चित्तवृत्तिवशेषाणां सर्वाकारमहङ्काररहितत्वेन शान्तरसप्रभेदत्वम्, इतरथा तु वीरप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः । तदेवमस्ति शान्तो रसः । तस्य चाविरुद्धरसव्यवधाने प्रबन्धे विरोधिरससमावेशे सत्यपि निर्विरोधत्वम् । यथा प्रदर्शिते विषये । लोचनमित्यागमपुरःसरं त्रैविध्यमेवाभ्यधात् । तदाहदयावीरादीनाञ्चेत्यादिग्रहणेन । विषयजुगुप्सारूपत्वाद्बीभत्सेऽन्तर्भावः शङ्क्यते । सा त्वस्य व्यभिचारिणी भवति न तु स्थायितामेति, पर्यन्तनिर्वाहे तस्या मूलत एव विच्छेदात् । आधिकारिकत्वेन तु शान्तो रसो न निबद्धव्यैति चन्द्रिकाकारः । तच्चेहास्माभिर्न पर्यालोचितं, प्रसङ्गान्तरात् । मोक्षफलत्वेन चायं परमपुरुषार्थनिष्ठत्वात्सर्वरसेभ्यः प्रधानतमः । स चायमस्मदुपाध्यायभट्टतौतेन काव्यकौतुके, अस्माभिश्च तद्विवरणे बहुतरकृतनिर्णयपूर्वपक्षसिद्धान्त इत्यलं बहुना ॥ २६ ॥
बालप्रिया
आगमपुरस्सरमिति । ब्रह्मा प्राहेत्यक्तेरिति भावः । त्रैविध्यमेवेत्येवकारेण दयावीरव्यवच्छेदः । तदाहेति । उक्ताभिप्रायेणाहेत्यर्थः । “दयावीरादीनां चे” तीत्यस्यानन्तरं विषयेत्यादेः पूर्वमादिग्रहणेनेति पाठः सर्वेषु दृष्टग्रन्थेषु दृश्यते, तस्य च विषयेत्यादिना सम्बन्धो न घटते चातोऽत्र धर्मवीरदानवीरयोर्ग्रहणमिति पूरणीयम् । यदि वा तथा ग्रन्थे पठनीयमिति बोध्यम् । वृत्तौ “चित्तवृत्तिवशेषाणा “मिति । चर्व्यमाणानामिति शेषः । दयावीरो नाम परोपचिकीर्षाप्रयत्नरूप उत्साहः । “सर्वाकारम्” इति क्रियाविशेषणम् । सर्वथेत्यर्थः । “अहङ्काररहितत्वेने"ति हेतौ तृतीया, रहितत्वे इति च पाठः । नायकस्येति शेषः । “इतरथा” अहङ्कारसहितत्वे । शान्तस्थायिनो विषयजुगुप्सारूपत्वाच्छान्तस्य बीभत्सेऽन्तर्भाव इति केचित् । तन्मतं प्रसङ्गान्निराकरोति लोचनेविषयेत्यादि । विषयजुगुप्सारूपत्वादिति । शान्तस्येति शेषः । अस्येत्यपकर्षो वा । शङ्क्यत इति । कैश्चिदिति शेषः । वस्तुतो नैवमित्याहसा त्वित्यादि । सा जुगुप्सा । अस्य शान्तस्य । तस्याः जुगुप्सायाः । शान्तस्य सर्वरसापेक्षयोत्कर्ष इत्याहमोक्षेत्यादि । स चेति । शान्तश्चेत्यर्थः । बह्वित्यादि । वहुतरं यथा तथा कृतनिर्णयौ कृतविचारौ पूर्वपक्षसिद्धान्तौ यस्य सः ॥ २६ ॥
एतदेव स्थिरीकर्तुमिदमुच्यते
रसान्तरान्तरितयोरेकवाक्यस्थयोरपि । निवर्तते हि रसयोः समावेशे विरोधिता ॥ कारिका३.२७ ॥
रसान्तरान्तरितयोरेकवाक्यस्थयोरपि । निवर्तते हि रसयोः समावेशे विरोधिता ॥ २७ ॥
रसान्तरव्यवहितयोरेकप्रबन्धस्थयोर्विरोधिता निवर्तत इत्यत्र न काचिद्रभ्रान्तिः । यस्मादेकवाक्यस्थयोरपि रसयोरुक्तया नीत्या विरुद्धता निवर्तते । यथा भूरेणुदिग्धान्नवपरिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः स्वगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमानांल्ललनाङ्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् ॥
लोचनं
स्थिरीकर्तुमिति । शिष्यबुद्धावित्यर्थः । अपिशब्देन प्रबन्धविषयतया सिद्धोऽयमर्थ इति दर्शयतिभूरेण्विति । विशेषणैरतीव दूरापेतत्वमसम्भावनास्पदमुक्तम् । स्वदेहानित्यनेन देहत्वाभिमानादेव तादात्म्यसम्भावनानिष्पत्तेरेकाश्रयत्वमस्ति,
बालप्रिया
अपिशब्देनेति । “एकवाक्यस्थयोरपी"त्यपिशब्देनेत्यर्थः । वृत्तौ “भूरेण्वि"त्यादि । इदं काव्यप्रकाशेऽप्युदाहृतम् । वीराः पतितान् स्वदेहानपश्यन्नित सम्बन्धः । यथाक्रमं कुतूहलहेतुगर्भमेकं देहानामपरं वीराणां विशेषणम् । “दीग्धान्” व्याप्तान् “वासिते"ति । सुरभीकृतेत्यर्थः । “बाहुमध्यं” बक्षः । “क्रव्यभुजां” मांसाशिनाम् । चन्दनवारीणां सेको यत्र तादृशैः । “कल्पलतादुकूलैः” कल्पलतोद्भूतपट्टवस्त्रैः, यद्वाकल्पलता एव दुकूलानि तैः । “ललनाः” स्वर्वेश्याः । लोचनेविशेषणैरिति । भूरेण्वित्यादिदेहविशेषणैरित्यर्थः । असम्भावनास्पदं स्वीयत्वसम्भावनाया अभावस्य निमित्तम् । दूरापेतत्वं दूरविप्रकृष्टत्वमत्यन्तवैलक्षण्यमिति यावत् । उक्तं व्यञ्जितम् । ननु शृङ्गारबीत्भसयोरेकस्मिन्नेकालम्बनकयोरेव विरोधः, एकस्मिन्नेकदैकस्य रतिजुगुप्सयोरनुदयात् - प्रकृते च भूरेमुदिग्धत्वादविशिष्टवीरदेहालम्बनको बीभत्सो दिव्यत्वविशिष्टवीरदेहालम्बनकश्च शृङ्गार इति तयोः कथमेकालम्बनकत्मरूपैकाश्रयत्वमिति शङ्कां परिहरन्नाहस्वेत्यादि । देहत्वाभिमानादिति । वीराणां पतितदेहेषु स्वदेहत्वबुद्धेरित्यर्थः । इत्यादौ । अत्र हि शृङ्गारबीभत्सयोस्तदङ्गयोर्वा वीररसव्यवधानेन समावेशो न विरोधी ।
विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् । विशेषतस्तु शृङ्गारे सुकुमारतमा ह्यसौ ॥ कारिका३.२८ ॥
विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् । विशेषतस्तु शृङ्गारे सुकुमारतमो ह्यसौ ॥ २८ ॥
यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धेऽन्यत्र च निरूपयेत्सहृदयः - विशेषतस्तु शृङ्गारे । स हि रतपारिपोषात्मकत्वाद्रतेश्च लोचनमन्यथा विभिन्नविषयत्वात्को विरोधः । ननु वीर एवात्र रसो न शृङ्गारो न बीभत्सः, किन्तु रतिजुगुपसे हि वीरं प्रति व्यभिचारीभूते । भवत्वेवम्, तथापि प्रकृतोदाहरणता तावदुपपन्ना । तदाहतदङ्गयोर्वेति । तयोरङ्गे तत्स्थायिभावावित्यर्थः । वीररसेति । “वीराः स्वदेहान्” इत्यादिना तदीयोत्साहाद्यवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायकतेति भावः ॥ २७ ॥
अन्यत्र चेति मुक्तकादौ । सहि शृङ्गारः सुकुमारतम इति सम्बन्धः । सुकुमारस्तावद्रसजातीयः
बालप्रिया
एतत्प्रदर्शनार्थं स्वपदोपादानमिति भावः । तादात्म्येति । प्रतिपत्तुर्द्वयोर्देहयोरैक्यबुद्धिनिष्पत्तेरत्यर्थः । तथा च स्वर्ललनागतस्य शृङ्गारस्य बीभत्सस्य च देहद्वयैक्याभिमानी वीर एक एव विषय इति भावः । “तदङ्गयोर्वे"ति ग्रन्थमवतारयतिनन्वित्यादि । वीर एवेति । साहसेन रणमध्यनिपातनाद्यनुभावेनाक्षेपलभ्यगर्वादिसञ्चारिणा च वीररस एव प्रतीयत इत्यर्थः । तत्स्थायिभावाविति । शृङ्गारबीभत्सयोः स्थायिबावौ रतिजुगुप्से इत्यर्थः । इत्यादिनेति । वीरपदेन देहपाताद्यनुभावेन चेत्यर्थः । उत्साहादीत्यादिपदेन गर्वादेः परिग्रहः । अवगत्येत्यनन्तरं वीरो रस इति शेषः । वीरव्यवधानं विवृणोतिकर्तृकर्मणोरित्यादि । कर्तृकर्मणोः वीरस्य कर्तुः पतितदेहरूपकर्मणश्च । समस्तेत्यादि । अत्र वाक्यं पदसमुदायः भूरोण्वित्यादिवाक्यार्थान्वयितया कर्मणः न वेत्यादिवाक्यार्थान्वयितया कर्तुश्च प्रतीतिरित्यर्थः । इतीति हेतौ । भाव इति । अयमर्थः “भूरेण्वि"त्यादिविशेषणार्थबोधे बीभत्सस्तद्विशेष्यार्थबोधे वीरो, न वेत्यादिविशेषणार्थबोधे शृङ्गारस्तद्विशेष्यार्थबोधे वीरश्चास्वाद्यत इति रीत्या वीरस्य मध्ये मध्ये आस्वादः । श्रुतक्रमेण बोधे त्वादौ बीभत्सो, योजन या बोधे त्वादौ शृङ्गार इति ॥ २७ ॥
“प्रबन्धेऽन्यत्र चे"त्यत्रान्यत्रपदं व्यापष्टेमुक्तकादाविति । “सुकुमारतमो हि स्वल्पेनापि निमित्तेन भङ्गसम्भवात्सुकुमारतमः सर्वेभ्यो रसेभ्यो मनागपि विरोधिसमावेशं न सहते ।
अवधानातिशयवान् रसे तत्रैव सत्कविः । भवेत्तस्मिन् प्रमादो हि झटित्येवोपलक्ष्यते ॥ कारिका३.२९ ॥
अवधानातशयवान्रसे तत्रैव सत्कविः । भवेत्तस्मिन् प्रमादो हि झटित्येवोपलक्ष्यते ॥ २९ ॥
तत्रैव च रसे सर्वेभ्योऽपि रसेम्यः सौकुमार्यातिशययोगिनि कविरवधानवान् प्रयत्नवान्स्यात् । तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवावज्ञानविषयता भवति । शृङ्गाररसो हि संसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनीयतया प्रधानभूतः । एवं च सति
विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा । तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥ कारिका३.३० ॥
विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा । तद्विरुद्धरसस्पर्शस्तदङ्गानां दुष्यत ॥ ३० ॥
लोचनं
ततोऽपि करुणस्ततोऽपि शृङ्गार इति तमप्रत्ययः ॥ २८२९ ॥ एवं चेति । यतोऽसौ सर्वसंवादीत्यर्थः । तदिति । शृङ्गारस्य विरुद्धा ये शान्तादयस्तेष्वपि तदङ्गानां शृङ्गाराङ्गानां सम्बन्धी स्पर्शो न दुष्टः । तया भङ्ग्या रसान्तरगता अपि विभावानुभावाद्या वर्णनीया यया शृङ्गाराङ्गभावमुपागमन् । यथा ममैव स्तोत्रे त्वां चन्द्रचूडं सहसा स्पृशन्ती प्राणैश्वरं गाढवियोगतप्ता । सा चन्द्रकान्ताकृतिपुत्रिकेव संविद्विलीयापि विलीयते मे ॥
बालप्रिया
स” इति कारिकापाठाभिप्रायेण व्याचष्टेस हीत्यादि । रसजातीय इति । रसत्वजातिमानित्यर्थः ॥ २८२९ ॥ “एवञ्चे"त्येतत्व्याचष्टेयत इति । शृङ्गारस्य सर्वानुभवविषयत्वादित्यर्थः । “विनेयानि"त्याद्यर्थं व्याख्यास्यन्नादौ तद्विरुद्धेत्याद्युत्तरार्धं व्याचष्टेतदित्यादि । भावार्थमाहतयेत्यादि । रसान्तरेति । शान्तादीत्यर्थः । यया शृङ्गाराङ्गभावमुपागमन्निति । यया भङ्ग्या वर्णनया शृङ्गारविभावादित्वं प्राप्नुवन्तो भवन्तीत्यर्थः । अत्रोदाहरणमाहत्वामित्यादि । गाढवियोगेन गाढं गाढेन वा त्वदस्पर्शेन तप्ता संसारतापमनुभवन्ती । सा विषयान्तरसञ्चारिणी मे संवितन्तःकरणं तद्वृत्तिर्वात्वां स्पृशन्ती किञ्चिद्विषयीकुर्वाणा विलीय त्वदाकारतारूपत्वसम्बन्धमवाप्य यत्र ज्ञाने शृङ्गारविरुद्धरसस्पर्शः शृङ्गाराङ्गानां यः स न केवलमविरोधलक्षणयोगे सति न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति । शृङ्गाररसाङ्गैरुन्मुखीकृताः सन्तो हि विनेयाः सुखं विनयोपदेशान् गृह्णन्ति । सदाचारोपदेशरूपा हि नाटकादिगोष्ठी लोचनमित्यत्र शान्तविभावानुभावानामपि शृङ्गारभङ्ग्या निरूपणम् । विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थं नैव दुष्यतीति सम्बन्धः । वाग्रहणेन पक्षान्तरमुच्यते । तदेव व्याचष्टेन केवलमिति । वाशब्दस्यैतद्य्वाख्यानम् । अविरोधलक्षणं परिपोषपरिहारादि पूर्वोक्तम् । विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थमपि वा विरुद्धसमावेशः न केवलं पूर्वोक्तैः प्रकारैः, न तु काव्यशोभा विनेयोन्मुखीकरणमन्तरेणास्ते, व्यवधानाव्यवधाने नापि लभ्येते यथान्यैर्व्याख्याते । सुखमिति । रञ्जनापुरःसरमित्यर्थः । ननु काव्यं क्रीडारूपं क्व च वेदादिगोचरा उपदेशकथा इत्याशङ्क्याहसदाचारेति ।
बालप्रिया
ध्यातृध्यानध्येयानि भासन्ते तदनेन दर्शितम् । अपिशब्द आपाततो विरोधं द्योतयति । विलीयते विलयनं नामान्तःकरणस्य तद्वृत्तेर्वा अभानम् । अनेन ध्येयमात्रविषयकज्ञानं दर्शितम् । यद्वाविलीयापि विलीयते द्रवीभूयापि अत्यन्तं द्रुता भवतीत्यर्थः । भक्तानां चित्तद्रुतिः प्रसिद्धा पुत्रिकापक्षे तु चन्द्रकरस्पर्शेन किञ्चिदार्द्रीभूय पुनस्सर्वावयवावच्छेदेनार्द्रीभवतीत्यर्थः । अत्र संविदादौ विरहतप्तनायिकात्वादिप्रतीत्या शृङ्गारविभावत्वादिप्राप्तिः, तदाहशृङ्गारभङ्ग्या निरूपणमिति । पूर्वार्धं व्याचष्टेविनेयानित्यादि । एवकारस्य नञा सम्बन्ध इति दर्शयतिनैवेति । पक्षान्तरमिति । अविरोधी विरोधी वेत्यादिकारिकाभिरुक्तेभ्यः पक्षेभ्योऽन्य इत्यर्थः, न त्वत्रैव पक्षद्वयद्योतक इति भावः । एतद्य्वाख्यानमिति । स न केवलमित्यादिव्याख्यानमित्यर्थः । अविरोधलक्षणयोग इत्यत्राविरोधलक्षणपदं व्याचष्टेपरिपोषेत्यादि । “विनेयानि"त्यादि “तदर्थमपि वे"त्यन्तं “विनेयानि"त्यादिवृत्तेर्विवरणं, “स क्रियमाण” इत्यस्य विवरणं “विरुद्धसमावेश” इति । फलितमाहन केवलं पूर्वोक्तैः प्रकारेरिति । विरुद्धसमावेशो न दुष्यतीति शेषः । किन्त्वेवं क्रियमाणोऽपि न दुष्यतीति भावः । विनेयानुन्मुखीकर्तुं या काव्यशोभेत्युक्तमुपपादनतिन त्वित्यादि । नास्ते इत्यन्वयः । न भवतीत्यर्थः । व्यवधानेति । रसान्तरेण यद्व्यववधानमव्यवधानं वा तेनापीत्यर्थः । क्वचिल्लभ्यत इति । काव्यशोभा नेत्यनयोरनुषङ्गः । यथेत्यादि । तथेति पूर्वेण सम्बन्धः । अन्यव्याख्यानञ्च विनेयानुन्मुखीकर्तुं वा काव्यशोभार्थं वेति विकल्पपरं बोध्यम् । वृत्तौ “विनेयानि"त्याद्युक्तस्यैव विवरणम् “शृङ्गारे"त्यादि । विनेयजनहितार्थमेव मुनिभिरवतारिता । किं च शृङ्गारस्य सकलजनमनोहराभिरामत्वात्तदङ्गसमावेशः काव्येशोभातिशयं पुष्यतीत्यनेनापि प्रकारेण विरोधिनि रसे शृङ्गाराङ्गसमावेशो न विरोधी । ततश्च सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ इत्यादिषु नास्ति रसविरोधदोषः ।
लोचनं
मुनिभिरितिभरतादिभिरित्यर्थः । एतच्च प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः प्रीतपूर्वकं जायासम्मितत्वेन नाट्यकाव्यगतं व्युत्पत्तिकारत्वं पूर्वमेव निरूपितमस्माभिरिति न पुनरुक्तभयादिह लिखितम् । ननु शृङ्गाराङ्गताभङ्ग्या यद्विभावादिनिरूपणमेतावतैव किं विनोयोन्मुखीकारः । न - अस्ति प्रकारान्तरं, तदाहकिं चेति । शोभातिशयमिति । अलङ्कारविशेषमुपमाप्रभृतिं पुष्यत सुन्दरीकरोतीत्यर्थः । यथोक्तम् “काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्कारा” इति । मत्ताङ्गनेति । अत्र हि शान्तविभावे सर्वस्यानित्यत्वे वर्ण्यमाने न कस्यचिद्विभावस्य शृङ्गारभङ्ग्या निबन्धः कृतः, किं तु सत्यमिति
बालप्रिया
तत्र सुखमित्येतद्व्याचष्टेरञ्जनेति । एतच्चेत्यादि । प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः तान्यपेक्ष्य । नाट्यकाव्यगतमेतद्व्युत्पत्तिकारित्वं जायासम्मितत्वेन प्रीतिपूर्वकमिति पूर्वमेवास्माभिर्निरूपतमिति सम्बन्धः । इतीति हेतौ । किञ्चेत्यादिकमवतारयतिनन्वित्यादि । शृङ्गाराङ्गतेति । शृङ्गारविभावानुभावतेत्यर्थः । समाधत्तेनेति । तदिति । प्रकारान्तरमित्यर्थः । शोभाया अतिशयो येनेति व्युत्पत्तिमभिप्रेत्य प्रकृतानुगुणं व्याचष्टेअलङ्कारेत्यादि । “सत्य “मित्यादि । सत्यमित्यर्धाङ्कीकारे । “रामाः” रमण्यः कामा इति च पाठः “विभूतयः” ऐश्वर्याणि । “मत्ते"ति । मत्ता यौवनादिमदयुक्ताया अङ्गना प्रशस्ताङ्गा नारी तस्याः अपाङ्गभङ्गः कटाक्ष स इव लोलमस्थिरम् । “ही"ति प्रसिद्धौ । रामादीनां मनोरमत्वेऽपि सत्येव जाविते जनैः स्वोपभोघायोपादेयास्ताः जीवितं चास्थिरमिति किड्कृतं तासामुपादेयत्वमतो रम्यत्वेऽपि तास्सर्वा निष्फला एवेति भावः । उक्तमर्थं लोचने विवृणोतिअत्रेत्यादि । सर्वस्यानित्यत्व इति । समस्तानित्यत्वे इति च पाठः । सर्वजीवितस्यास्थिरत्वे इत्यर्थः । न कृत इति सम्बन्धः । कस्यचिद्विभावस्य शान्तादिविभावस्य । शृङ्गारभङ्ग्या शृङ्गारविभावत्वयोजनेन । सत्यमितीति ।
विज्ञायेत्थं रसादीनामविरोधविरोधयोः । विषयं सुकविः काव्यं कुर्वन्मुह्यति न क्वचित् ॥ कारिका३.३१ ॥
विज्ञायेत्थं रसादीनामविरोधविरोधयोः । विषयं सुकविः काव्यं कुर्वन्मुह्यति न क्वचित् ॥ ३१ ॥
इत्थमनेनानन्तरोक्तेन प्रकारेण रसादीनां रसभावतदाभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्यविषये प्रतिभातिशययुक्तः काव्यं कुर्वत्र क्वचिन्मुह्मति । एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जकवाच्यवाचकनिरूपणस्यापि तद्विषयस्य तत्प्रतिपाद्यते
वाच्यानां वाचकानां च यदौचित्येन योजनम् । रसादिविषयेणैतत्कर्म मुख्यं महाकवेः ॥ कारिका३.३२ ॥
वाच्यानां वाचकानां च यदौचित्येन योजनम् । रसादिविषयेणैतत्कर्म मुख्यं महाकवेः ॥ ३२ ॥
लोचनं
परहृदयानुप्रवेशेनोक्तम् - न खल्वलीकवैराग्यकौतुकरुचिं प्रकटयामः, अपि तु यस्य कृते सर्वमभ्यर्थ्यते तदेवेदं चलमिति - तत्र मत्ताङ्गनापाङ्गभङ्गस्य शृङ्गारं प्रति सम्भाव्यमानविभावानुभावत्वेनाङ्गस्य लोलतायामुपमानतोक्तति प्रियतमाकटाक्षो हि सर्वस्याभिलषणीय इति च तत्प्रीत्या प्रवृत्तिमान् गुडजिह्विकया प्रसक्तानुप्रसक्तवस्तुतत्त्वसंवेदनेन वैराग्ये पर्यवस्यति विनेयः ॥ ३.० ॥
तदेतदुपसंहरन्नस्योक्तस्य प्रकरणस्य फलमाहविज्ञायेत्थमिति ॥ ३१ ॥
रसादिषु रसादिविषये व्यञ्जकानि यानि वाच्यानि विभावादीनि वाचकानि च सुप्तिङादीनि तेषां यन्निरूपणं तस्येति । तद्विषयस्येति । रसादिविषयस्य । तदिति
बालप्रिया
इत्यनेनेत्यर्थः । परेति । पराभिमतार्थाङ्कीकारेणेत्यर्थः । अलीकेति । अलीका असत्या या वैराग्यकौतुके रुचिस्तामित्यर्थः । यस्येति । जीवितस्येत्यर्थः । तत्र जीविते । तत्र लोलतायामुपमानतेति सम्बन्धः । तन्निरूपितं लोलतानिमित्तकोपमाप्रतियोगित्वमित्यर्थः । सम्भाव्येति । सम्भाव्यमानेन नायकविभावत्वेन नायिकानुभावत्वेन च हेतुना शृङ्गाराङ्गस्येत्यर्थः । तदुक्तेः फलमाहप्रियेत्यादि । तत्प्रतीत्येति कटाक्षस्योपमानत्वप्रतीत्येत्यर्थः । तत्प्रीत्या इति च पाठः । विनेय इति । व्युत्पाद्यो राजकुमारादिरित्यर्थः । तथा च यया कयापि विधया शृङ्गाराङ्गयोजनं काव्यशोभाकरमिति भावः ॥ ३.० ॥
“विज्ञाये"त्यादिकारिकामवतारयतितदेतदित्यादि ॥ ३.१ ॥
रसादिष्वित्यस्य विवरणम्रसादिविषये इति । “व्यञ्जकवाच्ये"त्यादिग्रन्थं वाच्यानामितिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादिविषयेणौचित्येन यद्योजनमेतन्महाकवेर्भुख्यं कर्म । अयमेव हि महाकवेर्मुख्यो व्यापारो यद्रसादीनेव मुख्यतया काव्यार्थीकृत्य तद्य्वक्त्यनुगुणत्वेन शब्दानामर्थानां चोपनिबन्धनम् । एतच्च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह
रसाद्यनुगुणत्वेन व्यवहारोऽर्थशब्दयोः । औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ॥ कारिका३.३३ ॥
रसाद्यनुगुणत्वेन व्यवहारोऽर्थशब्दयोः । औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ॥ ३३ ॥
व्यवहारो हि वृत्तिरित्युच्यते । तत्र रसानुगुण औचित्यवान्वाच्याश्रयो यो व्यवहारस्ता एताः कैशिक्याद्या वृत्तयः । वाचकाश्रयाश्चोपनागरिकाद्याः । वृत्तयो हि रसादितात्पर्येण संनिवेशिताः कामपिनाट्यस्य काव्यस्य च च्छायामावहन्ति । रसादयो हि द्वयोरपि तयोर्जीवभूताः । इतिवृत्तादि तु शरीरभूतमेव । लोचनमुपयोगित्वं मुख्यमिति । “आलोकार्थी” इत्यत्र यदुक्तं तदेवोपसंहृतम् । महाकवेरिति सिद्धवत्फलनिरूपणम् । एवं हि महाकवित्वं नान्यथेत्यर्थः । इतिवृत्तविशेषाणामिति । इतिवृत्तं हि प्रबन्धवाच्यं तस्य विशेषाः प्रागुक्ताः “विभावभावानुभावसञ्चार्यौचित्यचारुणः । विधिः कथाशरीरस्य” इत्यादिना । काव्यार्थीकृत्येति । अन्यथा लौकिकशास्त्रीयवाक्यार्थेभ्यः कः काव्यार्थस्य विशेषः । एतच्च निर्णीतमाद्योद्द्योतेऽकाव्यस्यात्मा स एवार्थः” इत्यत्रान्तरे ॥ ३.२ ॥
एतच्चेति । यदस्माभिरुक्तमित्यर्थः । भरतादावित्यादिग्रहणादलङ्कारशास्त्रेषु परुषाद्या वृत्तय इत्युक्तं भवति । द्वयोरपि तयोरिति । वृत्तिलक्षणयोर्व्यवहारयोरित्यर्थः । जीवभूता इति । “वृत्तयः काव्यमातृकाः” इति ब्रुवाणेन मुनिना रसोचितेतिवृत्तसमाश्रयणोपदेशेन रसस्यैवजीवितत्वमुक्तम् । भामहादिभिश्च स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपभुञ्जते । प्रथमालीढमधवः पिबन्ति कटुभेषजम् ॥
बालप्रिया
व्याचष्टेव्यञ्जकानीत्यादि । आलोकार्थीत्यादि । आलोकार्थीत्यादिकारिकया प्रथमोद्योते यदुक्तं तदेवानया कारिकया उपसंहृतमित्यर्थः ॥ ३.२ ॥
अत्र केचिदाहुः “गुणगुणिव्यवहारो रसादीनामितिवृत्तादिभिः सह युक्तः, न तु जीवशरीरव्यवहारः । रसादिमयं हि वाच्यं प्रतिभासते न तु रसादिभिः पृथग्भूतम्” इति । अत्रोच्यतेयदि रसादिमयमेव वाय्यं यथा गौरत्वमयं शरीरम् । एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयोऽपि सहृदयस्यासहृदयस्य च प्रतिभासेरन् । न चैवम् - तथा चैतत्प्रतिपादितमेव प्रथमोद्द्योते । लोचनमित्यादिना रसोपयोगजीवितः शब्दवृत्तिलक्षणो व्यवहार उक्तः । शरीरभूतमिति । “इतिवृत्तं हि नाट्यस्य शरीरं” इति मुनिः । नाट्यं च रस एवेत्युक्तं प्राक् । गुणगुणिव्यवहार इति । अत्यन्तसम्मिश्रतया प्रतिभासनाद्धर्मधर्मिव्यवहारो युक्तः । न त्विति । क्रमस्यासंवेदनादिति भावः । प्रथमेति । “शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते” इत्यादिना प्रतिपादितमदः ।
बालप्रिया
कारिकायामर्थशब्दयोः रसाद्यनुगुणत्वेन औचित्यवान् व्यवहारो यः, एता वृत्तयः एताः द्विवधाः स्थिताश्चेत्यन्वयः । लोचनेरसोपयोगजीवित इति । रसोपयोग एव जीवितं यस्य स इत्यर्थः । शेषं सर्वं स्पष्टम् । “गुणगुणिव्यवहार” इत्यस्य व्याख्यानम्धर्मधर्मिव्यवहार इति । अत्र हेतुं दर्शयतिअत्यन्तेत्यादि । गुणगुणिनोरिव रसादिवाच्ययोरिति शेषः । अत्र गुणस्थानीयो रसादिः गुणिस्थानीय इतिवृत्तादिरूपो वाच्यार्थः । न तु पृथग्भूतमित्यत्र हेतुमाहक्रमस्यासंवेदनादिति । वाच्यप्रतीतेः रसादिप्रतीतेश्चेति शेषः । वृत्तौ “यदी"त्याद्यनुवादः । अत्र दृष्टान्तमाह “यथे"त्यादि । “गौरत्वमयं शरीर “मिति गुणगुणिनोस्तादात्मयेन व्यवहारः । “एवं सती"ति । वाच्यस्य रसादिमयत्वे सतीत्यर्थः । प्रतिभासेरन्नित्यनेनास्य सम्बन्धः । दृष्टान्तप्रदर्शनपूर्वकमाह “यथे"त्यादि । “नियमेनैव भासत” इति । द्रव्यप्रत्यक्षस्य तद्गतरूपविषयकत्वनियमादिति भावः । “तथे"ति । नियमेनैवेत्यस्यानुषङ्गः । “प्रतिभासेरन्नि"ति । यदि रसादिमयो वाच्यार्थस्तर्हि स नियमतो रसादिभिः सहैव सर्वैः प्रतीयमानस्स्यादित्यर्थः । अत्रेष्टापत्तिं परिहरति “न चैव “मिति । “स्यान्मतम्” इति शङ्काद्योतकम् । जात्यत्वमिवेति योजना । जात्यत्वमुत्कृष्टरत्नगतो स्यान्मतम् - रत्नानामिव जात्यत्वं प्रतिपत्तृविशेषतः संवेद्यं वाच्यनां रसादिरूपत्वमिति । नैवम् - यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्नस्वरूपानतिरिक्तत्वमेव तस्य लक्ष्यते तथा रसादीनामपि विभावानुभावादिरूपवाच्याव्यतिरिक्तत्वमेव लक्ष्येत । न चैवम् -
लोचनं
ननु यद्यस्य धर्मरूपं तत्तत्प्रतिभाने सर्वस्य नियमेन भातीत्यनैकान्तिकमेतत् । माणिक्यधर्मो हि जात्यत्वलक्षणो विशेषो न तत्प्रतिभासेऽपि सर्वस्य नियमेन भातीत्याशङ्कतेस्यादिति । एतत्परिहरतिनैवमिति । एतदुक्तं भवतिअत्यन्तोन्मग्नस्वभावत्वे सति तद्धर्मत्वादिति विशेषणमस्माभिः कृतम् । उन्मग्नरूपता च न रूपवज्जात्यत्वस्य, अत्यन्तलीनस्वभावत्वात् । रसादीनां चोन्मग्नतास्त्येवेत्येवं केचिदेतं ग्रन्थमनैषुः । अस्मद्गुरवस्त्वाहुःत्रोच्यत इत्यनेनेदमुच्यते यदि रसादयो
बालप्रिया
जातिविशेषः । यता मालत्यां “जात्येन चन्द्रमणिनेव महीधरस्ये"ति । “प्रतिपत्तृविशेषतः” ज्ञातृविशेषेण कर्त्रा । स्यादित्यादिग्रन्थमवतारयति लोचनेनन्वित्यादि । यदित्यादि । यत्गौरत्वादि । यस्य शरीरादेः । तत्गौरत्वादि । तत्प्रतिभाने शरीरादिप्रतिभासे इत्येतदिति सम्बन्धः इति नियम इत्यर्थः । यत्र यत्र यद्धर्मत्वं तत्र प्रत्यक्षीयतद्विषयिताव्यापकविषयिताकत्वमिति व्याप्तिरिति यावत् । अनैकान्तिकमिति । व्यभिचारीत्यर्थः । कुत्र व्यभिचार इत्यत आहमाणिक्येत्यादि । तत्प्रतिभासे माणिक्यभाने । न भातीति । तथा च माणिक्यधर्मे जात्यत्वे व्यभिचार इति भावः । वृत्तौ “यथे"त्यादि । “जात्यत्वेन” जात्यत्वप्रकारेण । “भासमाने” प्रतिपत्तृविशेषगतसाक्षात्कारविषये । रत्नस्वरूपानतरिक्तत्वं रत्नादभिन्नत्वम् । “तस्य” जात्यत्वस्य । “लक्ष्यते” ज्ञायते । “विभावे"ति । विभावानुभावादरूपं यद्वाच्यं तस्मादव्यतरिक्तत्वामित्यर्थः । “न चैवम्” इति । एवं न लक्ष्यते इत्यर्थः । कुत इत्यत्राह “न ही"त्यादि । न ह्यवगम इति सम्बन्धः । यत इत्यादि न चैवमित्यन्तस्य परिहारग्रन्थस्य भावमाह लोचनेएतदुक्तमित्यादि । अत्यन्तोन्मग्नस्वभावत्व इति । स्वाश्रयाद्भिन्नत्वेन प्रतीयमानत्व इत्यर्थः । सतीत । इत्येतदिति शेषः । तद्धर्मत्वादित्यादि । तद्धर्मत्वादित्यस्य विज्ञेषणमित्यर्थः । कृतमिति । अभिमतमित्यर्थः । यत्र यत्र तद्धर्मत्वभित्यत्र अत्यन्तोन्मग्नस्वभावत्वे सतीत्यपि निविष्टमस्तीत्यर्थः । इत्थं च जात्यत्वेन व्यभिचार इत्याहौन्मग्नेति । उन्मग्नरूपता यथारूपस्य गौरत्वादेरस्ति तथा जात्यत्वस्य नेत्यर्थः । अत्यन्तलीनस्वभावत्वातनुन्मग्नस्वभावत्वात् । स्वाश्रयाद्भिन्नत्वेनाप्रतीयमानत्वादिति यावत् । एतं ग्रन्थमित । यत इत्यादि न चैवमित्यन्तं ग्रन्थमित्यर्थः । न हि विभावानुभावव्यभिचारिण एव रसा इति कस्याचिदवगमः । अत एव च विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावेन व्यवस्थानात्क्रमोऽवश्यम्भावी । स तु लाघवान्न प्रकाश्यतेऽइत्यलक्ष्यक्रमा एव सन्तो व्यङ्ग्या रसादयः” इत्युक्तम् ।
लोचनं
वाच्यानां धर्मास्तथासति द्वौ पक्षौ रूपादिसदृशा वा स्युर्माणिक्यगतजात्यत्वसदृशा वा । न तावत्प्रथमः पक्षः, सर्वान् प्रति तथानवभासात् । नापि द्वितीयः, जात्यत्ववदनतिरिक्तत्वेनाप्रकाशनात् । एष च हेतुराद्येऽपि पक्षे सङ्गच्छत एव । तदाहस्यान्मतमित्यादिना न चैवमित्यन्तेन । एतदेव समर्थयतिन हीति । अत एव चेति । यतो न वाच्यधर्मत्वेन रसादीनां प्रतीतिः, यतश्च तत्प्रतीतौ वाच्यप्रतीतिः सर्वथानुपयोगिनी तत एव हेतोः क्रमेणावश्यं भाव्यं, सहभूतयोरुपकारायोगात् । स तु सहृदयभावनाभ्यासान्न लक्ष्यते अन्यथा तु लक्ष्येतापीत्युक्तं प्राक् । यस्यापि प्रतीतिविशेषात्मैव रस इत्युक्तिः, प्राक्तस्यापि व्यपदेशिवत्त्वाद्रसादीनां प्रतीतरित्येवमन्यत्र । ननु भवन्तु वाच्यादतिरिक्ता रसादयस्तत्रापि क्रमो न लक्ष्यत इति तावत्त्वयैवोक्तम् । तत्कल्पने च प्रमाणं नास्ति । अन्वयव्यतिरेकाभ्यामर्थप्रतीतिमन्तरेण रसप्रतीत्युदयस्य
बालप्रिया
स्बमतमाहअस्मादित्यादि । तथानवभासादत्यन्तेन “प्रतिभासेरन्न चैवम्” इत्यन्तग्रन्थो विवृतः । अप्रकाशनादिति । अप्रकाशादित्यर्थः । आद्येऽपि पक्ष इति । रूपादिसदृशा वा इति पक्षेऽपीत्यर्थः । रूपादीनामनतिरिक्तत्वेन प्रकाशनादित भावः । इत्यन्तेनेति । इतीति शेषः । आहुरिति पूर्वेण सम्बन्धः । वृत्तावत एवेत्येको हेतुः व्यवस्थानादित्यपरश्चेत्याशयेन व्याचष्टेयतो नेत्यादि । तत्प्रतीतौ रसप्रतीतौ । सर्वथेति । नेत्यस्यानुषङ्गः । नानुपयोगिनी उपयोगिन्येव । क्रमोऽवश्यंभावीत्यस्य विवरणम्क्रमेणावश्यं भाव्यमिति । कुत इत्यत्राहसहेति । उपकारायोगादिति । उपकार्योपकारकभावायोगादित्यर्थः । यस्यापीति । उक्तिः प्रागित्यनेन सम्बन्धः । तस्यापीति । मते इति शेषः । व्यपदेशिवत्वादिति । राहोश्शिर इत्यादिवद्भेग्रन्थमवतारयतिनन्वित्यादि । इत्युक्तमिति । तदुक्त्या क्रमोऽस्तीत्यावेदितमिति भावः । तत्कल्पन इति । क्रमकल्पन इत्यर्थः । रसप्रतीत्युदयस्येत्यस्य दर्शनादित्यनेन सम्बन्धः । कुतस्येत्युदयस्येत्यस्य विशेषणम् । फलितमाहततश्चेत्यादि । सहैव युगपदेव । वचनेत्यादि । वचनवायापारो वाच्यार्थप्रतिपादनम् । ननु शब्द एव प्रकारणाद्यवच्छिन्नो वाच्यव्यङ्ग्ययोः सममेव प्रतीतिमुपजनयतीति किं तत्र क्रमकल्पनया । न ह शब्दस्य वाच्यप्रतीतिपरामर्श एव व्यञ्जकत्वे निबन्धनम् । तथा हि गीतादिशब्देभ्योऽपि रसाभिव्यक्तिरस्ति । न च तेषामन्तरा वाच्यपरामर्शः । अत्रापी ब्रूमःप्रकरणाद्यवच्छेदेन व्यञ्जकत्वं शब्दानामित्यनुमतमेवैतदस्माकम् । किं तु तद्य्वञ्जकत्वं तेषां कदाचित्स्वरूपविशेषनिबन्धनं कदाचिद्वाचकशक्तिनिबन्धनम् । तत्र येषां वाचकशक्तिनिबन्धनं तेषां यदि वाच्यप्रतीतिमन्तरेणैव स्वरूपप्रतीत्या निष्पन्नं तद्भवेन्न तर्हि वाचकशक्तिनिबन्धनम् । अथ
लोचनं
पदविरहितस्वरालापगीतादौ शब्दमात्रोपयोगकृतस्य दर्शनात् । ततश्चैकयैव सामग्न्या सहैव वाच्यं व्यङ्ग्याभिमतं च रसादि भातीति वचनव्यञ्जनव्यापारद्वयेन न किञ्चिन्दिति तदाहनन्विति । यत्रापि गीतशब्दानामर्थोऽस्ति तत्रापि तत्प्रतीतिरनुपयोगिनी ग्रामरागानुसारेणापहस्तितवाच्यानुसारतया रसोदयदर्शनात् । न चापि सा सर्वत्र भवन्ती दृश्यते, तदेतदाहन चेति । तेषामिति गीतादिशब्दानाम् । आदिशब्देन वाद्यविलपितशब्दादयो निर्दिष्टाः । अनुमतमिति । “यत्रार्थः शब्दो वा” इति ह्यवोचामेति भावः । न तर्हीति । ततश्च गीतवदेवार्थावगमं विनैव रसावभासः स्यात्काव्यशब्देभ्यः, न चैवमिति वाचकशक्तिरपि तत्रापेक्षणीया - सा च वाच्यनिष्टैवेति प्राग्वाच्ये प्रतिपत्तिरित्युपगन्तव्यम् । तदाहअथेति । तदिदि वाचकशक्तिः ।
बालप्रिया
तदाहेति । उक्तामाशङ्कां “नन्वि"त्यादिना “परामर्श” इत्यन्तेन प्रदर्शयतीत्यर्थः । “न चे"त्यादिग्रन्थमवतारयतेयत्रापीत्यादि । “अनुपयोगिनी"त्यत्र हेतुमाहग्रामेत्यादि । अपेति । अपहस्तितः अनादृतः वाच्यानुसारः वाच्यर्थप्रतीत्यनुसरणं येन रसोदयेन तस्य भावस्तत्ता तया । सेति । वाच्यप्रतीतिरित्यर्थः । “गीतादीना “मित्यत्रादिपदार्थमाहआदीत्यादि । विलपितं विलापः “विलापोऽनर्थकं वच” इत्यमरः । वृत्तौ “तद्व्यञ्जकत्वम्” इति । प्रकरणादिसहकृतं व्यञ्जकत्वमित्यर्थः । “तेषां” शब्दानाम् । “स्वरूपविशेषे"ति । शब्दस्वरूपविशेषेत्यर्थः । “वाचके"ति । वाचकशक्तिरभिधा सैव निबन्धनं प्रयोजकं यस्य तत् । व्यक्तेरभिधेयार्थप्रतीतिपूर्वकत्वादिति भावः । “येषाम्” इति । तद्व्यञ्जकत्वमित्यनुषङ्गः । “तदि"ति व्यञ्जक्तवमित्यर्थः । “न तर्ही"ति । ततश्च व्यञ्जकत्वस्य वाचकशक्तिनिबन्धनत्वाभावे च । गीतवदिति । गीतेन तुल्यमित्यर्थः । न चैवं एवं न भवति च । इतीति हेतौ । वाच्यनिष्ठैव वाच्यविषयिकैव । प्रागत्यादि । तन्निबन्धनं तन्नियमेनैव वाच्यवाचकभावप्रतीत्युत्तरकालत्वं व्यङ्ग्यप्रतीतेः प्राप्तमेव । स तु क्रमो यदि लाघवान्न लक्ष्यते तत्किं क्रियते । यद च वाच्यप्रतीतिमन्तरेणैव प्रकरणाद्यव्च्छिन्नशब्दमात्रसाध्या रसादप्रतीतिः स्यात्तदनवधारितप्रकरणानां वाच्यवाचकभावे च स्वयमव्युत्पन्नानां प्रतिपत्तॄणां
लोचनं
वाच्यवाचकभावेति । सैव वाचकशक्तिरत्युच्यते । एतदुक्तं भवतिमा भूद्वाच्यं रसादिव्यञ्जकम् - अस्तु शब्दादेव तत्प्रतीतिस्तथापि तेन स्ववाचकशक्तिस्तस्यां कर्तव्यायां सहकारितयावश्यापेक्षणीयेत्यायातं वाच्यप्रतीतेः पूर्वभावित्वमिति । ननु गीतशब्दवदेव वाचकशक्तिरत्राप्यनुपयोगिनी, यत्तुक्वचच्छ्रुतेऽपि काव्येरसप्रतीतिर्न भवति तत्रोचितः प्रकरणावगमादिः सहकारी नास्तीत्याशङ्क्याहयदि चेति । प्रकरणावगमो हि क उच्यते? किं वाक्यान्तरसहायत्वम्? अथ वाक्यान्तराणां सम्बन्धिवाच्यम् । उभयपरिज्ञानेऽपि न भवति प्रकृतवाक्यार्थावेदने रसोदयः ।
बालप्रिया
वाच्यार्थप्रतीतिः प्राग्भवतीत्यभ्युपगन्तव्यमित्यर्थः । वृत्तौ “अथे"ति यदीत्यर्थे । “तन्निबन्धन “मिति । सा निबन्धनं यस्य तदित्यर्थः । व्यञ्जकत्वमित्यनुषङ्गः । “तदि"ति । तर्हित्यर्थः । “स तु क्रम” इति । वाच्यप्रतीत्युत्तरकालत्वरूपः क्रमस्त्वित्यर्थः । व्यङ्ग्यप्रतीतेरित्यनुषङ्गः । तन्निबन्धनमित्यत्र तत्प्दं व्याचष्टे लोचनेवाचकशक्तिरिति । सैवेति । स एवेति । च पाठः । वाच्यवाचकभाव एवेत्यर्थः । भावार्थमाहएतदित्यादि । रसादिव्यञ्जकमिति । रसादिव्यक्तिजनकमित्यर्थः । तत्प्रतीतिरिति । रसादिप्रतीतिरत्यर्थः । तेनेति । शब्देनेत्यर्थः । तस्यां कर्तव्यायामिति । रसादिप्रतीताबुत्पादयितव्यायामित्यर्थः । इतीति हेतौ । नन्वित्यादि । गीतशब्दवदिति । गीतशब्दे इवेत्यर्थः । अत्रापि काव्यशब्देऽपि । नन्वेवं यत्र शब्दः श्रुतोऽर्थो नाधिगतश्च तत्र रसप्रतीतिः स्यादित्यत आहयत्त्वित्यादि । यत्तु यत्र । इत्याशङ्क्याहेति । इति शङ्कापूर्वकं समाधानं भवेदित्यन्तग्रन्थेनाहेत्यर्थः । वृत्तौ शब्दमात्रसाध्येत्यत्रत्यमात्रपदार्थविवरणम् “वाच्यप्रतीतिमन्तरेणैवे"ति । “तदवधारिते"ति । तत्तर्हि । अवधारितं ज्ञातं प्रकरणं यैस्तेषाम् । “वाच्ये"त्यादि । तत्तद्वाचकशब्दस्य तत्तद्वाच्यार्थं स्वयमजानतामित्यर्थः । “असौ “रसादिप्रतीतिः । लोचने विवृणोतिप्रकरणेत्यादि । प्रकरणावगमः अवगम्यः प्रकरणपदार्थः । वाक्येति । वाक्यान्तरं सहायः सहकारि यस्य तत्त्वं सहकारि वान्तरमित्यर्थः । काव्यमात्रश्रवणादेवासौ भवेत् । सहभावे च वाच्यप्रतीतेरनुपयोगः, उपयोगे वा न सहभावः । येषामपि स्वरूपविशेषप्रतीतिनिमित्तं व्यञ्जकत्वं यथा गीतादिशब्दानां तेषामपि स्वरूपप्रतीतेर्व्यङ्ग्यप्रतीतेश्च नियमभावी
लोचनं
स्वयमिति । प्रकरणमात्रमेव परेण केनचिद्येषां व्याख्यातमिति भावः । न चान्वयव्यतिरेकवतीं वाच्यप्रतीतिमपह्नुत्यादृष्टसद्भावाभावौ शरणत्वेनाश्रितौ मात्सर्यादधिकं किञ्चित्पुष्णीत इत्यभिप्रायः । नन्वस्तु वाच्यप्रतीतेरुपयोगः क्रमाश्रयेण किं प्रयोजनम्, सहभावमात्रमेव ह्युपयोग एकसामग्र्यधीनतालक्षणमित्याशङ्क्याहसहेति । एवं ह्युपयोग इति अनुपकारके सञ्ज्ञाकरणमात्रं वस्तुशून्यं स्यादिति भावः । उपकारिणो हि पूर्वभावितेति त्वया प्यङ्गीकृतमित्याहयेषामिति । तद्दृष्टान्तेनैव वयं वाच्यप्रतीतेरपि पूर्वभावितां समर्थयिष्याम इति भावः ।
बालप्रिया
प्रकृतवाक्यस्येति शेषः । अथेति प्रश्ने । वाक्यान्तराणामित्यादि । वाक्यान्तरतद्वाच्यमित्यर्थः । उभयेति । वाक्यान्तरतद्वाच्योभयेत्यर्थः । प्रकृतवाक्यार्थवेदन इति । प्रकृतवाक्यघटकतत्तत्पदार्थनवगम इत्यर्थः । वाच्यवाचकभावाव्युत्पत्तिमुपपादयतिप्रकरणमात्रमित्यादि । मात्रशब्देन वाच्यस्य व्यवच्छेदः । येषामिति । केषाञ्चित्प्रतिपत्तॄणामित्यर्थः । व्याख्यातमिति । बोधितमित्यर्थः । ननु वाक्येन रसादिप्रतीतौ कर्तव्यायामदृष्टविशेषोऽपि सहकारी तदभावादेव वाच्यप्रतीतिविरहकाले रसादेरप्रतीतिरिति शङ्कां परिहरतिन चेत्यादि । न च पुष्णित इति सम्बन्धः । अन्वयेति । वाच्यप्रतीतिसत्त्वे रसादिप्रतीतिस्तदभावे तदभाव इत्यन्वयव्यतिरेकशालिनीमित्यर्थः । शरणत्वेनेति । प्रयोजकत्वेनेत्यर्थः । रसप्रतीतिपदभावयोरिति शेषः । नन्वित्यादि । उपयोग इति । रसादिप्रतीतिं प्रतीति शेषः । क्रमाश्रयेणेति । वाच्यप्रतीतिरसादिप्रतीत्योः पौर्वापर्यरूपक्रमाश्रयेणेत्यर्थः । तर्हि उपयोगः क इत्यत्राहसहेति । तत्कीदृशमित्याङ्क्याहएकेति । वाच्यप्रतीतेः रसादिप्रत्यायकसामग्न्यधीनत्वरूपो रसादिसहभाव इति भावः । उपयागाः उपयोगपदार्थः । आशङ्क्येति । आपाततश्शङ्कित्वेत्यर्थः । सहभावे चेत्यादिग्रन्थस्य भावमाहएवं हीत्यादि । अनुपकारके उपयोग इति सञ्ज्ञाकरणमात्रमिति सम्बन्धः । मात्रपदार्थं विवृणोतिवस्त्वित्यादि । वस्तु उपकारकत्वरूपस्तदर्थः । पूर्वभावितेति । पूर्वकालवृत्तित्वमित्यर्थः । क्रम इत्यन्तग्रन्थस्य भावमाहत्वद्दृष्टान्तेनेत्यादि । त्वद्दृष्टान्तेन गीतादिना तत्त्वित्यादिग्रन्थमवतारयतिनन्वित्यादि । शब्दस्येत्यस्य क्रियेत्यनेन सम्बन्धः । क्रमः । तत्तु शब्दस्य क्रियापौर्वापर्यमनन्यसाध्यतत्फलघटनास्वाशुभावनीषु वाच्येनाविरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते ।
लोचनं
ननु संश्चेत्क्रमः किं न लक्ष्यत इत्याशङ्क्याहतत्त्विति । क्रियापौर्वापर्यमत्यनेन क्रमस्य स्वरूपमाहक्रियेते इति । क्रिये वाच्यव्यङ्ग्यप्रतीति यदि वाभिधाव्यापारो व्यञ्जनापरपर्यायो ध्वननव्यापारश्चेति क्रिये तयोः पौर्वापर्यं न प्रतीयते । क्वेत्यागरसादौ विषये । कीदृशि? अभिधेयान्तरात्तदभिधेयविशेषाद्विलक्षणे सर्वथैवानभिधेये अनेन भवितव्यं तावत्कमेणेत्युक्तम् । तथा वाच्येनाविरोधिनि, विरोधिनि तु लक्ष्यत एवेत्यर्थः । कुतो न लक्ष्यते इति निमित्तसप्तमीनिर्दिष्टं हेत्वन्तरगर्भं हेतुमाहआशुभाविनीष्विति । अनन्यसाध्यतत्फलघटनासु घटनाः पूर्वं माधुर्यादिलक्षणाः प्रतिपादिता गुणानिरूपणावसरे ताश्च तत्फलाः रसादिप्रतीतिः फलं यासाम्, तथा अनन्यत्तदेव साध्यं यासाम्, न ह्योजोघटनायाः करुणादिप्रतीतिः साध्या । एतदुक्तं भवतियतो गुणवति काव्येऽसङ्कीर्णविषयतया सङ्घटना प्रयुक्ता ततः क्रमो न लक्ष्यते । ननु भवत्वेवं सङ्घटनानां स्थितिः, क्रमस्तु किं न लक्ष्यते अत आहआशुभाविनीषु वाच्यप्रतीतिकालप्रतीक्षणेन विनैव झटित्येव ता रसादीन् भावयन्ति
बालप्रिया
शब्दजन्यक्रियेत्यर्थः । क्रियापदार्थमाहक्रियेते इत्यादि । ते के इत्यत्राहवाच्येति । शब्दस्य क्रियेत्यस्य शब्दनिष्ठक्रियेत्यभिप्रायेणाहयदिवेत्यादि । अन्वयं दर्शयतितयोरित्यादि । तयोः क्रिययोः । अत्र वाच्यव्यङ्ग्यप्रतीतिगतं पौर्वापर्यं तद्य्वापारयोरारोपितं बोध्यम् । रसादौ विषये इति । तथाच वाच्यप्रतीतेः रसादिरूपव्यङ्ग्यप्रतीतेश्चेत्यर्थः । अभिधेयविशेषादिति । तत्तद्वाच्यार्थविशेषादित्यर्थः । फलितमाहसर्वथेत्यादि । अनभिधेये अभिधेयभिन्ने । अनेनेति । अनभिधेयत्वकथनेनेत्यर्थः । इत्युक्तमिति । इति दर्शितमित्यर्थः । लक्ष्यत एवेति । यथा “भ्रम धार्मिके"त्यादौ । इतीति । इत्याकाङ्क्षायामित्यर्थः । निमित्तसप्तमीति । “यस्य च भावेने"ति सूत्रानुशिष्टनिमित्तार्थकसप्तमीत्यर्थः । हेत्वन्तरेति । अनन्यसाध्यतत्फलत्वरूपहेत्वन्तरेत्यर्थः । अनन्येत्यादिकं व्याचष्टेघटना इत्यादि । कर्मधारयाभिप्रायेण विग्रहमाहताश्चेत्यादि । अनन्यदित्यस्य व्याख्यानम्तदेवेति । तत्तद्धटनया यत्साध्यं तदेवेत्यर्थः । उक्तमेव विवृणोतिन हीत्यादि । ओजोघटनया करुणादिप्रतीतिर्न हि साध्येत्यन्वयः किन्तु वीरादिप्रतीतिरेवेति भावः । उक्तस्य भावमाहएतदित्यादि । असङ्कीर्णविषयतयेति । घटनान्तरासङ्कीर्णस्वविषयकत्वेनेत्यर्थः । आशुभाविनीष्वित्येतद्व्याचष्टेवाच्येत्यादि । ता इति ।
लोचनं
तदास्वादं विदधतीत्यर्थः । एतदुक्तं भवतिसङ्घटनाव्यङ्ग्यत्वाद्रसादीनामनुपयुक्तेऽप्यर्थविज्ञाने पूर्वामेवोचितसङ्घटनाश्रवण एव यत आसूत्रितो रसास्वादस्तेन वाच्यप्रतीत्युत्तरकालभवेन परिस्फुटास्वादयुक्तोऽपि पश्चादुत्पन्नत्वेन न भाति । अभ्यस्ते हि विषयेऽविनाभावप्रतीतिक्रम इत्थमेव न लक्ष्यते । अभ्यासो ह्ययमेव यत्प्रणिधानादिनापि विनैव संस्कारस्य बलवत्त्वात्सदैव प्रबुभुत्सुतया अवस्थापनमित्येवं यत्र धूमस्तत्राग्निरिति हृदयस्थितत्वाद्व्याप्तेः पक्षधर्मज्ञानमात्रमेवोपयोगि भवतीति परामर्शस्थानमाक्रमति, झटित्युत्पन्नेहि धूमज्ञाने तद्व्याप्तिस्मृत्युपकृते तद्विजातीयप्रणिधानानुसरणादिप्रतीत्यन्तरानुप्रवेशविरहादाशुभाविन्यामग्निप्रतीतौ
बालप्रिया
घटना इत्यर्थः । रसादीनित्यादेर्विवरणम्तदास्वादमित्यादि । तत्त्वित्यादिग्रन्थेन लब्धं क्रमस्तु किन्न लक्ष्यत इति चोद्यस्योत्तरं विवृणोतिएतदित्यादि । सङ्घटनाव्यङ्ग्यत्वादिति । अर्थज्ञानोपयोगं विनापि सङ्घटनया व्यङ्ग्यत्वादत्यर्थः । पूर्वमेव वाच्यार्थज्ञानात्प्रागेव । उचितेति । अभ्यस्तेत्यर्थः । आसूत्रितर्ः इषत्स्फुरितः । तेनेत्यस्य न भातीत्यनेनान्वयः । वाच्येति । वाच्यप्रतीत्युत्तरकाले यो भवः जननं तेन हेतुना यः परिस्फुटास्वादः तेन युक्तोऽपि विशिष्टोऽपि - परिस्फुटास्वादः युक्तोऽपीति च पाठः । पश्चादुत्पन्नत्वेन वाच्यप्रतीत्युत्तरकालोत्पन्नत्वेन । न भातीति । सहृदयानामिति शेषः । अभ्यास इत्यादि । “अभ्यासस्तु समाने विषये ज्ञानानामभ्यावृत्तरि"ति न्यायभाष्ये । प्रणिधानेत्यादि । “सूस्मूर्षया मनसो धारणं प्रणिधान"मिति न्यायभाष्यम् । धारणमेकाग्रीकरणम् । प्रणिधानादिनेत्यादिपदेन “प्रणिधाननिबन्धाभ्यासलिङ्गे"त्यादिन्यायसूत्रोक्तलिङ्गादीनां ग्रहणम् । विनैवेत्यस्य प्रबुभुत्सुतया स्थापनमित्यनेन सम्बन्धः । बलवत्वादिति । झटित्युद्बोधकसमवधानरूपदार्ढ्यवत्वादित्यर्थः । प्रबुसुत्सुतयेति । स्मृतिरूपप्रबोधोपधायकत्वेनेत्यर्थः । कूलं पिपतिषतीत्यादिवत्प्रयोगः । अभ्यस्त इत्यादिना समान्यत उक्तं विशिष्य दर्शयतिएवमित्यादि । इत्येवं व्याप्तेरित्यन्वयः । हृदयस्थितत्वादिति । संस्काररूपेणान्तः करणे वर्तमानत्वादित्यर्थः । पक्षेति धूमादिलिङ्गस्य पर्वतादिपक्षवृत्तित्वज्ञानमात्रमित्यर्थः । मात्रमेवेत्यनेन पक्षे साध्यव्याप्तिविशिष्टहेतुमत्ताज्ञानरूपस्य परामर्शस्य व्यवच्छेदः । उपयोगीति । वह्न्याद्यनुमिताविति शेषः । इतीति हेतौ । परामर्शेति । परामर्शस्थानीयं भवतीस्पष्टमिदं मतम् । झटितीत्यस्य व्याप्तिस्मृतीत्यनेन सम्बन्धः । तद्य्वाप्तीति । धूमादौ वह्न्यादिव्याप्तेः स्मृत्या सहकुते सतीत्यर्थः । तदित्यादि । ताभ्यां धूमज्ञानव्याप्तिस्मृतिभ्यां विजातीयं यत्प्रणिधानानुकरणादिना प्रणिधानकरणादिना प्रतीत्यन्तरमालोचनरूपं क्वचित्तु लक्ष्यत एव । यथानुरणनरूपव्यङ्ग्यप्रतीतिषु । तत्रापि कथमिति चेदुच्यते अर्थशक्तिमूलानुरणनरूपव्यङ्ग्ये ध्वनौ तावदभिधेयस्य तत्सामर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तरविलक्षणतयात्यन्तविलक्षणे ये प्रतीति तयोरशक्यनिह्नवो निमित्तनिमित्तिभाव इति स्फुटमेव तत्र पौर्वापर्यम् । यथा प्रथमोद्द्योते प्रतीयमानार्थसिद्य्धर्थमुदाहृतामु गाथासु । तथाविधे च विषये वाच्यव्यङ्ग्येयोरत्यन्तविलक्षणत्वाद्यैव एकस्य प्रतीतिः सैवेतरस्येति न शक्यते वक्तुम् । शब्दशक्तिमूलानुरणनरूपव्यङ्ग्ये तु ध्वनौ गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु
लोचनं
