श्रीमल्लक्ष्यसंगीतम्

[[श्रीमल्लक्ष्यसंगीतम् Source: EB]]

[

[TABLE]

—————————————————————————————————————————
Printed at the Arya-Bhushan Press, H N 936/3, Bhamburda
Peth Poona, by Mr.Anant Vinayak Patyardhan,
AND
Pablished by Mr Bhalachandra Sitaram Sulathankar MA, LL B
6 Malabar Hill, Bombay.

—————————————————————————————————————————

[TABLE]

श्री.

श्रीगणेशायनमः ॥ श्रीसरस्वत्यैनमः ॥ श्रीगुरुभ्योनमः

अथ श्रीमल्लक्ष्यसंगीतप्रारंभः ।

। मंगलाचरणम् ।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।

सर्वविघ्नोपशान्त्यर्थं लक्ष्यसंगीतमारभे ॥१॥

श्रीब्रह्माद्यैरर्चिता या सुरेंद्रेर्भक्तिश्रद्धाभावयुक्तैःसदैव ।

प्राचीनार्वाचीनसंगीततत्त्वस्फूर्त्यै तां श्रीशारदांनौम्यभीष्टाम् ॥२॥

श्रीसद्गुरोस्तस्य पदारविंदद्वंद्व तमोनुत्तय आशु वंदे।

यस्यानुकंपा सहसैव मूकं करोति वाचालमिति प्रथेयम् ॥ ३ ॥

संगीतपूर्वसूरीणां महतामप्यनुज्ञया ।

धैर्यमालंब्य कुर्वेऽमुं प्रबंधंस्वान्तशुद्धये ॥ ४ ॥

**प्रथमाध्यायः । **

अथ श्रीलक्ष्यसंगीतप्रथमाध्याय ईर्यते।

चतुराख्येन भरतपूर्वखंडनिवासिना ॥५॥

निर्मथ्यातिप्रयत्नेन मतभेदपयोनिधिम् ।

धतुरामिमतां वक्ष्ये हिंदुस्थानीयपद्धतिम् ॥६॥

प्रणाल्यौ तु प्रसिद्ध द्वेसंगीतस्य विदांमते ।

आद्या कर्णाटकी ख्याता हिंदुस्थानी तथापरा ॥ ७ ॥

कर्णाटकप्रणाली या सा मद्रासनिबंधिनी।

अन्यत्र सर्वतो हिंदुस्थानीया बहुसंमता ॥ ८॥

तत्र तत्र प्रदेशेषु वैमत्यं संभवेत्क्वचित् ।

सामान्यतस्तु सैकैव पद्धतिर्विदुषां मते ॥९॥

संगीतम्

गीतं वाद्यं तथा नृत्यं त्रयं संगीतमुच्यते ।

मार्गदेशीविभागेन संगीतं द्विविधं मतम् ॥ १० ॥

मार्गो देशीति तद्द्वेधा तत्र मार्गः स उच्यते ।

यो मार्गितो विरिंच्याद्यैः प्रयुक्तो भरतादिभिः ॥ ११ ॥

देवस्य पुरतः शंभोर्नियताभ्युदयप्रदः ।

देशे देशे जनानां यद्रुच्या हृदयरंजकम्॥

गानं च वादनं नृत्यं तद्देशीत्यभिधीयते ॥ १२॥

संगीतरत्नाकरे ॥

गीतं वाद्यं नर्तनं च त्रयं संगीतमुच्यते ।

मार्गदेशीविभागेन संगीतं द्विविधं मतम् ॥ १३ ॥

द्रुहिणेन यदन्विष्टं प्रयुक्तं भरतेन च ।

महादेवस्य पुरतस्तन्मार्गाख्यं विमुक्तिदम् ॥ १४ ॥

तत्तद्देशस्थया रीत्या यत्स्याल्लोकानुरंजनम् ।

देशे देशे तु संगीतं तद्देशीत्यभिधीयते ॥ १५ ॥

संगीतदर्पणे ॥

गीतं द्वेधा मार्गो देशी मार्गः स यो विरिंच्याद्यैः।

अन्विष्टो भरताद्यैःशंभोरग्नेप्रयुक्तोऽर्च्यः॥ १६ ॥

देशे देशे रुच्या यज्जनहृद्रंजनं तु सा देशी।

स तु लोकरुचिविकलितः प्रायो लक्ष्यात्रदेशी तत् ॥१७॥

रागविबोधे॥

अबलाबालगोपालैः क्षितिपालैर्निजेच्छया।

गीयते यानुरागेण स्वदेशे देशिरुच्यते ॥१८॥

संगीतदर्पणे॥

मार्गितंप्रथमाचार्यैर्निबद्धं नियमोत्तमैः।

अतिशुद्धस्वरूपं तत् सांप्रतं नैव गोचरम् ॥ १९ ॥

व्यवहारेऽधुना यत्तु संगीतं परिदृश्यते ।

तत्सर्वं देशिसंज्ञं स्यादित्याहुर्लक्ष्यवेदिनः ॥ २० ॥

टिप्पनी।

ग्रंथेषु तु पुराणेषु श्रेष्ठो रत्नाकरो मतः ।

तत्राप्यंगीकृतं देश्याः प्राधान्यं शास्त्रकारिणा ॥२१॥

पूर्वप्रसिद्धसंगीतं प्रसिद्धमधुना च यत् ।

द्विविधं वर्णितं तत्र संगीतं सुपरिस्फुटम् ॥ २२ ॥

शार्ङ्गदेवस्य कालेऽपि संगीतं देशिसंज्ञितम् ।

आसीत्प्रचलितं लोक इति तर्कयितुं क्षमम् ॥ २३ ॥

शार्ङ्गदेवानुगाश्चापि तद्विनिर्मितपद्धतिम् ।

यथायोग्यप्रमाणेन नैवज्ञातुमशक्नुवन् ॥२४॥

चतुर्दंडिप्रकाशाख्ये ग्रंथे व्यंकटपंडितः।

प्राचीनरागविषये सुस्पष्टमिदमब्रवीत् ॥२५॥

" रागास्तावद्दशविधा भरताद्यैरुदीरिताः ।

ग्रामरागाश्चोपरागा रागा भाषाविभाषिकाः ॥ २६ ॥

तथैवान्तरभाषारया रागांगाख्यास्ततःपरम् ।

भाषांगानि क्रियांगानि चोपांगानि पुनः क्रमात् ॥ २७ ॥

दशस्वेतेषु रागेषु ग्रामरागादयः पुन ।

रागास्त्वन्तरभाषान्ता मार्गरागा भवन्ति षट् ॥ २८॥

ततो गंधर्वलोकेन प्रयोज्यास्ते व्यवस्थिताः।

तस्माद्रागांगभाषांगक्रियांगोपांगसंज्ञिकाः ।

रागाश्चत्वार एवैते देशिरागा प्रकीर्तिताः ॥ २९॥"

रागांगादिचतुष्कंतु सांप्रतं स्यात्सुगोचरम् ।

संगीते दाक्षिणात्यानामिति सर्वत्र संमतम् ॥ ३०॥

मूर्छनाया रहस्यं तद्रत्नाकरप्रपंचितम् ।

स्फुटमेवाभवद्बोद्धुंन शक्त. कोऽपि पंडितः ॥ ३१॥

जातिप्रकरणं चापि रत्नाकरनिरुपितम् ।

अनेकानुकृतं सद्यो ज्ञातुं शक्तो न कोऽपि तत् ॥ ३२॥

संगीतसमयसारे चंद्रिकायां सुधाकरे।

चूडामणिशिरोमण्यो रत्नाकरानुवर्तनम् ॥ ३३ ॥

लेखकैस्त्वपुराणैस्तैर्दृश्यतेऽनुकृतो भृशम् ।

रत्नाकरस्वराध्यायो रागाध्यायस्त्वनादृतः ॥ ३४॥

दामोदरस्तथा सोमनाथो रत्नाकरानुगौ ।

रागाध्यायमनादृत्य चक्रतुर्ग्रन्थनिर्मितिम् ॥ ३५॥

अहोबलव्यंकटेशरामामात्यतुलाधिपाः ।

स्वतंत्रा राग निर्देशे दोषभाजो न मे मते ॥ ३६॥

पुंडरीको भावभट्टो लोचनो हृदयस्तथा।

लक्ष्यमार्गमनुसृत्य स्वस्वग्रंथानकुर्वत ॥ ३७ ॥

रागलक्षणकाराद्या बहवोऽन्ये परिस्फुटम् ।

विपये तत्ररागाणां स्वातंत्र्य दर्शयन्ति ते ॥ ३८॥

श्रीमद्रत्नाकरप्रोक्तरागाध्यायाशयोऽखिलः ।

स्वश्लोकैर्ग्रथितः कैश्चिद्ग्रंथकारैरसंशयम् ॥ ३९ ॥

तदाशयस्तथाप्येतैरवबुद्धो यथार्थतः ।

इति तल्लेखतो नैव प्रतिभाति कथंचन ॥ ४० ॥

गूढं गूढतरं भावं प्रापयितुमसंशयम् ।

नैवोचितं कदाचित्स्याद्धीमतामिति मे मतिः ॥ ४१ ॥

प्राचीनशास्त्रकेऽज्ञाते संगीतपरिवर्तनात् ।

वस्तुस्थितिरुदाहार्या ग्रंथकृद्भिरमायया ॥ ४२ ॥

परिवर्तनशीलं यत्संगीतं ग्रंथकर्तृभिः।

नष्टप्रायंपुराणं तत्स्पष्टीकर्तुं न शक्यते ॥ ४३ ॥

नावशक्यं हि तत्किंतुयया कयापि भाषया ।

असामंजस्यवृद्धिस्तु नाभीष्टेति ब्रवीम्यहम् ॥ ४४ ॥

रत्नाकरोक्तरागेषुव्याख्याता जातिमूर्छनाः ।

रागमेलास्तदुत्पन्ना नैव कुत्राप्यवेक्षिताः ॥ ४५ ॥

अज्ञाते ग्रामरागोक्तमेले ग्रंथो निरर्थकः ।

मेलास्तु जनकाः प्रोक्ता रागाणामिति संमतम् ॥ ४६॥

रागादीनामुदीर्यन्ते नानाग्रंथेषु मूर्तयः ।

तत्र तेषांच रागाणां न स्वराद्युपलभ्यते ॥ ४७ ॥

ग्रंथाः संगीतदृष्ट्या ते केवलं निष्फला मताः।

मूर्तितास्ते कथं मेला इत्यप्युल्लेखमर्हति ॥ ४८ ॥

हनूमन्मतमद्यापि प्रचरत्यत्र लक्ष्यके।

एतत्समर्थनं नित्यं श्रूयते गायकैः कृतम् ॥ ४९ ॥

को ग्रंथस्तन्मतस्य स्यात्किंच तत्राभिधीयते ।

इत्येवं नैव स्वप्नेऽपि तेषां समुपलभ्यते ॥ ५० ॥

जाने नाक्षेप इष्टः स्याद्ग्रंथकारोक्तिषुभृशम् ।

नार्थः स्याद्गोपने वस्तुस्थित्यास्तथापि मे मते ॥ ५१ ॥

जातिप्रकरणस्योपयोगः सम्यक्तया तथा।

यत्र स्पष्टतया प्रोक्तः स ग्रंथो नोपलभ्यते ॥५२॥

विद्यते ह्यभिमानो मे ग्रंथोपरि महत्तरः।

तदभ्यासे प्रयत्नोऽपि यथाशक्ति मया कृतः ॥५३॥

रत्नाकरोक्तरागाणां युक्तमेलनिरूपणे ।

प्रयत्नो न कृतः कैश्चिदिति लक्ष्यज्ञसंमतम् ॥ ५४॥

अतस्ते क्रीदृशा रागा भवेयुरिति तत्त्वतः।

ज्ञातं तैरथवा नेति शंकास्पदं भवेद्धुवम् ॥५५॥

ते स्वकालीनसंगीतनिपुणाः स्युरसंशयम् ।

नावश्यं तेन ते रत्नाकरसंगीतपारगाः ॥ ५६ ॥

संगीतदर्पणे नैव समीचीनतया पुनः।

मूर्छनानां विवेकोऽपि सत्कृतो रागनिर्णये ॥ ५७ ॥

रत्नाकराभिधं ग्रंथं पठतो यस्य कस्यचित् ।

पुरतः प्रस्फुरन्त्येव प्रश्ना एवंविधाः स्वयम् ॥५८॥

श्रुतिजात्युपयोगः क्व क्रियेत नियमैश्च कैः।

मेला आधुनिकाःके स्युर्मध्यमग्रामसंज्ञिताः ॥ ५९ ॥

मध्यमग्रामगा रागाः प्रचरंति न वाऽधुना ।

प्रचारेऽप्येकवाक्यत्वं भवेद्रत्नाकरस्य किम् ॥६०॥

साधारणाप्रकरणं ग्रामरागनिरूपणे ।

उपयोगि कथं भूयादिति कुत्रापि नोदितम् ॥ ६१ ॥

मृदुगनियुता रागाः के स्यू रत्नाकरोदिताः ।

तीव्रमध्यमयुक्ताः के किं स्यात्तेषांसमर्थनम् ॥ ६२॥

मेला ग्रामाख्यरागाणां कीदृशा लक्ष्यवर्त्मनि ।

कथमेते च सिद्धेयुरित्युदाह्रियतामिह ॥ ६३ ॥

यथार्था मूर्छनाटीका कल्लिनाथकृताऽस्ति किम् ।

तथात्वे कीदृशा मेला सिद्धेयुरिति कथ्यताम् ॥ ६४ ॥

प्रतिरागमलंकारा निश्चिताः किमितीर्यताम् ।

रहस्यं शुद्धतानानां किमासीदित्युदीर्यताम् ॥ ६५॥

रागाध्याये किमप्येषां समुल्लेखो न लभ्यते।

केषुचिच्छुद्धतानेषुकुतः षड्जविवर्जनम् ॥ ६६॥

रागतत्स्त्र्यादिरचना तत्त्वमाश्रित्य किं कृता ।

रागमिश्रणमानानि तत्रज्ञेयान्यथो कथम् ॥६७॥

अपेक्षा मध्यमग्रामस्यासीत् प्राक्विंन साऽधुना ।

किमासीत्तीव्रमस्यात्रसंबंधो रागमेलने ॥ ६८॥

एवं स्युः कतिचित् प्रश्ना अर्वाचीनविदां हृदि ।

ज्ञानसामग्र्यभावे तु किं ते ब्रूयुस्तपस्विनः ॥६९॥

दुर्बोधांशं परित्यज्य प्रचारमनुसृत्य च ।

यत्तेषांग्रंथनिर्माणं समीचीनं हि मे मते ॥ ७०॥

स्वाभिप्रायं सदा स्पष्टं जानीयुः सकला जनाः ।

एतदेव भवेद्ध्येयं ग्रंथानामित्यसंशयम् ॥ ७१ ॥

रागपूर्वविबोधोऽथ चतुर्दंडिकलानिधी ।

तरंगिणी तथा रागमंजरी पारिजातकः ॥ ७२॥

कौमुदी तत्त्वबोधोऽपि हृत्प्रकाशश्च कौतुकम् ।

ग्रंथानेतान् प्रकुर्वाणा यान्ति ते धन्यतां ध्रुवम् ॥७३॥

निर्व्याजं निर्भयं स्पष्टं प्रोक्तानि स्वमतानितैः।

अकारि च समीचीनं यद्दृष्टं लक्ष्यवर्त्मनि॥७४॥

ननु नावगताः सम्यग् ग्रंथास्त इति चेन्मतम् ।

तदास्मल्लेखजाद्वादादिष्टः स्यात्तत्त्वनिर्णयः ॥ ७५॥

—————

संगीतं ग्रंथगं लक्ष्यगं भाविगमिति त्रिधा।

ग्रंथगेऽन्तर्गतं सर्व संगीतं शास्त्रगोचरम् ॥७६॥

यदिदानींप्रचरति लक्ष्यसंगीतमेव तत् ।

एतावदेव ग्रंथेऽस्मिन्नान्यच्छास्त्ररहम्यकम् ॥ ७७॥

केनोपायेनाधुनिकं लक्ष्यसंगीतमाश्विदम्।

अवगन्तव्यमित्येव साध्यमत्र न संशयः ॥ ७८॥

——————

संगीतप्रशस्तिः

सामवेदादिदं गीतं मंजग्राह पितामहः ॥ ७९ ॥

गीतेन प्रीयते देवः सर्वज्ञः पार्वतीपतिः।

गोपीपतिरनन्तोऽपि वंशध्वनिवशंगतः ॥८0॥

सामगीतिरतो ब्रह्मा वीणासक्ता सरस्वती।

किमन्ये यक्षगंधर्वदेवदानवमानवाः॥८१॥

अज्ञातविषयाम्बादो बालःपर्यकिकागतः।

रुदन्गीतामृतं पीत्वाहर्षोत्कर्षंप्रपद्यते॥ ८२ ॥

वनेचरस्तृणाहारश्चित्रंमृगशिशुः पशुः।

लुब्धोलुब्धकर्मगीते गीते त्यजति जीयितम् ॥ ८३॥

तस्य गीतस्य माहात्म्यंके प्रशंसितुमीशते ।

धमार्थकाममोक्षाणामिदमेवेकसाधनम् ॥ ८४ ॥

रत्नाकरे

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः।

तालज्ञश्चाप्रयासेन मोक्षमार्गंच गच्छति ॥५५॥

——————

साहित्यसंगीतकलाविहीनः

साक्षात्पशुः पुच्छविषाणहीनः ।

तृणं न खादन्नपि जीवमानः

तद्भागधेयं परमं पशूनाम् ॥ ८६ ॥

सुखिनि सुखनिदानं दुःखितानां विनोदः

श्रवणहृदयहारी मन्मथस्याग्रदूतः ॥

अतिचतुरसुगम्यो बल्लमः कामिनीनाम्

जयति जयति नादः पंचमश्चोपदः॥ ८७ ॥

अथ नादः ।

गीतं नादात्मकं वाद्यं नादव्यक्त्याप्रशम्यते।

तद्द्वयानुगतं नृत्तं नादाधीनमतस्त्रयम् ॥८८॥

नादेन व्यज्यते वर्णः पदं वर्णात्पदाद्वचः।

वचसा व्यवहारोऽयं नादाधीनमतो जगत् ॥ ९९॥

सर्वसंगीतशास्त्रस्य नादो जीवितमीरितम् ।

अतो नादस्य माहात्म्यं व्यारयातुं केन शक्यते ॥ ९०॥

——————

नादस्थानानि ।

व्यवहारे त्वसौत्रेधा हृदि मंद्रोऽभिधीयते।

कंठे मध्यो मूर्ध्नितारो द्विगुणश्वोत्तरोत्तरः ॥ ११ ॥

——————

अथ श्रुतयः।

तस्य द्वाविंशतिर्भेदाः श्रवणाच्छ्रुतयो मताः।

हृद्यूर्ध्वनाडीसंलग्ना नाड्यो द्वाविंशतिर्मताः ॥ ९२ ॥

तिरश्चयस्तासु तावत्यः श्रुतयो मारुताहताः।

उच्चोच्चतरतायुक्ताः प्रभवन्त्युत्तरोत्तरम् ॥

एवं कंठे तथा शीर्षे श्रुतिद्वाविंशतिर्मता ॥१३॥

रत्नाकरे ॥

——————

श्रुतिलक्षणम् ।

नित्यं गीतोपयोगित्वमभिज्ञेयत्वमप्युत।

लक्ष्यविद्भिः समादिष्टं पर्याप्तं श्रुतिलक्षणम्॥ ९४ ॥

प्रतिस्थानसमासक्ता श्रुतिद्वाविंशतिर्मता।

संगीताद्यस्वराणां स्यात्संमता जन्मभूरसौ ॥ ९५॥

——————

श्रुतिप्रमाणादिव्यक्त्यर्थं वीणानिदर्शनम् ।

व्यक्तये कुर्महे तासां वीणाद्वंद्वेनिदर्शनम।

द्वेवीणे सदृशे कार्येयथा नादः समो भवेत् ॥९६॥

तयोर्द्वाविंशतिस्तंत्र्यः प्रत्येकं तासु चादिमा ।

कार्या मंद्रतमध्वाना द्वितीयोच्चध्वनिर्मनाक्।

स्यान्निरन्तरता श्रुत्योर्मध्ये ध्वन्यन्तराश्रुतेः ॥९७॥

रत्नाकरे ॥

——————

कल्लिनाथकृतटीकायाम् ।

आदिमा प्रथमा तंत्री। मंद्रतमध्वाना अतिमंद्रस्वना। उत्तरोतरापेक्षया पूर्वपूर्वस्य मंद्रत्वे संभवत्यपि सर्वापेक्षयेयं मंद्रेतियोगः। अतिमंद्रत्वं च तंत्र्या अतिशिथिलीकरणेन भवति। ++या तंत्री मनागुच्चध्वनिः कार्या। मनागुच्चध्वनित्वस्यैव ++स्थापकं स्यान्निरन्तरतेति। श्रुत्योः पूर्वोत्तरतंत्र्युत्पन्नयोर्मध्ये न्यंतरराश्रुेर्ध्वन्यन्तरस्य पूर्वोत्तरश्रुतिविलक्षणस्य पूर्वश्रुतेः किंचिस्योत्तरश्रुतेः किंचिन्नीचस्यान्यध्वनेरश्रुतिरश्रवणम्। मध्यगतन्यन्तराश्रवणं निमित्तीकृत्य श्रुत्योर्निरन्तरता यथा स्यात्तथा। किंचिद्दृढीकरणेन मनागुञ्चध्वनिः कार्येत्यर्थः। अत्र नैरन्तर्यंन्योरेवोक्तम्।

तथा हि भरतकृतनाट्यशास्त्रे।

अथ ग्रामौ। षड्जग्रामो मध्यमग्रामश्चेति। तत्र वा द्वाविंतेः श्रुतयः। यथा–

तिस्रोद्वे च चतस्रश्च चतस्रस्तिस्र एव च।

द्वे चतस्रश्च षडाजख्ये ग्रामे श्रुतिनिदर्शनम्॥ ९८॥

मध्यमग्रामे तु श्रुत्यपकृष्टः पंचमः कार्यः। पंचमश्रुत्युत्कर्षा प्रकर्षाद्वा यदन्तरं भार्दवादायतत्वाद्वा तत्प्रमाणश्रुतिः।

निदर्शनं त्वासामभिव्याख्यास्यामः। यथा-द्वे वीणे तुल्यमाणतंत्र्युपवादनदंडमूर्छने षड्जयामाश्रिते कार्ये। तयोरेकतरस्यां ‘ध्यमग्रामिकीं कृत्वा पंचमस्यापकर्षे श्रुतिंतामेव पंचमवशात् डूजग्रामिकीं कुर्यात्। एवं श्रुतिरपकृष्टा भवति। पुनरपि तद्वदेवाप-
कर्षाद्रांधारनिषादवन्तावितरस्यां धैवतर्षभौ प्रविशतो द्विश्रुत्यधिकवात्। पुनस्तद्वदेवापकर्षाद्धैवतर्पभावितरस्यां पंचमषड्जौप्रविशतस्त्रेश्रुत्यधिकत्वात्। तद्वत्पुनरपकृष्टायां तस्यां पंचममध्यमषड्जाइतरस्यां मध्यमगांधारनिपादवन्तः प्रवेक्ष्यन्ति चतुःश्रुत्यधिकत्यात।एवमनेन श्रुतिनिदर्शनेन द्वैग्रामिक्यो द्वाविंशतिश्रुतयः प्रत्यवगन्तव्याः।

सिंहभूपालकृतटीकायाम्ः-

यथा मध्ये विसदृशं ध्वन्यन्तरं नोत्पद्यते तथा नैरंतर्यं विधेयम्। तदुक्तम्। “द्वितीया तु तंतस्तीव्रध्वनिस्तंत्री विधीयते। तथा यथा तयोर्मध्ये तृतीयो न ध्वनिर्भवेत्। “श्रुतेः प्रमाणमुक्तं मतंगेन। ननु श्रुतेः किं प्रमाणम्? । उच्यते। पंचमस्तावद्वामद्वयस्थो लोके प्रसिद्धः। तस्योत्कर्षणापकर्षणाभ्यां मार्दवादायतत्वाद्वा यदन्तरं तत्प्रमाणश्रुतिः ।

श्रुतिषुस्वरस्थापनापकारः। रत्नाकरे।

अधराधरतीव्रास्तास्तज्जो नादः श्रुतिर्मतः ।

वीणाद्वये स्वराः स्थाप्यास्तत्रपड्जश्चतुःश्रुतिः ॥ ९९॥

स्थाप्यस्तंत्र्यांतुरीयायामृपभस्त्रिश्रुतिस्ततः ।

पंचमीतस्तृतीयायां गांधारो द्विश्रुतिस्ततः॥ १०० ॥

अष्टमीतो द्वितीयायां मध्यमोऽथ चतुःश्रुतिः ।

दशमीतश्चतुर्थ्यांस्यात्पंचमोऽथ चतुःश्रुतिः ॥ १॥

चतुर्दशीतस्तुर्यायां धैवतस्त्रिश्रुतिस्ततः ।

अष्टादश्यास्तृतीयायां निपादो द्विश्रुतिस्ततः ॥२॥

एकविंश्या द्वितीयायां वीणेकाऽत्र ध्रुवा भवेत् ।

चलवीणा द्वितीया तु तस्यां तंत्रीस्तु सारयेत् ॥३॥

श्रुतिस्वरेयत्तापरिज्ञानार्थं चलवीणायां सारणाप्रकारः।

स्वोपान्त्यतंवीमानेयास्तस्यां सप्तस्वरा बुधैः।

ध्रुववीणास्वरेभ्योऽस्यां चलायां ते स्वरास्तदा ॥४॥

एकश्रुत्यपकृष्टाः स्युरेवमन्यापिसारणा।

श्रुतिद्वयलयादस्यां चलवीणागतौगनी ॥ ५॥

ध्रुववीणोपगतयो रिधयोर्विशतः क्रमात् ।

तृतीयस्यां सारणायां विशतः सपयो रिधौ ।

निगमेषुचतुर्थ्यांतु विशन्ति समपाः क्रमात् ॥ ६॥

सारणाफलमाह।

श्रुतिद्वाविंशतावेवं सारणानां चतुष्टयम् ।

ध्रुवाश्रुतिषुलीनायामियत्ता ज्ञायते स्फुटम्॥ ७ ॥

नाट्यशास्त्रे तथा रत्नाकरग्रंथेऽपि सर्वथा ।

श्रुतयः स्युः समानास्ता इतिसंगीतविन्मतम् ॥ ८॥

श्रुतिनामानि ।

तीव्राकुमुदतीमंदाछंदोवत्यस्तु षड्जगाः ।

दयावती तु रेर्ज्ञेया रंजनी रक्तिकेत्यमूः॥ १॥

रौद्री क्रोधीति गांधारे वज्रिकाऽथ प्रसारिणी ।

प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥१०॥

क्षिती रक्ता च संदीपिन्यालापिन्यपि पंचमे ।

मदन्ती रोहिणी रम्येत्येतास्तिस्रस्तु धैवते ।

उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ॥ ११ ॥

श्रुतिवंटननियमः।

चतुश्चतुश्चतुश्चैव षड्जमध्यमपंचमाः।

द्वेद्वे निषादगांधारौ त्रिस्त्रीरिषभधैवतौ ॥ १२ ॥

यदि द्वाविंशतिः प्रोक्ताः श्रुतयः पूर्वसूरिभिः ।

व्यवहारे न ताः सर्वाः प्रयुक्तास्तैरितिस्फुटम् ॥ १३॥

सौकर्यार्थं स्वराणां चापराः संज्ञाः समादृताः ।

सरिगमपधनीतिसंक्षिप्ता लक्ष्यवर्त्मनि ॥ १४॥

प्राचीनग्रंथकारसंमतं वीणादंडे शुद्धस्वरस्थापनम् ।

श्रुतिनामानि शुद्धस्वराः
तीव्रा
कुमुद्वती
मदा
छंदोवती शुद्धषड्जः
दयावती
रंजनी
रक्तिका शुद्धषड्जः
रौद्री
१० कोधी शुद्धगाधारः
११ वञ्जिका
१२ प्रसारिणी
१३ प्रीतिः
१४ मार्जनी शुद्धमध्यमः
१५ क्षिति.
१६ रक्ता
१७ सदीपिनी
१८ आलापिनी शुद्धपचम.
१९ मदंती
२० रोहिणी
२१ रम्या शुद्धधैवतः
२२ उग्रा
२३ क्षोभिणी शुद्धनिषादः
तीव्रा
कुमुद्वती
मदा
छंदोवती शुद्धषड्जः