क्रमो न लक्ष्यते तद्वदिहापि । यदि तु वाच्याविरोधी रसो न स्यादुचिता च घटना न भवेत्तल्लक्ष्येतैव क्रम इति । चन्द्रिकाकारस्तु पठितमनुपठतीति न्यायेन गजनिमीलिकया व्याचचक्षेतस्य शब्दस्य फलं तद्वा फलं वाच्यव्यङ्ग्यप्रतीत्यात्मकं तस्य घटना निष्पादना यतोऽनन्यसाध्या शब्दव्यापारैकजन्येति । न चात्रार्थसतत्त्वं व्याख्याने किञ्चिदुत्पश्माम इत्यलं पूर्ववंश्यैः सह विवादेन बहुना । यत्र तु सङ्घटनाव्यङ्ग्यत्वे नास्ति तत्र लक्ष्यत एवेत्याहक्वचित्त्विति । तुल्ये व्यङ्ग्यत्वे कुतो भेद इत्याशङ्कतेतत्रापीति । स्फुटमेवेति । अविवक्षितवाच्यस्य पदवाक्यप्रकाशता । तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ॥ इति हि पूर्वं वर्णसङ्घटनादिकं नास्य व्यञ्जकत्वेनोक्तमिति भावः । गाथास्विति ।
बालप्रिया
तस्य योऽनुप्रवेशः तस्य विरहादभावादित्यर्थः । आशुभाविन्यां झटिति भवन्त्याम् । अग्निप्रतीतौ पर्वतादौ वह्रेरनुमित्तौ । क्रम इति । व्याप्तिस्मृतिसहकृतस्य धूमज्ञानस्येति शेषः । उपसंहरतितद्वदिति । अभ्यासनिमित्तकाशुभावित्वेन साम्यं बोध्यम् । वाच्याविरोधितेत्याद्युवत्या गम्यमर्थमाहयदीत्यादि । अनन्येत्यादिग्रन्थस्य चन्द्रिकाव्याख्यानमाहतस्येत्यादि । अर्थसतत्त्वमिति । अर्थस्य सङ्गतत्वमित्यर्थः । स्फुटमेव पौर्वापर्यमित्येतदुपपादयतिअविवक्षितेत्यादि । इति हि पूर्वमुक्तं वर्णसङ्घटनादिकमस्य व्यञ्जकत्वेन नोक्तमिति सम्बन्धः । इत्यादावर्थद्वयप्रतीतौ शाब्द्यामर्थद्वयस्योपमानोपमेयभावप्रतीतिरुपमावाचङ्कपदविरहे सत्यर्थसामर्थ्यादाक्षिप्तेति, तत्रापि सुलक्षमभिधेयव्यङ्ग्यालङ्कारप्रतीत्यो । पौर्वापर्यम् । पदप्रकाशशब्दशक्तिमूलानुरणनरूपव्यङ्ग्येऽपि ध्वनौ विशेषणपदस्योभयार्थसम्बन्धयोग्यस्य योजकं पदमन्तरेण योजनमशाब्दमप्यर्थादवस्थितमित्यत्रापि पूर्ववदभिदेयतत्सामर्थ्याक्षिप्तालङ्कारमात्रप्रतीत्योः सुस्थितमेव पौर्वापर्यम् । लोचमम् “भम धम्मिअ” इत्यादिकासु । ताश्च तत्रैव व्याख्याताः । शाब्द्यामिति । शाब्द्यामपीत्यर्थः । उपमावाचकं यथेवादि । अर्थसामर्थ्यादिति । वाक्यार्थसामर्थ्यादिति यावत् । एवं वाक्यप्रकाशशब्दशक्तिमूलं विचार्य पदप्रकाशं विचारयतिपदप्रकाशेति । विशेषणपदस्येति । जड इत्यस्य । योजकमिति । कूप इति च अहमिति चोभयसमानाधिकरणतया संवलनम् । अभिधेयं च तत्सामर्थ्याक्षिप्तं च तयोरलङ्कारमात्रयोः । ये प्रतीति तयोः पौर्वापर्यं क्रमः । सुस्थितं सुलक्षितमितयर्थः । मात्रग्रहणेन रसप्रतीतिस्तत्राप्यलक्ष्यक्रमैवेति दर्शयति ।
बालप्रिया
येन पौर्वापर्यस्यास्फुटत्वं भवेदिति भावः । शाब्द्यामपीति । अभिधया शब्दजन्यामपीत्यर्थः । अपिशब्देनाप्रकृतार्थस्य व्यङ्ग्यत्वपक्षः सूच्यते । उपमावाचकपदविरह इत्यत्रोपमावाचकपदं विवृणोतिउपमेत्यादि । वृत्तौ “आक्षिप्ते"ति । उत्पादितेत्यर्थः । “अभिधेये"ति । अभिधेयस्य व्यङ्ग्यालङ्कारस्य च ये प्रतीती तयोरित्यर्थः । द्वितीयार्थोऽप्यभिधेयः तदुपमामात्रं व्यङ्ग्यमिति मताभिप्रायेणेदम्, अनुपदं वक्ष्यमाणस्थलेऽप्येवं बोध्यम् । लोचने वृत्तानुवादपूर्वकमवतारयतिएवमित्यादि । पदप्रकाशमिति । शब्दशक्तिमूलमित्यनुषङ्गः । प्रातुं धनैरित्याद्युक्तमुदाहरणं मनसिकृत्य व्याचष्टेजड इत्यस्येति । योजनशब्दार्थमाहकूप इत्यादि । इति चोभयेति । कूपाहम्पदार्थोभयेत्यर्थः । संवलनं सम्मिश्रणम् । वृत्तौ “अशाब्दमपी"ति । योजकशब्दाप्रतिपाद्यमपीत्यर्थः । अर्थाद्व्यञ्जनात् । “अवस्थितम्” प्रतिपत्तिविषयभूतम् । अभिधेयेत्यादिकं व्याचष्टेअभिधेयमित्यादि । अत्राभिधेयालङ्कारोदीपकम्, जडत्वस्योभयत्रान्वयात् । तत्सामर्थ्यक्षिप्ता चोपमा । अभिधेयं च तत्सामर्थ्याक्षिप्तालङ्कारश्च तावेव तन्मात्रे इति च वृत्त्यर्थो बोध्यः । अलक्षणीयत्वशङ्काया व्यावर्तनीयतया तदनुरोधेन व्याचष्टेसुलक्षितमिति । मात्रग्रहणेनेति । अलङ्कारमात्रेत्यत्रत्यमात्रपदेनेत्यर्थः । आर्थ्यपि च प्रतिपत्तिस्यथाविदे विषये उभयार्थसम्बन्धयोग्यशब्दसामर्थ्यप्रसावितेति शब्दशक्तिमूला कल्प्यते । अविवक्षितवाच्यस्य तु ध्वनेः प्रसिद्धस्वविषयवैमुख्यप्रतीतिपूर्वकमेवार्थान्तरप्रकाशनमिति नियमभावी क्रमः । तत्राविवक्षितवाच्यत्वादेव वाच्येव सह व्यङ्ग्यस्य क्रमप्रतीतिविचारो न कृतः । तस्मादभिधानाभिधेयप्रतीत्योरिव
लोचनं
नन्वेवमार्थत्वं शब्दशक्तिमूलत्वं चेति विरुद्धमित्याशङ्क्याहआर्थ्यपीति । नात्र विरोधः कश्चिदिति भावः । एतच्च वितत्य पूर्वमेव निर्णीतमिति न पुनरुच्यते । स्वविषयेति । अन्धशब्दादेरुपहतचक्षुष्कादिः स्वो विषयः, तत्र यद्वैमुख्यमनादर इत्यर्थः । विचारो न कृत इति । नामधेयनिरूपणद्वारेणेति शेषः । सहभावस्य शङ्कितुमत्रायुक्तत्वादिति भावः । एवं रसादयः कैशिक्यादीनामितिवृत्तभागरूपाणां वृत्तीनां जीवितमुपनागरिकाद्यानां च सर्वस्यास्योभयस्यापि वृत्तिव्यवहारस्य रसादिनियन्त्रितविषयत्वादिति यत्प्रस्तुतं तत्प्रसङ्गेन रसादीनां वाच्यातिरिक्तत्वं समर्थयितुं क्रमो विचारित इत्येतदुपसंहरतितस्मादिति । अभिधानस्य
बालप्रिया
रसप्रतीतिरिति । रसस्य भावस्य वा प्रतीतिरित्यर्थः । तत्रापीति । उक्तशब्दशक्तिमूलस्थलेऽपीत्यर्थः । प्रातुमित्यादौ निर्वेदो व्यङ्ग्यः । नात्रेत्यादि । उभायर्थोत्यादिविशेषणस्य विद्यमानत्वान्न विरोध इत्यर्थः । एवं विवक्षितान्यपरवाच्ये व्यङ्ग्यव्यञ्जकयोः क्रमं प्रतिपाद्य सर्वत्रापि व्यङ्ग्यव्यञ्जकयोः क्रमोऽस्तीति दर्शयितुमाहवृत्तौ “अविवक्षिते"त्यादि । “निःश्वासान्ध” इत्यादिपूर्वोक्तोदाहरणनिष्ठतया स्वविषयवैमुख्यमित्येतद्व्याचष्टेअन्धशब्दादेरित्यादि । विषयः वाच्यार्थः । अनादर इति । वाच्यार्थस्य बाधितत्वात्परित्यागैत्यर्थः । वृत्तौ “अर्थान्तरे"ति । व्यङ्ग्येत्यर्थः । “क्रम” इति । वाच्यव्यङ्ग्यप्रतीत्योरिति शेषः । “तत्राविवक्षितवाच्यत्वादि"ति । अविवक्षितवाध्यध्वनिस्थले वाच्यस्याविवक्षतत्वादित्यर्थः । “क्रमे"ति । क्रमेण या प्रतीतिः तद्विचारः वाच्यार्थव्यङ्ग्यार्थप्रतीत्योःक्रमस्य विचार इत्यर्थः । न कृत इत्यत्र पूरयति लोचनेनामेत्यादि । भावमाहसहेत्यादि । अत्रेति । अविवक्षितवाच्यध्वनावित्यर्थः । ननु रसादेः वृत्तिजीवितत्वमुपक्रान्तं वाच्यव्यङ्ग्यप्रतीतिक्रमश्च तस्मादित्यादिना उपसंहृतः । तदिदमसङ्गमित्यतस्तद्भन्थमवतारयतिएवं रसादय इत्यादि । उपनागरकाद्यानां च वृत्तीनामिति सम्बन्धः । रसादीनामुभयविधवृत्तिजीवितत्वे हेतुमाहसर्वस्येत्यादिना । प्रस्तुतमुपक्रान्तं तत्प्रसङ्गेन विचारित इत्यन्वयः । इत्येतदिति । प्रसङ्गागतं क्रमविचारमित्यर्थः । वाच्यव्यङ्ग्यप्रतीती क्रमवत्यौ निमित्तनैमित्तिकत्वादभिधानाभिधयप्रतीतिवदिति वाच्यव्यङ्ग्यप्रतीत्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः । स तूक्तयुक्त्या क्वचिल्लक्ष्यते क्वचिन्न लक्ष्यते । तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कश्चिद्ब्रूयात्किमिदं व्यञ्जकत्वं नाम व्यङ्ग्यार्थप्रकाशनम्, न हि व्यञ्जकत्वं व्यङ्ग्यत्वं चार्थस्य व्यञ्जकसिद्य्धधीनं व्यङ्ग्यत्वम्, व्यङ्ग्यापेक्षया च व्यञ्जकत्वासिद्धिरित्यन्योन्यसंश्रयादव्यवस्थानम् । ननु वाच्यव्यतिरिक्तस्य व्यङ्ग्यस्य
लोचनं
शब्दरूपस्य पूर्वं प्रतीतिस्ततोऽभिधेयस्य । यदाह तत्र भवान् “विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते” इत्यादि । अतोऽनिर्ज्ञातरूपत्वात्किमाहेत्यभिधीयते” इत्यत्रापि चाविनाभाववत्समयस्याभ्यस्तत्वात्क्रमो न लक्ष्येतापि । उद्योतारम्भे यदुक्तं व्यञ्जनमुखेन ध्वनेः स्वरूपं प्रतिपाद्यत इति तदिदानीमुपसंहरन्व्यञ्जकभावं प्रथमोद्योते समर्थितमपि शिष्याणामेकप्रघट्टकेन हृदि निवेशयितुं पूर्वपक्षमाहतदेवमिति । कश्चिदिति । मीमांसकादिः । किमिदमिति । वक्ष्यमाणश्चोदकस्याभिप्रायः ।
बालप्रिया
वृत्त्युक्तानुमाने दृष्टान्तस्य साधनवैकल्यशङ्कां परिहर्तुं व्याचष्टेअभिधानस्येत्यादि । यदाहेति । यस्मादाहेत्यर्थः । विषयत्वमित्यादि । विषयत्वं श्रावणादिज्ञानविषयत्वम् । अनापन्नैः अज्ञातैरित्यर्थः । न प्रकाश्यते किन्तु ज्ञातैरेवेत्यर्थः । इत्यादीत्यादिपदेन सूचितेषु किञ्चित्पद्यार्द्धमपि दर्शयतिअत इत्यादि । अत इति । यतो निर्ज्ञातस्यैवार्थबोधकत्वं तत इत्यर्थः । अनिर्ज्ञातरूपत्वादिति । श्रोत्रा सम्यगश्रवणे शब्दस्यानिश्चितस्वरूपत्वादित्यर्थः । किमाहेत्यभिधीयत इति । भवान् किं वक्तीति पृच्छ्यते इत्यर्थः । शब्दस्य तदर्शस्य च जिज्ञासयेति भावः । प्रसङ्गादाहअत्रापीत्यादि । अत्रापि अभिधानाभिधेयप्रतीत्योरपि । अविनाभाववदविनाभावस्येव । समयस्य तत्तदर्थे तत्तत्पदसङ्केतस्य । न लक्ष्येतापि क्वचिदलक्ष्योऽपि भवति । “तदेव “मित्यादि “निरूपितेष्वि"त्यन्तमनुपयोगि, कश्चिदित्यादिना व्यञ्जकत्वनिरूपणं पुनरुक्तं चेत्यतस्तत्फलं दर्शयन्नवतारयतिउद्योतारम्भ इत्यादिना । प्रघट्टकेन प्रकरणेन । किमिदमित्यत्र किंशब्दः आक्षेपे प्रश्ने वा, तत्र हेतुर्नोक्त इत्यत आहवक्ष्यमाण इति । अन्योन्याश्रयादव्यवस्थानमिति वक्ष्यमाण इत्यर्थः । चोदकस्य चोद्यवादिनः । वृत्तौ “व्यङ्ग्याथप्रकाशन “मिति । व्यङ्ग्यार्थप्रतीत्यनुकूलसामर्थ्यमित्यर्थः । अस्यानन्तरं चेदिति शेषः । निषेधति “न ही"त्यादि । शब्दस्येति शेषः । शब्दस्य सिद्धिः प्रागेव प्रतिपादिता तत्सद्य्धधीना च व्यञ्जकसिद्धिरिति कः पर्यनुयोगावसरः । सत्यमेवैतत् - प्रागुक्तयुक्तिभिर्वाच्यव्यतिरिक्तस्य वस्तुनः सिद्धिः कृता, स त्वर्थो व्यङ्ग्यतयैव कस्माद्व्यपदिश्यते । यत्र च प्राधान्येनानवस्थानं
लोचनं
प्रागेवेति । प्रथमोद्योते अभाववादनिराकरणे । अतश्च न व्यञ्जकसिध्या तत्सिद्धिर्येनान्योन्याश्रयः शङ्क्येत, अपि तु हेत्वन्तरैस्तस्य साधितत्वादिति भावः । तदाहतत्सिद्धीति । स त्विति । अस्त्वसौ द्वितीयोऽर्थः, तस्य यदि व्यङ्य इति नाम कृतम्, वाच्य इत्यपि कस्मान्न क्रियते? व्यङ्ग्य इति वा वाच्याभिमतस्यापि कस्मान्न क्रियते? अवगम्यमानत्वेन हि शब्दार्थत्वं तदेव वाचकत्वम् । अभिधा
बालप्रिया
व्यञ्जकत्वमर्थस्य व्यङ्ग्यत्वं च “न हि “स्वतो न भवति हि । हीति । प्रसिद्धौ । अत इति शेषः । अतः परिशेषादित्यर्थः । व्यङ्ग्यत्वं व्यञ्जकसिद्ध्यधीनं व्यङ्ग्यापेक्षया व्यञ्जकत्वसिद्धिश्च । “इती"ति । इत्यतो हेतोरित्यर्थः । “अव्यवस्थानं, न व्यवस्थितिः । यद्वान हीत्यस्य पूर्वेण सम्बन्धः । व्यञ्जकत्वं शब्दस्यैवेति सूचयतुं व्यङ्ग्यत्वं चार्थस्येत्युक्तम् । तथा च यतोऽर्थस्य व्यङ्ग्यत्वमतो व्यञ्जकत्वं शब्दस्यैव तच्च व्यङ्ग्यार्थप्रकाशनं न हीति सम्बन्धः । अत्र हेतुमाह “व्यञ्जकत्वे"त्यादि । व्यञ्जकत्वसिद्ध्यधीनमित्यस्यानन्तरं व्यङ्ग्यत्वमिति पाठाभावे त्वेवं योजनाव्यञ्जकत्वं व्यङ्ग्यार्थप्रकाशनं न हि । कुत इत्यत्राह “व्यङ्ग्यत्वम्” इत्यादिति । “नन्वि"त्यादि सिद्धान्तिनः समाधानग्रन्थः । विस्मरणमाशङ्क्य तत्रत्यं प्रागिति पदं व्याचष्टे लोचनेप्रथमेत्यादि । फलितमाहअतश्चेत्यादि । चकारोऽवधारणे अत इत्यनेन परामृष्टं हेतुमाहहेत्वन्तरैरिति । तदाहेति । तस्मादाहेत्यर्थः । वृत्तौ “तत्सिद्ध्यधीने"ति । व्यङ्ग्यसिध्यधीनेत्यर्थः । “सत्यम्” इत्यादिना सिद्धान्त्युक्तमनूद्य पूर्वपक्षी “स त्वि"त्यादिना दूषणमभिहितवांस्तं ग्रन्थं व्याचष्टेअस्त्वसावित्यादिना । स त्वर्थ इत्यस्य व्याख्यानमसौ द्वितीयोऽर्थ इति । व्यङ्ग्यतयैवेत्येवकारं द्विधा योजयनू व्याचष्टेतस्येत्यादिना । न क्रियत इति । अतश्च नियमार्थं व्यङ्ग्यशब्दप्रवृत्तिनिमित्तं वक्तव्यं, तथाचान्योन्याश्रय एव पर्यवस्येदिति भावः । यत्र चेत्यादिना व्यङ्ग्यत्वविशिष्टार्थस्याभिमतस्यासिद्धिरूपं दूषणान्तरमुच्यते तद्भन्थमवतारयतिअवगम्यमानत्वेनेत्यादिना । अवगम्यमानत्वेन शब्दावगम्यमानत्वेन । शब्दार्थत्वमिति । तथा च शब्दावगम्यत्वं वाच्यत्वमित्यर्थः । तदेवेति । यदेवार्थगतावगम्यत्वप्रतियोगि तदेवेत्यर्थः । अर्थावगमकत्वमेवेति यावत् । अस्त्वेवं ततः किमत आहअभिधा हीत्यादि । अभिधा वाचकत्वान्तर्गता वचनलक्षणा । यत्पर्यन्तेति । योऽर्थः पर्यन्तो यस्याः तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः, तत्परत्वाद्वाक्यस्य । अतश्च तत्प्रकाशिनो वाक्यस्य वाचकत्वमेव व्यापारः । किं तस्य व्यापारान्तरकल्पनया? तस्मात्तात्पर्यविषयो योऽर्थः स तावन्मुख्यतया वाच्यः । या त्वन्तरा तथाविधे विषये वाच्यान्तरप्रतीतिः सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेः ।
लोचनं
हि यत्पर्यन्ता तत्रैवाभिधायकत्वमुचितम्, तत्पर्यन्तता च प्रधानीभूते तस्मिन्नर्थ इति मूर्धाभिषिक्तं ध्वनेर्यद्रूपं निरूपितं, तत्रैवाभिधाव्यापारेण भवितुं युक्तम् । तदाहयत्र चेति । तत्प्रकाशिन इति । तद्व्यङ्ग्याभिमतं प्रकाशयत्यवश्यं यद्वाक्यं तस्येति । उपायमात्रमित्यनेन साधारण्योक्त्या भाट्टं प्राभाकरं वैयाकरणं च पूर्वपक्षं सूचयति । भाट्टमते हि वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥
बालप्रिया
सेत्यर्थः । तत्रैव पर्यन्तीभूततदर्थ एव । नन्वस्तु पर्यन्तीभूतार्थं प्रति वाचकत्वं, ततः किमत आहतत्पर्यन्तत्यादि । तत्पर्यन्तता तामभिधां प्रति पर्यन्तता अवधिता तात्पर्यविषयतेति यावत् । तस्मिन्निति । व्यङ्ग्यभूते त्वदभिलषित इत्यर्थः । उक्तस्य दूषणात्व प्रकटयन् फलितमाहैतीत्यादि । इतीति हेतौ । मूर्धाभिषिक्तं प्रधानं रसादिलक्षणम् । रूवं स्वरूपम् । तत्रैवेति । एवकारोऽभिधाव्यापारेणेत्यनेन सम्बन्धाति । भवितुं युक्तमिति । अतो व्यञ्जकत्वं नाममात्रमिति भावः । वृत्तौ “यत्र चे"त्यादि । यत्र काव्यादौ । “प्राधान्येनावस्थान “मिति । तात्पर्यविषयतया अर्थस्यावस्थानमित्यर्थः । “तत्र” काव्यादौ । “असौ” प्राधान्येनावस्थितोऽर्थः । लोचनेतदित्यादि । अवश्यमिति । अन्यथा काव्यचारुत्वं न सिध्येदिति भावः । इत्यनेन साधारणयोक्त्येति । सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेरिति मतत्रयसाधारणवचनेनेत्यर्थः । तन्मतत्रयं क्रमेणोपन्यस्यतिभाट्टमते हीत्यादि । वाक्यार्थमितये इत्यादि । तेषां पदानां वाक्यजननद्वारेण वाक्यार्थमितये एव प्रवृत्तिः, तस्यां सत्यां स्वार्थप्रतिपादनं नान्तरीयकमविनाभावबलादायातम् । यथान्नपाकार्थं अत्रोच्यतेयत्र शब्दः स्वार्थमभिदधानोऽर्थान्तरमवगमयति तत्र यत्तस्य स्वार्थाभिधायित्वं यच्च तदर्थान्तरावगमहेतुत्वं तयोरविशेषो विशेषो वा । न तावदविशेषः - यस्मात्तौ द्वौ व्यापारौ भिन्नविषयौ भिन्नरूपौ च प्रतीयेते एव । तथाहि वाचकत्वलक्षणो व्यापारः शब्दस्य स्वार्थविषयः गमकत्वलक्षणस्त्वर्थान्तरविषयः । लोचनमिति शब्दावगतैः पदार्थैस्तात्पर्येण योऽर्थ उत्थाप्यते स एव वाक्यार्थः, स एव च वाच्य इति । प्राभाकरदर्शनेऽपि दीर्घदीर्धो व्यापारो निमित्तिनि वाक्यार्थे, पदार्थानां तु निमित्तभावः पारमार्थिक एव । वैयाकरणानां तु सोऽपारमार्थिक इति विशेषः । एतच्चास्माभिः प्रथमोद्द्योत एव वितत्य निर्णीतमिति न पुनरायस्यते ग्रन्थयोजनैव तु क्रियते । तदेतन्मत्रयं पूर्वपक्षे योज्यम् । अत्रेति पूर्वपक्षे । उच्यत इति सिद्धान्तः । वाचकत्वं गमकत्वं चेति स्वरूपतो भेदः स्वार्थेऽर्थान्तरे च क्रमेणेति विषयतः । ननु तस्माच्चदसौ गम्यतेऽर्थः कथं तर्ह्युच्यतेऽर्थान्तरमिति । नो चेत्स तस्य न कश्चिदिति को विषयार्थं
बालप्रिया
प्रवृत्तानां काष्ठानां ज्वलनम् । अतः पदानां वाक्यार्थमितिपर्यन्त एवाभिधाव्यापारो यथा काष्ठव्यापारः पाकान्त इत्यर्थः । इतीति । इत्युक्तनयेनेत्यर्थः । शब्दावगतैरत । वाक्यगतपदावगतैरत्यर्थः । स एवेति । एवकारेण पदार्थव्यावृत्तिः पदार्थप्रतीतेरुपायमात्रत्वेन तस्यातात्पर्यविषयत्वात् । व्यापार इति । वाक्यात्मकपदानामिति शेषः । निमित्तिनीति । नैमित्तिके कार्यरूपे इत्यर्थः । वाक्यार्थस्य नैमित्तिकत्वोक्त्यैव पदार्थानां निमित्तत्वे सिद्धेऽपि वैयाकरणमताद्विशेषं दर्शयितुमाहपदार्थानान्त्विति । उत्पत्त्यपेक्ष्या पदार्थवाक्यार्थयोर्निमित्तनिमित्तिभावोक्तिः, प्रतीतिस्तु प्रथमं वाक्यार्थस्य प्राभाकरमते कार्यान्विताभिधानादिति बोध्यम् । सोऽपारमार्थिक इति । अविद्यात्मकत्वादपारमार्थिक इत्यर्थः । सङ्क्षिप्य मतत्रयोपन्या सस्य फलमाहतदेतदिदि । योज्यमिति । अन्यथा निर्मूलत्वप्रसङ्गादिति भावः । “उच्यते” इत्यत्र पूरयतिसिद्धान्त इति । यत्रेत्यादिवृत्तिग्रन्थेनाभिहितौ स्वरूपविषयभेदौ स्फुटयतिवाचकत्वमित्यादि । विषयत इति । भेद इत्यनुषज्यते । समयापेक्षत्वात्स्वार्थे अभिधा तदनपेक्षत्वादन्यत्रार्थे अवगमनव्यापार इति भावः । “न च स्वपरे"त्यादिग्रन्थमवतारयतिनन्वित्यादि । तस्मादिति । यस्मादभिधेयस्यार्थस्य प्रतीतिः तस्माच्छब्दादित्यर्थः । असौ व्यङ्ग्यत्वेनाभिमतः । ननु न गम्यते तस्माच्छब्दात्किन्तु तत्सम्बन्धिवशादित्यत आहनो चेदित्यादि । सः सशब्दः । न च स्वपरव्यवहारो वाच्यव्यङ्ग्ययोरपह्णोतुं शक्यः, एकस्य सम्बन्धित्वेन प्रतीतेरपरस्य सम्बन्धिसम्बन्धित्वेन । वाच्योह्यर्थः साक्षाच्छब्दस्य सम्बन्धी तदितरस्त्वभिधेयसामर्थ्याक्षिप्तः सम्बन्धिसम्बन्धी । यदि च स्वसम्बन्धित्वं साक्षात्तस्य स्यात्तदार्थान्तररत्वव्यवहार एव न स्यात् । तस्माद्विषयभेदस्तावत्तयोर्व्यापारयोः सुप्रसिद्धः । रूपभेदोऽपि प्रसिद्ध एव । न हि यैवाबिधानशक्तिः सैवावगमनशक्तिः । अवाचकस्यापि गीतशब्दादे रसादिलक्षणार्थावगमदर्शनात् । अशब्दस्यापि चेष्टादेरर्थविशेषप्रकाशनप्रसिद्धेः । तथाहि “व्रीडायोगान्नतवदनया” लोचनमित्याशङ्क्याहन चेति । न स्यादिति । एवकारो भिन्नक्रमः, नैव स्यादित्यर्थः । यावता न साक्षात्सम्बन्धित्वं तेन युक्त एवार्थान्तरव्यवहार इति विषयभेद उक्तः । ननु भिन्नेऽपि विषये अक्षशब्दादेर्बह्वर्थस्य एक एवाभिधालक्षणो व्यापार इत्याशङ्क्य रूपभेदमुपपादयतिरूपभेदोऽपीति । प्रसिद्धिमेव दर्शयतिन हीति । विप्रतिपन्नं प्रति हेतुमाहआवचकस्यापीति । यदेव वाचकत्वं तदेव गमकत्वं यदि स्यादवाचकस्य गमकत्वमपि न स्यात्, गमकत्वे नैव वाचकत्वमपि न स्यात् । न चैतदुभयमपि गीतशब्दे शब्दव्यतिरिक्ते चाधोवक्त्रत्वकुचकम्पनबाष्पावेशादौ
बालप्रिया
तस्य अर्थान्तरस्य । न कश्चिदिति । गमकोऽभिधायकश्च कश्चिन्नेत्यर्थः । ततः किमित्यत आहैतीत्यादि । विषयार्थः विषरूपोऽर्थः । यद्वाविषयशब्दस्यार्थः । क इति । अर्थान्तरं शब्दस्य विषयो न भवेदित्यर्थः । इत्याशङ्क्याहेति । न चेत्यादिना न स्यादित्यन्तेनाहेत्यर्थः । एवकार इति । व्यवहार एवेत्येवकार इत्यर्थः । भावं विवृणोतियावतेत्यादि । यावता येन हेतुना । ननु भिन्नविषयत्वसमर्थनेनैवेष्टसिद्धौ रूपभेदसमर्थनं किमर्थमित्यतस्तद्व्रन्थमवतारयतनन्वित्यादि । अक्षशब्दादेरित्यादिपदेन हर्यादशब्दो गृह्यते । बह्वर्थस्येति । इन्द्रियाद्यनेकार्थकस्येत्यर्थः । एक एवेति । आवृत्त्यपेक्षत्वेऽपि तत्र तत्रार्थे अभिधैव व्यापार इति भावः । स्वरूपभेदे प्रसिद्धिं हेतुमुक्त्वा पुनर्हेत्वन्तरोक्तौ बीजं दर्शयतिविप्रतिपन्नं प्रतीति । विप्रतिपन्नं वाचकत्वमेव गमकत्वं नान्यदनुभूयत इति वदन्तम् । भावं व्याचष्टेयदेवेत्यादिना । न स्यादित्यत्र हेतुमाहगमकत्व इत्यादि । गमकत्वे सति वाचकत्वमपि नैव न स्यादिति योजना । स्यादेवेत्यर्थः । यत इति शेषः । न चेति । इत्यादिश्लोके चेष्टाविशेषः सुकविनार्थप्रकाशनहेतुः प्रदर्शित एव । तस्माद्भिन्नविषयत्वाद्भिन्नरूपत्वाच्च स्वार्थाभिधायित्वमर्थान्तरावगमहेतुत्वं च शब्दस्य यत्तयोः स्पष्ट एव भेदः । विशेषश्चेन्न तर्हिदानीमवगमनस्या भिधेयसामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्वव्यपदेश्यता । शब्दव्यापारगोचरत्वं तु तस्यास्माभिरिष्यत एव, तत्तु व्यङ्ग्यत्वेनैव न वाच्यत्वेन । प्रसिद्धाभिधानान्तरसम्बन्धयोग्यत्वेन
लोचनं
तस्यावाचकस्याप्यवगमकारित्वदर्शंनादवगमकारिणोऽप्यवाचकत्वेन प्रसिद्धत्वादिति तात्पर्यम् । एतदुपसंहरतितस्माद्भिन्नेति । न तर्हीति । वाच्यत्वं ह्यभिधाव्यापारविषयता न तु व्यापारमात्रविषयता, तथात्वे तु सिद्धसाधनमित्येतदाहशब्दव्यापारेति । ननु गीतादौ मा भूद्वाचकत्वमिह त्वर्थान्तरेऽप शब्दस्य वाचकत्वमेवोच्यते, किं हि तद्वाचकत्वं सङ्कोच्यत इत्याशङ्क्याहप्रसिद्धेति । शब्दान्तरेण तस्यार्थान्तरस्य
बालप्रिया
एतदुभयं वाचकत्वगमकत्वोभयम् । गीतशब्दे बाष्पावेशादौ च नास्तीत्यन्वयः, किन्तु अवगमकत्वमेवास्तीति भावः । अधोवक्त्रत्वेत्यादिना व्रीडायोगादिति श्लोकप्रतिपादितार्था दर्शिताः । कुत इत्यत्राहतस्येत्यादि । तस्य गीतशब्दादेः । इति तात्पर्यमिति । अवाचकस्येत्यादेः प्रदर्शित एवेत्यन्तवृत्तिग्रन्थस्य तात्पर्यमित्यर्थः । एतदिति । वाचकत्वव्यञ्जकत्वयोर्भेदसमर्थनेन अविशेषपक्षनिराकरणामित्यर्थः । वृत्तौ “विशेषश्चेऽदिति । तयोरित्यनुषङ्गः । “अवगमनस्ये"ति । अवगमनव्यापारसम्बन्धि यदर्थान्तरमिति सम्बन्धः । अवगमनीयस्येति च पाठः । अवगमनसम्बन्धित्वे हेतुमाह “अभिधेये"त्यादि । न वाच्यत्वव्यपदेश्यतेत्युक्तं विवृणोतिवाच्यत्वं ह्यभिधाव्यापारविषयतेति । साक्षात्तद्विषयतेत्यर्थः । व्यापारमात्रेति । व्यापारसामान्येत्यर्थः । तथात्व इति व्यापारमात्रगोचरत्वे सतीत्यर्थः । सिद्धसाधनमिति । तस्यार्थस्य । व्यञ्जनाव्यापारविषयताया अस्मन्मतसिद्धायास्साधनात्सिद्धसाधनं नाम दोष इत्यर्थः । “प्रसिद्धे"त्यादिग्रन्थं शङ्केत्तरत्वेनावतारयतिनन्वित्यादि । माभूद्वाचकत्वमिति । वाच्यस्याभावादिति भावः । इह तु शब्दस्येति सम्बन्धः । इह काव्ये । तु शब्दो विशेषे । शब्दस्य वाचकस्य । अर्थान्तरे व्यङ्यत्वेनाभिमते । अपीति समुच्चये । किं हीत्यादि । अर्थान्तरत्वस्य न तत्सङ्कोचकत्वमिति भावः । अन्वयं प्रदर्शयन् प्रकाशनोक्तिरेव युक्तेत्येवकारार्थं व्याचष्टेशब्दान्तरेणेत्यादि । शब्दान्तरेण “गङ्गायां घोष” इत्यादौ गङ्गादिशब्देन । तस्यार्थान्तरस्य शैत्यपावनत्वादेः । तत्र च तस्यार्थान्तरस्य प्रतीतेः शब्दान्तरेण स्वार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता । न च पदार्थवाक्यार्थन्यायो वाच्यव्यङ्ग्योः । यतः पदार्थप्रतीतिरसत्यैवेति
लोचनं
यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता न वाचकत्वोक्तिः शब्दस्य, नापि वाच्यत्वोक्तिरर्थस्य तत्र युक्ता, वाचकत्वं हि समयवशादव्यवधानेन प्रतिपादकत्वं, यथा तस्यैव शब्दस्य स्वार्थे - तदाहस्वार्थाभिधायिनेति । वाच्यत्वं हि समयबलेन निर्व्यवधानं प्रतिपाद्यत्वं यथा तस्यैवार्थस्य शब्दान्तरं प्रति पदाहप्रसिद्धेति । प्रसिद्धेन वाचकतयाभिधानान्तरेण यः सम्बन्धो वाच्यत्वं तदेव तत्र वा यद्योग्यत्वं तेनोपलक्षितस्य । न चैवविधं वाचकत्वमर्थं प्रति शब्दस्येहास्ति, नापि तं शब्दं प्रति तस्यार्थस्योक्तरूपं वाच्यत्वम् । यदि नास्ति तर्हि कथं तस्य विषयीकरणमुक्तमित्याशङ्क्याहप्रतीतेरिति । अथ च प्रतीयते सोऽर्थो न च वाच्यवाचकत्वव्यापारेमेति विलक्षण एवासौ व्यापार इति यावत् । नन्वेवं मा भूद्वाचकशक्तिस्तथापि तात्पर्यशक्तिर्भविष्यतीत्याशङ्क्याहन चेति ।
बालप्रिया
तस्मिन्नर्थे । प्रकाशनोक्तिः अवगमकत्वेक्तिः । शब्दस्य गङ्गादिशब्दस्य । न वाचकत्वोक्तिर्युक्तेत्यत्र हेतुत्वेन स्वार्थाभिधायिनेति पदं वाचकत्वनिर्वचनपूर्वकमवतारयतिवाचकत्वं हीत्यादि । तस्यैव शब्दस्य गङ्गादिशब्दस्य । स्वार्थे प्रवाहादौ । तदाह तदभिप्रायेणाह । न वाच्यत्वोक्तिर्युक्तेत्यत्र हेतुत्वेन प्रसिद्धेत्यादिग्रन्थं वाच्यत्वलक्षणोक्तिपुरस्सरभवतारयतिवाच्यत्वं हीत्यादि । अर्थस्य शैत्यपावनत्वादेः । शब्दान्तरं शैत्यपावनत्वादिशब्दम् । प्रकृतानुगुणं व्याचष्टेप्रसिद्धेनेत्यादि । वाचकतयेति पूरितम् । अभिधानान्तरेण शब्दान्तरेण शैत्यपावनत्वादिशब्देन । तत्र वेति । तत्र वाच्यत्वे तन्निरूपितमित्यर्थः । योग्यत्वमर्हत्वम् । तेनोपलक्षितस्येत्यर्थान्तरस्येत्यस्य विशेषणं योग्यत्वेनेत्युपलक्षणे तृतीयेति भावः । निगमयतिन चैवमित्यादि । अर्थं शैत्यपावनत्वाद्यर्थम् । शब्दस्य गङ्गादिशब्दस्य । योग्यत्वेनेत्युपलक्षणे तृतीयेति व्याख्यानात्प्रतीतेरत्यनेन तदन्वयस्य निरस्तत्वात्तत्पदमवतारयतियदीत्यादि । यदि नास्तीन्यनेन न चैवंविधमित्याद्युक्तस्यानुवादः । तस्य शैत्यपावनत्वाद्यर्थस्य । विषयीकरणमिति । गङ्गादिशब्देनेति शेषः । अथ चेति वृत्तिस्थचकारार्थविवरणम् । सोऽर्थः शैत्यपावनत्वाद्यर्थः । व्यापारेणेत्यनन्तरं किन्तु व्यापारान्तरेणेति शेषः । तथा च फलितमाहैतीत्यादि । प्रकृतसन्दर्भानुगुणमवतारयतिनन्वित्यादि । तात्पर्यशक्तिर्भविष्यतीति । कैश्चिद्विद्वद्भिरास्थितम् । यैरप्यसत्यत्वमस्या नाभ्युपेयते तैर्वाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायोऽभ्युपगन्तव्यः । यथाहि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् । न त्वेष वाच्यव्यङ्ग्ययोर्न्यायः, न हि व्यङ्ग्ये प्रतीयमाने वाच्यबुद्धिर्दूरीभवति,
लोचनं
कैश्चिदिति वैयाकरणैः. यैरपीति । भट्टप्रभृतिभिः । तमेव न्यायं व्याचष्टेयथाहीति । तदुपादानकारणानामिति । समवायिकारणानि कपालानि अनयोक्त्या निरूपितानि । सौगतकापिलमते तु यद्यप्युपादातव्य घटकाले उपादानानां न सत्ता एकत्र क्षणक्षयित्वेन परत्र तिरोभूतत्वेन तथापि पृथक्तया नास्त्युपलम्भ इतीयत्यंशे दृष्टन्तः । दूरीभवेदिति । अरथैकत्वस्याभावादिति भावः ।
बालप्रिया
अर्थान्तर इति शेषः । अर्थान्तरप्रतीत्यनुकूला वाक्यस्य या शक्तिस्सा तात्पर्यशक्तिरेव न त्वदभिमतेति भावः । वृत्तौ “न चे"त्यादि । यथा पदार्थे प्रतीते तात्पर्यशक्त्या वाक्यार्थो गम्यते, तथा वाक्यार्थे प्रतीतेऽर्थान्तरञ्चेति न युक्तमित्यर्थः । अर्थान्तरं तात्पर्यशक्तिगम्यं पदसमुदायगम्यत्वात्, वाक्यार्थवदित्यनुमानमत्र शङ्कितुरभिप्रेतम् । न चेत्यत्र हेतुमाह “यत” इत्यादि । अनेन दृष्टान्तवैषम्यादिति हेतुर्दर्शितः । “असत्यैवे"ति । स्फोटरूपवाक्यार्थस्यैव सत्यत्वादिति भावः । लोचनेभट्टप्रभृतिभिरिति । प्रभृतिपदेन नैयायिकादीनां ग्रहणम् । समवायीति । उत्पद्यमानं वस्तु यत्र समवैत तत्समवायकारणम् । कपालानि शकलानि । अनयोक्त्या उपादानकरणशब्देन । निरूपितानि दर्शितानि । ननु यैरपीति सामान्येनोक्तिर्नं घटते सौतगकापिलमतयोरुपादेयकाले उपादानाभावादिति शङ्कतेसौगतेत्यादि । न सत्तेत्यत्र हेतुमाहएकत्रेत्यादि । एकत्र सौगतमते । क्षणोति । उपादानानामित्यनुषज्यते । यत्सत्तत्क्षणिकमिति हि तन्मतम् । अपरत्र कापिलमते । पिरोभूतत्वेन उपादानानां तिरोभावेन । समाधत्तेतथापीत्यादि । वृत्तौ “वाक्य” इत्यादि । यद्यपि पदार्थवाक्यार्थयोरेव प्रकृतत्वं, तथापि पदवाक्यग्रहणं दृष्टान्तार्थम् । “पदतदर्थाना “मिति । न पृथगुपलम्भ इत्यनुषङ्गः । वाक्ये प्रतीते तस्मात्पदानां वाक्यार्थे प्रतीते तस्मात्पदार्थनाञ्च पृथक्तया उपलम्भो नास्तीत्यर्थः । पृथगुपलम्भे दोषं दर्शयति “तेषाम्” इत्यादि । “तेषां” पदतदर्थानाम । “तदा” तत्प्रतीतिकाले । “विभक्ततया” वाक्याद्वाक्यार्थाच्च विभागेन । “दूरीभवेदि"ति । पदार्थप्रतीतेर्दूरे भवेदित्यर्थः । अत्र गम्यं हेतुं दर्शयति लोचनेअर्थैकत्वस्याभावादिति पदार्थवाक्यार्थप्रतीत्योः वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद्घटप्रदीपन्यायस्तयोः, यथैव हि प्रदीपद्वारेम घटप्रतीतावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वद्य्वङ्ग्यप्रतीतौ वाच्यावभासः । यत्तु प्रथमोद्द्योतेऽयथा पदार्थद्वारेण” इत्याद्युक्तं तदुपायत्वमात्रात्साम्यविवक्षया । नन्वेवं युगपदर्थद्वययोगित्वं वाक्यस्य प्राप्तं तद्भावे च तस्य वाक्यतैव विघटते, तस्या एकार्थ्यलक्षणत्वात् - नैष दोषः - गुणप्रधानभावेन तर्योर्व्यवस्थानात् । व्यङ्ग्यस्य हि क्वचित्प्राधान्यं वाच्यस्योपसर्जनभावः लोचनमेवं पदार्थवाक्यार्थन्यायं तात्पर्यशक्तिसाधकं प्रकृते विषये निराकृत्याभिमतां प्रकाशशक्ति साधयितुं तदुचितं प्रदीपघटन्यायं प्रकृते योजयन्नाहतस्मादिति । यतोऽसौ पदार्थवाक्याथन्यायो नेह युक्तस्तस्मात्प्रकृतं न्यायं व्याकरमपूर्वकं दार्ष्टान्तिके योजयतियथैव हीति । ननु पूर्वमुक्तं यथा पदार्थद्वारेण वाक्यार्थः स प्रतीयते । वाक्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ॥ इति तत्कथं स एव न्याय इह यत्नेन निराकृत इत्याशङ्क्याहयत्त्विति । तदिति । न तु सर्वता साम्येनेत्यर्थः । एवमिति । प्रदीपघटवद्युगपदुभयावभासप्रकारेणेत्यर्थः । तस्या इति वाक्यतायाः । एकार्थ्यलक्षणमर्थैकत्वाद्धि वाक्यमेकमित्युक्तम् । सकृत्
बालप्रिया
प्रयोजनैक्यस्याभावादित्यर्थः । दूरीभावश्च नेषृ इत्यतस्तयोः पृथगुपलम्भोनाभ्युपेय इति भावः । प्रकृते विशेषमाह “न त्वेष” इत्यादि । कुत इत्यत आह “न ही"त्यादि । न हि दूरीभवतीति शम्बन्धः । अत्र हेतुमाह “वाच्ये"त्यादि । वाच्येन सह व्यङ्यस्य पृथक्प्रतीतेरित्यर्थः । लोचनेऽतस्मादि"त्यादिग्रन्थमवतारयतिएवमित्यादि । प्रकृतन्यायं घटप्रदीपन्यायम् । व्याकरणपूर्वकं विवरणपूर्वकम् । तदुपायत्वमात्रात्साम्येत्यत्रत्यमात्रपदव्यावर्त्य दर्शयतिन त्वित्यादि । ऐकार्थ्यलक्षणमिति । एकः अर्थो यस्य तस्य भावः ऐकार्थ्यम् । अस्य लक्षणत्वे प्रमाणमाहअर्थैकत्वादिति । नन्वेकार्थत्वं न लक्षणं श्लेषालङ्कारविषयस्यानेकार्थस्यापि वाक्यत्वादिति शङ्कामभिप्रायप्रदर्शनेन परिहरतिसकृदित्यादि । यत्रैव यदर्थ क्वचिद्वाच्यस्य प्राधान्यमपरस्य गुणभावः । तत्र व्यङ्ग्यप्राधान्ये ध्वनिरित्युक्तमेव - वाच्यप्राधान्ये तु प्रकारान्तरं निर्देक्ष्यते । तस्मात्स्थितमेतत्व्यङ्ग्यपरत्वेऽपि काव्यस्य न व्यङ्ग्यस्याविदेयत्वमपि तु व्यङ्ग्यत्वमेव । किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद्भवद्भिर्नाभ्युपगन्तव्यमतत्परत्वाच्छब्दस्य । तदस्ति तावद्य्वङ्ग्यः शब्दानां कश्चिद्विषय इति । यत्रापि तस्य प्राधान्यं तत्रापि किमिति तस्य स्वरूपमपह्नूयते ।
लोचनं
श्रुतो हि शब्दो यत्रैव समयस्मृतिं करोति स चेदनेनैवागमितः तद्विरम्यव्यापाराभावात्समयस्मरणानां बहूनां युगपदयोगात्कोऽर्थभेदस्यावसरः । पुनः श्रुतस्तु स्मृतो वापि नासाविति भावः । तयोरिति वाच्यव्यङ्ग्ययोः । तत्रेति । उभयोः प्रकारयोर्मध्याद्यदा प्रथमः प्रकार इत्यर्थः । प्रकारान्तरमिति । गुणीभूतव्यङ्ग्यसञ्ज्ञितम् । व्यङ्ग्यत्वमेवेति प्रकाश्यत्वमेवेत्यर्थः । ननु यत्परः शब्दः स शब्दार्थ इति व्यङ्ग्यस्य प्राघान्ये वाच्यत्वमेव न्याय्यम्, तर्ह्यप्राधान्ये किं युक्तं व्यङ्ग्यत्वमिति चेत्सिद्धो नः पक्षः, एतदाहकिञ्चेति । ननु प्राधान्ये मा भूद्व्यङ्ग्यत्वमित्याशङ्क्याहयत्रापीति । अर्थान्तरत्वं सम्बन्धिसम्बन्धित्वमनुपयुक्तसमयत्वमिति
बालप्रिया
एव । समयस्मृतिं सङ्केतस्मरणम् । करोति उद्बोधकत्वाज्जनयति । सः सोऽर्थः । अनेनैव सकृच्छ्रतेन शब्देनैव । अवगमितश्चेत्प्रकरणादिसहकारेम बोधितो यदि । तत्तर्हि कोऽर्थभेदस्यावसर इत्यनेनास्य सम्बन्धः । ननु समयस्मरणञ्चेदर्थावगमे कारणं, तर्हि तान्यपि बहूनि भवन्तित्याशङ्कायां तानि क्रमेण युगपद्वेति विकल्पाद्यं निराकरोतिविरम्यव्यापाराभावादिति । द्वितीयं निराकरोतिसमयेत्यादि । ननु श्लेषविषये वह्वर्थत्वं दृश्यत इत्यत आहपुनरित्यादि । श्रुतस्तु स्मृतो वापीत्युभयत्र शब्द इति शेषः । यद्वा श्रुतः अनुसंहितः शब्द इति शेषः । स्मृतः अर्थ इति शेषः । नासाविति । पूर्वः शब्दोऽर्थो वा नेत्यर्थः । तथाच श्लेषस्थले आवृत्या बोधाद्वाक्यतदर्थो भिन्नौ पयोरेकत्वञ्चौपचारिकमिति भावः । वृत्तौ “नैष दोष” इति । न वाक्यभेदरूपदोष इत्यर्थः । “गुणे"ति । तथाच वाच्योपसर्जनको व्यङ्ग्यो व्यङ्ग्योपसर्जनकवाच्यो वैक एवार्थो वाक्ये न प्रतिपाद्यत इति भावः । किञ्चेत्यादिग्रन्थमवतारयति लोचनेनन्वित्यादि । न्याय्यमित्यन्तः पूर्वपक्षः । तह्यप्राधान्ये किं युक्तमिति सिद्धान्ती पृष्ट्वा पूर्वपक्षिण उत्तरमनुवदन्नाहव्यङ्ग्यत्वमिति चेदित्यादि । अनेनास्तितावदित्यादिवृत्तिग्रन्थो विवृतः । भावमाहअर्थान्तरत्वमित्यादि । अर्थान्तरत्वं मुखार्थभिन्नार्थत्वम् । सम्बन्धिसम्बन्धित्वमिति । एवं तावद्वाचकत्वादन्यदेव व्यञ्जकत्वम् - इतश्च वाचकत्वाद्य्वञ्जकत्वस्यान्यत्वं यद्वाचकत्वं शब्दैकाश्रयमितरत्तु शब्दाश्रयमर्थाश्रयं च शब्दार्थयोर्द्वयोरपि व्यञ्जकत्वस्य प्रतिपादितत्वात् । गुणवृत्तिस्तूपचारेण लक्षणया चोभयाश्रयापि भवति । किन्तु ततोऽपि व्यञ्जकत्वं स्वरूपतो विषयतश्च भिद्यते । रूपभेदस्तावदयम्यदमुख्यतया
लोचनं
व्यङ्ग्यतायां निबन्धनं, तच्च प्राधान्येऽपि विद्यत इति स्वरूपमहेयमेवेति भावः । एतदुपसंहरतिएवमिति । विषयभेदेन स्वरूपभेदेन चेतयर्थः । तावदिति वक्तव्यान्तरमासूत्रयति । तदेवाहैतश्चेति । अनेन सामग्रीभेदात्कारणभेदोऽप्यस्तीति दर्शयति । एतच्च वितत्य ध्वनिलक्षणेऽयत्रार्थः शब्दो वा” इति वाग्रहणं, “व्यङ्क्तः” इति द्विर्वचनं च व्याचक्षाणैरस्माभिः प्रथमोद्द्योत एव दर्शितमिति पुनर्न विस्तार्यते । एवं विषयभेदात्स्वरूपभेदात्कारणभेदाच्च वाचकत्वान्मुख्यात्प्रकाशकत्वस्य भेदं प्रतिपाद्योभयाश्रयत्वाविशेषात्तर्हि व्यञ्जकत्वगौणत्वयोः को भेद इत्याशङ्क्यामुख्यादपि प्रतिपादयितुमाहगुणवृत्तिरिति । उभयाश्रयापीति शब्दार्थाश्रया ।
बालप्रिया
शब्दस्य सम्बन्धी वाच्यो लक्ष्यो वार्थः तत्सम्बन्धित्वमित्यर्थः । अनेन शब्दगम्यत्वं दर्शितम् । अर्थान्तरत्वे हेतुमाहअनुपयुक्तसमयत्वमिति । सङ्केतग्रहानपेक्षप्रतीतिविषयत्वमित्यर्थः । इतीति । एतन्त्रयमित्यर्थः । नन्वेतदस्तु ततः प्रकृते किमित्यत आहतच्चेत्यादि । प्राधान्येऽपीति । व्यङ्ग्यस्येति शेषः । वक्तव्यान्तरमासूत्रयतीति । प्राथम्यार्थकत्वात्तावच्छब्दस्येति भावः । तदेवेति । वक्तव्यान्तरमेवेत्यर्थः । वृत्तावित इत्यनेन यदित्यादिवक्ष्यमाणः आश्रयभेदरूपो हेतुः परामृश्यत इत्यक्षिप्रेत्य व्याचष्टेअनेनेत्यादि । सामग्रीभेदादिति । सहकारिवर्गभेदादित्यर्थः । वृत्तावाश्रयशब्देन कारणमुच्यत इत्याहकारणभेदोऽदिति । सहकारिवर्गभेदादित्यर्थः । वृत्तावाश्रयशब्देन कारणमुच्यत इत्याहकारणभेदोऽपीति । अर्थस्य वयञ्जकत्वाश्रयत्वं शब्दायत्तमेवेति यद्यपि शब्द एव वाचकत्वस्येव व्यञ्जकत्वस्यापि मुख्य आश्रय इति कारणैक्यमस्ति, तथापि सहकारिभेदात्कारणरूपस्य शब्दस्य भेदोऽपीत्यर्थः । शब्दार्थयोरित्यादेर्विवरणमेतच्चेत्यादि । “गुणवृत्तिस्त्वि"त्यादिग्रन्थं वृत्तानुवादपूर्वकमवतारयतिएवमित्यादिना । एवं मुख्याद्वाचकत्वादभेदं प्रतिपाद्य अमुख्यादपि प्रतिपादयितुमाहेति सम्बन्धः । किमिदानीं तत्प्रतिपादनमित्यत उक्तः उभयाश्रयत्वाविशेषादित्यारभ्याशङ्कयेत्यन्तग्रन्थः । तर्हीति । यदि वाचकत्वव्यञ्जकत्वयोर्भेदः, तर्हित्यर्थः । क इति । नेत्यर्थः । उपचारलक्षणारूपोभयेत्यर्थभ्रमः स्यादय उभयाश्रयेत्येतद्व्याचष्टेशब्देत्यादि । उपचारेण लक्षणया व्यापारो गुणवृत्तिः प्रसिद्धा । व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः । न ह्यर्थाद्य्वङ्ग्यत्रयप्रतीतिर्या तस्या अमुख्यत्वं मनागपि लक्ष्यते । अयं चान्यः स्वरूपभेदःयद्गुणवृत्तिग्मुख्यत्वेन व्यवस्थितं वाचकत्वमेवोच्यते । व्यञ्जकत्वं तु वाचकत्वादत्यन्तं विभिन्नमेव । एतच्च प्रतिपादितम् । अयं चापरो रूपभेदो यद्गुणवृत्तौ यदार्थोऽर्थान्तरमुपलक्षयति । तदोपलक्षणीयार्थात्मना परिणत एवसौ सम्पद्यते । यथा “गङ्गायां घोषः” इत्यादौ । व्यञ्जकत्वमार्गे तु यदार्थोऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्नेवासावन्यस्य प्रकाशकः प्रतीयते प्रदीपवत् । यथा “लीलाकमलपत्राणि गणयामास पार्वती” इत्यादौ । यदि च यत्रातिरस्कृतस्वप्रतीतिरर्थोऽर्थान्तरं लक्षयति तत्र लक्षणाव्यवहारः क्रियते, तदेवं सति लक्षणैव मुख्यः शब्दव्यापार इति प्राप्तम् । यस्मात्प्रायेण वाक्यानां वाच्यव्यतिरिक्ततात्पर्यविषयार्थावभासित्वम् । लोचनमुपचारलक्षणयोः प्रथमोद्द्योत एव विभज्य निर्णीतं स्वरूपमिति न पुनर्लिख्यते । मुख्यतयैवेति । अस्खलद्गतित्वेनेत्यर्थः । व्यङ्ग्यत्रयमिति । वस्त्वलङ्काररसात्मकम् । वाचकत्वमेवेति । तत्रापि हि तथैव समयोपयोगोऽस्त्येवेत्यर्थः । प्रतिपादितमिति । इदानीमेव । परिणत इति । स्वेन रूपेणानिर्भासमान इत्यर्थः ।
बालप्रिया
च या गुणवृत्तिः सा उभयाश्रयापीति वृत्तौ योजनेति भावः । पूर्वमुक्तं स्मारयतिउपचारलक्षणयोरिति । मुख्यतयैवेत्यत्र मुख्यतेवं प्रकृतानुरोधेन व्याचष्टेअस्खलवद्गतित्वेनेति वाचकत्वमेव गुणवृत्तिरित्येतद्विवणोतितत्रापीत्यादि । तत्रापि गुणवृत्तावपि । तथैव यथावाचकत्वे तथैव । समयोपयोगः सङ्केतग्रहणोपयोगः । अस्त्येवेत्यर्थ इति । गुणवृत्तेरभिधेयाविनाभूतप्रतीतित्वादिति भावः । वृत्तौ “यदार्थोऽर्थान्तरम्” इति । “अर्थः” प्रवाहादिः । “अर्थान्तरं” तीरादिकम् । परिणामो नाम पूर्वरूपपरित्यागेन रूपान्तरापत्तिः । परिणतपदं प्रकृतानुरोधेन व्याचष्टे लोचनेस्वेनेत्यादि । वृत्तौ “असा “विति । प्रवाहाद्यर्थ इत्यर्थः । “यदार्थ” इति । “अर्थः” लीलाकमलपत्रगणनादिः । “अर्थान्तरं” लज्जादिकम् । “स्वरूपं प्रकाशयन्नेवे” त्यादौदृष्टान्तमाह “प्रदीपवदि"ति । अर्थोऽर्थान्तरं द्योतयतीत्युक्तस्योदाहरणमाह “यथालीले"त्यादि । माभूदत्यन्ततिरस्कृतवाच्यस्थले गुणवृत्तिवल्यञ्जकत्वयोः स्वरूपाभेदः, तदन्यस्थले ननु त्वत्पक्षेऽपि यदार्थो व्यङ्ग्यत्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः । उच्यते प्रकारणाद्यवच्छिन्नशब्दवशेनैवार्थस्य तथाविधं व्यञ्जकत्वमिति शब्दस्य तत्रोपयोगः कथमपह्नूयते । विषयभेदोऽपि गुणवृत्तिव्यञ्जकत्वयोः स्पष्ट एव । यतो व्यञ्जकत्वस्य रसादयोऽलङ्कारविशेषा व्यङ्ग्यरूपावच्छिन्नं वस्तु चेति त्रयं विषयः । तत्र रसादिप्रतीतिर्गुणवृत्तिरिति
लोचनं
कीदृश इति मुख्यो वा न वा प्रकारान्तराभावात् । मख्यत्वे वाचकत्वमन्यथा गुणवृत्तिः, गुणोनिमित्तं सादृश्यादि तद्द्वारिका वृत्तिः शब्दस्य व्यापारो गुणवृत्तिरिति भावः । मुख्य एवासौ व्यापारः सामग्रोभेदाच्च वाचकत्वाद्य्वतिरिच्यत इत्यभिप्रयेणाहौच्यत इति । एवमस्खलद्गतित्वात्कथञ्चिदपि । समयानुपयोगात्पृथगाभासमानत्वाच्चेति त्रिभिः प्रकारैः प्रकाशकत्वस्यैतद्विपरीतरूपत्रयायाश्च गुणवृत्तेः स्वरूपभेदं व्याख्याय विषयभेदमप्याहविषयभेदोऽपीति । वस्तुमात्रं गुणवृत्तेरपि विषय इत्यभिप्रायेण विशेषयतिव्यङ्ग्यरूपावच्छिन्नमिति ।
बालप्रिया
तु स्यादित्याशङ्क्य परिहरति “यदि चे” त्यादि । “लक्षणाव्यवहार” इति । न व्यञ्जकत्वव्यवहार इति शेषः । मुख्यः शब्दव्यापारो लक्षणैवेति सम्बन्धः । “इति प्राप्तम्” इति । स्यादिति शेषः । अत्र हेतुमाह “यस्मादि"त्यादि । उक्तमसहमानस्य प्रतिबन्द्या प्रत्यवस्थानम् “नन्वि"त्यादि । तदभिप्रायं व्याचष्टे लोचनेमुख्यां वेत्यादि । कल्पान्तराकरणे हेतुमाहप्रकारान्तराभावादिति । तस्मिन्सति किं स्यादित्यतः क्रमेण दूषणमाहमुख्यत्व इत्यादि । अमुख्यत्वे गुणवृत्तित्वं गुणवृत्तिशब्दार्थविवरणेन साधयतिगुणो निमित्तमित्यादि । उच्यत इत्यादिग्रन्थस्य भावमाहमुख्य इत्यादि । असौ व्यापारः शब्दव्यापारः । ननु मुख्यत्वे वाचकत्वादभेदस्स्यादित्यत आहसामग्रीभेदादिति । वृत्तौ “प्रकारणे” त्यादिना सामग्रीभेदः प्रदर्शितः. “तत्रे"ति । अर्थेन व्यङ्ग्यत्रयप्रकाशनस्थल इत्यर्थः । “उपयोग” इति । व्यञ्जकत्वलक्षणोपयोग इत्यर्थः । गुणवृत्तिव्यञ्जकत्वयोः स्वरूपभेदहेतून् बहुग्रन्थोक्तान् सुग्रहत्वायैकग्रन्थेन वृत्यभिप्रायतया उपसंहरन्नुत्तरग्रन्थं तात्पर्योक्त्यावतारयतिएवमित्यादि । अस्खलद्गतित्वादिति । स्खलद्गतित्वाभावादित्यर्थः । कथञ्चिदपीत्यादि । असङ्केतितार्थप्रतिपादकत्वादित्यर्थः । पृथगिति । वाच्यार्थात्पृथगित्यर्थः । त्रिभिः प्रकारैरित्यस्य गुणवृत्तेस्स्वरूपभेदमित्यनेन सम्बन्धः । एतदिति । एतद्विपरीतं रूपत्रयं स्खलद्गतित्वादिकं यस्यास्तस्या इत्यर्थः । गुणवृत्तेः गुणवृत्तितः । व्यङ्ग्येत्यादिविशेषणस्य फलमाहवस्तुमात्रमिति । एवं विशेषणेऽपि कथं गुणवृत्तिविषयव्यावृत्तिरित्यतस्तात्पर्यमाहव्यञ्जकत्वस्येत्यादि । न केनचिदुच्यते न च शक्यते वक्तुम् । व्यङ्ग्यालङ्कारप्रतीतिरपि तथैव । वस्तुचारुत्वप्रतीतये स्वशब्दानभिधेयत्वेन यत्प्रतिपिपादयितुमिष्यते तद्व्यङ्ग्यम् । तच्च न सर्वं गुणवृत्तेर्विषयः प्रसिद्य्धनुरोघाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् । तथोक्तं प्राक् । यदपि च गुणवृत्तेर्विषयस्तदपि च व्यञ्जकत्वानुप्रवेशेन । तस्माद्गुणवृत्तेरपि व्यञ्जकत्वस्यात्यन्तविलक्षणत्वम् ।
लोचनं