ग्रामाः।

ग्रामः स्वरसमूहः स्यान्मूर्छनादेः समाश्रयः।

तौ द्वौ धरातले प्रोक्तौ षड्जग्रामोऽत्र चादिमः ॥ १५॥

द्वितीयो मध्यमग्रामस्तयोर्लक्षणमुच्यते।

षड्जग्रामः पंचमे स्वचतुर्थश्रुतिसंस्थिते ॥ १६॥

स्वोपान्त्यश्रुतिसंस्थेऽस्मिन्मध्यमग्राम इष्यते।

यद्वा धस्त्रिश्रुतिः षड्जे मध्यमे तु चतुःश्रुतिः॥ १७॥

रिमयोः श्रुतिमेकैकां गांधारश्चेत्समाश्रितः।

पश्रुतिं धो निषादस्तु धश्रुतिंसश्रुतिं श्रितः ॥ १८॥

गांधारग्राममाचष्टे तदा तं नारदो मुनिः ।

प्रवर्तते स्वर्गलोके ग्रामोऽसौ न महीतले ॥ १९ ॥

रत्नाकरे ।

अथ ग्रामौ-षड्जग्रामो मध्यमग्रामश्च । तत्र वाद्वाविंशतिश्रुतयः । यथा–

तिस्रो द्वे च चतस्रश्च चतस्रस्तित्र एव च ।

द्वे चतस्रश्च षड्जाख्ये ग्रामे श्रुतिनिदर्शनम् ॥ २०॥

षड्जश्चतुःश्रुतिर्ज्ञेय ऋषभस्त्रिश्रुतिस्तथा ।

द्विश्रुतिश्चैव गांधारो मध्यमश्च चतुःश्रुतिः ॥ २१॥

चतुःश्रुतिः पंचमः स्याद्धैवतस्त्रिश्रुतिस्तथा ।

निषादो द्विश्रुतिश्चैव षड्जग्रामे भवन्ति हि ॥ २२ ॥

चतुःश्रुतिस्तु विज्ञेयो मध्यमः पंचमः पुनः ।

विश्रुतिर्धैवतस्तु स्याच्चतुःश्रुतिक एव हि ॥ २३ ॥

निषादषडेजौविज्ञेयौ द्विचतुःश्रुतिसंभवौ।

ऋषभस्त्रिश्रुतिश्च स्याद्गांधारो द्विश्रुतिस्तथा॥२४॥ नाट्यशास्त्रे ।

ग्रामेष्वेतेषुगांधारग्रामो नास्ति महीतले।

स्वर्गलोके वर्ततेऽसौ सर्वेषामेव संमतम् ॥ ३४ ॥

अस्माभिर्मध्यमग्रामोऽप्यसत्प्राय इतीर्यते ।

तथा हि मध्यमग्रामे त्रिश्रुतिः पंचमः खलु ॥ ३५॥

वरालीमध्यमो जातः स पुनर्लक्ष्यवर्मनि ।

मध्यमादिप्रभृतिषु मध्यमग्रामजन्मसु ॥३६ ॥

रागेषु दृश्यते नैव वरालीमध्यमस्ततः ।

अयुक्तो मध्यमग्रामो लक्ष्यमार्गविरोधतः ॥३७॥

एक एव ततः षड्जग्राम इत्यवधार्यते ।

षड्जग्रामोद्भवा रागा इत्यनेन निरूपितम् ॥ ३८॥

चतुर्दडिप्रकाशिफायाम् ।

भरतेनोदिते शास्त्रे ग्रामौ द्वौ षड्जमध्यमौ

षड्जग्रामः पंचमे तु सप्तदश्यां श्रुतौ स्थिते ॥ ३९॥

स्वरेऽस्मिन् पंचमे किंतु षोडशीं श्रुतिमाश्रिते ॥

तदैव मध्यग्रामः सोऽत्र लक्ष्ये न दृश्यते ॥४० ॥

षड्जग्रामाश्रितान् रागान् सर्वे गायन्ति गायकाः ।

तस्मान्मुख्यतमः षड्जग्रामोऽसौ नैव मध्यमः ॥४१॥

संगीतसारामृते ।

टिप्पनी।

चतुश्चतुश्चतुश्चैव षड्जमध्यमपंचमाः ।

द्वे द्वे निषादगांधारौ त्रिस्त्री रिषभधैवतौ ॥ ४२॥

एनयैव व्यवस्थित्या पुराणैरपुराणकैः ।

ग्रंथकारैःसमादिष्टः षड्जग्रामाभिधः सदा ॥४३॥

पद्धत्यां दाक्षिणात्यानां मेलःशुद्धस्वरान्वितः ।

मुखारीति प्रसिद्धः स्यात्कनकांगीति वाऽधुना ॥ ४४ ॥

पंडितैर्मध्यकालीनैर्हृदयाहोबलादिभिः।

निश्चितः शुद्धमेलोऽत्र धनाश्रीः सैंधवोऽथवा ॥ ४५ ॥

शुद्धस्थानान्ययुक्तानि दृष्ट्वाऽस्मिन् पंडितैः पुनः ।

हिंदुस्थानीयपद्धत्यां श्रुतिक्रमविपर्ययात् ।

वेलावल्यभिधो मेलः शुद्धनाम्ना समाहतः ॥ ४६ ॥

शुद्धमेलो हि सर्वत्र षड्जग्राम इतीर्यते ।

वेलावल्यभिधो लक्ष्ये षड्जग्रामत्वमर्हयेत् ॥ ४७ ॥

प्राचीनावाचीनविकृतस्वरनिर्णयः।

स्वरस्तु प्रच्युतः श्रुत्या नियताया यदा भवेत् ।

विकृतत्वं तदा तस्य वर्णयन्ति विपश्चितः ॥४८॥

रिगमधनयो लक्ष्येऽत्र विकृता उदाहृताः।

सपावविकृतौ नित्यमतस्तावचलौ मतौ ॥ ४९ ॥

रत्नाकरोक्तद्वादशविकृतस्वराः।

च्युतोऽच्युतो द्विधा षड्जोद्विश्रुतिर्विकृतो भवेत् ।

साधारणे काकलीत्वे निषादस्य च दृश्यते ॥ ५० ॥

साधारणे श्रुतिंषाड्जीमृषभः संश्रितो यदा ।

चतुःश्रुतित्वमायाति तदैको विकृतो भवेत् ॥ ५१ ॥

साधारणे त्रिश्रुतिः स्यादन्तरत्वे चतुःश्रुतिः।

गांधार इति तद्भेदौद्वौ निःशंकेन कीर्तितौ ॥ ५२ ॥

मध्यमः षड्जवद्द्वेधाऽन्तरसाधारणाश्रयात् ।

पंचमो मध्यमग्रामे त्रिश्रुतिः कैशिके पुनः ॥ ५३॥

मध्यमस्य श्रुतिं प्राप्य चतुःश्रुतिरिति द्विधा।

धैवतो मध्यमग्रामे विकृतः स्याच्चतुःश्रुतिः ॥५४ ॥

कैशिके काकलीत्वे च निषादस्त्रिचतुःश्रुतिः।

प्राप्नोति विकृतौभेदौ द्वाविति द्वादश स्मृताः॥

तैशुद्धैः सप्तभिः सार्धं भवन्त्येकोनविंशतिः ॥ ५५ ॥

संगीतदर्पणे।

शुद्धाः सप्तस्वरास्ते च मंद्रादिस्थानतस्त्रिधा।

च्युताच्युतादिभेदेन विकृता द्वादशोदिताः ॥५६॥

चतुःश्रुतिर्यदाषड्जो द्विश्रुतिर्विकृतस्तदा।

साधारणे च्युतः स स्यात् काकलीत्वेऽच्युतः स्मृतः॥ ५७॥

त्रिश्रुतिर्ऋषभः साधारणे षाड्जीं श्रुतिं श्रितः ।

चतुःश्रुतित्वमापन्नस्तदैको विकृतो भवत् ॥ ५८॥

साधारणे मध्यमस्य गांधारस्त्रिश्रुतिर्भवेत् ।

स्वस्यान्तरत्वे भवति चतुःश्रुतिरिति द्विधा ॥ ५९॥

च्युताच्युतादिभेदेन मध्यमः षड्जवद्भवेत् ।

साधारणेऽन्तरत्वे च द्विश्रुतिर्विकृतस्तदा ॥ ६०॥

पंचमो मध्यमग्रामे विश्रुतिर्जायते स्वरः।

मध्यमस्य श्रुतिं प्राप्य कैशिके तु चतुःश्रुतिः ॥ ६१॥

धैवतो मध्यमग्रामे विकृतः स्याञ्चतुःश्रुतिः ।

कैशिके काकलीत्वे च निषादस्त्रिचतुःश्रुतिः ।

एतैश्च सप्तभिः शुद्धैर्भवन्त्येकोनविंशतिः ॥ ६२॥

टिप्पनी।

एवं दर्पणकारेण येन केनापि हेतुना।

रत्नाकरोदिता ग्रंथे व्यवस्थितिरनूदिता ॥ ६३॥

स्वरा रत्नाकरोक्ताः स्युर्दुर्बोधा अद्य लक्ष्यके ।

तथैव दर्पणोक्तास्ते भवेयुर्वादमूलकाः ॥ ६४॥

वीणादंडे संगीतरत्नाकरोक्तशुद्धविकृतस्वरनिदर्शनम् ।

षड्जतंत्र्याम् ।

शुद्धस्वरा विरुतस्वरा
छन्दोवता शुद्धषड्ज अच्युतषड्ज
दयावती
राजमा
रक्तिका.. शद्ध्रषभ विरुतपभ
रौद्री
क्रोधी शुद्धगाधार
वज्जिका साधारणगांधार
प्रसारिणा अन्तरगान्धार
प्रीति च्युतमध्यम
मार्जनी शुद्धमध्यम अच्युतमध्यम
क्षिति
रक्ता
सदीपिनी त्रिश्रुप्तिका,कौशिक्प
आलापिना शुद्धपचम
मदती
रोहिणी
रम्या शुद्धधैवत विरुतधैवत
उग्रा
क्षोभिणी. शुद्धनिषाद
तीव्रा कौशिकनिषादः
कुमुद्वती काक्लानिषादः
मदा च्युतषड्जः
छंदोवती शुद्धषड्जः
१२

स्वरमेलकलानिधौ शुद्धविकृतस्वरनिर्णयः ।

तत्रतुर्यश्रुतौ षड्जः सप्तम्यामृषभो मतः ।

ततो नवम्यां गांधारस्त्रयोदश्यां तु मध्यमः ॥६५॥

पंचमः सप्तदश्यां तु धैवतो विंशतिश्रुतौ।

द्वाविंश्यां तु निषादः स्यात् श्रुतिष्विवत्थं स्वरोद्भवः ॥६६॥

एते षड्जादयःसप्त स्वराः शुद्धाः प्रकीर्तिताः ।

विकृताश्चैवसप्तैवेत्मेवं सर्वे चतुर्दश ॥ ६७॥

ननु रत्नाकरे शार्ङ्गदेवेन विकृताः स्वराः ।

द्वादशोक्ताः कथं ते तु सप्तैव कथितास्त्वया॥ ६८॥

सत्यं लक्षणतो भेदो द्वादशानामपीप्यते ।

शुद्धेभ्यस्तत्रभेदस्तु सप्तानामेव लक्षितः ॥ ६९ ॥

आधारश्रुतिसंत्यागाद् ध्वनिभेदः प्रकीर्तितः ।

पंचानां परिशिष्टानां स्वराणां विकृतात्मनाम् ॥ ७० ॥

पूर्वस्वरश्रुतिग्राहाद्वापूर्वश्रुतिवर्जनात् ।

अपि लक्षणतो भेदे पूर्वोक्तस्वरसंहतेः ॥ ७१ ॥

आधारश्रुतिनिष्ठत्वाल्लक्ष्यभेदो न विद्यते ।

कथं न भेद इति चेत् सलक्ष्यं तन्निरुप्यते ॥ ७२ ॥

शुद्धषड्जादच्युतस्तुसषड्जो नैव भिद्यते ।

अच्युतो मध्यमः शुद्धान्मध्यमान्न भिदांभजेत् ॥७३॥

शुद्धर्षभाच्चविकृतो रिषभो न पृथग्भवेत् ।

विकृतो धैवतः शुद्धाद्धैवतान्नातिरिच्यते ॥ ७४ ॥

मध्यमश्रुत्युपादाने विकृतः पंचमस्तु यः।

विकृताच्चैव पंचमात्रभेदं चाश्नुते ध्रुवम् ॥ ५॥

तस्माच्चतुर्दशस्वेवं पूर्वोक्तष्वेव पंचकः ॥

अंतर्भूतो यतस्तस्मान्न पृथक कथितो मया ॥७६ ॥

सप्तानां विकृतानां तु सोद्देशं लक्ष्म चक्ष्महे ।

च्युतः षड्जश्च्युतो मश्च च्युतः स्यात् पंचमस्तथा ॥७७॥

स्यात् साधारणगांधारोऽन्तरगांधार एव च।

स्यात्कैशिकनिषादोऽथान्यः काकलीनिषादकः ॥ ७८ ॥

लक्ष्ये नामान्तराणि ।

चतुर्दशस्वरेष्वेषुवक्ष्ये लक्ष्यानुसारतः।

नामान्तराणि केषांचिद्व्यवहारप्रसिद्धये ॥ ७९ ॥

च्युतषड्जस्वरो लक्ष्ये निषादत्वेन कीर्तितः।

च्युतषड्जनिषादाभिधानं तस्य विधीयते ॥८०॥

च्युतस्यमध्यमस्यापि गांधारव्यवहारतः।

च्युतमध्यमगांधारसंज्ञाऽस्य क्रियते मया ॥८१॥

च्युतपंचममाचष्टे लोका मध्यमसंज्ञया ।

अस्माभिः कथ्यते सोऽतश्च्युतपंचममध्यमः ॥ ८२॥

लक्ष्येऽत्र कुत्रचिच्छुद्धगांधारस्थानमाश्रयन् ।

ऋषभःकीर्त्यतेऽस्माभिः पंचश्रुत्यूपभाह्वयः ॥ ८३॥

स साधारणगांधारस्थानस्थो रिषभो यदि ।

लक्ष्यानुसारतः प्रोक्तस्ततप्षट्श्रुतिरेव सः ॥२४॥

अनुवादः।

अथानुवादः क्रियते क्रमादुक्तस्वरावलेः ॥

शुद्धाः सप्तस्वराः शुद्धपूर्वया तत्तदास्यया ।

विज्ञेयाः क्रमशः शुद्धषड्जः शुद्धर्षभस्ततः॥ ८५॥

शुद्धगांधार इत्येवं शुद्धमध्यम इत्यपि।

शुद्धपंचम इत्युक्तः शुद्धधैवत इत्यपि ॥ ८६ ॥

ततः शुद्धनिषादश्चेत्येवं सप्त स्वराभिधाः ।

विकृताः सप्त कथ्यन्ते च्युतषड्जनिषादकः ॥ ८७॥

च्युतमध्यमगांधारश्च्युतपंचममध्यमः।

स साधारणगांधारः स्यात्कैशिकनिषादकः ॥८८॥

स्यात्काकलीनिषादश्चान्तरगांधार इत्यपि ।

शुद्धगांधारके तत्र पंचश्रुत्यृषभोऽभिधा ॥८९॥

साधारणेऽपिगांधारे षड्श्रुत्यृषभनाम च ।

अस्ति क्वचित् क्वचिद्रागमेलने गानसंमतम् ॥ ९० ॥

शुद्धनिषादनामान्यत् स्यात् पंचश्रुतिधैवतः ।

स्यात् कैशिकनिषादेऽन्यन्नाम षट्श्रुतिधैवतः ॥९१॥

चतुर्दश स्वराह्येते रागे रागे भवन्त्यमी ।

पर्यायेण स्वराः सप्त त्रिस्थाने नाधिकाः क्वचित् ॥९२॥

वीणादंडे स्वरमेलकलानिध्युक्तशुद्धविकृतस्वरनिदर्शनम् ।

शुद्धषड्जतन्त्र्याम् ।

लक्ष्ये स्वरा शुद्धस्वराः विरुतस्वराः
शुद्ध षड्ज शुद्धषड्ज
कोमलर्षभ शुद्धऋषभ
शुद्धर्षभ शुद्धगाधार पचश्रुतिरि,
कोमलगांधार साधारणग षट्श्रुतिरि
तीव्रगांधार अन्तरगांधारच्युतम् वमगान्धार
शुद्धमध्यम शुद्धमध्यम
तीव्रमध्यम च्युतपचममध्यम
शुद्धपचम शुद्धपचम
कोमलधैवत शुद्धधैवत
शुद्धधैवत शुद्धनिषाद पचश्रुतिध,
कोमलनिषाद कैशिकी,षट्श्रुतिध
तीव्रनिषाद काक्लीनिषादच्युतषड्जनिषाद
शुद्धषड्ज शुद्धषड्ज

रागविबोधे शुद्धविकृतस्वरनिर्णयः ।

षड्जर्षभगांधारमध्यमपंचमकधैवतनिषादाः।

इत्याभिधास्त्वमीषांसरिगमपधनीति संज्ञाऽन्या ॥ ९३ ॥

तेषां श्रुतयः क्रमतो वेदा रामा दृशौतथांबुधयः ।

निगमा दहनाः पक्षावेवं द्वाविंशतिः सर्वाः ॥ ९४॥

तुर्यायां सप्तम्यां तासु नवम्यां श्रुतौत्रयोदश्याम् ।

सप्तदशीविंशीद्वाविंशीषुच ते स्फुटाः क्रमतः ॥ ९५॥

पृथुवक्ष्यमाणवीणामेरौस्थाप्याश्चतस्र इति तंत्र्यः।

मंद्रतमध्वनिराद्या त्रयं क्रमोच्चस्वनं किंचित्॥ १६॥

न्यस्याः सूक्ष्माः सार्योऽथ द्वाविंशतिरधश्चरमतंत्र्याः।

तंत्री यथेयमुच्चोच्चतररबाकिमपि तासु स्यात् ॥ ९७ ॥

ह्यंतर्नेष्टोऽन्यरवः श्रुतय इति रवा इहांत्यतंत्र्यां सः ।

ऋषभस्तृतीयसार्यांगः पंचम्यां नवम्यां मः ॥ ९८ ॥

पस्तु त्रयोदशीस्थः षोडश्यष्टादशीस्थितौ च धनी ।

द्वाविंशीस्थः षड्जो द्विगुणसमः पूर्वषड्जेन ॥ ९९ ॥

टिप्पनी।

रागविबोधे रत्नाकरवन्नियतं श्रुतिप्रमाणमभूत् ।

इति शंकयन्ति केचिद् ह्यंतर्नेष्टोऽन्यरवोक्तः ॥ २०० ॥

—————

" इति सप्तोक्ताःशुद्धा विकृतान्सतैव वच्मि सह नाम्ना।

साधारणोन्तरश्च श्रुतिं श्रुती चैत्य गो मस्य ॥ १॥

निः कैशिकी च काकल्यथ सस्यैकां भजंश्च तां ते द्वौ।

निगमा मृदुपरसमपाः समपतृतीयश्रुतिस्थित्या ॥२॥

——————

द्वादशविकृतान्पूर्वे वदंति तत्र तु पृथक् पृथग्ध्वनितः।

सप्तैवस्युर्भिन्नाः न पंच यदि मे समध्वनयः ॥ ३॥

न पृथक शुद्धसमाभ्यामच्युतसमकौचतुःश्रुती च रिधौ।

शुद्धरिधाभ्यां विकृतस्त्रिश्रुतिपादपि चतुःश्रुतिपः ॥४॥

भिन्नो न चतुःश्रुतिधो निःशंकमतेऽपि कूटपुनरुक्तौ ।

तल्लक्षणतो भेदेप्यमीषुपंचसु न लक्ष्ये भित् ॥ ५॥

प्राचीनोक्तविकृतेभ्योऽन्यानपि विकृतानाह ।

रिधयोः परश्रुतिगतेश्चतस्त्र इह पंचषट् तथा श्रुतयः।

देशीरागेष्वभिवीक्ष्यंते च षट्तथा गमयोः ॥ ६॥

इति तेषु संभवंति त्रयोन्य एभ्यो विलक्षणा विकृताः।

पंचश्रुतिः शुचेर्गात्साधारणतः षट्श्रुतिकः ॥ ७॥

रिर्न पृथक् ताद्दग्धो नेः कौशिकिनश्च पदश्रुतेर्गो मात् ।

किंतूक्तरिधगमानां व्यवहृतये पृथगिमाः संज्ञाः ॥ ८॥

तीव्रश्चतुःश्रुतित्वे पंचश्रुतिकत्व एव तीव्रतरः।

षट्श्रुतिकत्वे तीव्रतम इति परं ता यथायोग्यम् ॥९॥

तदिति च शास्त्रविरोधि न वाद्याध्याये हिशार्ङ्गदेवेन।

लक्ष्यस्थित्यै प्रोक्तं शास्त्रार्थस्यान्यथात्वमपि ॥ १० ॥

षट्श्रुतिकं में पंचश्रुतिकौ च चतुःश्रुती रिधावगदत् ।

रागविवेकाध्यायव्याख्याने कल्लिनाथसूरिरपि ॥ ११॥”

टीकायाम् ।

पंचश्रुतिः रिः शुचेः शुद्धात् गात् गांधारात्। षट्श्रुतिकश्च :साधारणात् साधारणाख्यविकृतगांधारात्। न पृथक् न भिन्नः। एव स इत्यर्थः। चापरं तादृक् पंचश्रुतिः षट्श्रुतिश्च धः धैवतः : शुचेर्निषादात्कैशिकिनश्च तदाख्यविकृतनिषादाश्च क्रमेणे। षट्श्रुतिर्गः मात् शुचेर्मध्यमात् न पृथक्। पंचश्रुतिको रिः गांधारएव। षट्श्रुतिकश्च रिः साधारण एव। एवं पंचश्रुतिर्धोपाद एव। षट्श्रुतिश्च धः कैशिक्येव।

चतुःश्रुत्यादिप्रकाराणां रिधगमानां पृथक्संज्ञाः।

चतुःश्रुतित्व एव तीव्रइति रिधादीनां संज्ञेत्यर्थात्। एवं चश्रुतिकत्वषट्श्रुतिकत्वयोरेव तीव्रतरतीव्रतम इति च संज्ञेयम्। वं सति गमयोरपि संज्ञात्रये प्राप्ते आह। परं ता इति। परंतु ताः ज्ञा यथायोग्यं यथार्हं गस्य मस्य च षट्श्रुतिकत्वे तीव्रतम इत्येवसंज्ञा। न तु तीव्रतीव्रतरसंज्ञे, गस्य तु चतुःश्रुतिकत्वपंचश्रुतित्वयोः अंतरमृदुमसंज्ञयोः प्रवृत्तेः, मस्य तु चतुःश्रुतिकत्वस्याव्यभिचारात् पंचश्रुतिकत्वस्य चासंभवादित्यर्थः।

वीणादंडे रागविबोधोक्तशुद्धविकृतस्यनिदर्शनम् ।

शुद्धषड्जतत्र्याम् ।

लक्ष्ये स्वरा शुद्धस्वरा विरुतस्वराः
शुद्धषड्ज शुद्धषड्ज
कोमलरि शुद्रषभ
तीव्ररि
शुद्धरी शुद्धगांधार तीव्रतररिः
कोमलग १० साधरणष,तीव्रतमहि
शुद्धम ११ अतरण
१२ मृदुम
शुद्धम १२ शुद्धमध्यम तीव्रतमग
१४
तीव्रम् १५ तीव्रतमग
२६ मृदुष
शुद्रष १७ शुद्धपचम
१८
१९
कोमलग २० शुद्धधैवत
२१ तीव्रम्
शुद्वध २२ शुद्धनिषाद तीव्रतग्ध
कमलिनी कैशिकनि,त्रीव्रतमध
शुद्रनि ककलीनि,
मृदुस
शुद्धषड्ज शुद्धषड्ज
१५