व्यञ्जकत्वस्य यो विषयः स गुणवृत्तेर्न विषयः अन्यश्च तस्या विषयभेदो योज्यः तत्र प्रथमं प्रकारमाहतत्रेति । न च शक्यत इति । लक्षणासामग्न्यास्तत्राविद्यमानत्वादिति हि पूर्वमेवोक्तम् । तथैवेति । न तत्र गुणवृत्तिर्युक्तेत्यर्थः । वस्तुनो यत्पूर्वं विशेषणं कृतं तद्य्वाचष्टेचारुत्वप्रतीतय इति । न सर्वमिति । किञ्चित्तु भवति । यथा “निःश्वासान्ध इवादर्शः” इति । यदुक्तम् “कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम्” इति । प्रसिद्धितो लावण्यादयः शब्दाः, वृत्तानुरोधव्यवहारानुरोधादेः “वदति बिसिनीपत्र्रशयनम्” इत्येवमादयः । प्रगिति । प्रथमोद्द्योतेऽरूढा ये विषयेऽन्यत्र” इत्यत्रान्तरे । न सर्वमिति यथास्माभिर्व्याख्यातं तथा स्फुटयतियदपि चेति । गुणवृत्तेरिति पञ्चमी । अधुनेतररूपोपजीवकत्वेन तदितरस्मात्तदितररूपोपजीवकत्वेन च तदितरस्मादित्यनेन पर्यायेण वाचकत्वाद्गुणवृत्तेश्च
बालप्रिया
वस्तुमात्रं भवतु गुणवृत्तेर्विषयः व्यङ्ग्यत्वावच्छिन्नन्तु न तद्विषयः, यतो व्यङ्ग्यत्वं व्यञ्जनाव्यापारविषयत्वमित्यर्थः । अन्यश्चेति । प्रथमोद्योतोक्तश्चेत्यर्थः । तस्याः गुणवृत्तितः । योज्यः अत्रानुसन्धातव्यः । न च शक्यते वक्तुमित्यत्र गम्यं हेतुमाहलक्षणेत्यादि । तथैवेत्येतत्तात्पर्यतो व्याचष्टेनेत्यादि । विशेषणमिति । व्यङ्ग्यरूपावच्छिन्नमिति विशेषणमित्यर्थः । वृत्तौ “रसादिप्रतीति” रिति । रसादिप्रतीतिहेतुरित्यर्थः । “वस्त्वि"त्यादि । यद्वस्त्विति सम्बन्धः । “चारुत्वे"ति । काव्यचारुत्वेत्यर्थः । “तद्व्यङ्ग्यम्” इति । तथाविधं व्यङ्ग्यं व्यङ्ग्यरूपावच्छिन्नमित्यनेन विवक्षितमित्यर्थः । सर्वमित्यनेन गम्यमाह लोचनेकिञ्चित्त्विति । यदुक्तमिति । यस्मादुक्तमित्यर्थः । प्रसिध्यनुरोधाभ्यामित्येतद्विवृणोतिप्रसिद्धित इत्यादि । प्रसिद्धितः रूढितः । यथा व्याख्यातमिति । किञ्चित्तु भवतीति व्याख्यातम् । स्फुटयतीति । स्वयमिति शेषः । गुणवृत्तेरपीत्यत्र षष्ठीभ्रमस्स्यादत आहपञ्चमीति । वाचकत्वेत्यादिग्रन्थं भेदप्रदर्शनपरतया व्याख्यास्यन्नवतारयतिअधुनेत्यादि । इतरेति । इतररूपं गुणवृत्तिस्तदुपजीवकत्वेन तत्समाश्रयत्वेनेत्यर्थः । तदितरस्मादिति । वाचकत्वादित्यर्थः । तदितरेत्यादि । तदितररूपं वाचकत्वं तदुपजीवकत्वेनेत्यर्थः । वाचकत्वगुणवृत्तिविलक्षणस्यापि च तस्य तदुभयाश्रयत्वेन व्यवस्थानम् । व्यञ्जकत्वं हि क्वचिद्वाचकत्वाश्रयेण व्यवतिष्ठते, यथा विवक्षितान्यपरवाच्ये ध्वनौ । क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौ । तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुपन्यस्तौ । तदुभयाश्रितत्वाच्च तदेकरूपत्वं तस्य न शक्यते वक्तुम् । यस्मान्न तद्वाचकत्वैकरूपमेव, क्वचिल्लक्षणाश्रयेण वृत्तेः । न च लक्षणैकरूपमेवान्यत्र
लोचनं
द्वितयादपि भिन्नं व्यञ्जकत्वमित्युपपादयतिवाचकत्वेति । चोऽवधारणे भिन्नक्रमः, अपिशब्दोऽपि न केवलं पूर्वोक्तो हेतुकलापो यावत्तदुभयाश्रयत्वेन मुख्योपचाराश्रयत्वेन यद्व्यवस्थानं तदपि वाचकगुणवृत्तिविलक्षणस्यैवेति व्याप्तिघटनम् । तेनायं तात्पर्यार्थःतदुभयाश्रयत्वेन व्यवस्थानात्तदुभयवैलक्षण्यमिति । एवदेव विभज्यतेव्यञ्जकत्वं इति । प्रथमतरमिति । प्रथमोद्द्योतेऽस च” इत्यादिना ग्रन्थेन । हेत्वन्तरमपि सूचयतिन चेति । वाचकत्वगौणत्वोभयवृत्तान्तवैलक्षण्यादिति
बालप्रिया
तदितरस्मादिति । गुमवृत्तिप्रकारादित्यर्थः । उभयन्न भिन्नमिति शेषः । पर्यायेण क्रमेण । च इति । “विलक्षणस्यापि चे"त्यत्रत्यचकार इत्यर्थः । भिन्नक्रम इति । विलक्षणस्येत्यनेन योज्य इत्यर्थः । अपिशब्दोऽपीति । भिन्नक्रम इत्यनुषज्यते । क्वचिद्ग्रन्थे तथा पाठश्च । अपिशब्दस्य व्यवस्थानमित्यनेन सम्बन्ध इति भावः । अपिशब्दगम्यमर्थमाहन केवलमित्यादि । तदुभयाश्रयत्वेनेत्यस्य विवरणम्मुख्येत्यादि । वाचकत्वगुणवृत्युभयाश्रयत्वेनेत्यर्थः । इति व्याप्तिघटनमिति । यद्यदाश्रयत्वेनावतिष्ठते तत्तद्विलक्षणमिति व्याप्तिर्दर्शितेत्यर्थः । तदुभयाश्रयत्वेनेति । व्यञ्जकतवस्येति शेषः । व्यञ्जकत्वं वाचकत्वाद्गुणवृत्तेश्च विलक्षणं तदुभयाश्रयत्वेनावस्थानादित्यर्थः । एतदेवेति । उक्तमेवेत्यर्थः । विभजते विभज्य दर्शयति । प्रथमतरमिति । द्वितीयोद्योतापेक्षया तरपः प्रयोग इति व्याचष्टेप्रथमेति । वृत्तौ “न चे"त्यादि । तदित्यनुषज्यते । व्यञ्जकत्वमित्यर्थः । “उभयधर्मत्वेनैव” वाचकत्वगुणवृत्युभयाश्रयत्वेन हेतुनैव । “तदेकैकरूपं न भवति” वाचकत्वादिभिन्नं भवति । इति म चेति सम्बन्धः । “यावदि"त्यादि । यावत्किन्तु । “वाचकत्वे"ति । वाचकत्वलक्षणादिरूपैः रहिता ये शब्दाः तद्धर्मत्वेनापीत्यर्थः । तत्तदेकैकरूपं न भवतीत्यस्यानुषङ्गः । न चोभयेत्यादिग्रन्थमवतारयति लोचनेहेत्वन्तरमित्यादि । उक्ते साध्ये इति वाचकत्वाश्रयेण व्यवस्थानात् । न चोभयधर्मत्वेनैव तदेकैकरूपं न भवति । यावद्वाचकत्वलक्षणादिरूपरहितशब्दधर्मत्वेनापि । तथाहि गीतध्वनीनामपि व्यञ्जकत्वमस्ति रसादिविषयम् । न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल्लक्ष्यते । शब्दादन्यत्रापि विषये व्यञ्जकत्वस्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुम् । यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वेऽपि व्यञ्जकत्वस्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुम् । यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वेऽपि व्यञ्जकत्वं प्रकारत्वेन परिकल्प्यते तच्छब्दस्यैव प्रकारत्वेन कस्मान्न परिकल्प्यते ।
लोचनं
सूचितो हेतुः । तमेव । प्रकाशयतितथाहीत्यादिना । तेषामिति । गीतादिशब्दानाम् । हेत्वन्तरमपि सूचयतिशब्दादन्यत्रेति । वाचकत्वगौणत्वाभ्यामन्यद्व्यञ्जकत्वं शब्दादन्यत्रापि वर्तमानत्वात्प्रमेयत्वादिवदिति हेतुः सूचितः । नन्वन्यत्रावाचके यद्व्यञ्जकत्वं तद्भवतु वाचकत्वादेर्विलक्षणम्, वाचके तु यद्व्यञ्जकत्वं तदविलक्षणमेवास्त्वित्याशङ्क्याहयदीति । आदिपदेन गौणं गृह्यते । शब्दस्यैवेति ।
बालप्रिया
शेषः । तमेव हेतुं स्फुटयतिवाचकत्वेत्यादि । वाचकत्वगौणत्वोभयस्य यो वृत्तान्तः तद्वैलक्षण्यात्तदुभयरहितवृत्तित्वादित्यर्थः । गौणत्वेति । लाक्षणिकत्वस्याप्युपलक्षणम् । शब्दादित्यादिदर्शनादित्यन्तग्रन्थो न पूर्वान्वयी, किन्तु उत्तरान्वयीत्याशयेनावतारयतिहेत्वन्तरमिति । तमेव हेत्वन्तरमवयवान्तरेण सह दर्शयतिवाचकत्वेत्यादि । भिन्नमित्यन्तं वाचकत्वादिशब्दधर्मप्रकारत्वमशक्यं वक्तुमित्यस्य विवरणम् । नन्वित्यादि । अवाचक इति । गीतध्वन्यादावित्यर्थः । अविलक्षणमिति । वाचकत्वादेरित्यनुषङ्गः । गौणमिति । गौणीवृत्तिरित्यर्थः । वृत्तौ “शब्दप्रकाराणाम्” इति निर्धारणे षष्ठी, प्रकारत्वेनेत्यनेनास्य सम्बन्धः । शब्दप्रकाराणां मध्ये यः प्रकारस्तत्वेनेत्यर्थः । “प्रसिद्धप्रकारविलणत्वेऽपी"ति । व्यञ्जकत्वस्य प्रसिद्धप्रकारेभ्यो वाचकत्वादिभ्यो वैलक्षण्ये वस्तुतस्सत्यपीत्यर्थः । “तदि"ति । तर्हित्यर्थः । “शब्दस्यैव प्रकारत्वेने"ति शब्दावान्तरभेदत्वेनेत्यर्थः । “कस्मान्न परिकल्प्य” इति । परिकल्पनं तदेवं शाब्दे व्यवहारे त्रयः प्रकाराःवाचकत्वं गुणवृत्तिर्व्यञ्जकत्वं च । तत्र व्यञ्जकत्वे यदा व्यङ्ग्यप्राधान्यं तदा ध्वनिः, तस्य चाविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्वौ प्रभेदावनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ । अन्यो ब्रूयात्ननु विवक्षितान्यपरवाच्ये ध्वनौ गुणवृत्तिता
लोचनं
व्यञ्जकत्वं वाचकत्वामिति यदि पर्यायौ कल्प्येते तर्हि व्यञ्जकत्वं शब्द इत्यप पर्यायता कस्मान्न कल्प्यते, इच्छाया अव्याहतत्वात् । व्यञ्जकत्वस्य तु विविक्तं स्वरूपं दर्शितं तद्विषयान्तरे कथं विपर्यस्तताम् । एवं हि पर्वतगतो धूमोऽनग्निजोऽपि स्यादिति भावः । अधुनोपपादितं विभागमुपसंहरतितदेवमिति । व्यवहारग्रहणेन समुद्रघोषादीन् व्युदस्यति । ननु वाचक्त्वरूपोपजीवकत्वाद्गुणवृत्त्यनुजीवकत्वादिति च हेतुद्वयं यदुक्तं तदविवक्षितवाच्यभागे सिद्धं न भवति तस्य लक्षणैकशरीरत्वादित्यभिप्रायेणोपक्रमतेअन्योब्रूयादिति । यद्यपि च तस्य तदुभयाश्रयत्वेन व्यवस्थानादिति ब्रूवता निर्णीतचरमेवैतत्, तथापि गुणवृत्तेरविवक्षितवाच्यस्य च दुर्निरूपं वैलक्षण्यं यः पश्यति तं प्रत्याशङ्कानिवारणार्थोऽयमुपक्रमः ।
बालप्रिया
स्यादित्यर्थः । विवृणोति लोचनेव्यञ्जकत्वमित्यादि । इतीति । इतिशब्दावित्यर्थः । पर्यायौ एकार्थकौ । इत्यपीति । इत्यनयोरपीत्यर्थः । अस्तु पर्यायतेत्यत आहव्यञ्जकत्वस्येत्यादि । विविक्तं वाचकत्वादेर्विविक्तम् । दर्शितमिति । गीतध्वन्यादाविति भावः । अतश्च वाचकत्वादिरूपेण परिकल्पनमयुक्तमित्याहतदित्यादि । तद्विषयान्तर इति । वाचकगतं व्यञ्जकत्वमित्यर्थः । कथं विपर्यस्यतामिति । वाचकत्वादिरूपेणेति शेषः । एवं हीत्यादि । वाचकाश्रयं व्यञ्जकत्वं वाचकत्वादिमूलं न चेत्पर्वतगतो धूमोऽनग्निजश्च स्यादतो विपर्यासो न युक्त इति भावः । विभागमुपसंहरतीति । वाचकत्वगुणवृत्तिभ्यां विभक्ततया व्यञ्जकत्वस्य प्रतिपादितत्वात्प्रकारत्रयमुपपादतमेवेति । भावः । व्युदस्यतीति । समुद्रघोषादेरभिधायकत्वाभावादति भावः । तात्पर्यन्तोऽवतारयति नन्वित्यादि । उपजीवत्यपेक्षत इत्युपजीवकमनुसन्निधौ जीवतीत्यनुजीवकम् । वाचकत्वेत्यादि नावाचकत्वगुणवृत्युभयाश्रयत्वमेवांशे दूषणदानायानूदितम् । यथोक्तार्थोभयाश्रयत्वहेतुनैवास्य चोद्यस्य परिहृतत्वात्पुनस्तदुद्भावनपरिहारावनर्थकावित्याशङ्क्य परिहरतियद्यपीत्यादि । ल अविवक्षितवाच्यस्येति ध्वनेशेष रितिः यो वैलक्षण्यं दुर्निरूपं पश्यति, तं प्रतीति सम्बन्धः । शाशङ्केति । वैलक्षण्यदुर्निरूपत्वाशङ्केत्यर्थः । नास्तीति यदुच्यते तद्युक्तम् । यस्माद्वाच्यवाचकप्रतीतिपूर्विका यत्रार्थान्तरप्रतिपत्तिस्तत्र कथं गुणवृत्तिव्यवहारः, न हि गुणवृत्तौ यदा निमित्तेन केनचिद्विषयान्तरे शब्द आरोप्यते अत्यन्ततिरस्कृतस्वार्थः यथा “अग्निर्माणवकः” इत्यादौ, यदा वा स्वार्थमंशेनापरित्यजंस्तत्सम्बन्धद्वारेण विषयान्तरमाक्रामति, लोचनमत एवाद्यभेदस्याङ्गीकरणपूर्वकमयं द्वितीयभेदाक्षेपः । विवक्षितान्यपरवाच्य इत्यादिना पराभ्युपगमस्य स्वाङ्गीकारी दर्श्यते । गुणवृत्तिव्यवहाराभावे हेतुं दर्शयितुं तस्या एव गुणवृत्तेस्तावद्वृत्तान्तं दर्शयतिन हीति । गुणतया वृत्तिर्व्यापारो गुणवृत्तिः गुणेन निमित्तेन सादृश्यादिना च वृत्तिः अर्थान्तरविषयेऽपि शब्दस्य सामानाधिकरण्यमिति गौमं दर्शयति । यदा वा स्वार्थमिति
बालप्रिया
अयमुपक्रमः वृत्तिकारोपक्रमः । अत्रोपष्टम्भकमाहअत एवेत्यादि । आद्यभेदस्य विवक्षितान्यपरवाच्यस्य । द्वितीयभेदेति । अविवक्षितवाच्येत्यर्थः । अत्र हेतुं दर्शयतिविवक्षितेत्यादि । न हीत्यादिग्रन्थस्य फलं दर्शयन्नवतारयतिगुणवृत्तीत्यादि । हेतुं दर्शयितुमिति । विवक्षितान्यपरवाच्य इति शेषः । गौमलाक्षणिकोभयसाधारणं गुणवृत्तिशब्दार्थमाहगुणतयेत्यादि । गुणतया अप्रधानतया । अभिधावृत्तिर्हि प्रधानभूता । व्यापार इति । शब्दस्येति । शेषः । अनेन गौणस्य लाक्षणिकस्य च संग्रहः । गौणे गुणवृत्तिशब्दस्यार्थान्तरञ्चाहगुणेनेत्यादि । गुणेनेत्यस्य विवरणम्सादृश्यादिनेति । निमित्तेनेति तृतीयार्थकथनम् । उक्तस्यैव विवरणमर्थान्तरविषयेऽपीत्यादि । अर्थान्तरमेव विषयस्तस्मिन् । इति गौणं यथा “गङ्गायां घोषः” इत्यादौ । तदाविवक्षितवाच्यत्वमुपपाद्यते । अत एव च विवक्षितान्यपरवाच्ये ध्वनौ वाच्यवाचकयोद्वयोरपि स्वरूपप्रतीतिरर्थावगमनं दृश्यत इति व्यञ्जकत्वव्यवहारो युक्त्यनुरोधी । स्वरूपं प्रकाशयन्नेप परावभासको व्यञ्जक इत्युच्यते, तथाविधे विषये वाचकत्वस्यैव व्यञ्जकत्वमिति गुणवृत्तिव्यवहारो नियमेनैव न शक्यते कर्तुम् ।
लोचनं
लक्षणां दर्शयति । अनेन भेदद्वयेन न च स्वीकृतमविवक्षितवाच्यभेदद्वयात्मकमिति सूचयति । अत एव अत्यन्ततिरस्कृतस्वार्थशब्देन विषयान्तरमाक्रामति चेत्यनेन शब्देन तदेव भेदद्वयं दर्शयतिअत एव चेति । यत एव न तत्रोक्ततहेतुबलाद्गुणवृत्तव्यवहारो न्याय्यस्तत इत्यर्थः । युक्ति लोकप्रसिद्धिरूपामबाधितां दर्शयतिस्वरूपमिति । उच्यत इति प्रदीपादिः, इन्द्रियादेस्तु करणत्वान्न व्यञ्जकत्वं प्रतीत्युत्पत्तौ ।
बालप्रिया
दर्शयतीत्यादि । उक्तगुणवृत्तिशब्दार्थाभिप्रायेण “यदा निमित्तेने” त्यादिग्रन्थेन गौणीं “यदा वा स्वार्थमि” त्यादग्रन्थेन लक्षणाञ्च दर्शयतीत्यर्थः । ननु गुणवृत्तेर्बहुरूपत्वेऽपि किमितीदं भेदद्वयं सोदाहरणं दर्शितमित्यत आहअनेनेत्यादि । अनेन दर्शितेन । सूचयतीत्यत्र गमकमाहअत एवेत्यादि । तदेव भेदद्वयमिति । अविवक्षितवाच्यभेदद्वयमेवेत्यर्थः । वृत्तौ “न ही” त्यादि । विवक्षितवाच्यत्वं तदा न ह्युपपद्यत इति सम्बन्धः । “विषयान्तरे” गङ्गादिशब्दमुख्यार्थमित्यर्थः । “अशेनापरित्यजन्नि"ति । गङ्गादिशब्दो हि गङ्गातीरत्वादिना केवलतीरत्वादिना वा गङ्गायास्तीरमेव लक्षयतीत्यतों “शेन स्वार्थापरित्यागः । “तत्सम्बन्धद्वारेणे"ति । सामीप्यरूपस्वार्थसम्बन्घेन निमित्तेनेत्यर्थः । “विषयान्तरं” तीरादिकम् । “आक्रामति” स्वविषयमापादयति । शब्द इत्यनुषङ्गः, गङ्गादिशब्द इत्यर्थः । लोचनेयुक्तिमिति । युक्त्यनुरोधीत्यत्रोक्तां युक्तिमित्यर्थः । पूरयतिप्रदीपादिरिति । ननु व्यञ्जकत्वं ज्ञापकत्वं, तत्तु मुख्यमिन्द्रियादेस्ततः किं सहकारिभूतप्रदीपादिग्रहणमित्यत आहैन्द्रियादेस्त्विति । आदिपदेन लिङ्गादेर्ग्रंहणम् । प्रतीत्युत्पत्तौ करणत्वाद्व्यञ्जकत्वं नेति सम्बन्धः । वृत्तौ “तथाविधे विषय” इति । वाच्यवाचकप्रतीतिपूर्वकप्रतीतिवषयेऽर्थान्तर इत्यर्थः । “वाचकत्वस्यैवे"ति वाचकत्वाश्रय्येवेत्यर्थः । “कथं भिद्यत” इति । न भिद्यत इत्यर्थः । अत्र हेतुमाह “तस्ये” त्यादि । अविवक्षितवाच्यस्तु ध्वनिर्गुणवृत्तेः कथं भिद्यते । तस्य प्रभेदद्वये गुणवृत्तिप्रभेदद्वयरूपता लक्ष्यत एव यतः । अयमपि न दोषः. यस्मादविवक्षितवाच्यो ध्वनिर्गुमवृत्तिमार्गाश्रयोऽपि भवति न तु गुणवृत्तिरूप एव । गुणवत्तिर्हि व्यञ्जकत्वाशून्यापि दृश्यते । व्यञ्जकत्वं च यथोक्तचारुत्वहेतुं लोचनमेवमभ्युपगमं प्रदर्शक्षेपं दर्शयतिअविवक्षितेति । तुशब्दः पूर्वस्माद्विशेषं द्योतयति । तस्येति । अविवक्षितवाच्यस्य यत्प्रभेदद्वयं तस्मिन् गौमलाक्षणिकत्वात्मकं प्रकारद्वयं लक्ष्यते निर्भास्यत इत्यर्थः । एतत्परिहरतिअयमपीति । गुमवृत्तेर्योमार्गः प्रभेदद्वयं स आश्रयो निमित्ततया प्राक्कक्ष्यानिवेशी यस्येत्यर्थः । एतच्च पूर्वमेव निर्णीतम् । ताद्रूप्याभावे हेतुमाहगुणवृत्तिरिति । गौणलाक्षणिकरूपोभयी अपीत्यर्थः । ननु व्यञ्जक्त्वेन कथं शून्या गुणावृत्तिर्भवति, यतः पूर्वमेवोक्तं मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् । यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥ इति । न हि प्रयोजनशून्य उपचारः प्रयोजनांशनिवेशी च व्यञ्जनव्यापार इति भवद्भिरेवाभ्याधायीत्याशङ्क्याभिमतं व्यञ्जकत्वं विश्रान्तिस्थानरूपं तत्र नास्तीत्याहव्यञ्जकत्वं चेति ।
बालप्रिया
लोचनेदर्शयतीति । पूर्वपक्षीति शेषः । गुणवृत्तीत्यादेर्विवरणम्गौणेत्यादि । लक्ष्यत इत्यस्यार्थान्तरभ्रमनोदनाय विवृणोतिनिर्भास्यत इति । न हीत्यादिनोक्तप्रकारेणोति शेषः. प्राक्कक्ष्येति । व्यञ्जनातः पूर्वकक्ष्येत्यर्थः । पूर्वमेवेति । न हीत्यादिग्रन्थेऽभ्रम धार्मिके” त्यादिगाथाव्याख्यानावसरे वेत्यर्थः । ताद्रूप्याभाव इति । गुणवृत्तिरूपत्वाभाव इत्यर्थः । ननु गुणवृत्तिर्हि व्यञ्जकत्वशून्यापि दृश्यत इत्यनेनैवाविविक्षितवाच्यस्य गुणवृत्तिरूपत्वाभावे सिद्धे व्यञ्जकत्वञ्चेत्यादिग्रन्थः किमर्थं इत्यतस्तद्ग्रन्थमवतारयतनन्वित्यादि । ननु पूर्वोक्तिरन्यपरैवास्त्वित्यत आहन हीत्यादि । इतीत्यादि । अन्यवाक्यं तिष्ठतु इति भवद्भिरेवाभ्यधायि चेत्यर्थः । अभिमतमित्यस्यैव विवरणम्विश्रान्तिस्थानरूपमिति । तत्रेति । गुणवृत्तिमात्र इत्यर्थः । नास्तीति । व्यञ्जकत्वं न व्यञ्जनकरणत्वमात्रमत्र विवक्षितं, किन्तु विश्रान्तिस्थानभूतव्यञ्जनकरणत्वम् । तत्तु चारुत्वहेतुव्यङ्ग्यव्यञ्जनं विना न भवतीत्यर्थः । व्यञ्जकत्वशून्यापि दृश्यत इत्युक्तस्यैव विवरणं वृत्तौ “गुणवृत्तिस्त्वि"त्यादि । गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण च सम्भवत । सा अबेदोपचाररूपा यथेत्याद्यन्वयो यापीत्यादिवाक्ये वाच्येत्यादेर्व्यङ्ग्येत्यादेश्चानुषङ्गश्च बोध्यः । तत्र वाच्यधर्माश्रयेणेत्येतत्प्रकृतानुगुणं विवृणोति लोचनेवाच्यविषयो यो धर्म इति । व्यङ्ग्यं विना न व्यवतिष्ठते । गुणवृत्तिस्तु वाच्यधर्माश्रयेणैव व्यङ्ग्यमात्राश्रयेण चाभेदोपचाररूपा सम्भवति, यतातीक्ष्णत्वादग्निर्माणवकः, आह्लादकत्वाच्चन्द्र एवास्या मुखमित्यादौ । यथा च “प्रिये जने नास्ति पुनरुक्तम्” इत्यादौ । यापि लक्षणरूपा गुणवृत्तिः साप्युपलक्षणीयार्थसंबन्धमात्राश्रयेण चारुरूपव्यङ्ग्यप्रतीतिं विनापि सम्भवत्येव, यथामञ्चाः क्रोशन्तीत्यादौ विषये ।
लोचनं
वाच्यधर्मेति । वाच्यविषयो यो धर्मोऽभिधाव्यापारस्तस्याश्रयेण तदुपबृंहणायेत्यर्थः । श्रुतार्थपत्ताविवार्थान्तररस्याभिधेयार्थोंन्तरस्याभिधेयार्थोपपादान एव पर्यंवसानादिति भावः । तत्र गौमस्योदाहरणमाहयथेति । द्वितीयमपि प्रकारं व्यञ्जकत्वशून्यं निदर्शयितुमुपक्रमतेयापीति । चारुरूपं विश्रान्तिस्थानं, तदभावे स व्यञ्जकत्वव्यापारो नैवोन्मीलति, प्रत्यावृत्त्य वाच्य एव विश्रान्तेः, क्षणदृष्टनष्टदिव्यविभवप्राकृतपुरुषवत् ।
बालप्रिया
वाचकस्येति शेषः । भावार्थविवरणम्तदुपबृंहणायेति । अभिधेयार्थोपबृंहणायेत्यः । कथं गुणवृत्तेस्तदुपबृंहणार्थत्वमित्यतस्सदृष्टान्तमाहश्रुतेत्यादि । यथा पीनो देवदत्तो दिवा न भुङ्क्त इत्यादौ श्रुतस्य पीनत्वादे रुपपादकतया रात्रिभोजनादिकं कल्प्यते । कल्पितस्य तस्यार्थान्तरस्य पीनत्वाद्युपपादन एव पर्यवसानञ्च तथा गुणवृत्तिस्थलेऽर्थान्तरस्य लक्ष्यस्य पदान्तराभिधेयार्थोपपादन एव वर्यवसितिर्यतस्तस्मादित्यर्थः । वृत्तौ “व्यङ्ग्यमात्राश्रयेणे"त्यत्र मात्रपदेन चारुत्वहेतुर्मुख्यव्यङ्गयं व्यावर्त्यते । “प्रिये जन “इति । प्रिय इति तीक्ष्णत्वादत्यादिवद्गुणरूपहेतुकथनं पुनरुक्तपदेनानुपादेयत्वं लक्ष्यत इति पूर्वमेवोक्तम् । एषूदाहरणेषु तीक्ष्णत्वादिगुणानामाधिक्यं व्यङ्ग्यं, तत्तु न चारुत्वकारीति भावः । “उपलक्षणीये"ति । उपलणीयो लक्ष्यो योऽर्थो मञ्जस्थबालकादिस्तेन सह यस्सम्बन्ध आधाराधेयभावादिर्मञ्चादपदमुख्यार्थस्य तन्मात्राश्रयेणेत्यर्थः । मात्रपदव्यावर्त्यकथनं “चारुरूपे"त्यादि । “मञ्चा” इति । अत्र मञ्चस्थबालकानां बहुत्वादकं व्यङ्ग्यं तदपि न चारुत्वकारि । “चारुरूप “मित्येतद्विवृणोति लोचनेविश्रान्तीत । ननु विनापि चारुव्यङ्ग्यप्रतीतिं व्यञ्जनाव्यापारो भवत्वित्यत आहतदभाव इत्यादि । तदभावे चारुव्यङ्ग्याभावे । सः लक्षणामूलकः । उन्मीलति प्रकाशते । कुत इत्यत आहप्रत्यावृत्येत्यादि । क्षणेति । क्षण एव दृष्टो नष्टश्च दिव्यविभवो यस्य सः तथाविधो यः प्राकृतो दरिद्रः पुरुषः तद्वत् । तस्य यथा प्रत्यावृत्य प्राकृतविभाव एव तथा व्यञ्जनाव्यापारस्य यत्र तु सा चारुरूपव्यङ्ग्यप्रतीतिहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असम्भविना चार्थेन यत्र व्यवहारः, यथा “सुवर्णपुष्पां पृथिवीम्” इत्यादौ तत्र चारुरूपव्यङ्ग्यप्रतीतिरेव प्रयोजिकेति तथाविधेऽपि
लोचनं
ननु यत्र व्यङ्ग्येऽर्थे विश्रान्तिस्तत्र किं कर्तव्यमित्याशङ्क्याहयत्र त्विति । अस्ति तत्रापरो व्यञ्जनव्यापारः परस्फुट एवेत्यर्थः । दृष्टान्तं पराङ्गीकृतमेवाहवाचकत्ववदिति । वाचकत्वे हि त्वयैवाङ्गीकृतो व्यञ्जनव्यापारः प्रथमं ध्वनिप्रभेदमप्रत्याचक्षणेनेति भावः । किञ्च वस्त्वन्तरे मुख्ये सम्भवति सम्भवदेव वस्त्वन्तरं मुख्यमेवारोप्यते विषयान्तरमात्रतस्त्वारोपव्यवहार इति जीवितमुपचारस्य, सुवर्णपुष्पाणां तु मूलत एवासम्भवात्तदुच्चयनस्य तत्र क आरोपव्यवहारः - “सुवर्णपुष्पां पृथिवीम्” इति हि स्यादारोपः, तस्मादत्र व्यञ्जनव्यापार एव प्रधानभूतो नारोपव्यवहारः, स परं व्यञ्जनव्यापारानरोधितयोत्तिष्ठति । तदाहअसम्भविनेति । प्रयोजिकेति । व्यङ्ग्यमेव हि प्रयोजनरूपं प्रतीतिविश्रामस्थामारोपिते त्वसम्भवति प्रतितिविश्रान्तिराशङ्कनीयापि न भवति ।
बालप्रिया
वाच्यार्थ एव विश्रान्तिर्यतस्तस्मादित्यार्थः । वृत्तौ “यत्रे"त्यादि । “से"ति । गुणवृत्तिरित्यर्थः । “व्यञ्जकत्वानुप्रवेशेनैवे"ति । भवतीति शेषः । ग्रन्थमेतमवतारयतिनन्वित्यादि । अपर इति । चारुरूपव्यङ्ग्यप्रत्यायकत्वाद्विलक्षम इत्यर्थः । प्रथममिति । विवक्षितान्यपरवाच्यमित्यर्थः । अप्रत्याचक्षाणेन अभ्युपगच्छता । असम्भविनेत्यादिग्रन्थं तात्पर्यतोऽवतारयतिकिञ्चेत्यादि । असम्भविना चेति चकारः किञ्चेत्यनेन व्याख्यातः । वस्त्वन्तर इत्यादि । अधिष्ठानारोप्ययोरुभयोरपि सम्भवे सत्येवारोप इत्यर्थः । यथा माणवकादावग्न्यादेः । ननु तयोरुभयोस्सत्वे कुत आरोपव्यवहार इत्यत आहविषयान्तरमात्रत इति । विषयान्तरत्वमात्रेणेत्यर्थः । वस्तुतस्तयोरैक्याभावादिति भावः । इतीत्यादि । स्वतस्सतोरारोप्याधिष्ठानयोरेकस्मिन्नन्यस्यारोप इतीदमुपचारस्य मुख्यं जीवितमित्यर्थः । अस्त्वेतत्ततः किमत आहसुवर्णपुष्पाणामित्यादि । मूलत एव अत्यर्थमेव । तदुच्चयनस्य सुवर्णपुष्पोच्चयनस्य । तत्र सुवर्णपुष्पामित्याद्युदाहरणस्थले । क इति । निर्जीव इत्यर्थः । ननु तर्हि सुवर्णपुष्पां पृथिवीमिति प्रयोगः कथमुपपद्यत इत्यत आहसुवर्णेत्यादि । इत्यारोपस्स्याद्धीति सम्बन्धः. तदारोपं विना तस्य महाकविप्रयोगस्यानिर्वाहादिति भावः । फलितमाहतस्मादित्यादि । आरोपव्यवहार इति । आरोपमूलकगुणवृत्तिव्यवहार इत्यर्थः । तदाहेति । उक्ताभिप्रायेणाहेत्यर्थः. वृत्तौ “प्रयोजिके"त्यस्य व्यवहारप्रयोजिकेत्यर्थः । चारुरूपेत्यादिग्रन्थस्य भावार्थमाहव्यङ्ग्यमित्यादि । प्रयोजनरूपमिति हेतुगर्भं विशेषणम् । नन्वसम्भवदपि विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोधी । तस्मादविवक्षितवाच्ये ध्वनौ द्वयोरपि प्रभेदयोर्व्यञ्जकत्वविशेषाविशिष्टा गुमवृत्तिर्न तु तदेकरूपा सहृदयहृदयाह्लादिनी प्रतीयमाना प्रतीतिहेतुत्वाद्वियषान्तरे
लोचनं
सत्यामपीति । व्यञ्जनव्यापारसम्पत्तये क्षणमात्रमवलम्बितायामिति भावः. तस्मादिति । व्यञ्जकत्वलक्षणो यो विशेषस्तेनाविशिष्टा अविद्यमानं विशिष्टं विशेषो भेदनं यस्याः व्यञ्जकत्वं न तस्या भेद इत्यर्थः । यदि वा व्यञ्जकत्वलक्षणेन व्यापारविशेषेमाविशिष्टा न्यक्कृतस्वाभावा आसमन्ताद्व्याप्ता । तदेकेति । तेन व्यञ्जकत्वलक्षणेन सहैकं रूपं यस्याः सा तथाविधा न भवति । अविवक्षितवाच्ये व्यञ्जकत्वं गुणवृत्तेः पृथक्चारुप्रतीतिहेतुत्वात्विवक्षितवाच्यनिष्ठव्यञ्जकत्ववत्, न हि गुणवृत्तेश्चारुप्रतीतिहेतुत्वमस्तीति
बालप्रिया
व्यङ्ग्यमात्रान्वितमारोपितमेव प्रतीतिविश्रान्तिस्थानमस्तु, किंस चाररूपव्यङ्ग्यसमाश्रयणेनेत्यत आहआरोपित इत्यादि । असम्भवतीति हेतुगर्भम् । क्षणमात्रमवलम्बितायामित्यनेन गुणवृत्तिविषयभूतार्थस्यावान्तरतात्पर्यगोचरत्वं दर्शितम् । वृत्तौ “तथाविधे विषय” इति । असम्भवदर्थकवाक्य इत्यर्थः । उपसंहरति “तस्मादि"त्यादि । व्यञ्जकत्वविशेषाविशिष्टेत्येतत्प्रकृतानुगुण्ये व्याचष्टेव्यञ्जकत्वेत्यादि । तेनेति करणे तृतीया । विवरणेन सिद्धं फलितार्थमाहव्यञ्जकत्वमित्यादि । तस्याः गुणवृत्तेः । भेदः अवान्तरधर्मः. व्यञ्जकत्वगुणवृत्योः प्रतिपादितभेदोपसंहारपरतयैवं व्याख्याय व्यञ्जकत्वप्राधान्यस्यान्याप्राधान्यस्य च प्रतिपादितस्योपसंहारपरतयाप्येतं ग्रन्थं व्याचष्टेयदि वेत्यादि । यदि वा अथ च । विशिष्टा विशेषिता न भवतीत्यविशिष्ट । यद्वा विशिष्टं विशेषः आदरः अविद्यमानं विशिष्टं यस्यास्सेति व्यत्पत्तिमभिप्रेत्याहन्यक्कृतस्वभावेति । व्यञ्जकत्वविशेषेणाविशिष्टेति विग्रहं धातूनां बह्वर्थञ्चाभिप्रेत्य प्रकारान्तरमाहआसमन्ताद्य्वाप्तेति । यदिवेत्यनुषङ्गः । ननु तथापि गुणवृत्तेर्व्यञ्जकत्वैकरूपत्वमस्त्विति शङ्कायामुक्तं, न तु तदेकरूपेति तद्विवृणोतितेनेत्यादि । तदेकरूपत्वाभावे हेतुः “सहृदये"त्यादि । नेत्यस्यानुषङ्गः । यतो गुणवृत्तिः सहृदयहृदयाह्लादिनी प्रतीयमाना च न भवत्यतो न तदेकरूपेति सम्बन्धः । व्यङ्ग्यगतं सहृदयहृदयाह्णादकत्वं प्रतीयमानत्वञ्च व्यञ्जकत्वे समारोप्य गुणवृत्तेस्तन्निषेधपूर्वक्तं तदेकरूपत्वं निषिद्धमिति बोध्यम् । एवं गुणवृत्तेर्व्यञ्जकत्वैकरूपत्वाभावप्रतिपादनेन व्यञ्जकत्वस्य गुणवृत्तिभिन्नत्वं, लभ्यते, तत्र हेतुप्रदर्शकः प्रतीतिहेतुत्वादिति ग्रन्थः, चारुत्वप्रतीतिहेतुत्वादिति तदर्थः, व्यञ्जकत्वस्येति शेषः । तथाचायं प्रयोग इत्याशयेनाह लोचनेअविवक्षितवाच्य इत्यादि । पृथगिति भिन्नमित्यर्थः । वृत्तौ “तद्रूपशून्याया” इति । चारुत्वप्रतीतिहेतुत्वशून्याया इत्यर्थः । गुणवृत्तेरित्यनुषङ्गः । ग्रन्थमेतमुक्तानुमानोपयोगितयावतारयतिन हीत्यादि । तद्रूपशून्याया दर्शनात् । एतच्च सर्वे प्रावसूचितमपि स्फुटतरप्रतीतये पुनरुक्तम् । अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोर्घर्मः स प्रसिद्धसम्बन्धानुरोधीति न कस्याचिद्विमतिविषयतामर्बहति । शब्दार्थर्योर्हि प्रसिद्धो यः सम्बन्धो वाच्यवाचकभावाख्यास्तमनुरुन्धान एव व्यञ्जकत्वलक्षणो व्यापारः सामग्रन्तरसम्बन्धादौपाधिकः प्रवर्तते । अत एव वाचकत्वात्तस्य विशेषः वाचकत्वं हि शब्दविशेषस्य नियत आत्मा व्युत्पत्तिकालादारभ्य तदविनाभावेन तस्य प्रसिद्धत्वात् । स त्वनियतः, औपाधिकत्वात् ।
लोचनं
दर्शयतिविषयान्तर इति । अग्निर्वटुरित्यादौ । प्रागिति प्रथमोद्द्योते । नियतस्वभावाच्च वाच्यवाचकत्वादौपाधिकत्वेनानियतं व्यञ्जकत्वं कथं न भिन्ननिमित्तमिति दर्शयतिअपि चेति । औपाधिक इति । व्यञ्जकत्ववैचित्र्यं यत्पूर्वमुक्तं तत्कृत इत्यर्थः । अत एव समयनियमितादभिधाव्यापाराद्विलक्षण इति यावत् । एतदेव
बालप्रिया
विषयान्तर इत्यस्य विवरणमग्निर्वटुरित्यादाविति । अथापि चेत्यादिग्रन्थोऽभाववादिनः प्रति स्थूणानिखननन्यायेन व्यञ्जकत्वसाधक इत्यभिप्रायेणावतारयतिनियतेत्यादि । नियतस्वाभावादिति । वाचकत्वं हि समयापेक्षत्वेन नियतस्वरूपमिति भावः । अनियतत्वे हेतुःौपाधिकत्वेनेति । कथमित्यादि । वाचकत्वाद्व्यञ्जकत्वस्य प्रवृत्तेर्निमित्तं भिन्नमेवेत्यर्थः । वृत्तौ “सामग्र्यन्तरे"त्यादि । “सामग्न्यन्तरसम्बन्धात्” प्रकरणादेर्मुख्यसामगन्यास्सन्निधानात् । “औपाधिकः प्रवर्तते” औपाधिकस्सन्नुल्लसतीत्यर्थः । अत्रोपाधिशब्देनान्यावान्तरसामग्रीविवक्षितेत्याशयेन विवृणोतिव्यञ्जकत्वेत्यादि । व्यञ्जकत्वे यद्वैचित्र्यं वाच्यवाकयोर्गुणत्वप्राधान्यादि । ननु सामग्र्यन्तरसम्बन्धजनितत्वेऽप्ययं व्यापारो वाचकव्यापारत्वादभिधैवास्त्वित्यत आहअत एवेत्यादि । अत एव यतस्मामग्र्यन्तरसम्बन्धादौपाधिको जनितस्तत एवेत्यर्थः । एतदेव उक्तमेव । वृत्तौ “शब्दविशेषस्ये"ति । साक्षात्समयापेक्षिणश्शब्दस्येत्यर्थः । “आत्मा” स्वभावः । “व्युत्पत्तिकालादि"ति । सङ्केतकालादित्यर्थः । तथा पाठश्च । “तदि"ति शब्देत्यर्थः । “तस्य” वाचकत्वस्य । “स त्वि"ति । व्यञ्जकत्वव्यापारस्त्वित्यर्थः । “प्रकरणाद्यवच्छेदेन” प्रकरणादिसहकारेण । प्रकरणाद्यवच्छेदेन तस्य प्रतीतेरितरथा त्वप्रतीतेः । ननु यद्यनियतस्तत्किं तस्य स्वरूपपरीक्षया । नैष दोषः - यतः शब्दात्मनि तस्यानियतत्वम्, न तु स्वे विषये व्यङ्ग्यलक्षणे । लिङ्गत्वन्यायश्चास्य व्यञ्जकभावस्य लक्ष्यते, यथा लिङ्गत्वमाश्रयेष्वनियतावभासम्, इच्छाधीनत्वात् - खविषयाव्यभिचारि च । तथैवेदं यथा दर्शितं
लोचनं
सफुटयतिअत एवेति । औपाधिकत्वं दर्शयतिप्रकरणादीति । किं तस्येति । अनियतत्वाद्यथारुचि कल्प्येत पारमार्थिकं रूपं नास्तीति - न चावस्तुनः परीक्षोपपद्यत इति भावः । शब्दात्मनीति । सङ्केतास्पदे पदस्वरूपमात्र इत्यर्थः । आश्रयेष्विति । न हि धूमे वह्निगमकत्वं सदातनम्,अन्यगमकत्वस्य वह्न्यगमकत्वस्य च दर्शनात् । इच्छादीनत्वादिति । इच्छात्र पक्षधर्मत्वजिज्ञासाव्याप्तिसुस्मूर्षाप्रभृतिः । स्वविषयेति ।
बालप्रिया
“तस्य” व्यञ्जकत्वस्य । “प्रतीतेः” उन्मेषात् । प्रकरणादीन्त्यादिग्रन्थो न हेत्वन्तरप्रदर्शकः, किन्त्वौपाधिकत्वादित्युक्तस्यैव विवरणरूप इत्याह लोचनेऔपाधिकत्वं दर्शयतीति । वृत्तौ यद्यनियत” इति । स इत्यनुषज्यते । तस्य व्यञ्जकत्वस्य । लोचने भावमाहअनियतत्वादित्यादि । अनियतत्वातभिधावन्नियतत्वाभावात् । कल्प्येतेति । तत्स्वरूपमिति शेषः । अत्र हेतुमाहपारमार्थिकमित्यादि । पारमार्थिकं अनुगतम् । इतीति हेतौ । किं तत इत्यत आहन चेत्यादि । गगनारविन्दादेरपि परीक्ष्यत्वप्रसङ्गादिति भावः । शब्दात्मनीयनेन विवक्षितं व्याचष्टेसङ्केतास्पद इत्यादि । मात्रपदेनार्थस्य व्यवच्छेदः । वृत्तौ “तस्ये"ति । व्यञ्जकत्वस्येत्यर्थः । “न त्वि"त्यादि । तस्यानियतत्वमित्यनुषज्यते । स्वे स्वसम्बन्धिनि । “व्यङ्ग्यलक्षणे विषये” व्यङ्ग्यार्थे । यस्य यरय व्यङ्ग्योऽर्थो विद्यते तस्य तस्य व्यञ्जकत्वमित्येवमर्थविषये नियतत्वं व्यञ्जकत्वस्यास्त्येवेत्यर्थः । अत्र दृष्टान्तकथनम्लिङ्गत्वे"त्यादि । “लिङ्गत्वन्यायः” लिङ्गत्वसाम्यम् । “लिङ्गत्वं” वह्न्यादिज्ञापकत्वम् । “आश्रयेषु” धूमादिषु । अनियतावभासमित्येतद्विवृणोति लोचनेन हीत्यादि । न हि सदातनमित्यत्र हेतुमाहअन्येत्यादि । अन्येति । वह्न्यतिरिक्तेत्यर्थः । वह्न्यगमकत्वस्येति । कदाचिद्वह्निगमकत्वाभावस्येत्यर्थः । दर्शनातनुभवात् । इच्छाधीनत्वादित्यत्रेच्छापदं प्रकृतानुगुणतया व्याख्यातिइच्छेत्यादि । पक्षधर्मता व्याप्यस्य पक्षवृत्तिता व्यञ्जकत्वम् । शब्दात्मन्यनियतत्वादेव च तस्य वाचकत्वप्रकारता न शक्या कल्पयितुम् । यदि हि वाचकत्वप्रकारता तस्य भवेत्तच्छब्दात्मनि नियततापि स्याद्वाचकत्ववत् । स च तथाविध औपाधिको धर्मः शब्दानामौत्पत्तिकशब्दार्थसम्बन्थवादिना वाक्यतत्त्वविदा पौरुषापौरुषेययोर्वाक्ययोर्विशेषमभिदधता नियमेनाभ्युपगन्तव्यः, तदनभ्युपगमे हि तस्य शब्दार्थसम्बन्धनित्यत्वे सत्यप्यपौरुषेयपौरुषेययोर्वाक्ययोरर्थप्रतिपादने
लोचनं
स्वस्मिन्विषये च गृहीते त्रैरूप्यादौ न व्यभिचरति । न कस्यचिद्विमतिमेतीति यदुक्तं तत्स्फुटयतिस चेति । व्यञ्जकत्वलक्षण इत्यर्थः । औत्पत्तिकेति । जन्मना द्वितीयो भावविकारः सत्तारूपः सामीप्याल्लणातो वानुत्पत्तिः,
बालप्रिया
तस्याः जिज्ञासा । व्याप्तिसुस्मूर्षा हेतौ साध्यस्य या व्याप्तिः, तत्स्मरणेच्छा । प्रभृतिपदेन व्याप्यस्य सपक्षसत्वादिजिज्ञासा गृह्यते । पक्षधर्मताजिज्ञासादीनामनुमितिं प्रति प्रयोजकत्वं प्राचीनाभ्युपगतं तद्वारा च लिङ्गत्वस्य तदधीनत्वं बोध्यम् । स्वाविषयाव्याभिचारीत्यस्य तार्त्पार्थविवरणम्स्वस्मिन्नित्यादि । स्वस्मिन् स्वसम्बन्धिनि लिङ्गे । विषये च साध्ये च । विषये वेति च पाठः । गृहीत इत्यनेनानयोस्सम्बन्धः । त्रैरूप्यादाविति । त्रैरूप्यमनुमानाङ्गभूतं पक्षसत्वसपक्षसत्वविपक्षासत्वरूपमादिपदेनाबाधितत्वादिकं गृह्यते । तत्र त्रैरूप्यस्य लिङ्गे अबाधितत्वादेस्साध्ये च ग्रहः । न व्यभिचरतीति ज्ञापकत्वं स्वविषये न व्यभिचरतीत्यर्थः । स्वविषयाव्यभिचारीति वृत्तेस्तु ज्ञापकत्वस्य विषये ज्ञाप्ये वह्न्यादौ न व्यभिचरतीत्येवार्थः । वृत्तौ “वाचकत्वप्रकारते"ति । वाचकत्वावान्तरधर्मतेत्यर्थः । “तदि"ति । तर्हीत्यर्थः । नन्वेवं व्यञ्जकत्वं न कस्य चिद्विमतिविषयतामर्हन्तीत्युक्तमयुक्तं व्यङ्ग्यव्यञ्जकभावलक्षणस्य शब्दार्थसम्बन्धस्यानियतत्वेनौत्पत्तिकसूत्रविरोधादित्याशङ्कां स चेत्यादिग्रन्थेन परिहरतीत्यवतारयतिन कस्यचिदित्यादि । स्फुटयति स्फुटं करोति साधयतीति यावत् । वृत्तौ शब्दानां धर्मं इति योजना । “औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध” इत्यादिजैमिनीयं सूत्रं मनसि कृत्योक्तम् “औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध” इत्यादिजैमिनीयं सूत्रं मनसि कृत्योक्तम् “औत्पत्तिके"त्यादि । तत्रौत्पत्तिकपदेन नित्य इत्यर्थो विवक्षितस्तल्लाभप्रकारं दर्शयतिजन्मनेत्यादि । लक्ष्यत इति । जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यतीति षङ्विकारा भावानामुक्ताः । तत्र द्वितीयस्सत्तारूपो विकारः उत्पत्तिपदार्थेन जन्मना सामीप्यान्निमित्ताल्लक्ष्यत इत्यर्थः । सत्तामात्रस्य लक्षणात्सदासत्वं कल्प्यमित्यपरितोषादाहविपरीतेत्यादि । जन्मना लक्ष्यत निर्विशेषत्वं स्यात् । तदभ्युपगमे तु पौरुषेयाणां वाक्यानां पुरुषेच्छानुविधानसमारोपितौपाधिकव्यापारान्तराणां सत्यपि स्वाभिधेयसम्बन्धापरित्यागे मिथ्यार्थतापि भवेत् ।
लोचनं
रूढ्या वा औत्पत्तिकशब्दो नित्यपर्यायः तेन नित्यं यः शब्दार्थयोः शक्तिलक्षणं संबन्धमिच्छति जैमिनेयस्तेनेत्यर्थः । निर्विशेषत्वमिति । ततश्च पुरुषदोषानुप्रवेशस्याकिञ्चित्करत्वात्तन्निबन्धं पौरुषेयेषु वाक्येषु यदप्रामाण्यं तन्न सिध्येत् । प्रतिपत्तुरेव हि यदितथा प्रतिपत्तिस्तर्हि वाक्यस्य न कश्चिदपराध इति कथमप्रामाण्यम् । अपौरुषेये वाक्येऽपि प्रतिपत्तृदौरात्म्यात्तथा स्यात् ।
बालप्रिया
इत्यनुषङ्गः विरोधरूपसम्बन्धेन निमित्तेन जन्मना त्पत्तिर्लक्ष्यत इत्यर्थः । अत्र मतुबर्थे तद्धितः पक्षद्वयेऽपि । लाघवादाहरूढ्या वेत्यादि । रूढ्या सूत्रकारसङ्केतेन । फलितमाहतेनेत्यादि । यो जैमिनेय इच्छतीति सम्बन्धः । शक्तिलक्षणमिति । बोधनसामर्थ्यरूपमित्यर्थः । वृत्तौ पूर्वोक्तशङ्काबीजत्वेनौत्पत्तिकेत्याद्युक्तं पौरुषेयेत्यादिकन्त्वभ्युपगन्तव्यत्वे हेतुत्वेन । अनभ्युपगमे दोषमाह “तदि"त्यादि । “तस्ये"ति । वाक्यतत्वविदो जैमिनेयस्येत्यर्थः । मत इति शेषः । “शब्दे"त्यादि । “शब्दार्थसम्बन्धस्य” शब्दगतार्थबोधनसामर्थ्यरूपस्य नित्यत्वादित्यर्थः । अर्थगोचरज्ञानजननशक्तिर्हि प्रामाण्यं, सा शक्तिर्यथार्थेष्विवायथार्थेष्वपि वाक्येष्वस्ति । प्रमाण्यं स्वत एव । अप्रामाण्यन्तु कारणदोषबाधकप्रत्ययादिना जन्यत इत्यादिमीमांसकमतमत्रावधेयम् । निर्विशेषत्वं स्यादित्यत्रेष्टापत्तिं परिहर्तुं निर्विशेषत्वे दोषं दर्शयतिततश्चेत्यादि । पुरुषेति । पुरुषे वक्तरि यः कादाचित्को दोषस्य भ्रमादेरनुप्रवेशः, यद्वापुरुषदोषस्य वाक्ये योऽनुप्रवेशस्तस्येत्यर्थः । अकिञ्चित्करत्वादिति । नित्यस्य शब्दार्थसम्बन्धस्य बाधने शक्त्यभावादिति भावः । तन्निबन्धनं वस्तुतः पुरुषदोषाधीनम् । पौरुषेयेषु लौकिकेषु वाक्येषु अयथार्थवाक्येषु अप्रामाण्यं यथार्थत्वनिमित्तकमप्रामाण्यम् । ततश्च तन्न सिद्ध्येदिति सम्बन्धः । ननु पुरुषदोषःप्रतिपत्तृद्वारा वाक्यस्याप्रामाण्यसम्पादक इति शङ्कायामाहप्रतिपत्तुरित्यादि । तथेति । अयथार्थतयेत्यर्थः । दोषान्तरञ्चाहअपौरुषयेत्यादि । अपौरुषेयवाक्ये वैदिकवाक्ये । प्रतिपत्तृदौरात्मयात्प्रतिपत्तुर्देषात् । तथा स्यातयथार्थत्वप्रतीत्या अप्रामाण्यं स्यात् । स्यात्वृत्तौ तथाविधौपाधिकधर्म्माभ्युपगमेगुणमाह “तदभ्युपगम” इत्यादि । “पुरुषेति । पुरुषेच्छायाः वक्तृपुरुषाभिप्रायस्यानुविधानाद्धेतोः समारोपितं कल्पितमत एवौपाधिकञ्च यद्व्यापारान्तरं येषु तेषामित्यर्थः । दृश्यते हि भावानामपरित्यक्तस्वस्वभावानामपि सामग्न्यन्तरसम्पातसम्पादितौपाधिकव्यापारान्तराणां विरुद्धक्रियत्वम् । तथा हिहिममयूखप्रभृतीनां निर्वापितसकलजीवलोकं शीतलत्वमुद्वहतामेव प्रियाविरहदहनदह्यमानमानसैर्जनैरालोक्यमानानां सतां सन्तापकारित्वं प्रसिद्धमेव । तस्मात्पौरुषेयाणां वाक्यानां सत्यपि नैसर्गिकेऽर्थसम्बन्धे मिथ्यार्थत्वं समर्थयितुमिच्छता वाचकत्वव्यतिरिक्तं किञ्चद्रूपमौपाधिकं व्यक्तमेवाभिधानीयम् । तच्च व्यञ्जकत्वादृते नान्यत् । व्यङ्ग्यप्रकाशनं हि व्यञ्जकत्वम् । पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्ति । स च व्यङ्ग्य एव
लोचनं
ननु धर्मान्तराभ्युपगमेऽपि कथं मिथ्यार्थता, न हि प्रकाशकत्वलक्षणं स्वधर्मं जहाति शब्द इत्याशङ्क्याहदुश्यत इति । प्राधान्येनेति । यदाह"एवमयं पुरुषा वेदेति भवति प्रत्ययः न त्वेवमयमर्थ” इति । तथा प्रामाणान्तरदर्शनमत्र बाध्यते, न तु
बालप्रिया
उक्तार्थस्यानुभवसिद्धत्वमुक्तं दृश्यत इत्यादिना तद्वचनं किमर्थमित्यतस्तद्गन्थमवतारयतिनन्वित्यादि । कथमिति न सिद्ध्येदित्यर्थः । अत्र हेतुमाहन हीत्यादि । प्रकाशकत्वलक्षणमिति । अर्थबोधनसामर्थ्यरूपमित्यर्थः । न हि जहातीति सम्बन्धः । कॢप्तकल्प्यमानयोः कॢप्तं बलवदिति न्यायोऽनेन दर्शितः । वृत्तौ “भावानाम्” इति । पदार्थानामित्यर्थः । सामग्न्यन्तरसम्पातेन सम्पादितमत एवौपाधिकं धर्मान्तरं येषु तेषाम् । “विरुद्धक्रियत्वं” स्वस्वभावविरुद्धक्रियोत्पादकत्वम् । “हिममयूखः” चन्द्रः । “निर्वापितः” सन्तापशान्तिं प्रापितो जीवलोको येन तत् । तथाविधं शीतलत्वमुद्वहतामित्यनेनापरित्यक्तस्वभावत्वं प्रियाविरहेत्यादना सामग्र्यन्तरेत्याद्युक्तं सन्तापकारित्वमित्यनेन विरुद्धक्रियत्वञ्च दर्शितम् । यथा शाकुन्तले “विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैः” इति । उपसंहरति “तस्मादि"त्यादि । पौरुषेयाणि वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्तीत्यत्र जैमिनिसूत्रभाष्यकृद्वचनं प्रमाणयतियदाहेति । अयं पुरुष इति । वक्तृपुरुष इत्यर्थः । एवं वेदेति । यथानेनोक्तं तथा जानातीत्यर्थः । इति प्रत्ययो भवतीति योजना । प्रतिपत्तुरिति शेषः । न त्वेवमर्थ इति । अयमर्थ एवमेवेति प्रत्ययस्तु प्रतिपत्तर्न भवतीत्यर्थः । अर्थस्य बाधसम्भवादिति भावः । अतस्तत्तद्वाक्यार्थज्ञानरूपं पुरुषाभिप्रायमेव प्राधान्येन प्रकाशयन्तीति भावः । न त्वमिधेयः, तेन सहाभिधानस्य वाच्यवाचकभावलक्षणसम्बन्धाभावात् । नन्वनेव न्यायेन सर्वेषामेव लौकिकानां वाक्यानां ध्वनिव्यवहारः प्रसक्तः । सर्वेषामप्यनेन न्यायेन व्यञ्जकत्वात् । सत्यमेतत् - किं तु वक्रभिप्रायुप्रकाशनेन यद्व्यञ्जकत्वं तत्सर्वेषामेव लौकिकानां वाक्यानामविशिष्टम् । तत्तु वाचकत्वान्न भिद्यते व्यङ्ग्यं हि तत्र नान्तरीयकतया व्यवस्थितम् ।
लोचनं
शब्दोऽन्वय इत्यनेन पुरुषाभिप्रायानुप्रवेशादेवाङ्गुल्यग्रवाक्यादौ मिथ्यार्थत्वमुक्तम् । तेन सहेति । अनियततया नैसर्गिकत्वाभावादिति भावः । नान्तरीयकतयेति ।
बालप्रिया
नन्वस्तु पुरुषाभिप्रायो व्यङ्ग्यः व्यापारान्तरञ्च व्यञ्जकत्वं वाक्यस्य, तथापि कथं मिथ्यार्थकत्वमित्यत आहतथेत्यादि । तथा अभिप्रायव्यञ्जकत्वेन प्रकारेण अत्र पौरुषेयवाक्ये विषये । प्रमाणान्तरदर्शनं प्रमाणान्तरेण प्रत्यक्षादिना दर्शनं तद्वाक्यार्थज्ञानम् । बाध्यते क्वचिद्बाधितं क्रियते । बाधा नाम अनुत्पत्तिः । पौरुषेयवाक्यस्य पुरुषेच्छानुविधायित्वेन यथा दृष्टार्थकत्वनियमाभावात्कदाचित्तदर्शविषयकं प्रत्यक्षादिज्ञानम् । नोत्पद्यत इत्यतो मिथ्यार्थकतेति भावः । न त्विति । बाध्यत इत्यनुषज्यते । शाबदोऽन्वयः शब्दस्यार्थेन स्वाभाविकस्सम्बन्धोऽर्थबोधनसामर्थ्यंलक्षणः । सामान्येनोक्तं विशेषे दर्शयन्नाहैत्यनेनेत्यादि । अङ्गुल्यग्रवाक्यादौ अङ्गुल्यग्रे करिवरशतमिति वाक्यादौ । मिथ्यार्थत्वमुक्तमिति । असम्बद्धार्थस्यापि पुरुषाभिप्रेतत्वसम्भवादिति भावः । तथावोक्तरूपस्य शब्दार्थसम्बन्धस्य नित्यत्वेऽपि पौरुषेयवाक्यानां पुरुषाभिप्रायानुविधायित्वात्तदभिप्रेतं यद्वाक्यार्थस्यासत्यत्वं, तद्वाक्यस्य मिथ्यार्थकत्वेनाप्रामाण्यम् । अपौरुषेयाणां वाक्यानान्तु वक्तुरभावेन तेषां सर्वेषामेव प्रामाण्यञ्चेति बोध्यम् । वृत्तौ “तेन सहे"ति । पुरुषाभिप्रायेण सहेत्यर्थः । “अभिधानस्य” शब्दस्य । “वाच्यवाचकसम्बन्धाभावादि"ति । अनेन शब्दस्य व्यङ्ग्येन सह यस्सम्बन्धस्तस्य वाच्यवाचकभावत्वं नास्तीति दर्शितं, तत्र हेतुमाह लोचनेअनियतत्वादित्यादि । अनियतत्वेन हेतुना स्वाभाविकत्वाभावादित्यर्थः । अथाभिप्रायस्य व्यङ्ग्यत्वोक्तिमाश्रित्य शङ्कतेऽनन्वनेने"त्यादि । “प्रसक्तः” प्राप्तः, यद्वाआपत्तिविषयः । अत्र हेतुमाह “सर्वेषाम्” इत्यादि । इष्टापत्तिं दर्शयति “सत्यम्” इत्यादि । “सत्यमेतदि"ति । अभिप्रायप्रकाशनेन यद्व्यञ्जकत्वं तत्सर्वेषामस्तीत्यर्थः । विशेषमाह “किन्त्वि"त्यादि । यद्व्यजकत्वं तत्तु वाचकत्वान्न भिद्यत इति सम्बन्धः । वक्त्रभिप्रायप्रकाशनेनेत्यस्य स्थाने वक्त्रभिप्रायविशिष्टार्थप्रकाशनेनेति च पाठः । “अविशिष्टं” साधारणम् । वाचकत्वान्न भिद्यत इत्यत्र हेतुमाह “व्यङ्ग्यं ही"त्यात्यादि । न तु विवक्षितत्वेन । यस्य तु विवक्षितत्वेन व्यङ्ग्यस्य स्थितिः तद्य्वञ्जकत्वं ध्वनिव्यवहारस्य प्रयोजकम् ।