चतुर्दडिप्रकाशिकायां श्रुतिस्वरनिर्णयः ।

श्रुतिर्नाम भवेन्नादविशेषः स्वरकारणम् ।

ननु नास्ति स्वरश्रुत्योर्भेदो नादैकरूपयोः ॥ १२ ॥

विद्यते परिणामित्वपरिणामत्वसंभवः ।

अस्तिभेदस्तयोर्यद्वत् स्वर्णटंककिरीटयोः ॥ १३ ॥

द्वाविंशतिरिति प्रोक्ताः श्रुतयो भरतादिमिः।

ताश्च वीणाप्रसिद्धेपु सुस्पटे विभजामहे ॥ १४ ॥

स्वरेषु शुद्धविकृतभेदास्यद्वादशात्मसु ।

तथा हि शुद्धऋषभेश्रुतयस्तिस ईरिताः ॥ १५ ॥

ततोऽपि शुद्धगांधारे श्रुती द्वे समुपाहृते ।

चतस्रः श्रुतयः शुद्धमध्यमे समुदाहृताः ॥ १६ ॥

स्यात्साधारणगांधारस्तस्याद्यां श्रुतिमाश्रितः ।

तस्यैव समुपादाय द्वितीयकतृतीयके ॥ १७ ॥

श्रुती द्विश्रुतिकः प्रोक्तो गांधारोऽन्तरनामकः ।

दत्वा साधारणाख्याय गांधारायादिमा श्रुतिम् ॥ १८॥

द्वितीयां च तृतीयां चान्तरगांधारसंज्ञके ।

तत्रैकश्रुतिको जातो मध्यमोऽयं चतुःश्रुतिः ॥ १९॥

चतस्रः श्रुतयः प्रोक्ताः पंचमे गीतवेदिभिः।

आदायाद्यां द्वितीयां च तृतीयामपि तच्छृतिम् ॥ २० ॥

वरालीमध्यमः प्रोक्तः श्रुतित्रयसमन्वितः।

वरालीमध्यमाय विश्रुतीर्दत्वा तु पंचमः ॥ २१ ॥

श्रुत्यैकया युतो जातो भवन्नपि चतुःश्रुतिः ।

तिस्रः सांगीतकैः प्रोक्ताः श्रुतयः शुद्धधैवते ॥ २२॥

स्वरे शुद्धनिषादास्ये द्वेश्रुती समुदाहृते ।

चतस्रः श्रुतयः षड्जे तस्यादायादिमां श्रुतिम् ॥ २३ ॥

कैशिक्याख्यनिषादोऽयमेकश्रुतिरुदाहृतः।

द्वितीयीकतृतीयाख्यतच्छृतिभ्यां समन्धितः ॥२५॥

काकल्याख्यानिषादोऽयं द्विश्रुतिः कथ्यते बुधैः।

तत्कैशिकनिषादाय श्रुतिमेकां श्रुतिद्वयीम् ॥ २५॥

काकल्पैच प्रदायास्तेषड्ज एकश्रुतिः स्वयम् ।

द्वाविंशतिर्विभज्यैवं श्रुतयो दर्शिता मया ॥ २६॥

तत्र शुद्धस्वराः सप्त मुखारीमावभासकाः।

चतुश्चतुश्चतुश्चैव षड्जमध्यमपंचमाः ॥ २७ ॥

दे द्वे निषादगांधारौ मिस्त्री रिपमधैवतौ ।

इत्येवं भरतश्लोकसंख्यातश्रुतिशालिनः ॥२८॥

विकृतास्तु स्वराः पंचेत्यस्माभिरवधार्यते ।

रत्नाकरे तु निःशंको विकृतान् द्वादशस्वरान् ॥ २९ ॥

अबवीकेचन पुनरसप्ताहुर्विकृतस्वरान् ।

सर्वमेतत्समालोच्य लक्ष्यमार्गानुसारतः ॥३०॥

स्वराः पंचैव विकृता इति सिद्धांतितं मया ।

तांश्च पंच स्वरान् सम्पग्विविच्य व्याहरामहे॥ ३१॥

साधारणश्च गांधारो गांधारश्चान्तराभिधः ।

द्वौ तौ च मध्यमक्षेत्रसंभूतो विकृतस्वरी ॥३२॥

वारालीमध्यमश्चैकः पंचमक्षेत्रसंभवः ।

षड्जक्षेत्रसमुद्भतौ कैशिकीकाकलीस्वरौ॥ ३३ ॥

एवमेते स्वराः पंच विकृता इति निर्णयः।

आहत्य शुद्धविकृताः स्वरा द्वादश कीर्तिताः ॥ ३४॥

श्रुतिस्थाननिश्चयाय ग्रंथकारः सुलभमुपायं सूचपप्ति ।

ता एताः श्रुतिवीणायां प्रकाश्यन्ते पृथक्तया ।

श्रुतिवीणामकारस्तु वर्ण्यतामिति चेत्तथा ॥१५॥

मध्यमेलारयवीणायां तत्स्वरूपं निरुप्यते ।

मध्यमेलाग्यवीणायां मध्यस्थानस्थपर्वसु ॥ ३६॥

द्वादशस्वपि चैतेषु श्रुतिव्यंजकपर्यणाम् ।

विनिवेशक्रम ब्रूमः श्रुतिभेदैकबोधकम् ॥ ३७॥

मेरूपकंठगं शुद्धर्पभक्षेत्रांतरं विधा।

विभज्यर्पभपर्वेन्दुदृश्यमानं विनान्तरे ॥ ३८॥

पर्वद्वयनिवेशे स्युस्तिस्त्रोऽपि श्रुतयः स्फुटाः।

शुद्धर्पभे तथा शुद्धगांधारक्षेत्रकं द्विधा ॥३९॥

विभज्याथ यथावस्थं पर्व गांधारभासकम् ।

व्यपेक्ष्य मध्ये पर्वैकयदा परिनिवेश्यते ॥४०॥

गांधारस्य तदानीं स्यात् श्रुतिद्वयमतिस्फुटम् ।

मध्यमस्य स्वरस्योक्ताश्चतस्रः श्रुतयः स्कुटाः ॥४१॥

तत्र साधारणे स्पष्टा गांधारे श्रुतिरेकिका ।

अंतरारयानगांधारक्षेत्र द्वेधा विभज्य तु ॥ ४२ ॥

एकस्य पर्वणो मध्ये तयोर्यदि निशनम् ॥

जायतेऽन्तरगांधारे श्रुतिद्वयमतिम्फुटम् ॥

मध्यमे श्रुतिरेकेति स्पष्टं श्रुतिचतुष्टयम् ॥ ४३ ॥

इत्येवं मध्यमेलायां श्रुतिवीप्रणामकारतः ।

द्वाविंशतिश्रुतीनांच दिमागक्रम ईरितः ॥४४॥

संगीतसारामृते स्वरवीणानिदर्शनम् ।

अत्र श्रुतिप्रकरणे श्रुतिवीणोदिता मया ।

रत्नाकरानुसारेण स्वरवीणोच्यतेऽधुना ॥ ४५ ॥

स्वरैर्या वाद्यते वीणा स्वरवीणेति गीयते ।

स्वराः षड्जादयः शुद्धाः सप्तैव परिकीर्तिताः ॥ ४६॥

विकृताः पंच मिलिता द्वादश प्रतिपादिताः ।

विभान्ति यत्र सा वीणा स्वरवीणेति निश्चयः ॥४७॥

अथास्यां पर्वसंवेशं वक्ष्ये वैणिकसंमतम् ।

सारण्या मध्यषड्जाख्यतंत्र्या शुद्धर्पभी यथा ॥४८॥

स्यात्तथा सारिका स्थाप्या प्रथमाऽथ द्वितीयिका ।

तत्तंच्या शुद्धगांधारसिध्यै स्थाप्या च सारिका ॥ ४९॥

तृतीया सारिका स्थाप्या तया तंत्र्या यथा स्फुटः।

स्यात् साधारणगांधारः स्थाप्या सारी चतुर्थिका ॥५०॥

अन्तराख्यानगांधारस्तया तंत्र्या यथा भवेत् ।

शुद्धमध्यमसिध्यर्थं पंचमी सारिकां ततः ॥ ५१ ॥

निवेश्यैव तया तंत्र्याषष्टी स्थाप्याऽथ सारिका।

यथा व्यक्तस्तया तंत्र्यावरालीमध्यमस्तथा ॥ ५२ ॥

मध्यस्थानस्वरा ह्येते जाताः स्युः पदसु पर्वसु ।

मंद्रपंचमशोभिन्या तंत्र्या चाथ तृतीयया ॥ ५३॥

शुद्धश्च धैवतः शुद्धनिषादश्च ततःपरम् ।

कैशिक्याख्यनिषादश्च काकल्यास्यनिषादकः ॥ ५४॥

षड्जःशुद्धर्पभश्चेति पदस्वराः षट्सु पर्वसु ॥ ५५ ॥

स्वराः स्युः श्रुतिनिष्पन्नाः श्रुतिन्यूनाधिकत्वतः ।

एते बहुविधाः शुद्धा विकृता व्यावहारिकाः ॥ ५६ ॥

इति त्रिधा निगद्यन्ते तान् ब्रूमोऽत्र विशेषतः।

षड्जाद्याः शुद्धशब्दाद्याः स्वराः शुद्धा इतीरिताः॥५७॥

शुद्धषड्जस्तथा शुद्धर्षभ इत्यादिनामाभिः ।

अत्रैते व्यवहर्तव्या विकृतास्तत्तदाख्यया ॥ ५८॥

ताभिस्तेऽत्र निरूप्यन्ते क्रमशो विकृताः स्वराः ।

साधारणाख्यगांधारोऽन्तरगांधार एव च ॥ ५९॥

पंचमोत्यश्रुतौ विकृतपंचममध्यमः ।

कैशिक्याख्यनिपादश्च काकल्याख्यानषादकः ।

पंचते विकृताः शुद्धः स्वरैर्दादश कीर्तिताः ॥ ६० ॥

उपर्युक्तानां केषांचित्स्वराणां व्यवहारप्रसिद्धसंज्ञांतराणि ।

विहाय स्वस्वसंज्ञा ये स्वरा अन्योन्यसंज्ञकार ।

तेषां नामांतराण्यत्र विहितानीह यथा ॥ ६१ ॥

शुद्धगांधार एवायं पंचश्रुत्यूपभाह्वयः ।

साधारणाख्यगांधारः षट्श्रुत्यूपभसंज्ञकः ॥ ६२ ॥

तथा शुद्धनिषादोऽपितथा स्यात्पंचश्रुतिधैवतः।

स्यात्कैशिकनिषादोऽपि तथा षट्श्रुतिधैवतः ॥

लक्ष्यानुसारतस्त्वैतल्लौकिकं सुखबोधकम् ॥ ६३॥

उपर्युक्तपर्वसवेशनिदर्शनं वीणादंडे ।

पंजमतंत्री षड्जतंत्री
प्रथमासारी.
द्वितीयातारी
तृतीयासारी.
चतुर्थिकासारी
पंचमीसारी
पठीसारी.

स्पष्टीकरणम् ।

पजतच्या घटसारिकासु कमेण स्वरा—१ शुद्धऋषभः, २ शुदगांधारः,३ साधारण गांधाराः,४,अंतरगाधार; ५ अहमण्यमः ६ वरालीमध्यमा,

पंचमास्यतंत्र्यां परसारिकासु क्रमेण स्वरा—१ शुद्धधैवतः, २ शुद्भनिषादा,३ केशिकनिषादः, ४ काकलीनिषाद, ५ शुद्धषड्ज, ६ शुद्धऋषभः

वीणादंडे चतुर्दै डिप्रकाशिकोक्तशुद्धविकृतस्वरनिदर्शनम् ।

शुद्धषड्जतंत्रि

लक्ष्ये स्वराः शुद्धस्वराः विरुतस्वराः
शुद्धषड्जः शुद्धषड्जः
कोमलरिः शुद्धर्षभः
शुद्धरिः शुद्धगांधारः पंचश्रुतिरिः
कोमलगः १० शुद्धगांधारः साधारणगः ,षट्श्रुतिरिः
११
शुद्धगः १२ शुद्धगांधारः अंतरगः
शुद्धमः १३ शुद्धमध्यमः
१४
१५
तीव्रमः १६ शुद्धमध्यमः वरालीमः
शुद्धषः १७ शुद्धपंचमः
१८
१९
कोमलधः २० शुद्धधैवतः
२१
शुद्धधः २२ शुद्धनिषादः पंचश्रुतिधः
कोमलनिः शुद्धनिषादः कैशिकनिः,षट्श्रुतिधः
शुद्धनिः शुद्धनिषादः काकलानिः
शुद्धषड्जः शुद्धषड्जः

वीणादंडे संगीतसारामृतोक्तशुद्धविकृतस्वरनिदर्शनम् ।

शुद्धषड्जतंत्रि

लक्ष्ये स्वराः शुद्धस्वराः विरुतस्वराः
शुद्धषड्जः शुद्धषड्जः
कोमलरिः शुद्धऋषभः
शुद्धरिः शुद्धगांधारः पंचश्रुतिरिः
कोमलगः शुद्धगांधारः साधारणगः ,षट्श्रुतिरिः
शुद्धगः शुद्धगांधारः अंतरगः
दृषः शुद्धमध्यमः
तीव्रमः शुद्धमध्यमः विरुतपंचमः
शुद्धषः शुद्धपंचमः
कोमलधः शुद्धधैवतः
शुद्धधः शुद्धनिषादः पंचश्रुतिधः
कोमलनिः शुद्धनिषादः कैशिकनिः,षट्श्रुतिधः
शुद्धनिः शुद्धनिषादः काकलानिः
शुद्धषड्जः शुद्धषड्जः

लोचनकृतरागतरंगिण्यां विकृतस्वरनिरूपणम् ।

" स्वस्वशेपश्रुतिं त्यक्त्वा यदा रिषभधैवतौ।

गीयेते गुणिभिः सर्वैस्तदा ती कोमलौमती ॥ ६४ ॥

गृह्णाति मध्यमस्यापि गांधारः प्रथमां श्रुतिम् ।

यदा तदाजनैरेष तीव्राइत्यभिधीयते ॥ ६५॥

द्वितीयामपि चेदेवं तदा तीव्रतरः स्मृतः ।

तृतीयामपि चेदेयं तदा तीव्रतमः स्मृतः ॥६६॥

चतुर्थीमपि चेदेवमतितीव्रतमः स्मृतः।

अतितीव्रतमो गस्तु सारंगे परिगीयते ॥६७ ॥

षड्जस्य च निषादश्चेद् गृह्णाति प्रथमा श्रुतिम् ।

तदा संगीतिभिः सोऽपि तीव्राइत्यभिधीयते ॥ ६८॥

द्वितीयामपि चेदेवं तदा तीव्रतरः स्मृतः ।

तृतीयामपि चेदेवं तदा तीव्रतमः स्मृतः ॥ ६९ ॥

षड्जस्य द्वे श्रुती गृह्णन् निषादः काकली स्मृतः।

तीव्रतरे निषादेऽसावेव गेयो विचक्षणैः॥ ७० ॥”

संगीतकौतुके ग्रंथे हृदयेशेन धीमता ।

तरंगिण्यनुवादः स्यात्कृतः स्वस्वरनिर्णये ॥७१॥

हृदयाद्यप्रकाशाख्ये ग्रंथे तेन पुनः क्वचित् ।

पारिजातप्रबंधोक्ता प्रणाली स्यात् समादृता ॥७२॥

हृदयप्रकाशे स्वरनिर्णयः ।

“स्वराश्च षड्जऋषभौगांधारो मध्यमस्तथा।

पंचमो धैवतश्चैव निषाद इति सप्त ते ॥ ७३ ॥

स्वराणां व्यवहारोऽत्र प्राग्वदाद्याक्षरः कृतः।

द्विश्रुतिर्गोनिषादश्चप्रत्येकंत्रिश्रुती रिधौ॥७४॥

चतुःश्रुतिसमायुक्ताः पूर्ववत्समपाः स्मृताः।

स्वान्त्यश्रुतिस्थिताः शुद्धाः स्युरन्ये विकृताः स्वराः ॥७५॥

श्रुतिमाद्यादितुर्यान्ताः स्वरा ये चोर्ध्ववर्तिनः।

तीव्रस्तीव्रतरस्तीवतमा भवन्ति हि क्रमात् ॥ ७६ ॥

स्वोपान्त्यश्रुतिवर्ती तु कोमलः परिकीर्तितः ।

निस्तीव्रतरसंज्ञस्तु काकलीत्यपि कथ्यते ॥ ७७॥

सपयोर्यदि गृह्णीतस्तिसस्तिस्रः श्रुतीर्निमौ।

मृदुसो मृदुपश्चेति तदाख्ये सपयोमते ॥ ७८ ॥”

अथ शुद्धादिस्वरस्थाननिरूपणं वीणापाम् ।

“ध्वन्यवच्छिन्नवीणादेर्मध्ये तारससंस्थितिः ।

त्र्यंशितस्याद्यभागान्ते मध्यमस्य च पंचमम् ॥ ७९ ॥

मध्यमं षड्जयोगं तु सपयोर्मध्यमानयेत् ।

त्र्यंशितस्य तयोर्मध्यस्याद्यांशान्ते तथार्पभम् ॥८०॥

तथैव धैवतं मध्ये सपयोः स्थापयेद्बुधः।

तत्र भागद्वयं त्यक्त्वा निषादाख्यं स्वरं नयेत् ॥ ८१ ॥

इति शुद्धस्वराः ।

भागत्रयोदित मध्ये मेरोः ऋषभसंज्ञिनः ।

भागद्वयोत्तरं मेरोः कुर्यात् कोमलरिस्वरम् ॥ ८२॥

मेरुधैवतयोर्मध्ये तीव्रगांधारमाचरेत् ।

भागत्रयविशिष्टेऽस्मिन्स्तीव्रगांधारषड्जयोः ॥ ८३ ॥

पूर्वभागोत्तरं मध्ये मंतीव्रतरमाचरेत् ।

भागत्रयान्विते मध्ये पंचमोत्तरषड्जयोः ॥ ८४ ॥

कोमलो धैवतः स्थाप्यः पूर्वमागे विवेकिभिः।

तथैव धसयोर्मध्ये भागत्रयसमन्विते ।

पूर्वभागद्वयादूर्ध्वं निषादं तीव्रमाचरेत् ॥ ८५ ॥”

इति विकृता ।

वीणादंडे तरंगिणीहृदयकौतुकहृदयप्रकाशादिग्रंथोक्तस्वरनिदर्शनम्

• शुद्धषड्जत याम्

लक्ष्ये स्वराः शुद्धस्वराः विरुतस्वराः
शुद्धषड्जः शुद्धषड्जः
कामलरि कोमलरि
शुद्धऋषभ शुद्धऋषभ
कोमलगांधार शुद्धगांधार
१० तीव्रगांधार
शुद्धगांधार ११ तीव्रतरग
१२ तीव्रतमग
शुद्धमध्यम १३ शुद्धमध्यम अतितीव्रतमग
१४
तीव्रमध्यम १५ शुद्धमध्यम तीव्रतरम
१६
शुद्धपंचम १७ शुद्धपंचम
१८
कोमलध १९ कोमलध
२०
२१
कोमलनिषाद २२ शुद्धनिषाद
शुद्धनिषाद तीव्रनि
तीव्रतरनि,काकलीनिः,तीव्रतमनि
शुद्धषड्जः शुद्धषड्जः

संगीतपारिजातोक्तशुद्धविकृतस्वराः ।

“शुद्धाः सप्त विकाराख्या ह्यधिका विंशतिर्मताः ।

एकोनविंशदुच्यन्ते ते सर्वे मिलिताः स्वराः ॥ ८६ ॥

सरी गमौ पधौ निश्च स्वरा इत्यपि संज्ञिताः।

चतुःश्रुतिसमायुक्ताः स्वराः स्युः समपाभिधाः ॥ ८७ ॥

गनी श्रुतिद्वयोपेतौ रिधौ विश्रुतिकौमतौ।

स्वरः स्वोत्तरगामी चेत्तीवादिवचनोदितः ॥ ८८ ॥

स्वरोऽग्रिमश्रुतिं याति तीव्रसंज्ञा प्रयात्यसौ ।

स्वरोऽग्रिमश्रुती याति तदा तीव्रतरो भवेत् ॥ ८९ ॥

स्वरोऽग्रिमश्रुतीर्याति तर्हि तीव्रतमः स्मृतः ।

चतस्रः श्रुतयो यस्मिन्नधिकाः स्युर्यदा स्वरः ॥ ९०॥

सदातितीव्रतमास्यां प्राप्नोतीति बुधा जगुः ।

स्वरः पश्चानिवृत्तश्चेत् कोमलादिभिरीरितः ॥ ९१ ॥

एकश्रुतिपरित्यागात् स्वरः कोमलसंज्ञकः।

श्रुतिद्वयपरित्यागात पूर्वशब्देन मन्यते ॥ १२॥”

तथापि रागलक्षणनिरूपणे।

" पूर्वकोमलतीव्रैश्च तथा तीव्रतरेण च ।

अतितीव्रतमेनैव सर्वे रागा उदीरिताः ॥ ९३ ॥

रिं च पूर्वंतथा तीव्रंतीव्रतरं च गस्वरम् ।

तीव्रतमं तथा गं च मं च तीव्रंस्वरं तथा ॥ ९४ ॥

मं च तीव्रतमं धं च पूर्वाख्यं तीव्रसंज्ञितम् ।

तीव्रतरं निषादं च तीव्रतमं च निस्वरम् ॥

इत्येतांश्च दश त्यक्त्वा रागलक्षणमीरितम् ॥ १५॥"

पुनः।

" ऋषभः शुद्ध एवासौपूर्वगांधार इप्यते ।

गांधारः शुद्ध एवासौ रिस्तीव्रतर इष्यते ॥ ९६ ॥

अतितीव्रतमो गः स्यान्मध्यमः शुद्ध एव हि ।

धैवतः शुद्ध एवासौ निषादः पूर्वसंज्ञकः ॥ ९७ ॥

निषादः शुद्ध एवासौ धस्तीव्रतर इष्यते ।

एवं स्यात् सर्वयंत्रेषु स्वरस्थापनलक्षणम् ॥ ९८॥"

बहवः स्युः स्वराः मोक्ता अहोबलेन यधपि ।

द्वादशैव प्रयुक्तास्ते तेन रागादिलक्षणे ॥ ९९ ॥

वीणादंडे स्वरस्थापनप्रकारः ।

" स्वरस्य हेतुभूताया वीणायाश्चाक्षुपत्वतः ।

तत्र स्वरविबोधार्थं स्थानलक्षणमुच्यते ॥ ३०० ॥

ध्वन्यवच्छिन्नवीणायां मध्ये तारकसः स्थितः ।

उभयोः षड्जयोर्मध्ये मध्यम स्वरमाचरेत् ॥१॥

त्रिभागात्मकवीणायां पंचमः स्यात्तदग्रिमे।

षड्जपंचमयोर्मध्ये गांधारस्य स्थितिर्भवेत् ॥२॥

सपयोः पूर्वभागे च स्थापनीयोऽथ रिस्वरः ।

सपयोर्मध्यदेशे तु धैवतं स्वरमाचरेत् ॥

तत्रांशद्वयसंत्यागान्निपादस्य स्थितिर्भवेत् ॥ ३॥"

इति शुद्धस्वराः।

" भागत्रयान्विते मध्ये मेरोः ऋषभसंज्ञितात् ।

भागयोत्तरं मेरोः कुर्यात कोमलरिस्वरम् ॥ ४ ॥

मेरुधैवतयोर्मध्ये तीवगांधारमाचरेत् ।

भागत्रयविशिष्टेऽस्मिंस्तीव्रगांधारषड्जयोः ॥ ५॥

पूर्वभागोत्तरं मध्ये में तीव्रतरमाचरेत् ।

भागत्रयान्विते मध्ये पंचमोत्तरषड्जयोः ॥६॥

कोमलो धैवतः स्थाप्या पूर्वभागे मनीषिभिः ।

तथैव धसयोर्मध्ये भागत्रयसमन्विते ॥

पूर्वभागद्वयादूध्वं निषादं तीव्रमाचरेत् ॥ ७॥"

इति पंच विकृताः।

" मध्ये पूर्वोत्तराबद्धवीणायां गान एवं वा ।

षड्जपंचमभावेन श्रुतीर्द्वाविंशतिं जगुः ॥८॥"

रागतत्त्वविबोधे हि श्रीनिवासेन धीमता।

अहोबलमतस्यैवानुवादः स्यात् समाहृतः ॥९॥

संगीतपारिजातोक्तशुद्धविकृतस्पराणां वीणादडे निदर्शनम् ।

शुद्धमध्यमतत्र्याम्

लक्ष्ये स्वराः शुद्धस्वराः विरुतस्वराः
शुद्धमध्यम शुद्धमध्यम अतितीव्रतमग
तीव्रम
तीव्रम तीव्रतरम
तीव्रतमम
शुद्धष शुद्धपंचम पूर्वध
कोमलध कोमलध
शुद्धध शुद्धधैवत पूर्वनिषाद
तीव्रध,कोमलनि
कोमलनि शुद्धनिषाद तीव्रतरध
तीव्रनि
तीव्रनि तीव्रतरनि
तीव्रतमनि
शुद्धषड्ज शुद्धषड्ज
पूर्वरि
कोमलरि कोमलरि
शुद्वरि शुद्धऋषभ पूर्वग
तीव्ररि,कोमलग
कोमलग शुद्धगंधार तीव्रतररि
तीव्रग
तीव्रग तीव्रतरग
तीव्रतमग
शुद्धभ शुद्धमध्यम अतितीव्रतमग
२२

पुंडरीकविलकृतसदागचंद्रोदये शुद्धविकृतस्वरनिर्णयः ।

“स्वराः श्रुतिभ्यः प्रभवन्ति ते तु

षड्जादयःसप्त यथाक्रमेण ।

वेदाग्निपक्षाब्धिपयोधिवन्हि-

पक्षांतिमश्रुत्यधिसंश्रिताः स्युः ॥ १० ॥

षड्जाभिधानस्त्वपभस्ततः स्याद्

गांधारको मध्यमपंचमौ च ।

ततः परं धैवतको निषाद

इति स्वराः सप्त मता मुनींद्रः ॥ ११ ॥

शुद्धाः स्वरा ये तु भवन्ति सप्त

तज्जान् विकारान् प्रवदामि सप्त ।

स्वोपान्तिकश्रुत्यधिसंश्रितः स्यात्

षड्जाभिधानो लघुषड्जनामा ॥ १२ ॥

एवं मपौ स्तो लघुशब्दपूर्वै

साधारणो गः प्रथमश्रुतिस्थः ।

मस्य द्वितीयश्रुतिगोऽन्तरः स्यात्

षड्जह्वयस्य प्रथमश्रुतिस्थः ॥ १३ ॥

तथा द्वितीयश्रतिवर्तमानो

निः कैशिकी काकलिनामधेयः ।

स्वस्थानकस्थेषु च तेषु नेष्टाः

स्वरेणु भेदा विकृता मुनींद्रेः ॥ १४ ॥

भोपाददे धस्य विकारभेदं

निःशंकसूरिः खलु कूटताने ।

सर्वे युतास्ते विकृताश्च शुद्धा-

श्चतुर्दशैवेति मतं मदीयम् ॥ १५॥”

लक्ष्यगतसंज्ञान्तराणि ।

“अथो रिधावाद्यगनिश्रुतिस्थौ

लक्ष्येषु वेदश्रुतिकौभवेताम् ।

मः पंचमाद्यां श्रुतिमेत्य लक्ष्ये

क्वचिच्च पंचश्रुतितां प्रयाति ॥ १६॥”

वीणादंडेसद्रागचंद्रोदयोक्तस्वरनिदर्शनम् ।

• शुद्धषड्जत याम्

लक्ष्ये स्वराः शुद्धस्वराः विरुतस्वराः
शुद्धषड्ज शुद्धषड्ज
कामलरिः शुद्धऋषभ
चतुःश्रुतिरि
शुद्धरि शुद्धगांधार
शुद्धगा साधारणगांधार,अंतरगांधारलघुमध्यम
शुद्धम शुद्धपंचम
पञ्चश्रुतिम
तीव्रम लघुपंचम
शुद्धष शुद्धपंचम
कोमलध शुद्धधैवत
चतुःश्रुतिध
शुद्धध शुद्धनिषाद
कोमलनिषाद कैशिकनिषाद
शुद्धनि काकलीनिषाद
लघुषड्जः
शुद्धषड्जः शुद्धषड्जः

पुंडरीकविठ्ठलकृतरागमालायां शुद्धविकृतस्वरनिर्णयः ।

" द्वाविंशतिः प्रतिस्थानं सोपानाकारवत् क्रमात् ।

प्रभवत्युच्चोच्चतराः श्रुतयः श्राव्यमानतः ॥ १७ ॥

रागादिव्यवहाराय तासु सप्त स्वराः स्थिताः ।

षड्जश्च ऋषभश्चैव गांधारो मध्यमस्तथा ॥ १८॥

पंचमो धैवतश्चाथ निषादश्चेत्यनुक्रमात् ।

तेषां संज्ञाः सरिगमपधनीत्यपरा मताः ॥ १९ ॥

वेदाचलांकश्रुतिषुत्रयोदश्यां श्रुतौ ततः।

सप्तदश्यां च विंश्यां च द्वाविंश्यां च श्रुतौ क्रमात् ॥२०॥

षड्जादीनां स्थितिः प्रोक्ता प्रथमा भरतादिभिः ।

असपाः पूर्वपूर्वास्ते संचरंत्युत्तरोत्तरम् ॥ २१ ॥

त्रिस्त्रिर्गतीस्ते प्रत्येकं याति गश्च चतुर्गतीः।

यद्यद्रागोपयोगः स्यात्तत्तदिच्छागतिर्भवेत् ॥ २२॥

गन्योर्गती द्वितीये चांतरकाकलिनौ स्मृतौ ।

पंचम्यष्टादशी पष्ठी तथा चैकोनविंशतिः ॥२३॥

चतस्रः श्रुतयश्चैता रागाद्यैरप्रयोजकाः ।

शेषाअष्टादशैव स्युः श्रुतयः स्वरबोधकाः ॥ २४ ॥

न्यूनाधिकैकगतिका मंद्रतारस्वरा यदि।

न रागहानिकाः सर्वे स्पष्टता मध्यसप्तके ॥ २५॥"

वीणादंडेरागमालोक्तशुद्धविकृतस्वरनिदर्शनम् ।

षड्जतस्यां

लक्ष्ये स्वराः शुद्धस्वराः विरुतस्वराः
शुद्धषड्जः शुद्धषड्जः
कोमलरिः शुद्धऋषभ
शुद्धऋषभ एकगतिकरिः(विधुगतिकारिः)
शुद्धरिः शुद्धगांधार द्विगतिकरिः
कोमलगः शुद्धगांधार एकगतिकगः, (प्रथमगतिकग ,विधुगतिकगः)
शुद्धगः शुद्धगांधार द्विगतिकगः,(नेत्रगतिकगः, पक्षगतिकगः)
शुद्धगांधार त्रिगतिकगः(वन्हिगतिकगः,अनलगतिकगः,गुनगतिकगः)
शुद्धमः शुद्धमध्यमः चतुर्गतिग
तीव्रमः शुद्धमध्यमः चिगतिकम
शुद्धषः शुद्धपंचम
कोमलधः शुद्धधैवत
शुद्धधैवत एकगतिकधः
शुद्धधः शुद्धनिषाद द्विगतिकधः
कोमलनि शुद्धनिषाद एकगतिकनि
शुद्धनिषाद द्विगतिकनि
शुद्धनिः शुद्धनिषाद त्रिगतिकनि
शुद्धषड्जः

पुंडरीककृतरागमंजर्यां स्वरनिर्णयः ।

“तीवा कुमुद्वती मंदा छंदोवती दयावती ।

रंजनी रतिका रौद्री क्रोधी वज्री प्रसारिणी ॥ २६ ॥

प्रीतिर्मुजा क्षिती रक्ता संदीपिन्यथ लापिनी ।

मदंती रोहिणी रम्या चोग्राक्षोभिणिकेति च ॥

श्रुतिनामानि ख्यातानि पूर्वाचार्यैः क्रमादिति ॥ २७ ॥

रागादिव्यवहाराय तासु सप्त स्वराः स्थिताः।

षड्जश्च ऋषभश्चैव गांधारो मध्यमस्तथा ॥ २८ ॥

पंचमो धैवतश्चाथ निषादश्चेत्यनुक्रमात् ।

तेषां संज्ञाः सरिगमपधनीत्यपरा मताः ॥ २९॥

वेदाचलांकश्रुतिषु त्रयोदश्यां श्रुतौ ततः ।

सप्तदश्यां च विंश्यां च द्वाविंश्यां च श्रुतौ क्रमात् ॥३०॥

षड्जादीनां स्थितिः प्रोक्ता प्रथमा भरतादिभिः ।

असपाः पूर्वपूर्वस्मात्संचरत्युत्तरोत्तरम् ॥ ३१॥

त्रिस्त्रिर्गतीस्ते प्रत्येकं याति गश्च चतुर्गतीः ।

यद्यद्रागोपयोगः स्यात्तत्तदिच्छागतिर्भवेत् ॥ ३२॥

साधारणः कैशिकी चान्तरकाकलिनौ तथा ।

साधारणः कैशिकी द्वौ क्रमाद्गतिगनिक्रमः ॥ ३३ ॥

ऊर्ध्वखलस्तु गांधारो मध्यमोपरि संस्थितः ।

मस्य त्रिगतिभेदाश्च मनुः पक्षान्तिको नृपः ॥ ३४॥

अथ कैशिकिनावाद्यावूर्ध्वखलौ द्वितीयकौ ।

अत्युच्छृंखलनामानौ तृतीयगतिको रिधौ ॥

इत्येवं स्वरमेदाश्च स्थाने स्थाने भवन्ति हि ॥ ३५॥”

वीणादंडे मंजर्युक्तशुद्धविकृतस्वरनिदर्शनम् ।

षड्जतस्यां

लक्ष्ये स्वराः शुद्धस्वराः विरुतस्वराः
शुद्धषड्ज शुद्धषड्ज
कोमलरि शुद्धऋषभ
एकगतिकरिः
शुद्धरि शुद्धगांधार द्विगतिकरि
कोमलग साधरणग,अथवात्रिगतिकरि,एकगतिकग
शुद्धग अंतरगांधार,द्विगतिकग
त्रिगतिकग
शुद्धम शुद्धमध्यम चतुर्गतिग
एकगतिकम
द्विगतिकम
तीव्रम त्रिगतिकम
शुद्धष शुद्धपंचम
कोमलध कैशिकनि,अथवाएकगतिनि,त्रिगतिनि
शुद्धनि काकलीनि,द्विगतिनि
त्रिगतिनि
शुद्धषड्ज शुद्धषड्ज

चलितहिंदुस्थानीयपद्धत्यां शुद्धविकृतस्वरसंज्ञाः

हिंदुस्थानीयपद्धत्यां लक्ष्यलक्षणकोविदैः।

सप्त शुद्धास्तथा पंच विकृता निश्चिताः स्वराः ॥ ३६॥

संज्ञास्तेपामथो वच्मि लक्ष्यसंगीतगोचराः ।

यत्तः स्याद्रागनिर्देशे सर्वेषांसुखबोधानं ॥ ३७॥

शुद्धाः सप्त स्वराः शुद्धपूर्वया तत्तदाख्यया ।

विज्ञेयाः क्रमशः शुद्धषड्जः शुद्धर्षभस्ततः ॥ ३८॥

शुद्धगांधार इत्युक्तः शुद्धमध्यम इत्यपि ।

शुद्धपंचम इत्येवं शुद्धधैवत इत्यपि ॥

ततः शुद्धनिषादश्चेत्येवं सप्त स्वराभिधाः॥ ३९ ॥

विकृताः पंच कथ्यंते प्रथमः कोमलर्षभः ।

द्वितीयः कोमलो गः स्यात्तृतीयस्तीव्रमध्यमः ॥ ४०॥

चतुर्थः कोमलो धाख्यः पंचमः कोमलाख्यनिः ।

आहत्य शुद्धविकृताः स्वरा द्वादश ईरिताः ॥४१॥

केषांचित् स्वराणां लक्ष्ये नामान्तराणि ।

व्यवहारे तु शुद्धाख्या र्गिधनिस्वराः क्वचित् ।

प्राप्नुवन्ति पुनः संज्ञा तीव्रां लक्ष्यज्ञसमताम् ॥४२॥

मध्यमः शुद्धएवासौ लक्ष्ये स्यात् कोमलाभिधः ।

परिभाषारहस्यं तत् सर्वत्रैव सुसंमतम् ॥४३॥

विकृतस्वरस्थाननिर्देशः।

षड्जर्षभकयोर्मध्ये संस्थितः कोमलर्षभः।

गांधारो र्गियोर्मध्ये संस्थितः कोमलाभिधः ॥ ४४ ॥

मध्यमस्तीव्रसंज्ञोऽसौ मपयोरंतरे स्थितः।

क्योरंतरे चैव भवेत् कोमलधैवतः ॥ ४५॥

मूर्छना।

“क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् ।

मूर्छनेत्युच्यते ग्रामद्वये ताः सप्त सप्त च ॥४७॥”

रत्नाकरे ।

प्राक्कालीनेषु ग्रंथेषु मूर्छनाः सप्त कीर्तिताः ।

प्रतिग्रामसमासक्ता यामी रागाः समुत्थिताः ॥४८॥

भिन्नस्वरं समारभ्य सप्तस्वख्यवस्थया ।

भवेत् परिस्फुटा तत्र स्वरान्तरविभिन्नता ॥ ४९ ॥

रत्नाकरादिग्रंथेषु मूर्छनाजातियोगतः ।

रागमेलाः सप्ताख्याता रहस्यं तत् सुसंमतम् ॥ ५० ॥

पंडितमध्यकालीनैरहोबलादिभिः पुनः ।

रहस्यं मूर्छनानां तद्विभिन्नं समुदीरितम् ॥ ५१ ॥

मेलः स्यान्मूठनाधारो ग्रामाधारा तु मूर्छना ।

स्वरेभ्यो ग्रामसंभूतिः श्रुतयः स्वरजन्मभूः ॥ ५२ ॥

" मेलः स्वरसमूहः स्याद्रागव्यंजनशक्तिमान् ।

श्लिटोच्छारणमेवात्र समूहः परिकीर्तितः ॥ ५३ ॥

शुद्धः स्वरैः समस्तैर्यो युक्तः संपूर्णशब्दभाक्।

षड्भिः पाडव इत्युक्तः स्वरैः पंचभिरौडुवः ॥ ५४॥ "

मेलानुसारतस्तत्र त्रैविध्यं मूर्छनास्वपि ।

समादिष्टं तु सुस्पष्टं रागोत्पादनहेतवे ॥ ५५ ॥

समानस्वरमेलेऽपि केवलं मूर्छनाभिदा ।

रागभेदसमुत्पत्तिः संभवेदिति प्रस्फुटम् ॥ ५६ ॥

लक्ष्येऽधुना तु सर्वत्र रागमेलनिरूपणम् ।

मृदुतीवादिसंज्ञाभिः क्रियत इत्यसंशयम् ॥ ५७ ॥

मूर्छनं नु स्वरस्यैव गप्रकादिकसंज्ञितम् ।

स्वीकृतं लक्ष्यसंमत्या श्रोतृचित्तानुरंजकम् ॥ ५८ ॥

सप्तस्वरसमूहात्मा नित्यं मेल इतीरितः ।

पाइवोडुवसंपूर्णभिद्वारा रागहेतुकः ॥ ५९ ॥

मेलमस्तारः ।

सरिगमपधनीति संगीते मेल ईरितः ।

पर्यायो मूर्छनायाः स्यात् सत्कृतो लक्ष्यवर्त्मनि ॥६०॥

सरिगमस्वरोपतंमेले पूर्वांगमीप्सितम् ।

पधनिसस्वरैश्चाध संभवत्युत्तरांगकम् ॥ ६१॥

पूर्वांगे कोमलौज्ञेयौस्वरौरिगौतथैव च।

उत्तरांगे निधौज्ञेयौ रागावयवसंज्ञितौ ॥ १२॥

पूर्वांगेत्वचलौशिष्टौ स्वरौतौ षड्जमध्यमी ।

पसौतथोत्तरांगेतौ निश्चलौ लक्षितौ पुनः ॥ ६३॥

रिगधानिस्वराणां हि विकृतिभिः समीरिताः ।

प्रस्तारक्रियया लक्ष्ये मुख्यतौरागमेलकाः ॥ ६४ ॥

मेलज्ञानं विना मेलज्ञान्यं ज्ञातुं न शक्यते ।

अतोमेलप्रबोदार्थंतत्स्वरूपंनिरूप्यते ॥ १५ ॥

प्रस्तारप्रक्रिया संगीतसारामृते ।

“षड्जआद्यास्तदुपरि चत्वारःक्रमशः स्वराः ।

ऋषभाग्यानश्चापिगांधाराग्यानकाश्चा ते ॥ ६६॥

आद्यस्तत्र न गांधारचतुर्थी रिषभो न हि ।

ऋषभारपि गांधारे द्वितीयस्तृतीयकां॥ ६७ ॥

प्रथमादित्रयंह्यत्रभवेद्रुषभसंज्ञकम् ।

द्वितीयादित्रयंचात्र गांधारसंज्ञितंस्येत्। ६८॥”

“षड्जस्वरस्य पुरतश्चत्वारः स्युः स्वरा यथा ।

पचमस्यापि पुरतश्चत्वारः स्युः स्वरास्तथा ॥ ६९ ॥

धैवताख्याः निषादाख्याः प्रथमाद्यास्तु धैवताः ।

द्वितीयाद्या निषादा स्युर्मुसार्यादिषु तु त्रिषु ॥ ७०॥

रागेप्वथ धनी शुद्धौ द्वितीयौ तु धनीरितौ ।

पंचश्रुतिर्धैवतश्च कैशिक्यारयनिषादकः ॥७१ ॥

तृतीयौषट्श्रुतिर्धश्च काकल्यारयनिषादकः।

त्रिण्वेतषु युगलेप्वन्यतरद्गृह्यमीरितम् ॥ ७२॥

स्वरेषु द्वादशस्वेषु तत्तद्रागोपयोगतः ।

तत्तत्स्वरसमूहात्मा मेल इत्येवमीरितः ॥७३॥”

तथाहि ।

षड्जआद्यस्तदुपरि चत्वारः क्रमशः स्वराः ।

ऋषभारयानकाश्चापि गांधारारयानकाश्चते ॥ ७४ ॥

आद्यस्तत्र न गांधारश्चतुर्थो रिषभो न हि ।

ऋषभावपि गांधारौद्वितीयकतृतीयकौ॥ ७५ ॥

प्रथमादित्रयं ह्यत्र भवेदृषभसंज्ञकम् ।

द्वितीयादित्रयं चात्र भवेद्गांधारसंज्ञितम् ॥ ७६ ॥

ऋषभादित्रयं चाथ रारीरसंजितं यदि ।

गागीगुसंज्ञित भूयाद्गांधारादित्रयं ध्रुवम् ॥ ७७ ॥

स्वरेप्वेषु चतुर्दैव पदसंज्ञाः कृत्रिमा मताः ।

प्रस्तारस्य सुसिध्यर्थमिति स्यात्तद्विदां स्फुटम् ॥ ७८ ॥

एवं च पंचमाग्रेऽपि निवसत्सु स्वरेषु तत् ।

धाधीधुनानिनुसंज्ञं संज्ञाषट्कभवेत् स्कुटम् ॥ ७९ ॥

उपर्युक्तेऽथ पूर्वांगे प्रस्तारक्रियया ततः ।

अर्धमेलास्तु पदसंख्या रागोपयोगिनः स्फुटाः ॥ ८० ॥

सरागामा सरागीमा सरागुमा सरीगिमा।

सरीगुमा सरुगुमा भवेयुस्ते यथाक्रमम् ॥ ८१ ॥

उत्तरांगे पुनस्त्वेवमर्धमेला भवन्ति ते ।

पधानासा पधानीसा पधानुसादिका ध्रुवम् ॥ ८२॥

उत्तरांगस्थषट्कस्य योजनात्प्रथमे दले ।

षट्विंशन्मेलसंप्राप्तिर्भवेत् सद्यो न संशयः ॥ ८३ ॥

मासंज्ञमध्यमस्थाने मिसंज्ञो यदि मध्यमः।

प्रयुज्येत तदा चान्यषट्विंशन्मेलसंभवः ॥ ८४ ॥

एवं द्वासप्ततिः प्रोक्ता लक्ष्यलक्षणकोविदैः ।

सर्व रागाश्रयीभूता मेलाः शास्त्रैकगोचराः ॥ ८५॥

चतुर्दडिप्रकाशिकायाम् ॥

“ येनोपायेन मेलास्ते द्विसप्ततिरिति स्फुटाः ।

तमुपायं प्रवक्ष्यामि लक्ष्यज्ञसुखबुद्धये ॥८६॥

रगारगीरगू चैव रिगी-रिगुरुगू तथा।

षड्भेदा इतिपूर्वांगे द्रष्टव्या गीतकोविदैः ॥ ८७ ॥

धनाधनीधनूचैव धिनी धिनुधुनूतथा ।

उत्तरांगेऽपि षड्भेदाद्रष्टव्या गीतकोविदैः ॥८८॥

पूर्वांगगतषड्भेदाः षड्जाद्याः स्युः पृथक्पृथक्।

उत्तरांगस्थषड्भेदाः पंचमाद्याःपृथक्पृथक् ॥ ८९ ॥

आद्यः पूर्वांगगो भेद उत्तरांगस्थितैः क्रमात् ।

योज्यते यदि षड्भेदैः षण्मेलाःसंभवन्त्यतः॥ ९० ॥

पूर्वांगस्य द्वितीयोऽपि भेदोऽनेनैव वर्त्मना ।

संयोज्यते यदि तदाषण्मेलाः संभवन्त्यतः ॥ ९ ॥

एवं तृतीयो भेदोऽपि षण्मेलोत्पादको भवेत् ।

चतुर्थोऽपि तथैव स्यात्पंचमोऽप्येवमेव हि ॥१२॥

एवं षष्ठोऽपि विज्ञेयः षण्मेलोत्पत्तिकारणम् ।

अतः पूर्वांगमेलानां षण्णामपिपृथक्पृथक् ॥ १३॥

उत्तरांगस्थितैः षड्भिर्भेदेः संयोजने कृते ।

षट्षण्मेलप्रकारेण मेलाः षट्त्रिंशदागताः ॥ ९४ ॥

एतेष्वेव तु षट्त्रिंशन्मेलेषु प्रतिमेलकम् ।

मासंज्ञमध्यमस्थाने मिसंज्ञो यदि मध्यमः ॥ ९५ ॥

निवेश्यते तदा तेषां भवेदुत्तरमेलता।

इत्यस्माभिः समुन्नीता जाता मेला द्विसप्ततिः ॥१६॥

ननु त्यक्त्वा मासंज्ञंतु केवलं मध्यमं पुनः ।

मिसंज्ञिनस्य तत्स्थाने मध्यमस्य निवेशनात् ॥ ९७ ॥

त एव पूर्वमेलाः किं भवन्त्युत्तरमेलकाः ।

इति चोक्ने सदृष्टांतंपरिहारं प्रचक्ष्महे ॥ ९८॥

कटाहसंभृतं क्षीरं केवलं दधिबिंदुना ।

यथा संयोज्यमानं तु दधिभावं प्रपद्यते ॥ १९ ॥

तथैव पूर्वमेलास्ते मध्यमेन मिसंज्ञिकाः ।

केवलेनापि संयुक्ता भजन्त्युत्तरमेलताम् ॥ ४००॥

अथ विज्ञाय तत्वेन मेलान् ह्यधिकसप्ततिम् ।

तेषांप्रयोगसमये रगारगीतिमत्कृतः ॥१॥

संकेतो नैव संग्राह्यः किन्तुपूर्वप्रसिद्धया।

व्यवहारः सरिगमपधनीत्येव संज्ञया ।

द्विसप्ततेश्चमेलानां कर्तव्य दति निर्णयः ॥२॥"

द्विसप्ततिमेलसमर्थने ग्रंथकार आह ।

" ननु द्विसप्ततिर्मेला भवता परिकल्पिताः।

प्रसिद्धाः पुनरेतेषुमेलाः कतिचिदेव हि ॥३॥

दृश्यन्ते न तु सर्वेऽपि तेन तकल्पनं वृथा।

कल्पनागौरवन्यायादिति चैदिदमुच्यते ॥ ४ ॥

अनन्ताः खल भेदास्ते देशस्था अपि मानवाः ।

तेषुसांगीतिकैरुच्चावचसंगीतकोविदैः ॥ ५॥

ये कल्पयिष्यमाणाश्च कल्प्यमानाश्च कल्पिताः।

अस्मदादिभिरज्ञाता ये च शास्त्रैकगोचरः ॥६॥

ये च देशीयरागास्तद्रागसामान्यमेलकाः ।

ये तु पंतुवराल्यास्यकल्याणिप्रमुखा अपि ॥ ७॥

नानादेशीयरागास्तद्रागसामान्यमेलकाः ।

संग्रहीतुं समुन्नीता एते मेला द्विसप्ततिः ॥८॥

ततश्चैतेषु वैयर्थ्यशंका किंकारणं भवेत् ॥ ९ ॥

न हि संघटते वृत्तरत्नाकरनिरूपिते ।

तत्र प्रस्तारलब्धानां वृत्तानां निकुरुंबके ॥ १० ॥

अस्मदादिप्रसिद्धस्य वृत्तवैयर्थ्यशंसनम् ।

न हि संघटते तालपस्तारजनिते पुनः ॥ ११ ॥

तालजाले प्रसिद्धस्य तालवैयर्थ्यशंसनम् ।

यदि कश्चिन्नदुर्र्नीत (तो ! ) मेलेभ्यस्ताद्विसप्ततेः॥ १२॥

न्यूनं वाप्यधिकं वापि प्रसिद्धैार्द्वाशस्वरैः ।

कल्पयेन्मेलनं तर्हि ममायासो वृथा भवेत् ॥

न हि तत्कल्पने भाललोचनोऽपि प्रगल्भते ॥ १३॥"

वीणादंडे प्रस्तारक्रियानिदर्शन्

**लक्ष्यगतस्वराः ** ग्रन्थोक्तस्वराः रुत्रिमसंज्ञा
शुद्धषड्ज शुद्धषड्ज
कोमलरिः शुद्धऋषभः (रा)
शुद्धरिः शुद्धगः,पंचश्रुतिरिः (री)(गा)
कोमलगः साधारणगः, षट्श्रुतिरिः (रुः)(गी)
शुद्धगः अंतरगः (गुः)
शुद्धमः शुद्धमः
तीव्रमः वरालीमः (मी)
शुद्धपः शुद्धपंचमः
कोमलधः शुद्धधः (धा)
शुद्धधः शुद्धनिः,षट्श्रुतिधः (धी )(न)
कोमलनिः कैशिकनिः,षट्श्रुतिधः (धुः)(नी)
शुद्धनिः काकलीनिः (नः)
शुद्धषड्जः शुद्धषड्जः

पद्धत्यां दाक्षिणात्यानां ये द्वादश स्वरा मताः ।

त एवात्रप्रतीताः स्युरिति लक्ष्यज्ञसंमतम् ॥१४॥

रागोत्पादनतत्वं च सर्वसाधारणं यतः।

द्विसप्ततिमेलकानां स्वीकारोऽत्र न गर्हितः ॥१५॥

यद्यप्येतावती संख्या मेलानां शास्त्रसंमता।

व्यवहारे न ते सर्वे प्रतीता इति संमतम् ॥ १६ ॥

रागोत्पादनप्रकरणम् ।

हिंदुस्थानीयपद्धत्यां द्वादशैव स्वरा मताः ।

उद्गमस्थानभूतास्ते रागाणामिति संमतम् ॥ १७ ॥

शुद्धाः सप्त तथा पंच विकृता उक्तलक्षणाः ।

योग्यमेलन्यवस्थित्या भवेयू रागहेतवः ॥ १८॥

सूक्ष्मस्वरप्रयोगाणां विधानं श्रूयते क्वचित् ।

ग्रंथोक्तनियमाभावात्तचर्चा वादमूलका ॥ १९ ॥

एकस्मिन्नेव रागे स्याद्भिन्नश्रुतिपयोजनम् ।

स्वरसंगत्यधीनं तदिति लक्ष्यविदो विदुः ॥ २०॥

भिन्नश्रुतिसमायोगे परिणामो भवेत् पृथक् ।

विज्ञानं तु तथाप्येतच्छ्रोतृगणेऽतिदुर्लभम् ॥ २१ ॥

सर्वमेतत्समालोच्य लक्ष्यमार्गानुसारिणा ।

द्वादशैव स्वरा अत्रमया मेलेपु निश्चिताः ॥ २२ ॥

तथाहि रागतत्वविबोधे ।

" श्रुतयो द्वादशैवात्र स्वरस्थानतयोदिताः।

तथोक्तवारिताः सर्वाऽस्वरस्थानतयादिशेत् ॥ २३ ॥

न श्रुतिस्थस्वरोत्पन्नमस्तारप्राप्तमेलजान् ।

युक्तोद्ग्राहृयुजो रागान् कल्पयंतु मनीषिणः ॥ २४ ॥"