लोचनं
गामानयेति श्रुतेऽप्यभिप्राये व्यक्ते तदभिप्रायविशिष्टोऽर्थ एवाभिप्रेतानयनादक्रियायोग्यो न त्वभिप्रायमात्रेण किञ्चित्कृत्यमिति भावः । विवक्षितत्वेनेति । प्राधान्येनेत्यर्थः । यस्य त्विति । ध्वन्युदाहरणेष्विति भावः । काव्यवाक्येभ्यो हि न नयनानयनाद्युपयोगिनी प्रतीतिरभ्यर्थ्यते, अपि तु प्रतीतिविश्रान्तिकारिणी, सा चाभिप्रायनिष्ठैन नाभिप्रेतवस्तुपर्यवसाना । नन्वेवमभिप्रायस्यैव व्यङ्ग्यत्वात्त्रिविधं व्यङ्ग्यमिति यदुक्तं तत्कथमित्याह
बालप्रिया
“नान्तरीयकतये"ति । अविनाभूतत्वेनेत्यर्थः । भावं विवृणोति लोचनेगामित्यादि । अभिप्राये व्यक्तेऽपीति सम्बन्धः । क्षीरग्रहणाद्यर्थकगवानयनाभिप्राये व्यक्तेऽपीत्यर्थः । अर्थः गोकर्मकात्वाद्यर्थः । न त्वित्यादि । गोकर्मकानयनादिक्रियारूपार्थं विना अभिप्रायासिद्धिरतश्च न वाचकत्वात्पृथग्व्यञ्जकत्वं वाच्याद्य्वङ्ग्यमिवेति च भावः । अभिप्रायरूपव्यङ्ग्यस्य विवक्षितत्वप्राप्त्यभावान्निषेधानुपपत्तिमाशङ्क्य व्याचष्टेप्राधान्येनेति । वृत्तौ यस्य व्यङ्ग्यस्येति सम्बन्धः । विवक्षितत्वेन स्थितिरित्यत्राकाङ्क्षां पूरयतिध्वन्युदाहरणेष्विति । वृत्तौ तद्व्यज्यकत्वमित्यस्य तत्कर्मकव्यञ्जकत्वमित्यर्थः । ननु ध्वन्युदाहरणेष्वपि लौकिकवाक्येष्विव विवक्षितत्वापरपर्यायं प्राधान्यं वाच्यस्य विद्यत इत्याशङ्क्यायामभिप्रायमाहकाव्यवाचक्येभ्य इत्यादि । नयनेति । प्रापणादिक्रियोपयोगिनीत्यर्थः । प्रतीतिः वाच्यार्थप्रतीतिः । नाभ्यर्थ्यत इति । किन्तु बलादापततीति भावः । अपि त्विति । का पुनरभ्यर्थ्यत इति भावः । प्रतीतिविश्रान्तिकारिणी वाच्यप्रतीतिविश्रान्तिकारिणी । प्रतीतिरभ्यर्थ्यत इत्यनुषङ्गः । रसादिप्रतीतिरभ्यर्थ्यन्त इत्यर्थः । विभावादिप्रतीतिरूपत्वात्तस्या इति भावः । ननु सापि वाच्यपर्यवसायिन्यस्तु, तन्मूलकत्वादिति कथं व्यङ्ग्यस्य प्राधान्यमित्यत आहसा चेत्यादि । चस्त्वर्थे । अभिप्रायनिष्ठैव रसादिव्यङ्ग्यपर्यवसायिन्येव । अभिप्रेतवस्त्विति । वाच्यार्थेत्यर्थः । अतश्च वाच्यस्य न विवक्षितत्वलक्षणं प्राधान्यं काव्यवाक्येष्विति भावः । यत्त्वित्यादिग्रन्थमानर्थङ्क्यशङ्कापरिहारायावतारयतिनन्वित्यादि । वृत्तावभिप्रायविशेषरूपं यद्य्वङ्ग्यन्तु तात्पर्येण प्रकाश्यमानं सच्छशब्दार्थाभ्यां प्रकाश्यते तद्विवक्षितं भवतीति सम्बन्धः । “विवक्षितं” प्रधानम् । “तदेव” अभिप्रायविशेषरूपमेव । अपरिमितविषयस्येति हेतुगर्भम् । किन्तु तथा दर्शितेति सम्बन्धः । “तथा” उक्तप्रकारेण । “अनभिप्रायरूपञ्चे"ति । विवक्षितमित्यनुषङ्गः । “नातिव्याप्ति"रित्यादि । गुणीभूतव्ययत्त्विति । यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् । किन्तु तदेव केवलमपरिमितविषयस्य घ्वनिव्यवहारस्य न प्रयोजकमव्यापकत्वात् । तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेष धव्निलक्षणे नातिव्याप्तिर्न चाव्याप्तिः । तस्माद्वाक्यतत्त्वविधां मतेन तावद्य्वञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते । परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव प्रवृत्तोऽयं ध्वनिव्यवहार इति लोचनमेवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयतिपरिनिस्चितेति । परितः निश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया अविद्यासंस्काररहितं शब्दाख्यं प्रकाशपरामर्थस्वभावं ब्रह्म व्यापकत्वेन बृहद्विशेषशक्तिनिर्भरतया च बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणं यैरिति ।
बालप्रिया
“नान्तरीयकतये"ति । अविनाभूतत्वेनेत्यर्थः । भावं विवृणोति लोचनेगामित्यादि । अभिप्राये व्यक्ते"तीति सम्बन्धः । क्षीरग्रहणाद्यर्थकगवानयनाभिप्राये व्यक्तेऽपीत्यर्थः । अर्थः गोकर्मकात्वाद्यर्थः । न त्वित्यादि । गोकर्मकानयनादिक्रियारूपार्थं विना अभिप्रायासिद्धिरतश्च न वाचकत्वात्पृथग्व्यञ्जकत्वं वाच्याद्व्यङ्ग्यमिवेति च भावः । अभिप्रायरूपव्यङ्ग्यस्य विवक्षितत्वप्राप्त्यभावान्निषेधानुपपत्तिमाशङ्क्य व्याचष्टेप्राधान्येनेति । वृत्तौ यस्य व्यङ्ग्यस्येति सम्बन्धः । विवक्षितत्वेन स्थितिरित्यत्राकाङ्क्षां पूरयतिध्वन्युदाहरणेष्विति । वृत्तौ तद्य्वञ्जकत्वमित्यस्य तत्कर्मकव्यञ्जकत्वामित्यर्थः । ननु ध्वन्युदाहरणेष्वपि लौकिकवाक्येष्विव विवक्षितत्वापरपर्यायं प्राधान्यं वाच्यस्य विद्यत इत्याशङ्कायामभिप्रायमाहकाव्यवाक्येभ्य इत्यादि । नयनेति । प्रापणादिक्रियोपयोगिनीत्यर्थः । प्रतीतिः वाच्यार्थप्रतीतिः । नाभ्यर्थ्यत इति । किन्तु बलादापततीति भावः । अपि त्विति । का पुनरभ्यर्थ्यत इति भावः । प्रतीतिविश्रान्तिकारिणी वाच्यप्रतीतिविश्रान्तिकारिणी । प्रतीतिरभ्यर्थ्य इत्यनुषङ्गः । रसादिप्रतीतिरभ्यर्थ्यन्त इत्यर्थः । विभावादिप्रतीतिरूपत्वात्तस्या इति भावः । ननु सापि वाच्यपर्यंवसायिन्यस्तु, तन्मूलकत्वादिति कथं व्यङ्ग्यस्य प्राधान्यमित्यत आहसा चेत्यादि । चस्त्वर्थे । अभिप्रायनिष्ठैव रसादिव्यङ्ग्यपर्यवसायिन्येव । अभिप्रेतवस्त्विति । वाच्यार्थत्यर्थः । अतश्च वाच्यस्य न विवक्षितत्वलक्षणं प्राधान्यं काव्यवाक्येष्विति भावः । यत्त्वित्यादिग्रन्थमानर्थक्यशङ्कापरिहारायावतारयतिनन्वित्यादि । वृत्तावभिप्रायविशेषरूपं यद्य्वङ्ग्यन्तु तात्पर्येण प्रकाश्यमानं सच्छशब्दार्थाभ्यां प्रकाश्यते तद्विवक्षितं भवतीति शम्बन्धः । “विवक्षितं” प्रधानम् । “तदेव” अबिप्रायविशेषरूपमेव । अपरिमितविषयस्येति हेतुगर्भम् । किन्तु तथा दर्शितेति सम्बन्धः । “तथा” उक्तप्रकारेण । “अनभिप्रायरूपञ्चे"ति । विवक्षितमित्यनुषङ्ग । “नातिव्याप्ति"रित्यादि । गुणीभूत्वयङ्ग्यस्थलेऽभिप्रायरूपव्यङ्ग्यस्य यत्त्वभिप्रायविशेषरूपं व्यङ्ग्यं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् । किन्तु तदेव केवलमपरिमितविषयस्य ध्वनिव्यवहारस्य य प्रयोजकमव्यापकत्वात् । तथा दर्शितभेदत्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनभिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेषे ध्वनिलक्षणे नातिव्याप्तिर्न चाव्याप्तिः । तस्माद्वाक्यत्त्वविदां मतेन तावद्य्वञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते । परिनिश्चितनिरपभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव ध्वनिव्यवहार इति लोचनमेवं मीमांसकानां नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयतिपरिनिश्चितेति । परितः निश्चितं प्रमाणेन स्थापितं निरपभ्रंशं गलितभेदप्रपञ्चतया अविद्यासंस्काररहितं शब्दाख्यं प्रकाशपरामर्शस्वभावं ब्रह्म व्यापकत्वेन बृहद्विशेषशक्तिनिर्भरतया बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणं यैरिति ।
बालप्रिया
क्वचित्सत्वात्तदादाय तत्रातिवल्याप्तिर्न रसादिव्यङ्ग्यस्याभिप्रायरूपत्वाभावात्तत्स्थलेऽव्याप्तिश्च नेत्यर्थः । उपसंहरति “तस्मादि"त्यादि । न न विरोधीति सम्बन्धः । वाक्यतत्ववित्पदार्थकथनेन वृत्तमनुवदन्नुपसंहारग्रन्थं व्याकुर्वन् परिनिश्चितेत्यादिविशेषणविशिष्टविपश्चिच्छब्दार्थकथनेन वर्तिष्यमाणग्रन्थतात्पर्यमाहएवमित्यादिना । सेति । विमतिरित्यर्थः । परिनिश्चितेत्यादिग्रन्थमनादिनिधनं ब्रह्येत्यादिभर्तृहरिवचनादिकमनुसृत्य सविग्रहं विवृणोतिपरित इत्यादि । परितः बहुमुखान्वादिनः प्रति दोषविशेषवाचिनापभ्रंशशब्देनात्र सर्वदोषहेतुरविद्यासंस्कारो लक्ष्यत इत्याशयेन व्याचष्टेगलितेत्यादि । गलितभेदप्रपञ्चतया भेदप्रपञ्चसंसर्गरहितत्वेन । उपलक्षणे तृतीया । गलितभेदप्रपञ्चत्वे हेतुरविद्येत्यादि । शब्दपदविवरणं शब्दार्थाख्यमिति । शब्द इत्यर्थ इति चाख्या यस्य तत् । नामरूपात्मकमित्यर्थः । यद्वाशब्दार्थयोराख्या स्फुरणं यस्मिंस्तच्छब्दार्थभ्रमाधिष्ठानमित्षथः । निरूपाधिरूपमाहप्रकाशेत्यादि । स्वप्रकाशज्ञानस्वरूपमित्यर्थः । बृहधातोर्ब्रह्मशब्दनिष्पत्तिमभिप्रेत्य विवृणोतिव्यापकत्वेन बृहदिति । एवं निरुपाधिपरतया व्याख्याय सोपाधिपरतयापि व्याचष्टेविशेषेत्यादि । विशेषाणां व्यष्टिरूपाणां सर्वेषां शक्तिभिर्निर्भरतापूर्णता तया चेत्यर्थः । बृहदित्यनेन सम्बध्नाति । बृहधातोर्बह्मशब्दनिष्पत्तिमभिप्रेत्य विवृणोतिव्यापकत्वेन बृहदिति । एवं निरुपाधिपरतया व्याख्यासोपाधिपरतयापि व्याचष्टेविशेषेत्यादि । विसेषाणां व्यष्टिरूपाणां सर्वेषां शक्तिभिर्निर्भरतापूर्णता तया चेत्यर्थः । बृहदित्यनेन सम्बध्नाति । बृहधातोर्बह्मशब्दनिष्पत्यभिप्रायेण चाहबृंहितमित्यादि । बृंहितमिति कर्तरि क्तः । कथं परिपोषरूपं बृंहणमित्यत आहविश्वेत्यादि । विश्वस्य यानि निर्माणानि तद्विषया याः शक्तयः तैः सह किं विरोधाविरोधौ चिन्त्येते । कृत्रिमशब्दार्थसम्बन्धवादिनां तु युक्तिविदामनुभवसिद्ध एवायं व्यञ्जकभावः शब्दानामर्थान्तराणामिवाविरोधश्चेति न प्रतिक्षेप्यपदवीमवतरति । लोचनमेतदुक्तं भवतिवैयाकरणास्तावद्ब्रह्मपदेनान्यत्किञ्चिदिच्छन्ति तत्र का कथा वाचकत्वव्यञ्जकत्वयोः, अविद्यापदे तु तैरपि व्यापारान्तरमभ्युपगतमेव । एतच्च प्रथमोद्द्योते वितत्य निरूपितम् । एवं वाक्यविदां पदविदां चाविमतिविषयत्वं प्रदर्श्य माणतत्त्वविदां तार्किकाणामपि न युक्तात्र विमतिरिति दर्शयितुमाहकृत्रिमेति । कृत्रिमः सङ्केतमात्रस्वभावः परिकल्पितः शब्दार्थयोः सम्बन्ध इति ये वदन्ति नैयायिकसौगतादयः । यथोक्तम् “न सामयिकत्वाच्छब्दार्थप्रत्ययस्ये"ति । तथा शब्दाः संकेतितं प्राहुरिति । अर्थान्तराणामिति । दीपादीनाम् ।
बालप्रिया
ताभिर्हेतुभिर्ः इश्वरत्वाद्विश्वपरिणमनसमर्थत्वात् । यद्वाविश्वनिर्माणशक्तिर्माया, तस्यारिश्वरत्वाद्विश्वरूपेण परिणममानमायाधिष्टानत्वादित्यर्थः । यैरित्यस्य परिनिश्चितमित्यनेन सम्बन्धः । तेषामिति शेषः । वृत्तौ “विरोधाविरोधावि"ति । पूर्वपक्षतया विरोधस्सिद्धान्ततया अविरोधश्च । ननु वैयाकरणमतमाश्रित्य ध्वनिव्यवहारस्य प्रवृत्तत्वेऽपि वाचकलक्षणस्य शब्दस्य वाचकत्वात्पृथग्व्यञ्जकत्वाङ्गीकारे विरोधाविरोधौ मीमांसकवच्चिन्तनीयाविति तैस्सह किमित्याद्युक्तमयुक्तमिति शङ्कायां तात्पर्यमाहएतदुक्तमित्यादि । ब्रह्मपद इति । विद्यादशायामित्यर्थः । नेच्छन्तीति सम्बन्धः. अन्यदिति । ब्रह्मण इति शेषः । तत्र ब्रह्मपदे । का कथेति । कथापि नास्तीत्यर्थः । अतश्च कथं विरोधाविरोधचिन्ताप्रसङ्ग इति भावः । व्यापारान्तरमिति । व्यञ्जकत्वमित्यर्थः । अभ्युपगतमेवेति । अतस्तत्रापि न विरोधाविरोधचिन्तावसर इति भावः । व्यापारान्तरं तैरम्युपगतमिति कुतोऽवगन्तव्यमित्यत आहएतच्चेति । प्रथमोद्योत इति । ध्वनिलक्षणनिरूपण इति भाव । वृत्तमनुवदन्नवतारयतिएवमित्यादि । युक्तिविदामित्यस्यार्थकथनं प्रमाणतत्वविदां तार्किकाणामिति । सौगतादेरुपलक्षणमिदम् । सङ्केतमात्रस्वभाव इति । सङ्केतस्समयः, स चास्माच्छब्दादयमर्थो बोद्धव्य इत्यादीच्छा । अस्य शब्दस्यायमर्थ इत्युपदेशस्स इति च केचित् । नेत्यादिप्रत्ययस्येत्यन्तं न्यायसूत्रम् । शब्दो लिङ्गविधयार्थबोधक इति पूर्वपक्षस्य समाधानमिदम् । नेति । शब्दो लिङ्गविधयार्थबोधको नेत्यर्थः । अत्र हेतुःसामयिकत्वादित्यादि । शब्दादर्थस्य यः प्रत्ययो बोधस्तस्य सामयिकत्वात्सङ्केतमूलकत्वादित्यर्थः । सौगतवचनमाहशब्दा इत्यादि । शब्दानामयं व्यञ्जकभावोऽनुभवसिद्ध एवेत्येतदुपपादनायार्थान्तराणामिवेति दृष्टान्तकथनं, तत्रार्थान्तराणामित्येतद्व्याचष्टेदीपादीनामिति । वाचकत्वे हि तार्किकाणां विप्रतिपत्तयः प्रवर्तन्ताम्, किमिदं स्वाभाविकं शब्दानामाहोस्वित्सामयिकमित्याद्याः । व्यञ्जकत्वे तु तत्पृष्ठभाविनि भावान्तरसाधारणे लोकप्रसिद्ध एवानुगम्यमाने को विमतीनामवसरः ।
लोचनं
नन्वनुभवेन द्विचन्द्राद्यपि सिद्धं तच्च विमतिपदमित्याशङ्क्याहअविरोधश्चेति । अविद्यमानो विरोधो निरोधो बाधकात्मको द्वितीयेन ज्ञानेन यस्य तेनानुभवसिद्धश्चाबाधितश्चेत्यर्थः । अनुभवसिद्धं न प्रतिक्षेप्यं यथा वाचकत्वम् । ननु तत्राप्येषां विमतिः । नैतत् - न हि वाचकत्वे सा विमतिः, अपि तु वाचकत्वस्य नैसर्गिकत्वकृत्रिमत्वादौ तदाहवाचकत्वे हीति । नन्वेवं व्यञ्जकत्वस्यापि धर्मान्तरमुखेन विप्रतिपत्तिविषयतापि स्यादित्याशङ्क्याहव्यञ्जकत्वे त्विति । भावान्तरेति । अक्षिनिकोचादेः साङ्केतिकत्वं चक्षुरादिकस्यानादिर्योग्यतेति दृष्ट्वा
बालप्रिया
यथा दीपादिः परिकल्पितनिजविषयादन्यं विषयमपि प्रकाशयति, तथा शब्दोऽपि सङ्केतितादन्यं विषयं प्रकाशयतीति तेषामप्यनुभवसिद्ध एवायं शब्दानां व्यञ्जकभाव इति भावः । नन्वित्यादि । अनुभवेन दोषजनितेनानुभवेन । तच्च द्विचन्द्रादि च । तच्चेत्यस्य स्थाने न च नेति च पाठः । परिहारानुगुण्येनावरोधपदं व्याचष्टेअविद्यमान इत्यादि । निरोधः प्रतिबन्धः । फलितमाहतेनेत्यादि । न प्रतिक्षेप्यं न विमतिपदम् । व्यञ्जकत्वं न विमतिपदमनुभवसिद्धत्वाद्वाचकत्ववदित्यनुमानमनेन दर्शितम् । अत्र दृष्टान्तस्य साद्ध्यवैकल्यशङ्कापरिहारपरतया वाचकत्वे हीत्यादिग्रन्थमवतारयतिनन्वित्यादि । तत्रापि वाचकत्वेऽपि । एषां तार्किकाणाम् । नैतदिति । एतन्न युक्तमित्यर्थः । अत्र हेतुःन हीत्यादि । वाचकत्वे धर्मिणि न विमतिः, किन्तु तत्र नैसर्गिकत्वादिधर्म एवेत्यर्थः । अतो न साध्यवैकल्यं दृष्टान्तस्येति भावः । धर्मान्तरमुखेनेति । नैसर्गिकत्वादिमुखेनेत्यर्थः । विप्रतिपत्तिविषयतापीति । न केवलमनुभवसिद्धतेत्यपिशब्दार्थः । वाचकत्वस्य विप्रतिपत्तिविषयत्वं व्यञ्जकत्वस्य तदभावञ्च दर्शयन् भावमाहअक्षीत्यादि । अक्ष्णोर्निकोचो विकासः । आदिपदेन सङ्कोचादिकं गृह्यते तस्य । साङ्केतिकत्वमिति । सङ्केतवत्त्वमित्यर्थः । यद्वाअर्थेन सह सम्बन्धस्य सङ्केतसिद्धत्वमित्यर्थः । योग्यतेति । चाक्षुषादिज्ञानकारणतेत्यर्थः । यथा भूषणसारे “इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथे"ति । इति दृष्टवेति । अलौकिके ह्यर्थे तार्किकाणां विमतयो निखिलाः प्रवर्तन्ते न तु लौकिके । न हि नीलमधुराधिष्वशेषलोकेन्द्रियगोचरे बाघारहिते तत्त्वे परस्परं विप्रतिपन्ना दृश्यन्ते । न हि बाधारहितं नीलं नीलमिति ब्रुवन्नपरेण प्रतिषिध्यते नैतन्नीलं पीतमेतदिति । तथैव व्यञ्जकत्वं वाचकानां शब्दानामवाचकानां च गीतध्वनीनामशब्दरूपाणां च चेष्टादीनां
लोचनं
काममस्तु संशयः शब्दस्याभिधेयप्रकाशने व्यञ्जकत्वं तु यादृशमेकरूपं भावान्तरेषु तादृगेव प्रकृतेऽपीति निश्चतैकरूपे कः संशयस्यावकाश इत्यर्थः । नैतन्नीलमिति नीले हि न बिप्रतिपत्तिः, अपि तु प्राधानिकमिदं पारमाणवमिदं ज्ञानमात्रमिदं तुच्छदमिति तत्सृष्टावलौकिक्य एव विप्रतिपत्तयः । वाचकानामिति । ध्वन्युदाहरणेष्विति भावः ।
बालप्रिया
अक्षिनिकोचादेश्चक्षुरादीन्द्रियस्य चार्थप्रकाशक्त्त्वे समानेऽप्याद्यस्यार्थेन सह सम्बन्धस्य साङ्कतिकत्वं द्वितीयस्यार्थेन सह सम्बन्धस्य नैसर्गिकत्वञ्च दृष्ट्वेर्थः । काममित्यादि । शब्दस्य वाचकत्वे किमिदं साङ्केतिकमाहोस्विन्नैसर्गिकमिति वाचकत्वधर्मिकस्संशयः कामं भवत्वित्यर्थः । यथा शब्दे नित्यानित्यत्वसंशयः । व्यञ्जकत्वमिति । तुशब्दो विशेषे । भावान्तरेष्विति । प्रदीपादिष्वित्यर्थः । न तु लौकिक इत्युक्तमुपपादयति वृत्तौ “न ही"त्यादि । “नीलमधुरादिषु” नीलमधुरादिद्रव्येषु । निर्धारणे सप्तमी । “तत्त्वे” पदार्थे । “विप्रतिपन्ना” इति । जना इति । जना इति शेषः । उक्तमेव स्फुटयति “नही"त्यादि । “बाधारहितं सत्यम् । “नीलं” नीलद्रव्यं घटादि । “नीलमिति ब्रुवन्नि"ति । इदमिति शेषः । लोचने भावमाहनैतदित्यादि । नीले एतन्न नीलमिति ब्रुवन्नि"ति । इदमिति शेषः । “अपरेणे"त्यादि । एतन्न नीलमेतत्पीतमिति न हि प्रतिषिध्यत इति सम्बन्धः । लोचने भावमाहनैतदित्यादि । नीले एतन्न नीलमिति विप्रतिपत्तिर्न हीति सम्बन्धः । लौकिकत्वादिति भावः । विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः । अपि त्वित्यादि । अपि त्बित्यलौकिक्य एव विप्रतिपत्तय इति सम्बन्धः । तत्प्रकारकथनं प्राधानिकमित्यादि । इदमित्यनेन सर्वत्र जगद्विवक्षितम् । प्राधानिकं प्रधानस्य मूलप्रकृतेर्विकारः । पारमाणवं परमाणुजन्यम् । ज्ञानमात्रं विज्ञानस्वरूपमेव । तुच्छंशून्यम् । अत्र क्रमेण सांख्यवैशेषिकविज्ञानवादिमाध्यमिकानाम्मतानि दर्शितानि । तत्सृष्टाविति । जगत्सृष्टिहेतावित्यर्थः । तद्दृष्टाविति पाठे तु जगत्कारणदृष्टावित्यर्थः । अलौकिक्य एव विप्रतिपत्तय इति । लौकिके विप्रतिपत्तीनामदर्शनादलौकिके वस्तुनि तद्दर्शनाच्चान्वयव्यतिरेकाभ्यामलौकिकवस्तुविषयकत्वमेव तासां सिद्धमित्यर्थः । अलौकिक इत्यादिवृत्तिग्रन्थोऽनेन विवृतः । वृत्तावृपसंहरति “तथैवे"त्यादि । “तथैव” तथाभूतमेव, लोकिकमेवेति यावत् । “केनापह्नूयत” इति । सर्वैराद्रियत एवेत्यर्थः । यत्सर्बेषामनुभवसिद्धमेव तत्केनापह्नूयते । अशब्दमर्थं रमणीयं हि सूचयन्तो व्याहारास्तथा व्यापारा निबद्धाश्चानिबद्धाश्च विदग्घपरिषत्सु विविधा विभाव्यन्ते । तानुपहास्यतामात्मनः परिहरन् को"तिसन्दधीत सचेताः लोचनमशब्दमिति । अभिधाव्यापारेणास्पृष्टमित्यर्थः । रमणीयमिति । यद्गोप्यमानतयैव सुन्दरीभवतीत्यनेन ध्वन्यमानतायामसाधारणप्रतीतिलाभः प्रयोजनमुक्तम् । निबद्धाः प्रसिद्धाः तानिति व्यवहारान् । कः सवेता अतिसन्दधीत नाद्रियेतेत्यर्थः । लक्षणे शत्रादेशः आत्मनः कर्मभूतस्य योपहसनीयता तस्याः परिहारेणेपलक्षितस्तां परिजीहीर्षुरित्यर्थः ।
बालप्रिया
अत्र हेतुः “अशब्दम्” इत्यादि । नास्ति शब्दोऽभिधायको यस्येति व्युत्पत्तिमभिप्रत्याशब्दमित्येतद्व्याचष्टे लोचनेअभिधेत्यादि । अशब्दत्वं रमणीयत्वे हेतुरिति दर्शयन्विवृणोतियदित्यादि । वस्त्रान्तप्रावृतकामिनीकुचकलशदृष्टान्तसिद्धमेतदिति भावः । सुन्दरी भवतीति रमणीयपदव्याख्यानम् । इत्यनेनेति । अशब्दत्वरमणीयत्वविशेषणद्वयेनेत्यर्थः । ध्वन्यमानतायामिति । अर्थस्येति शेषः । असाधारणेति । प्रतीतेरसाधारणत्वमास्वाद्यमानात्मकत्वम् । वृत्तौ “व्याहारा” इति । व्यवहारा इति च पाठः । “तथा व्यापारा” इति । येनार्थंस्याशब्दत्वं रमणीयत्वञ्च भवति, तथाभूतो व्यापारो व्यञ्जकत्वलक्षणो येषां तथाभूता इत्यर्थः । “निबद्धाः” मुक्तकादिरूपाः । “अनिबद्धाः” गद्यादरूपाः । लोचनेप्रसिद्धा इति । मुक्तकादिरूपत्वेन प्रसिद्धा इत्यर्थः । अतसन्दधीतेत्येतत्प्रकृतानुगुणं विवृणोतिनाद्रियेतेति । सचेता इति विशेष्यानुसारेण परिहरन्नित्येतद्व्याचष्टेलक्षण इति । लक्षणरूपार्थ इत्यर्थः । परिहरणस्यादरणफलत्वाल्लक्षणत्वम् । शत्रादेश इति । परिहरन्नित्यत्रेति शेषः । तेन सिद्धमर्थमाहआत्मन इत्यादि । उपसहनीयता विद्वत्परिषत्कर्थृकपरिहासविषयता । परिहारेण प्रागभावपरिपालनेन । फलितमाहतामित्यादि । वृत्तौ “ब्रूयादि"ति । कश्चिदिति शेषः । सम्भाव्यन्तद्वचनमाह “अस्ती"त्यादि । कथमित्यत्राह “व्यञ्जकत्व “मित्यादि । “तच्च” गमकत्वञ्च । “लिङ्गत्वं” ज्ञापकत्वम् । “अत” इति । गमकत्वस्य लिङ्गत्वरूपत्वादित्यर्थः । इतीति हेतौ । “तेषां” शब्दानां व्यङ्ग्यव्यञ्जकभावो लिङ्गिलिङ्गभाव एवेति योजना । एवकारार्थकथनं “नापरः कश्चिदि"ति । उक्तं साधयति “अतश्चेत्यादि । “अतः” वक्ष्यमाणद्धेतोः । चकारो युक्त्यन्तरसमुच्चायकः । “एतदि"ति । व्यङ्ग्यव्यञ्जकभावस्य लिङ्गिलिङ्गभावदनतिरिक्तत्वमित्यर्थः । “अवश्यमेवबोद्धव्य “मिति । अतिरिक्तत्वे प्रमाणाभावादिति भावः । अत इत्युक्तन्दर्शयति “यस्मादि"त्यादि । ततः किमत आह “वक्त्रभिप्रायश्चे"त्यादि । व्यञ्जकत्वमित्यादिग्रन्थस्य ब्रूयात्, अस्त्यतिसन्धानावसरः व्यञ्जकत्वं शब्दानां गमकत्वं तच्च लिङ्गत्वमतश्च व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवेति लिङ्गिलिङ्गभाव एव तेषां व्यङ्ग्यव्यञ्जकभावो नापरः कश्चित् । अतश्चैतदवश्यमेव बोद्धव्यं यस्माद्वक्रभिप्रायापेक्षया व्यञ्जकत्वमिदानीमेव त्वया प्रतिपादितं वक्रभिप्रायश्चानुमेयरूप एव । अत्रोच्यतेनन्वेवमपि यदि नाम स्यात्तत्किं नश्छिन्नम् । वाचकत्वगुणवृत्तिव्यतिरिक्तो व्यञ्जकत्वलक्षणः शब्दव्यापारोऽस्तीत्यस्माभिरभ्युपगतम् । तस्य चैवमपि न काचित्क्षतिः । तद्धि व्यञ्जकत्वं लिङ्गत्वमस्तु अन्यद्वा । सर्वथा प्रसिद्धशाब्दप्रकारविलक्षणत्वं शब्दव्यापारविषयत्वं लोचनमस्तीति । व्यञ्जकत्वं नापह्नूयते तत्त्वतिरिक्तं न भवति अपि तु लिङ्गिलिङ्गभाव एवायम् । इदानीमेवेति । जैमिनीयमतोपक्षेपे । यदि नाम स्यादिति । प्रौढवादितयाभ्युपगमेऽपि स्वपक्षस्तावन्न सिध्यतीति दर्शयतिशब्देति । शब्दस्य व्यापारः सन् विषयः शब्दव्यापारविषयः, अन्ये तु
बालप्रिया
भावमाह लोचनेव्यञ्जकत्वमित्यादि । नापह्नूयत इति । स्वरूपत इति शेषः । तत्तु व्यञ्जकत्वन्तु । अतिरिक्तं लिङ्गत्वाद्भिन्नम् । लिङ्गिलिङ्गभाव एव लिङ्गिनिरूपितलिङ्गत्वमेव । अयं व्यञ्जकत्वम् । स्यादितीति । इत्यनेनेत्यर्थः । प्रौढेति । परोक्तं स्वीकृत्यापि स्वसिद्धान्तस्थापनाय यो वादस्स प्रौञवादः तं वदतीति प्रौढवादी, तस्य भावस्तत्त तयेत्यर्थः । स्वपक्ष इति । व्यञ्जकत्वं लिङ्गत्वादनतिरिक्तमिति पूर्वपक्षिपक्ष इत्यर्थः । न सिद्ध्यतीति । वक्ष्यमाणयुक्त्येति भावः । वृत्तौ “तत्किं नः छिन्नम्” इत्युक्तस्यैव विवरणम् “वाचकत्वे"त्यादि । “प्रसिद्धे"ति । प्रसिद्धो यश्शब्दस्य प्रकारो धर्मोऽभिधा लक्षणा च तद्विलक्षणत्वमित्यर्थः । शब्दव्यापारत्वमिति वक्तव्ये शब्दव्यापारविषयत्वमित्युक्तिरसङ्गतेत्यतो व्याचष्टचे लोचनेशब्देत्यादि । विषय इति । सचेतोबुद्धिविषय इत्यर्थः । तदास्वाद्य इति यावत् । व्याख्यानान्तरं दर्शयतिअन्य इति । वृत्तौ “तस्ये"ति । व्यञ्जकत्वस्येत्यर्थः । व्यञ्जकत्वं लिङ्गत्वमस्त्वित्युक्त्या सिद्धं नस्समीहितमिति मन्यमानं पूर्वपक्षिणं प्रत्याह “न पुनरि"त्यादि । च तस्यास्तीति नास्त्येवावयोर्विवादः । न पुनरयं परमार्थो यद्व्यञ्जकत्वं लिङ्गत्वमेव सर्वत्र व्यङ्ग्यप्रतीतिश्च लिङ्गिप्रतीतिरेवेति । यदपि स्वपक्षसिद्धयेऽस्मदुक्तमनूदितं त्वया वक्रभिप्रायस्य व्यङ्ग्यत्वेनाभ्युपगमात्तत्प्रकाशने शब्दानां लिङ्गत्वमेवेति तदेतद्यथास्माभिरभिहितं तद्विभज्यं प्रतिपाद्यते श्रूयताम् । द्विविधो विषयः शब्दानामनुमेयः प्रतिपाद्यश्च । तत्रानुमेयो विवक्षालक्षणः । विवक्षा च शब्दस्वरूपप्रकाशनेच्छा शब्देनार्थप्रकाशनेच्छा चेति द्विप्रकारा । तत्राद्या न शाब्दव्यवहाराङ्गम् । सा हि प्राणित्वमात्रप्रतिपत्तिफला । द्वितीया तु शब्दविशेषावधारणावसितव्यवहितापि शब्दकरणव्यवहारनिबन्धनम् । ते तु द्वे अप्यनुमेयो विषयः शब्दानाम् । प्रतिपाद्यस्तु प्रयोक्तुरर्थप्रतिपादनसमीहाविषयीकृतोऽर्थः । स च द्विविधःवाच्यो व्यङ्ग्यश्च । प्रयोक्ता हि कदाचित्स्वशब्देनार्थे
लोचनं
शब्दस्य यो व्यापारस्तस्य विषयो विशेष इत्याहुः । न पुनरिति । प्रदीपालोकादौ लिङ्गिलिङ्गभावशून्योऽपि हि व्यङ्ग्यञ्जकभावोऽस्तीति व्यङ्ग्यव्यञ्जकभावस्य लिङ्गिलिङ्गभावोऽव्यापक इति कथं तादात्म्यम् । विषय इति । शब्द उच्चरिते यावति
बालप्रिया
इति यदयं पुनर्न परमार्थं इति सम्बन्धः. अत्राभिप्रायमाह लोचनेप्रदीपेत्यादि । लिङ्गीत । लिङ्गिलिङ्गभावेन लिङ्गिनिरूपितलिङ्गत्वेन शून्यः विना कृतः तदसमानाधिकरण इति यावत् । शून्ये इति पाठे प्रदीपालोकादावित्यस्य विशेषणं तत् । व्यङ्ग्यव्यञ्जकभाव इति । घटादितत्तद्विषयेण सहेति शेषः । इतीति हेतौ । लिङ्गिलिङ्गभावो व्यङ्ग्यव्यञ्जकभावस्य व्यापको नेति सम्बन्धः । नञ्रहितपाठे त्वव्यापक इति छेदः । कथन्तादात्म्यमिति । यदि हि व्यङ्ग्यव्यञ्जकभावो लिङ्गिलिङ्गभाव एव स्यान्न तदतिरिक्तः, तर्हि यत्र यत्र व्यङ्ग्यव्यञ्जकभावस्तत्र तत्र लिङ्गिलिङ्गभावोऽपि भवेत्, न चासावस्ति प्रदीपादौ व्यभिचारदर्शनादतस्तयोरैक्यन्न भवतीत्यर्थः । ननु वक्त्रभिप्रायस्य व्यञ्जकत्वन्तु शब्दस्य लिङ्गत्वमेव वक्तृज्ञानानुमापकत्वं शब्दस्येति वदतां प्राभाकराणां मतस्य संवादकत्वादित्याशङ्कायामुक्तं वृत्तौ “यदपी"त्यादि । अभिहितमित्यस्यानन्तरं तथेत शेषः । विषयशब्दस्यार्थे प्रसिद्धत्वात्तस्य चात्रायोगाद्व्याचष्टे लोचनेशब्द इत्यादि । यावतीति । यावत्यर्थ इत्यर्थः । तावानिति । प्रकाशयितुं समीहते कदाचित्स्वशब्दानभिधेयत्वेन प्रयोजनापेक्षया कयाचित् ।
लोचनं
प्रतिपत्तिस्तावान्विषय इत्युक्तः । तत्र शब्दप्रयुयुक्षा अर्थप्रतिपिपादयिषा चेत्युभय्यपि विवक्षानुमेया तावत् । यस्तु प्रतिपिपादयिषायां कर्मभूतोऽर्थस्यत्र शब्दः करणत्वेन व्यवस्थितः न त्वसावनुमेयः, तद्विषया हि प्रतिपिपादयिषैव केवलमनुमीयते । न च तत्र शब्दस्यकरणत्वे यैव लिङ्गस्येतिकर्तव्यता पक्षधर्मत्वग्रहणादिका सास्ति, अपि
बालप्रिया
उच्चरितशब्दजन्यप्रतिपत्तिविषय इत्यर्थः । वृत्तौ “आद्ये"ति । शब्दस्वरूपप्रकाशनेच्छेत्यर्थः । “शाब्दे"ति । शाब्दः शब्दकरणको यो व्यवहारोऽर्थप्रत्ययस्तस्याङ्गमित्यर्थः । “प्राणित्वे"ति । शब्दस्वरूपप्रकाशनेच्छयोच्चरितेन शब्देनायं प्राणीति श्रोतुर्या प्राणित्वमात्रस्य प्रतिपत्तिः मात्रपदेनार्थस्य व्यवच्छेदः सा फलं यस्यास्सेत्यर्थः । “द्वितीये"ति । शब्देनार्थप्रकाशनेच्छेत्यर्थः । “शब्दे"ति । शब्दविशेषस्य प्रतिपिपादयिषितार्थबोधानुकूलस्य वाक्यस्य यदवधारणं वक्तुरनुसन्धानं तस्मिन्नवसिता पर्यवसिता तदुत्पादनेन कृतार्थेति यावत् । अत एव व्यवहितापि शाब्दबोधं प्रति व्यवधानवत्यपि । यद्वाव्यवहितापि शब्दविशेषावधारणावसितेति योजना । शब्देनार्थविशेषस्यावधारणे श्रोतुर्बोधे अवसिता परम्परया तदुत्पादिकेति यावत् । तथासतीत्यर्थः । “शब्दे"ति । शब्दः करणं यस्य तथाभूतो व्यवहारश्शाब्दबोधः, तस्यनिबन्धनं निमित्तमित्यर्थः । ते तु द्वे इति पूर्वोक्ताद्द्विप्रकाराविवक्षेत्यर्थः । “अनुमेयो विषय” इति । अयमेतद्विवक्षुः एवं विधशब्दप्रयोक्तृत्वादित्याद्यनुमानमत्र बोध्यम् । तत्रानुमैय इत्यादिग्रन्थस्यार्थन्दर्शयन्नवतारयति लोचनेतत्रेत्यादि । शब्दप्रयुयुक्षां शब्दप्रयोगेच्छा । अनुमयेति । कार्येण तत्तच्छब्दप्रयोगेणेति । शेषः । प्रतिपिपादयिषायां कर्मभूत इति । प्रतिपिपादयिषित इत्यर्थः । तत्रेति । प्रतिपिपादयिषितत्वविशिष्टेऽर्थे विषय इत्यर्थः । करणत्वेन व्यवस्थित इति । प्रतिपादनं प्रति करणत्वात्तथाविधार्थं प्रति करणत्वं बोध्यम् । न लिङ्गत्वेनेति भावः । अत एवाहन त्वित्यादि । असौ प्रतिपिपादयिषितोऽर्थः । तद्विषया अर्थविषयिका । न त्वसावनुमेय इत्युक्तमेव साधयतिन चेत्यादि । तत्र प्रतिपाद्यार्थे विषये । पक्षधर्मत्वग्रहणादिका लिङ्गस्येतिकर्तव्यता या सा तत्र शब्दस्य करणत्वेन चास्तीति योजना । लिङ्गस्य लिङ्गत्वेनाभिमतस्य धूमादेः । इतिकर्तव्यता सहकारिकारणम् । लिङ्गेतिकर्तव्यताया अभावं प्रतिपाद्य शब्देतिकर्तव्यतायास्सद्भावमाहअपि त्वित्यादि । अन्यैवेति । इतिकर्तव्यतास्तीत्यनुषङ्गः । सङ्केतेति । तत्तच्छब्दस्य तत्तदर्थे यस्सङ्केतस्तस्य स्फुरणं स्मरणं स तु द्विविधोऽपि प्रतिपाद्यो विषयः शब्दानां न लिङ्गितया स्वरूपेण प्रकाशते, अपि तु कृत्रिमेणाकृत्रिमेण वा सम्बन्धान्तरेण । विवक्षाविषयत्वं हि तस्यार्थस्य शब्दैर्लिङ्गितया प्रतीयते न तु स्वरूपम् । यदि हि लिङ्गितया तत्र सब्दानां व्यापारः स्यत्तच्छब्दार्थे
लोचनं
त्वन्यैव संकेतस्फुरणादिका तन्न तत्र शब्दो लिङ्गम् । इतिकर्तव्यता च द्विधाएकयाभिधाव्यापारं करोति दितीयया व्यञ्जनाव्यापारम् । तदाहतत्रेत्यादिना । कयाचिदिति । गोपनकृतसौन्दर्यादिलाभाभिसन्धानादिकयेत्यर्थः । शब्दार्थ इति । अनुमानं
बालप्रिया
तदादिकेत्यर्थः । उपसंहरतितदित्यादि । तत्तस्मात् । तत्र प्रतिपाद्यार्थे विषये । शब्दो लिङ्गविधया नार्थप्रतिपादकः पक्षधर्मत्वाद्यनुसन्धानानपेक्ष्या तत्प्रतिपादरकत्वाच्चक्षुरादिवदित्यनुमानमत्र बोध्यम् । प्रतिपाद्यद्वैविध्ये निमित्तन्नोक्तं वृत्तावित्यतश्शब्दरूपकरणेतिकर्तव्यताद्वैविध्यं तन्निमित्तमिति दर्शयतिइतिकर्तव्यतेत्यादि । एकयेति । सङ्केतस्फुरणादिरूपयेत्यर्थः । अभिधाव्यापारमिति । सङ्केतितार्थबोधनमित्यर्थः । द्वितीययेति । वक्तृवैशिष्ट्यादिज्ञानादिरूपयेत्यर्थः । व्यञ्जनाव्यापारमिति । कस्यचिदर्थस्य व्यञ्जनमित्यर्थः । करोतीत्यनुषङ्गः । शब्द इति शेषः । वृत्तौ “स्वशब्दानभिधेयत्वेने"ति । स्वशब्दाभिधेयत्वं विनेत्यर्थः । अर्थं प्रकाशयितुं समीहत इत्यनुषङ्गः । अत्र हेतुः “प्रयोजने"त्यादि । प्रयोजनापेक्षयेत्येतद्व्याचष्टे लोचनेगोपनेत्यादि । गोपनकृतं यत्सौन्दर्यं सूक्तिचारुत्वं तदादेर्यो लाभो निष्पत्तिस्तदभिसन्धानादिकयेत्यर्थः । वृत्तौ “स त्वि"त्यादि । “द्विविधोऽपि” वाच्यो व्यङ्ग्यश्च । “न लिङ्गितये"त्यादि । व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गज्ञाप्यो न भवतीत्यर्थः । कथन्तर्हि भासत इत्यत्राह “अपि"त्वि"त्यादि । द्विविधोऽपीत्यादिशब्दानामित्यन्तस्यानुषङ्गः । कृत्रिमेणेत्यादिमतभेदकथनम् । “सम्बन्धानतरेणे"ति । अभिधादिरूपसम्बन्धविशेषेण हेतुनेत्यर्थः । न लिङ्गितया प्रकाशत इत्यत्र हेतुमाह “विवक्षे"त्यादि । उक्तमेव साधयति “यदि ही"त्यादि । “तत्र” प्रतिपिपादयिषितेऽर्थे । “लिङ्गतया शब्दानां व्यापारः” लिङ्गलिङ्गिभावरूपः शब्दसम्बन्धः । “स्याद्यदि” प्रतिपिपादयिषितार्थो व्याप्तिस्मृत्यादिसहकृतशब्दरूपलिङ्गानुमेयो यदि स्यादित्यर्थः । “तत्” तर्हि । “शब्दार्थे” शब्दप्रतिपादितार्थे । “सम्यगि"त्यादि । अयमर्थस्सत्यः, अयमर्थो मिथ्या इत्यादयो विरुद्धा वादाः । अयमर्थस्सत्यो मिथ्या वेत्यादिसंशयाश्च वस्तुतः प्रवर्तन्ते तत्प्रवृत्तिर्न स्यादित्यर्थः । “धूमादो"ति । धूमादिलिङ्गेनानुमितं यदनुमेयान्तरं वह्न्यादि तस्मिन्निवेत्यर्थः । तत्र यथा तद्विवादा न प्रवर्तन्ते तथेत्यर्थः । नन्वनुमितेऽर्थे कुतो विवादाप्रवृत्तिरित्यतो भावमाह लोचनेअनुमानमित्यादि । सम्यङ्मिथ्यात्वाद विवादा एव न प्रवर्तेरन् धूमादिलिङ्गानुमितानुमेयान्तरवत् । व्यङ्ग्यश्चार्थो वाच्यसामर्थ्याक्षिप्ततया वाच्यवच्छब्दस्य सम्बन्धी भवत्येव । साक्षादसाक्षाद्भावो हि सम्बन्धस्याप्रयोजकः । वाच्यवाचकभावाश्रयत्वं च व्यञ्जकत्वस्य प्रगेव दर्शितम् । तस्माद्वक्त्रभिप्रायरूप
लोचनं
हि निश्चयस्वरूपमेवेति भावः । उपाधित्वेनेति । वक्त्रिच्छा हि वाच्यादेरर्थस्य
बालप्रिया
केनचिल्लिङ्गेन कस्यचिदर्थस्यानुमितिर्निश्चयरूपैव भवतीत्यर्थः । एवकारेण तदुत्तरन्तद्विषयकविषयकसंशयो व्यवच्छिद्यते । सन्देहपूर्विका ह्यनुमितिः अर्थेनाव्यभिचारिण एव हेतोर्गमकत्वञ्चेत्यभिप्रायः । ननु व्यङ्ग्यत्वेनाभिमतस्यार्थस्य शब्देन सम्बन्धे सति तत्र व्यापारस्सिद्ध्यति, स एव नेत्याशङ्कायामुक्तमेव स्मारयति वृत्तौ “व्यङ्ग्यश्चार्थं” इत्यादि । वाच्यसामर्थ्याक्षिप्ततयेति हेतौ तृतीया । अनेन परम्परासम्बन्धः प्रदर्शितः । “वाच्यवदि"ति । वाच्येन तुल्यमित्यर्थः । वाच्य इवेति यावत् । ननु वाच्यस्य साक्षात्सम्बन्धः व्यङ्ग्यस्य तु तद्द्वारक इत्यत आह “साक्षादि"त्यादि । “अप्रयोजक” इति । अत एव संयोगसंयुक्तसमवायादीनां सन्निकर्षत्वाभिधानं सङ्गच्छत इति भावः । व्यङ्ग्यस्य वाच्यसामर्थ्याक्षिप्ततया तेन सह सम्बन्धस्य वाच्यधटितत्वमुक्तं द्रढीकर्तुं पूर्वोक्तं स्मारयति “वाच्ये"त्यादि । प्रकृतमर्थद्वैविध्यप्रतिपादनं निगमयति “तस्मादि"त्यादि । “वक्त्रभिप्रायरूपे” विवक्षारूपे । एवकारेण तद्विषयीकृतार्थस्य व्यवच्छेदः । “लिङ्गतये"त्यादि । शब्दरूपलिङ्गज्ञाप्यत्वमित्यर्थः । “तद्विषयी"ति । शब्दानां व्यापार इत्यनुषङ्गः । वक्त्रभिप्रायविषयोऽर्थस्तु शब्दप्रतिपाद्य इत्यर्थः । “प्रतीयमाने तस्मिन्नि"ति । शब्दप्रतिपाद्ये व्यङ्ग्य इत्यर्थः । वाचकत्वेनेत्यादिविकल्प्याद्यं निषेधति “म तावदि"ति । “सम्बन्धान्तरेणे"ति । सम्बन्धान्तरेण यो व्यापारस्स व्यञ्जकत्वमेवेत्यर्थः । पूर्वोक्तं स्मारयति “न चे"त्यादि । “अन्यथादृष्टत्वादि"ति । लिङ्गत्वं विना व्यञ्जकत्वस्य दृष्टत्वादित्यर्थः । उपसंहरति “तस्मादि"ति । “प्रतिपाद्यो विषय” इति । व्यङ्ग्य इत्यर्थः । “लिङ्गित्वेन” लिङ्गलिङ्गिभावेन । “न सम्बन्धी"ति । व्यङ्ग्यत्वेनाभिमतोऽर्थो न शब्दस्य लिङ्गलिङ्गिभावेन सम्बन्धी शब्दप्रतिपाद्यत्वाद्वाच्यवदित्यनुमानमनेन दर्शितम् । उक्तमेव । दर्शयितुमाह “यो ही"त्यादि । “तेषां” शब्दानाम् । “यथा” दर्शितो विषयः विवक्षालक्षणः । य “स” इति । विवक्षालक्षणो विषय इत्यर्थः । “उपाधित्वेने"ति । प्रतीयत इत्यनुषङ्गः । उपाधिशब्दोऽत्र व्यावर्तकपर्याय इत्याशयेन व्याचष्टे लोचने वक्त्रिच्छेत्यादि । विशेषणत्वेन भातीति । अनेन वक्त्रायमर्थो विवक्षित इति प्रतीतौ विवक्षा ह्यर्थस्य विशेषेणत्वेन भासते । तस्मादित्युक्तं द्रढयितुं पूर्वोक्तमेव स्मारयति एव व्यङ्ग्ये लिङ्ग्तया शब्दानां व्यापारः । तद्विषयीकृते तु प्रतिपाद्यतया । प्रतियमाने तस्मिन्नभिप्रायरूपेऽनभिप्रायरूपे च वाचकत्वेनैव व्यापारः सन्न्बन्धान्तरेण वा । तावद्वाचकत्वेन यथोक्तं प्राक् । सम्बन्धान्तरेण व्यञ्जकत्वमेव । न च व्यञ्जकत्वं लिङ्गत्वरूपमेव आलोकादिष्वन्यथा दृष्टत्वात् । तस्मात्प्रतिपाद्यो विषयः शब्दानां न लिङ्गित्वेन सम्बन्धी वाच्यवत् । यो हि लिङ्गित्वेन तेषां सम्बन्धी यथा दर्शितो विषयः स न वाच्यत्वेन प्रतीयते, अपि तूपाधित्वेन । प्रतिपाधस्य च विषयस्य लिङ्गित्वे तद्विषयाणां विप्रतिपत्तीनां लौकिकैरेव क्रियमाणानामभावः । प्रसज्येतेति । एतच्चोक्तमेव ।
लोचनं
विशेषणत्वेन भाति । प्रतिपाद्यस्येति । अर्थाद्व्यङ्ग्यस्य । लिङ्गित्व इति । अनुमेयत्व इत्यर्थः । लौकिकैरेवेति । इच्छायां लोको न विप्रतिपद्यतेऽर्थे तु विप्रतिपत्तिमानेव । ननु यदा व्यङ्ग्योऽर्थः प्रतिपन्नस्तदा सत्यत्वनिश्चयोऽस्यानुमानादेव प्रमाणान्तरात्क्रियत इति पुनरप्यनुमेव एवासौ । मैवम् - वाच्यस्यापि हि सत्यत्वनिश्चयोऽनुमानादेव ।
बालप्रिया
वृत्तौ “प्रतिपाद्यस्ये"त्यादि । प्रतिपाद्यस्येत्येतत्प्रकृतानुगुणं व्याचष्टे लोचनेअर्थाद्व्यङ्ग्यस्येति । ननु कथं विप्रतिपत्तिविषयत्वावगमादननुमेयत्वनिश्चयः, अनुमेयेऽपि विप्रतिपत्तिस्म्भवादित्यत आहैच्छायामित्यादि । इच्छायां विवक्षायायाम् । अर्थे विवक्षाविषयार्थे । विप्रतिपत्तिमानेवेति । सत्यत्वादिविप्रतिपत्तिमानेवेत्यर्थः । विमतोऽर्थो नानुमेयः विप्रतिपत्तिविषयत्वाद्व्यतिरेकेण वक्तृविवक्षावदिति प्रयोगः । यथा चेत्यादिग्रन्थमवतारयतिनन्वित्यादि । प्रतिपन्न इति । वाच्यार्थप्रतीतिपूर्वकं शब्दादवगत इत्यर्थः । अस्य प्रतिपन्नस्य व्यङ्ग्यार्थस्य । अनुमानादेवेत्यस्यानन्तरं प्रमाणान्तरादिति च क्वचिद्ग्रन्थे पाठः । क्रियत इति । प्रतिपत्तृभिरिति शेषः । शब्दस्य संवादकप्रमाणान्तरसहकृतस्यैव स्वार्थे प्रामाण्यमिति भावः । इतीति हेतौ । पुनरित्यादि । प्रतिपाद्यस्य व्यङ्ग्यस्य शब्दापेक्षया लिङ्गित्वाभावेऽपि संवादकप्रमाणान्तरापेक्षया लिङ्गित्वं भवत्येवेति भावः । पूर्वं शब्दादर्थस्यावगमः पश्चात्तत्र संवादकस्यानुमानस्य प्रवृत्तिः,अर्थस्वरूपं हि शब्दस्य विषयः, अनुमानस्य तु तद्गतं सत्यत्वमित्यनुमानस्य न शब्दावगतार्थानुमापकत्वमिति समाधत्तेमैवमित्यादि । यथा च वाच्यविषये प्रमाणान्तरानुगमेन सम्यक्त्वप्रतीतौ क्वचित्क्रियमाणायां तस्य प्रमाणान्तरविषयत्वे स्त्यपि न शब्दव्यापारविषयताहानिस्तद्य्वङ्ग्यस्यापि ।
लोचनं
यदाहुः “आप्तवादाविसंवादसामान्यादत्र चेदनुमानता” इति । न चैतावता वाच्यस्य प्रतोतिरानुमानिकी किं तु तद्गतस्य ततोऽधिकस्य सत्यत्वस्य तद्व्यङ्ग्येऽपि भविष्यति । एतदाहयथा चेत्यादिना । एतच्चाभ्युपगम्यक्तं
बालप्रिया
वाच्यस्यापीत्यपिशब्देन व्यङ्ग्यस्य परिग्रहः । यदाहुरिति । वाक्याधिकरणे श्लोकवार्तिककृत इति शेषः । आप्तेति । मुद्रिततत्पुस्तके त्वेवं पाठः"आप्तवादाविसंवादादत्र चेदनुमानते"ति । अस्यावशिष्टन्तु “निर्णयस्तावता सिद्ध्येद्बुद्ध्युत्पत्तिर्न तत्कृता । अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकम् ॥ वाक्यार्थश्चान्य एवेति ज्ञातः पूर्वतरन्ततः । तत्र चेदाप्तवादेन सत्यत्वमनुमियते ॥ वाक्यार्थप्रत्यययस्यात्र कथं स्यादनुमानतेति । आप्तवादाविसंवादादिति हेतुकथनम् । अत्रेति । वाक्यार्थबुद्धावित्यर्थः । अनुमानता अनुमितित्वम् । चेदित्यनन्तरं नेति शेषः । अत्र हेतुमाह “निर्णयस्तावते"त्यादि । एभिर्वचनैर्वाक्यार्थस्य सत्यत्वमेवाप्तोक्तत्वरूपानुमानेन निश्चेतव्यमिति लभ्यत इति भावः । “आप्तवादाविसंवादस्सामान्यादनुमानत” इति पाठो बहुषु ग्रन्थेषु दृश्यते । तस्यायमर्थःाप्तवादस्य आप्तवचनस्य यस्स्वार्थविषयोऽविसंवादः सत्यत्वं, सत्यार्थविषयकत्वमिति यावत् । सः सामान्यादनुमानतः आप्तवादत्वाद्यनुमानगम्य इति । ननु तर्हि वाच्यप्रतीतिरप्यानुमानिक्येवाश्रीयतामित्यत्राहन चेत्यादि । तत्किमत्रानुमानिकी प्रतीतिरेव नास्ति, अस्तीत्याहकिन्त्वित्यादि । सत्यत्वस्येति । प्रतीतिरानुमानिकीत्यनुषङ्गः । तद्य्वङ्ग्येऽपि भविष्यतीति । आनुमानिकं सत्यत्वं व्यङ्ग्यार्थेऽपि भविष्यतीत्यर्थः । व्यङ्ग्योऽर्थश्शब्देन प्रतिपाद्यतेतस्य सत्यत्वन्त्वनुमानगम्यमिति भावः । एतच्चेति । यथाचेत्यादिग्रन्थेनोक्तं व्यङ्ग्यस्यानुमानिकं सत्यत्वमित्यर्थः । अभ्यपगम्येति । प्रयोजनवत्वं वस्तुतोऽविद्यमानमपि विद्यमानं कृत्वेत्यर्थः । जप्रयोजकत्वमुपपादयतिन हीत्यादि । काव्यविषये च व्यङ्ग्यप्रतीतिनां सत्यासत्यनिरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाणान्तरव्यापारपरीक्षोपहासायैव सम्पद्यते । तस्माल्लिङ्गिप्रतीतिरेव सर्वत्र व्यङ्ग्यप्रतीतिरिति न शक्यते वक्तुम् । यत्त्वनुमेयरूपव्यङ्ग्यविषयं शब्दानां व्यञ्जकत्वं तद्ध्वनिव्यवहारस्याप्रयोजकम् ।
लोचनं
न त्ननेन नः प्रयोजनमित्याहुः । काव्यविषये चेति । अप्रयोजकत्वमिति । न हि तेषां वाक्यनामाग्रिष्टोमादिवाक्यवत्सत्यार्थप्रतिपादनद्वारेण प्रवर्तकत्वाय प्रामाण्यमन्विष्यते, प्रीतमात्रपर्यवसायित्वात् । प्रीतेरेव चालौकिकचमत्काररूपाया व्युत्पत्त्यङ्गत्वात् । एतच्चोक्तं वितत्य प्राक् । उपहासायैवेति । नायं सहृदयः केवलं शुष्कतर्कोपक्रमकर्कशहृदयः प्रतीतिं परामर्ष्टुं नालमित्येष उपहासः । नन्वेवं तर्हि मा भूद्यत्र यत्र व्यञ्जकता तत्र तत्रानुमानत्वम् - यत्र यत्रानुमानत्वं तत्र तत्र व्यञ्जकत्वमिति कथमपह्नूयत इत्याशङ्क्याहयत्त्वनुमेयेति । तद्व्यञ्जकत्वं न ध्वनिलक्षणमभिप्रायव्यतिरिक्तविषयाव्यापरादिति भावः । नन्वभिप्रायविषयं यद्व्यञ्जकत्वमनुमानैकयोगक्षेमं तच्चेन्न प्रयोजकं ध्वनिव्यवहारस्य तर्हि किमर्थं
बालप्रिया
तेषां काव्यरूपाणाम् । अग्निष्टोमादिवाक्यवदिति । वैधर्म्येण दृष्टान्तः । प्रवर्तकत्वाय प्रवृत्युपधायकत्वसम्पादनाय । अन्विष्यते विचार्यते । प्रीतिमात्रेति । मात्रशब्देन प्रवर्तकत्वव्युदासः । कुतः प्रीतिमात्रपर्यवसायित्वमित्यत आहप्रीतेरित्यादि । उक्तमिति । रसस्वरूपनिरूपणावसर इति भावः । उपहासस्वरूपमाहनायमित्यादि । शुष्केति । शुष्केकस्य तर्कस्यानुमानस्योपक्रमेण कर्कशहृदयः अरसिक इत्यर्थः । प्रतीतिमिति । काव्यजन्यप्रतीतिस्वरूपमित्यर्थः । मा भूदिति । आलोकादौ व्यभिचारादिति भावः । इतीति । इत्येतदित्यर्थः । वृत्तौ तद्व्यञ्जकत्वं ध्वनिव्यवहारस्याप्रयोजकमित्येवोक्तमप्रयोजकत्वे हेतुर्नोक्त इत्यतोऽभिप्रेतं हेतुं दर्शयन्नाहतदित्यादि । तद्य्वञ्जकत्वमिति । वक्त्रभिप्रायात्मकानुमेयव्यङ्ग्यविषयं शब्दस्य व्यञ्जकत्वमित्यर्थः । न ध्वनिलक्षणं ध्वनिव्यवहारविषयस्य लक्षणं न । अत्राव्याप्ति हेतुमाहअभिप्रायेत्यादि । अभिप्रायो विवक्षा, तद्व्यतिरिक्तो विषयो रसालङ्कारादिरूपो व्यङ्ग्यः तत्राव्यापाराद्व्यापरणाभावादित्यर्थः । यत्राभिप्रायातिरिक्तं व्यङ्ग्यं ध्वनिव्यवरहारविषये तस्मिन्नभिप्रायरूपानुमेयव्यङ्ग्यविषयस्य व्यञ्जकत्वस्याभावादव्याप्तेरिति यावत् । स्वीयपूर्ववचनव्याधातशङ्कामुद्भाव्यावतारयतिनन्वित्यादि । अनुमानैकेति । अनुमानेन सह एकयोगक्षेमतुल्यप्रकारमित्यर्थः । अपि तु व्यञ्जकत्वलक्षणः शब्दानां व्यापार औत्पत्तिकशब्दार्थसम्बन्धवादिनाप्यभ्युपगन्तव्य इति प्रदर्शनार्थमुपन्यस्तम् । तद्भि व्यञ्जकत्वं कदाचिल्लिङ्गत्वेन कदाचिद्रूपान्तरेण शब्दानां वाचकानामवाचकानां च सर्ववादिभिरप्रतिक्षेप्यमित्ययमस्माभिर्यत्न आख्धः । तदेवं गुणवृत्तिवाचकत्वादिभ्यः शब्दप्रकारेभ्यो नियमेनैव तावद्विलक्षणं व्यञ्जकत्वम् ।