मेलाः स्युर्मूर्छनाधारा रागास्तु मूर्छनाश्रिताः।

अतो वक्ष्ये प्रकारांस्तान्मूर्छनाया नवोदितान् ॥ २५ ॥

मेलानुसारतो लक्ष्ये त्रैविध्यं मूर्छनागतम् ।

स्पष्टं मया पुरैवोक्तं पुनरुक्तिर्निरर्थिका ॥ २६ ॥

पर्यायो मूर्छनायाः स्याल्लक्ष्येमेलःसमाहृतः।

षाडवौडुवसंपूर्णभिद्वारा रागवाचकः ॥ २७ ॥

मेलगतमूर्छनाया नवभेदाः।

आरोहे स्यात्सुसंपूर्णो विलोमेऽपि तथैव च ।

स भवेत्प्रथमो भेदो द्वितीयः कथ्यतेऽधुना ॥२८॥

प्रारोहे स्यात्सुसंपूर्णो विलोमे षाडवः पुनः ।

तृतीयः पूर्ण आरोहे विलोमे चौडुवस्तथा ॥ २९ ॥

प्रारोहे षाडवः प्रोक्तः संपूर्णः स्याद्विलोमके।

चतुर्थो वर्णितो भेदः पंचमः कथ्यतेऽधुना ॥ ३०॥

आरोहे चौडुवोयस्तु संपूर्णश्च विलोमके।

प्रारोहे षाडवो नित्यं विलोमेऽपि तथैवच ॥ ३१॥

षाडवषाडवः पष्ठः कीर्तितो लक्ष्यवेदिभिः ।

प्रारोहे षाडवख्यातो विलोमे चौडुवः पुनः ॥ ३२॥

सप्तमः संमतो भेदोऽष्टमोऽपि कथ्यतेऽधुना ।

औडुवारोहसंपन्नो विलोमे षाडवः पुनः ॥ ३३॥

औडुवो रोहणे नित्यमवरोहेऽपि चौडुवः ।

नवमः कथ्यते भेदो लक्ष्ये नित्यं सुसप्रदः ॥ ३४ ॥

द्विसप्ततिर्यतो मेलाः शास्त्रकारैः सुनिश्चिताः।

प्रत्येकमेलनेऽवश्यं नवभेदा भवन्त्यमी ॥३५॥

शक्यरागसंख्यानिर्णयः।

अथ कुर्वे प्रबोधार्थ जिज्ञासूनां निरूपणम् ।

मूर्छनोद्भूतरागाणां प्रस्फुटं शास्त्रसंमतम् ॥ ३६ ॥

शुद्धस्वरसमुद्भूता मूर्छना या प्रकीर्तिता।

तत्र संभाव्यरागाणां कुर्मः संख्यानिदर्शनम् ॥ ३७ ॥

पूर्णारोहावरोहः स्यात् प्रकारस्त्वेक एव हि ।

संपूर्णषाडवास्तत्र षडेव संभवंति ते ॥ ३८॥

संपूर्णौडुवकाश्चाथ पंचदशमिता मताः।

इति परिस्फुटं भूयादनायासेन तद्विदाम् ॥ ३९ ॥

षाडवारोहसंपन्ना विलोमे षाडवाः पुनः ।

षट्त्रिंशद्धेदकास्तत्र मन्यन्ते लक्ष्यकोविदः ॥ ४० ॥

षाडवौडुद्धवभेदास्ते नवतिः संप्रकीर्तिताः ।

पंचदशहताः षट् ते परिस्फुटं विवेकिनाम् ॥४१॥

औडुवारोहसंपन्नाः संपूर्णा अवरोहणे ।

पंचदश प्रकारास्ते संभवेयुर्मते विदाम् ॥ ४२ ॥

औडुवारोहसंयुक्ता विलोमे षाडवास्तथा।न

वतिप्रमिता भेदा सर्वलक्ष्यज्ञसंमताः ॥ ४३ ॥

औडुवौडुवभेदास्ते शरनेत्रकराः स्मृताः।

एकैकस्यां मूर्छनायां प्रकाराः संभवन्त्यमी ॥४४॥

द्विसप्ततिमेलकेषु न्यायेनैतेन लक्षिताः।

वसुवेदवसुवेदरामा भेदा भवन्ति ते ॥४५॥

त्रैविध्यान्मेलनस्यात्रयतो रागसमुद्भवः ।

उपर्युक्तप्रकारास्ते रागत्वं यान्त्यसंशयम् ॥ ४६॥

हिंदुस्थानीयपद्धत्यां मार्गा स्युरपरा अपि।

लक्ष्यविद्भिः समादिष्टा रागोत्पादनहेतवे ॥४७॥

प्रारोहे संप्रयुक्तास्ते स्वराः न स्युर्विलोमके।

अथवा तद्विपर्यासो जनयेद्रागभेदकम् ॥४८॥

रागोचितस्वरेषु स्याद्विशिष्टा वक्रता क्वचित् ।

समानस्वरपंक्तौ वा वादिभेदाद्भवेद्भिदा ॥ ४९ ॥

न रागाणां न तालानामन्तः कुत्रापि विद्यते ।

इति यच्छ्रयते लोके केवलं सत्यमेव तत् ॥ ५० ॥

यद्यप्यसंख्यरागास्ते वर्णिताः शास्त्रगोचराः।

प्रतीता लक्ष्यके त्वत्र रागाः कतिचिदेव हि ॥५१॥

मुर्छनाजन्यरागभेदनिरूपणम् ।

संपूर्णसंपूर्णः १ प्रकारः

आरोहः अवरोहः
स रि ग म प ध नि नि ध प म ग रि स

संपूर्णपाडवाः-६ प्रकाराः

स रि ग म प ध नि ०ध प म ग रि स
स रि ग म प ध नि नि० प म ग रि स
स रि ग म प ध नि नि ध० म ग रि स
स रि ग म प ध नि नि ध प० ग रि स
स रि ग म प ध नि नि ध प म० रि स
स रि ग म प ध नि नि ध प म ग ०स

संपूर्णैडुवाः-१५ प्रकाराः

स रि ग म प ध नि ० ० प म ग रि स
स रि ग म प ध नि ०ध० म ग रि स
स रि ग म प ध नि ० ध प० ग रि स
स रि ग म प ध नि ० ध प म० रि स
स रि ग म प ध नि ०ध प म ग० स
स रि ग म प ध नि नि ० ० म ग रि स
स रि ग म प ध नि नि ० प ० ग रि स
स रि ग म प ध नि नि० प म० रि स
स रि ग म प ध नि नि० प म ग० स
१० स रि ग म प ध नि नि ध०० ग रि स
११ स रि ग म प ध नि नि ध ० म० रि स
१२ स रि ग म प ध नि नि ध० म ग० स
१३ स रि ग म प ध नि नि ध प०० रि स
१४ स रि ग म प ध नि नि ध प० ग० स
१५ स रि ग म प ध नि नि ध प म०० स

षाडवसंपूर्णाः-६ प्रकाराः।

आरोहः अवरोहः
स रि ग म प ध नि नि ध प म ग री स
स रि ग म प ध नि नि ध प म ग री स
स रि ग म प ध नि नि ध प म ग री स
स रि ग म प ध नि नि ध प म ग री स
स रि ग म प ध नि नि ध प म ग री स
स रि ग म प ध नि नि ध प म ग री स

औडुवसंपूर्णाः-१५ प्रकाराः

सा री ग म प०० नि ध प म ग री स
सा री ग म० ध० नि ध प म ग री स
सा री ग० प ध० नि ध प म ग री स
सा री०म पध० नि ध प म ग री स
सा०ग म पध० नि ध प म ग री स
सा री ग म०० नि नि ध प म ग री स
सा री ग० प० नि नि ध प म ग री स
सा री ० म प ० नि नि ध प म ग री स
सा०ग म प० नि नि ध प म ग री स
१० सा री ग ० ० ध नि नि ध प म ग री स
११ सा री ० म ०ध नि नि ध प म ग री स
१२ सा०ग म०ध नि नि ध प म ग री स
१३ सा री ० ० प ध नि नि ध प म ग री स
१४ सा ० ग ० प ध नि नि ध प म ग री स
१५ सा ० ०म प ध नि नि ध प म ग री स

पाडवपाडवाः षट्त्रिंशत् प्रकारा

पाइवौडुवा नपतिप्रकाराः ।

औडुवपाडवा नवतिप्रकाराः ।

औडुवौडवाः पचविंशत्यधिकशतद्वयम्

महत्यो रागसंख्यास्ता ग्रंथकारैः समीरिताः ।

लक्ष्ये प्रसिद्धिवैधुर्यादनेकाः स्युरुपेक्षिताः ॥ ५२॥

आधुनिकास्तु निष्णाता गायका लक्ष्यवर्त्मनि ।

गायन्तस्तत्र श्रूयन्ते क्वचिद्रागशतद्वयम् ॥ ५३॥

रंजनाद्रागता प्रोक्तो नियमो लक्ष्यवेदिभिः ।

रागसंख्याप्यवश्यं स्यात्तेन मर्यादिता स्फुटम् ॥ ५४॥

**अनूपसंगीतविलासे । **

ग्रंथेऽनपविलासाख्ये भावभट्टेन धीमता।

रागो नवविधः प्रोक्तो मूर्छनाभेदसाम्यतः ॥ ५५ ॥

तथाहि ।

" रागस्तु नवधा प्रोक्तः पूर्णः स्यात् सप्तभिः स्वरैः ।

षड्भिः पाडवसंज्ञः स्यादौडुवः पंचभिर्भवेत् ॥ ५६ ॥

यथार्थनामकाः षट्स्युर्भेदा भावप्रभापिताः ।

पूर्णौडुवकसंज्ञस्तु पूर्णपाडवसंज्ञकः ॥ ५७ ॥

तथौडुवकपूर्णः स्यात् पाडवाद्यस्तु पूर्णकः ।

पाडवौडुवकश्चापि तथौड्डवकपाडवः ।

प्रोक्तो नवविधो रागः श्रीजनार्दनसूनुना ॥ ५८॥"

टिप्पनी।

मर्छनानामतो मन्ये रहस्यं तत्पुरोदितम् ।

प्रापितं मेलकेप्वत्र येन केनापिवर्त्मना ॥ ५९॥

तानप्रकरणम् ।

येन विस्तार्यते रागः स तानः कथ्यते बुधैः ।

शुद्धकूटविभेदेन द्विविधास्ते समीरिताः ॥ ६०॥

शुद्धतानरहस्यं तल्लक्ष्ये नेह परिस्फुटम् ।

अतो विवेचनं तेषां नैवात्र सार्थकं भवेत् ॥ ६१॥

केचिद्वदंति तानेभ्य एतेभ्यो लक्ष्यवर्त्मनि ।

प्रसिद्धं रागत्रैविध्यं साधितं गानकोविदैः ॥ ६२ ॥

चतुर्दडिप्रकाशिकायाम् ।

" तानो द्विधा शुद्धतानः कूटतान इति क्रमात् ।

एकैकरागमात्राभिव्यक्तिसंपादकस्तु यः ॥ ६३ ॥

स शुद्धतान इत्युक्तः कूटतानः स उच्यते ।

यस्तु रागद्वयस्फूर्तिः साधारणतया स्थितः ॥ ६४ ॥"

ग्रंथकारास्तु प्राचीना लक्ष्यगामि रहस्यकम् ।

तानानां नैव कुत्रापि विवृण्वन्तीति प्रस्फुटम् ॥६५॥

कूटतानाः । रत्नाकरे।

" असंपूर्णाश्च संपूर्णा व्युत्क्रमोञ्चारितस्वराः।

मूर्छनाः कूटतानाः स्युस्तत्संख्यामभिदध्महे ॥ ६६ ॥

पूर्णाः पंचसहस्राणि चत्वारिंशद्युतानि तु ।

एकैकस्यां मूर्छनायां कूटतानाः सह कमैः ॥ ६७॥

स्युः पाडवानां विंशत्या सह सप्त शतानि तु ।

औडुवानां तु विंशत्या सहितं शतमिष्यते ॥ ६८ ॥

चतुःस्वराणां कूटानां चतुर्विशतिरीरिताः।

त्रिस्वराः पड् द्विस्वरौ द्वावेकस्त्वेकस्वरो मतः ॥ ६९॥"

नियमोऽयं यथायोग्यं कल्पनीयो विचक्षणैः।

उपर्युक्ते तु प्रस्तारे मूर्छनायाः सविस्तरम् ॥ ७० ॥

“अंकानेकादिसप्तान्तानूर्ध्वमूवं लिखेत्क्रमात् ।

हते पूर्वेण पूर्वेण तेषु चांके परे परे।

एकस्वरादिसंख्या स्यात् क्रमेण प्रतिमूर्छनम् ॥ ७१॥”

प्रस्तारनियमः रत्नाकरे ।

“क्रम न्यस्य स्वरः स्थाप्यः पूर्वः पूर्वः परादधः ।

स चेदुपरि तत्पूर्वः पुरस्तूपरिवर्तिनः।

मूलक्रमकमात्पृष्ठे शेपाः प्रस्तार ईदृशः ॥७२॥”

खंडमेरुः दर्पणे।

“नष्टोद्दिष्टप्रबोधार्थं खंडमेरुरथोच्यते ।

सप्तकोष्ठांलिखेदाद्यां पंक्तिमेकैककोष्ठतः ॥७३॥

हीनं तु पूर्वपूर्वं स्यात्पंक्तिपट्रकमधो लिखेत् ।

आद्यपंक्त्यादिकोष्ठे तु लिखेदेकं परेषु खम् ॥ ७४ ॥

द्वितीयपंक्त्यावप्येकमाद्यकोष्ठे लिखेद्बुधः ।

परेषु पूर्वपूर्वांक कोष्ठसंख्यागुणं न्यसेत् ॥ ७५॥

एवमेव लिखेदंकमधोऽधः पंक्तिकोष्ठके।

खंडमेरुरयं प्रोक्तो नष्टोद्दिष्टप्रयोधकः ॥ ७६ ॥

तदुपयोगः।

वेद्यतानस्वरमितान् दत्वा तेप्वेव लोष्टकान् ।

मूलक्रमं लिखित्वादावुद्दिष्टं तदधो लिखेत् ॥ ७७ ॥

स्वरान्मूलकमस्यांत्यात्पूर्वं यावतिथः स्वरः ।

उद्दिष्टांत्यस्तावतिथे कोष्ठेऽधो लोष्टकं क्षिपेत् ॥ ७८॥

लोष्टचालनमंत्यात्स्यात् त्यक्त्वा लब्धं क्रमो भवेत् ।

समश्चेदंतिमोऽन्त्येन सोऽपि त्याज्यः प्रयत्नतः ॥ ७९ ॥

लोष्टकांत्यांकसंयोगादुदिष्टस्य मितिर्भवेत् ।

संख्यया तु यदा रूपे पृष्टे नष्टं तदुच्यते ॥ ८०॥

यैरंकैर्नष्टसंख्या स्यान्मौलिकांकसमन्वितैः ।

नष्टानस्वरस्थानं तैज्ञात्वा तं स्वरं लिखेत् ॥ ८१॥”

वर्णालंकाराः।

" गानक्रियोच्यते वर्णः स चतुर्धा निरुपितः।

स्थाय्यारोह्यवरोही च संचारीत्यथलक्षणम् ॥ ८२॥

स्थित्वा स्थित्वा प्रयोगः स्यादेकस्यैव स्वरस्य यः।

स्थायी वर्णः स विज्ञेयः परावन्वर्थनामकौ॥

एतत्संमिश्रणाद्वर्णः संचारी परिकीर्तितः ॥ ८३॥"

कल्लिनाथटीकायाम्ः- गानक्रियाया वर्णत्वं स्वरपदादेर्वर्णनात् विस्तारकरणात् । एकस्यैवेति तत्रादौ “सासासा रीरीरी" एवमादिप्रयोगः । द्वितीये “सारीमामा" इत्येवमादिरूपः । परावन्वर्थनामकौ । परावारोह्यवरोहिणावन्वर्थनामकौ । स रि ग म प ध नि इत्यारोहादारोही । नि ध प मग रि सेत्यवरोहावरोहीत्येवम् । एतत्संमिश्रणात् । एतेषां स्थाय्यादीनां त्रयाणां वर्णानां “सारीसारीगा सानिधसारीगे” त्येवं यथायोगं मिश्रणात्संचारीवर्णः परिकीर्तितः। यत्र गानक्रियायां यस्य वर्णस्य बाहुल्यं दृश्यते तत्र तेन व्यपदेशः कर्तव्य इति मन्तव्यम् ।

अलंकाराः।

“विशिष्टवर्णसंदर्भमलंकारं प्रचक्षते ।

तस्य भेदा बहुविधा ग्रंथकारैरुदीरिताः ॥ ८४ ॥”

रत्नाकरे ।

कल्लिनाथटीकायाम्ः-वर्णसंदर्भोऽलंकार इत्येतावत्युक्ते संचारिणि व्यभिचारः स्यात्स मा भूदिति विशिष्टमिति विशेषणम् । वैशिष्टयं च नियतकलादियुक्तन्वम् ।

क्रमेणस्वरसंदर्भमलंकारं प्रचक्षते ।

तस्य भेदास्तु भूयांसस्तत्र स्थायिगतान् ब्रुवे ॥ ८५॥

पारिजाते।

शशिना रहितेव निशा विजलेव नदी लता विपुप्पेव ।

अविभूपितेव कांता गीतिरलंकारहीना स्यात् ॥८६॥

भरतनाट्यशास्त्रे।

अलमेते ह्यलंकारा रंजनलब्ध्यै स्वरावबोधाय ।

वर्णांगव्यासाय च तदवश्यं पूर्वमभ्यस्याः ॥ ८७ ॥

रागविबोधे ।

ध्रुवो मध्यो रूपकश्च झंपस्त्रिपुट एव च ।

अठताल एकतालः सप्ततालाः प्रकीर्तिताः ॥८८॥

एतत्तालाश्रिताश्चैव ह्यलंकारास्तु सप्त ते ।

अहोबलेन संप्रोक्ताः पारिजाते स्वनिर्मितौ ॥ ८९॥

इंद्रनीलो महावज्रो निर्दोषः सीरकोकिलौ।

आवर्तकः सदानंदस्तेषां संज्ञाः समीरिताः ॥ ९० ॥

अन्येऽपि स्युरलंकारा लक्ष्यमार्गोपयोगिनः ।

नव्यशिक्षार्थिवर्गस्य तान् प्रवक्ष्यामि नामतः ॥ ९१ ॥

भद्रो नंदो गात्रवर्णो बिंदुरभ्युच्छ्रयस्तथा ।

आक्षिप्तः प्रेखितः श्येनस्त्रिवर्णो जववारिदौ ॥ ९२ ॥

शंखाक्षेपौ मता एते त्रयोदश सुलक्षणाः।

संमत्याहोबलस्यैव संग्रहीता मयात्र ते ॥ ९३ ॥

लक्षणानि प्रसिद्धानि पारिजाते यतस्ततः ।

उद्धृतानि न तान्यत्र विस्तरातिभिया मया ॥ ९४ ॥

अलंकारान्विना रागा विस्तरं नाप्नुवन्ति हि।

एतैः पुनः प्रगातृणां स्वरतालप्रवीणता ॥ ९५॥

रागः ।

योऽयं ध्वनिविशेषस्तु स्वरवर्णविभूषितः ।

रंजको जनचित्तानां स रागः कथ्यते बुधैः ॥ ९६ ॥

रागजातयः ।

औडवः पंचभिः प्रोक्तः स्वरैः षड्भिश्च पाडवः ।

संपूर्णः सप्तभिर्ज्ञेय एवं रागस्त्रिधा मतः ॥ ९७॥

हृदयप्रकाशे।

" द्वौ यो वापि चत्वारः स्युस्ताना रंजकस्वराः।

पंचाद्यैरथ रागः स विधा पंचभिरौडुवः ॥ ९८॥

षड्भिः स्वरैः पाडवः स्थासंपूर्णः सप्तभिः स्वरैः ॥"

पंचोनेभ्यः स्वरेभ्यश्च न स्याद्रागस्यसंभवः ॥ ९१॥

प्राचीनग्रंथोक्तरागलक्षणानि ।

" रंजयन्ति मनांसीति रागास्ते दशलक्षणाः ।

भवन्ति ते मतंगाद्यैः प्रापितान्यानि च क्रमात् ॥ ५००॥

लक्षणानि दशोक्तानि लक्ष्यन्ते तावदादितः ।

ग्रहांशौ मंद्रतारौ च न्यासापन्यासकौ तथा ॥१॥

अथ संन्यासविन्यासौ बहुत्वं चाल्पता तथा ।

लक्षणानि दशैतानि रागाणां मुनयोऽत्रुवन् ॥ २॥

दशानामपि चैतेषां क्रमाल्लक्षणमुच्यते ।

येनादौ गीयते गीतं स्वरेण स भवेद्गहः ॥ ३॥

बहुशो गीयते येन स्वरेणांशः स कथ्यते ।

अंशस्वरस्त्वसावेव जीवस्वर इति स्मृतः ॥ ४ ॥

नीचैः स्वरेण यद्गानं स मंदस्वर उच्यते ।

उच्चस्वरेण यद्गानं स तारस्वर उच्यते ॥ ५॥

न्यासस्वरः स कथितो येन गीतं समाप्यते ।

अवान्तरसमात्तिं यो गीतस्यापि तनोति सः ॥ ६ ॥

अपन्यासः स स्मृतोऽन्यस्त्वात्पंतिकसमात्पिकृत् ।

इतिभेदो भवेश्यासापन्न्यासस्वरयोर्द्वयोः ॥७॥

संन्यासो नाम गीताद्यसंडस्यैवसमात्पिकृत् ।

गीतसंडाद्यावयवस्यान्ते तिष्ठति स स्वरः ॥ ८॥

विन्यास एतौ संन्यासविन्यासौ भरतादिभिः ।

अन्तर्भूतावपन्यासस्वर एवेति कीर्तितम् ॥ ९॥

अलंघनं तदभ्यासो बहुत्वं द्विविधं मतम् ।

स्वरस्यास्पर्शनं यत्तल्लंघनं परिकीर्तितम् ॥१०॥

साकल्येन स्वरस्पर्शस्त्वलंघनमिति स्मृतम् ।

यदेकस्य स्वरस्यैव नैरन्तर्येण वाथवा ॥ ११ ॥

व्यवधानेन स्याद्भूयो भूयोऽप्युञ्चारणं हि तत् ।

अभ्यास इति शंसन्ति बहुत्वं द्विविधं ततः ॥ १२ ॥

अल्पत्वं च द्विधा मोक्तमनभ्यासाच्च लंघनात् ।

पूर्वोक्ताभ्यासराहित्यमनभ्यासः प्रकीर्तितः ॥

पूर्वोक्तालंघनाभावो लंघनं परिकीर्तितम् ॥ १३॥"

वादिसंवादिस्वरप्रकरणम् ।

रत्नाकरे।

चतुर्विधाः स्वरा वादी संवादी च विवाद्यपि।

अनुवादी च वादी तु प्रयोगे बहुलस्वरः॥ १४ ॥

श्रुतयो द्वादशाष्टौ चा ययोरेंतरगोचराः।

मिथः संवादिनी तौ स्तो निगावन्यविवादिनौ ॥ १५ ॥

रिधयोरेव वा स्यातां तौ तयोर्वा रिधावपि ।

शेषाणामनुवादित्वं वादी राजाऽत्र गीयते ॥ १६ ॥

संवादी त्वनसारित्वादस्यामात्योऽभिधीयते ।

विवादी विपरीतत्वाद्धीरैरुक्तो रिपूपमः ॥ १७॥

नृपामात्यानुसारित्वादनुवादी तु भृत्यक्त् ॥ १८॥

संगीतपारिजाते।

संगीतशास्त्रवेत्तारः प्रवदन्ति मुनीश्वराः।

प्रयोगो बहुधा यस्य वादिनं तं स्वरं जगुः ॥ १९ ॥

मिथः संवादिनौ तौ स्तः सपौ स्यातां पसौ तथा ।

न वादी न च संवादी न विवाद्यपि यः स्वरः ॥ २० ॥

सोऽनुवादीति विज्ञेयः सूक्ष्मदृष्ट्या विचक्षणैः ।

रक्तिविच्छेदहेतुत्वं यस्मिन् रागे तु यस्य तत् ।

तद्रागस्थस्वरैस्तस्य विवादित्वं भवेदध्रुवम् ॥ २१ ॥

संगीतसमयसारे।

सप्तस्वराणां मध्येऽपि स्वरे यस्मिन्सुरागता।

स जीवस्वर इत्युक्तो ह्यंशो वादीति कथ्यते ॥ २२ ॥

जीवस्वरस्य सदृशः संवादिस्वर उच्यते ।

विवादी स्पाद्विसदृशः सोऽनुवादी त्रयात्मकः ॥ २३ ॥

अनुवादिनि संवादिनि जीवस्वरके सदा कलाविद्भिः ।

बहुतमबहुतरबहवः कार्या रागा बिलोमेन ॥ २४ ॥

सुप्रयोगे विवादी सः स्वल्पः कार्योऽथवा पुनः ।

प्रच्छादनीयो लोप्यो वा मनाक्स्पर्शः स्वरस्य यः।

प्रच्छादनं तदेवाहुर्लोपः स्वरस्य विकृतिः ॥२५॥

**चतुर्दडिप्रकाशिकायाम् **।

“वादी संवाद्यपि तथा विवादी चानुवाद्यथ ।

प्रयोगे बहुधावृत्तः स्वरो वादीति कथ्यते ॥ २६ ॥

श्रुतयो द्वादशाष्टौ वा ययोरंतरगोचराः ।

मिथः संवादिनौ तो चेत्येवं संवादिलक्षणम् ॥ २७ ॥

समौ सपौ रिधौ चैव निगौ संवादिनी मिथः ।

एवं शुद्धस्वरेपूक्तः संवादिस्वरनिर्णयः ॥ २८ ॥

साधारणाख्यगांधारकैशिक्याख्यनिषादयोः ।

तथैवान्तरकाकल्योः संवादो विकृतेप्वपि ॥ २९॥

शुद्धर्पभेण संवादी वरालीमध्यमस्तथा ।

शुद्धश्च मध्यमः शुद्धनिषाश्चेत्युभौ स्वरौ ॥ ३०॥

श्रुत्यष्टकेनान्तरितावपि संवादिनौ न हि ।

एवं संवादिलक्ष्मोक्तं विवादी लक्ष्यतेऽधुना ॥ ३१॥

एकश्रुत्यंतरितता ययोस्तु स्वरयोर्द्वयोः ।

तयोर्मिथो विवादित्वमेवं सर्वत्र कल्पयेत् ॥ ३२॥

रिगौ धनी च शद्धेषु स्वरौ स्यातां विवादिनौ।

साधारणान्तरौ चैव कैशिकी काकली स्वरौ ॥ ३३ ॥

मिथो विवादिनौ ज्ञेयौ विकृतेषु स्वरेष्वपि ।

विवादिवादिसंवादिभिन्नाः स्युरनुवादिनः ॥ ३४ ॥

चतुर्विधस्वरेष्वेषु वादी राजा प्रकीर्त्यते ।

संवादी त्वनुसारित्वाद्धीस्यामात्यो विधीयते ॥ ३५ ॥

विवादी विपरीतत्वाद्धीरैरुतो रिपूपमः ।

स्वरूपमर्दनं तेन प्रयोगे स्याद्विवादिना ॥ ३६॥

स्वरूपमर्दनाभावे गीते रक्तिर्न लभ्यते ।

शबूपमर्दने हि स्याद्राज्ञां लोके प्रकाशनम् ॥ ३७ ॥

नृपामात्यानुसारित्वादनुवादी तु भृत्यवत् ।

वादिविवादिसंवाद्यनुवादिस्वरमण्डलम् ॥ ३८॥”

सांप्रतं लक्ष्ये ।

गीतं प्रारभ्यते येन स स्वरो ग्रह ईरितः ।

गीतसमाप्तिकृन्न्यासो वर्ण्यते चांशकोऽधुना ॥ ३९ ॥

बहुशो गीयते येन स्वरेणांशः स कथ्यते ।

अंशस्वरस्त्वसावेव जीवस्वर इति स्मृतः ॥४०॥

लक्षणानां दशोक्तानां नूनं स्याद्गौरवं पुरा ।

देश्यामिह पुनस्तेषां दृश्यते परिलोपनम् ॥४१॥

मध्यकालीनग्रंथेपु ग्रहांशन्याससंयुतम् ।

यद्रागलक्षणं ख्यातं न तदद्यात्र लक्ष्यते ॥४२॥

अधुना लक्ष्यमार्गे तु मेलजात्यादिसाधनैः ।

तथा वादिस्वरेणैव सर्वे रागाः सुवर्णिताः ॥ ४३ ॥

प्रत्येकस्मिंस्तु रागेऽत्र वादीह्यतिमहत्ववान् ।

निर्णायको रागनाम्नः समयस्य प्रसूचकः ॥ ४४ ॥

विदग्धा गायका गीते प्रायो विवादिनं स्वरम् ।

ईपस्पर्शप्रयोगेण दर्शयन्ति सपाटवम् ॥ ४५ ॥

विवादिनं स्वरं प्रायो योजयन्त्पवरोहणे।

न तच्छास्त्रेऽतिदोपाहमित्यूचुर्लक्ष्यवेदिनः ॥ ४६ ॥

सुप्रमाणयुतो मन्ये विवाद्यपि सुरक्तिदः ।

यथेपत्कृष्णवर्णेन शुभ्रस्यातिविचित्रता ॥ ४७ ॥

अर्वाचीन हिंदुस्थानीयरागाणां समयदृष्ट्या व्यवस्थितिः ।

प्रातःकाले तथा सायंकाले गेयास्तु ये मताः ।

संधिप्रकाशनामानो रागा अस्माभिरीरिताः ॥ ४८ ॥

एतद्रागेषु निर्दिष्टं वैचित्र्यं लक्ष्यवेदिभिः ।

मृदुत्वं रिधयोश्वाथ तीव्रत्वं गनिपादयोः ॥४९॥

सायंकालप्रगेयत्वं तीव्रमेण भवेत्स्फुटम् ।

शुद्धमेन मवेत्तद्वत् प्रातःकालप्रसूचनम् ॥ ५० ॥

हिंदुस्थानीयरागाणां त्रयो वगाः सुनिश्चिताः।

स्वरविकृत्यधीनास्ते लक्ष्यलक्षणकोविदैः ॥ ५१ ॥

रिगधतीव्रका रागा वंर्गऽग्रिमे व्यवस्थिताः।

द्वितीये कीर्तिताः सर्वे रिधकोमलसंयुताः ॥ ५२ ॥

तृतीये तु नियुक्ताः स्युर्गनिकोमलमंडिताः ।

समयादिव्यवस्थाऽत्र भवेन्मेनाध्यदर्शिना ॥ ५३ ॥

त्रिण्वेतेषु सुवंर्गषु संगीतं लक्ष्यपूर्वकम् ।

समावेशयितुं शक्यमिति मर्मज्ञसंमतम् ॥ ५४ ॥

द्वितीयाध्यायः ।

अथ श्रीलक्ष्यसंगीतद्वितीयाध्याय ईर्यते ।

चतुराख्येन भरतपूर्वखंडनिवासिना ॥१॥

रागजनकदशमेलसंकेतः।

द्विसप्ततिमेलकेषु त्यक्त्वा ताननवश्यकान् ।

स्वीकुर्मो दशसंख्यांस्तान् लक्ष्यवर्त्मनि विश्रुतान् ॥ २॥

प्रचरदूपसंगीतमशेषं स्यात् परिस्फुटम् ।

तन्मेलेषु समाविष्टमिति मर्मविदां मतम् ॥ ३॥

जन्यजनकमेलाख्यकल्पनं नैव गर्हिम् ।

प्राक् प्रसिद्धं हि तत्वं तदिति सर्वत्र संमतम् ॥ ४॥

पर्यायो मेलशब्दस्य भाषायां थाट ईरितः।

केषुचिच्छास्त्रग्रंथेपु संस्थितिः परिकीर्तिता ॥५॥

ग्रंथेऽत्र मेलकानां यद्दशानामेव योजनम् ।

केवलं तदकान्यत्र लक्ष्यसौकर्यहेतवे ॥६॥

शक्या नेतुं मेलसंख्या तत्रेपन्न्यूनतामसौ।

तदूनत्वं त्ववश्यं स्यात्काठिन्याधिक्यकारणम् ॥ ७ ॥

सरिगमपधाख्येषु शुद्धस्वरेषु केवलम् ।

प्रत्येकं षड्जभावेन कल्पितषु यथाक्रमम् ॥८॥

वेलावली तथा काफी भैरवी चेमनाह्वयः।

समाजांसावरीत्येते षण्मेलाः सिद्धिमाप्नुयुः ॥ ९॥

शुद्धविकृतभिद्वारा चैतेषु स्यात्सपाटवम् ।

समावेशयितुं शक्यमस्मत्संगीतमुत्तमम् ॥ १० ॥

कदाचिदेवमेवास्मच्छास्त्रकारैः पुरातनैः ।

पुंरागाः षट् समुन्नीता येन केनापि वर्त्मना ॥ ११ ॥

सादृश्यमप्यसाहश्यमन्यरागगतं ततः।

सुविमृश्य कृता तैश्च भार्यापुत्रादियोजना ॥१२॥

व्यवस्थेयं समीचीना किंत्वादावेकवाक्यता।

रागरूपगताभीष्टा यतः प्रीतिः सतां भवेत् ॥ १३ ॥

प्राचीनैर्ग्रंथकारस्तैर्मुख्यरागाः षडीरिताः ।

दशमेलान्वयं ब्रूमो नात्र दोपोऽस्ति कश्च न ॥ १४ ॥

मेलसंख्याः प्रमिन्नाः स्युस्तत्तद्ग्रंथैः प्रकल्पिताः ।

सारासारविचारज्ञैरेतज्ज्ञेयं यथोचितम् ॥ १५ ॥

रागजनकदशमेलनामानि ।

कल्याणीमेलकस्त्वाद्यो वेलावली द्वितीयकः ।

खमाजाख्यस्तृतीयः स्याद्भौरवाख्यश्चतुर्थकः ॥ १६ ॥

पंचमः पूर्विकासंज्ञः पष्ठः स्यान्मारवाभिधः ।

सप्तमः काफिसंज्ञः स्यादासावरी तथाष्टमः ॥ १७॥

नवमो भैरवीमेलो दशमस्तोडिकाह्वयः।

इत्येते दशमेलास्ते रागोत्पादनहेतवः ॥१०॥

तेषां लक्षणानि ।

अथो वक्ष्ये क्रमान्मेलान् दशसंख्यान सलक्षणम् ।

लक्ष्यसंगीतपद्धत्या जीवभूतांश्च तत्त्वतः ॥ १९ ॥

शुद्धस्वरसमुद्भूतो वेलावलीतिनामकः ।

दाक्षिणात्यमते चासौ शंकराभरणाभिधः ॥ २० ॥

तस्मिंस्तीव्राभिधो मश्वेत्मविष्टो लक्ष्यवर्त्मनि ।

शेषशुद्धस्वरैस्तत्र कल्याणीमेल उद्भवेत् ॥ २१ ॥

समाजमेलने प्रोक्ताः शुद्धाः सरिगमाः पधौ।

शुद्धौ निः कोमलाख्यः स्यादिति लक्ष्यज्ञसंमतम् ॥ २२॥

भैरवस्य सुमले स्युः शुद्धाः सगमपास्तथा।

निषादोऽपि भवेछुद्धो रिधौ कोमलसंज्ञितौ ॥ २३ ॥

रिधौ तु कोमलौ यत्र गनी तीव्रौ च तीव्रमः।

स्यात्पूर्वीनामको मेलो मारवा कथ्यतेऽधुना ॥ २४ ॥

उपर्युक्ते तु मेले चेद्धैवतः शुद्धसंज्ञितः ।

मारवामेलकः सिद्धः परमेलप्रवेशकः ॥२५॥

निगौ तु कोमलौ यत्र परे शुद्धाभिधाः स्वराः।

लक्ष्ये काफीतिसंज्ञः स्यान्मेलको लोकविश्रुतः ॥ २६ ॥

कोमला निधगा यत्र शेषास्ते शुद्धसंज्ञिताः ।

यस्मिन्नासावरीमेलः कीर्तितो गायनोत्तमैः ॥ २७ ॥

भैरवीनामके मेले मृदुरिगधनिस्वराः ।

मन्योस्तत्रैव तीव्रत्वे तोडीमेलः समुद्भवेत् ॥२८॥

इत्येते दश संप्रोक्ता लक्ष्यलक्षणसंगताः ।

सविस्तरं मया मेला रागोत्पादनहेतवः ॥ २९ ॥

दशमेलानां दाक्षिणात्यनामानि ।

मेलसंज्ञा अथो वक्ष्ये दक्षिणोत्तरभेदतः।

जिज्ञासूनां भवेद्येन सौकर्यमविशंकितम् ॥ ३०॥

कल्याणीमेलकोऽस्माकं तत्रापि स्यात्तथैव च ।

वेलावल्या भवेत्तत्र शंकराभरणाभिधः ॥ ३१ ॥

समाजमेलकोऽस्माकं तत्र कांभोजिनामकः ।

लक्ष्येऽत्र भैरवाख्यातस्तत्र मालवगौडकः ॥ ३२ ॥

मेलः पूर्वीतिसंज्ञोऽत्र तत्र स्यात्कामवर्धनी।

भारवामेलकोऽस्माकं तत्र स्याद्गमनश्रमः ॥ ३३ ॥

लक्ष्ये काफीतिसंज्ञोऽसौ तत्र खरहरप्रिया ।

आसावर्याह्वयोऽस्माकं तत्र स्यान्नटभैरवी ॥ ३४॥

प्रसिद्धो भैरवीमेलस्तत्र तोडीतिसंज्ञितः ।

अस्माकं तोडिमेलस्तु तत्र पंतुवरालिका ॥ ३५ ॥

जन्यरागनामानि।

कल्याणमेले।

इमनः शुद्धकल्याणो भूपाली चंद्रकांतकः ।

जयस्कल्याणरागश्च कल्याणः पूरियाद्यकः ॥ ३६॥

हिंदोलश्चैव मालश्री केदारो हंमिराह्वयः।

कामोदश्छायनाटश्च श्यामकल्याणनामकः ॥

गौडसारंग इत्येते रागाः कल्याणमेलजाः ॥ ३७॥

वेलावलीमेले।

वेलावली तथाल्हैया शुक्लवलावली ततः।

देवगिरीमनी दुर्गा सर्पर्दा ककुभा तथा ॥ ३८॥

नटवेलावलीत्युक्ता लच्छाशाखोऽथ शंकरः।

देशिकारो बिहागश्च हेमकल्याणनामकः ॥ ३९ ॥

मलुहा नटमांडौ च गुणकली पहाडिका ।

रागा एते मतास्तज्ज्ञैर्वेलावलीसुमेलजाः ॥ ४० ॥

खंमाजमेले।

खंमाजश्चाथ झिंझूटी सोरटी देसनामकः ।

खंबावती तिलंगाख्या दुर्गा रागेश्वरी ततः ॥४१॥

जयावंती तथा गारा कामोदस्तिलकाद्यकः ।

इत्येते कीर्तिता लक्ष्ये रागाः खंमाजमेलजाः ॥४२॥

भैरवमेले।

भैरवश्च कलिंगश्च रंजनी मेघपूर्विका ।

सौराष्ट्रो जोगिया गौरी रामकली प्रभातकः ॥ ४३ ॥

विभासश्चाथ बंगालो भैरवः शिवपूर्वकः ।

आनंदभैरवोऽप्यत्र भैरवोऽहीरसंज्ञकः ॥ १४ ॥

ललितपंचमारयश्च गुणकीलक्ष्यविश्रुता।

इत्येते भैरवान्मेलाज्जाता रागा विदां मते ॥ ४५ ॥

पूर्वीमेले।

पूर्वी गौरी तथा रेवा श्रीरागो दीपकस्तथा ।

त्रिवेणी मालवी ष्टंकी जेताश्रीश्च वसंतकः ॥ ४६॥

धनाश्री पूरियाद्यासौ परजा विबुधप्रिया।

एते रागा मतास्तज्ज्ञैः पूर्वीमेलसमुत्थिताः ॥ ४७ ॥

मारवामेले।

मारवा पूरिया चैव ललिता सोहनी तथा।

बरारीजैत्रभंसारा विभासो भट्ठियारकः ॥४८॥

साजगिरी तथा मालीगौरा पंचमसंजितः।

ललितागौरिकाऽप्येते मारवामेलजा मताः॥४९॥

काफीमले।

धनाश्रीः सौंधवी काफी धानी भीमपलाशिका ।

प्रदीपकी तथा पीलू रागिणी हंसकंफणी ॥ ५० ॥

वागीश्वरी बहारश्च सुहा सुघाइका ततः।

देशारयः कौशिकश्चाथ सहाना नायकी तथा ॥५१॥

सारंगो मध्यमाद्यरयः शुद्धसारंग इत्यपि।

वृंदावन्यथ सामंतो मीयांसारंगनामकः ॥ ५२॥

बडहंसस्तथा शुद्धमल्लारः पटमंजरी ।

गौंडमल्लारनामासौ सूरमल्लार इत्यपि ॥ ५३॥

रामदास्याख्यमल्लारो मीयांमल्लार एव च।

ततः स्यान्मेघमल्लार इत्येते काफिमेलजाः ॥ ५४ ॥

आसावरीमेले।

आसावरी तथा जौनपुरी गांधारिदेशिके ।

खटरागस्तथा सिंधुभैरवी कौशिकायः ॥ ५५ ॥

दर्बारिकानडाऽड्डाणो झलिफो यवनमियः ।

रागा एते मतास्तज्ज्ञैरासावरीसुमेलने ॥ ५६ ॥

भैरवीमेले ।

भैरवी मालकोशश्च तोडीबिलासखानिका ।

रागा एते मतास्तज्ज्ञैभैरवीमेलनोत्थिताः ॥ ५७ ॥

तोडीमेले।

तोडी गुर्जरिका मूलतानी लक्ष्ये सुविश्रुता ।

रागा एते प्रसिद्धाः स्युस्तोडीमेलसमाश्रयाः ॥ ५८ ॥

कल्याणमेलजन्यरागाः।

इमनः ।

कल्याणमेलसंजात इमनो लोकविश्रुतः ।

गनिसंवादसंपन्न आद्ययामोचितो निशि ॥१॥

केचित्संनिर्दिशन्त्येनं पारसीकप्रदेशजम् ।

अन्येऽस्मद्देशजं प्राहुर्बुधैः कार्योऽत्र निर्णयः ॥२॥

पद्धत्यां दाक्षिणात्यानां नूनं स्यात् परिकीर्तितः ।

कल्याणो यमुनासंज्ञो रात्रिगेयो निवर्जितः ॥३॥

भाति मे त्विमनाख्योऽयं रागो यावनिकोद्धृतः ।

प्राविष्टो यवनैः प्रायः स्वकीये शासने पुरा ॥ ४ ॥

रागतरंगिणीग्रंथे तथैव हृत्प्रकाशके ।

रागोऽयं वर्णितः स्पष्टं कल्याणस्य स्वरैध्रुवम् ॥ ५॥

ईषरत्स्पर्शन शुद्धाख्यामध्यमस्य विलोमके।

कल्याणो यमनाद्योऽसौ जायते तद्विदां मते ॥६॥

आलापयोग्यता लक्ष्ये रागस्यास्य सुसंमता ।

पूर्णत्वसरलत्वाभ्यां गानं नित्यं निरर्गलम् ॥ ७॥

द्रुतमध्यविलंबितलयैस्त्रिभिः परिष्कृतम् ।

नियतं गायनं चास्य सर्वेषां सुखमावहेत् ॥८॥

प्रकारा बहवो लक्ष्ये कल्याणस्य समीरिताः ।

व्यवहारप्रसिद्धा ये संगृहीता मयात्र ते ॥ १॥

तथाहि । अनूपसंगीतरत्नाकरे ।

“शुद्धकल्याणरागश्च ततः कल्याणनाटकः ।

हंमीरपूर्वकः पूर्व्या भूपालीपूर्वकस्ततः ॥ १० ॥

जयश्रीपूर्वकल्याणः क्षेमकल्याणकः स्मृतः ।

कामोदादिककल्याणो हेमकल्याणकस्ततः ॥

ऐमनादिककल्याणश्चाहेर्यादिस्ततः परम् ॥

ततस्तिलककामोदः कल्याणास्ते त्रयोदश ॥ ११॥”

हृदयकौतुके।

“इमनस्वरसंस्थाने शुद्धकल्याण ईरितः ।

पूरिया विदिता लोके जयत्कल्याण एव च ॥ १२॥”

टिप्पनी।

कल्याणमेलजा रागा विभज्यंते विधा पुनः ।

अमैकमद्विमेत्येवं सौकर्यार्थ विचक्षणैः ॥ १३॥

वर्गेऽग्रिमे समादिष्ट रागा मध्यमवर्जिताः ।

द्वितीये कीर्तिता ये चैकमध्यमसुमंडिताः ॥ १४ ॥

तृतीये निहिताः सर्वे द्विमध्यमसमन्विताः।

व्यवस्थेयं समीचीना लक्ष्यमार्गानुसारतः ॥ १५ ॥

द्विमध्यमेषु रागेषु प्रतिलोमगतः क्वाचित् ।

कोमलस्य निषादस्यापीपत्स्पर्शः समीक्षितः ॥ १६ ॥

न तद्दोषास्पदं लक्ष्ये मन्यते गानकोविदैः ।

सुप्रमाणयुतो गीते विवादी रक्तिवर्धकः ॥ १७ ॥

संधिप्रकाशरागाणां रिधयोर्मृदुता ततः ।

कल्याणमेलमारभ्य तीव्रत्वे परिवर्तिता ॥१८॥

परिवर्तनमप्येतद्भवेद्रक्तिप्रदायकम् ।

भिन्नरससमास्वादान्मनो हर्षं प्रपद्यते ॥ १९॥

पूर्वरागास्तथोत्तररागा लक्ष्ये समंततः ।

प्रत्येकस्माश्च मेलाश्च संभवेयुरिति स्फुटम् ॥ २० ॥

रागा उत्तरपूर्वास्ते भवेयुः प्रतिमूर्तयः ।

स्वस्वपूर्वाद्यरागाणामिति मर्मज्ञसंमतम् ॥ २१॥

मध्याह्नतः समारभ्यामध्यरात्रं पुनस्तु ये ।

रागा गीताः मताः सर्वे पूर्वरागा विचक्षणैः ॥ २२ ॥

एतत्क्रमविपर्यासे ये स्युर्गीताः समंततः।

त उत्तराख्यरागाः स्युरिति लक्ष्यविदां मतम् ॥ २३ ॥

प्राधान्यं तत्र पूर्वांगे पूर्वरात्रे समीरितम् ।

ततः परं तु तद्भाति चलतीव क्रमात् पुरः ॥ २४ ॥

मध्यरात्रे निगौ स्यातां कोमलौ भूरिरक्तिदौ।

अवगतं रहस्यं तत् सर्वैर्गानविशारदैः ॥२५॥

मृदुत्वं रिधयोश्चाथ तीव्रत्वं निगयोरपि ।

संधिप्रकाशकोक्तस्य चोपःकालस्य सूचकम् ॥ २६ ॥

तीव्रमस्य स्थितिस्तत्र सत्रिशेषमसूचिका ।

अपनयस्तु तस्यैव दिनोदयमुदीरयेत् ॥ २७ ॥

प्रतिमेलमथो रागाः केचित्तज्ज्ञैर्व्यवस्थिताः ।

द्विरूपिस्वरसंयुक्ताः परमेलप्रवेशकाः ॥ २८ ॥

समीक्षित तु नो लक्ष्ये तत्रांशत्वं निपादके ।

संवादित्वं भवेत्तस्य नियतं दृष्टिगोचरम् ॥ २९ ॥

शुद्धकल्याणः।

कल्याणमेलनोत्पन्नः शुद्धकल्याण ईरितः ।

प्रारोहे मनिहीनोऽसौ गांधारांशेन शोभितः ॥ ३० ॥

मते केपांचिदप्यत्र वादित्वमृपभे भवेत् ।

मंद्रमध्यस्वरेर्गीतो रात्र्यां प्रथमयामके ॥३१॥

गवादित्वे त्वावश्यं स्याद्वैवतो मंत्रिसंनिभः ।

सत्यंशे ऋषभे नूनं संवादी पंचमो भवेत् ॥ ३२ ॥

यंशो गेयः सदा पूर्वं यमनादिति संमतम् ।

गांधारांशस्तत्परं स्थान्नियमो हि मनीषिणाम् ॥ ३३ ॥

भेदोऽस्य संमतो लक्ष्ये भूपाल्पाः परिकीर्तितः ।

गांशिका मनिहींनासावेतस्मिंस्तद्विरुध्यते ॥ ३४ ॥

यद्यप्यत्र निमौ तज्ज्ञैरनुज्ञातो विलोमके ।

घर्पणेनैव सुश्राव्यं तत्प्रदर्शनमारितम् ॥ ३५ ॥

मनिहीनः शुद्धपूर्वकल्याणः समुदीरितः ।

हृत्यकाशाह्वये ग्रंथे हृदयेशेन धीमता ॥ ३६॥

आरोहे मनिहीनोऽसौ गांधारोद्ग्राहसंयुतः।

अहोरलेन संदिष्टः पारिजाते परिस्फुटम् ॥३७॥

भूपाली।

कल्याणमेलसंजाता भूपाली संमता जने ।

आरोह चावरोहऽपि मनित्यक्ता सम रिता ॥ ३८॥

गांधारोऽत्र मतो वादी धैवतोऽमात्यसंज्ञितः।

गानं सुसंमतं तस्याः प्रथमप्रहरे निशि ॥ ३९ ॥

शुद्धकल्याणसादृश्यं नूनमस्यां सुलक्षितम् ।

तद्ग्रागे न मनित्यागोऽधरोह गीतविन्मते ॥ ४०॥

प्राधान्यादत्र पूर्वांगे सायंगेयत्वमीक्षितम् ।

सत्युत्तरांगप्राधान्य देशिकारी भवेत् स्वयम् ॥४१॥

देशिकारे धवादित्वं लोके सर्वत्र संमतम् ।

अतस्तद्रागतश्चास्या वैलक्षण्यं भवेत्स्फुटम् ॥ ४२ ॥

भूपाली कुत्रचित्मोक्ता प्रातर्गेयाऽथ गांशिका।

रिगधोमलाप्यन्या लक्ष्ये तन्नोपलभ्यते ॥ ४३ ॥

भूपालीसहशो रागो दाक्षिणात्यमते भवेत् ।

मोहनपूर्वकल्याण इत्याहुर्गानकोविदाः ॥४४ ॥

गांधारोद्ग्राहसंपन्नो रागालापोऽत्र संमतः ।

स्वस्थानैस्नु चतुर्भिः स्यान्नित्यमानंददायकः ॥ ४५ ॥

आलापलक्षण, रत्नाकरे ।

“ग्रहांशमंदताराणां न्यासापन्यासयोस्तथा ।

अल्पत्वस्य बहुत्वस्य षाडवाडुवयोरीप ॥

अभिव्यक्तियंत्र दृष्टा स रागालाप उच्यते ॥ ४६॥

टीकायामः- यत्र यस्मिन्स्यरसंनिवेशविशेषे ग्रहांशादीनामक्तलक्षणानां स्वरागामल्पत्यादीनां तद्धर्माणां च अत्रैतेषामवेत्या धारणं कर्तव्यम् । तेनास्य धात्वंगबद्धेभ्यः प्रबंधेभ्यो वैलक्षण्यंविवक्षितं भवति । तेषां ग्रहांशादीनामेवाभिव्यक्तिः स्वरूपप्रकाशनमाविर्भाव इत्यर्थः । न तु स्वरूपप्रकटीकरणमात्रम् । अनेन वक्ष्यमाणलक्षणायाऽऽस्य भेदो दर्शितः । साऽभिव्यक्तिर्द्रष्ट ज्ञाता भवति । तज्ज्ञैरिति शेषः । स स्वरसंनिवेशविशेयो रागालाप इत्युच्यते ।

रूपकं तद्वदेव स्यात् पृथग्भूतविदारिकम् ।

**टीकायाम्ः—**रूपकं तद्वदेवाऽऽलापवदेव स्यात् । विशेषस्तु पृथग्भूता विच्छिय विच्छिद्य प्रयुक्तविदार्यों गीतखंडानि यस्मिन्निति तथोक्तम् । अयमर्थः । अपन्यासेष्वविरम्य एकाकारण प्रवृत आलापः । स एवापन्यासेपु विरम्य विरम्य प्रवृतं रूपकम् ।

चंचत्पुटादितालेन मार्गत्रयविभूपिता ।
आक्षिप्तिका स्वरपदग्रथिता कथिता बुधैः ॥४७॥

**टीकायामः-**आक्षिप्तिका निबद्धगीतभेदः । सा च चंचत्पुटादितालेन । आदिशद्वेन चाचपुटादयो मार्गताला गृह्यन्ते । तेष्वन्यतमेन । मार्गत्रयविभूपिता मार्गत्रये पूर्वोक्त चित्रादौ विभूपिताऽलंकृता । जात्युक्तनियमेनेति द्रष्टव्यम् । स्वरपदग्रथिता षड्जादिस्वरभूपितैः पदैः पदार्थवाचकैः शद्वैप्रथिता रचिता । पदतालाद्याक्षितत्वादाक्षिप्तिकेत्यन्वर्था । बुधैर्मतंगादिभिः कथिता।

रागालपनमालप्तिः प्रकटीकरणं मतम् ।
सा द्विधा गदिता रागरूपकाभ्यां विशेषणात् ॥४८॥

**टीकायाम्-**रागालपनमाप्तिरिति । अन्न यदालपनं साऽऽलाप्तिरित्यनेनाऽऽलप्तिरोऽप्यालपनशब्दवद्धावसाधनत्वेन व्युत्पन्न इति दर्शितं भवति । नन्वालापशब्दस्यापि साधनत्याविशेषात ‘स्याद्रागालाप आलप्तिः’ इति व्युत्पादन कस्मान्न कियत इति चेत् । उच्यते । घञूक्तिन्प्रत्यययोविलक्षणार्थवादिति । तथाहि ।

घञस्तावदाविर्भावोऽर्थः। क्तिनस्तुतिरोभावोऽर्थः। आविर्भावतिरोभावयोरत्यन्तवलक्षण्यमेव स्फुटम् । तदुभयमध्यस्थस्थित्यर्थत्वात्तदन्ते घञूक्तिन्नन्तयोर्व्यत्पादनमविरुद्धम् । अत एव भावावस्थाभेदाद् घञाद्यन्तानां लिंगभेदोऽप्युपपन्न एव । इ० ।

रागविशेषणाद्रागालप्तिः । रूपकविशेषणाद्रूपकालप्तिरित्यर्थः।

रामालप्तिस्तु सा या स्यादनपेक्ष्यैव रूपकम् ।

स्वस्थानैः सा चतुर्भिः स्यादिति गीतविदो विदुः॥४९॥

सामान्यलक्षणमाह।

वर्णालंकारसंपन्ना गमकस्थायचित्रिता।

आलप्तिरुच्यते तज्ज्ञैर्भूरिभंगिमनोहरा ॥ ५० ॥

**टीकायाम्-**अत्र विशेषणसाम्यात्स्त्रीसमाधिर्ध्वन्यते । यथा वर्णालंकारादिसंपन्ना कामिनी कामुकदर्शने कदाचिदाविर्भूतं कुचकेशादिकं स्वांग किंचिद्दर्शयत्येवं समिलासं तत्तिरोभावयति कदाचित्तिरोभूतं तदेव सव्याजं प्रकटीकरोति तथोक्तलक्षणाऽऽलतिरपि स्वस्थानचतुष्टयश्च तवतन रागं किंचिद्दर्शयन्ती तंतिरोभावयति । कदाचित्तिरोभूतं तमेव प्रतिग्रहभंजनाभ्यां तत्रतत्र रागं प्रकटीकरोति । स एप प्रतिमाविषय एवार्थः। आलापस्तु पुमाञ्श्मश्रूवादिकामिवसदा रागमाविर्भावयति । नपुंसकमिवाऽऽलपनं तदुभयसाधारणस्थितिं दर्शयतीति सूक्ष्मेक्षिकयाऽवगन्तव्यम् ।