लोचनं
तत्पूर्वमुपक्षिप्तमित्याशङ्क्याहअपि त्विति । एतदेव संक्षिप्य निरूपतितद्धीति । यत एव हि क्वचिदनुमानानेनाभिप्रायादौ क्वचित्प्रत्यक्षेण दीपालोकादौ क्वचित्कारणत्वेन गीतध्वन्यादौ क्वचिदभिधया विक्षितान्यपरे क्वचिद्गुणवृत्त्या अविवक्षितवाच्येऽनुगृह्यमाणं व्यञ्जकत्वं दृष्टं तत एव तेभ्यः सर्वेभ्यो विलक्षणमस्य रूपं नस्सिध्यति तदाहतदेवमिति । ननु प्रसिद्धस्य किमर्थं रूपसंकोचः क्रियते अभिधाव्यापारगुणवृत्त्यादेः । तस्यैव सामग्र्यन्तरपनिपाताद्यद्विविष्टं
बालप्रिया
पूर्वमुपक्षिप्तमिति । तथाविध इत्यादिग्रन्थेनोपन्यस्तमित्यर्थः । एतदेवेति । उक्तमेवेत्यर्थः । तद्धीत्यादिग्रन्थेन सह तदेवमित्यादिग्रन्थस्यार्थं विवृण्वन्नाहयत इत्यादि । क्वचिदत्यस्य विवरणमभिप्रायादाविति । एवमुपर्यपि बोध्यम् । क्वचिद्रूपान्तरेणेति वृत्तिग्रन्थस्य विवरणं प्रत्यक्षेणेत्यादि । तदेवमित्यादेर्विवणंतत एव तेभ्य इत्यादि । यत एव हि अभिप्रायदिविषयं शब्दस्य व्यञ्जकत्वमनुमानैनानुमित्या । दोपालोकादिगतं घटादिविषयं व्यञ्जकत्वं प्रत्यक्षेण घटादिचाक्षुषज्ञानेन । गीतध्वन्यादिगतं सविषयं व्यञ्जकत्वं कारणत्वेन रसनिष्पादकत्वेन । विवक्षितान्यपरगतं व्यञ्जकत्वमभिधया । अविवक्षितवाच्यगतं व्यञ्जकत्वं गुणवृत्या च अनुगृह्यमाणं दृष्टं, तत एवेत्यर्थः । व्यञ्जकत्वानुग्राहकत्वमेवैतेषां, न तु तत्ताद्रूप्यमिति भावः । तेभ्यस्सर्वेभ्य इति । अनुमानादिरूपेभ्य इत्यर्थः । विलक्षणमित्यादि । अनेनायं प्रयोगः प्रदर्शितःविमतं व्यञ्जकत्वमनुमानादिप्रकारेभ्यो विलक्षणं तेषु व्यावर्तमानेष्वपि अनुवर्तमानतयावभासमानत्वात्, यद्येषु व्यावर्तमानेष्वप्यनुवर्तमानतयावभासते तत्तेभ्यो भिन्नं यथा कुसुमेभ्यः सूत्रमिति । तदाहेति । तद्वैलक्षण्यमाहेत्यर्थः । नन्वित्यादि । प्रसिद्धस्याभिधाव्यापारगुमवृत्यादे रूपसङ्कोचः किमर्थं क्रियत इति सम्बन्धः । व्यञ्जकत्वस्यातिरिक्तस्य कल्पनेनेति । शेषः । गुणवृत्यादिरेत्यादिपदेन लक्षणायाः परिग्रहः । तर्हि कथं वक्तव्यभित्यत्राहतस्यैवेत्यादि । तस्यैव अभिधाव्यापारादेरेव । सामग्र्यन्तरेति । प्रतिपत्तृप्रतिभावक्तृवैशिष्ट्यादिज्ञानादिरूपेत्यर्थः । तदन्तापातित्वेऽपि तस्य हठादभिधीयमाने तद्विशेषस्य ध्वनेर्यत्प्रकाशनं विप्रतिपत्तिनिरासाय सहृदयव्युत्पत्तये वा तत्क्रियमाणमनतिसन्धेयमेव । न हि सामान्यमात्रलक्षणेनोपयोगिविशेषलक्षणानां प्रतिक्षेपः । शक्यः कर्तुम् । एवं हि सति सत्तामात्रलक्षणे कृते सकलसद्वस्तुलक्षणानां पौनरुक्त्यप्रसङ्गः । तदेवं विमतिविषयो य आसीन्मनीषिणां सततमविदितसतत्त्वः ।
लोचनं
रूपं तदेव व्यञ्जकत्वमुच्यतामित्याशङ्क्याहतदन्तःपातित्वेऽपीति । न वयं संज्ञानिवेशनादि निषेधाम इति भावः । विप्रतिपत्तिस्तादृग्विशेषो नास्तीति व्युत्पत्तिः संशयाज्ञाननिरासः । न हीति । उयोगिषु विशेषेषु यानि लक्षणानि तेषाम् । उपयोगिपदेनानुपयोगिनां काकदन्तादीनां व्युदासः । एवं हीति । त्रिपदार्थसङ्करी सत्तेत्यनेनैव द्रव्यगुणकर्मणां लक्षितत्वाच्छ्रुतिस्मृत्यायुर्वदधनुर्वेदप्रभृतीनां
बालप्रिया
विशिष्टं रूपमिति । अवस्थान्तरपर्यायं विलक्षणं स्वरूपमित्यर्थः । तदेव व्यञ्जक्वत्वमुच्यतामिति । व्यञ्जकत्वाख्यस्यार्थान्तरस्य कल्पनापेक्षया लाघवादिति भावः । वृत्तौ तस्य तदन्तःपातित्वे हठादभिधीयमानेऽपीति योजना । “तदन्तःपातित्वे” गुणवृत्तिवाचकत्वाद्यन्तःपातित्वे । “तस्य” व्यञ्जकत्वस्य । “तद्विशेषस्य लोचनेन वयमित्यादि । वयं संज्ञानिवेशनादि न निषेधाम इति । अस्मदभिमतस्य व्यञ्जकत्वस्य विलक्षणस्वरूपाभिधादिसंज्ञा यदि क्रियते, तर्हि तां न निषेधाम इत्यर्थः । वस्तुनि हि समुचिता विमतिर्न नाममात्र इति भावः । विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिरिति व्युत्पत्तिमभिप्रेत्य तत्पदं व्याचष्टेतादृगित्यादि । तादृग्विशेषः व्यञ्जकत्वरूपः । व्युत्पत्तिपदेन विवक्षितमाहसंशयेति । उपयोगीत्यादिग्रन्थं विवृणोतिउपयोगिष्वित्यादि । उपयोगिषु लोकयात्रोपयोगिषु । विशेषेषु वस्तुविशेषेषु । तद्गतानीति यावत् । उपयोगिष्विति विशेषणस्य फलमाहौपयोगिपदेनेत्यादि वैशेषिकदर्शने द्रव्यादिपदार्थानामुर्दृशानन्तरमादौ “सदनित्यमि"त्यादिसूत्रेण द्रव्यगुणकर्मणां त्रयाणां सत्तावत्वादिकं लक्षणमभिहितं, तन्मनसि कृत्योक्तं वृत्तौ “सत्तामात्रे” त्यादि । तद्विवृणोतित्रिपदार्थेत्यादि । त्रिपदार्थसङ्करीति । त्रिपदार्थसङ्कीर्णति पाठस्साधुः । द्रव्यादिपदार्थत्रयव्याप्तेत्यर्थः । सकलेत्यादिप्रसङ्ग इत्यन्तेन विवक्षितं व्याचष्टेश्रुतीत्यादि । अनारम्भे बाधकं दर्शयतिसकलेत्यादि । वृत्तावुपसंहरति “तदेवम्” इत्यादि । “विमती"त्यादिश्लोको वृत्यन्तर्गतः । “अविदितिसतत्व” ध्वनिसञ्ज्ञितः प्रकारः काव्यस्य व्यञ्जितः सोऽयम् ॥
प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते । यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ॥ कारिका३.३४ ॥
प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते । यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ॥ ३४ ॥
लोचनं
सकललोकयात्रोपयोगिनामनारम्भः स्यादिति भावः । विमतिविषयत्वे हेतुःविदितसतत्त्व इति । अत एवाधुनात्र न कस्यचिद्विमतिरेतस्मात्क्षणात्प्रभृतीति प्रतिपादयितुमासीतित्युक्तम् ॥ ३.३ ॥
एवं यावद्ध्वनेरात्मीयं रूपं भेदोपभेदसहितं यच्च व्यञ्जकभेदमुखेन रूपं तत्सर्वं प्रतिपाद्य प्राणभूतं व्यङ्ग्यव्यञ्जकभावमेकप्रघट्टकेन शिष्यबुद्धौ विनिवेशयितुं व्यञ्जकवादस्थानं रचितमिति ध्वनिं प्रति यद्वक्तव्यं तदुक्तमेव । अधुना तु गुणैभूतोऽप्ययं व्यङ्ग्यः कविवाचः पवित्रयतीत्यमुना द्वारेण तस्यैवात्मत्वं समर्थयितुमाहप्रकार
बालप्रिया
इत्युक्तेरुपयोगमाह लोचनेविमतिविषयतेवे हेतुरिति । संशयस्य विशेषानवधारणमूलकत्वं हि प्रसिद्धम् । आसीदिति भूतनिर्देशस्य फलमाहअत एवेत्यादि । अत एवेति । यत एव विप्रतिपत्तिर्वस्तुतत्वानवबोधनिबन्धना तदवधारणे सति नोत्पत्तुमर्हति, तत एवेत्यर्थः । अधुनेत्येतद्विविच्याहएतस्मात्क्षणादित्यादि । प्रतिपादयितुमिति । सूचयितुमित्यर्थः ॥ ३.३ ॥
अथ गुणीभूतव्यङ्ग्यप्रतिपादनपरमुत्तरग्रन्थसन्दर्भं तात्पर्यार्थाकथनपूर्वकमवतारयतुमादित आरभ्यैतदन्तवृत्तग्रन्थसन्दर्भस्यार्थं सङ्क्षिप्याहएवमित्यादि । एवं यावद्ध्वनिं प्रति यद्वक्तव्यन्तदुक्तमेवेति सम्बन्धः । प्रथमोद्योते तावत्सोपोद्धातं ध्वनेस्सामान्यलक्षणमेवोक्तं, द्वितीये त्वविवक्षितवाच्यादिभेदस्तद्भेदाश्च प्रदर्शिताः । तदाहभेदोपभेदसहितमात्मीयं रूपमिति । यच्चेत्यनेन तृतीयोद्योतार्थ उक्तः । तत्सर्वं प्रतिपाद्येत्यनेन, तावतैव ध्वनिस्वरूपप्रतिपादनं निर्व्यूढमिति दर्शयति । प्राणभूतमित्यनेन व्यङ्ग्यव्यञ्जकभावनिरूपणस्यात्यन्तावश्यकत्वं प्रदर्शितम् । एकप्रघट्टकेनेत्यादिना पौनरुक्त्यशङ्का परिहृता । ध्वनिं प्रतीत्यनेन प्रतिपाद्यान्तरसद्भावं ध्वनति । ननु काव्यस्यात्मा ध्वनिरित्यभ्युपगमेन काव्यात्मभूतध्वनिस्वरूपप्रतिपादनमात्रवृत्तत्वात्किमर्थं गुणीभूतव्यङ्ग्यप्रतिपादनं कृतं, तस्य काव्यात्मत्वाभावादित्यतोऽभिप्रायं दर्शयन्नवतारयतिअधुनेत्यादि । अयं व्यङ्ग्यः उक्तप्रकारो व्यङ्ग्यार्थः । गुणीभूतोऽपि न प्रधानभूत एवेति भावः । पवित्रयतीति । छायातिशयं सम्पादयतीत्यर्थः । अमुना द्वारेणेति । कैमुत्यन्यायोपक्षेपमुखेनेत्यर्थः । तस्यैवेति । ध्वनेरेवेत्यर्थः । उक्तं हि प्राक् “एवंभूता चेयं व्यङ्ग्यते"त्यादिनराजत्वमिवे"त्यन्तम् । चारुत्वप्रकर्षहेतुत्वेन व्यङ्ग्यान्वयस्य कारिकायान्दर्शितत्वान्न व्यङ्ग्यसम्बन्धमात्रं व्यङ्ग्योऽर्थो ललनालावण्यप्रख्यो यः प्रतिपादितस्तस्य प्राधान्ये ध्वनिरित्युक्तम् । तस्य तु गुणीभावेन वाच्यचारुत्वप्रकर्षे गुणीभूत्वयङ्ग्यो नाम काव्यप्रभेदः प्रकल्प्यते । तत्र वस्तुमात्रस्य व्यङ्ग्यस्य तिरस्कृतवाच्येभ्यः प्रीयमानस्य कदाचिद्वाच्यरूपवाक्यार्थापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता । यथा लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ॥ लोचनमिति । व्यङ्ग्येनान्वयो वाच्यस्योपस्कार इत्यर्थः । प्रतिपादित इति । “प्रतीयमानं पुनरन्यदेव” इत्यत्र । उक्तमिति । “यत्रार्थः शब्दो वा” इत्यत्रान्तरे व्यङ्ग्यं च वस्त्वादित्रयं तत्र वस्तुनो व्यङ्ग्यस्य ये भेदा उक्तास्तेषां क्रमेण गुणभावं दर्शयतितत्रेति । लावण्येति । अभिलाषविस्मयगर्भेयं कस्यचित्तरुणस्योक्तिः । अत्र सिन्धुशब्देन परिपूर्णता, उत्पलशब्देन कटाक्षच्छटाः, शशिशब्देन वदनं, द्विरदकुम्भतटीशब्देन स्तनयुगलं, कदलिकाण्डशब्देनोरुयुगलं, मृणालदण्डशब्देन दोर्युग्ममिति ध्वन्यते । तत्र चैषां स्वार्थस्य सर्वथानुपपत्तेरन्धशब्दोक्तेन न्यायेन तिरस्कृतवाच्यत्वम् ।
बालप्रिया
वाच्यस्यात्र विवक्षितं, किन्तु व्यङ्ग्यसम्बन्धकृतातिशयविशेषास्पदत्वमित्याहवाच्यस्योपस्कार इति । व्यङ्ग्यस्य गुणीभावे वक्तव्ये वृत्तौ वस्त्वादेर्गुणीभावप्रदर्शनासङ्गतिशङ्कामुद्धर्तुमाहव्यङ्ग्यञ्च वस्त्वादित्रयमिति । उक्तमिति शेषः । वृत्तौ “लावण्ये"ति । “अत्र “अस्मिन्देशे । “अपरैव” अपूर्वैव । “केयं लावण्यसिन्धुः” लावण्यस्य सरित् । “यत्र” यस्याम् । “शशिना” पूर्णचन्द्रेण । “संप्लवन्ते” सम्मिलितानि भवन्ति । “उन्मज्जति” उत्थिता भवति । “द्विरदः” गजः । “यत्रे” त्यादि । सन्तीति शेषः । “कदलिकाण्डः” कदलीदण्डः । वस्तुमात्रस्य व्यङ्ग्यस्येत्यादिवृत्त्युक्तं सर्वं क्रमेण प्रदर्शयिष्यन्नदौ भूमिकां रचयति लोचनेअभिलाषेत्यादि । प्रथमं विस्मयस्ततोऽभिलाष इति क्रमः, तदविवक्ष्याभिलाषविस्मयगर्भेत्युक्तम् । कस्यचिदिति । विशेषानुक्तिरनुपयोगात् । सिन्धुशब्देनेति । सिन्धुशब्देन परिपूर्णतेति ध्वन्यत इत्याद्यन्वयः । परिपूर्णतेति । पारिपूर्ण्यविशिष्टेत्यर्थः । उत्पलानिति बहुवचनान्तनिर्देशानुगुण्येनाहकटाक्षच्छटा इति । ध्वन्यत इति विपरिणामेनात्र सम्बन्धः । तत्रेति । उक्तवस्तुध्वनेन सतीत्यर्थः । एषां सिन्धूत्पलादिशब्दानाम् । तिरस्कृतवाच्यत्वमित्यनेन सम्बन्धः । अत्र हेतुमाहस्वार्थस्येत्यादि । स्वार्थस्य नदीनीलाब्जप्रभृतेः । अतिरस्कृतवाच्योभ्योऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाटचिद्वाच्यप्राधान्येन
लोचनं
स च प्रतीयमानोऽप्यर्थविशेषः “अपरैव हि केयं” इत्युक्तिगर्भीकृते वाच्यें “शे चारुत्वच्छायां विधत्ते, वाच्यस्यैव स्वात्मोन्मज्जनया निमज्जितव्यङ्ग्यजातस्य सुन्दरत्वेनावभानात् । सुन्दरत्वं चात्यासम्भाव्यमानसमागमसकललोकसारभूतकुवलयादिभाववर्गस्यातिसुभगकाधिकरणविशिरान्तलब्धसमुच्चयरूपतया विस्मय विभावनाप्राप्तिपुरस्कारेण व्यङ्ग्यार्थोपस्कृतस्य तथा विचित्रस्यैव वाच्यरूपोन्मज्जनेनाभिलाषादिविभावत्वात् ।
बालप्रिया
अन्धेति । निःश्वासान्ध इवादर्श इत्यत्रान्धशब्दव्याखायने य उक्तो न्यायस्तेनेत्यर्थः । प्रतीयमानोऽपीत्यपिशब्देन स्वतः प्राप्तप्रधानभावस्य वैपरीत्येन गुणीबावापत्तिर्विरुद्धेति दर्शयति । सोऽर्थविशेषः व्याख्यातव्यङ्ग्यार्थजातम् । अपरैवेत्यादि । अपरैव हीति केयमिति चोक्तिभ्यां सामान्यात्मनाक्रोडीकृत इत्यर्थः । वाच्यें “शे सिन्धूत्पलादिशब्दवाच्यनदीनीलाब्जादिघटितवाक्यार्थे । चारुत्वच्छायां काव्यचारुत्वप्रतीतिहेतुभूतां शोभाम् । विधत्ते करोति । अनेन व्यङ्ग्यस्य गुणीभावः प्रदर्शितः । अत्र सहृदयानुभवमेव प्रमाणयतिवाचस्यैवेत्यादि । वाच्यस्यैव सुन्दरत्वेनावभासनादिति सम्बन्धः । अत्र हेतुगर्भे विशेषणे दर्शयतिस्वात्मेत्यादि । स्वस्य वाच्यस्य य आत्मा स्वरूपन्तस्य यदुन्मज्जनमुद्धुरकन्धरतयावस्थानं तया उपलक्षितस्य । तथा निमज्जिनं व्यङ्ग्यजातं पूर्वोक्तं येन तस्य । व्यङ्ग्यजातस्य निमज्जनं वाच्यमुखप्रेक्षितया नीचैरवस्थानम् । कथं पुनस्तादृशस्य वाच्यस्य सुन्दरत्वमित्यत आहसुन्दरत्वञ्चेत्यादि । अस्य वाच्यस्य । श्लोकेऽस्मिन्नदौ वाच्यस्य विस्मयविभावताप्रायेणाहअसम्भाव्येत्यादि । असम्भाव्यमानस्सम्भावयितुमप्यशक्यतां प्रतिपद्यमानस्समागमोयेषां ते । तथा सकललोकसारभूताश्च ये कुवलयादयो भावाः पदार्थस्तेषां वर्गस्य । अतिसुमगं यदेकाधिकरणं नायिकारूपं तत्र या विश्रान्तिः संश्लिष्यावस्थितिस्ताया लब्धं समुच्चरूपं सङ्घातरूपत्वं येन तस्य भावस्तत्ता तया हेतुना । या विस्मयविभावताप्राप्तिस्तस्याः पुरस्कारेण पुरस्सरीकारेणेति च पाठः । अभिलाषादिविभावताप्राप्तौ हेतुमाहव्यङ्ग्येत्यादि । व्यङ्ग्यार्थोपस्कृतस्य कटाक्षवदनाद्युक्तव्यङ्ग्यार्थजातेनोपस्कृतस्य । तथाविचित्रस्य व्यङ्ग्यार्थोपस्कारेण वैचित्र्यं विशेषं प्राप्तस्य । ननु यदि व्यङ्ग्यार्थोपस्कृतस्यैवाभिलाषादिविभावत्वं न स्वरूपतः, तर्हि व्यङ्ग्यस्य प्राधान्यमापतितं तस्यैव विभावताप्राप्तौ प्रयोजकत्वादित्यत आहवाच्यरूपोन्मज्जनेनेति । कुवलयचन्द्रादिवाच्यार्थस्वरूपोन्मज्जनेन हेतुनेत्यर्थः । काव्यचारुत्वापेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता, यथोदाहृतम् “अनुरागवती सन्ध्या” इत्येवमादि । तस्यैव स्वयमुक्त्या प्रकाशीकृतत्वेन गुणीभावः, यथोहाहृतम् “सङ्केतकालमनसम्” लोचनमत एवेयति यद्यपि वाच्यस्य प्राधान्यं , तथापि रसध्वनौ तस्यापि गुणतेति सर्वस्य गुणीभूतव्यङ्ग्यस्य प्राकरे मन्तव्यम् । अत एव ध्वनेरेवात्मत्वमित्युक्तचरं बहुशः । अन्ये तु जलक्रीडावतीर्णतरुणीजनलावण्यद्रवसुन्दरीकृतनदीविषयेयमुक्तिरिति सहृदयाः, तत्रापि चोक्तप्रकारेणैव योजना । यदि वा नदीसन्निधौ स्नानावतीर्णयुवतिविषया । सर्वथा तावद्विस्मयमुखेनेयति व्यापाराद्गुणताव्यङ्ग्यस्य । उदाहृतमिति ।
बालप्रिया
व्यङ्ग्यस्य कटाक्षवदनादेर्वाच्यकुवलयचन्द्रादिरूपत्वेन दर्शनं ह्यभिलाषादिजनने निमित्तमिति भावः । अत एवेति । उक्तरीत्या व्यङ्ग्यस्य गुणीभावादेवेत्यर्थः । इयतीति विस्मथविभावताप्राप्तिपूर्वकाभिलाषादिविभावताप्राप्तिपर्यन्तेऽर्थ इत्यर्थः । अनन्तरन्तु तस्या गुणीभाव एवेत्याहतथापीत्यादि । रसध्वनौ शृङ्गारादिध्वनौ । तस्यापि वाच्यस्यापि । न केवलमत्रैवेत्याहैति सर्वस्येत्यादि । अत्रोपष्टम्भकमाहअत एवेत्यादि । यदि गुणीभूतव्यङ्ग्यप्रभेदे वाच्यार्थस्यैव प्राधान्यं स्यात्त्दा ध्वनिः काव्यस्यात्मेति तत्र तत्रोद्धोष्यमाणमसङ्गतं स्यादिति भावः । शोकस्यास्य क्वचित्प्रबन्धेऽनुपलम्भान्मुक्तकस्यौचित्यानुसारेण वर्ण्यविशेषनिर्वर्णनाविधेयेति दर्शयन् पक्षान्तरमाहअन्ये त्वित्यादि । लावण्यद्रवसुन्दरीकृतनदीविषयेत्यनेन लावण्यसिन्धुरित्येतद्विवृतं लावण्यमयी लावण्यसुन्दरीकृता वा सिन्धुरिति विग्रहः, सिन्धुशब्दो न तिरस्कृतवाच्यो व्यञ्जक इति च भावः । उत्पलादिशब्दानान्तु प्रागुक्तैव व्यञ्जनपरिपाटीत्याहतत्रापि चेत्यादि । अस्मिन् पक्षे कुवलयादीनामतिसुभगैकाधिकरणसमावेशकृतसौभाग्यलाभो न सामञ्जस्येन भवतीत्यस्वरसमन्य इत्यनेन सूचयन् पक्षान्तरमाहयदि वेत्यादि । नदीसन्निधाविति । युवतिगतनिरतिशयलावण्यपूरव्याप्तत्वाल्लावण्यमयी सिन्धुर्यसायस्सेत्यर्थात्सन्धुशब्दोऽत्रापि पक्षे मुख्यार्थक एव, न च प्रागुक्तदोषस्तरुण्या एव वर्णनीयत्वादिति भावः । पक्षत्रयेऽपि विवक्षितगुणीभूतव्यङ्ग्यप्रभेदत्वं निर्भाधमित्याहसर्वर्थेत्यादि । निरूपितमिति । यथात्र व्यङ्ग्यस्य नायकवृत्तान्तस्य गुणीभावस्तथा दर्शितमित्यर्थः । ननु सन्ध्यादिशब्दानामतिरस्कृतवाच्यानामेन नायिकाद्यर्थप्रत्यायकत्वेऽप्यनुरागशब्दस्य प्रेमवाचकत्वेनैव प्रसिद्धस्य रक्तिमरूपप्रकृतार्थे जहत्स्वार्थलक्षणाया एव वक्तव्यतया कथमतिरस्कृतवाच्यत्वमिति शङ्कां परिजिहीर्षुः प्रत्युत तत्पदस्य योगरूढ्या रक्तिमवाचकत्वमेव, प्रेमरूपार्थे इत्यादि । रसादिरूपव्यङ्ग्यस्य गुणीभावो रसवदलङ्कारे दर्शितः - तत्र च तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवहनप्रवृत्तभृत्यानुयायिराजवत् । व्यङ्ग्यालङ्कारस्य गुणीभावे दीवकादिविषयः । लोचनमेतच्च प्रथमोद्द्योत एव निरूपितमनुरागशब्दस्य चाभिलाषे तदुपरक्तत्वलक्षणया लावण्यशब्दवत्प्रवृत्तिरित्यभिप्रायेणातिरस्कृतवाच्यत्वमुक्तम् । तस्यैवेति । वस्तुमात्रस्य । रसादीति । आदिशब्देन भावादयः रसवच्छब्देन प्रेयस्विप्रभृतयोऽलङ्कारा उपलक्षिताः । नन्वत्यर्थं प्रधानभूतस्य रासदेः कथं गुणीभावः, गुणीभावे वा कथमचारुत्वं न स्यादित्याशङ्क्य प्रत्युत सुन्दरता भवतीति प्रसिद्धदृष्टान्तमुखेन दर्शयतितत्र चेति । रसवदाद्यलङ्कारविषये । एवं वस्तुनो रसादेश्च गुणीभावं प्रदर्श्यालङ्कारात्मनोऽपि तृतीयस्य व्यङ्ग्यप्रकारस्य तं दर्शयतिव्यङ्ग्यालङ्कारस्येति । उपमादेः ॥ ३.४ ॥
एवं प्रकारत्रयस्यापि गुणभावं प्रदर्श्य बहुतरलक्ष्यव्यापकतास्येति दर्शयितुमाहतथेति ।
बालप्रिया
तु निरूढलक्षणेत्यतिरस्कृतावाच्यत्वसुपपन्नमेवेति दर्शयतिअनुरागशब्दस्येत्यादि । अभिलाषे प्रेम्णि । तदिति । तत्पदार्थस्तद्वस्तु तदुपरक्तं येन तत्त्वं वस्तूपरञ्जकत्वं तेन निमित्तेन लक्षणयेत्यर्थः । लावण्यशब्दवदिति । सुषमाविशेषे लावण्यशब्दस्येवेत्यर्थः । प्रेमरूपार्थो व्यङ्ग्य एवेति बोध्यम् । रसवच्छब्देनेति । रसवदलङ्कारे दर्शित इत्यत्रत्यरसवच्छब्देनेत्यर्थः । रसवदलङ्कारविषयः प्राक्दर्शित इति च वृत्तौ पाठः । दृष्टान्तप्रदर्शनपूर्वकं रसादेर्गुणीभावप्रदर्शनस्य फलं तदसम्भवशङ्कानिवृत्तिरित्याशयेन शङ्कामाहनन्वत्यर्थमित्यादि । वाच्यस्याप्यापेक्षिकं प्राधान्यमस्तीत्यतो"त्यर्थमित्युक्तम् । कथमिति । प्राधान्यगुणीभावयोरेकत्र समावेशो विरुद्ध एवेति भावः । ननु प्रधानस्यापि सतो रसादेः कविविवक्षावशाद्गुणीभावः किन्न स्यादित्यत आहगुणीभावे वेति । प्रसिद्धदृष्टान्तेति । सुन्दरत्वेन प्रसिद्धदृष्टान्तेत्यर्थः । न हि राज्ञो विवाहप्रवृत्तमृत्यानुयायित्वमसुन्दरं भाति, प्रत्युत भृत्योत्कर्षविशेषोऽपि राजोत्कर्षातिशयायैव कल्पिष्यत इति चारुत्वमेव पुष्णातीति भावः ॥ ३.४ ॥
अस्येति । गुणीभूतव्यङ्ग्यस्येत्यर्थः । प्रसादगुणयोगात्प्रसन्नानि व्यङ्ग्यार्थाक्षेपकत्वाद्गम्भीराणि चेति सम्बन्धः । सुखावहा इत्यनेन तेषु प्रकारोऽयमेव योज्य तथा
प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः । ये च तेषु प्रकारोऽयमेव योज्याः सुमेधसा ॥ कारिका३.३५ ॥
प्रसन्नगम्भीरपदाः काव्यबनधाः सुखावहाः । ये च तेषु प्रकारोऽयमेव योज्यः सुमेधसा ॥ ३५ ॥
ये चैतेऽपरिमितस्वरूपा अपि प्रकाशमानास्तथाविधार्थरमणीयाः सन्तो विवेकिनां सुखावहाः, काव्यबन्धास्तेषु सर्वेष्वेवायं प्रकारो गुणीभूतव्यङ्ग्यो नाम योजनीयः । यथाः लच्छी दुहिदा जामाउओ हरी तंस धरिणिआ गङ्गा ।
लोचनं
प्रसन्नानि प्रसादगुणयोगाद्गभीराणि च व्यङ्ग्यार्थक्षेपकत्वात्पदानि येषु । सुखावहा इति चारुत्वहेतुः । तत्रायमेव प्रकार इति भावः । सुमेधसेति । यस्त्वेतं प्रकारं तत्र योजयितुं न शक्तः स परमलीकसहृदयभावनामुकुलितलोचनोक्त्योपहसनीयः स्यादिति भावः । लक्ष्मीः सकलजनाभिलाषभूमिर्दुहिता । जमाता हरिः यः समस्तभोगापवर्गदानसततोद्यमी । तथा गृहिणी गङ्गा यस्याः समभिलषणीये सर्वस्मिन्वस्तुन्यपहत उपायभावः । अमृतमृगाङ्कौ च सुतौ, अमृतमिह वारुणी । तेन गङ्गास्नानहरिचरणाराधनाद्युपायशतलब्धाया लक्ष्म्याश्चन्द्रोदयपानगोष्ठ्युपभोगलक्षणं मुख्यें फलमिति त्रैलोक्यसारभूतता
बालप्रिया
इत्यत्र तत्प्रकारस्य चारुत्वेहेतुत्वं दर्शितमित्याशयेनाहचारुत्वहेतुरित्यादि । तत्र तथाविधे काव्यबन्धे । सहृदयत्वप्रतिष्टालाभश्चैतत्प्रकारयोजनकौशलशालितानिबन्धन एवेति तदर्थिभिस्तद्विषये महाप्रयत्न आधेय इति दर्शयितुं सुमेधसेत्युक्तमित्याहयस्त्वेतमित्यादि । अलीकेति । अयं न सहृदयः किन्त्वलीकसहृदयभावनया असत्यस्य सहृदयत्वस्थ भावनया रसास्वादवैवश्यं मनसः प्रकटयितुं मुकुलितलोचन आस्ते, पश्यतास्य विप्रलम्भकभावमिति सहृदयगोष्ठीषुपरिहासपात्रं स्यादित्यर्थः । लक्ष्मीर्दुहिता जामाता हरिस्तस्य हिणी गङ्गा । अमृतमृगाङ्कौ च सुतावहो कुटुम्बं महोदधः ॥ इति छाया । पदानामेतद्गतानां व्यङ्ग्यमर्थजातन्दर्शयन्योजनामाहलक्षमीरित्यादि । सकलेत्यादि । समस्तेत्यादि । यस्या इत्यादि च तत्तत्पदव्यङ्ग्यार्थकथनम् । अमृतमिति । अमृतपदार्थं इत्यर्थः । वारुणीति । न पीयूषं तस्य चन्द्रोदयवदखिलजनसाधारण्याभावादिति भावः । तेनेति । उक्तेनार्थजातेनेत्यर्थः । गङ्गास्नानेत्यादिगुणीभावमनुभवतीत्यन्तस्यायमर्थः । यस्यां स्नानाद्यदाराधनादितश्च या लभ्यते सा गङ्गास्य गृहिण्येव, स हरिरस्य जामातैव, सा लक्ष्मीरस्यात्मजैव, लब्धाया आमिअमिअङ्का अ सुआ अहो कुडुम्बं महोअहिणो ॥
वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशानुगमे सति । प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते ॥ कारिका३.३६ ॥
वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशानुगमे सत । प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते ॥ ३६ ॥
वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशस्यालङ्कारस्य वस्तुमात्रस्य वा यथोयोगमनुगमे सति च्छायातिशयं विभ्रल्लक्षणकारैरेकदेशेन दर्शितः । स तु तथारूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते । तथा हिदीपकसमासोक्त्यादिवदन्येऽप्यलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तरवस्त्वन्तरसंस्पर्शिनो दृश्यन्ते ।
लोचनं
प्रतीयमाना सती अहो कुटुम्बं महोदधेरित्यहोशब्दाच्च गुणीभावमनुभवति ॥ ३.५ ॥
एवं निरलङ्कारेषूत्तानतायां तुच्छतयैव भासमानममुनान्तःसारेण काव्यं पवित्रीकृतमित्युक्त्वालङ्कारस्याप्यनेनैव रम्यतरत्वमिति दर्शयतिवाच्येति । अंशत्वं गुणमात्रत्वम् । एकदेशेनेति । एकदेशविवर्तिरूपकमनेन दर्शितम् ।
बालप्रिया
लक्ष्म्यास्सम्पद्रूपाया उपभोगाभावे चालब्धकल्पत्वाच्चन्द्रोदयकाले वारुण्युपभोगो हि मुख्यं फलं, स चन्द्रस्सा वारुणी चास्य पुत्रभावमेव भजत इति महोदधिरेव त्रैलोक्यसार इतीयानर्थोऽत्र ध्वननव्यापारादवगम्यते । स चावगतस्सन्नहो कुटुम्बमिति शब्दस्पृष्टतया गुणीभावमवलम्बते यतः, तद्व्यङ्ग्यार्थजातोपस्कृत एव वाच्यार्थो विस्मयविभावतां प्राप्नोति चमत्कारातिशयञ्च विधत्त इति ॥ ३.४॥
पूर्वकारिकातात्पर्यार्थकथनपूर्वकमुत्तरकारिकामावतारयतिएवमित्यादि । निरलङ्कारेष्विति । लक्ष्मीरित्याद्युक्तोदाहरणे न कश्चिदलङ्गारः स्फुटोऽवगम्यत इति भावः । उत्तानतायामिति । आपाततः प्रतीतावित्यर्थः । भासमानं काव्यमिति सम्बन्धः । भासमानमपीति च पाठः । अमुना गुणीभूतेन व्यङ्ग्येन । अन्तरसारेणेति । अन्तरस्सारत्वं गुणीभावेऽपि बालक्रीडाकालीनरजत्वन्यायेन नैसर्गिकमुत्कर्षशालित्वम् । अलङ्कारस्येति जात्येकवचनम् । अनेनैवेति । गुणीभूतव्यङ्ग्येनैवेत्यर्थः । रम्यतरत्वमिति । अलङ्कारत्वात्स्वतो रम्यत्वमस्तीति तरप्प्रत्ययः । अत एव “परां छायामि"ति छायातिशयमिति चोक्तम् । व्यङ्ग्यांशानुगम इत्यत्र व्यङ्ग्यस्य वाच्यं प्रत्यंशत्वं गुणीभूतत्वमेवेत्याहअंशत्वं गुणमात्रत्वमिति । अनेन दर्शितमिति । नामग्रहणे नामैकदेशग्रहणमिति न्यायेनैकदेशशब्द एकदेशविवर्तिरूपकपर इति भावः । यतः प्रथमं तावदतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रिया । कृतैव च सा महाकविभिः कामपि काव्यच्छर्विपुष्यति, कथं ह्यतिशययोगिता स्वविषयौचित्येन क्रियमाणा सती काव्ये
लोचनं
तदयमर्थःेकदेशविवर्तिरूपके राजसंसैरवीज्यन्त शरदैव सरोनृपाः इत्यत्र हंसानां यच्चामरत्वं प्रतीयमानं तन्नृपा इति वाच्येऽर्थे वाच्येऽर्थे गुणतां प्राप्तमलङ्कारकारैर्यावदेव दर्शितं तावदमुना द्वारेण सूचितोऽयं प्रकार इत्यर्थः । अन्ये त्वेकदेशेन वाच्यभागवैचित्र्यमात्रेणेत्यनुद्भिन्नमेव व्याचचक्षिरे । व्यङ्ग्यं यदलङ्कारान्तरं वस्त्वन्तरं च संस्पृशन्ति ये स्वात्मनः संस्कारायाश्लिष्यन्तीति ते तथा । महाकविभिरिति । कालिदासादिभिः । काव्यशोभां पुष्यतीति यदुक्तं तत्र हेतुमाहकथं हीति । हि शब्दो हेतौ । अतिशययोगिता कथं नोत्कर्षमावहेत्काव्ये नास्त्येवासौ प्रकार इत्यर्थः । स्वविषये यदौचित्यं तेन चेद्धृदयस्थितेन तामतिशयोक्तिं कविः करोति । यथा भट्टेन्दुराजस्य यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् ।
बालप्रिया
कथमेकदेशविवर्तिरूपकेण तत्प्रदर्शनमित्यत आहतदयमर्थ इत्यादि । प्रतीयमानमिति । सरसां नृपत्वरूपणमेव शाब्दन्तत्सामर्थ्याद्वीजनोपायभूतानां हंसानाञ्चामरत्वं व्यङ्ग्यमित्यर्थः । शरदश्चामरग्राहिणीत्वमप्यत्र व्यङ्ग्यं बोध्यम् । प्रात्पं प्राप्तं सत् । दर्शितमिति । अत्रोक्तव्यङ्ग्योपस्कृतस्य वाच्यस्यैव चमत्कारकारित्वाद्व्यङ्ग्यस्य गुणीभूतत्वं स्पष्टीकृतमित्यर्थः । यावदेवेति । कालावधिनिर्देशस्तस्य स्पष्टत्वातिशयसूचनार्थः । तावदिति । तद्दर्शनमात्रावसर एवानन्यापेक्षया स्फुटावसेयोऽयमिति भावः । अमुना द्वारेणेति । उपलक्षणन्यायेनेत्यर्थः । अयं प्रकारः कारिकोक्तप्रकारः । एकदेशेन दर्शित इत्यस्यान्येषां व्याख्यानमाहअन्य इत्यादि । एकदेशेनेत्यस्य व्याख्यानम्वाच्य इत्यादि । अनुद्भिन्नमिति । अस्पष्टार्थकमित्यर्थः । व्यङ्ग्यमित्यस्योभयविशेषणत्वं योजयन्नाहव्यङ्ग्यमित्यादि । संस्पृशन्तीत्यस्य विवरणम्स्वात्मन इत्यादि । संस्काराय अतिशययोगाय । काव्य इत्यस्य पूर्वेण सम्बन्धः । नास्त्येवेत्यादि । सत्यामतिशययोगितायामनासादितोत्कर्षः काव्यप्रकारो नास्त्येवेत्यर्थः । किं सर्वथा नेत्याहस्वविषय इत्यादि । स्वविषये स्वस्या अतिशयोक्तेर्यो विषयस्तस्मिन् । औचित्यं सम्भाव्यमानत्वलक्षणम् । तेन हृदयस्थितेनेति । कविहृदयस्थेन तदौचित्येनोपलक्षितामित्यर्थः । करोति चेत्तदा नास्त्येवासौ प्रकार इति सम्बन्धः । नोत्कर्षमावहेत् । भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तं
लोचनं
दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृण्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥ अत्र हि भगवतो मन्मथवपुषः सौभाग्यविषयः सम्भाव्यत एवायमतिशय इति तत्काव्ये लोकोत्तरैव शोभोल्लसति । अनौचित्येन तु शोभा लोयेत एव । यथा अल्पं निर्मित्तमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ इति । नन्वतिशयोक्तिः सर्वालङ्कारेषु व्यङ्ग्यतयान्तलींनैवास्त इति यदुक्तं तत्कथम्? यतो भामहो"तिशयोक्तिं सर्वालङ्कारसामान्यरूपामवादीत् । न च सामान्यं शब्दाद्विशेषप्रतीतेः पृथग्भूततया पश्चात्तनत्वेन चकास्तीति कथमस्य व्यङ्ग्यत्वमित्याशङ्क्याहभामहेनेति ।
बालप्रिया
तत्रौचित्ययुक्तमुदाहरणमाहयदित्यादि । व्याख्यातोऽयं श्लोकः । भगवत इति मन्मथवपुष इत्यत्र, तच्च सम्भाव्यत एवेत्यत्र च हेतुः । सम्भाव्यत एवेति । एवं भवेदिति । प्रतिपत्तृभिस्सम्भाव्यमान एवेत्यर्थः । च हेतुः । सम्भाव्यत एवेति । एवं भवेदिति प्रतिपत्तृभिस्सम्भाव्यमान एवेत्यर्थः । एवकारेणासम्भाव्यमानत्वव्यवच्छेदः । अयं सौभाग्यविषयो"तिशय इति । वनितावस्थाविशेषवर्णनेन प्रतीयमानस्सौन्दर्यादिगुणातिशय इत्यर्थः । तत्काव्ये तादृशि काव्ये । एतदेव प्रत्युदाहरणमुखेन स्फुटयिष्यन्नाहअनौटचित्येनेत्यादि । लीयत एवेति । शोभोल्लासस्य कावार्तेति भावः । अल्पमिति । अल्पं निर्मितमिति । स्तनयोः पर्याप्तावकाशत्वाभावेनेति भावः । इदमिति । दृश्यमानमित्यर्थः । एवंविधमिति । वक्तुमशक्यमित्यर्थः । अत्रातिमहतोऽप्यवकाशात्मकाकाशस्याल्पत्वेन निर्माणोक्त्या ततोऽप्यतिशयितं महत्वं स्तनयोः प्रतीयत इति अतिशयोक्तिर्व्यङ्ग्या, परन्त्वियं स्तनयोस्तथाविधमहत्वस्यासम्भाव्यमानत्वेनानौचित्यवतीति काव्योत्कर्षं सम्पादयितुं न क्षमत इति भावः । भामहेनापीत्यादिग्रन्थः प्रकृते किमर्थ इत्यतस्तमवतारयतिनन्वित्यादि । यदुक्तमिति । अतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रियेति ग्रन्थेनेति भावः । कथमिति । अयुक्तमित्यर्थः । कुत इत्यत्राहयत इत्यादि । भामहः अलङ्कारलक्षणकारकूटस्थो भामहनामा आचार्यः । अवादीदिति । सैषा सर्वैव वक्रोक्तिरिति ग्रन्थेनोक्तवानित्यर्थः । “सर्वापि वक्रोक्तिः” सर्व एवालङ्कारः । “सैषा” येयमुक्तातिशयोक्तिः सैवेति तत्तदलङ्काराणां विशेषत्वं तत्सामान्यरूपत्वञ्चातिशयोक्तेरिति तदर्थः । भवत्वेवं तावता प्रकृते किमायातमित्यत आहन चेत्यादि । कथमस्य व्यङ्ग्यत्वमिति । व्यङ्ग्यं हि वाच्यात पृथक्तया तत्प्रतीत्युत्तरं शब्दात्प्रतीयते समान्यन्त्वन्यथा गौरित्यादिशब्देन सैषा सर्वैव वक्रोक्तिरनयार्थो विभाव्यते । यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥ इति । तत्रातिशयोक्तिर्यमलङ्कारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगोऽन्यस्य
लोचनं
भामहेनापि यदुक्तं तत्रायमेवार्थोऽवगन्तव्य इति दूरेण सम्बन्धः । किं तदुक्तम्सैषेति । यातिशयोक्तिर्लक्षिता सैव सर्वा वक्रोक्तिरलङ्कार प्रकारः सर्वः । वक्राभिधेयशब्दोक्तिरिष्टा वाचामलङ्कृतिः इति वचनात् । शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानमित्ययमेवासावलङ्कारस्यालङ्कारभावः, लोकोत्तरतैव चातिशयः, तेनातिशयोक्तिः सर्वालङ्कारसामान्यम् । तथा हिअनया अतिशयोक्त्या, अर्थः सकलजनोपभोगपुराणीकृतोऽपि विचित्रतया भाव्यते । तथा प्रमदोद्यानादिः विभावतां नीयते ।
बालप्रिया
सामान्यविशेषयोरपृथक्तया समकालमेवावभासादित्यलङ्कारविशेषप्रतीत्युतरं तत्पृथक्तया भासमानत्वं व्यापकं व्यापकं निवर्तमानं स्वव्याप्यं व्यङ्ग्यत्वमपि निवर्तयतीति तस्य व्यङ्ग्यत्वोक्तिर्भामहवचनव्याहतत्वादयुक्तेत्यर्थः । व्यवहितत्वादन्वयन्दर्शयतिभामहेनापीत्यादि । तदुक्तं भामहोक्तम् । श्लोकं व्याचष्टेयेत्यादि । लक्षितेति । “निमित्ततो वचो यत्त्वि"त्यादिग्नन्थेन लक्षितेत्यर्थः । वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा । उक्तिरुच्यमानोऽर्थ इत्यर्थाभिप्रायेण व्याचष्टेयेत्यादि । लक्षितेति । “निमित्ततो वचो यत्त्वि"त्यादिग्रन्थेन लक्षितेत्यर्थः । वक्रा वक्ष्यमाणस्वरूपवक्रताविशिष्टा । उक्तिरुच्यमानोऽर्थ इत्यर्थाभिप्रायेण व्याचष्टेअलङ्कारप्रकार इति । अलङ्कारविषेष इत्यर्थः । वक्रोक्तिशब्दस्यालङ्कारार्थकत्वे भामहोक्तिमेव संवादयतिवक्रेत । अलङ्कृतिरिति । अलङ्क्रियेति च पाठः । वक्रशब्दोऽत्रासम्भवत्स्वार्थस्सादृश्यात्प्रसिद्धपथातिलङ्घिरूपान्तरशालित्वेन लक्ष्यतीत्याशयेनाहलोकेत्यादि । लोकीत्तीर्णेन रूपेण लोकप्रसिद्धशास्त्रेतिहासादिव्यावृत्तेन रूपेण । तच्च रूपं विवक्षितरसाभिव्यञ्जनं प्रति योग्यत्वापत्तिलक्षणम् । अयमेवेत । रसाभिव्यञ्जनयोग्यत्वरूपलोकोत्तीर्णरूपमेवेत्यर्थः । अलङ्कारस्यालङ्कारभावः उपमादेरलङ्कारत्वम् । तथाच वक्रोक्तिशब्दोऽलङ्कारार्थक इति भावः । तथापि कथमतिशयोक्तिरूपत्वमत आहलोकोत्तरतैवातिशय इति । फलितमाहतेनेति । अनयेत्यादिभागं विवृणोतितथाहीत्यादि । तथाहीति । वक्ष्यमाणमुक्तोपपादकमित्यर्थः । सकलेति । पुराणीकृतः अनास्वाद्यतां नीतः । विशब्दार्थविवरणं विचित्रतयेति । नवनवविशेषशालितयेत्यर्थः । भाव्यते निष्पाद्यते । यथाहुः"स्वभावश्चायमर्थानां यन्न साक्षादमी तथा । स्वदन्ते सत्कविगिरां गात गोचरतां यथे"ति । अर्थद्वयञ्चान्यद्विभाव्यत इत्यनेन विवक्षितमिति दर्शयतितथेत्यादि । प्रमदोद्यानादिरिति त्वलङ्कारमात्रतैवेति सर्वालङ्कारशरीरस्वीकरणयोग्यत्वेनाभेदोपचारात्सैव सर्वालङ्काररूपेत्ययमेवार्थोऽवगन्तव्यः । तस्याश्चालङ्कारान्तरसंकीर्णत्वं
लोचनं
विशेषेण च भाव्यते रसमयीक्रियते, इति तावत्तेनोक्तं, तत्र कोऽसावर्थ इत्यत्राह अभेदोपचारात्सैव सर्वालङ्काररूपेति । उपचारे निमित्तमाहसर्वालङ्कारेति । उपचारे प्रयोजनमाहअतिशयोक्तिरित्यादिना अलङ्कारमात्रतैवेत्यन्तेन । मुख्यार्थबाधोऽप्यत्रैव दर्शितः कविप्रतिभावशादित्यादिना । अयं भावःयदि तावदतिशयोक्तेः सर्वालङ्कारेषु सामान्यरूपता सा तर्हि तादात्म्यपर्यवसायिनीति तद्य्वतिरिक्तो नैवालङ्कारो दृश्यत इति कविप्रतिभानं न तत्रापेक्षणीयं स्यात् ।
बालप्रिया
अर्थ इत्यनुषज्यते । विशेषेण भाव्यत इत्यस्यैव विवरणंरसेत्यादि । इतीत्यादिपिण्डितार्थकथनम् । तावदित्यविसंवादे । तत्रेति । तद्वचन इत्यर्थः । असाविति । अयमेवेत्यत्रेदंशब्देन विवक्षित इत्यर्थः । उपचारे हि त्रितयमवश्यं वक्त - निमित्तं प्रयोजनं मुख्यार्थबाधश्चेति । तत्राभिधेयसम्बन्धलक्षणनिमित्तसमर्पकं सर्वालङ्कारेत्यादिकमित्याहोपचार इत्यादि । निमित्तमाहेति । तथाचालङ्कारशरीरस्वीकरणयोग्यत्वरूपमुख्यार्थसादृश्यं निमित्तमिति भावः । अतिशयोक्तिरित्यादिकं प्रयोजनसमर्पकमित्याहौपचार इत्यादि । वृत्तौ “यमलङ्कारमधितिष्ठती"ति । येनालङ्कारेण सम्बध्नातीत्यर्थः । “तस्ये"ति । अतिशयोकितिसम्बद्धस्येत्यर्थः । “अन्यस्ये"ति । अतिशयोक्त्यसम्बद्धस्येत्यर्थः । तथाचोपमादेरतिशयोक्तिसम्बन्धेन चारुत्वातिशयस्य द्योतनं प्रयोजनमिति भावः । लोचनेअत्रैवेति । प्रयोजनसमर्पकग्रन्थ एवेत्यर्थः । कथमनेन मुख्यार्थवाधवगम इत्यपेक्षायामाशयमुन्मीलयन्नाहअयं भाव इत्यादि । यथा खण्डमुण्डादिविशेषेषु गोत्वादेरनुवृत्ततया सामान्यरूपत्वन्तथा उपमादिविशेषेष्वतिशयोक्तेरनुवृत्ततया सामान्यात्मकत्वात्सर्वा वक्रोक्तिस्सैवेत्यभेदव्यपदेशो मुख्यो वा, सामान्यविशेषबावस्याविवक्षयानया वाचोयुक्त्या ध्वनिरेव काव्यात्मेति पक्षप्रतिक्षेपार्थमतिशयोक्तेः काव्यजीवितत्वं वा विवक्षितमिति विकल्पं मनसि कृत्याद्यन्दूषयतियदि तावदित्यादि । तादात्म्यपर्यवसायिनीति । तथाच यथा खण्डमुण्डादयो गोत्वाद्यात्मकास्तथा सर्वेऽलङ्कारा अतिशयोक्त्यात्मान एव भवेयुरिति भावः । नन्वस्तु तादात्म्यमित्यत आहैति तद्व्यतिरिक्त इत्यादि । तद्य्वतिरिक्तः अतिशयोक्तिव्यतिरिक्तः । तत्र अतिशययोजने । अनपेक्षणायन्न स्यादिति । यथा खण्डादीनां स्वत एव गोत्वाद्याकारशालित्वं नान्यापेक्षं तथा उपमादेरतिशययोगित्वमपीति कविप्रतिभातारतम्यकृतातिशयतारतम्ययोगित्वमुपलभ्यमानं कदाचिद्वाच्यत्वेन कदाचिद्य्वङ्ग्यत्वेन । व्यङ्ग्यत्वमपि लोचनमलङ्कारमात्रं च न किञ्चिद्दृश्येत । अथ सा काव्यजीवितत्वेनेत्थं विवक्षिता, तथाप्यनौचित्येनापि निबध्यमाना तथा स्यात् । औचित्यवती जीवितमिति चेतौचित्यनिबन्धनं रसभावादि मुक्त्वा नान्यत्किञ्चिदस्तीति तदेवान्तर्यामि मुख्यं जीवितमित्यभ्युपगन्तव्यं न तु सा । एतेन यदाहुः केचितौचित्यघटितसुन्दरशब्दार्थमये काव्ये किमन्येन ध्वनिनात्मभूतेनेति ते स्ववचनमेव ध्वनिसद्भावभ्युपगमसाक्षिभूतं मन्यमानाः प्रत्युक्ताः । ततश्चोपपन्नमतिशयोक्तेर्व्यङ्ग्यत्वमिति । यदुक्तमलङ्कारान्तरस्वोकरणं तदेव त्रिधा विभजतेतस्याश्चेति । वाच्यत्वेनेति । सापि वाच्या भवति । यथा “अपरैव हि केयमत्र” इति । अत्र रूपकेऽप्यतिशयः
बालप्रिया
विरुद्ध्येतेति भावः । दूषणान्तरमाहअलङ्कारमात्रमित्यादि । किञ्चिदलङ्कारमात्रमतिशयोक्त्यनालिङ्गितमपि दृश्यते, तदप्यघटमानं स्यादित्यर्थः । द्वितीयमुत्थाप्य दूषयतिअथेति । सा अतिशयोक्तिः । काव्यजीवितत्वेनेत्थं विवक्षिता काव्यजीवितत्वप्रदर्शनाय सर्वा वक्रोक्तिस्यैषेत्युक्ता तथापीत्यङ्गीकृत्य वादसूचकम् । किमतिशयोक्तिमात्रस्य जीवितत्वं विवक्षितं, किं वा यत्किञ्चिद्विशिष्टस्य? नाद्यः पक्ष इत्याहअनौचत्येनापीति । सेत्यनुषङ्गः । यथा “अल्पं निर्मितमि"त्यादौ । तथा काव्यजीवितम् । द्वितीयमनुवदपिऔचित्यवतीति । यथा “यद्विश्रम्ये"त्यादौ । तर्हि अस्मदभिमतंसिद्धमित्याहऔचित्यनिबन्धनमित्यादि । रसादिकमेवौचित्यप्रयोजकमिति प्रागेवोक्तम् । मुख्यत्वे हेतुःन्तर्यामीति । न तु सेति । सा औचित्यवत्यतिशयोक्तिः । प्रसङ्गादाहएतेनेत्यादि । एतेन प्रत्युक्ता इति सम्बन्धः । स्ववचनमेवेति । औचित्यघटितेति वचनमेवेत्यर्थः । ध्वनिसद्भावेति । औचित्यस्य रसादिनिबन्धनत्वाद्रसादिध्वनिसद्भावस्याभ्युपगमे प्रमाणीभवेदित्यर्थः । उपसंहरतितस्मादित्यादि । अभेदोपचार एवायमिति । सर्वा वक्रोक्तिस्सैषेति निर्देशो मुखं चन्द्र इत्यादिवदभेदोपचार एवेत्यर्थः । औपचारिकत्वोपपादनफलमाहततश्चेत्यादि । तस्याश्चेत्यादिग्रन्थस्य प्रकृतेन सङ्गतिम्दर्शयन्नाहयदुक्तमित्यादि । उक्तमिति । उपचारनिमित्ततया पूर्वोक्तमित्यर्थः । अलङ्कारान्तरस्वीकरणमिति । अलङ्कारातरसङ्कीर्णत्वमित्यर्थः । तस्या इत्यस्य वाच्यत्वेनेत्यनेनापि सम्बन्ध इति व्याचष्टेसापीत्यादि । सा अतिशयोक्तिः । अत्रोदाहरणं लावण्येत्याद्युक्तमेव दर्शयतियथेत्यादि । अत्र वाच्यालङ्कारन्दर्शयन्नतिशयोक्तेर्व्यङ्ग्यत्वाभावमाहअत्रेत्यादि । नयनादीनामुत्पलत्वादिरूपणाद्रूपकस्य वाच्यत्वं तावद्व्यक्तमेव, अतिशयोक्तेस्तु कदाचित्प्राधान्येन कदाचिद्गुणभावेन । तत्राद्ये पक्षे वाच्यालङ्कारमार्गः । द्वितीये तु ध्वनावन्तर्भावः । तृतीयेतु गुणीभूतव्यङ्ग्यरूपता । अयं च प्रकारोऽन्येषामप्यलङ्काराणामस्ति, तेषां तु न सर्वविषयः । अतिशयोक्तेस्तु सर्वालङ्कारविषयोऽपि सम्भवतीत्ययं विशेषः । येषु चालङ्कारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः यथा रुपकोपमातुल्ययोगतानिदर्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते सर्वेऽपि चारुत्वातिशययोगिनः सन्तो गुणीभूतव्यङ्ग्यस्यैव
लोचनं
शब्दस्पृगेव । अस्य त्रैविध्यस्य विषयविभागमाहतत्रेति । तेषु प्रकारेषु मध्ये य आद्यः प्रकारस्तस्मिन् । नन्वतिशयोक्तिरेव चेदेवम्भूता तत्किमपेक्षया प्रथमं तावदिति क्रमः सूचित इत्याशङ्क्याहअयं चति । यो"तिशयोक्तौ निरूपितोऽलङ्कारान्तरेऽप्यनुप्रवेशात्मकः । नन्वेवमपि प्रयममिति केनाशयेनोक्तमित्याशङ्क्याहतेषामिति । एवमलङ्कारेषु तावद्व्यङ्ग्यस्पर्शोऽस्तीत्युक्त्या तत्र किं व्यङ्ग्यत्वेन भातीति । विभागं व्युत्पादयतियेषु चेति । रूपकादीनां पूर्वमेवोक्तं स्वरूपम् । निदर्शनायास्तु “क्रिययैव तदर्थस्य
बालप्रिया
व्यङ्ग्यतया स्थातुमारब्धाया अपि अपरैवेति शब्देन स्पृष्टत्वाद्वाच्यत्वमापतितमिति द्वयोर्वाच्यत्वमित्यर्थः । नव्यमते त्वपरैवेत्यत्र भेदकातिशयोक्तिः, यत्रोत्पलानीत्यादौ रूपकातिशयोक्तिः । भोजराजमते त्वत्र समासोक्तिरित्यादिमतभेदा बोध्याः । अस्येति । विषयविभागविरहे त्रैविध्यप्रदर्शनस्य मन्दफलत्वादिति भावः । आद्यः प्रकारः द्वयोरपि वाच्यतत्वात्मकः । अतियोक्तावुक्तस्य प्रकारस्यायञ्चेत्यादिनालङ्कारान्तरेष्वतिदेशः कृतः, तत्किमर्थमित्यतोऽवतारयतिनन्वित्यादि । चेदित्यसन्दिग्धे सन्देहवचनम् । अतिशयोक्तेरेवैतद्युज्येत । तस्यास्सर्वालङ्कारशरीरस्वीकरणार्हत्वस्योक्तत्वादिति भावः । निरूपित येत्यादि । क्रमो हि सत्स्वेव बहुषु क्रमिकेषु घटेत, नान्यथेति भावः । निरूपित इति । प्रकार इति शेषः । प्रथममिति केनाशयेनोक्तमिति । प्राथम्यं प्राधान्येनेति वक्तव्यं प्राधान्यं किन्निबन्धनमित्यर्थः । आह तेषामितीति । तेषामित्यादिना विशेष इत्यन्तेनाहेत्यर्थः । व्यङ्ग्यस्पर्शोऽस्तीत्युक्त्वेति । वाच्यालङ्कारवर्गोऽयमित्यादिग्रन्थेनोक्त्वेत्यर्थः । किमित । अलङ्कारान्तरं वस्त्वन्तरं वेत्यर्थः । वृत्तौ “तत्वप्रतिलम्भ” इति । अलङ्कारत्वप्राप्तिरित्यर्थः । “रूपके"त्यादि । रूपकादौ सादृश्यं व्यङ्ग्यमुपमा तु तत्स्वरूपैवेति बोध्यम् । लोचनेक्रिययेति । लक्षणमिदमुदाविशिष्टस्योपदर्शनम् । विषयाः । समासोक्त्याक्षेपपर्यायोक्तादिषु तु गम्यमानांशाविनाभावेनैव तत्त्वव्यवस्थानाद्गुणीभूतव्यङ्गता निर्विवादैव । तत्र च गुणीभूतव्यङ्ग्यतायामलङ्काराणां केषाञ्चिदलङ्कारविशेषगर्भतायां नियमः । यथा व्याजस्तुतेः प्रेयोलङ्कारगर्भत्वे । केषाञ्चिदलङ्कारमात्रगर्भतायां नियमः । यथा सन्देहादीनामुपमागर्भत्वे । केषाञ्चिदलङ्काराणां परस्परगर्भतापि सम्भवति । यथा दीपकोपमयोः । तत्र दीपकमुपमागर्भत्वेन प्रसिद्धम् । उपमापि कदाचिद्दीपकच्छायानुयायिनी । यथा मालोपमा । तथा हि “प्रभामहत्या शिखयेव दीपः” इत्यादौ स्फुटैव दीपकच्छाया लक्ष्यते । लोचनमिष्टा निदर्शने"ति । उदाहरणमयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति । उदयः पतनायेति श्रीमतो बोधयन्नरान् ॥ प्रयोलङ्कारेति । चाटुपर्यवसायित्वात्तस्याः । सा चोदाहृतैव द्वितीयोद्द्योतेऽस्माभिः । उपमागर्भत्व इत्यपमाशब्देन सर्व एव तद्विशेषा रूपकादयः, अथववौपम्यं सर्वसामान्यमिति तेन सर्वमाक्षिप्तमेव । स्फुटैवेति । “तया स पूतश्च विभूषितश्च” इत्येतेन दीपस्थानीयेन दीपनाद्दीपकमत्रानुप्रविष्टं प्रतीयमानतया, साधारणधर्माभिधानं