स्वस्थानचतुष्टयम् ।

यत्रोपवेश्यते रागः स्वरे स्थायी स कथ्यते ।

ततश्चतुर्थो द्यर्धः स्यात्स्वरे तस्मादधस्तने ॥५१॥

चालनं मुखचालः स्यात्स्वस्थानं प्रथमं च तत् ।

द्यर्धस्वरे चालपित्वा न्यसनं तद्वितीयकम् ॥ ५२॥

स्थायिस्वरादष्टमस्तु द्विगुणः परिकीर्तितः ।

ह्यर्धद्विगुणयोर्मध्ये स्थिता अर्धस्थिताः स्वराः ॥५३ ॥

अर्धस्थिते चालयित्वा न्यसनं तु तृतीयकम् ।

द्विगुणे चालयित्वा तु स्थायिन्यासाचतुर्थकम् ॥

एभिश्चतुर्भिः स्वस्थानै रागालप्तिर्मता सताम् ॥ ५४॥

**टीकायामः-**द्विगुणे चालयित्वेति । द्विगुण इति तदुत्तरेप्रामप्युपलक्षणम् । तेषु चालयित्वा स्थायिन्यासाञ्चतुर्थकं स्वस्थानं भवति ।

रागस्थापनाप्रकारमाह।

स्तोकस्तोकैस्ततः स्थायैः प्रसन्नैबहुभङ्गिभिः ।

जीवस्वरव्याप्तिमुख्यै रागस्य स्थापना भवेत् ॥ ५५॥

टीकायाम् । जीवस्वरोंऽशस्बरः । उक्तस्वस्थानचतुष्टयप्रयुक्तायामालप्तायुक्तलक्षणैःस्वल्पैः रागावयवैर्विस्तार्यमाणायामापाततोऽभिव्यक्तस्य रागस्य रागान्तरसाधारणस्थायादिप्रयोगात् स्वरूपतिरोभावे सति किंचित् प्रतीयमानता भवेत् । यथा, लोके सभां प्रत्यागच्छतो देवदत्तस्य स्वरूपेणाभिव्यक्तस्य ततः,सभां प्रविश्योपविष्टस्य तस्य स्वसशरूपवेषभाषादिसांकर्यात्स्वरूपतिरोभावे सति यथा तस्य किंचित्प्रतीयमानत्वम् । यथा वा पृथगानीय भिन्नवर्णेषु मणिषु प्रोतस्य मुक्तामणेमण्यन्तरच्छायोपरामात स्वरूपतिरोभावे सति यथा तस्य किंचित् प्रतीयमानत्वं तद्वत् । इत्यभिप्रायः।”