बालप्रिया
हरणञ्च भामहीयम् । यियासति यातुमारभते । यथात्रोपमाया व्यङ्ग्यत्वं तथा कुवलयानन्दादौ स्पष्टम् । वृत्तौ “गुणीभूतव्यङ्ग्यस्यैव विषया” इति । गम्यमानधर्मस्य वाच्यसिद्ध्यङ्ग्त्वादिति भावः । “तत्वव्यवस्थानादि"ति । समासोक्तित्वादिव्यवस्थितेरित्यर्थः । “गुणीभूतव्यङ्ग्यते"ति । वाच्यार्थोपस्कारकत्वादिति भावः । प्रेयोलङ्कारगर्भत्वे हेतुमाह लोचनेचाट्विति । सा चेति । व्याजस्तुतिश्चेत्यर्थः । केषाञ्चदलङ्कारमात्रगर्भतायामित्यत्रालङ्कारमात्रशब्देनालङ्कारसामान्याभिधानात्पुनरुपमागर्भत्व इति तद्विशेषाभिधानं व्याहतमित्यत आहौपमाशब्देनेत्यादि । तद्विशेषाः उपमाविशेषाः । “उपमैव तिरोभूतभेदा रूपकमिष्यत” इत्यादिवचनादिति भावः । रूपकादय इति । विवक्षिता इति शेषः । उपमाशब्दोऽत्रोपमालङ्कारस्य न वाचकः किन्त्वौपम्यस्येत्याहअथवेत्यादि । सर्वसामान्यमिति । उपमारूपकादिसर्वसाधारणमित्यर्थः । कथम्मालोपमायान्दीपकच्छायावगम इत्यत उपपादयतितयेत्यादि । दीपस्थानीयेन दीपनादिति । अनेन दीप इवेति दीपयतीति वा दीपकशब्दव्युत्पत्तिर्दर्शिता । स्पष्टमिदं कुवलयानन्दे । प्रतीयमानतया दीपकमत्रानु प्रविष्टमिति सम्बन्धः । प्रतीयमानतया व्यङ्ग्यतया । अत्र मालोपमास्थलेऽप्रभामहत्ये"त्यादौ । तदेवं व्यङ्ग्यांशसंस्पर्शे संति चारुत्वातिशययोगिनो रूपकादयोऽलङ्काराः सर्व एव गुणीभूतव्यङ्ग्यस्य मार्गः । गुणीभूतव्यङ्ग्यत्वं च तेषां तथाजातीयानां सर्वेषामेवोक्तानुक्तानां सामान्यम् । तल्लक्षणे सर्व एवैते
लोचनं
ह्येतदुपमायां स्पष्टेनाभिधाप्रकारेणैव । तथाजातीयानामिति । चारुत्वातिशयवतामित्यर्थः । सुलक्षिता इति यत्किलैषां तद्विनिर्मुक्तं रूपं न तत्काव्येऽभ्यर्थनीयम् । उपमा हि “यथा गौस्तथा गवयः” इति । रूपकं “खलेवाली यूप” इति । श्लेषः “द्विर्वचनेऽची"ति तन्त्रात्मकः । यथासंख्यं “तुदीशालातुरे"ति । दीपकं “गामश्वम्” इति । ससन्देहः “स्थाणुर्वा स्यात्” इति । अपह्नुतिः “नेदं रजतम्” इति । पर्यायोक्तं “पौनो दिवानात्ति” इति । तुल्ययोगिता “स्थाध्वोरिच्च” इति । अप्रस्तुतप्रशंसा सर्वाणि ज्ञापकानि यथा पदसंज्ञायामन्तवचनम् “अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्न” इति । आक्षेपश्चोभयत्र विभाषासु विकल्पात्मकविशेषाभिधित्सया इष्टस्यापि विधेः पूर्वं निषेधनात्प्रतिषेधेन
बालप्रिया
अत्र हेतुन्दर्शयन्नाहसाधारणेत्यादि । एतदुपमायामिति । मालोपमायामित्यर्थः । अभिधाप्रकारेण अभिधाव्यापारेण । एवकारेण व्यञ्जनस्य व्यवच्छेदः । अयमर्थःत्रोपमायामपेक्षितो धर्मः पूतत्वादिस्तयेत्यादिना स्पष्टमभिधीयते, न पुनर्दीपकाभिप्रायेण दीपस्थानीयोऽर्थः । प्रभामहत्या शिखया दीप इव तया । स पूतश्चेत्यादिवाक्यार्थत्रयस्य बोधो ह्यादौ जायते, तदुत्तरन्तु पूतत्वविभूषितत्वयोर्दीपाद्युपमानत्रयहिमवदुपमेयात्मकानेकानुगमोऽवगम्यत इति दीपकमत्र व्यङ्ग्यतयानुप्रविष्टमिति । मालोपमातिरिक्तोपात्तधर्मकोपमास्थले तु धर्मस्योभयत्र सम्बन्धः स्पष्टमभिधीयत इति न दीपकस्य व्यङ्ग्यतयानुप्रवेश इति मालोपमेत्युक्तम् । “तथाजातीना “मित्यत्र जातिशब्दः प्रकृते चारुत्वातिशययोगित्वरूपोपाधिवचन इत्याहचारुत्वेति । नन्वन्य एव गुणीभूतव्यङ्ग्यप्रकारः, अन्ये चोपमादयोऽलङ्कारास्तत्कथं गुणीभूतव्यङ्ग्यलक्षणे कृते तेषां लक्षितत्वसिद्धिरित्यतोऽभिप्रायमुद्भेदयन्नाहयत्किलेत्यादि । एषामिति । उपमादीनामित्यर्थः । तद्विनिर्मुक्तं गुणीभूतव्यङ्ग्यताविरहितम् । नाभ्यर्थनीयमिति । अलङ्कारतायामनुपयोगित्वादिति भावः । उक्तोपपादनायाहौपमा हीत्यादि । द्विर्वचनेऽचीति । सूत्रेऽस्मिन् द्विर्वचनशब्दोऽर्थद्वयपरः । तुदीति । “तुदीशाले"त्यादिसूत्रे हि यथासङ्ख्येन सम्बन्धः । गामश्वमित्यत्रैकक्रियया स बोध्यः । स्थाध्वोरिति । अनेन सूत्रेण द्वयोरेकं विधीयते । सर्वाणि ज्ञापकानीति । तत्तत्परिभाषादयस्सूत्रस्थतत्तत्पदेन गम्यन्य इति भावः । नेतीत । ज्ञापयतीति शेषः । उभयत्र सुलक्षिता भवन्ति । एकैकस्य स्वरूपविशेषकथनेन तु सामान्यलक्षणरहितेन प्रतिपादपाठेनेव शब्दा न शक्यन्ते तत्त्वतो निर्ज्ञातुम्, आनन्त्यात् । अनन्ता हि वाग्विकल्पास्तत्प्रकारा एव चालङ्काराः ।
लोचनं
समीकृत इति न्यायात् । अतिशयोक्तिः “समुद्रः कुण्डिका” विन्ध्यो वर्धितवानर्कवर्त्मागृह्णात्” इति । एवमन्यत् । न चैवमादि काव्योपगीति, गुणीभूतव्यङ्ग्यतैवात्रालङ्कारतायां मर्मभूता लक्षिताः तान् सुष्टु लक्षयति । यया सुपूर्ण कृत्वा लक्षिताः सङ्गृहीता भवन्ति, अन्यथा त्ववश्यमव्याप्तिर्भवेत् । तदाहएकैकस्येति । न चातिशयोक्तिवक्रोक्त्युपमादीनां सामान्यरूपत्वं चारुताहीनानामुपपद्यते, चारुता चैतदायत्तेत्येतदेव गुणीभूतव्यङ्ग्यत्वं सामान्यलक्षणम् । व्यङ्ग्यस्य च चारुत्वं रसाभिव्यक्तियोग्यतात्मकम्, रसस्य स्वात्मनैव विश्रान्तिधाम्न आनन्दात्मकत्वमिति नानवस्था काचिदिति तात्पर्यम् । अनन्ता हीति । प्रथमोद्द्योत एव व्याख्यातमेतत् “वाग्विकल्पानामानन्त्यात्” इत्यत्रान्तरे । ननु सर्वेष्वलङ्कारेषु नालङ्कारान्तरं व्यङ्ग्यं चकास्ति - तत्कथं गुणीभूतव्यङ्ग्येन बालप्रिय विभाषास्वित्यादि । स्पष्टमिदं वैयाकरणानाम् । समुदः कुण्डिकेति । जलबाहुल्यप्रदर्शनाय कुण्डिकां विषयीकृत्य समुद्र इति निर्देशाद्भेदे अभेदरूपातिशयोक्तिरिति भावः । विन्ध्य इत्यादावसम्बन्धे सम्बन्धरूपा सा । उपसंहरन्नाहएवमन्यदित्यादि । एवमादीति । उक्तोदाहरणादिकमित्यर्थः । इतीति हेतौ । तल्लक्षणे सर्व एवैते सुलक्षिता भवन्तीत्येतस्य विवरणम्गुणीभूतेत्यादि । यथेति । गुणीभूतव्यङ्ग्यतयेत्यर्थः । अन्यथेति । उक्तेन सामान्यलक्षणेन विना तत्तद्विशेषलक्षणस्यैव कथन इत्यर्थः । क्वचद्ग्रन्थे तूपमा हीत्यादिकस्सङ्गृहीता भवन्तीत्यन्तो ग्रन्थो न दृश्यते । ननु गुणीभूतव्यङ्ग्यत्वेमेव सर्वेषामलङ्काराणां सामान्यलक्षणं तल्लक्षणेन तेषां सुलक्षितत्वं भवतीत्युक्तमयुक्तमतिशयोक्तयादीनामलङ्कारसामान्यरूपत्वात्तल्लक्षणेनैव च चरितार्थत्वादित्यत आहन चेत्यादि । चारुताहीनानामतिशयोक्त्यादीनां सामान्यरूपत्वन्न चोपपद्यत इति सम्बन्धः । ततः किमत आहचारुतेत्यादि । एतदायत्तेति । गुणीभूतव्यङ्ग्यात्वाधीनेत्यर्थः । नन्वलङ्कारचारुत्वप्रयोजकं गुणीभूतव्यङ्ग्यस्य चारुत्वं वक्तव्यन्तदप्यन्येन प्रयुक्तन्तदप्यन्येनेत्यनवस्थाप्रसङ्ग इत्यत आहव्यङ्ग्यस्येत्यादि । यदुक्तन्तल्लक्षणे सर्व एते सुलक्षिता इति तदाक्षिप्य तत्समाधानपरतयोत्तरग्रन्थमवतारयतिनन्वित्यादि । सर्वेष्विति । दीपकादौ क्वचिदेव चकास्त्याक्षेपादौ तु गुणीभूतव्यङ्ग्यस्य च प्रकारान्तरेणापि व्यङ्ग्यार्थानुगमलक्षणेन विषयत्वमस्त्येव । तदयं ध्वनिनिष्यन्दरूपो द्वितीयोऽपि महाकविविषयोऽतिरमणीयो लक्षणीयः सहृदयैः । सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स
लोचनं
लक्षितेन सर्वेषां संग्रहः । मैवम् - वस्तुमात्रं वा रसो वा व्यङ्ग्यं सद्गुणीभूतं भविष्यति तदेवाहगुणीभूतव्यङ्ग्यस्य चेति । प्रकारान्तरेण वस्तुरसात्मनोपलक्षितस्य । यदि वेत्थमवतरणिकाननु गुणीभूतव्यङ्ग्येनालङ्कारा यदि लक्षितास्तर्हि लक्षणं वक्तव्यं किमिति नोक्तमित्याशङ्क्याहगुणीभूतेति । विषयत्वमिति लक्षणीयत्वमिति यावत् । केन लक्षणीयत्वं ध्वनिव्यतिरिक्तो यः प्रकारो व्यङ्ग्यत्वेनार्थानुगमो नाम तदेव लक्षणं तेनेत्यर्थः । व्यङ्ग्ये लक्षिते तद्गुणीभावे च निरूपिते किमन्यदस्य लक्षक्रियतामिति तात्पर्यम् । एवं “काव्यस्यात्मा ध्वनिः” इति निर्वाह्योपसंहरतितदयमित्यादिना सौभाग्यमित्यन्तेन ।
बालप्रिया
नेति भावः । तत्कथमित्यादि । अव्यापकत्वादलक्षणमिति भावः । गुणीभूतव्यङ्ग्यत्वमित्यत्र व्यङ्ग्यपदेनालङ्कारमात्रन्न विवक्षिम् - किन्तु वस्तुरसादिकञ्चातो नाव्यापकमिदमित्याहमैवमित्यादि । वस्तुमात्रं वेति । यत्र गुणीभूतव्यङ्ग्यस्थलेऽलङ्कारो न चकास्ति तत्रेति भावः । व्यङ्ग्यार्थानुगमलक्षणेनेत्येतदर्थतो विवृतं व्यङ्ग्यं सद्गुणीभूतं भविष्यतीत्यनेन । व्यङ्ग्यत्वेनार्थानुगमो वाच्यं प्रति गुणभावः, स लक्षणमसाधारणधर्मः स्वरूपं वा यस्य प्रकारान्तरस्य तेनेति तदर्थः । प्रकारान्तरेणेत्युपलक्षणे तृतोयेत्याहौपलक्षितस्येति । गुणीभूतव्यङ्ग्यस्येत्यस्य विशेषणं, तथा च वस्तुरसालङ्कारान्यतमस्य गुणीभूतस्य व्यङ्ग्यस्येत्यर्थः । विषयत्वमस्त्येवेत्यनेन सम्बन्धः । अलङ्कारेष्विति विपरिणामेनानुषङ्गः । उक्तग्रन्थयो जनायाः क्लेशसम्पाद्यत्वम्मन्वानः प्रकारान्तरेणाहयदि वेत्यादि । लक्षिता इति । भवेयुरिति शेषः । तस्य गुणीभूतव्यङ्ग्यस्य । लक्षणेनेत्युक्तेर्विषयत्वमित्यस्य लक्षणीयत्वमित्यर्थस्मिद्ध्यतीत्याहलक्षणीयत्वमितीति । केन लक्षणीयत्वमिति प्रकारान्तरेणेत्यस्यावतारिका । ध्वनिव्यतिरिक्त इति । पूर्वमलङ्कारापेक्षया प्रकारान्तरत्वमिदानीन्तु ध्वन्यपेक्षयेति विशेषः । अर्थानुगमः वाच्यं प्रति गुणीभावेनावस्थानम् । लक्षणमसाधारणधर्मः । नन्वेतल्लक्षणन्न प्रागुक्तमतः कथं सिद्धवदभिधानमित्यत आहव्यङ्ग्य इत्यादि । व्यङ्ग्यलक्षणन्तावदुक्तमेव प्रथमोद्योते । यत्र व्यङ्ग्यान्वय इत्यादिना गुणीभावश्च निरूपित इति भावः । तदयमित्याद्युपसंहारस्योपसंहार्यार्थविशेषर्शनेन तात्पर्यमाह । निर्वाह्य निर्व्यूढं कृत्वा । प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यम् । तदिदं काव्यरहस्यं परमिति सूरिभिर्भावनीयम् ।
मुख्या महाकविगिरामलङ्कृतिभृतामपि । प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ कारिका३.३७ ॥
मुख्या महाकविगिरामलङ्कृतिभृतामपि । प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ ३७ ॥ अनया सुप्रसिद्धोऽप्यर्थः किमपि कामनीयकमानीयते ।
लोचनं
यत्प्रागुक्तं सकलसत्कविकाव्योपनिषद्भूतमिति तन्न प्रतारणमात्रमर्थवादरूपं मन्तव्यमिति दर्शयितुम्तदिदमिति ॥ ३.६ ॥
मुख्या भूषेति । अलङ्कृतिभृतामपिशब्दालङ्कारशून्यानामपीत्यर्थः । प्रतीयमानकृता छाया शोभा, स च लज्जासदृशी गोपनासारसौन्दर्यप्राणत्वात् । अङ्कारधारिणीनामपि नायिकानां लज्जा मुख्यं भूषणम् । प्रतीयमाना च्छाया अन्तर्मदनोद्भेदजहृदयसौन्दर्यरूपा यया, लज्जा ह्यन्तरुद्भिन्नमान्मथविकारजुगोपयिषारूपा मदनविजृम्भैव । वीतरागाणां यतीनां कौपीनापसारणेऽपि त्रपाकलङ्कादर्शनात् । तथा हि कस्यापि
बालप्रिया
तदिदमित्यादेरुपसंहार्यानन्तर्भावात्तद्ग्रन्थमवतारयतियदित्यादि । प्रतारणमात्रं चेतोविलोभनमात्रम् । अर्थवादरूपं स्तुतिरूपम् ॥ ३.६ ॥
कारिकायां मुख्येत्यस्य भूषेत्यनेन सम्बन्ध इति दर्शयतिमुख्या भूषेति । अलङ्कृतिभृतामिति । अलङ्कृतिपदेन काव्यालङ्काराः कटकादयश्च ग्राह्याः । प्रतीयमानच्छायेत्यस्य विवरणम्प्रतीयमानकृतेत्यादि । प्रतीयमानं वस्त्वलङ्काररसाद्यात्मकम् । लज्जेवेत्यस्य व्याख्यानमलज्जासदृशीति । लज्जासादृश्ये हेतुमाहगोपनेति । गोपनैव सारो यस्य तत्तथाविधं सौन्दर्यमेव प्राणा यस्यास्तस्या भावस्तत्ता, तस्मादित्यर्थः । प्रतीयमानस्य गोपनासारसौन्दर्यप्राणत्वमुक्तं कामिनीकुचकलशनिदर्शनदिशा । लज्जायास्त्वनुपदं वक्ष्यति । अलङ्कृतिभृतामपीत्यस्य मुख्याभूषेत्यस्य चोपमानयोजनान्दर्शयतिअलङ्कारेत्यादि । प्रतीयमानच्छायेत्येतदप्युपमाने योजयतिप्रतीयमानेत्यादि । पक्षेऽत्र छायापदार्थो न कान्तिः, किन्तु योषितां यौवनारम्भसम्भाविनी कापि हृदयस्य दशेत्याहअन्तरित्यादि । अन्तर्मदनोद्भेदजं तद्घृदयसौन्दर्यन्तदेव रूपं यस्यास्सा मदनोद्भेदरूपमनोविकारात्मिकेति यावत् । यया प्रतीयमानेति सम्बन्धः । उक्तमुपपादयतिलज्जेत्यादि । उक्तार्थे व्यतिरेकेण तदसम्भवं हेतुमाहवीतेत्यादि । कुरङ्गीत्यादिश्लोकः काव्यप्रकाशे उदाहृतः । अत्र हि मन्मथविकारजुगोपयिषा स्पष्टं गम्यते । प्रकारान्तरेणापि तद्यथा विस्रम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः केऽपि लीलाविशेषाः । अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते सन्ततं भावनीयाः ॥
लोचनं
कवेः “कुरङ्गीवाङ्गानि” इत्यादिश्लोकः । तथा प्रतीयमानस्य प्रियतमाभिलाषानुनायनमानप्रभृतेः चाया कान्तिः यया । शृङ्गाररसतरङ्गिणी हि लज्जावरुद्धा निर्भरतया तास्तान् विलासान्नेत्रगात्रविकारपरम्परारूपान् प्रसूत इति गोपनासारसौन्दर्यलज्जाविजृम्भितमेतदिति भावः । विश्रम्भेति । मन्मथाचार्येण त्रिभुवनवन्द्यमानशासनेन अत एव लज्जासाध्वसध्वंसिना दत्ता येयमलङ्घनीयाज्ञा तदनुष्ठानेऽवश्यकर्तव्ये सति साध्वसलज्जात्यागेन विस्रम्भसम्भोगकालोपनाताः, मुग्धाक्ष्या इति अकृतकसम्भोगपरिभावनोचितदृष्टिप्रसरपवित्रिता येऽन्ये विलासा गात्रनेत्रविकाराः, अत एवाक्षुण्णाः नवनवरूपतया प्रतिक्षणमुन्मिषन्तस्ते, केवलेनान्यात्राव्यग्रेणैकान्तावस्थानपूर्वं सर्वेन्द्रियोपसंहारेण भावयितुं
बालप्रिया
तत्पदं व्याचष्टेप्रतीयमानस्येत्यादि । यया हेतुना कान्तिरिति सम्बन्धः । कथं लज्जायास्तद्धेतुत्वमित्यत आहशृङ्गारेत्यादि । इत्येतदिति सम्बन्धः । नेत्रादिविकारजातं प्रतीयमानच्छायारूपमिति भावः । श्लोकं व्याचष्टेमन्मथाचार्यणेत्यादि । राजा ज्ञातोऽप्यनतिलङ्घनीया ह्याचार्याज्ञा “गुरौ रुष्टे न कश्चने"त्यादिवचनादत आचार्यत्वरूपणम् । त्रिभुवनेति । यथोक्तं मालतीमाधवेऽअन्त्येषु जन्तुष्वि"त्यादि । अत एव त्रिभुवनवन्दनीयशासनत्वादेव । दत्तेत्यवश्यग्राह्यत्वादिसूचनार्थम् । आज्ञेति । सर्वा युवत्यस्त्यक्तलज्जा साध्वसास्सम्भोगपरा भवेयुरित्याज्ञेत्यर्थः । त्यागेन कर्तव्य इति सम्बन्धः । अकृतकेति । अकृतकाः अकृत्रिमाः तथा सम्भोगस्य या परिभावना आस्वादः, तत्र तदवसर इति यावत् । उचिताश्च ये दृष्टिप्रसरास्तैः पवित्रिता इत्यर्थः । सम्भोगपरिभोगेति च पाठः । लीलाविशेषा इत्यत्रत्यविशेषपदार्थकथनम् । अन्ये इति । असाधारणा इत्यर्थः । अत एव अन्यत्वादेव । एकान्तावस्थानफलमुक्तम्सर्वेन्द्रियोपसंहारेणेति । कृत्यप्रत्ययार्थं द्वेधाहशक्या अर्हा इति । इत्यत्र केऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्वक्लिष्टमनन्तमर्पयता का छाया नोपपादिता ।
अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते । सा व्यङ्ग्यस्य गुणीभावे प्रकारमिममाश्रिता ॥ कारिका३.३८ ॥
अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते । सा व्यङ्ग्यस्य गुणीभावे प्रकारमिममाश्रिता ॥ ३.८ ॥
या चैषा काक्वा क्वचिदर्थान्तरप्रतीतिर्दृश्यते सा व्यङ्ग्यस्यार्थस्य गुणीभावे सति गुणीभूतव्यङ्ग्यलक्षणं काव्यप्रभेदमाश्रयते । यथा “स्वस्था
लोचनं
शक्या अर्हा उचिताः । यतः केऽपि नान्येनोपायेन शक्यनिरूपणाः ॥ ३७ ॥
गुणीभूतव्यङ्ग्यस्योदाहरणान्तरमाहअर्थान्तरेति । “कक लौल्ये” इत्यस्य धातोः काकुशब्दः । तत्र हि साकाङ्क्षनिराकाङ्क्षादिक्रमेण पठ्यमानोऽसौ शब्दः प्रकृतार्थातिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते । यदि वारिषदर्थे कुशब्दस्तस्य
बालप्रिया
अर्हा इत्यस्यैव विवरणमुचिता इति । वृत्तौ “वाच्यमस्पष्टमभिदधते"ति । किंशब्दस्यानिर्ज्ञतविशेषधर्मावच्छिन्नवाचकत्वादिति भावः । प्रतीयमानं वस्त्विति । तच्च वचनाशक्यत्वानुभवैकवेद्यत्वपरमाह्लादकारित्वादिकं बोध्यम् । का छायेत्यादि । उक्तं व्यङ्ग्यं वाच्यार्थोपस्कारकं सत्काव्यस्य चारुत्वं सम्पादयतीत्यर्थः ॥ ३.७ ॥
कारिकां वृत्तिञ्च विवरिष्यन्नादौ काकुशब्दनिष्पत्तिमाहकवेत्यादि । अस्य धातोः एतद्धातुसम्बन्धी । ननु लौल्यमिच्छा तत्कथमत्र घटत इत्यत आहतत्र हीत्यादि । तत्र काकुविषये । साकाङ्क्षेति । यथोक्तं काव्यानुशासने"सा च काकुर्द्विधा साकाङ्क्षा निराकाङ्क्षा च, वाक्यस्य साकाङ्क्षनिराकाङ्क्षत्वात् । यस्माद्वाक्याद्यादृशस्सङ्केतबलेनार्थः प्रीयते, न तादृश एव, किन्तु न्यूनाभ्यधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं साकाङ्क्षं तद्विपरीतं निराकाङ्क्षम्. वक्तृगात ह्याकाङ्क्षा वाक्ये उपचर्यते । सा च प्रकरणबलान्निश्चीयते । विशिष्टवषयत्वञ्च तस्यास्तत एवावसीयते । विषयोऽपि त्रिविधः अर्थान्तरं तदर्शगत एव विशेषस्तदर्थाभावो वे"त्यादि । निराकाङ्क्षादीत्यादिशब्देन दीप्ताद्यलङ्कारादिपरिग्रहः । क्रमः प्रकारः । असौ शब्द इति । ध्वनिविशेषात्मिका हि काकुश्शब्दधर्म इत्यतश्शब्द इत्युक्तम् । प्रकृतेति । प्रकृतो योऽर्थस्सङ्केतबलेनावगम्यमानस्तस्मादतिरिक्तमर्थमित्यर्थः । वाञ्छतीति । बोध्यत्वेनेच्छतीत्यर्थः । अभिधीयत इति । उपचारादिति शेषः । प्रकारान्तरेणाहयदि वेत्यादि । हृदयेति । हृदयस्थं यद्वस्तु विधिनिषेधादिरूपं तस्य प्रतीतेरित्यर्थः । भवन्ति मयि जीवति धार्तराष्ट्राः” ।
लोचनं
कादेशः । तेन हृदयस्थवस्तुप्रतीतेरीषद्भूमिः काकुः तया यार् “थान्तरगतिः स काव्यविशेष इमं गुणीभूतव्यङ्ग्यप्रकारमाश्रितः. अत्र हेतुर्व्येङ्ग्यस्य तत्र गुणीभाव एव भवति । अर्थान्तेरगतिशब्देनात्र काव्यमेवोच्यते । न तु प्रतीतेरत्र गुणीभूतव्यङ्ग्यत्वं वक्तव्यं, प्रतीतिद्वारेण वा काव्यस्य निरूपितम् । अन्ये त्वाहुःव्यङ्ग्यस्य गुणीभावेऽयं प्रकारः अन्यथा तु तत्रापि ध्वनित्वमेवेति । तच्चासत् - काकुप्रयोगे सर्वत्र शब्दस्पृष्टत्वेन व्यङ्ग्यस्योन्मीलितस्यापि गुणीभावात्काकुर्हि शब्दस्यैवल कश्चिद्धर्मस्तेन स्पृष्टं “गौप्यैवं गदितः सलेशं” इति, “हसन्नेत्रार्पिताकूतम्” इतिवच्छब्देनैवानुगृहीतम् । अत एव “भम धम्मिअ” इत्यादौ काकुयोजने गुणीभूतव्यङ्ग्यतैव व्यक्तोक्तत्वेन तदाभिमानाल्लोकस्य । स्वस्था इति । भवन्ति इति, मयि जीवति इति, घार्तराष्ट्रा इति च साकाङ्क्षदीप्तगद्गदतारप्रशमनोद्दीपनचित्रिता
बालप्रिया
कश्चिदुपाय इत्यर्थः । भूमिरिति कुशब्दार्थकथनम् । कारिकां व्याचष्टेतयेत्यादि । तया काक्वा । अर्थान्तरगतिरित्यनेनार्थान्तरावगमकः काव्यविशेषो विवक्षित इति वक्ष्यति तदाशयेन सेत्येतद्व्याचष्टेस काव्यविशेष इति । गुणीभाव इति सप्तमी निमित्ते गुणीभावद्धेतोरित्यर्थ इत्याहतत्रेत्यादि । न त्वित्यादि । अर्थान्तरगातिरित्यस्य अर्थान्तरस्य प्रतीतिरिति यथाश्रुतार्थकत्वे अर्थान्तरप्रतीतेरेव गुणीभूतव्यङ्ग्यत्वं वक्तव्यं भवति, तच्चानभिमतमिति भावः । यथाश्रुतमुक्तमर्थमेव योजयन्नाहप्रतीतीत्यादि । अर्थान्तरप्रतीतेर्गुणीभावप्रदर्शनव्याजेन तद्धेतुभूतकाव्यस्य गुणीभूतव्यङ्ग्यत्वं प्रदर्शितमित्यर्थः । अन्ये तु काकुस्थले यत्र तद्व्यङ्ग्यस्य प्राधान्यन्तत्र ध्वनित्वं, यत्र गुणीभावस्तत्र गुणीभूतव्यङ्ग्यत्वं तदेतद्व्यङ्ग्यस्य गुणीभाव इत्यनेन दर्शितमिति व्याचक्षते - तन्मतमुपन्यस्य दूषयतिअन्य इत्यादि । शब्दस्पृष्टत्वमुपपादयतिकाकुर्हीत्यादि । धर्म इति । यथोक्तमभिप्रायवान् पाठ्यधर्मः काकुरिति । “काकुः स्त्रियां विकारो यश्शोकभीत्यादिभिर्ध्वनेऽरित्यमरश्च । तेन स्पृष्टमिति । काकुरूपेण शब्दधर्मेण विषयीकृतमित्षथः । शब्देनैवानुगृहीतमित्यनेनास्य सम्बन्धः धर्मधर्मिणोरभेदादति भावः । शब्दावेदितत्वरूपशब्दानुगृहीतत्वे दृष्टान्तमाहगोप्येत्यादि । अत एवेति । काकुव्यङ्ग्यस्य गुणीभावादेवेत्यर्थः । काक्वित्यादि । भ्रमणनिषेधस्य काक्वा व्यङ्ग्यत्वे गुणीभूतव्यङ्ग्यत्वमेवेत्यर्थः । अत्र हेतुमाहव्यक्तेत्यादि । तदा काकुयोजने । काकुमुदाहरणे दर्शयतिस्वस्था इत्यादि । इति चेति । चतुर्षु स्थलेषु चेत्यर्थः । साकाङ्क्षेत्यादि । साकाङ्क्षा दीप्ता गद्गदेन ताराप्रशमनोद्दीपनाभ्यां चित्रिता विशेषवती चेत्यर्थः । यथा वा आम असैओ ओरम पैवे ण तुएं मलिणिअं सीलम् । किं उण जणस्स जाअ व्व चान्दिलं तं ण कामेमो ॥ शब्दशक्तिरेव हि स्वाभिधेयसामर्थ्याक्षिप्तकाकुसहाया सत्यर्थविशेषप्रतिपत्तिहेतुर्न काकुमात्रम्. विषयान्तरे स्वेच्छाकृतात्काकुमात्रात्तथाविधार्थप्रतिपत्त्यसम्भवात् । स चार्थः काकुविशेषसहायशब्दव्यापारोपारूढोऽप्यर्थसामर्थ्यलभ्य इति व्यङ्ग्यरूप एव । वाचकत्वानुगमेनैव तु यदा
लोचनं
काकुरसम्भाव्योऽयमर्थो"त्यर्थमनुचितश्चेत्यमुं व्यङ्ग्यमर्थं स्पृशन्ती तेनैवोपकृता सतीक्रोधानुभावरूपतां व्यङ्ग्योपस्कृतस्य वाच्यस्यैवाधत्ते । आमेति । आम असत्यः उपरम पतिव्रते न त्या मलिनितं शीलम् । किं पुनर्जनस्य जायेव नापितं तं न कामयामहे ॥ इति च्छाया । आम असत्यो भवामः इत्यभ्युपगमकाकुः साकाङ्क्षोपहासा । उपरमेति निराकाङ्क्षतया सूचनगर्भा । पतिव्रते इति दीप्तस्मितयोगिनी । न त्वया मलिनितं शीलमिति सगद्गदाकाङ्क्षा । किं पुनर्जनस्य जायेव मन्मथान्धीकृता, चन्दिलं नापितमिति पामरप्रकृतिं न कामयामहे इति निराकाङ्क्षगद्गदोपहासगर्भा । एषा हि कयाचिन्नापि तानुरक्तया कुलवध्वा दृष्टाविनयाया उपहास्यमानायाः प्रत्युपहासावेशगर्भोक्तिः काकुप्रधानैवेति । गुणीभावं दर्शयितुं शब्दस्पृष्टतां तावत्साधयतिशब्दशक्तिरेवेत्यादिना ।
बालप्रिया
दीप्ततारावलङ्कारान्तर्गतौ प्रशमनोद्दीपने त्वङ्गान्तर्गते इति विवेकः । अयमर्थ इति । मयि जीवति धार्तराष्ट्राः स्वस्था भवन्तीति वाच्यार्थ इत्यर्थः । स्पृशन्तीति । विषयीकुर्वाणा सतीत्यर्थः । तेनैव उक्तेन व्यङ्ग्येनैव । उपकृता सतीति हेतुकथनम् । व्यङ्ग्येति । असम्भाव्यत्वादिरूपोक्तव्यङ्ग्येनोपस्कृतस्येत्यर्थः । आधत्त सम्पादयति । तथाच व्यङ्ग्यं गुणीभूतमिति भावः । आमेति । वयमसत्यः स्वैरिण्यो भवामः । आमेत्यभ्युपगमे । उपरम त्वं मदुपहासाद्विरम । शीलं सद्वृत्तम् । किं पुनः किन्तु । जनस्य जायेवेति । त्वमिवेत्यर्थः । त्वं यथा कामयसे तथेति यावत् । लोचनेसाकाङ्क्षेति । साकाङ्क्षा उपहासव्यञ्जिका चेत्यर्थः । पतिव्रत इति न मलिनितमित्यत्र च काक्वा तत्तदभावो व्यङ्ग्य इत्यभिप्रायेणाहपतिव्रत इत्यादि । चन्दिलमित्यस्य छायानापितमिति । तेन गम्यमाहपामरेति । गुणीभावमिति । व्यङ्ग्यस्येति शेषः । अनुगम इत्यस्य तद्विशिष्टवाच्यप्रतीतिस्तदा गुणीभूतव्यङ्ग्यतया तथाविधार्थद्योतिनः काव्यस्य व्यपदेशः । व्यङ्ग्यविशिष्टवाच्याभिधायिनो हि गुणीभूत्वयङ्ग्यत्वम् ।
प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते । विधातव्या सहृदयैर्न तत्र ध्वनियोजना ॥ कारिका३.३८ ॥
प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते । विधातव्या सहृदयैर्न तत्र ध्वनियोजना ॥ ३८ ॥
सङ्कीर्णो हि कश्चिद्ध्वनेर्गुणीभूतव्यङ्ग्यस्य च लक्ष्ये दृश्यते मार्गः ।
लोचनं
नन्वेवं व्यङ्ग्यत्वं कथमित्याशङ्क्याहस चेति । अधुना गुणीभावं दर्शयतिवाचकत्वेति । वाचकत्वेऽनुगमो गुणत्वं व्यङ्ग्यव्यञ्जकभावस्य व्यङ्ग्यविशिष्टवाच्यप्रतीत्या तत्रैव काव्यस्य प्रकाशकत्वं कल्प्यते - तेन न तथा व्यपदेश इति काकुयोजनायां सर्वत्र गुणीभूतव्यङ्ग्यतैव । अत एव “मथ्नामि कौरवशतं समरे न कोपात्” इत्यादौ विपरीतलक्षणं य आहुस्ते न सम्यक्यराममृशुः । यतोऽत्रोच्चारणकाल एव “न कोपात्” इति दीप्ततारगद्गदसाकाङ्क्षकाकुबलान्निषेधस्य निषिध्यमानतयैव युधिष्ठिराभिमतसन्धिमार्गाक्षमारूपत्वाभिप्रायेण प्रतिपत्तिरिति मुख्यार्थबाधाद्यनुसरणविध्नाभावात्को लक्षणाया अवकाशः । “दर्शे यजेत” इत्यत्र तु तथाविधकाक्वाद्युपायान्तराभावद्भवतु विपरीतलक्षणा इत्यलमवान्तरेण बहुना ॥ ३.८ ॥
अधुना संकीर्ण विषयं विभजतेप्रभेदस्येति । युक्त्येति । चारुत्वप्रतीतिरेवात्र युक्तिः ।
बालप्रिया
विवरणम्गुणत्वमिति । कस्येत्यतः पूरयतिव्यङ्ग्येत्यादि । “तद्विशिष्टे"त्यादिवृत्तिग्रन्थविवरणम्व्यङ्ग्यविशिष्टेत्यादि । तत्रैव व्यङ्ग्यविशिष्टवाच्य एव । प्रकाशकत्वं बोधकत्वम् । वृत्तौ “यदा तदे"त्यनयोर्यतस्तत इत्यर्थौ बोध्यौ । मथ्नामीत्यादि । प्रतिज्ञातकौरवशतवधस्य क्रुद्धस्य भीमसेनस्य वचनमिदमत एव न मथ्नामीत्यादौ विपरीतलक्षणेति केचित्तदाहविपरीतेत्यादि । इति निषेधस्य निषिद्ध्यमानतयैव प्रतिपत्तिरिति सम्बन्धः । काकुकल्पनायां हेतुःयुधिष्टिरेत्यादि । युधिष्ठिराभिमतो यस्सन्धिमार्गस्तस्य यदक्षमारूपत्वमक्षम्यत्वं तदभिप्रायो भीमगतस्तेनेत्यर्थः । इतीत्यादि । अयं भावःन मथ्नामीत्यादिरूपस्य मथनादिनिषेधस्यादौ प्रतीतिः पश्चात्तु मथ्नाम्येवेत्यादिरूपस्य तन्निषेधनिषेधस्य प्रतीतिरितिन, किन्तूच्चारणकाल एव काकुबलान्मथनादिनिषेधस्य निषेषप्रतियोगित्वेनैव न मथ्नामि नेत्याकारिका प्रतीतिरतो मथनादिनिषेधस्य वाच्यस्य निषेधो व्यङ्ग्य एवेति । प्रसङ्गान्मोमांसकं प्रत्याहदर्श इत्यादि । न दृश्यते चन्द्रोऽत्रेति व्युत्पत्त्या दर्शशब्दोऽमावास्यायां प्रयुज्यते । तथाचात्र दृशधातोर्दर्शनाभावे विपरीतलक्षणेति भावः । स्पष्टमिदं श्रौतसूत्रव्याख्याने ॥ ३.८ ॥
सङ्कीर्णं विषयमिति । प्रमुख एवान्यतरावधारणनियमासम्भवो यत्र युक्तिपरामर्शं तत्र यस्य युक्तिसहायता तत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिरागिणा भवितव्यम् । यथा पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माख्येन तां निर्वचनं जघान ॥
लोचनं
पत्युरिति । अनेनेति । अलक्तकोपरक्तस्य हि चन्द्रमसः परभागलाभोऽनवरतपादपतनप्रसादनैर्विना न पत्युर्झटिति यथेष्टानुवर्तिन्या भाव्यमिति चोपदेशः । शिरोधृता या चन्द्रकला तामपि परिभवेति सपत्नीलोकापजय उक्तः । निर्वचनमिति । अनेन लज्जावहित्थहर्षेर्ष्यासाध्वससौभाग्याभिमानप्रभृति यद्यपि ध्वन्यते, तथापि तन्निर्वचनशब्दार्थस्य कुमारीजनोचितस्याप्रतितत्तिलक्षणस्यार्थस्योपस्कारकतां केवलमाचरति । उपस्कृतस्त्वर्थः शृङ्गाराङ्गतामेतीति ।
बालप्रिया
विना तं विषयमित्यर्थः । न्यायवित्सम्मतस्य युक्तिपदार्थस्यात्रासम्भवात्तत्पदं व्याचष्टेचारुत्वेत्यादि । अत्र काव्यार्थतत्वचिन्ताविषये । यदि व्यङ्ग्योपस्कृताद्वाच्यादेव स चेतश्चमत्कारलाभः, तदा गुणीभूतव्यङ्ग्यत्वं, यदा तु व्यङ्ग्यादेव न्यक्कृतवाच्यात्तदा ध्वनित्वमिति चारुत्वप्रतीतिरूपकार्यबलादेव तदन्यतरावधारणसिद्धिरित्यर्थः । स्पृशेत्यन्तेन व्यज्यमानमर्थद्वयं दर्शयतिअलक्तकेत्यादि । परभागलाभ इति । चन्द्रमसो"तिधवलतावदलक्तकस्य रक्तत्वाच्चेति भावः । अलक्तकोपरञ्जितत्वरूपविशेषणांशव्यङ्ग्यमुक्त्वा चरणेन शिरस्पर्शनविधिना व्यङ्ग्यमाहअनवरतेत्यादि । भ्क्तटितीति । नैसर्गिकनिरतिशयरागपारतन्त्र्यबलात्कारादित्यर्थः । शिरोधिकरणकत्वविशेषणोपकृतेन स्त्रीलिङ्गनिर्देशेन व्यङ्ग्यमाहशीरोधृतेत्यादि । उक्त इति । व्यञ्जित इत्यर्थः । “निर्वचनम्” इत्यदिवृत्तिग्रन्थेन दर्शतं व्यङ्ग्यं तस्य गुणीभावं च प्रदर्शयतिअनेनेत्यादि । अनेन निर्वचनं जधानेत्यनेन । तदिति । लज्जादिव्यङ्ग्यजातमित्यर्थः । कुमारीजनोचितस्येति । अनेन वाच्यार्थस्य चमत्कारकारित्वयोग्यता दर्शिता । उपस्कृतस्त्वर्थ इति । उक्तव्यङ्ग्योपस्कृतोऽनिर्वचनं जघाने"ति वाच्यार्थं इत्यर्थः । शृङ्गारेति । विप्रलम्भशृङ्गारेत्यर्थः । उच्चैःशब्दस्योर्ध्वदेशस्थितार्थकत्वं कुमुमविशेषणत्वं चाभिप्रेत्य व्याचष्टेउच्चैर्यानीत्यादि । यथा च प्रायच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता । न किञ्चिदूचे चरणेन केवलं लिलेश बाष्पाकुललोचना भुवम् ॥ इत्यत्र “निर्वचनं जघान " “न किञ्जिदूचे” इति प्रतिषेधमुखेन व्यङ्ग्यस्यार्थस्योक्त्या किञ्चिद्विषयीकृतत्वाद्गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्ग्योऽर्थस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् । यथा “एवं वादिनि देवर्षौ” इत्यादौ । इह पुनरुक्तिर्भङ्ग्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान्नात्रानुरणनरूपव्यङ्ग्यध्वनिव्यपदेशो विधेयः ।
लोचनं
प्रायच्छतेति । उच्चैरिति । उच्चैर्यानि कुसुमानि कान्तया स्वयं ग्रहीतुमशक्यत्वाद्य्वाचितानीत्यर्थः । अस्मदुपाध्यायास्तु हृद्यतमानि पुष्पाणि अमुके, गृहाणगृहाणेत्युच्चैस्तारस्वरेणादरातिशयार्थं प्रयच्छता । अत एव लम्भितेति । न किञ्चिदिति । एवंविधेषु शृङ्गारावसरेषुतामेवायं स्मरतीति माननप्रदर्शनमेवात्र न युक्तमिति सातिशयमन्युसंभारो व्यङ्ग्यो वचननिषेधस्यैव वाच्यस्य संस्कारः । तद्वक्ष्यतिउक्तिर्भङ्ग्यास्तीति । तस्येति व्यङ्ग्यस्य । इहेतु पत्युरित्यादौ । वाच्यस्यापीति । अपिशब्दो भिन्नक्रमः । ध्वनिशब्दस्य विशेषममुक्तम् ॥३९ ॥
बालप्रिया
एतद्विशेषणव्यङ्ग्यमाहकान्तयेत्यादि । उच्चैःशब्दस्य तारस्वरार्थकत्वं प्रदानक्रियाविशेषणत्वं च स्वाभिमतमित्याहअस्मदित्यादि । अमुक इति । पाणितलादिपात्र इत्षथः । पुष्पाणीत्यनेन सम्बन्धः । उच्चैरित्यस्य व्याख्यानम्तारस्वरेणेति । तारस्वरेम दाने निमित्तमादरातिशयद्योतनमित्याहआदरेति । उक्तार्थसामञ्जस्यद्रढिम्ने पदान्तरमनुकूलयतिअत एवेत्यादि । अत एव तारस्वरेम कुसुमदानादेव । “न किञ्चिदूच” इत्यस्य प्रयोजनं दर्शयन् व्यङ्ग्यमाहएवं विधेष्वित्यादि । मानप्रदर्शनमिति । अक्षिविवर्तनाद्यनुभावद्वारेति भावः । तदिति । व्यङ्ग्यस्य वाच्योपस्कारकतया वाच्यायमानत्वमित्यरिथः । भिन्नक्रम इति । अन्यथा व्याहतस्स्यादिति भावः । विशेषणमिति । अनुरणनेत्यादिविशेषणमित्यार्थः । असंलक्ष्यक्रमव्यङ्ग्यध्वनिरूपत्वस्यात्रापि सत्त्वद्योतकं हि तद्विशेषणमिति भावः ॥ ३.९ ॥
प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम् । धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥ कारिका३.४० ॥
प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपताम् । धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥ ४० ॥ गुणीभूतव्यङ्ग्योऽपि काव्यप्रकारो रसभावादितात्पर्यालोचने पुनर्ध्वनिरेव सम्पद्यते । यथात्रैवानन्तरोदाहृते श्लोकद्वये । यथा च दुराराधा राधा सुभग यदनेनापि भृजत स्तवैतत्प्राणेशाजधनवसनेनाश्रु पतितम् । लोचनमेतदेवेति । गुणीभूतव्यङ्ग्यस्य रसादिध्वनिरूपत्वं यदा सूत्रितं तदेवेत्यर्थः । तुल्यच्छायमिति । पत्युरित्यादौ प्रयच्छतेत्यादौ च भावलध्वनेर्वचननिषेधरूपवाच्यार्थोपस्कारकत्वस्यावगमात्तयोः तुल्यच्छायत्वम् । “दुराराधे"ति । हे सुभग ! यत्पतितमेतदश्रु अनेन प्राणेशाजधनवसनेनापि मृजतस्तव राधा दुराराधा स्त्रीचेतः कठोरं तदुपचारैरलं, हे त्वं विरम्, अनुनयेष्वेवमुदितो हरिः वः कल्याणं क्रियादित्यन्वयः । लोचने श्लोकं व्याकरिष्यन् पीठिकामारचयतिअकारणेत्यादि । श्लोकगतानां पदानां व्यङ्ग्यमर्थजातमासूत्रयतिसुभगेतीत्यादि । य इति । त्वमिति शेषः । न पार्यस इति । इत्येवं राधागताभिप्राय इत्यर्थः । व्यज्यत इति शेषः । एवमुत्तरत्रापि बोध्यम् । व्यङ्ग्यान्तरमाहतदेव चेति । इदमित्यनुषज्यते । एवमादृतमित्येतत्स्फुटयतियदित्यादि । मृजत इति वर्तमानार्थकप्रत्ययेन मार्जनस्याविरामत्वोक्या व्यङ्ग्यमाहअनेन हि प्रत्युतेत्यादि । प्रकृत्यंशव्यङ्ग्यमाहैयच्चेत्यादि । मामित । पुरःस्थितामपि मामित्यर्थः । मन्यस इत्यन्नाप्यस्य सम्बन्धः । कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम हे क्रियात्कल्यामं वो हरिरनुनयष्वेवमुदितः ॥
लोचनं
यन्मां विस्मृत्य तामेव कुपितां मन्यसे । अन्यथा कथमेवं कुर्याः । पतीतमिति । गत इदानीं रोदनावकाशोऽपीत्यर्थः । यदि तूच्यते इयताप्यादरेण किमिति कोपं न मुञ्चसि, तत्किं क्रियते कठोरस्वभावं स्त्रीचेतः । स्त्रीति हि प्रेमाद्ययोगाद्वस्तुविशेषमात्रमेतत् - तस्य चैष स्वभावः, आत्मनि चैतत्सुकुमारहृदया योषित इति न किंञ्चिद्वज्रसाराधिकमासां हृदयं यदेवंविधवृत्तान्तसाक्षात्कारेऽपि सहस्रधा न दलति । उपचारैरिति । दाक्षिण्यप्रयुक्तैः । अनुनयेष्विति बहुवचनेनवारं वारमस्य बहुवल्लभस्येयमेव स्थितिरिति सौभाग्यातिशय उक्तः । एवमेष व्यङ्ग्यार्थसालो वाच्यं भूषयति । तत्तुवाच्यं भूषितं सदीर्ष्याविप्रलम्भाङ्गत्वमेतीति । यस्तु त्रिष्वपि श्लोकेषु प्रतीयमानस्यैव रसाङ्गत्वं व्याचष्टे स्म । स देवं विक्रीय तद्यात्रोत्सवमकार्षीत । एवं हि व्यङ्ग्यस्य या गुणीभूतता प्रकृता सैव समूलं त्रुट्येत् । रसादिव्यतिरिक्तस्य हि व्यङ्ग्यस्य रसाङ्गभावयोगित्वमेव
बालप्रिया
पतितमिति भूतनिर्देशेन व्यङ्ग्यमाहगत इत्यादि । कठोरमित्यादिकं विवरिष्यन्नाहयदीत्यादि । मुञ्चसीत्यस्यानन्तरमितीति शेषः । इत्युच्यते यदीति सम्बन्धः । तत्तर्हि । स्त्रीति तदेनं व्यङ्ग्यमाहप्रेमादीति । स्त्रीति ह्येतदिति सम्बन्धः । एष इति । कठोरहृदयत्वमित्यर्थः । एवं बोधनीयं प्रति व्यङ्ग्यमुक्त्वा राधगतं व्यङ्ग्यमाहआत्मनीत्यादि । आत्मनि चैतदिति । वक्ष्यमाणं राधगतं व्यङ्ग्यमित्यर्थः । इतीति । इत्येतदित्यर्थः । न किञ्चिदिति । अपरमार्थमित्यर्थः । उक्तस्य व्यङ्ग्यजातस्य वाच्यं प्रति तस्य रसं प्रति चाङ्गभावमाहएवमित्यादि । व्याख्यानान्तरमनुवदतियस्त्वित्यादि । प्रतीयमानस्यैवेति । एवकारेण प्रतीयमानोपस्कृतस्य वाच्यार्थस्य व्यवच्छेदः । व्याचष्टे स्मेति । व्याख्यातुरस्यायमाशयः यस्य हि मुख्यं प्राधानं तं प्रत्येवं गुणीभावोऽन्याय्यः रसस्यैव च तत्प्राधान्यमिति नेदं व्याख्यानं साधीयैत्युपहासोक्त्या दर्शयतिस देवमित्यादि । यथा कश्चिन्निर्धनतया देवं विक्रीय धनं सम्पाद्य तद्यात्रोत्सवं कर्तुमारभते, तथा गुणीभूतव्यङ्ग्योपपादनाय प्रवृत्तस्तद्विरोधिनं कञ्चित्प्रकारमाश्रित इति महत्तरमस्य कौशलमित्युपहासः । एतदेति कथं त्रुट्येदित्यत आहरसादीत्यादि । रसादिव्यतिरिक्तस्य व्यङ्ग्यस्य वस्त्वलङ्कारात्मकस्य । रसाङ्गेत्यादि । व्यङ्ग्यैकस्वभावस्य रसादेस्तावत्स्वत एव प्राधान्यं, तद्वयतिरिक्तस्य तु तदङ्गत्वेनेत्यतस्तस्य तदङ्गत्वे प्राधान्यमेवापतति, न तु गुणत्वमित्यर्थः । एवं स्थिते च “न्यक्कारो ह्ययमेव” इत्यादिश्लोकनिर्दिष्टानां पदानां व्यङ्ग्यविशिष्टवाच्यप्रतिपादनेऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तम् । न तेषां पदानामर्थान्तरसंक्रमितवाच्यध्वनिभ्रमो विधातव्यः, विवक्षितवाच्यत्वात्तेषाम् । तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्यरूपपरिणतत्वम् । तस्माद्वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूतव्यङ्ग्यानि । न च केवलं गुणीभूतव्यङ्ग्यान्येव पदान्यलक्ष्यक्रमव्यङ्ग्यध्वनेर्व्यञ्जकानि यावदर्थान्तरसंक्रमितवाच्यानि ध्वनिप्रभेदरूपाण्यपि । यथात्रैव श्लोके रावण इत्यस्य प्रभेदान्तररूपव्यञ्जकत्वम् । यत्र तु वाक्ये रसादितात्पर्ये नास्ति गुणीभूतव्यङ्ग्यैः पदैरुद्भासितेऽपि तत्र गुणीभूतव्यङ्ग्यतैव समुदायधर्मः । यथा राजानमपि सेवन्ते विषममप्युपयुञ्जते । रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ॥
लोचनं
प्राधान्यं नान्यत्किञ्चिदित्यलं पूर्ववंश्यैः सह विवादेन । एवं स्थित इति । अनन्तरोक्तेन प्रकारेम ध्वनिगुणीभूतव्यङ्ग्ययोर्विभागे स्थिते सतीत्यर्थः । कारिकागतमपिशब्दं व्याख्यातुमाहन चेति । एष च श्लोकः पूर्वमेव व्याख्यात इति न पुनर्लिख्यते । यत्र त्विति । यद्यपि चात्र विषयनिर्वेदात्मकशान्तरसप्रतीतिरस्ति, तथापि चमत्कारोऽयं वाच्यनिष्ठ एव । व्यङ्ग्यं त्वसम्भाव्यत्वविपरीतकारित्वादि
बालप्रिया
अतो वाच्यं प्रत्येव गुणीभावो वक्तव्य इति भावः । वृत्तौ “पदानाम्” इत्यादि । व्यङ्ग्यार्थाः पूर्वमुक्ताः । “वाक्यार्थीभूतरसे"ति । रौद्ररसेत्यर्थः । प्रसङ्गादाह “न तेषाम्” इत्यादि । “न च केवल “मित्यादिग्रन्थस्योत्सूत्रत्वशङ्कां परिहर्तुमाह लोचनेकारिकेत्यादि । अपिशब्दं गुणीभूतव्यङ्ग्योऽपीत्यपिशब्दम् । व्याख्यातुमिति । अपि शब्दोऽनुक्तसमुच्चायक इति भावः । ननु राजानमित्यादौ कथं रसादितात्पर्याभावः । राजसेवादिव्यवहारोपलक्षितस्य विषोपभोगतुल्यस्य सर्वस्यापि लौकिकव्यवहारस्य विषयवैरस्यापादकतया शान्तरसव्यञ्जकत्वादिति शङ्कामनूद्य परिहरतियद्यपीत्यादि । अयमिति । सहृदयैरनुभूयमान इत्यर्थः । वाच्यार्थनिष्ठ इति । यतो राजादेरपि सेवादिकं कुर्वन्ति, ततो मानवाः कुशलाः सल्विति वाच्यार्थप्रयुक्त इत्यर्थः । इत्यादौ । वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्यविवेके परः प्रयत्नो विधातव्यः, येन ध्वनिर्गुणीभूतव्यङ्ग्ययोरलङ्काराणां चासङ्कीर्णे विषयः सुज्ञातो भवति । अन्यथा तु प्रसिद्धालङ्कारविषय एव व्यामोहः प्रवर्तते । यथा
लोचनं
तस्यैवानुययि, तच्चापिशब्दाभ्यामुभयतो योजिताभ्यां चशब्देन स्थानत्रययोजितेन खलुशब्देन चोभयतो योजितेन मानवशब्देन स्पृष्टमेवेति गुणीभूतम् । विवेकदर्शना चेयं न निरुपयोगीति दर्शयतिवाच्यव्यङ्ग्ययोरिति । अलङ्काराणां चेति । यत्र व्यङ्ग्यं नास्त्येव तत्र तेषां शुद्धानां प्राधान्यम् । अन्यथात्विति । यदि प्रयत्नवता न भूयत इत्यर्थः । व्यङ्ग्यप्रकारस्तु यो मया पूर्वमुत्प्रेक्षितस्तस्यासंदिग्धमेव व्यामोहस्थानत्वमित्येवकाराभिप्रायः ।
बालप्रिया
एवकारेम शान्तरसनिष्ठत्वव्यच्छेदः । ननु तथाप्यत्र राजसेवादेरसम्भाव्यत्वादिकं व्यज्यते । तत एव च चमत्कार इत्यत आहव्यङ्ग्यन्त्वित्यादि । विपरीतेति । उद्दिष्टफलविपरीतफलेत्यर्थः । तस्यैवेति । वाच्यस्यैवेत्यर्थः अनुयायीति । अङ्गभित्यर्थः । तदेव हेतुप्रदर्शनेनोपपादयतितच्चेत्यादि । तच्च स्पृष्टमेवेति सम्बन्धः । उभयतो योजिताभ्यामिति । राजानमपि सेवन्ते अपि विषमपि उपभुञ्जते अपि इति कर्मणा क्रियया च योजिताभ्यामित्यर्थः । राजा तावत्कर्ममूतो यो दुरुपसर्पवस्तुषु मूर्धाभिषिक्तः । सेवाक्रियाया क्षणे क्षणे सुलभापायतया समाहितमतिभिरपि दुरनुष्ठेया । एवमन्यत्रापि बोध्यम् । स्थानत्रययोजितेन चशब्देनेति । एको द्योतको बहुष्वन्त्य इति न्यायाद्रमन्ते चेति चकारस्य समुच्चयार्थकस्य क्रियात्रयेण योजनेत्यर्थः । उभयतो योजितेन खलुशब्देनेति । खलुशब्दः कुशलशब्देन मानवशब्देन च योजनीय इत्यर्थः । मानवशब्देन चेति योजना । स्पृष्टमिति । किञ्चित्प्रकाशितमित्यर्थः । इतीति हेतै । अलङ्काराणामसङ्कीर्णो विषयः क इत्यत्राहयत्रेत्यादि । तेषामिति । अलङ्काराणामित्यर्थः । प्रसिद्धालङ्कारविषय एवेत्येवकारेण किमुत व्यङ्ग्यविषय इत्यर्थो दर्शित इत्याहव्यङ्ग्यप्रकारस्त्वित्यादि । उत्प्रेक्षितः उत्प्रेक्ष्य दर्शितः । व्यमोहस्थातत्वं व्यमोहविषयत्वम् । उदाहृतश्लोकगतानां पदानां व्यङ्ग्यं दर्शयतिद्रविणेत्यादि । द्रविणशब्देनेति । लावण्ये द्रविणत्वारोपेणेत्यर्थः । उक्तमिति । लावण्यस्य व्यञ्जितमित्यर्थः । विदित इत्यनुक्त्वा गणित इत्युक्त्या व्यङ्ग्यमाहचिरेणेत्यादि । तत्रेति । तथाविधे व्यय इत्यर्थः । अनन्तेति । अनन्तेनानवधिना कालेन यन्निर्माणं तन्वीतनुनिर्माणं तत्कारिणोऽपीत्यर्थः । लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दस्य सुखं जनस्य वसतः चिन्तानलो दीपितः । एषापि स्वयमेव तुल्परमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥ इत्यत्र व्याजस्तुतिरलङ्कार इति व्याख्यायि केनचित्तन्न चुतुरस्त्रम् - यतोऽस्याभिधेयस्यैतदलङ्कारस्वरूपमात्रपर्यवसायित्वे न सुश्लिष्टता । यतो न तावदयं रागिणः कस्यचिद्विकल्पः । तस्य “एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता” इत्येवंविधोक्त्यनुपपत्तेः । नापि नीरागस्य -
लोचनं
द्रविणशब्देन सर्वस्वप्रायत्वमनेकस्वकृत्योपगित्वमुक्तम् । गणित इति । चिरेण हि यो व्ययः सम्पद्यते न तु विद्युदिव झटिति तत्रावश्यं गणनया भवितव्यम् । अनन्तकालनिर्माणकारिणोऽपि तु विधेर्न विवेकलेशोऽप्युदभूदिति परमस्याप्रेक्षावत्त्वम् । अत एवाहक्लेशो महानिति । स्वच्छन्दस्येति । विशृङ्खलस्येत्यर्थः । एषापीति । यत्स्वयं निर्मीयते तदेव च निहन्यत इति महद्वैशसमपिशब्देन वकारेण चोक्तम् । कोऽर्थ इति । न स्वात्मनो न लोकस्य न निर्मितस्येत्यर्थः । तस्येति । रागिणो हि वराकी हतेति कृपणतालिङ्गितममङ्गलोपहतं चानुवितं वचनम् । तुल्यरमणाभावादिति
बालप्रिया
नोदभूदिति । तदगणनयेति भावः । अस्य विधेः । अप्रेक्षावत्त्वमविमृश्यकारित्वम् । उक्तमित्यनुषङ्गः । निर्माणझाटित्याभावविवक्षायां गमकमाहअत एवेत्यादि । पादत्रयोक्तानं त्रयाणामेकेन योग्यो न कश्चिदर्थो निरूप्यमाणो दृश्यत इत्याहन स्वात्मन इत्यादि । अर्थ इत्यनुषज्यते । वृत्तौ “व्याजस्तुतिरलङ्कार” इति । निन्दाद्वारा नायिकायाः स्तुतेः प्रतीतेरिति भावः । “न सुश्लिष्टते"ति । सुष्ठु सङ्गत्वं न भवतीत्यर्थः । अत्र हेतुमाह “यत” इत्यादि । “अयम्” इति । श्लोकोक्त इत्यर्थः । “विकल्पः” विविधकल्पनाविषयः । नेत्यत्र हेतुमाह “तस्ये"त्यादि । कथं रागिणस्तथाविथधोक्त्यनुपपत्तिरित्यत उपपादयति लोचनेरागिणो हीत्यादि । वराकीति कृपणतालिङ्गितं हतेत्यमङ्गलोपहतं च वचनं रागिणो ह्यनुचितमिति सम्बन्धः । रागी हि तन्निमग्नचित्तवृत्तितया तामेव बहुमन्यमानस्तद्रूपसुषमासुधामास्वादयन् कथङ्कारं तस्याः शोच्यत्वममङ्ग्लत्वं च पर्यालोचयेदिति भावः । तुल्यरमणाभावादितीति । रागिणो वचनमित्यनुषङ्गः । स्वात्मनीति । स्वात्मनि
लोचनं
स्वात्मन्यत्यन्तमनुचितम् । आत्मन्यपि तद्रूपासम्भावनायां रागतायां च पशुप्रायत्वं स्यात् । ननु च रागिणोऽपि कुतश्चित्कारणात्परिगृहीतकतिपयकालव्रतस्य वा रावणप्रायस्य वा सीतादिविषये दुष्यन्तप्रायस्य वानिर्ज्ञातजातिविशेषे शकुन्तलादौ किमियं स्वसौभाग्याभिमानगर्भा तत्स्तुतिगर्भा चोक्तिर्न भवति । वीतरागस्य वा अनादकालाभ्यस्तरागवासनावासिततया मध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुक्तिः न संभाव्या । न हि वीतरागो विपर्यस्तान् भावान् पश्यति । न ह्यस्य वीणाक्वणितं काकरटितकल्पं प्रतिभाति । तस्मात्प्रस्तुतानुसारेणोभयस्यापीयमुक्तिरुपपद्यते । अप्रस्तुतप्रशंसायामपि ह्यप्रस्तुतः सम्भवन्नेवार्थो वक्तव्यः, नहि तेजसीत्थमप्रस्तुतप्रशंसा सम्भवतिअहो
बालप्रिया
सति, यद्वास्वात्मविषयकमित्यर्थः । अत्यन्तमनुचितमिति । काममस्तु स्वात्मव्यतिरिक्तजनापेक्षया तुल्यरमणाभावस्य सम्भावना स्वात्मापेक्षयापि तत्सम्भावना न युक्तेत्यतस्तद्वचनमत्यन्तानुचितमित्यर्थः । कुतो । डनौचित्यमित्यत आहआत्मन्यपीत्यादि । तद्रूपासम्भावनायामिति । तदनुरूपसौन्दर्यस्य सम्भावनाया अभावे सतीत्यर्थः । तुल्यरमणत्वसम्भावनाया अभावे सतीत्यर्थो वा । रागितायां तद्रागित्वे सति । श्लोकस्यास्य प्रबन्धान्तर्गतत्वे यथा प्रकरणानुगुणार्थपरिकल्पनं, तथा प्रदर्श्य न चेत्यादिग्रन्थमवतारयतिननु चेत्यादि । रागिणोऽपीयमुक्तिः किन्न भवतीति सम्बन्धः, भवत्येवेत्यर्थः । ननु तदभाव उक्त एवेत्यत आहकुतश्चिदित्यादि । स्वासौभाग्याभिमानगर्भेति । तुल्यरमणाभावादिति तु स्वव्यतिरिक्तजनापेक्षयेति भावः । रागिजनोक्तित्वमुपपाद्य वीतरागौक्तित्वमत्पपादयतिवीतेत्यादि । वीतरागस्य वा इयमुक्तिन न सम्भाव्येति सम्बन्धथः, सम्भाव्यैवेत्यर्थः । अत्र हेतुमाहअनादीत्यादि । तथा पश्यतः निरतिशयलावण्यादिगुणशालितया पश्यतः । तथा दर्शनाच्च पूर्वरागवासनावशात्तथाविधोक्तिः सम्भवत्येवेत्यर्थः । वस्तुतस्तथा पश्यत इत्येतदुपपादयतिन हीत्यादि । निगमयतितस्मादिति । उभयस्य रागिणो वीतरागस्य च । उक्तमेव द्रढयितुमाहअप्रस्तुतेत्यादि । सम्भवन्नेवाप्रस्तुतोऽर्थो वक्तव्य इति सम्बन्धः । व्यतिरेकप्रदर्शनेनोक्तमेव साधयतिन हीत्यचादि । तेजसि प्रस्तुततेजोविषये । विशेषमाहसेत्यादि । सा अप्रस्तुतप्रशंसा । प्रस्तुतपरतया प्रस्तुतार्थतात्पर्यकतया । इतीति हेतौ । अत्रेति । लावण्येत्यादावित्यर्थः । नासम्भव इति । अभिधेयस्येति शेषः । किन्तूक्तरीत्या सम्भवोऽस्तीति भावः । वृत्तौ “अप्रस्तुतप्रशंसे"ति । सारूप्यनिबन्धनाप्रस्तुतप्रशंसेत्यर्थः । “गुणीभूतात्मने"ति । उपायभूतेनेत्यर्थः । अत्र व्यङ्ग्योपस्कृतस्य वाच्यार्थस्यैव प्राधान्यमित्यतोऽप्रस्तुतप्रशंसालङ्कार इति बोध्यम् । तस्यैवंविधाविकल्पपरिहारैकव्यापारत्वात् । न चायं श्लोकः क्वचित्प्रबन्ध इति श्रूयते, येन तत्प्रकरणानुगतार्थतास्य परिकल्पयते । तस्मादप्रस्तुतप्रशंसेयम् । यस्मादनेन वाच्येन गुणीभूतात्मना निस्सामान्यगुणावलोपाध्मातस्य निजमाहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न कञ्चिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते । तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः । सम्भाव्यते च तस्यैव । यस्मातनध्यवसितावगाहनमनल्पधीशक्तिना प्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि ।
लोचनं
धिक्ते कार्ष्ण्यमिति सा परं प्रस्तुतपरतयेति नात्रासम्भव इत्याशङ्क्याहन चेति । निस्सामान्येति निजमहिमेति विशेषज्ञमिति परिदेवितमित्येतैश्चतुर्भिर्वाक्यखण्डैः क्रमेण पादचतुष्टयस्य तात्पर्यं व्याख्यातम् । नन्वत्रापि किं प्रमाणमित्याशङ्क्याहतथा चेति । ननु किमियतेत्याशङ्क्य तदाशयेन निर्विवादतदीयश्लोकार्पितेनास्याशयं संवादयतिसम्भाव्यत इति । अवगाहनमध्यवसितमपि न यत्र आस्तां तस्य सम्पादनम् ।
बालप्रिया
लोचनेक्रमेणेति । निस्सामान्यगुणेत्यनेन लावण्येत्याद्यपादतात्पर्यार्थ उक्तः, एवंवदतो ह्यलोकसामान्यगुणगणपूर्णत्वादहो । अहमिति महीयानवलेपः परिस्फुटं गम्यत इति भावः । अत्रापीति । अप्रस्तुतप्रशंसापक्षेऽपीत्यर्थः । वृत्तौ “तथाचे"त्यादि । चकारो हेतौ । यतोऽयं धर्मकीर्तेः श्लोक इति प्रसिद्धिरतस्तथापूर्वोक्तार्थक इत्यर्थः । विनिश्चयवृत्त्यन्ते स्थितोऽयं श्लोक इति प्रसिद्धिरतस्तथापूर्वोक्तार्थक इत्यर्थः । विनिश्चयवृत्त्यन्ते स्थितोऽयं श्लोक इति श्रूयते । लोचनेकिमित्यादि । इयतेति । धर्मकीर्तेः श्लोक इत्येतावतेत्यर्थः । तदाशयेन धर्मकीर्तेराशयेन । निर्विवादेति । प्रकृतोदाहरणे हि विवादो व्याजस्तुत्यप्रस्तुतप्रशंसाविषयो न वक्ष्यमाणतदीयश्लोक इति भावः । अस्येति । लावण्येत्यादिप्रकृतश्लोकस्येत्यर्थः । संवादयतीति । अयं भावःयो यस्याशयोऽन्यत्र सुस्पष्टप्रतिपत्तिकस्स एव सम्भवनन्यत्रापरिस्फुटप्रतीतिके विषयेऽप्यध्यवसातुमुचित इत्यतो वाक्यशेषन्यायानुसारेणात्राप्रस्तुतप्रशंसावधारणसिद्धिरिति । वृत्तौ “सम्भाव्यते च तस्यैवे"ति । श्लोकोऽयं धर्मकीर्तिसम्बन्धित्वेनैवानुमीयते चेत्यर्थः । अत्र हेतुमाह “यस्माद"त्यादि । “अनध्यवसिते"ति । अनध्यवसितं सुधीभिर्न सम्पिपादयिषितमवगाहनमवबोधः, पयःपक्षे यदा दानायान्तः प्रवेशो यस्य तत् । अनल्पा धीशक्तिर्बुद्धिसामर्थ्यं यस्य तेनाप्यन्येन केनचित्कर्त्रा । अधिकैरभियोगैः प्रयत्नैरपि । अदृष्टानिपरमार्थतत्त्वानि यत्र । यद्गतान्युत्कृष्टार्थतत्त्वान्यदृष्टपूर्वाणीत्यर्थः । पयःपक्षे त्वेतल्लोचने विवृतमलब्धेत्यादि च । मतं मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव स्वदेहे जाराम् ॥ इत्यनेनापि श्लोकेनैवंविधोऽभिप्रायः प्रकाशित एव ।
लोचनं
परमं यदर्थतत्त्वं कौस्तुभादिभ्योऽप्युत्तमम्, अलब्धं प्रयत्नपरीक्षितमपि न प्राप्तं सदृशं यस्य तथाभूतं प्रतिग्राहमेकैको ग्राहो जलचरः प्राणी ऐरावतोच्चैःश्रवोधन्वन्तरिप्रायो यत्र तदलब्धसदृशप्रतिग्राहकम् । एवंविध इति । परिदेवितविषय इत्यर्थः । इयति चार्थे अप्रस्तुतप्रशंसोपमालक्षणमलङ्कारद्वयम् । अनन्तरं तु स्वात्मनि विस्मयधामतयाद्भुते विश्रान्तिः । परस्य
बालप्रिया
एवं भूतं मम मतं मतप्रतिपादको ग्रन्थः । अलब्धः सदृशः स्वतुल्यः प्रतिग्राहकोऽन्यान् प्रतिबोधयिता स्वयं बो । च यस्य तथाविधं सत् । स्वदेहे जरां प्रयास्यति जीर्णं भविष्यति । अनध्यवसितमित्यनेन कैमुत्येन लब्धमर्थमाह लोचनेआस्तामित्यादि । तस्येति । अवगाहनस्येत्यर्थः । परममित्यस्य विवरणम्कौस्तुभादिभ्योऽप्युत्तमं यदर्थतत्त्वमिति । अदृष्टं परमं यस्मात्तथाविधमर्थतत्त्वं कौस्तुभादिं यत्र तत् । यद्गतार्थतत्त्वादुत्तममन्यत्रादृष्टमित्यर्थ इति भावः । लाभनिषेधेन तदुपायान्वेषणं सिध्यतीत्याशयेनाहप्रयत्नेत्यादि । सदृशमिति । वस्त्विति शेषः । तथाभूतं प्रतिग्राहमिति । प्रतिग्राहमिति वीप्सायामव्ययीभावः । “अव्ययीभावश्चे"ति नपुंसकत्वम् । प्रतीत्यस्य विवरणमेकैक इति । ग्राहशब्दश्चत्र न मुख्यार्थकः, किन्तु जलचरप्राणित्वगुणयोगेनार्थान्तरवर्तीत्याहजलचर इत्यादि । यद्गतैरावणादिजलचरसदृशं वस्त्वन्यत्र लब्धमित्यर्थः । इयति चार्थ इति । उक्ते श्लोकद्वयवाच्यार्थे इत्यर्थः । अप्रस्तुतेत्यादि । लावण्येत्यादावप्रस्तुतप्रशंसा अनध्यवसितेत्यादावुपमेति तदात्मकालङ्कारद्वयमित्यर्थः । अनन्तरन्त्विति । उक्तालङ्कारसुन्दरवाच्यार्थप्रतीत्युत्तरकालमित्यर्थः । स्वात्मनीति । वक्ता धर्मकीर्तिरत्र स्वात्मशब्दार्थः । विस्मयेति । विस्मयविषयत्वेनेत्यर्थः । लावण्येत्यादौ स्वस्य लोकगुणगणपूर्णत्वप्रतिपादनेनानध्यवसितेत्यादौ तादृङ्मतप्रवर्तकत्वप्रतपादनेन चात्मनो विश्वोत्तरत्वप्रत्यायनात्तत्पद्यश्रोतुरात्मविषयकविस्मयजननादिति भावः । यद्वाविस्मयधामतयेति । विस्मयाश्रयत्वेनेत्यर्थः । तत्तच्छलोकेन पिरतिपादितायास्तथाविधस्य स्वस्य स्वमतस्य च तथाविधशोच्यावस्थायाः स्वप्नेऽप्यसम्भाव्यायाः सम्भवात्स्वस्य विस्मयः । अद्भुते विश्रान्तिरिति । सहृदयानां तद्विस्मयचर्वणयेति भावः । अनध्यववसितेत्यादिश्लोकस्य वीररसेऽपि विश्रान्तिमाहपरेस्य चेत्यादि । अप्रस्तुतप्रशंसायां च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं, कदाचिदविवाक्षितत्वं, कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी बन्धच्छाया । तत्र विवक्षितत्वं यथा परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न सम्प्राप्तो वृर्द्धि यदि स भृशमक्षेत्रपतितः किमिक्षोर्देषोऽसौ न पुनरगुणाया मरुभुवः ॥ यथा वा ममैव अमी ये दृश्यनेति ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम् ।
लोचनं
च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनैवंभूतमत्यन्तोपादेयं सत्कतिपयसमुचितजनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिताप्रदर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यमन्यथा परिदेवितमात्रेण किं कृतं स्यात् । अप्रेक्षापूर्मकारत्वमात्मन्यावेदितं चेत्किं ततः स्वार्थपरार्थासम्भवादित्यलं बहुना । ननु यथास्थितस्यार्थस्यासङ्गतौ भवत्वप्रस्तुतप्रशंसा, इह तु सङ्गतिरस्त्येवेत्याशङ्क्य सङ्गतावपि भवत्येवैषेति दर्शयितुमुपक्रमतेअप्रस्तुतेति । नन्विति । यैरिदं जगद्भूषितमित्यर्थः । यस्य चक्षुषो विषयतां क्षणं गतानामेषां सफलता भवति तदिदं
बालप्रिया
श्रोतृजनस्योत्साहजनने हेतुद्वयमत्यादरेत्यादि । मतस्येति । शेषः । उत्साहेति । मतग्रहविषयकोत्साहेत्यर्थः । एवंभूतमित्यादि । मतमिति शेषः । कुशलकारितेति । सन्मतनिर्माणरूपसत्कर्मकारितेत्यर्थः । अन्यथेति । रसविश्रान्त्यभाव इत्यर्थः । परिदेवितमात्रेणेति । मात्रशब्देनपूर्वोक्तविश्रान्तिस्थलपर्यवसानव्यवच्छेदः । नन्वप्रेक्षापूर्वकत्वमात्मनोऽनेन दर्शितं स्वविषयपरिदेवितस्य सर्वत्र तदावेदकत्वादिति न किञ्चित्करत्वविरह इत्याशङ्क्य परिहरतिअप्रेक्षेत्यादि । नन्वप्रस्तुतप्रशंसायामित्यादिग्रन्थस्य का संगतिरित्यतः प्रासङ्गिकी सेति दर्शयन्नवतारयतिनन्वित्यादि । यथास्थितस्यार्थस्येति । यथाश्रुतवाच्यार्थस्येत्यर्थः । असङ्गतौ असम्भवे । इह त्विति । लावण्येत्यादौ त्वित्यर्थः । सङ्गतिरिति । वाच्यार्थस्य सम्भव इत्यर्थः । सच पूर्वोक्तरीत्या बोध्यः । वृत्तौ “अप्रस्तुतप्रशंसाया “मिति । निरालोके लोके कथमिदमहो चक्षुरधुना समं जातं सर्वैर्न सममथवान्यैरवयवैः ॥ अनयोर्हि द्वयोः श्लोकयोरिक्षुचक्षुषी विवक्षितस्वरूपे एव न च प्रस्तुते । महागुणस्याविषयपतितत्वादप्राप्तपरभागस्य कस्यचित्स्वरूपमुपवर्णयितुं द्वयोरपि श्लोकयोस्तात्पर्येण प्रस्तुतत्वात् । अविवक्षितत्वं यथा कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि, साधु विदितं कस्मादिदं कथ्यते ।
लोचनं
चक्षुरिति सम्बन्धः । आलोको विवेकोऽपि । न सममिति । हस्तो हि परस्पर्शादानादावप्युपयोगी । अवयवैरिति । अतितुच्छप्रायैरित्यर्थः । अप्राप्तः पर उत्कृष्टो भागोऽर्थलाभात्मकः स्वरूपप्रथनलक्षणो वा येन तस्य । कथयामीत्यादिप्रत्युक्तिः । अनेन पदेनेदमाहअकथनीयमेतत्श्रूयमाणं हि निर्वेदाय भवति, तथापि तु यदि निर्बन्धस्तत्कथयामि वैराग्यादिति । काक्वा देवहतकमित्यादिना च सूचितं ते वैराग्यमिति
बालप्रिया
अप्रस्तुतार्थवर्णनस्थल इत्यर्थः । “विवक्षितत्वम्” इति । तस्येत्यनुषङ्गः । “परार्थ” इति । पीडा नामाक्षौ निष्पीडनं सत्पुरुषे तु क्लेशः । एवं भङ्गो ग्रन्थित्रोटनं धनाभावनिमित्तको विप्लवश्च । माधुर्यं रसविशेषोऽनुल्बणत्वञ्च । विकारश्शर्करादिश्चित्तविकारश्च । न हि सत्पुरुषाः क्रोधाद्यवस्थायामप्यसेव्याः । अक्षेत्रमूषरस्थानं निर्विवेकप्रभ्वादिस्थानं च । “किम्” इत्यादि । मरुभुव एव दोष इति भावः । “अमी"ति । ये इत्यस्य प्रतिनिर्देशः “एषाम्” इति “यस्येत्यस्येदम्” इति च । ननु सुभगरूपा इत्येतद्विवृणोति लोचनेयैरित्यादि । विवेकोऽपीत्यपिशब्देन प्रकाशरूपार्थस्य सङ्ग्रहः साम्याभावे विवक्षितं हेतुं दर्शयतिहस्ता हीत्यादि । इदमुपलक्षणं, चरणादिकं हि गमनाद्युपयोगि । व्यङ्ग्यार्थमाहअतितुच्छेति । भागशब्देन धनादिलाभः कीर्तिप्रसरलाभो वा ग्राह्यो द्वयोरपि भजनीयत्वेन भागशब्दवाच्यत्वादित्याहअर्थलाभैत्यादि । अनेनेति । कथयामीत्यनेनेत्यर्थः । आह व्यञ्जयति । अकथनीयत्वे हेतुमाहश्रूयमाणमित्यादि । श्रूयमाणं न तु श्रवणोत्तरमेवेत्यतिशयितनिर्वेदहेतुत्वं श्रवणस्य द्योतयितुं शतृप्रत्येन निर्देशः । वैराग्यादिव वक्षीत्यत्रेवशब्दः प्रतीतौ,त्वं वैराग्याद्वदसीति ज्ञायत इत्यर्थः । मदीयं वैराग्यं केन ज्ञातमित्यत आहकाक्वेत्यादि । काक्वा शोकसूचकध्वनिविकारयावत् । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवत न च्छायापि परोपकारकरिणी मार्गस्थितस्यापि मे ॥ न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती सम्भवत इत्यविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवर्तिनो निर्धनस्य कस्यचिन्मनस्विनः परिदेवितं तात्पर्येण वाक्यर्थीकृतमिति प्रतीयते । विवक्षितत्वाविवक्षितत्वं यथा उप्पहजाआएं असोहिणीएं फलकुसुमपत्तरहआए । वेरीएं वैं देन्तो पामर हो ओहसिज्जिहसि ॥
लोचनं
साधुविदितमित्युत्तरम् । कस्मादिति वैराग्ये हेतुप्रश्नः । इदं कथ्यत इत्यादिसनिर्वेदस्मरणोपक्रमं कथङ्कथमपि निरूपणीयतयोत्तरम् । वामेनेति । अनुचितेन कुलादिनोपलक्षित इत्यर्थ । वट इति । च्छायामात्रकणादेव फलदानादिशून्यादुद्धुरकन्धर इत्यर्थः । छायापीति । शाखोटको हि स्मशानाग्निज्वालालीढलतापल्लवादिस्तरुविशेषण । अत्राविवक्षायां हेतुमाहन हीति । समृद्धो योऽसत्पुरुषः । “समृद्धसत्पुरुष”
बालप्रिया
इदं कथ्यत इति कथनप्रतिज्ञाभिप्रायामाहसनिर्वेदेत्यादि । स्मृतिविषयवस्तुनो निर्वेदप्रदत्वात्स्मरणसहभावी निर्वेद इति सनिर्वेदत्वं स्मरणस्य । निरूपणीयतयेति । निरूपणमुचितवचनपर्यालोचनम् । उत्तरमिति । इदं कथ्यत इत्यादीत्यस्यानेन सम्बन्धः । वामेनेत्येतत्प्रस्तुतार्थे योजयतिअनुचितेनेत्यादि । वटशब्देनार्थशक्तिबलेन गम्यमर्थमाहछायेत्यादि । शून्यादिति । करणादित्यस्य विशेषणम् । अत्रन्ति । कस्त्वमित्याद्युदाहरण इत्यर्थः । वृत्तौ “उत्पथे"ति । हे पामर तथाभूताया बदर्याः वृति ददात्त्वं जनैरपहसिष्यस इत्यन्वयः । बदरी वृक्षविशेषः । “प्राचीनां प्रान्ततो वृत्ति"रित्यमरः । सम्भवीत्यस्यानन्तरं न चासम्भवीति च क्वचितत्र हि वाच्यारथो नात्यन्तं सम्भवी ना चसम्भवी । तस्माद्वाच्यव्यङ्ग्ययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये ।
प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते । काव्ये उभे ततोऽन्यद्यत्तच्चित्रमभिधीयते ॥ कारिका३.४१ ॥
चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् । तत्र किंचिच्छब्दचित्रं वाच्यचित्रमतः परम् ॥ कारिका३.४२ ॥
प्रधानगुणफभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते । काव्ये उभे तोऽन्यद्यत्तञ्चित्रमभिधीयते ॥ ४१ ॥
चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् । तत्र किञ्चिच्छब्दचित्रं वाच्यचित्रमतः परम् ॥ ४२ ॥ । लोचनमिति पाठे समृद्धेन ऋद्धिमात्रेण सात्पुरुषो न तु गुणादिनेति व्याख्येयम् । नात्यन्तमिति । वाच्यभावनियमो नास्ति नास्तीति न शक्यं वक्तुं, व्यङ्ग्यस्यापि भावादिति तात्पर्यम् । तथा हि उत्पथजाताया इति न तथाकुलोद्भूतायाः । अशोभनाया इति लावण्यरहितायाः । फलकुसुमपत्र्ररहिताया इत्येवम्भूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्वतया सम्बन्धिवर्गपोषिता वा परिरक्ष्यते । बदर्या वृत्तिं ददत्पामर भोः, हसिष्यसे सर्वलोकैरिति भावः । एवमप्रस्तुतप्रशंसां प्रसङ्गतो निरूप्य प्रकृतमेव यन्निरूपणीयं तदुप संहरतितस्मादिति । अप्रस्तुतप्रशंसायामपि लावण्येत्यत्र श्लोके यस्माद्य्वामोहो लोक्स्य दृष्टस्ततो हेतोरित्यर्थः ॥ ४० ॥
एवं व्यङ्ग्यस्वरूपं निरूप्य सर्वथा यत्तच्छून्यं तत्र का वार्तेति निरूपयितुमाहप्रधानेत्यादिना । कारिकाद्वयेन । शब्दचित्रमिति । यमकचक्रबन्धादिचित्रतया
बालप्रिया
ग्रन्थे पाठः । वाच्यार्थ इत्यादिग्रन्थं तात्पर्यतो विवृणोति लोचनेवाच्यभावनियमो नास्तीति । वाच्यार्थस्य सम्भवनियमो नास्तीत्यर्थः । नास्तीति न शक्यं वक्तुमिति । वाच्यार्थो न भम्भवतीति वक्तुं च न शक्यमित्यर्थः । भावात्सत्त्वात् । व्यङ्ग्यमर्थमाहन तथेत्यादि । फलेत्यादेः पुत्रसहोदरादिरहिताया इति । वृतिमित्यस्य रक्षामिति च व्यङ्ग्यमर्थमभिसन्धायाहएवंभूतापीत्यादि । एवं भूतापि अकुलीना लावण्यादिगुणरहिता च भवन्त्यपि । परिरक्ष्यत इति । जनेनेति शेषः । इयं तु पुत्रादिरहिता च अतोऽस्या रक्षां कुर्वंस्त्वं परिहासास्पदं भविष्यसीत्यर्थः । छायां दर्शयन्नाहबदर्या इत्यादि । तस्मादित्यनेन विवक्षितं हेतुं विवृणोतिअप्रस्तुतप्रशंसायामपीत्यादि ॥ ४० ॥
पूर्वोत्तरग्रन्थयोः सङ्गतिं दर्शयन्नुत्तरग्रन्थमवतारयतिएवमित्याति । तच्छून्यमिति । व्यङ्ग्यशून्यमित्यर्थः । का वार्तेति । को व्यवहार इत्यर्थः । कारिकाद्वयेनाहेत्यन्वयः । विभागप्रदर्शनमात्रेण सिद्धे शब्दचित्रं वाच्यचित्रमिति समशीर्षिकया व्यङ्ग्यस्यार्थस्य प्राधान्ये ध्वनिसंज्ञितकाव्यप्रकारः गुणभागे तु गुणीभूतव्यङ्ग्यता । ततोऽन्यद्रसभावादितात्पर्यरहितं व्यङ्ग्यार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धमालेख्यप्रख्यं यदाभासते तच्चित्रम् । न तन्मुख्यङ्काव्यम् । काव्यानुकारो ह्यसौ । तत्र किञ्चिच्छब्दचित्रं यथा दुष्करयमकादि । वाच्यचित्रं ततः शब्दचित्रादन्यद्व्यङ्ग्यार्थसंस्पर्शरहितं प्राधान्येन वाक्यर्थतया स्थितं रसादितात्पर्यरहितमुत्प्रेक्षादि । अथ किमिदं चित्रं नाम? यत्र न प्रतीयमानार्थसंस्पर्शः । प्रतीयमानो ह्यर्थस्त्रिभेदः प्राक्प्रदर्शितः । तत्र यत्र वस्त्वलङ्गारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्पयतां विषयः । यत्र तु रसादीनामवलिषयत्वं स काव्यप्रकारो न सम्भवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य नोपपद्यते । वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य भावस्य वाङ्ग्त्वं प्रतिपद्यते अन्ततो विभावत्वेन । चित्तवृत्तिविशेषा हि रसादयः, न च तदस्ति वस्तु किञ्चिद्यन्न चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा
लोचनं
प्रसिद्धमेव तत्तुल्यमेवार्थचित्रं मन्तव्यमिति भावः । आलेख्यप्रख्यमिति । रसादिजीवरहितं मुख्यप्रतिकृतिरूपं चेत्यर्थः । अथ किमिदमिति आक्षेपे वक्ष्यमाण आशयः । अत्रोत्तरम्यत्र नेति । आक्षेप्ता स्वाभिप्रायं दर्शयतिप्रतीयमान इति । अवस्तुसंस्पर्शितेति । कचटतपादिवन्निर्थकत्वं दशदाडिमादिवदसंबद्धार्थत्वं वेत्यर्थः ।
बालप्रिया
संज्ञाकरणस्याभिप्रायमाहयमकेत्यादि । बन्धादीति भिन्नं पदम् । प्रसिद्धमेवेति । यमकादेरक्षरसन्निवेशविशेषरूपत्वात्तस्य चित्रत्वमलङ्कारविद्भिर्न्निश्चितमेवेत्यर्थः । किन्निबन्धनमालेख्यप्रख्यत्वमित्त आहरसादीति । मुख्येत्यादि । गुणालङ्कारकृतसौन्दर्यशालित्वेन ध्वनेरनुकृतिरूपं चेत्यर्थः । किमिदमित्याक्षेपे हेतुं दर्शयतिवक्ष्यमाण इति । अवस्तुसंस्पर्शितेत्येतद्द्वेधा विवृणोतिकचटतपादीत्यादि । माभूदिति । ध्वनिगुणीभूतव्यङ्ग्ययोरेव कविविषयत्वौचित्यादिति भावः । भावं विवृणोतिकाव्येत्यादि । न निर्दिष्ट इति । न तन्मुख्यं काव्यं काव्यानुकारो ह्यसाविति वचनादिति भावः । असाविति । चित्रविषय इत्यर्थः । कविविषयतैव तस्य न स्यात्कविविषयश्च चित्रतया कश्चिन्निरूप्यते । अत्रोच्यतेसत्यं न तादृक्काव्यप्रकारोऽस्ति यत्र रासादीनामप्रतीतिः । किं तु यदा रसभावादिविवक्षाशून्यः कविः शब्दालङ्कारमर्थालङ्कारं वोपनिबध्नाति तदा तद्विवक्षापेक्षया रसादिशून्यतार्थस्य परिकल्प्यते । विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः । वाच्यसामर्थ्यवशेन च कविविवक्षाविरहेऽपि तथाविधे विषये रसादिप्रतीतिर्भवन्ती परिदुर्बला
लोचनं
ननु मा भूत्कविविषय इत्याशङ्क्याहकविविषयश्चेति । काव्यरूपतया यद्यपि न निर्दिष्टस्तथापि कविगोचरीकृत एवासौ वक्तव्यः अन्यस्य वासुकिवृत्तान्ततुल्यस्येहाभिधानायोगात्कवेश्चेद्गोचरा नूनममुना प्रीतिर्जनयितव्या सा चावश्यं विभावानुभाव्यभिचारिपर्यवसायनीति भावः किं त्विति । विवक्षा तत्परत्वेन नाङ्गित्वेन कथञ्चन । इत्यदिर्योऽलङ्कारनिवेशने समीक्षाप्रकार उक्तस्तं यदा नानुसरतीत्यर्थः । रसादिशून्यतेति । नैव तत्र रसप्रतीतिरस्ति यथा पाकानभिज्ञसूदविरचते मांसपाकविशेषे । ननु वस्तुसौन्दर्यादवश्यं भवति कदाचित्तथास्वादोऽकुशलकृतायामपि शिखरिण्यामिवेत्याशङ्क्याहवाच्येत्यादि । अनेनापीति । पूर्वं सर्वथा तच्छून्यत्वमुक्तमधुना
बालप्रिया
अन्यस्येति । कविगोचरीकृतादन्यस्येत्यर्थः । वासुकिवृत्तान्ततुल्यस्येति । अप्रकृतस्येत्यर्थः । नन्वस्तु कविगोचरत्वं किमतस्तत्राहकवेश्चेत्यादि । यथोक्तं स्वभावश्चायमर्थानां यन्न साक्षादमी तथा । स्वदन्ते सत्कविगिरां गता गोचरतां यथा ॥ इति । नन्वस्तु प्रीतिजनकत्वं, तथापि कथं रसादिशून्यत्वाभाव इत्यत आहसा चेत्यादि । काव्यजन्यस्य प्रीतिविशेषस्य नियमेन रसास्वादैकनिबन्धनत्वादिति भावः । “किन्त्वि"त्यादिग्रन्थस्य भावं विवृणोतिविवक्षेत्यादि । यदा नानुसरतीति । तदनुसारेणालङ्कारोपनिबन्ध एवालङ्काराणां रसाङ्गत्वमिति भावः । सदृष्टन्तं भावमाहनैवेत्यादि । तत्रेति । समीक्षाप्रकारो य उक्तस्तदनुसरणं विनालङ्कारोपनिबन्धस्थल इत्यर्थः । रसप्रतीतिरिति । रसशब्देन शृङ्गारादिर्मधुरादिश्च रसो विवक्षितः । तथास्वाद इति । रसास्वाद इत्यर्थः । शिखरिण्यामिवेति । शिखरिणी नामदध्यादिमिश्रो भक्ष्यविशेषः । “अनेनापी"त्यपिशब्दार्थमाहपूर्वभित्यादि । तच्छून्यत्वं रसशून्यत्वम् । दौर्बल्यमिति । रसास्वादस्येति शेषः । भवतीत्यनेनाप प्रकारेण नीरसत्वं परिकल्प्य चित्रविषयो व्यवस्थाप्यते । तदिदमुक्तम् “रसभावादिविषयविवक्षाविरहे सति । अलङ्कारनिबन्धो यः स चित्रविषयो मतः ॥ रसादिषु विवक्षा तु स्यात्तात्पर्यवती यदा । तदा नास्त्येव तत्काव्यं ध्वनेर्यत्र न गोचरः ॥ " एतच्च चित्रं कवीनां विशृङ्खलगिरां रसादितात्पर्यमनपेक्ष्यैव काव्यप्रवृत्तिदर्शनादस्माभिः परिकल्पितम् । इदानीन्तनानां तु न्याय्ये काव्यनय व्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्तः काव्यप्रकारः । यतः परिपाकवतां कवीनां रसादितात्पर्यविरहे व्यापार एव नशोभते । रसादितात्पर्ये च नास्त्येव तद्वस्तु यदभिमतरसाङ्गतां नीयमानं न प्रगुणीभवत । अचेतना अपि हि भावा यथायथमुचितरसविभावतया चेतनवृत्तान्तयोजनया वा न सन्त्येव ते ये यान्ति न रसाङ्गताम् । तथा चेदमुच्चेते
लोचनं
तु दौर्बल्यमित्यपिशब्दस्यार्थः । अज्ञकृतायां च शिखरिण्यामहो खिखरिणीति न तज्ज्ञानाच्चमत्कारः अपि तु दधिगुडमरिचं चैतदसमञ्जसयोजितमिति वक्तारो भवन्ति । उक्तमिति । मयैवेत्यर्थः । अलङ्काराणां शब्दार्थगतानां निबन्ध इत्यर्थः । ननु “तच्चित्रमभिधीयते” इति किमनेनोपदिष्टेन । अकाव्यरूपं हि तदिति कथितम् । हेयतया तदुपदिश्यत इति चेत्घटे कृते कविर्न भवतत्येतदपि वक्तव्यमित्याशङ्क्य कविभिः खलु तत्कृतमतो हेयतयोपदिश्यत इत्येतन्निरूपयतिएतच्चेत्यादिना । परिपाकवतामिति । शब्दार्थविषयो रसौचित्यलक्षणः परिपाको विद्यते योषाम् ।
बालप्रिया
इति वक्तारो भवन्तीत्यनेन रसास्वादस्य दौर्बल्यं दर्शितम् । उक्तमित्यनेनान्योक्तत्वं दर्शितमिति भ्रमं वारयतिमयैवेति । वृत्तिकारेण मयैवेत्यर्थः । अकाव्यरूपमित्यादि । तदकाव्यरूपमिति कथितं हीत्यन्वयः । तदित्यस्य चित्रमित्यर्थः । मध्ये शङ्कतेहेयतयेत्यादि । हेयतया त्याज्यतया । तत्चित्रम् । प्रतिवक्तिघट इत्यादि । तत्कृतमिति । चित्रकाव्यं कृतमस्तीत्यर्थः । ननु यत्पदानि त्यजन्त्येव परिवृत्तिसहिण्णुताम् । अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् । स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ॥ भावानचेतनानपि चेतनवच्चेतनानचेतनवत् । व्यवहारयति यथेष्ट सुकविः काव्ये स्वतन्त्रतया ॥ तस्मान्नास्त्येव तद्वस्तु यत्सर्वात्मना रसतात्पर्यवतः कवेस्तदिच्छया तदभिमतरसाङ्गतां न धत्ते । तथोपनिबध्यमानं वा न चारुत्वातिशयं
लोचनं
यत्पदानि त्यजन्त्येव परिवृत्तिसहिण्णुताम् । इत्यापि रसौचित्यशरणमेव वक्तव्यमन्यथा निर्हेतुकं तत् । अपार इति । अनाद्यन्त इत्यर्थः । यथारुचि परिवृत्तिमाहशृङ्गारीति । शृङ्गारोक्तविभावानुभावव्यभिचारिचर्वणारूपप्रतीतिमयो न तु स्त्रीव्यसनीति मन्तव्यम् । अत एव भरतमुनिः “कवेरन्तर्गतं भावं " “काव्यार्थान् भावयति” इत्यादिषु कविशब्दमेव । मूर्धाभिषिक्ततया प्रयुङ्क्ते । निरूपितं चैतद्रसस्वरूपनिर्णयावसरे । जगदिति । तद्रसनिमज्जनादित्यर्थः ।
बालप्रिया
तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ॥ इत्यनेन पाकलक्षणमन्यदेवोक्तमित्यत आहयत्पदानीत्यादि । न तु स्त्रीव्यसनीति । शृङ्गारिपदार्थ इति शेषः । व्यसनमासक्तिः । शृङ्गारीत्याद्युक्तार्थे उपष्टम्भकमाहअत एवेत्यादि । कवेरिति । वागङ्गमुखरागेण सत्त्वेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन् भाव उच्यते ॥ इति श्लोकः, काव्यार्थानित्यादिवाक्यं च नाट्यशास्त्रे सप्तमाध्याये वर्तेते । वागङ्गमुखरागात्मना अभिनयेन सत्वलक्षणेन चाभिनयेन करणेन । कवेः वर्णनानिपुणस्य योऽन्तर्गतोऽनादिप्रक्तनसंस्कारप्रतिभानमयो देशकालादिभेदाभावात्सर्वसाधारणीभावेनास्वादयोग्यश्चित्तवृत्तिलक्षणो भावस्तम् । भावयन्नास्वदयोग्यीकुर्वन् । काव्यार्थानित । कोः कवतेर्वा कवनीयं काव्यं तत्र च पदार्थवाक्यार्थौ रसेष्वेवं पर्यवस्यत इत्यसाधारण्यात्प्राधान्यच्च काव्यस्यार्था रसाः अर्थ्यन्ते प्रधान्येनेत्यर्था, इति चाभिनवभारत्यां विवृतम् । कथं जगतो रसमयत्वमित्यत आहतद्रसेत्यादि । रसोपलक्षणमिति । पुण्णाति । सर्वमेतच्च माहकवीनां काव्येषु दृश्यते । अस्माभिरपि स्वेषु काव्यप्रबन्धेषु यथायथं दर्शितमेव । स्थिते चैवं सर्व एव काव्यप्रकारो न ध्वनिधर्मतामतिपतति रसाद्यपेक्षायां कवेर्गुणीभूतव्यङ्ग्यलक्षणोऽपि प्रकारस्तदङ्गतामवलम्बत इत्युक्तं प्राक् । यदा तु चाटुषु देवतास्तुतिषु वा रसादीनामङ्गतया व्यवस्थानं हृदयवतीषु च सप्रज्ञकगाथासु कासुचिद्य्वङ्ग्यविशिष्टवाच्ये प्राधान्यं तदपि गुणीभूतव्यङ्ग्यस्य ध्वनिनिष्पन्दभूतत्वेमेवेत्युक्तं प्राक् । तदेवमिदार्नीन्तनकविकाव्यनयोपदेशे क्रियमाणे प्राथमिकानामभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्तपरिणतीनां तु
लोचनं
शृङ्गारपदं रसोपलक्षणम् । स एवेति । यावद्रसिको न भवति तदा परिदृश्यमानोऽप्ययं भाववर्गो यद्यपि सुखदुःखमोहमाध्यस्थ्यमात्रं लौकिकं वितरति, तथापि कविवर्णनोपारोहं विना लोकातिक्रान्तरसास्वादभूवं नाधिशेत इत्यर्थः । चारुत्वातिशयं यन्न पुष्णाति तन्नास्त्येवेति संबन्धः । स्वेष्विति । विषमबाणलीलादिष्टु । हृदयवतीष्विति । “हिअअललिआ” इति प्राकृतकविगोष्ठ्यां प्रसिद्धासु । लङ्घिअगअणा फलहीलआओ होन्तुत्ति वढ्ढअन्तीअ । हालि अस्स आसिसं पालिवेसवतुआ विणिठ्ठविआ ॥
बालप्रिया
रससामान्योपलक्षकमित्यर्थः । वीतरागश्चेदित्यादिकं विवृणोतियावद्रसिको न भवतीत्यादि । सुखेति । मध्ये तिष्ठतीति मध्यस्थः तस्य भावो माध्यस्थ्यं सुखदुःखमोहानां यन्माध्यस्थ्यं तदेकानुभवं तन्मात्रमित्यर्थः । मात्रपदेन रसास्वादव्यवच्छेदः । वितरतीति । भाववर्गस्य त्रिगुणात्मकत्वादिति भावः । हृदयवतीष्वित्यस्य विवरणम् हिअअललिआ इत्यादि । त्रिवर्गेति । त्रिवर्गस्य धर्मादित्रयस्य य उपायः, स एवोपेयो ज्ञातव्यस्तत्र कुशलास्वित्यर्थ । लङ्घिअ इति । लङ्घितगगनाः कार्पासलता भवन्तीति वर्धयन्त्या । हालिकस्याशिषं प्रतिवेश्यबधुका निर्वापिता ॥ इतिच्छाया । हे हालिक! कार्पासलताः त्वदुपजीवनभूताः कार्पासस्तम्बाः । लङ्घितगगनाः अत्युच्चाः । भवन्तु इति हालिकस्याशिषं वर्धयन्त्या पुनः पुनः कुर्वत्या कयाचित् । प्रातीति । प्रातिवेशिनी वधूरित्यर्थः । निर्वापिता निर्वृतिं प्रापिता । कार्पासलतानां परिपोषे तत्स्थले निश्शङ्कं हालिकेन सह रमणं भविष्यतीति बद्धथा निर्वृतिरित्यनेन तच्चौर्यसम्भोगाभिलाषो वध्वा व्यज्यते, तच्च गुणीभूतम् - तदेतद्य्वाचष्टेअत्रेत्यादि । ध्वनिरेव काव्यमिति स्थितमेतत् । तदयमत्र संग्रहः यस्मिन् रसो वा भावो वा तात्पर्येण प्रकाशते । संवृत्त्याभिहितौ वस्तु यत्रालङ्कार एव वा ॥ काव्याध्वनि ध्वनिर्व्यङ्ग्यप्राधान्यैकनिबन्धनः । लोचनमत्र गोदावरीकच्छलतागहने भरेण जम्बूफलेषु पच्यमानेषु । हालिकवधूः परिधत्ते जम्बूफलरसरक्तं निवसनमिति त्वरितयौर्यसंभोगसंभाव्यमानजम्बूफलरसरक्तत्वपरभागनिह्नवनं गुणीभूतव्यङ्ग्यमित्यलं बहुना । ध्वनिरेव काव्यमिति । आत्मात्मिनोरभेद एव वस्तुतो व्युत्पत्तये तु विभागः
बालप्रिया
प्रातिवेश्यिको निर्वृतिं प्रापित इति च लोचने पाठः । सोऽपि साधुः । तदनुसारेण गाथा छाया च पठनीया । अत्र पक्षे सङ्केतस्थानार्थिनं स्वानुरक्तं प्रातिवेश्यिकं तत्सम्भोगाभिलाषिणी काचिद्यदृच्छया दृष्टं हालिकं प्रत्येवमाशीर्वादेन सङ्केतस्थानं ज्ञापितवतीति तत्सम्मोगाभिलाषो व्यङ्ग्यो बोध्यः । गोलाकच्छेति । गोदाकच्छनिकुञ्जे भरेण जम्बूषूपच्यमाना । सुहालिकवधूर्नियच्छति जम्बूरसरक्तं सिचयम् ॥ इति च्छाया । भरेणेत्यस्यातिशयेनेत्यर्थः । लोचनेऽगोदे"त्यादेः गोदावरीत्यादिविवरमं बोध्यम् । गुणीभूतं व्यङ्ग्यं दर्शयतित्वरितेत्यादि । त्वरितः पतितजम्बूफले निकुञ्चदेशे सिचयास्तरणे त्वरया कृतो यश्चौर्यसम्भोगस्तेन सम्भाव्यमानः समुत्पाद्यमास्तद्धेतुकतया तर्क्यमाणो वा यो जम्बूफलरसरक्तत्वेन परभागः सिच्यस्य तत्तद्भागे वर्णान्तरप्राप्तिः तस्य निह्नवनं गोपनेच्छेत्यर्थः । गुणीभूतव्यङ्ग्यमिति । सर्वावयवावच्छेदेन जम्बूफलरसरक्तस्य सिचयस्य परिधानेन तन्निह्नवनं गम्यते, तत्तु वाच्यार्थे गुणीभूतमित्यर्थः । ननु ध्वनिकाव्ययोरात्मशरीरस्थानीययोर्भेदाद्वृत्तौ” ध्वनिरेव काव्यम्” इति सामानाधिकरण्येन निर्देशोऽनुपपन्न इत्यत आहआत्मात्मिनोरित्यादि । आत्मी देहः । व्युत्पत्तये शिष्यजनव्युत्पादनाय । विभाग इति । ध्वनिः काव्यस्यात्मा सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर्जनैः ॥
सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः । सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा ॥ कारिका३.४३ ॥
सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदः स्वैः । सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा ॥ ४३ ॥
तस्य च ध्वनेः स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वाच्यालङ्कारैश्च सङ्करसंसृष्टिव्यवस्थायां क्रियमाणायां बहुप्रभेदता लक्ष्ये दृश्यते । तथाहि स्वप्रभेदसङ्कीर्णः स्वप्रभेदसंसृष्टो गुणीभूतव्यङ्ग्यसङ्कीर्णो गुणीभूतव्यङ्ग्यसंसृष्टो वाच्यालङ्कारान्तरसङ्कीर्णो वाच्यालङ्कारान्तरसंसृष्टः संसृष्टालङ्कारसङ्कीर्णः संसृष्टालङ्कारसंसृष्टश्चेति बहुधा ध्वनिः प्रकाशते ।
लोचनं
कृत इत्यर्थः । वाग्रहणात्तदाभासादेः पूर्वोक्तस्य ग्रहणम् । संवृत्येति । गोप्यमानतयालब्धसौन्दर्य त्यर्थः । काव्याद्ध्वनीति । काव्यमार्गे । विषयीति । स त्रिविधस्य ध्वनेः काव्यमार्गो विषय इत यावत् ॥ ४१॥ ,४२ ॥ एवं श्लोकद्व्येन संग्रहार्थमभिधाय बहुप्रकारत्वप्रदर्शिकां पठतिसगुणीत । सहगुणीभूतव्यङ्ग्येन सहालङ्कारैर्ये वर्तन्ते स्वे ध्वनेः प्रभेदास्तैः संकीर्णतया संसृष्ट्या वानन्तप्रकारो ध्वनिरित तात्पर्यम् । बहुप्रकारतां दर्शयतितथाहीति । स्वेभेदैर्गुणीभूतव्यङ्ग्येनालङ्कारैः प्रकाश्यत इति त्रयो भेदाः । तत्रापि प्रत्येकं संकरेण संसृष्ट्या चेत षट् । संकरस्यापि त्रयः प्रकाराः अनुग्राह्यनुग्राहकभावेन संदेहास्पदत्वेनैकपदानुप्रवेशेनेति द्वादश भेदाः । पूर्वं च ये पञ्चत्रिंशद्भेदा उक्तास्ते गुणीभूतव्यङ्ग्यस्यापि
बालप्रिया
शब्दार्थमयं काव्यं शरीरमिति विभाग इत्यर्थः । वाग्रहणादिति । भावो वेति वाकारादित्यर्थः । संवृत्त्याभिहितावत्यस्य विवरणम्गोप्यमानतया लब्धसोन्दर्य इति । ध्वनेर्विषयत्वोक्त्या काव्यमार्गस्य विषयत्वं लब्धमित्याशयेनाहस त्रिविधस्येत्यादि । “यस्मिन्नि"त्यादौ । यस्मिन् काव्याध्वनि । प्रकाशते सर्वत्र तत्र व्यङ्ग्यप्राधान्यैकनिबन्धनो ध्वनिः विषयी सन् सहृदयैर्जनैर्जेय इत्यन्वयः ॥ ४१॥ ,४२ ॥ कारिकां व्याचष्टेसहेत्यादि । उद्यातत इत्यत्र ध्वनिरिति शेष इति भावः । सगुणीभूतव्यङ्ग्यैस्सालङ्कारैस्स्वप्रभेदैः सह सङ्करसंसृष्ट्योरुक्त्या प्रत्येकं तैस्त्रिभिस्सह ते लभ्येते इत्याशयेन विभागान् दर्शयतिस्वप्रभेदैरित्यादि । प्रकाश्यत इति सम्मिश्न्यत इति च पाठः । द्वादशेति । स्वप्रभेदादिभिस्त्रिभिः सह सङ्करकृता नव, संसृष्टिकृतास्त्रय इति द्वादशेत्यर्थः । पूर्वं च ये पञ्चत्रिंशद्भेदा उक्ता इति । द्वितीयोद्योतावसान “एवं ध्वनेः प्रभेदान् प्रतिपाद्ये"ति वृत्तिग्रन्थव्याख्यानावसरे ये पञ्चत्रिशद्भेदाः तत्र स्वप्रभेदसङ्कीर्णत्वं कदाचिदनुग्राह्यानुग्राहकभावेन । यथा “एवंवादिनि देवर्षौ” इत्यादौ । अत्र ह्यर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिप्रभेदेनालक्ष्यक्रमव्यङ्ग्यध्वनिप्रभेदोऽनुगृह्यमाणः प्रतीयते । एवं कदाचित्प्रभेदद्वयसम्पातसन्देहेन । यथा खणपाहुणिआ देअर एसा जाआएं किंपि दे भणिदा । रुऐ पडोहरवलहीधरम्मि अणुणिज्जौ वरारि ॥
लोचनं
मन्तव्याः । स्वप्रभेदास्तावन्तोऽलङ्कार इत्येकसप्ततिः । तत्र संकरत्रयेण संसृष्ट्या च गुणने द्वे शते चतुरशीत्यधिके । तावता पञ्चत्रिंशतो मुख्यभेदानां गुणने सप्तसहस्त्राणि चत्वारि शतानि विशत्यधिकानि भवन्ति । अलङ्कारणामानन्त्यात्वसंख्यत्वम् । तत्रा व्युत्पत्तये कतिपयभेदेषूदाहरणानि दित्सुः स्वप्रभेदानां कारिकायामन्यपदार्थत्वेन प्रधानतयोक्तत्वात्तदाश्रयाण्येव चत्वार्युदाहरणान्याहतत्रेति । अनुगृह्यमाण इति । लज्जया हि प्रतीतया । अभिलाषशृङ्गारोऽत्रानुगृह्यते व्यभिचारिभूतत्वेन । क्षण उत्सवस्तत्र निमन्त्रणेनानीता हे देवर! एषा ते जायया किमपि भणिता रोदिति । पडोहरे शून्ये वलभीगृहे अनुनीयतां वराकी । सा तावद्देवरानुरक्ता तज्जायया विदितवृत्तान्तया किमप्युक्तेत्येषोक्तिस्तद्वृत्तान्तं
बालप्रिया
स्वयं प्रतिपादिता इत्यर्थः । ते इति । पञ्चत्रिंशद्भेदा इत्यर्थः । स्वप्रभेदा इति । ध्वनेरवान्तरभेदा इत्यर्थः । तावन्त इति । पञ्चत्रिंशदित्यर्थः । अलङ्कार इति । अलङ्कारत्वावच्छिन्न इत्यर्थः । ततत्रेत्यादि । एकसप्ततेश्चतुर्भिर्गुणन इत्यर्थः । द्वे शते चतुरशीत्यधिके इत्यस्यानन्तरं “तावता पञ्चत्रिशतो मुख्यभेदानां गुणने सप्तसहस्राणि चत्वारि विंशत्यधिकानि भवन्तीति पाठो बहुषु ग्रन्थेषु दृश्यते, तदर्थः सङ्गतो न भाति, विद्वद्भिर्न्निश्चेतव्यः । असंख्यत्वमिति । अतोऽलङ्कारत्वावच्छि एक एव ग्राह्य इति भाव । अन्यपदार्थत्वेनेति । सगुणीभूतेत्यादिबहुव्रीहिद्वयान्यपदार्थत्वेनेत्यर्थः । अत्र ह्यर्थशक्तीत्यादिवृत्युक्तं विवृणोतिलज्जयेत्यादि । व्यभिवारिभूतत्वेनेति । लज्जायाश्शृङ्गारव्यभिचारित्वेन हेतुनेत्यर्थः । उत्सव इति । उत्सवोऽयं देवरसम्बन्धी बोध्यः । प्राधुणिकेत्यस्याम्यागतेति वाच्यार्थः । तद्भावार्थकथनम्निमन्त्रणेनानीतेति । अनेनानुनयनस्यावश्यकत्वं द्योत्यते । देवरेत्यादिच्छायाप्रदर्शनम् । किमपीति । अनुचितमित्यर्थ । यतो रोदति अतो वराकी दीना । सा त्वया अनुनीयतामिति सम्बन्धः । गाथामिमामवतारणपूर्वकं व्याचष्टेसेत्यादि । सेति । या क्षणप्राधुणिकाभूत्सा नायिकेत्यर्थः । (क्षणप्राधुणिका देवर एषा जायया किमपि ते भणिता । रोदिति शून्यवलभीगृहेऽनुनीयतां वराकी ॥ इति च्छाया) । अत्र ह्यनुनीयतामित्येतत्पदमर्थान्तरसङ्क्रमितवाच्यत्वेन विवक्षितान्यपरवाच्यत्वेन च सम्भाव्यते । न चान्यतरपक्षनिर्णये प्रमाणमस्ति । एकव्यञ्जकानुप्रवेशेन तु व्यङ्ग्यत्वमलक्ष्यक्रमव्यङ्ग्यस्य स्वप्रभेदान्तरापेक्षया
लोचनं
दृष्टवत्या अन्यस्यास्तद्देवरचौरकामिन्याः । तत्र तव गृहण्यायं वृत्तान्तो ज्ञात इत्युभयतः कलहायितुमिच्छन्त्येवमाह । तत्रार्थान्तरे संभोगेनैकान्तोचितेन परितोष्यतामित्येवंरूपे वाच्यस्य संक्रमणम् । यदि वा त्वं तावदेतस्यामेवानुरक्त इतीर्ष्याकोपतात्पर्यादनुनयनमन्यपरं विवक्षितम् । एषा तदेवानीमुचितमगर्हणीयं प्रेमास्पदमित्यनुनयो विवक्षितः, वयं त्विदानीं गर्हणीयाः संवृत्ता इत्येतत्परतया उभयथापि च स्वाभिप्रायप्रकाशनादेकतरनिश्चये प्रमाणाभाव इत्युक्तम् । विवक्षितस्य हि स्वरूपस्थस्यैवान्यपरत्वम्,
बालप्रिया
देवरेति । तस्या देवरो भर्तुर्भ्रता तस्मिन्ननुरक्तेत्यर्थः । विदितेति । विदितो वृत्तान्तस्तस्या देवरस्य च परस्परानुरागादिर्यया तयेत्यर्थः । तद्वृत्तान्तमिति । तज्जायावचनादिवृत्तान्तमित्यर्थः । कामिन्या इत्येषोक्तिरित्यन्वयः । जायया किमपि भणितेति रोदनहेतुप्रदर्शनमात्रं न तत्कथनस्य फलान्तरमप्यस्तीत्याहतत्रेत्यादि । तद्वचने । तत्र इत्येवमाहेति सम्बन्धः । सेति शेषः । उभयतः कलहायितुमिति । तद्देवरस्य तज्जायायाश्च मिथः कलहमुत्पादयितुमित्यर्थः । वृत्तावुक्तं सन्देहसङ्करं विवृणोतितत्रेत्यादि । तत्र तथावचने । इत्येवंरूपे अर्थान्तर इति सम्बन्धः । वाच्यस्य अनुनयतिवाच्यार्थस्य । सङ्क्रमणमिति । विवक्षितमित्यस्यापकर्षः । प्रियभाषणादिः परितोषजनको व्यापारस्तत्वेनानुनयतेर्वाच्यार्थः, स चात्र सम्भोगत्वेन रूपेण लक्ष्यो विवक्षित इत्यर्थः । तस्यां तवानुरागो मया ज्ञात इत्यादिरर्थश्चात्र व्यङ्ग्यो बोध्यः । एतस्यामेवेति । देवर तस्यामेवेति च पाठः । या रोदिति तस्यामेवेत्यर्थः । इतीति हेतौर् । इर्ष्येति । वक्तृकामिनीगतयोरीर्ष्याकोपयोस्तात्पर्यादित्यर्थः । अनुनयनमिति । अनुनयति वाच्यार्थ इत्यर्थः । अन्यपरमितिर् । इर्ष्याकोपव्यग्यपरमित्यर्थः । उक्तमुपपदयतिएषेत्यादि । इत्येतत्परतया विवक्षितमिति सम्बन्ध । उभयथापीति । अनुनयति वाच्यस्यार्थान्तरसङ्क्रमणपक्षे अन्यपरत्वेन विवक्षितत्वपक्षे चेत्यर्थः । स्वभिप्रायेति । वक्तृकामिनीगताभिलाषेत्यर्थः । उक्तमिति । वृत्तिकृतेति शेषः । प्रसङ्गादाहविवक्षितस्येत्यादि । बाहुल्येन सम्भवति । यथा “स्निग्धश्यामल” इत्यादौ । स्वप्रभेदसंसृष्टत्वं च यथा पूर्वोदाहरण एव । अत्र ह्यर्थान्तरसंक्रमितवाच्यस्यात्यन्ततिरस्कृतवाच्यस्य च संसर्गः । गुणीभूतव्यङ्ग्य सङ्कीर्णत्वं यथा “न्यक्कारो ह्ययमेव मे यदरयः” इत्यादौ । यथा वा कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्कास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥
लोचनं
संक्रान्तिस्तु तस्यैतद्रूपतापत्तिः । यदि वा देवरानुरक्ताया एव तं देवरमन्यया सहावलोकितसंभोगवृतान्तं प्रतीयमुक्तिः, देवरेत्यामन्त्रणात् । पूर्वव्याख्याने तु तदपेक्षया देवरेत्यामन्त्रणं व्याख्यातम् । बाहुल्येनेति । सर्वत्र काव्ये रसादितात्पर्यं तावदस्ति तत्र रसध्वनेर्भावध्वनेश्चैकेन व्यञ्जकेनाभिव्यञ्जनं स्निग्धश्यामलेत्यत्र विप्रलम्भशृङ्गारस्य तद्व्यभिचारिणश्च शोकावेगात्मनश्चर्वणीयत्वात् । एवं त्रिविधं संकरं व्याख्याय संसृष्टिमुदाहरतिस्वप्रभेदेति । अत्र हीति । लिप्तशब्दादौ तिरस्कृतो वाच्यः, रामादौ तु संक्रान्त इत्यर्थः । एवं स्वप्रभेदं प्रति चतुर्भेदानुदाहृत्य गुणीभूतव्यङ्ग्यं प्रत्युदाहरतिगुणीभूतेति ।
बालप्रिया
स्वरूपस्थस्य वाच्यस्य । तस्य वाच्यस्य । एतद्रूपतापत्तिः विवक्षितरूपान्तरप्राप्तिः । देवरानुरक्ताया इति । स्वस्य यो देवरस्तदनुरक्ताया इत्यर्थः । सहेत्यस्य सम्भोगेत्यनेन सम्बन्धः । उक्तार्थे गमकमाहदेवरेत्यादि । तदपेक्षयेति । या प्राधुणिकाभूत्तदपेक्षयेत्यर्थः । तन्निरूपितं देवरत्वं बोध्यमित्यर्थः । गाथेयं काव्यप्रकाशेऽप्युदाहृता । बाहुल्येन सम्भवतीत्येतदुपपादयतिसर्वत्रेत्यादि । चर्वणीयत्वादभिव्यञ्जनमिति सम्बन्धः । लिप्तशब्दादावित्यादि । “स्नग्धश्यामलकान्तिलिप्तवियत “इत्यत्र द्रवद्रव्यस्य सर्वावयवावच्छेदेन यः संयोगस्तदात्मकस्य लेपस्य वाच्यार्थस्य बाधाल्लिपिधातुः सम्पर्कं लक्षयंस्तदतिशयं द्योतयति । एवं पयोदास्सुहृदो येषामित्यत्र वाच्यार्थस्य बाधात्सुहृत्पदमुपकारित्वेन रूपेण लक्षयत्तदतिशयं व्यनक्तीत्यर्थः । रामादाविति । रामादिपद इत्यर्थः । वाच्य इत्यनुषज्यते । सङ्कान्त इति । यथासङ्क्रान्तिस्तथा द्वितीयोद्योते उक्तम् । रामादावित्यादिपदेन “न्यक्कार” इत्यादिस्थरावणादिपदसंग्रहः । “कर्ते"त्यादिश्लोको वेणीसंहारस्थः । अत्र ह्यलक्ष्यक्रमव्यङ्ग्यस्य वाक्यार्थीभूतस्य व्यङ्ग्यविशिष्टवाच्याभिधायिभिः पदैः सम्मिश्रता । अत एव च पदार्थाश्रयत्वे गुणीभूतव्यङ्ग्यस्य वाक्यार्थाश्रयत्वे च ध्वनेः सङ्कीर्णतायामपि न विरोधः स्वप्रभेदान्तरवत् । लोचनमत्र हीत्युदाहरणद्वयेऽपि । अलक्ष्यक्रमव्यङ्ग्यस्येति । रौद्रस्य व्यङ्ग्यविशिष्टेत्यनेन गुणता व्यङ्ग्यस्योक्ताः । पदैरित्युपलक्षणे तृतीया । तेन तदुपलक्षिता योऽर्थो व्यङ्ग्यगुणीभावेन वर्तते तेन संमिश्रता संकीर्मता । सा चानुग्राह्यानुग्राहकभावेन संदेहयोगेनैकव्यञ्जकानुप्रवेशेन चेति यथासंभवमुदाहरणद्वये योज्या । तथा हिमे यदरय इत्यादिभि सर्वैरेव पदार्थौः कर्तेत्यादिभिश्च विभावादिरूपतया रौद्र एवानुगृह्यते । कर्तेत्यादौ च प्रतिपदं प्रत्यवान्तरवाक्यं प्रतिसमासं च व्यङ्ग्यमुत्प्रेक्षितुं शक्यमेवेति न लिखितम् । पाण्डवा यस्य दासा इति तदीयोक्त्यनुकारः । तत्र गुणीभूतव्यङ्ग्यतापि योजयितुं शक्या, वाच्यस्यैव क्रोधोद्दीपकत्वात् । दासैश्च कृतकृत्यैः स्वाम्यवश्यं द्रष्टव्य इत्यर्थशक्त्यनुरणनरूपतापि । उभयथापि चारुत्वादेकपक्षग्रहे प्रमाणाभावः । एकव्यञ्जकानुप्रवेशस्तु तैरेव पदैः गुणीभूतव्य व्यङ्ग्यस्य प्रधानीभूतस्य चरसस्य विभावादिद्वारतयाभिव्यञ्जनात् ।
बालप्रिया
वृत्तावत्रेत्यस्य कर्तेत्युदाहरणमात्रपरामर्शकत्वभ्रमवारणाय विवृणोतिउदादरणद्वयेऽपीति । रौद्रस्येति । न्यक्कार इत्यादौ रावणगतस्य कर्तेत्यादौ भीमसेनगतस्य च क्रोधस्य प्रतीतेरिति भावः । व्यङ्ग्यविशिष्टेत्यनेनेति । व्यङ्ग्यवैशिष्ट्यकथनेनेत्यर्थः । गुणतेति । वाच्यार्थं प्रतीति शेषः । उक्ता दर्शिता । पदैस्सम्मिश्रतेत्यस्य यथाश्रुतार्थस्य बाधाद्व्याचष्टेपदरित्युपलक्षणे तृतीयेति । तदैरिति तृतीयार्थो ज्ञाप्यत्वमित्यर्थः । तमेवार्थं दर्शयतितदुपलक्षितेति । केन सम्मिश्रतेत्यत्राहयोऽर्थ इत्यादि । योऽर्थः वाच्यार्थः । तेनेति । गुणीभूतव्यङ्ग्येन वाच्येनेत्यर्थ । सा चेति । सङ्कीर्णतेत्यर्थः । तृतीयान्तत्रयस्यानेन सम्बन्धः । कर्तेत्यादिभिश्चेति । पदार्थैरित्यनुषङ्गः । ननु न्यक्कारेत्यादौ व्यङ्ग्यार्थाः पूर्वं व्याख्याताः । कर्तेत्यादौ तु ते किं न सन्तीत्यत आहकर्तेत्यादाविति । तदीयोक्तीति । पाण्डवा मम दासा इति दुर्योधनोक्तीत्यर्थः । रौद्र एवानुगृह्यत इत्यनेनानुग्राह्यानुग्राहकभावेन सङ्करं प्रदर्श्य सन्देहयोगेन तं दर्शयतितत्रेत्यादि । पाण्डवगतापकर्षादिकं बोध्यम् । इत्यर्थेत्यादि । उक्तं यदर्थशक्तिमूलं व्यङ्ग्यं तद्रूपती “पीत्यर्थः । योजयितुं शक्तेत्यनुषङ्गः । अभयथापीत्यादि । तथा च गुणीभूतव्यङ्ग्यस्य ध्वनेश्च सन्देहसङ्कर इति भावः । तैरिति । मे यदरय इत्यादिभिरित्यर्थः । विभावादिद्वारतया रसस्य चाभिव्यञ्जनादिति सम्बन्धः । अत एवेत्येतद्व्याख्याया त एवेत्यादि न यथाहि ध्वनिप्रभेदान्तराणि परस्परं सङ्कीर्यन्ते पदार्थवाक्यार्थाश्रयत्वेन च न विरुद्धानि । किं चैकव्यङ्ग्याश्रयत्वे तु प्रधानगुणभावो विरुध्यते न तु व्यङ्ग्यभेदापेक्षया ततोऽप्यस्य न विरोधः । अयं च सङ्करसंसृष्टिव्यवहारो बहूनामेकत्र वाच्यवाचकभाव इव व्यङ्ग्यव्यञ्जकभावेऽपि निर्विरोध एव मन्तव्यः । यत्र तु पदानि कानिचिदविवक्षितवाच्यानुरमनरूपव्यङ्ग्यवाच्यानि वा तत्र ध्वनिगुणीभूतव्यङ्ग्ययोः संसृष्टत्वम् । यथा “तेषां गोपवधूविलाससुहृदाम्” इत्यादौ । अत्र हि “विलाससुहृदा " “राधारहःसाक्षिणाम्” इत्येते पदे ध्वनिप्रभेदरूपेऽतेऽ “जाने” इत्येते च पदे गुणीभूतव्यङ्ग्यरूपे । लोचनमत एव चेति । यतोऽत्र लक्ष्ये दृश्यते तत इत्यर्थः । ननु व्यङ्ग्यं गुणीभूतं प्रधानं चेति विरुद्धमेव तद्दृश्यमानमप्युक्तत्वान्न श्रद्धेयमित्याशङ्क्य व्यञ्जकभेदात्तावन्न विरोध इति दर्शयतिअत एवेति । स्वेति । स्वप्रभेदान्तराणि संकीर्णतया पूर्वमुदाहृतानीत तान्येव दृष्टान्तयति । तदेव व्याचष्टेयथाहीति । तथात्रापीत्यध्याहारोऽत्र कर्तव्यः । “तथा हि” इति वा पाठः । ननु व्यञ्जकभेदात्प्रथमभेदयोः परिहारोऽस्तु एकव्यञ्जकानुप्रवेशे तु किं वक्तव्यमित्याशङ्क्य पारमार्थिकं परिहारमाहकिञ्चेतिः ततोऽपीति । यतोऽन्यद्व्यङ्ग्यं गुणीभूतमन्यच्च प्रधानमिति को विरोधः । ननु वाच्यालङ्कारविषये श्रुतोऽयं संकरादिव्यवहारो न तु व्यङ्ग्यविषय इत्याशङ्क्याहअयं चेति । मन्तव्य इति । मननेन प्रतीत्या तथा निश्चेयः उभयत्रापि प्रतीतेरेव शरणत्वादिति भावः । एवं गुणीभूतव्यङ्ग्यसंकरभेदास्त्रीनुदाहृत्य संसृष्टिमुदाहरतियत्र तु पदानीति । कानिचिदित्यनेन
बालप्रिया
विरोध इत्यन्तं ग्रन्थमवतारयतिनन्वित्यादि । दृश्यमानमिति । लक्ष्य इति शेषः । स्वेति । दृष्टान्तयतीति सम्बन्धः । स्वप्रभेदान्तरवदित्यनेन दृष्टान्तं दर्शयतीत्यर्थः । प्रथमभेदयोरिति । अनुग्राह्यानुग्राहकभावेन सन्देहयोगेन च यौ सङ्करौ तयोरित्यर्थः । किं वक्तव्यमिति । किं कर्तव्यमिति । च पाठः । व्यञ्जकभेदाभावादिति भावः । भावमाहयतोऽन्तदित्यादि । मन्तव्य इत्येतत्प्रकृतानुगुणतया व्याचष्टेमननेनेत्यादि । प्रतीत्या सहृदयप्रतीत्या । इत्यनेनेति । कानिचिदविवक्षितवाच्यानि कानिचिदनुरणनरूपव्यङ्ग्यवाच्यानीत्युक्त्येत्यर्थः । सुहृदित्यादि । मुख्यार्थयोः वाच्यालङ्कारसङ्कीर्णत्वमलक्ष्यक्रमव्यङ्ग्यापेक्षया रसवति सालङ्कारे काव्ये सर्वत्र सुव्यवस्थितम् । प्रभेदान्तराणामपि कदाचित्सङ्कीर्णत्वं भवत्येव । यथा ममैव
लोचनं
संकरावकाशं निराकरोति । सुहृच्छब्देन साक्षिशब्देन चाविवक्षितवाच्यो ध्वनिः “ते” इतिपदेनासाधारणगुणगणोऽभिव्यक्तोऽपि गुणत्वमवलम्बते, वाच्यस्यैव स्मरणस्य प्राधान्येन चारुत्वहेतुत्वात् । “जाने” इत्यनेनोत्प्रेक्ष्यमाणानन्तधर्मव्यञ्जकेनापि वाच्यमेवोत्प्रेक्षणरूपं प्रधानीक्रियते । एवं गुणीभूतव्यङ्ग्येऽपि चत्वारो भेदा उदाहृताः । अधुनालङ्कारगतांस्तान्दर्शयतिवाच्यालङ्कारेति । व्यङ्ग्यत्वे त्वलङ्कारणामुक्तभेदाष्टक एवान्तर्भाव इति वाच्यशब्दस्याशयः । काव्य इति । एवंविधमेव हि काव्यं भवति । सुव्यवस्थितमिति । “विवक्षा तत्परत्वेन” इति द्वितीयोद्द्योतमूलोदाहरणेभ्यः संकरत्रयं संसृष्टिश्च लभ्यत एव । “चलापाङ्गां दृष्टिम्” इत्यत्र हि रूपकव्यतिरेकस्य प्राग्व्याख्यातस्य शृङ्गारानुग्राहकत्वं स्वभावोक्तेः शृङ्गारस्य चैकानुप्रवेशः । “उप्पह जाया” इति गाथायां पामरस्वभावोक्तिर्वा ध्वनिर्वेति प्रकरणाद्यभावे एकतरग्राहकं प्रमाणं नास्ति । यद्यप्यलङ्कारो रसमवश्यमनुगृह्णाति, तथापि “नाति निर्वहणैषिता” इति यदभिप्रायेणोक्तं तत्र सङ्कारासम्भवात्संसृष्टिरेवालङ्कारेम रसध्वनेः । यथा “बाहुलतिकापाशेन बद्ध्वा दृढम्” इत्यत्र । प्रभेदान्तराणामपीति । रसादिध्वनिव्यतिरिक्तानाम् ।
बालप्रिया
सुहृत्वसाक्षित्वयोरचेतनेषु लतावेश्मसु बाधात्सुहृत्पदमुपकारित्वेन साक्षिपदमासन्नत्वेन रूपेण च लक्षयति । उपकारादिगतातिशयो व्यङ्ग्यश्चेत्यनयोः पदयोर्ध्वनिरित्यर्थः । पदेनाभिव्यक्त इति सम्बन्धः । गुणत्वमिति । वाच्यं प्रतीत शेषः । वाच्यालङ्कारसङ्कीर्णत्वमित्यत्रालङ्कारे वाच्यत्वविशेषणस्य फलं दर्शयतिव्यङ्ग्यत्व इत्यादि । उक्तभेदाष्टक इति । सङ्करसंसृष्टिकृतभेदाष्टक इत्यर्थः । एवंविधमिति । रसवत्सालङ्कारं चेत्यर्थः । सुव्यवस्थितत्वं दर्शयतिविवक्षेत्यादि । शृङ्गारानुग्राहकत्वमिति । शृङ्गारेण सहानुग्राह्यनुग्राहकभाव इत्यर्थः । नायकान्तरगततत्तच्चेष्टादर्शनस्य रत्युद्दीपकत्वादिति भावः । इति गाथायामिति । पूर्वोदाहृतायामिति शेषः । प्रकरणाद्यभाव इति निमित्ते सप्तमी । एवं त्रिविधस्य वाच्यालङ्कारसङ्करस्योदाहरणं प्रदर्श्य, तत्संसृष्टेर्विषयमुदाहरणं च दर्शयिष्यन्नाहयद्यपीत्यादि । यदभिप्रायेणेत । अनुग्राहकत्वाभावाभिप्रायेणेत्यर्थः । इत्यत्रेति । अत्र हि रूपकेण रसस्य संसृष्टिरेवेत्यर्थः । वक्ष्यमाणोपपात्यर्थमाहनिष्पादनेत्यादि । व्यापारवतीत्यादीनि पदानि विवृणोतितत्रेत्यादिना । या व्यापारवती रसान् रसयितुं काचत्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।
लोचनं
व्यापारवतीत । निष्पादनप्राणो हि रस इत्युक्तम् । तत्र विभावादियोजनात्मिकावर्णना, ततः प्रभृति घटनापर्यन्ता क्रिया व्यापारः, तेन सततयुक्ता । रसानिति । रस्यमानतासारान् स्थायिभावान् रसयितुं रस्यमानतापत्तियोग्यान् कर्तुम् । काचिदिति लोकवार्तापतितबोधावस्थात्यागेनोन्मीलन्ती । अत एव ते कवयः वर्णनायोगात्तेषाम् । नवेति । क्षणेक्षणे नूतनैर्नूतनैर्वैचित्र्यैर्जगन्त्यासूत्रयन्ती । दृष्टिरिति । प्रतिभारूपा, तत्र दृष्टिश्चाक्षुषं ज्ञानं षाडवादि रसयतीति विरोधालङ्कारोऽत एव नवा । तदनुगृहीतश्च ध्वनिः, तथाहि चाक्षुषं ज्ञानं नाविवक्षितमत्यन्तमसम्भवा भावात् । न चान्यपरम् - अपि त्वर्थान्तरे ऐन्द्रियकविज्ञानाभ्यासोल्लसिते प्रतिभानलक्षणेऽर्थे संक्रान्तम् । संक्रमणे च विरोधोऽनुग्राहक एव । तद्वक्ष्यति “विरोधालङ्कारेण” इत्यादिना ।
बालप्रिया
विभावादीत । विभावानुभावद्यर्थेत्यर्थः । घटनेति । तत्तत्पदसङ्घटनेत्यर्थः । क्रियेत । तत्तदनुसन्धानात्मिका मनःक्रियेत्यर्थः । नित्ययोगे बतुबित्याहतेनेत्यादि । युक्तत्वं जन्यजनकभावसम्बन्धेन बोध्यम् । रसानित्यस्य वाच्यार्थविवरणम्रस्यमानतासारानिति । रसपदेन प्रकृते विवक्षितमाहस्थायिभावानिति । लोकयात्रापतितबोधेति । लौकिकतत्तद्वस्तुविषयकज्ञानेत्यर्थः । अत एवेति । दृष्ट्युन्मीलनादेवेत्यर्थः । कविपदयोगार्थमाहवणेनायोगादिति । आसूत्रयन्ती प्रकाशयन्ती । वक्ष्यमाणं सङ्क्रमणं मनसि कृत्याहप्रतिभारूपेति । अत्र दृष्टिश्चाक्षुवज्ञानम् । रसान् रसयितुं षाडबादिपेयद्रव्याणि मधुरादिरसयुक्तानि कर्तुं यद्वाषाडबादिगतमधुरादिरसानास्वादयितुं व्यापारवतीति विरुद्धार्थस्य प्रतीत्या विरोधाभासालङ्कार इत्याहतत्र दृष्टिरित्यादि । विरोधद्योतकमाहअत एवेत्यादि । नवेति विरोधद्योतकमिति भावः । ध्वनिः दृष्टिरित्तयर्थान्तरसङ्क्रमितवाच्यध्वनिः । नाविवक्षितमत्यन्तमिति । अत्यन्ततिरस्कृतं नेत्यर्थः । असम्भवाभावादिति । कविगतस्य चन्द्रोद्यानादिचाक्षुषज्ञानस्यापि रसनिष्पादनोपयोगित्वादिति भावः । न चान्यपरमिति । व्यङ्ग्यपरं विवक्षितं च नेत्यर्थः । अपितु प्रतिभानलक्षणे अर्थान्तरे सङ्क्रान्तमिति । दृष्टिपदमत्र प्रतिभात्वेन रूपेण ज्ञानं लक्षयतीत्यर्थः । प्रतिभानस्यातस्फुटत्वादिकमत्र व्यङ्ग्यम् । मुख्यार्थसम्बन्धं दर्शयितुमाहऐन्द्रियकेत्यादि । ऐन्द्रियकं विज्ञानं लौकिकतत्तद्विषयकचाक्षुषज्ञानं तस्याभ्यास आवृत्तिः तेनोल्लसिते प्रकाशिते इत्यर्थः । उक्तमर्थं वृत्त्या सङ्गमयतितद्वक्ष्यतीत्यादि । ते द्वे अप्यवलम्ब्य विश्वमनिश निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम् ॥
लोचनं
या चैवंविधा दृष्टिः परिनिष्टितोऽचलः अर्थविषये निश्चेतव्ये विषये उन्मेषो यस्याः । तथा परिनिष्ठिते लोकप्रसिद्धेऽर्थे न तु कविवदपूर्वस्मिन्नर्थे उन्मेषो यस्याः सा । विपश्चितामियं वैपश्चिती । ते अवलम्ब्येति । कवीनामिति वैपश्चितीति वचनेन नाहं कविर्न पण्डित इत्यात्मनोऽनौद्धत्यं ध्वन्यते । अनात्मीयमपि दरिद्रगृह इवोपकरणतयान्यत आहृतमेतन्मया दृष्टिद्वयमित्यर्थः । ते द्वे अपीति । न ह्येकया दृष्ट्या सम्यङ्निर्वर्णनं निर्वहति । विश्वमित्यशेषम् । अनिशमिति । पुनः पुनरनवरतम् । निर्वर्णयन्तो वर्णनया, तथा निश्चितार्थं वर्णयन्तः इदमित्थमिति परामर्शनुमानादिनानिर्भज्य निर्वर्णनं किमत्र सारं स्यादिति तिलशस्तिलशो विचयनम् । यच्च निर्वर्ण्यते तत्खलु मध्ये व्यापार्यमाणया मध्ये चार्थविशेषु निश्चितोन्मेषया निश्चलया दृष्ट्या सम्यङ्निर्वर्णितं भवति । वयमिति । मिथ्यातत्वदृष्ट्याहरणव्यसनिन इत्यर्थः । श्रान्ता इति । न केवलं सारं न लब्धं यावत्प्रत्युत खेदः प्राप्त इति भावः । चशब्दस्तुशब्दस्यार्थे । अब्धिशयनेति । योगनिद्रया त्वमत एव सारस्वरूपवेदी स्वरूपावस्थित इत्यर्थः । श्रान्तस्य शयनस्थितं प्रति बहुमानो भवति । त्वद्भक्तीति । त्वमेव परमात्मस्वरूपोविश्वसारस्तस्य भक्तिः श्रद्धादिपूर्वक उपासनाक्रमजस्तदावेशस्तेन
बालप्रिया
अर्थविषय इत्यस्यार्थमाहनिश्चेतव्य इत्यादि । अन्यथापि व्याचष्टेतथेत्यादि । ते अवलम्ब्येत्यनेन ध्वनितमर्थमुक्त्वा तद्वाच्यार्थमाहअनात्मीयमित्यादि । गृह इवेति । अविद्यमानं मण्डनादिकमिति शेषः । द्वे अपीत्युक्तेः फलमाहन हीत्यादि । अनिशमित्यस्यार्थद्वयमाहपुनरित्यादि । कविदृष्ट्यवलम्बनेन निर्वर्णनं द्वेधा विवृणोतिनिर्वर्णयन्तो वर्णनयेति । तथेत्यादीति च । वर्णनया निर्वर्णयन्तो वीक्षमाणाः । विपश्चिद्दृष्ट्यवलम्बनेन निर्वर्णनं व्याख्यातिइदमित्थमित्यादि । निर्भज्य निर्वर्णनमेव स्फुटयतिकिमत्रेत्यादि । दृष्टिद्वयालम्बनेन निर्वर्णनस्य फलम्न ह्येकयेत्यादि । पूर्वोक्तमेव विशदयतियच्चेत्यादि । वयमित्यस्य भावार्थमाहमिथ्येत्यादि । मिथ्यादृष्टिः कविदृष्टिः तत्वदृष्टिः विपश्चिद्दृष्टिः, तयोराहभावार्थमाहमिथ्येत्यादि । मिथ्यादृष्टिः कविदृष्टिः तत्वदृष्टिः विपश्चिद्दृष्टिः तयोराणे व्यसनिनस्तात्पर्यवन्त इत्यर्थः । तुशब्दस्यार्थ इति । विशेषरूपार्थबोधक इत्यर्थः । अब्धिशयनेत्यस्य गम्यार्थमाहयोगनिद्रयेत्यादि । अत एवेति । त्वद्भक्तितुल्यस्य सुखस्याभावादेवेत्यर्थः । सारेति । विश्वसारभूतं यत्स्वस्वरूपं तद्वेदीत्यर्थः । व्यङ्ग्यान्तरं च दर्शयतिआन्तस्येत्यादि । तदावेश इति । तद्विषयकप्रेमातिशय इत्यर्थः । यद्वाअन्तःकरणवृत्तेस्तदाकाराकारितत्वमित्यर्थः । भक्तेः स्वरूपं इत्यत्र विरोधालङ्कारेणार्थान्तरसंक्रमितवाच्यस्य ध्वनिप्रभेदस्य सङ्कीर्णत्वम् । वाच्यालङ्कारसंसृष्टत्वं च पदापेक्षयैव । यत्र हि कानिचित्पदानि
लोचनं
तुल्यमपि न लब्धमास्तां तावत्तज्जातीयम् । एवं प्रथममेव परमेश्वरभक्तिभाजः कुतूहलमात्रावलम्बितकविप्रामाणिकोभयवृत्तेः पुनरपि परमेश्वरभक्तिविश्रान्तिरेव युक्तेति मन्वानस्येयमुक्तिः । सकलप्रमाणपरिनिश्चितद्ष्टादृष्टविषयविशेषजं यत्सुखं, यदपि वा लोकोत्तरं रसचर्वणात्मकं तत उभयतोऽपि परमेश्वरविश्रान्त्यानन्दः प्रकृष्यते तदानन्दविप्रुण्मात्रावभासो हि रसास्वाद इत्युक्तं प्रागस्माभिः । लौकिकं तु सुखं ततोऽपि निकृष्टप्रायं बहुतरदुःखानुषङ्गादिति तात्पर्यम् । तत्रैव दृष्टिशब्दापेक्षयैकपदानुप्रवेशः । दृष्टिमवलम्ब्य निर्वर्णनमिति विरोधालङ्कारो वाश्रीयताम्, अन्धपदन्यासेन दृष्टिशब्दो"त्यन्ततिरस्कृतवाच्यो वास्तु इत्येकतरनिश्चये नास्ति प्रमाणम्, प्रकारद्वयेनापि हृद्यत्वात् । न च पूर्वत्राप्येवं वाच्यम् । नवाशब्देन शब्दशक्त्यनुरणनतया विरोधस्य सर्वथावलम्बनात् । एवं सङ्करं त्रिविधमुदाहृत्य संसृष्टिमुदाहरतिवाच्येति । सकलवाक्ये हि यद्यलङ्कारोऽपि व्यङ्ग्यार्थोऽपि व्यङ्ग्यार्थोऽपि प्रधानं तदानुग्राह्यनुग्राहकत्वसङ्करस्तदभावे त्वसङ्गतिरित्यलङ्कारेण
बालप्रिया
तस्य परमानन्दरूपत्वं च भक्तिरसायनादिग्रन्थेषु प्रदर्शितम् । श्लोकस्यास्यावतारिकामाहएवमित्यादि । एवमियमुक्तिरिति सम्बन्धः । श्लोकस्यास्य पार्यन्तिकं तात्पर्यार्थमाहसकलेत्यादि । वृत्तौ सङ्कीर्णत्वमित्यनेनानुग्राह्यानुग्राहकभावेन सङ्करः एकपदानुप्रवेशशङ्करश्च विवक्षित इति दर्शयतितत्रेत्यादि । तत्रैव उक्तश्लोक एव । एकपदानुप्रवेश इति । विरोधालङ्कारेण सहार्थान्तरसङ्क्रमितवाच्यस्य ध्वनेरिति शेष । सन्देहसङ्करमप्यत्र दर्शयतिदृष्टिमवलम्ब्येत्यादि । विरोधालङ्कारो वेति । ते अवलम्ब्य निर्वर्णयन्त इत्यत्र ते इति तत्पदेन दृष्टिपदवाच्यार्थस्य दर्शनस्य परामर्शे दर्शनमवलम्ब्य पश्यन्त इति विरुद्धार्थस्य प्रतीत्या विरोधालङ्कारो वेत्यर्थः । वक्ष्यमाणमर्थमादायात्र विरोधपरिहारः । अन्धेत्यादि । निःश्वासान्ध इत्यादावन्धादिपदेनेवात्यन्ततिरस्कृतवाच्येन दृष्टिपदेन लक्ष्यस्य प्रतिभारूपार्थस्य परामर्शे"त्यन्ततिरस्कृतवाच्यो ध्वनिर्वेत्यर्थः । पूर्वत्रापीति । या दृष्टिः रसान् रसयितुं व्यापारवतीत्यत्रापीत्यर्थः । एवमिति । सन्देहसङ्कर इत्यर्थः । नवेत्यादि । नवाशब्देनावलम्बनादिति सम्बन्धः । नवेति शब्देन द्योतनादित्यर्थः । शब्दशक्त्यनुरणनतयेति विशेषणे तृतीया । उदाहरतीति । दर्शयतीत्यर्थः । सकलवाक्य इति । सम्पूर्णवाक्य इत्यर्थः । वाच्यालङ्कारभाञ्जि कानिचिच्च ध्वनिप्रभेदयुक्तनि । यथा दीर्धीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्त्रीकषायः ।
लोचनं
वा ध्वनिना वा पर्यायेण द्वाभ्यामपि वा युगपत्पदविश्रान्ताभ्यां भाव्यमिति त्रयो भेदाः । एतद्गर्भीकृत्य सावधारणमाहपदापेक्षयैवेति । यत्रानुग्राह्यानुग्राहकभावं प्रत्याशङ्कापि नावतरति तं तृतीयमेव प्रकारमुदाहर्तुमुपक्रमतेयत्र हीति । यस्माद्यत्र कानिचिदलङ्कारभाञ्जि कानिचिद्ध्वनियुक्तानि, यथा दीर्धीकुर्वन्नित्यत्रेति । तथाविधपदापेक्षयैव वाच्यालङ्कारसंसृष्टत्वमित्यावृत्या पूर्वग्रन्थेन सम्बन्धः कर्तव्यः । अत्र हीति । अत्रत्यो हिशब्दो मैत्रीपदमित्यस्यानन्तरं योज्य इति ग्रन्थ सङ्गतिः । दीर्घीकुर्वन्निति । सिप्रावातेन हि दूरमप्यसौ शब्दो नीयते, तथा सुकुमारपवनस्पर्शजातहर्षाः चिरं कूजन्ति, तत्कूजितं च वातान्दोलितसिप्रातरङ्गजमधुरशब्दमिश्रं भवतीति दीर्घत्वम् । पट्विति । तथासौ सुकुमारो वायुर्येन तज्जः शब्दः सारसकूजितमपि नाभिभवति प्रत्युत तत्सब्रह्मचारी तदेव दीपयति । न च दीपनं तदीयमनुपयोगि यतस्तन्मदेन कलं मधुरमाकर्णनीयम् । प्रत्यूषेष्विति । प्रभातस्य तथाविधसेवावसरत्वम् । बहुवचनं सदैव तत्रैषा हृद्यतेति निरूपयति । स्फुटितान्यन्तर्वर्तमानमकरन्दभरेण ।
बालप्रिया
तदभाव इति । तत्सङ्कराभाव इत्यर्थः । पर्यायेणेति । पदविश्रान्तेन भाव्यमिति शेषः । तृतीयमेवेति । द्वाभ्यामपि युगपत्पदविश्रान्ताभ्यां भाव्यमित्युक्तमेवेत्यर्थः. “यत्रे"त्यादिवाक्यं सङ्गमयतियस्मादित्यादि । यस्मादिति हिशब्दार्थ कथनम् । आवृत्येति । वाच्यालङ्कारसंसृष्टतत्वं पदापेक्षयैवेति पदानामावृत्तिः तत्र पदापेक्षयेत्यस्य तथाविधपदापेक्षयेत्यर्थश्चेति भावः । इदमुपलक्षणं तत्रेति शेषश्च बोध्यः । दीर्घीकुवन्नित्यनेनोक्तं सिप्रावातहेतुकं कूजितस्य दीर्घत्वं दैशिकं कालिकं स्वसजातीयसंवलनकृतं चेति त्रिविधमिति विवृणोतिसप्रावातेनेत्यादि दीर्घत्वमित्यन्तेन । पटु समर्थं दीर्घीकुर्वन्नितिं क्रियाविशेषणमित्यभिप्रायेण व्याचष्टेतथेत्यादि । सुकुमारः मन्दः । दीपयति पोषयति यतस्तन्मधुरमतो नानुपयोगीन्ति सम्बन्धः । तथाविधसेवेति । सरतग्लानिहरणादिरूपसेवेत्यर्थः । तत्रेति । उज्जयिन्यामित्यर्थः । निरूपयति दर्शयति । स्फुटितानीत्यस्य त्रुटितानीत्यर्थं मनसिवृत्य तत्र हेतुं गम्यं दर्शयतिअन्तरित्यादि । स्फुटितानीत्यनेनार्थान्तरं च विचक्षितमित्याहतथेत्यादि । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥
लोचनं
तथा स्फुटितानि विकसितानि नयनहारीणि यानि कमलानि तेषां य आमोदस्तेन या मैत्री अभ्यासाङ्गावियोगपरस्परानुकूल्यलाभस्तेन कषाय उपरक्तो मकरन्देन च कषायवर्णीकृतः । स्त्रीणामिति । सर्वस्य तथाविधस्य त्रैलोक्यसारभूतस्य य एवं करोति सुरतकृतां ग्लानिं तान्तिं हरति, अथ च तद्विषयां ग्लानिं पुनः सम्भोगाभिलाषोद्दीपनेन हरति । न च प्रसह्यप्रभुततयापि त्वङ्गानुकूलो ह्यद्यस्पर्शः हृदयान्तर्भूतश्च । प्रियतमे तद्विषये प्रार्थनार्थं चाटूनि कारयति । प्रियतमोऽपि तत्पवनस्पर्शप्रबुद्धसम्भोगाभिलाषः । प्रार्थनार्थं चाटूनि करोतीति तेन तथा कार्यत इति परस्परानुरागप्राणशृङ्गारसर्वस्वभूतोऽसौ पवनः । युक्तं चैतत्तस्य यतः सिप्रापरिचितोऽसौ वात इति नागरिको न त्वविदग्धो
बालप्रिया
भावार्थमाहनयनेति । मैत्रीपदमुख्यार्थस्यात्र बाधात्तत्पदेन विवक्षितं दर्शयतिअभ्यासङ्गेत्यादि । अभ्यासङ्गस्य संश्लेषस्यावियोगोऽविच्छेदः अविच्छिन्नस्संश्लेष इति यावत् । तेन परस्परानुकूल्यस्य परस्परोपकारित्वस्य लाभ इत्यर्थ. अत्राविच्छिन्नस्संश्लेषो लक्ष्यार्थः, परस्पनुकूल्यलाभस्तु व्यङ्ग्य इति विवेकः । उपरक्तः सम्बद्धः । अर्थान्तरं चाहमकरन्देनेत्यादि । पीतमिश्रो रक्तः कषायवर्णः सर्वस्येति बहुवचनार्थकथनम् । तथाविधस्य स्त्रीत्वविशिष्टस्य । त्रैलोक्येत्यादि गम्यार्थकथनम् । सुरतग्लानिमित्येतत्सुरतकृतां ग्लानिं सुरतविषयां ग्लानिमित्युभयथा विवृणोतिसुरतकृतामित्यादि । तान्तमिति । शारीरं श्रममित्यर्थः । ग्लानिमिति । अनुत्साहमित्यर्थः । न चेति । हरतीत्यनुषज्यते । अङ्गस्य हृदयस्यानुकूल इत्यर्थोऽपीत्याहहृदयान्तर्भूत इति । स्निग्ध इत्यर्थः । प्रियतमे इति च पदच्छेदमभिप्रेत्य प्रियतमे प्रार्थना चाटुकार इति वातविशेषणतयापि योजयतिप्रियतम इत्यादि । प्रियतम इति सप्तम्यन्तस्य विवरणम्तद्विषयैति । प्रार्थनार्थमिति । स्त्रीणां सम्भोगप्रार्थनोत्पादनमित्यर्थः । चाटुकार इति ण्यन्तात्कर्तरि प्रत्यय इत्याहचाटूनि अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः । पदान्तरेष्बलकारान्तराणि । संसृष्टालङ्कारान्तरसंकीर्णो ध्वनिर्यथा
लोचनं
ग्राम्यप्राय इत्यर्थः । प्रियतमोऽपि रतान्तेऽङ्गानुकूलः संवाहनादिना प्रार्थनार्थं चाटुकार एवमेव सुरतग्लानिं हरति । कूजितं चानङ्गीकरणवचनादि मधुरध्वनितं दीर्घीकरोति । चाटुकरणावसरे च स्फुटितं विकसितं यत्कमलकान्तिधारिवदनं तस्य यामोदमैत्री सहजसौरभपरिचयस्तेन कषाय उपरक्तो भवति । अङ्गेषु चातुष्षष्टिकप्रयोगेष्वनुकूलः । एवं शब्दरूपगन्धस्पर्शा यत्र हृद्या यत्र च पवनोऽप तथा नागरिकः स तवावश्यमभिगन्तव्यो देश इति मेघढूते मेघं प्रति कामिन इयमुक्तिः । उदाहरणे लक्षणं योजयतिमैत्रीपदमिति । हिशब्दोऽनन्तरं पठितव्य इत्युक्तमेव । अलङ्कारान्तराणीति । उत्प्रेक्षास्वभावोक्तिरूपकोपमाः क्रमेणेत्यर्थः । एवमियता सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सहप्रभेदैः स्वैः । सङ्करसंसृष्टिभ्याम् । इत्येतदन्तं व्याख्यायोदाहरणानि च निरूप्य “पुनरपि” इति यत्कारिकाभागे पदद्वयं तस्यार्थं प्रकाशयत्युदाहरणद्वारेणैवसंसृष्टेत्यादि । पुनःशब्दस्यायमर्थःन केवलं ध्वनेः स्वप्रभेदादिभिः संसृष्टिसङ्करौ विवक्षितौ यावत्तेषामन्योन्यमपि स्वप्रभेदानां
बालप्रिया
कारयतीति । एतदेव विवृणोतिप्रियतमोऽपीत्यादि । तेनेति । वातेनेत्यर्थः । परस्परेत्यादि । स्त्रीणां प्रियतमस्य च सम्भोगाभिलाषोद्दीपकत्वादिति भावः । सिप्रापरिचित इति सिप्राया नायिकात्वं गम्यते । इतीति हेतौ । उपमाने प्रियतमेऽपि विशेषणानि योजयतिप्रियतमोऽपीत्यादि । संवाहनादिना अङ्गानुकूल इति योजना । चाटुकार इति । चाटुवाक्यकर्तेत्यर्थः । अनङ्गीकरणवचनेति । मालमित्यादिवचनेनेत्यर्थः । मदकलमित्यस्य विवरणम्मधुरध्वनितमिति । चाटिवत्यादि । प्रियतमचाटुवाक्यश्रवणावसर इत्यर्थः । विकसितमिति । चाटुश्रवणजनितस्मितेनेति भावः । कमलपदं साध्यवसानलक्षणया मुखपरमित्याहकमलेत्यादि । वदनमिति । स्त्रीणामिति शेषः । अङ्गानुकूल इत्येतदन्यथापि व्याचष्टेअङ्गेष्वित्यादि । श्लोकस्यास्य सारार्थं दर्शयन् विवरणमुपसंहरतिएवमित्यादि । स देश इति । उज्जयिनीदेश इत्यर्थः । उत्प्रेक्षेत्यादि । पटु दीघोकुर्वन्नित्यत्र गम्योत्प्रेक्षा, प्रत्यूषस्वभावोक्तिः, अङ्गानुकूलः स्निग्ध इत्यस्य वायावारोपाद्रूपकं, यद्वारूपकमित्यस्य रूपकातिशयोक्तिरित्यर्थः । कमलपदेन मुखस्य बोधनात्तत्र सा बोध्य । प्रियतम इवेत्युपमा चेत्यर्थः । संसृष्टेत्यादिग्रन्थमवतारयतिएवमियतेत्यादि । तेषामन्योन्यमपीति । दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥ अत्र हि समासोक्तिसंसृष्टेन विरोधालङ्कारेण संकीर्णस्यालक्ष्यकमव्यङ्ग्यस्य ध्वनेः प्रकाशनम् । दयावीरस्य परमार्थतो वाक्यार्थीभूतत्वात् ।
लोचनं
स्वप्रभेदैर्गुणीभूतव्यङ्ग्येन वा सङ्कीर्णानां संसृष्टानां च ध्वनीनां सङ्कीर्णत्वं संसृष्टत्वं च दुर्लक्षमिति विस्पष्टोदाहरणं न भवतीत्यभिप्रायेणालङ्कारस्यालङ्कारेण संसृष्टस्य संकीर्णस्य वा ध्वनौ संकरसंसर्गौ प्रदर्शनीयौ । तदस्मिन् भेदचतुष्टये प्रथमं भेदमुदाहरतिदन्तक्षातनीति । बोधिसत्त्वस्य स्वकिशोरभक्षणप्रवृत्तां सिंहो प्रति निजशरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते । प्रोद्भूतः सान्द्रः पुलकः परार्थसम्पत्तिजेनानन्दभरेण यत्र । रक्ते रुधिरे मनोऽभिलाषो यस्याः, अनुरक्तं च मनो यस्याः । मनुयश्चोद्बोधितमदनावेशाश्चेति विरोधः । जातस्पृहैरिति च वयमपि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तैः । समासोक्तिश्च नायिकावृत्तान्तप्रतीतेः । दयावीरस्येति । दयाप्रयुक्तत्वादत्र धर्मस्य धर्मवीर एव दयावीरशब्देनोक्तः । वीरश्चात्र रसः, उत्साहस्यैव स्थायित्वादिति भावः । दयावीरशब्देन वा शान्तं व्यपदिशत । सोऽत्र
बालप्रिया
संसृष्टिसङ्करौ विवक्षितावित्यनुषङ्गः । अयमर्थ इति पूर्वेण सम्बन्धः । नन्वेवं वृत्तौ संसृष्टालङ्कारान्तरसङ्कीर्णत्वादिभेदमात्रप्रदर्शने किं बीजमित्यत आहस्वप्रभेदानामित्यादि । ध्वनिनेति । ध्वनिना सहेत्यर्थः । दुर्ल्लक्षमितीति । दुर्ल्लक्षत्वाद्धेतोरित्यर्थः । विस्पष्टेति । सुस्पष्टेत्यर्थः । प्रदर्शनीयौ प्रदर्शयितुं शक्यौ । प्रथमं भेदमिति । संसृष्टालङ्कारसङ्कीर्णत्वरूपं भेदमित्यर्थः । परार्थसम्पत्तिजेनेति । परपरित्राणजन्येनेत्यर्थः । नायिकासम्भोगजन्येन चेति । भवतश्शरीर इत्यनेन कामिनश्शरीर इति, मृगराजवध्वेत्यनेन मृगाख्यपुञ्जातिविशेषस्य वध्वेति च गम्यते । मुनिभिरपि जातस्पृहैरित्यत्र विषयविरक्तैरप्युद्बुद्धकामैरित्यर्थप्रतीत्या विरोध इत्याहमुनयश्चेत्यादि । प्रकृतमर्थमाहजातस्पृहैरित्यादि । मनोराज्ययुक्तैश्चेति योजना । मुनिना दयावीरस्याकथनादाहदयेत्यादि । धर्मस्य दयाप्रयुक्तत्वादत्र दयावीरशब्देन धर्मवीर एवोक्त इति सम्बन्धः । पक्षान्तरमाहदयावीरशब्देनेत्यादि । समासोक्तिसंसृष्टेनेत्यादिवृत्तयुक्तं विवृणोतिसोऽत्रेत्यादि । स रसः धर्मवीरश्शान्तो वा संसृष्टालङ्कारसंसृष्टत्वं च ध्वनेर्यथा अहिणअपओअरसएसु पहिअसामाइएसु दिअहेसु । सोहै पसारअगिआणं णच्चिअं मोरवन्दाणम् ॥
लोचनं
रसः संसृष्टालङ्कारेणानुगृह्यते । समासोक्तिमहम्ना ह्ययमर्थः सम्पद्यतेयथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसम्भोगावसरे जातपुलकस्तथा त्वं परार्थसम्पादनाय स्वशरीरदान इत करुणातिशयोऽनुभावविभावसम्पदोद्दीपितः । द्विवसेषु । तथा पथिकान् प्रति श्यामायितेषु मोहजनकत्वाद्रात्रिरूपतामाचरितवत्सु । यदि वा पथिकानां श्यामायितं दुःखवशेन श्यामिका येभ्यः । शोभते प्रसारितग्रीवाणां मयूरवृन्दानां नृत्तम् । अभिनयप्रयोगरसिकेषु पथिकसामाजकेषु सत्सु मयूरवृन्दानां प्रसारितगीतानां प्रकृष्टसारणानुसारिगीतानां तथा ग्रीवारेचकाय प्रसारितग्रीवाणां नृत्तं शोभते । पथिकान् प्रति श्यामा इवाचरन्तीति क्यच् । प्रत्ययेन लुप्तोपमा निर्दिष्टा । पथिकसामाजिकेष्विति कर्मधारयस्य स्पष्टत्वाद्रूपकम् । ताभ्यां ध्वनेः संसर्ग इति ग्रन्थकारस्याशयः । अत्रैवोदाहरणेऽन्यद्भेदद्वयमुदाहर्तुं शक्यमित्याशयेनोदाहरणान्तरं न दत्तम् । तथाहिव्याघ्रादेराकृतिगणत्वे पथिकसामाजिकेष्वित्युपमारूपकाभ्यां
बालप्रिया
रसः । संसृष्टालङ्कारेणेति । समासोक्तिसंसृष्टेन विरोधालङ्कारेणेत्यर्थः । मुनिभिरपि जातस्पृहैरवलोकितानीत्यनेन दयावीरस्य परिपोषप्रतीत्या विरोधस्यानुग्राहकत्वं स्पष्टमिति मनसि कृत्य समासोक्तेस्तदुपपादयतिसमासोक्तिमहिम्नेत्यादि । इतीति । इत्यर्थादित्यर्थः । अनुभावेत्यादि । अनुभावः सान्द्रपुलकाविर्भावः । आलम्बनविभावः सिंही । उद्दीपनविभावो दन्तक्षतादिरिति बोध्यम् । द्वितीयमिति । संसृष्टालङ्कारसंसृष्टत्वरूपमित्यर्थः । अभिनवेत्यादि । वर्षावर्णनम् । अत्रादौ वाच्यमर्थं व्याचष्टेअभिनवमित्यादि । पथिकान् विरहिणः । इयामायितोष्वित्यत्र रात्रिवाचकात्श्यामाशब्दादाचारार्थे क्यजित्यभिप्रेत्य व्याचष्टेमोहेत्यादि । श्यामायितमित्यस्य श्यामिकेत्यर्थमभिप्रेत्याहयदि वेत्यादि । श्यामिका वर्णभेदः । छायान्तरदर्शनेनात्र व्यङ्ग्यमर्थं दर्शयतिअभिनयप्रयोगेत्यादि । प्रसारितगीतानामित्यस्य व्याख्यानम्प्रकृष्टेत्यादि । अत्र पक्षे प्रसारितग्रीवाणामिति च योज्यमित्याहतथेत्यादि । ध्वनेः संसृष्टालङ्कारसंसृष्टत्वं विवृणोतिपथिकानित्यादि । रूपकमिति । पथिकेषु सामाजिकत्वारोपादिति भावः । ध्वनेरिति । अभिनयप्रयोगेत्याद्युक्तस्य व्यङ्ग्यस्येत्यर्थः । संसर्गः संसृष्टिः । अन्यद्भेदद्वयमिति । अत्र ह्युपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य ध्वनेः संसृष्टत्वम् ।
एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते । सङ्ख्यातुं दिङ्मात्रं तेषामिदमुक्तमस्माभिः ॥ कारिका३.४४ ॥
एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते । संख्यातुं दिङ्मात्रं तेषामिदमुक्तमस्माभिः ॥ ४४ ॥
अनन्ता हि ध्वनेः प्रकाराः सहृदयानां व्युत्पत्तये तेषां दिङ्मात्रं कथितम् ।
इत्युक्तलक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः ॥ कारिका३.४५ ॥
इत्युक्तलक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः । सत्काव्यं कर्तुं वा ज्ञातु वा सम्यगभियुक्तैः ॥ ४५ ॥
उक्तस्वरूपध्वनिनिरूपणनिपुणा हि सत्कवयः सहृदयाश्च नियतमेव
लोचनं
सन्देहास्पदत्वेन सङ्कीर्णाभ्यामभिनयप्रयोगे, अभिनवप्रयोगे च रसिकेष्विति प्रसारितगीतानामिति यः शब्दशक्त्युद्भवस्त संसर्गमात्रमनुग्राह्यत्वाभावात् । “पहिअसामाइएसु” इत्यत्र तु पदे सङ्कीर्णाभ्यां ताभ्यामुपमारूपकाभ्यां शब्दशक्तिमूलस्य ध्वनेः सङ्कीर्णत्वमेकव्यञ्जकानुप्रवेशादिति सङ्कीर्णालङ्कारसंसृष्टः । सङ्कीर्णालङ्कारसङ्कीर्णश्चेत्यपि भेदद्वयं मन्तव्यम् ॥ ४३ ॥
एतदुपसंहरतिएवमिति । स्पष्टम् ॥ ४४ ॥
अथ “सहृदयमनःप्रीतये” इति यत्सूचितं तदिदानीं न शब्दमात्रमपि तु निर्व्यूढमित्याशयेनाहैत्युक्तेत । यः प्रयत्नतो विवेच्यः अस्माभिश्चोक्तलक्षणो ध्वनिरेतदेव काव्यतत्त्वं यथोदितेन प्रपञ्चनिरूपणादिना व्याकर्तुमशक्नुवद्भिरलङ्कारैः रीतयः
बालप्रिया
सङ्कीर्णालङ्कारसंसृष्टत्वसङ्कीर्णालङ्कारसङ्कीर्णत्वरूपभेदद्वयमित्यर्थः । सङ्कीर्णाभ्यामुपमारूपकाभ्यामिति सम्बन्ध । “अहिणअ” इत्यस्य अभिनय अभिनव इत्युभयथापि च्छायेति दर्शयन् ध्वनिं दर्शयतिअभिनयेत्यादि । अनुग्राह्यत्वाभावादिति । उपमारूपकाभ्यां तस्येत्यनुषङ्गः ॥ ४३ ॥
एतदिति । बहुप्रभेदकथनमित्यर्थः ॥ ४४ ॥
सहृदयेत्यादि । “सहृदयमनः प्रीतये तत्स्वरूपं ब्रूम” इति यदुक्तमित्यर्थः । शब्दमात्रं वाङ्मात्रम् । इत्युक्तलक्षण इत्यादिकारिकाद्वयमेकवाक्यमित्याहय इत्यादि । उक्तेत्यत्र पूरयतिअस्माभिरिति । एतदिति य इत्यस्य प्रतिनिर्देशः । यथोदितमित्यस्य व्याकर्तुमित्यनेन सम्बन्ध इति दर्शयन् विवृणोतियथोदितेनेत्यादि । अन्ये त्वित्यादि । इत्युक्तलक्षणोऽयं ध्वनिरिति पठन्तीत्यर्थः । एतत्पक्षे काव्यविषये परां प्रकर्षपदवीमासादयन्ति ।
अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् । अशक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ कारिका३.४६ ॥
अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम् । अशुक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ ४६ ॥
एतद्ध्वनिप्रवर्तनेन निर्णीतं काव्यतत्त्वमस्फुटस्फुरितं सदशक्नुवद्भिः प्रतिपादयितुं वैदर्भी गौडी पाञ्चाली चेति रीतयः प्रवर्तिताः । रीतिलक्षणविधायिनां हि काव्यतत्त्वमेतदस्फुटतया मनाक्स्फुरितमासादिति लक्ष्यते तदत्र स्फुटतया सम्प्रदर्शितेनान्येन रीतिलक्षणेनन किञ्चित् ।
शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वयुजोऽपराः । वृत्तयोऽपि प्रकाशन्ते ज्ञातेऽस्मिन् काव्यलक्षणे ॥ कारिका३.४७ ॥
शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वयुजोऽपराः । वृत्तयोऽपि प्रकाशन्ते ज्ञातेऽस्मिन् काव्यलक्षणे ॥ ४७ ॥
अस्मिन् व्यङ्ग्यव्यञ्जकभावविवेचनमये काव्यलक्षणे ज्ञाते सति याः काश्चित्प्रसिद्धा उपनागारकाद्याः शब्दतत्त्वाश्रया वृत्तयो याश्चार्थतत्त्वसम्बन्द्धाः कैशिक्यादयस्ताः सम्यग्रीतिपदवीमवतरन्ति । अन्यथा तु तासामदृष्टार्थनामिव वृत्तीनामश्रद्धेयत्वमेव स्यान्नानुभवसिद्धत्वम् । एवं स्फुटतयैव लक्षणीयं स्वरूपमस्य ध्वनेः । यत्र शब्दानामर्थानां च केषाञ्चित्प्रतिपत्तृविशेषसंवेद्यं
लोचनं
प्रवर्तिता इत्युत्तरकारिकया सम्बन्धः । अन्ये तु यच्छब्दस्थानेऽअयं” इति पठन्ति । प्रकर्षपदवीमिति । निर्माणे बोधे चेति भावः । व्याकर्तुमशक्नुवद्भिरित्यत्र हेतुःस्फुटं कृत्वा स्फुरितमिति । लक्ष्यत इति । रीतिर्हि गुणेष्वेव पर्यवसिता । यदाहविशेषो गुणात्मा गुणाश्च रसपर्यवसायिन एवेति ह्युक्तं प्राग्गुणनिरूपणेऽशृङ्गार एव मधुरः” इत्यत्रेति ॥ ४५॥ ४६ ॥ प्रकाशन्त इति । अनुभवसिद्धतां काव्यजीवितत्वे प्रयान्तीत्यर्थः । रीतिपदवीमिति ।
बालप्रिया
इत्युक्तेत्यादिकमेकं वाक्यमस्फुटेत्यादिवाक्यान्तरं तत्रैतदित्यनेन ध्वनेः परामर्शश्चेति बोध्यम् । परां प्रकर्षपदवीमासादयन्तीत्यत्र पूरयतिनिर्माणे बोधे चेति । “अस्फुटस्फुरितं सदि"ति वृत्या तत्पदं हेतुगर्भमिति दर्शितं, तदेव स्पष्टयतिव्याकर्तुमित्यादि । “इति लक्ष्यत” इत्युक्तं वृत्तौ तत्कथमित्यत उपपादयतिरीतिर्हित्यादि । इत्यत्र इति ह्युक्तमिति सम्बन्धः ॥ ४५॥ ४६ ॥ अनुभवसिद्धत्वमिति वृत्तौ वक्ष्यमाणं फलितमर्थं मनसिकृत्य विवृणोतिअनुभवेत्यादि । जात्यत्वमिव रत्नविशेषाणां चारुत्वमनाख्येयमवभासते काव्ये तत्र ध्वनिव्यवहार इति यल्लक्षणं ध्वनेरुच्यते केनाचित्तदयुक्तमिति नाभिधेयतामर्हति । यतः शब्दानां स्वरूपाश्रयस्तावदक्लिष्टत्वे सत्यप्रयुक्तप्रयोगः । वाचकाश्रयस्तु प्रसादौ व्यञ्जकत्वं चेति विशेषः । अर्थानां च स्फुटत्वेनावभासनं व्यङ्ग्यपरत्वं व्यङ्ग्यांशविशिष्टत्वं चेति विशेषः । तौ च विशेषौ व्याख्यातुं शक्येते व्याख्यातौ च बहुप्रकारम् । तद्य्वतिरिक्तानाख्येयविशेषसम्भावना तु विवेकावसादभावमूलैव । यस्मादनाख्येयत्वं
लोचनं
तद्वदेव रसपर्यवसायित्वात् । प्रतीतिपदवीमिति वा पाठः । नागरिकया ह्युपमितेत्यनुप्रासवृत्तिः शृङ्गारादौ विश्राम्यति । परुषेति दीप्तेषु रौद्रादिषु । कोमलेति । हास्यादौ । तथा “वृत्तयः काव्यमातृकाः” इति यदुक्तं मुनिना तत्र रसोचित एव चेष्टाविशेषो वृत्तिः । यदाह “कैशिकी श्लक्ष्णनेपथ्या शृङ्गाररसम्भवा” इत्यादि । इयता “तस्याभावं जगदुरपरे” इत्यादाभावविकल्पेषु “वृत्तयो रीतयश्च गताः श्रवणगोचरं, तदतिरिक्तः कोऽयं ध्वनिरि"ति । तत्र कथञ्चिदभ्युपगमः कृतः कथञ्चिच्च दूषणं दत्तमस्फुटस्फुरितमिति वचनेन । इदानीं वाचां स्थितमविषये” इति यदूचे तत्तु प्रथमोद्द्योते दूषितमपि दूषयत्सर्वप्रपञ्चकथने हि असम्भाव्यमेवानाख्येयत्वमित्यभिप्रायेण । अक्लिष्टत्व इति । श्रुतिकष्टाद्यभाव इत्यर्थः । अप्रयुक्तस्य प्रयोग इत्यपौनरुक्त्यम् ।
बालप्रिया
तद्वदेव रीतिवदेव । रीतिपदवीमवतरन्तीत प्रकाशन्त इत्यस्य विवरणमिति वक्तव्यं, तच्च न सम्भवति तयोर्भिन्नार्थत्वात् । किञ्च रीतिपदवीमवतरन्तीत्यत्र काव्यलक्षणज्ञानस्य हेतुत्वमपि दुर्घटमित्यतोऽन्यथैवात्र पाठ इत्याहप्रतीतिपदवीमिति । वृत्तेः रसपर्यवसायितां विशिष्य दर्शयतिनागरिकयेत्यादि । वृत्तौ “यत्रे"त्यादि । रत्नविशेषाणां जात्यत्वमिव प्रतिपत्तृविशेषसंवेद्यं यत्र केषाञ्चिच्छब्दानामर्थानां च चारुत्वमनाख्येयमेवावभासत इत्यन्वयः । “अयुक्तम्” इतीति । अयुक्तत्वाद्धेतोरित्यर्थः । चारुत्वं नाम कश्चिद्विशेष इति वक्तव्यमित्यभिप्रेत्य नाभिधेयतामर्हतीत्युक्तमुपपादयति “यत” इत्यादि । “स्वरूपाश्रय” इति “विशेष” इत्यनेनास्य सम्बन्धः. लोचने वृत्तानुवादपूर्वकमाहैयतेत्यादि । ध्वनिरितीति । यदूचे इत्यस्यात्रापकर्षः । दूषयतीति । यत्रेत्यादिनानूद्य तदयुक्तमित्यादिना ग्रन्थेन दूषयतीत्यर्थः । अभिप्रायेण दूषयतीति सम्बन्धः । अक्लिष्टतत्व इत्येतद्विवृणोतिश्रुतीत्यादि । विवेकावसादभावेत्यंशं सर्वशब्दागोचरत्वेन न कस्यचित्सम्भवति । अन्ततोऽनाख्येयशब्देन तस्याभिधानसम्भवात् । सामान्यसंस्पर्शिविकल्पशब्दागोचरत्वे सति, प्रकाशमानत्वं तु यदनाख्येयत्वमुच्यते क्वचित्तदपि काव्यविशेषाणां रत्नाविशेषाणामिव न सम्भवति । तेषां लक्षणकारैर्व्याकृतरूपत्वात् । रत्नाविशेषाणां च सामान्यसम्भावनयैव मूल्यस्थितिपरिकल्पनादर्शनाच्च । उमयेषामपि तेषां प्रतिपत्तृविशेषसंवेद्यत्वमस्त्येव । वैकटिका एव हि रत्नतत्त्वविदः, सहृदया एव हि काव्यानां रसज्ञा इति कस्यात्र विप्रतिपत्तिः । यत्त्वनिर्देश्यत्वं सर्वलक्षणविषयं बौद्धानां प्रसिद्धं तत्तन्मतपरीक्षायां ग्रन्थान्तरे निरूपयिष्यामः । इह तु ग्रन्थान्तरश्रवणलवप्रकाशनं सहृदयवैमनस्यप्रदायीति न प्रक्रियते । बौद्धमतेन वा यथा प्रत्यक्षादिलक्षणं तथास्माकं ध्वनिलक्षणं भविष्यति । तस्माल्लक्षणान्तरस्याघटनादशब्दार्थत्वाच्च
लोचनं
ताविति शब्दगतोऽर्थगतश्च । विवेकस्यावसादो यत्र तस्य भावो निर्विवेकत्वम् । सामान्यस्पर्शी यो विकल्पस्ततो यः शब्दः दृष्टान्तेऽपि अनाख्येयत्वं नास्तीति दर्शयतिरत्नविशेषाणां चेति । ननु सर्वेण तन्न संवेद्यत इत्याशङ्क्याभ्युपगमेनैवोत्तरयतिउभयेषामिति । रत्नानां काव्यानां च । ननु नार्थं शब्दाः स्पृशन्त्यपीति, अनिर्देश्यस्य वेदकमित्यादौ कथमनाख्येयत्वं वस्तूनामुक्तमिति चेदत्राहयत्त्विति । एवं हि सर्वभाववृत्तान्ततुल्य एव ध्वनिरिति ध्वनिस्वरूपमनाख्येयमित्यतिव्यापकं लक्षणं स्यादिति भावः । ग्रन्थान्तर इति विनिश्चयटीकायां धर्मोत्तर्यां या विवृतिरमुना ग्रन्थकृता कृता तत्रैव तद्व्याख्यातम् ।
बालप्रिया
व्याचष्टेविवेकस्येत्यादि । सामान्येत्यादिकं विवृणोतिसामान्येत्यादि । सामान्यसंस्पर्शोति । जात्यादिसामान्यावगाहीत्यर्थः । विकल्प इति । सविकल्पकज्ञानमित्यर्थः । ततो यश्शब्द इति । तद्धेतुको व्यवहारात्मको यश्शब्द इत्यर्थः । नास्तीति दर्शयतीति । रत्नविशेषाणां जात्यत्वादिसामान्यस्य सम्भावनयैव मूल्यपरिकल्पनाया दर्शनादिति भावः । तदिति । जात्यत्वं चारुत्वञ्चेत्यर्थः । तद्ग्रन्थान्तरे निरूपयिष्याम इत्युक्त्या सूचितमनिर्देश्यत्वरूपलक्षणस्य दोषं दर्शयतिएवं हीत्यादि । सर्वभावेति । सर्वपदार्थेत्यर्थः । इति लक्षणमतिव्यापकं स्यादिति सम्बन्धः । मयैवेत्यर्थ इति । अनेन “अनाख्येये"त्यादेः परिकरश्लोकत्वं दर्शितम् । अनाख्येयांशस्येति । अनाख्येयो योऽशिः स्वरूपांशः तस्येत्यर्यः । भास इति । क्वचित्ग्रन्थे भाव इति च पाठः । तत्पक्षे अनाख्येयांशभावित्वमिति श्लोके तस्योक्तमेव ध्वनिलक्षणं साधीयः । तदिदमुक्तमनाख्येयांशभासित्वं निर्वाच्यार्थतया ध्वनेः । न लक्षणं, लक्षणं तु साधीयोऽस्य यथोदितम् ॥ इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके तृतीय उद्द्योतः ॥
लोचनमुक्तमिति । संग्रहार्थं मयैवेत्यर्थः । अनाख्येयांशस्याभासो विद्यते यस्मिन् काव्ये तस्य भावस्तन्न लक्षणं ध्वनेरिति सम्बन्धः । अत्र हेतुःनिर्वाच्यार्थतयेति । निर्विभज्य वक्तुं शक्यत्वादित्यर्थः । अन्यस्तु “निर्वाच्यार्थतया” इत्यत्र निसो नञर्थत्वं परिकल्प्यानाख्येयांशभासित्वेऽयं हेतुरिति व्याचष्टे, तत्तु क्लिष्टम् । हेतुश्च साध्याविशिष्ट इत्युक्तव्याख्यानमेवेति शिवम् । काव्यालोके प्रथां नीतान् ध्वनिभेदान् परामृशत् । इदानीं
लोचनं
लोकान् कृतार्थान्संविधास्यति ॥ आसूत्रितानां भेदानां स्फुटतापत्तिदायिनीम् । त्रिलोचनप्रियां वन्दे मध्यमां परमेश्वरीम् ॥ इति श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तान्मीलिते सहृदयालोकलोचने ध्वनिसङ्केते तृतीय उद्द्योतः ॥ ऋऋऋऋऋ
बालप्रिया
पठनीयम् । तदिति । अनाख्येयस्वरूपत्वमित्यर्थः । निर्वाच्यार्थतयेति निर्वाच्यांशतयेति वा पाठः । निरित्यस्य विवरणम्विभज्येति । दूषणान्तरमाहहेतुश्चेत्यादि । साध्याविशिष्ट इति । साध्यादभिन्न इत्यर्थः । काव्यालोका इति । प्रथां नीतानिति । विस्तृतानित्यर्थः । परामृशदिति हेतुगर्भंम् । लोचनमित्यादि । यथा नयनं लोकान् कृतार्थान् विदधाति, तथेदं व्याख्यानमिति भावः । आसूत्रितानामिति । आसूत्रितानां भेदानां सम्यक्सूत्रैर्निर्दिष्टानां ध्वन्यादिभेदरूपाणां काव्यवाणीनां या स्फुटतापत्तिः । स्फुटत्वप्राप्तिस्तद्दायिनीम् । मध्यमा हि वैखर्याः स्फुटत्वं ददाति । मध्यमामिति । मध्यमारूपामित्यर्थः । शुभमस्तु सर्वं शिवमिति श्रीरामशारकरचितायां लोचनटिप्पण्यां तृतीय उद्द्योतः ॥