जयत्कल्याण।

कल्याणमेलसंजातो जयत्कल्याण ईरितः ।

आरोहे चावरोहेऽपि मनिहीनोऽथ पांशकः ॥ ५६ ॥

संगतिपयोश्चात्र भवेद्रक्तिप्रदायिनी ।

अवरोहे तथैवासी धगयोर्बहुरक्तिदा ॥ ५७ ॥

ऋषभः कीर्तितस्तज्झै रागेऽत्र दुर्बलः सदा ।

गानं सुनिश्चितं तस्य राज्यां प्रथमयामके ॥ ५८ ॥

यतोऽयं पांशकः प्रोक्तो भूपालीभित् परिस्फुटा।

वादिभेदे रागभेदो नियमोऽयं सुसंमतः ॥ ५९ ॥

पूरियाफल्याणः।

कल्याणः पूरियाख्यातः कल्याणीमेलसंभवः ।

गांधारांशो मतो लक्ष्ये संपूर्णस्वरसंयुतः ॥ ६०॥

ऋषभौ द्वौ प्रयुक्तावत्र रागे गानकोविदः ।

आरोहे तीव्रसंज्ञः स्यात्कोमलः प्रतिलोमके ॥ ६१॥

संगतिर्गपयोश्वाथ भवेद्वैचित्र्यकारिणी।

गानं सुसंमतं प्रोक्तं प्रथमप्रहरे निशि ॥ ६२॥

पद्धत्यां दाक्षिणात्यानां पूर्वकल्याणनामकः ।

अधुनाऽपि श्रुतो रामः गमनश्रममेलने ॥ ६३ ॥

यतस्तस्मिन्न निर्दिष्टो रिषभस्तीव्रसंज्ञकः ।

स्यात्पूरियाद्यकल्याणस्तद्भिन्न इत्यसंशयम् ॥ ६४ ॥

चंद्रकांतः ।

कल्याणमेलसंजातश्चंद्रकांतः श्रुतो जने।

प्रारोहे मध्यमत्यक्तः प्रतिलोमे समग्रकः ॥६५॥

गांधारः संमतो वादी संवादी निस्वरो भवेत् ।

गानमस्य समीचीनं रात्र्यां प्रथमयामके ॥६६॥

प्राधान्यं निश्चितं चात्र पूर्वांगे गायनोत्तमैः ।

शुद्धकल्याणसादृश्य रागोऽयं संप्रदर्शयेत् ॥ ६ ॥

कल्याणे शुद्धपूर्वाख्ये नारोहे तिष्ठतो मनी ।

मनिरिक्तस्तथा पांशो जयकल्याण ईरितः ॥ ६८॥

भूपाल्यां तु मनी नस्त आरोहे चावरोहणे।

स्वातंत्र्यं चंद्रकांतस्य तस्मालक्ष्ये सुनिश्चितम् ॥ ६९ ॥

हिंदोलः।

कल्याणमेलसंजातो हिंदोलो लोकविश्रुतः ।

प्रातःकालागेयोऽसौ धांशको बहुसंमतः ॥ ७० ॥

गांशत्वं रात्रिगेयत्वं रागस्यास्य समर्थितम् ।

गायकैस्तु क्वचिल्लक्ष्ये बुधः कुर्याद्यथोचितम् ॥ ७१ ॥

वादित्वं नैव गांधारे भवेत् प्रातः सुसंगतम् ।

अतस्तद्धौवतस्यैव निश्चितं गानकोविदैः ॥७२॥

रिपयोरत्रलुप्तत्वादमात्यत्वं तु गस्वरे ।

प्रारोहे स्यान्निवकत्वं धमसंगत्यभीष्टदा ॥ ७३ ॥

लक्ष्ये कमात्सगासक्ता रिमच्छायावरोहणे।

न तद्दोपास्पदं मन्ये यतस्तच्छास्त्रसंमतम् ॥ ७४ ॥

मालश्रीः पूरिया चैव वसंतोऽपि यथातथम् ।

संमिलन्ति स्वरूपेऽत्रेत्याहुः केचिद्विचक्षणाः ॥७५ ॥

वर्णयन्ति पुनः केचिदेनं भैरवमेलने ।

आसावरीमेलनेऽन्ये लक्ष्यमार्गविरोधि तत् ॥ ७६॥

मालश्रीः।

कल्याणमेलसंजाता मालश्रीः कथ्यते बुधैः ।

आरोहे चावरोहेऽपि रिधहीना तथौडुवा ॥ ७७ ॥

पंचमोऽत्र भवेद्वादी संवादी षड्ज ईरितः ।

गानमस्याः समीचीनं सायंकाले मते सताम् ॥ ७८ ॥

त्रिस्वरा सगपा कैश्चिदुच्यते लक्ष्यवर्मनि ।

न तच्छास्त्रानुरूपं स्यात्स्वरूपं तद्विदा मते ॥ ७९ ॥

पंचोनेभ्यः स्वरेभ्यस्तु न स्याद्रागस्य संभवः ।

जानन्ति पंडिताः सर्वे रहस्यमिदमद्भुतम् ॥ ८०॥

यद्यप्यत्र मनी देयो स्वरसंख्याप्रपूरणे ।

दुर्बलौ तौ प्रयोगेषु ह्येतत्सर्वत्रसंमतम् ॥ ८१ ॥

संगत्या गपयोरेव भवेदेषा परिस्कुटा ।

तारषड्जान्मतो पातः पंचमे बहुरक्तिदः ॥ ८२ ॥

रागतरंगिणीग्रंथे मालश्रीः परिकीर्तिता ।

गौरीमेलसमुत्पन्ना रिधत्यक्ता तथौडुवा ॥८३ ॥

श्रीरागमेलसंजाता गनिकोमलमंडिता।

ग्रंथे रागविव्रोधाख्ये सोमनाथेल भापिता ॥८४ ॥

हमीरः।

कल्याणमेलके जातो हमीरः प्रोच्यते बुधैः।

गग्रहः पांशकः कैश्चिद्धैवतांशोऽपि कथ्यते ॥ ८५ ॥

यद्यप्यत्र प्रयोगे स्याद्धैवते ह्यवधारणम् ।

न तत्स्यात् केवलं तस्य रागे वादित्वकारणम् ॥८६॥

तथापि देशिरूपेऽस्मिन् शास्त्रसंमत्यभावतः ।

लक्ष्यमार्गमनुल्लंघ्य बुधः कुर्यात् स्वनिर्णयम् ॥ ८७॥

मद्वंद्व संमतं चात्र रोहण एव तीव्रमः।

रात्रिगेयं तथा पूर्ण वक्र रूपं मतं त्विदम् ॥८८॥

संघाताद्गमधानां स्यादेतद्रूपं परिस्फुटम् ।

प्रायोननैव कुर्वन्ति श्रोतारो नामनिर्णयम् ॥ ८९॥

द्विमध्यमेषु रागेषु नियमो लक्ष्यविश्रुतः ।

प्रारोहे स्यान्निदौर्बल्यमवरोहे गवक्रितम् ॥ १०॥

शुद्धकल्याणकेदाराविमनो मिश्रिता इह ।

इर्ति संकीर्त्यते कैश्चिद्गानशास्त्रविशारदः ॥ ९१ ॥

हृदयकौतुके ग्रंथे हमीरः समुदीरितः ।

केदारमेलसंजातः शुद्धस्वरपरिष्कृतः ॥ ९२ ॥

ग्रंथे रागविवोधाख्ये मंजर्याख्ये तथैव च ।

मृदुधैवतसंयुक्तो रागोऽयं समुदीरितः ॥ ९३ ॥

केदाः ।

कल्याणमेलसंजातः केदारो बहुसंमतः ।

शंकराभरणेऽप्येनं केचिदाहुर्विवक्षणाः ॥ ९४ ॥

मद्वंद्वमिह संदिष्टं गौणत्वं तीवमे मतम् ।

अंशत्वं शुद्धमेऽभीष्टं भुक्तत्वं चापि तत्स्वरे ॥१५॥

प्रारोहे स्थाद्रिगोनत्वमवरोहे गवक्रितम् ।

गानं सुरक्तिदं चास्य राञ्यां प्रथमयामके ॥ ९६॥

पंगुत्वं यदि गांधारे निषादेऽपि तथैव तत् ।

साधारणो दृश्यतेऽयं नियमो लक्ष्यवर्त्मानि ॥ ९७ ॥

प्रयोगे मध्यमौ द्वौ तौ सुयुक्तावतिरक्तिदौ।

नैतदन्येषु रागेषु बहुप्वालक्षितं भृशम् ॥ ९८॥

धमार्दवं रिधाल्पत्वं सोमनाथादिका विदुः ।

यतो लक्ष्यविरोधि स्यात्तन्मतं नात्र सस्कृतम् ॥ ९९ ॥

शुद्धस्वरसमुत्पन्नः केदारः समुदीरितः ।

रागतरंगिणीग्रंथे लोचनेन विपश्चिता ॥ १०० ॥

पूर्वांगे रिगदौर्बल्यं यथोपरि निरूपितम् ।

तथैव चोत्तरांगे तन्निधयोः स्यात्सुनिश्चितम् ॥ १ ॥

कामोदः ।

कल्याणमेलसंभूतः कामोदो विबुधप्रियः ।

द्विमध्यमप्रयोगेण भवेल्लश्ये द्विमेलजः ॥२॥

पंचमोऽत्र भवेद्वादी रिस्वरोऽमात्यतुल्यकः।

रात्र्यां प्रथमके यामे गानमस्य भवेत् प्रियम् ॥३॥

द्विमध्यमयुता रागा मताः कैश्चिद्धिमेलजाः ।

यतः कल्याणभेदास्ते मेलेऽत्र समुदीरिताः ॥ ४ ॥

प्रयोगस्तीव्रमस्येह भवेदल्पोऽनुलोमके ।

रिषयोः संगतिश्चित्रा गवक्रत्वं विलोमके ॥ ५॥

प्रारोहे संमतावत्र निगौ स्वरौ सुदुर्बलौ ।

असत्प्रायो निषादश्चेदारोहे चावरोहणे ॥ ६॥

गौडहंमीरसंयोगादूपमेतत्समुत्थितम् ।

लक्ष्यज्ञानां मत्वेतन्न मे भाति विसंगतम् ॥ ७ ॥

ग्रंथे रागविबोधाख्ये सोमनाथेन धीमता।

कांबोदी रागिणी प्रोक्ता शुद्धस्वरपरिष्कृता ॥८॥

रागतरंगिणीग्रंथे तथा हृदयकौतुके ।

कामोदः कीर्तितो मेले कर्णाटस्य निकोमलः ॥९॥

छायानटः

कल्याणीमेलनोत्पन्नश्छायानाटः प्रकीर्तितः ।

रिपसंवादसंपन्नो गेयो रात्र्याद्ययामके ॥ १०॥

अत्र सुसंगतिः प्रोक्ता पर्योः सर्वत्र संमता ।

पंचमादृषभो पातो नूनं स्याध्दृदयंगमः ॥ ११ ॥

प्रारोहे तीव्रमस्यान प्रयोगो दृश्यते क्वचित् ।

अवरोहे गवक्रत्वं सनियमं भवेत्पुनः ॥ १२॥

रागेऽस्मिन् गायकैः कैश्चिद्धौवतो ग्रह ईर्यते ।

षड्जस्वरगतो न्यासो मते तेषां सुरक्तिदः ॥ १३ ॥

अहोबलेन विदुपा छायानाटः प्रकीर्तितः।

शुद्धस्वरसमुत्पन्नो द्विमध्यमसमन्वितः ॥ १४ ॥

कल्याणगौडहंमीरनटाल्हैया यथायथम् ।

मिलन्ति च्छायनाटेऽस्मिन्निति शंसन्ति केचन ॥ १५ ॥

द्विमध्यमेषु रागेषु द्वितीयेऽवयवे सदा ।

अन्तरानामके प्रायः किंचित्सादृश्यमीक्षितम् ॥ १६ ॥

अतस्तद्वारणार्थं ते गानशास्त्रविशारदाः ।

रागगतविशिष्टांग दर्शयन्ति मुहुर्मुहुः ॥ १७ ॥

श्यामकल्याणः।

कल्याणीमेलसंजातः श्यामरागः समीरितः ।

कल्याणस्यैव भेदोऽयमिति सर्वत्र संमतम् ॥ १८ ॥

मद्वंद्वं धैवतोनत्वं प्रारोहेऽत्र विदा मतम् ।

वादित्वं निश्चितं षड्जे संवादित्वं तु मे स्वरे ॥ १९ ॥

वर्णयन्ति पुनः केचिदागमेनं रिवादिनम् ।

न तद्विसंगतं मन्ये लक्ष्यमार्गानुसारतः ॥ २० ॥

मुखचालेऽस्य रागस्य कामोदांगं भवेत्स्फुटम् ।

तद्रागस्थनिगाल्पत्वं नेहति भित्परिस्फुटा ॥ २१॥

संगती रिमयो रम्या रागेऽत्र गुणिसंमता।

कामोदे जीवभूताऽसौ संगती रिषयोः पुनः ॥ २२ ॥

संगत्या रिमयोर्नूनं छाया मल्लारिकोद्भवेत् ।

प्रस्फुटेन निषादेन गायकस्तां निवारयेत् ॥ २३ ॥

हंमीरगौडकेदारा मिलन्त्यस्मिन्स्वरूपके ।

संगिरन्ति पुनः केचिल्लक्ष्यलक्षणवेदिनः ॥ २४ ॥

रागतरंगिणीग्रंथे श्यामः केदारमेलजः।

शुद्धस्वरसमुद्भूतो लोचनेन प्रकीर्तितः ॥ २५ ॥

गौडसारंगः।

कल्याणीमेलके ज्ञेयो गौडसारंगनामकः ।

अतिवक्रस्वरूपोऽथ द्वाभ्यां माम्यां सुभूपितः ॥ २६ ॥

मध्याह्नार्हो मतो न्यल्पो गवकोऽप्यरोहणे।

गांधारस्यैव वादित्वं लक्ष्ये स्यात्संमतं सताम् ॥ २७ ॥

तीव्रस्य मध्यमस्यात्र गौणत्वं लक्ष्यते स्फुटम्

अतो वेलावलीमेले रागोऽयं कीर्तितः कचित् ॥२८॥

नटकेदारपूर्वीणां योगादयं समुद्भवेत् ।

इति सुनिश्चितं कैश्चिदानशास्त्रविशारयैः ॥ २९ ॥

ग्रंथेषु केषुचित्तत्र चीरशातिरसाश्रितः ।

संपूर्णो वर्ण्यते गांशो गेयो मध्याह्नतः परम् ॥ ३०॥

रागतरंगिणीग्रंथे गौडसारंग ईरितः।

निद्वयो धैवतत्यक्तो मेघसंस्थानकोत्थितः ॥ ३१॥

वेलावलीमेले।

वेलावली

शंकराभरणे मेले वेलावलीतिनामकः ।

धैवतांशो मतो लक्ष्ये प्रातःकालोचितस्तथा ॥१॥

प्रातःकालीयकल्याणमेनं शंसन्ति केचन ।

अवरोहे गवकत्वं कल्याणांग निवारयेत् ॥ २॥

यदायं मध्यमत्यतो निवकोऽप्यधिरोहणे ।

वेलावलस्तदाल्हैयापूर्वकः संभवेद्धृशम् ॥ ३ ॥

शुद्धवेलावलीरागे मृदुनिस्वरयोजनात् ।

अल्हैया संभवेल्लक्ष्य इतिसंगीतविन्मतम् ॥ ४॥

धमयोः संगतिश्चात्र भवेद्वैचित्र्यकारिणी ।

व्यवहारेत्वल्हैयैव गीयते ह्यधिकांशतः ॥ ५॥

उत्तरांगप्रधानत्वाद्वैचिन्यमुत्तरांगके।

प्रायेणोत्तररागास्ते प्रभवंत्यवरोहणे ॥६॥

ग्रंथे रागविबोधास्ये तथैव पारिजातके।

रागोऽयं वर्णितो मेले शंकराभरणाह्वये ॥ ७ ॥

प्रकारा बहवः प्रोक्ता वेलावलस्य गायकैः ।

प्रसिद्धा लक्ष्यमार्गे ये संगृहीता मयाऽत्र ते ॥८॥

शुक्लवेलावली।

शुद्धस्वरसमुद्भूतं शुकवेलावली स्मृता ।

वेलावल्याः प्रभेदोऽयं प्रातःकालोचित्तो मनः ॥ ९॥

शुद्धमोऽत्र भवेद्वादी संवादी षड्जसंज्ञितः।

प्रारोहे स्यादिदौर्बल्यं न्यासो मध्यम एव च ॥ १० ॥

रिषायोः संगतिश्चात्र प्रोक्ता रागांगवाचिका ।

निगयोर्धमयोश्चापि संगती रक्तिदाविके ॥ ११ ॥

उत्तरांगप्रधानत्वाद्वैचित्र्यंप्रतिलोमके।

मुक्तत्वं शुद्धमस्यैव रागरूपं प्रदर्शयेत ॥ १२ ॥

कोमलस्य निषादस्य स्पर्शी धैयतसंयुतः ।

प्रतिलोमगतो नैव गर्हणीयः सतां मते ॥ १३ ॥

वेलावल्यथ केदारो मिलतोऽत्र चथायथम् ।

इति संगीतविज्ञानां मतं सर्वत्र संमतम् ॥ १४ ॥

देवगिरी।

वेलावलीसुमेलाश्च जाता देवगिरी ततः ।

वेलावलप्रकारोऽयं कल्याणांगेन मंडितः ॥१५॥

षड्जस्तत्र मतो वादी कैश्विद्धैवत ईरितः ।

प्रतिलोमे धगौ स्यातां दुर्बलो लक्ष्यविन्मते ॥ १६ ॥

वेलावलीमभेदेषु नियमोऽतिमनोहरः।

अवरोहक्रमेणैव रागांगं प्रकटीभवेत् ॥ १७॥

प्रारोहे रात्रिगेयास्ते यथा रागाः परिस्फुटाः ।

सुव्यक्तास्ते विलोमे स्युदिर्नगेयाः सतां मते ॥ १८ ॥

देवगिरी मता पूर्णा पातर्गेयापि लक्ष्यके ।

मंद्रमध्यस्वरैर्गीता नूनं स्याद्भूरिरक्तिदा ॥ १९ ॥

तीव्रमो नातिदीर्घोऽत्र दृश्यते कुत्रचिन्मतः ।

मते मे तत्प्रयोगेण यमनीरागसंभवः ॥ २०॥

अवरोहगतो धेन सह कोमलनेलवः।

वेलावलस्वरूपेऽत्र भवेद्रक्तिप्रदायकः ॥ २१ ॥

पूर्वांगस्य प्रधानत्वात्पूर्वरागविचित्रता ।

तथैवोत्तररागेषु वैचित्र्यमुत्तरांगके ॥ २२॥

कांबोदीमेलजा प्रोक्ता देवकीरपराह्णगा।

विदुषा सोमनाथेन सांशन्यासग्रहा ह्यपा ॥ २३ ॥

अवरोहे धगत्यक्ता मतीव्रतरसंयुता।

वर्णिता पारिजाताख्ये ग्रेथेऽहोबलसूरिणा ॥ २४ ॥

वेलावली तथाल्हैया बिहागाख्यो गुणिप्रियः।

मिलन्त्यत्र यथायोग्यमित्याहुर्लक्ष्यवेदिनः ॥ २४ ॥

‘इमनी।

शुद्धमेलसमुद्भूता यमनी लक्ष्यविश्रुता।

वेलावलीप्रकारोऽयं यमनांगपरिष्कृतः ॥२६॥

इमनी गीयते नित्यं प्रातः पूर्णा द्विमान्विता ।

मिथः संवादिनावत्र सपाविति सुसंमतम् ॥ २७ ॥

प्रारोहे तीव्रमेणात्र यमनांगं समुद्भवेत् ।

शुद्धमस्य प्रयोगेण बुधस्तत्परिमार्जयेत् ॥ २८॥

पमपगमरिसैः स्याद्रागांग सुपरिस्फुटम् ।

शेषंवेलावलस्यैव सर्वमत्र सुनिश्चितम् ॥ २९ ॥

सर्पर्दा।

शुद्धमेलसमुत्पन्ना सर्पर्दा लोकविश्रुता ।

पारसीकेयरागोऽयं वेलावलांगमंडितः ॥ ३० ॥

पंचमः संमतो वादी संवादी षड्ज ईरितः ।

गानमस्याःसमीचीनं प्रथमप्रहरे दिने ॥३१॥

धगसंवादसंपन्नां केचिदेनां वदंति हि ।

लक्ष्यमार्गमनुलंध्य बुधः कुर्यात् स्वनिर्णयम् ॥ ३२ ॥

वेलावलप्रकारेषु सर्वेष्वपि समंततः ।

धवादित्वं समादिष्टं कैश्चिल्लक्ष्यविशारदः ॥ ३३ ॥

यद्यप्यत्र बिहागस्य क्वचिद्रूपं समुद्भवेत् ।

वेलावल्यवरोहेण भवेद्भांतिनिवारणम् ॥ ३४ ॥

अल्हैयेमनगौडाख्या मिलत्यत्र यथायथम् ।

इति समर्थितं कैश्चिल्लक्ष्यलक्षणकोविदैः ॥ ३५॥

वेलावल्यथ झिंझूटी यदा स्यातां सुसंयुतौ ।

तदा सर्पर्दिकोत्पत्तिर्भवेद्वदन्ति के परे ॥ ३६ ॥

रागे कर्णाटगौडाख्ये वेलावलीसमिश्रणात् ।

सर्पर्दायाः समुत्पत्तिः सोमनाथेन भापिता ॥ ३७ ॥

ककुभा।

स्याच्छुद्धस्वरसंमेलाद्रागः ककुभनामकः ।

वेलावलप्रभेदोऽयं प्रातर्गेयो मतो बुधैः ॥ ३८॥

मध्यमः संमतो वादी षड्जः स्यान्मंत्रितुल्यकः।

वेलावल्यवरोहेण संपूर्णो रक्तिदो भवेत् ॥ ३९ ॥

वेलावल्यां प्रसिद्धो यः प्रयोगो निद्वयस्य हि ।

रागेऽत्रानुमतस्तज्ज्ञैर्यथायोग्यप्रमाणतः ॥ ४० ॥

केदारपूरवीवेलावलीभिः ककुभा मता।

इति तरंगिणीग्रंथे लोचनेन प्रकीर्तितम् ॥ ४१ ॥

पग्रहो धविहीनोऽपि प्रारोहे तीबगोज्झितः ।

विदुपाहोरलेनाथ वर्णितः पारिजातके ॥ ४२ ॥

संगतिः सपयोः प्रोक्ता कैश्चित्सा समयोरपि ।

अल्हैयाझिंझुटीयोगात्साधितोऽयं मतः क्वचित् ॥ ४३ ॥

जयावंती तथा वेलावल्यल्हैया तथैव च ।

मिलन्त्यत्र यथान्यायम् केचित्परे वदन्ति ते ॥ ४४ ॥

लच्छासाखः।

वेलावलीसुमेले स्याल्लच्छाशाखो मतो बुधैः ।

वैलावलांगभूतत्वात्प्रात यः समीरितः ॥ ४५ ॥

संगतिर्धमयोः प्रोक्ता कुत्रचित्सपयोरपि ।

रागोऽयं नित्यसंपूर्णो निषादद्वयमंडितः ॥ ४६ ॥

धैवतः कीर्तितो वादी गांधारोऽमात्यसंनिभः ।

अवरोहेन वर्णेन वेलावल्यंगमादिशेत् ॥ ४७ ॥

प्रच्छन्नं लक्ष्यतेऽत्रापि झिंझूटयंग क्वचिकचित् ।

गांधारस्य प्रयोगे स्याद्गौडसारंगशंकनम् ॥ ४८ ॥

झिंझाट्यामथवा गौडसारंगे नैव लक्ष्यते ।

वेलावलांगप्राधान्यमत्र तत्स्यावश्यकम् ॥ ४९ ॥

वेलावलमकारास्ते नित्यं स्युभ्रांतिकारकाः ।

केवलं लक्ष्यमाहत्य बुधः कुर्यात्स्वनिर्णयम् ॥ ५० ॥

वेलावली ककुमाख्यो देशाख्यो लोकविश्रुतः ।

मते केपांचिदप्यत्र संमिलन्ति यथायथम् ॥ ५१ ॥

नटवेलावली।

शंकराभरणान्मल्लाज्जातो रागः सुनामकः।

नटवेलावलीत्युक्तः संपूर्णी लक्ष्यविन्मते ॥ ५२ ॥

मध्यमः संमतो वादी संवादी षड्ज ईरितः।

गानं तस्य समीचीनं प्रथमे यामके दिने ॥ ५३॥

पूर्वांगे नटयोगोऽत्र वेलावल्युत्तरांगके।

मध्यमेन प्रमुक्तेन नित्यं स्यादहृदयंगमः ॥ ५४ ॥

सगगममस्वरैः स्यान्नटांगं सुपरिस्फुटम् ।

वेलावल्यवरोहेण रागयोगो भवेत्स्फुटः ॥५५॥

टिप्पनी।

हमीरो हेमकश्चैव यदा स्यातां सुमिश्रितै।

तदाल्हैया भवेल्लक्ष्य इतिमर्मज्ञसंमतम् ॥ ५६ ॥

शुद्धस्वरसमुद्भुता शुद्धवेलावली मता।

कल्याणमनकेदारा मिलन्त्यस्यां विदां मते ॥ ५७ ॥

गौडसारंगसंयोगाल्लच्छाशाखसमुद्भवः।

जयावन्ती सुयोगेन ककुभाया भवेज्जनुः ॥ ५८॥

शुद्धकल्याणयोगे तु देवगिरिः समुद्भवेत् ।

भूपालीयोगतश्चासावौडुवाख्या मता जने ॥५८॥

केदारनाटयोगेन शुक्ललावली भवेत् ।

नटवेलावली योगान्नाटाह्वा लक्ष्यविन्मते ॥६० ॥

मिश्रणादिमनाख्यस्य वेलावल्यां समुद्भवेत् ।

वेलावलीमनीसंज्ञा विहंगिनीमथो ब्रुवे ॥ ६१ ॥

विहंगस्य सुसंयोगे सैव स्याद्रक्तिदायिनी ।

सर्पर्दा संमता लक्ष्ये झिंझूटीयोगसंभवा ॥ ६२ ॥

**मांडरागः **।

वेलावलीसुमेलाच्च मांडोत्पत्तिः प्रकीर्तिता।

मारुमेवाडदेशेऽस्य श्रूयते लक्ष्यके जनुः ॥ ६३ ॥

षड्जस्वरो मतो वादी संवादी पंचमः स्मृतः ।

गानं सुसंमतं चास्य रंजकं सार्वकालिकम् ॥ ६४ ॥

प्राबल्यं समपानां तु निषादे कंपनं प्रियम् ।

प्रारोहे रिधदौर्बल्यं वक्रत्वमवरोहणे ॥६५॥

अभ्युच्छ्यादलंकाराद्रागोऽयं निर्मितो बुधैः।

इति केचिद्वदन्त्यत्र संगीतमर्मवेदिनः ॥ ६६ ॥

सनिधमपगमसैः स्वरै रागो भवेत्स्फुटः।

क्षुद्रतार्हता तस्य लोके सर्वत्र संमता ॥६७ ॥

बिहागरागः ।

मेले वेलावलस्यैव प्रोक्तो रागः सुनामकः ।

बिहाग इति विख्यातो गांधारांशग्रहो जने ॥ ६८॥

प्रारोहे रिघवर्ज्यं स्यादवरोहे समग्रकम् ।

रात्र्यां द्वितीयके यामे गानमस्य मनोहरम् ॥ ६९॥

प्राबल्याद्रिधयोरत्र वेलावल्यंगमुद्भवेत् ।

अतस्तो दुर्बलो शिष्टावधरोहेऽपि मार्मिकैः ॥ ७० ॥

विरामो निस्वरे नित्यं भवेद्वैचित्र्यकारणम् ।

प्रायस्तत्रैव कुर्वन्ति श्रोतारो रागनिर्णयम् ॥ ७१॥

केचित्समादिशन्त्यत्र द्विमध्यमप्रयोजनम् ।

न तद्दोपास्पदं मन्ये रात्रिगेयस्वरूपके ॥ ७२ ॥

निषादः कोमलश्चास्मिन् प्रयुक्तश्चेद्विलोमके ।

बिहागडासमुत्पत्तिर्भवेदिति विदां मतम् ॥ ७३ ॥

संमिश्रणाद्विहागाख्ये झिंझूट्यादेर्यथायथम् ।

पटपूर्वविहागस्य स्वरूपं संभवेत्स्फुटम् ॥ ७४ ॥

शंकरः ।

शुद्धस्वरसमुद्भुतः शंकरो लोकविश्रुतः।

औडवः षाडवश्वापि द्विविधो गीयते जने ॥ ७५ ॥

औडवो रिमहीनत्वात् षाडवो मध्यमोज्झितः।

गानमस्य समीचीनं रात्र्यां द्वितीययामके ॥ ७६ ॥

षड्जोगो वा भवेद्वादी विहागांगन मंडनम् ।

लंधनान्मध्यमस्यैव बिहागाद्भिपरिस्फुटा ॥७७ ॥

संगतिर्गपयोर्नित्यं बिहागांग निवारयेत् ।

पातः षड्जो तु गांधाराद्रागरूपं प्रकाशयेत् ॥ ७८॥

पनिधसनिस्वरैः स्यादागरूपं परिस्फुटम् ।

इति कैश्चित्समादिष्टं मर्मज्ञानकोविदः ॥ ७९ ॥

केचिदेनं पुनः प्राहुः षड्जांशमुत्तरांगजम् ।

न तत्स्यात्संमतं लक्ष्ये वयं लक्ष्यानुवर्तिनः ॥ ८॥

शंकराख्ये तु रागे चेत्तीव्रमस्य प्रयोजनम् ।

शंकरारणकाख्यातं स्वरूपं संभवेद्ध्रुवम् ॥ ८१ ॥

शंकराख्ये पुनस्तद्वत् कल्याणांगस्य योजनात् ।

शंकराकरणोत्पत्तिः संभवेदिति विन्मतम् ॥ ८२॥

रागवृंदे तथाप्यत्र कामचारप्रवर्तनात् ।

लक्ष्यमार्गमनुलंध्य बुधः कुर्याद्यथोचितम् ॥ ८३॥

नटरागः।

वेलावलीसुमेलाञ्च नटरागः समुत्थितः ।

मध्यमांशोऽथ मन्यासः संमतो गानवेदिनाम् ॥ ८४ ॥

प्रारोहेस्यात्सुसंपूर्णो विलोमे धगवर्जितः ।

गानमस्य समीचीनं रात्र्यं द्वितीययामके ॥ ८५॥

छायानाटस्तथाल्हैया कामोदाख्यस्तथैव च ।

मिलन्त्यस्मिन्यथायोग्यमिति लक्ष्यज्ञसंमतम् ॥६६॥

पूर्वांगस्य प्रधानत्वादल्हैया नैव संभवेत् ।

मुक्तमध्यमयोगेन छायाकामोदधारणम् ॥ ८७ ॥

रागतरंगिणीग्रंथे तथैव हृत्प्रकाशके ।

मेघरागस्य संस्थाने रागोऽयमुपलाक्षितः ॥८८॥

वेलावलीसमुद्भूतो मांशो रिन्यासको नटः ।

अवरोहे गहीनश्व कीर्तितः पारिजातके ॥ ८९ ॥

गद्वयो निद्वयश्चापि कुत्रचित्समुदीरितः ।

यतस्तल्लक्ष्यरोधि स्यान्माननीयं न मे मते ॥ ९० ॥

नटनारायणो रागः शुद्धमेलसमुद्भवः ।

धदुर्बलस्तथा मांशो लक्ष्ये कैश्चित्समीरितः ॥ ९१ ॥

दुर्गा।

शुद्धमेलसमुत्पन्ना दुर्गाख्या लोकविश्रुता ।

आरोहे चावरोहेऽपि गनिहींनैव संमता ॥ ९२॥

मध्यमः संमतो वादी कैश्चित्पंचम ईरितः।

गानमस्याः सदाभीष्टं द्वितीयप्रहरे निशि ॥ ९३ ॥

शुद्धमल्लारिकाच्छाया यद्यप्यत्र लसेक्वचित् ।

धमरिपसुसंगत्या भवेत्तदपसारणम् ॥ ९४ ॥

गन्योरत्र विलुप्तत्वे सोरटचंगं कुतो भवेत् ।

रिधयोश्चात्र संगत्या रागः स्वातंत्र्यमावहेत् ॥ ९५॥

प्रयोगो मुक्तमस्यात्र नूनं चित्तहरो नृणाम् ।

वक्रत्वं प्रतिलोमस्य रागांगं स्फुटमादिशेत् ॥ ९६ ॥

निषादाभावतोऽप्यत्र न स्यात्सारंगसंभवः ।

संगतिर्धमयोश्चित्रा ह्यवश्यं रंजयेन्मनः ॥ १७ ॥

ग्रंथेषु दाक्षिणात्यानां शुद्धसावेरिका तु या।

कदाचित्सैव लक्ष्येऽन्न मर्मविद्भिरुरीकृता ॥ १८ ॥

मलुहाकेदारः।

केदारो मलुहानामा शुद्धमेलसमुत्थितः।

श्यामकामोदसंयोगादुद्भूत इति विश्रुतम् ॥ १९ ॥

केदारस्य प्रभेदोऽयं मन्यते लक्ष्यवेदिभिः ।

गानं चास्य समीचीनं द्वितीयमहरे निशि ॥ १००॥

केदारे प्रबला नित्यं षड्जमध्यमपंचमाः ।

सुप्रसिद्धं मतं त्वेतद्रागेऽस्मिन्नपि युज्यते ॥ १ ॥

संवर्धनं पुनश्चास्य मंद्रमध्यस्वरैर्भवेत् ।

विलंबितलये गीतो गांभीर्याधिक्यमावहेत् ॥२॥

मंद्रस्थो मध्यमश्चात्र रागरूपं प्रदर्शयेत् ।

निषादात्षड्जसंस्पर्शी रागवैशिष्ट्यमीरयेत् ॥३॥

चांदनीजलधारौ च मलुहाख्यस्तृतीयकः ।

आधुनिका मता एते प्रभेदा लक्ष्यवर्त्मनि ॥४॥

तीव्रमस्य प्रयोगेण तथा कोमलनेरपि ।

केदारे चांदनीनामा प्रकारः संभवेत्ततः ॥ ५॥

मेघकेदारसंयोगाज्जलधारः समुद्भवेत् ।

संगिरंति पुनः केचिलक्ष्यल्लक्षणवेदिनः ॥ ६॥

हेमकल्याणः ।

शुद्धस्वरसमुद्भूतो हेमकल्याणनामकः ।

षाडवो रात्रिगेयोऽपि निहीनो लक्ष्यविन्मते ॥७॥

षड्जस्वरो भवेद्वादी संवादी पंचमो भवेत् ।

मंद्रमध्यस्वरैर्गीतोऽवश्यं स्याद्रक्तिदायकः ॥ ८ ॥

शुद्धकल्याणके रागे कामोदास्यस्य योगतः ।

हेमः समुद्भवेल्लक्ष्य इति कैश्चित्प्रकीर्तितम् ॥ ९ ॥

आरोहे धैवतत्यको मंद्रपोद्राहमंडितः।

विलंबितलये गीतो रागवैशिष्टयमादिशेत् ॥ १० ॥

रागोऽयं मलुहाच्छायां नूनं प्रदर्शयेक्वचित् ।

तथाप्यत्र निहीनत्वं रागभेदं समादिशेत् ॥ ११ ॥

क्षेमकल्याणनामाऽपि रागो लक्ष्ये क्वचिच्छतः।

नासौ प्रसिद्धिवैधुर्यादस्माभिरत्र लक्षितः ॥ १२ ॥

देशिकारः ।

वेलावलसुमेलाञ्च देशिकारः प्रजायते ।

औडयो मनिहींनश्च संमतो गानवेदिनाम् ॥ १३॥

धैवतः संमतो वादी गांधारोऽमात्यतुल्यकः ।

उत्तरांगरधानोऽयं प्रातःकाले प्रगीयते ॥ १४ ॥

संगिरति पुनः केचिदेनं विभासकं स्वयम् ।

मतेऽस्माकं विभासः स्याद्भैवास्यसमेलजः ॥१५॥

मारवामेलकेऽप्यन्यो विभासः समुदीरितः।

गानं तस्यापि संप्रोक्तं लक्ष्ये भानूदयात्परम् ॥ १६ ॥

संध्याकाले यथा प्रोक्ता भूपाली गांशिका बुधैः।

तथैव देशिकारोऽयं धांशकः प्रातरीरितः ॥ १७ ॥

अथवोत्तरगगास्ते भवेयुः प्रतिमूर्तयः ।

स्वस्वपूर्वाद्यरागाणामिति प्रोक्तं मया पुरा ॥ १८ ॥

रिकोमलो मतीब्रोऽपि देशिकारः प्रकीर्तितः।

ग्रंथे रागवियोधाख्ये सोमनाथविपश्चिता ॥ १९ ॥

रागतरंगिणीग्रंथे रागोऽयं वर्णितः पुनः ।

गौरीमेलसमुद्भूतो रिधकोमलसंयुतः ॥ २० ॥

देशकारी मता पूर्णा गनितीव्रा च धांशिका ।

संगीतपारिजाताख्ये ग्रंथेऽहोबलधीमता ॥ २१ ॥

गुणकली।

वेलावलीसुमेलाञ्च जातो रागो गुणिप्रियः ।

गुणकलीतिनामासौ सपसंवादशोभनः ॥२२॥

यतो वेलावलांगेन गीयते लक्ष्यवर्त्मनि ।

गानं सुसंमतं तस्य प्रथमप्रहरे दिने ॥ २३ ॥

केचिद्गुणकली प्राहुः कल्याणांगविभूषिताम् ।

गांधारवादिनीं चापि साऽस्या भिन्ना परिस्फुटा ॥ २४ ॥

रागतरंगिणीग्रंथे गुणकरी समीरिता ।

गौरीमेलसमुत्पन्ना सा चास्या भेदमर्हयेत् ॥२५॥

पहाडी

वेलावलाख्यमेलाञ्च जाता पहाडिनामिका ।

सपसंवादसंपन्ना प्रारोहे मनिदुर्बला ॥ २६ ॥

मंद्रमध्यस्वरैश्रेयं भवेद्रक्तिप्रदायिनी।

मंद्रस्थो धैवतोऽप्यत्र स्फुटं रागांगमादिशेत् ॥ २७ ॥

दौर्बल्यात्स्वरयोर्मन्योपालीप्रकृतिं भजेत् ।

गरिसाधपधसैः स्याद्रागरूपं परिस्फुटम् ॥ २८॥

शुद्धमध्यमसंस्पर्शे विलोमे संमतः कचित् ।

यतस्तेन स्वरेण स्याद्भूपालीभित्परिस्फुटा ॥२९॥

ग्रंथेषु केषुचित्रोक्ता षाडी भैरवमेलने।

व्यवहारे तु तद्रूपं सांप्रतं नैव गोचरम् ॥ ३० ॥

समाजमेलजाप्पान्या पहाडी गीयते कचित् ।

स्वरूपं तन्मतं लक्ष्ये स्वतंत्रं गानकोविंदैः ॥ ३१ ॥

खमाजमेले।

झिंझूटी।

खमाजमेलकोऽस्माकं कर्णाटसंशितः पुरा ।

दाक्षिणात्यमते चासौ कांभोजीमेल उच्यते ॥ १ ॥

संमाजमेलसंजाता झिंझटी लोकविश्रुता ।

आरोहे चावरोहेऽपि संपूर्णा बहुसंमता ॥२॥

गांधारोऽत्र मतो वादी संवादी निस्वरो भवेत्।

गानं चास्या भवेदिष्टं द्वितीयपहरे निशि ॥३॥

सुगमं सरलं रूपं मेलरागसमाश्रयम् ।

क्षुद्रगीतक्षमं चापि मन्यते लक्ष्यवर्त्मनि ॥४॥

धसरिगमगस्वरैर्भवेद्रूपं परिस्फुटम् ।

मंद्रमध्यस्वरैर्गीतं नूनंस्यादतिरक्तिदम् ॥ ५॥

आरोहऽन रिसंयोगात् संमाजो भिन्नतां भजेत् ।

सरलारोहणत्वाञ्च स्वातंत्र्यं दर्शयेद्ध्रुवम् ॥६॥

खंमाजः।

खंमाजमेलनोत्पन्नो रागः खमाजनामकः ।

आरोहे रिस्वरत्यक्तः संपूर्णश्वावरोहणे ॥७॥

गांधारः संमतो वादी निषादो मत्रिसंनिभः।

गानमस्य समीचीनं राज्यां द्वितीययामके ॥८॥

संगतिर्धमयोरत्र नित्यं रक्तिमदाग्निी।

निधमपधमगैः स्थात् संमाजांग परिस्फुटम् ॥ ९॥

प्रारोहे पंचमाल्पत्वमादिष्टं मर्मवेदिभिः।

अवसानं तु गांधारे रागरूपं प्रदर्शयेत् ॥ १० ॥

खंमाजमेलजन्येषु रागेषु गानकोविदैः ।

प्रयोगस्तीव्रनेर्लक्ष्येऽनुमती रक्तिलब्धये ॥ ११ ॥

तिलंगिका।

खंमाजमेलसंजाता तिलंगिका बुधप्रिय।

आरोहे चावरोहेऽपि रिधहीनैव संमता ॥ १२ ॥

गांधारः संमतो वादी निषादोऽमात्य ईरितः।

गानमस्याः समादिष्टं द्वितीयपहरे निशि ॥ १३ ॥

खमाजप्रकृतिं धत्ते रागिणीयमसंशयम् ।

औडुवीडुकरूपत्वादागभेदो भवेत्स्फुटः ॥ १४ ॥

स्वरैर्निपगमगसरेतद्रूपं परिस्फुटम् ।

श्रोतारोऽपि स्वररेतैः कुर्वन्ति रागनिर्णयम् ॥१५॥

संगतिर्निपयोश्चात्र भवेद्रागांगदर्शिनी।

धैवतस्य प्रलुतत्वात् खंमाजो नैव संभवेत् ॥ १६ ॥

निर्दिशान्त क्वचिच्चात्रावरोहे रिप्रयोजनम् ।

लक्ष्यमार्गमनुल्लंध्य बुधः कुर्याद्यथोचितम् ॥ १७॥

रागोऽयं दृश्यते लक्ष्ये गीतो खंमाजमिश्रितः।

सनियमं भवेद्गानं तथाप्यस्य सुरक्तिदम् ॥१८॥

खंबावती।

खंमाजमेलसंजाता खंबावत्याह्वया जने ।

खंमाजनियमानां सा भवेत्प्रायो विपर्ययात् ॥ १९ ॥

प्रारोहे रिस्वरत्यक्तो खंमाजः सर्वसंमतः ।

रागिण्यामृपभस्त्वत्र प्रारोहे रक्तिवर्धकः ॥ २० ॥

मध्यमात् षड्जसंस्पर्शो विशिष्टां रक्तिमावहेत् ।

धपधमगमसैः स्याद्रागांगं सुपरिस्फुटम् ॥ २१ ॥

गांधारः संमतो वादी धैवतोऽमात्यतुल्यकः।

गानमस्याः समीचीनं राज्यां यामे द्वितीयके ॥ २२॥

उत्तरांगस्वरैः किचिंद्वागीश्वयंगमुद्भवत् ।

मृदुगांधारहीनत्वात्पूर्वांगे नैव सा भवेत् ॥ २३ ॥

मधयोः संगतिश्चित्रा ह्यवरोहे पवक्रता ।

माडखंमाजयोगोऽत्र शंकितो लक्ष्यवेदिभिः ॥२४॥

रागतरंगिणीग्रंथे तथा हृदयकौतुके।

केदारमेलनोत्पन्ना खंबावती समीरिता ॥ २५ ॥

गारा।

खंमाजमेलसंजाता गारा स्याल्लोकविश्रुता।

आरोहे चावरोहेऽपि संपूर्णा लक्ष्यविन्मते ॥ २६ ॥

गांधारः संमतो वादी निर्धोवा मंत्रितुल्यकः।

गानमस्याः समीचीनं द्वितीयप्रहरे निशि ॥ २७ ॥

गांधारौ द्वौ निषादी द्वौ निश्चितावत्र कोविदः।

विलोमे कोमलौ प्रोक्तौ प्रारोहे तीव्रको निगौ॥२८॥

कल्याणीझिंझुटीयोगः कोशल्येन सुसाधितः।

आरोहे प्रथमा व्यक्ता द्वितीया चावरोहणे ॥ २९ ॥

क्षुद्रगीताहताऽप्यस्या रागिण्या यदि संमता ।

सुगीताऽवश्यमेवैपा भवेच्चित्ताप्रहरिणी॥ ३०॥

मंद्रस्थमध्यमे षड्जमारोप्यामध्यमध्यमम् ।

यदेयं गीयते तज्ज्ञैर्लोके रक्तिप्रदा मता ॥ ३१॥

दुर्गा।

खंमाजमेलनेऽप्यन्या दुर्गा लक्ष्ये क्वचिच्छ्रुता ।

आरोहे चावरोहेऽपि रिपहीनैव लक्षिता ॥ ३२॥

गांधारोऽत्र मतो वादी साहचर्ये निषादकः ।

गानं समीरितं तज्ज्ञैर्द्वितीयप्रहरे निशि ॥ ३३॥

संगतिर्धमयोश्चात्र वागीश्वयंगसूचिनी।

गांधारः कोमलस्तत्र स चात्रैवास्ति तीव्रकः ॥३५॥

धसंयोगात्पलुप्तत्वातैलंगीभित्परिस्फुटा।

संपूर्णः प्रतिलोमेऽसौ खंमाजोऽस्या भजेद्धिदाम् ॥ ३५ ॥

झिंझूटी तु सदा पूर्णा पारोह चावरोहणे ।

एवं दुर्गा भवेल्लक्ष्ये स्वतंत्ररूपधारिणी ॥ ३६ ॥

रागेश्वरी।

खंमाजमेलनोत्पन्ना रागेश्वरी मता बुधैः।

आरोहे रिपहीनासौ विलोमे पंचमोज्झिता ॥३७॥

गांधारः कथ्यते वादी निषादोऽमात्य ईरितः ।

गानं सुसंमतं नित्यं द्वितीयमहरे निशि ॥ ३८॥

संगतिर्धमयोश्चात्र भवेद्रक्तिप्रदायिनी।

प्रतिलोमगतो रिस्तु दुर्गाभेदं समादिशेत् ॥ ३९ ॥

रागाद्यलक्षणे ग्रंथे रागिणीयं सुलक्षिता ।

नाटकुरंजिकानाम्नी कर्णाटकबुधप्रिय ॥ ४० ॥

सोरटी।

खंमाजमेलनोत्पन्ना सोरटी शास्त्रसंमता।

आरोहे गधवर्ज्यं स्यादवरोहे समग्रकम् ॥ ४१ ॥

ऋषभः संमतो वादी संवादी धैवतो भवेत् ।

गानं सुसंमतं चास्या द्वितीयप्रहरे निशि ॥४२॥

गांधारस्य प्रयोगोऽत्र विलोमे घर्षणान्वितः ।

दौर्बल्यं तत्स्वरस्य स्यादनुलोमेऽपि विन्मते ॥ ४३ ॥

मध्यमादृषभो पातः सोरट्यां जीवभूतकः ।

श्रोतारः प्रायशस्तेन कुर्वन्ति रागनिर्णयम् ॥ ४४ ॥

प्राचुर्याद्रस्वरस्येह संभवेद्देसनामकः ।

संपूर्णो न्यंशको लक्ष्ये मर्मज्ञानां मतं त्विदम् ॥४५॥

मृदुगस्य मनाक्स्पर्शी देसाख्ये कैश्चिदीरितः ।

यतस्तेन मते तेषां सोरटी भिन्नता भजेत् ॥४६॥

ऋषभादिस्तु सौराष्ट्री कम्पान्दोलितशोभिता ।

कर्णाटमेलने प्रोक्ता हृदयादिविवेकिभिः ॥४७॥

रागलक्षणके ग्रंथे सूरटी समुदरिता ।

कांभोजीमेलनोत्पन्ना प्रारोहे गधवर्जिता ॥१८॥

तिलककामोदः।

खंमाजमेलसंजातः कामोदस्तिलकाधकः।

संपूर्णो गीयते लक्ष्पे रात्र्यां द्वितीययामके ॥ ४९ ॥

प्रारोहे दुर्बलो धः स्याद्रिवकं प्रतिलोमके ।

सोरटीदेसकांगेन प्रायो लक्ष्ये प्रगीयते ॥ ५० ॥

ऋषभः संमतो वादी पंचमोऽमात्यसंनिभः ।

संगत्या रिपयोर्नूनं भवेद्रक्तिपदो नृणाम् ॥ ५१॥

निषेधो मृदुनेरत्रादिष्टः कैश्चिद्यतस्ततः ।

विहारीभिद्भवेत्स्पटा बुधः कुर्यात्स्वनिर्णयम् ॥५२॥

गांधारात्षड्जसंस्पर्शे विरामो निस्वरे तथा ।

पनिसरिगतानोऽपि भवेयू रागवाचकाः ॥ ५३॥

आरोहणे यतो रिः स्यात् खंमाजः संभवेत्कथम् ।

प्राचुर्याद्गस्वरस्यात्र सोरटी नैव संभवेत् ॥ ५४॥

रागेश्वरी तथा दुर्गा रागिण्यौ पंचमद्विपे ।

द्विगांधारा मता गारा रिधत्यक्ता तिलंगिका ॥ ५५ ॥

जयजयवन्ती ।

खंमाजमेलनाज्जाता जयावन्ती गुणिप्रिया ।

आरोहे चावरोहेऽपि संपूर्णा लक्ष्यसंमता ॥ ५६ ॥

ऋषभोऽत्र मतो वादी संवादी धैवतो भवेत् ।

मानं चास्याः समीचीनं द्वितीयपहरे निशि ॥ ५७ ॥

गांधारौ द्वौ निषादौ द्वौ रागिण्यामत्र संमताः ।

सारटीदेसकांगेन एषाऽपि स्यात्सुरक्तिदा ॥ ५८ ॥

द्विरुपिस्वररागेषु नियमः प्रायशः श्रुतः।

कोमलास्याः स्वरास्तत्र प्रयुक्ताः स्युर्विलोमके ॥ ५९ ॥

मंद्रस्थपंचमस्येह रिस्वरेण सुसंगतिः।

छायानाटाह्वयस्यांग कुत्रचित्संमदर्शयेत् ॥ ६० ॥

छायानाटगता पर्योः संगति न संभवेत् ।

वेलावली तथा गौडः सोरट्यापि यथायथम् ॥ ६१॥

संमिलन्ति जयावन्त्यामित्यूचुः सांप्रदायिनः ॥

संमाजमेलजन्येषु रागेषु लक्ष्यविन्मते ॥ ६२॥

रागिणीय मता नित्यं परमेलप्रवेशिका ।

रागतरंगिणीग्रंथे तथा हृदयकौतुके ।

कर्णाटमेलने प्रोक्ता जयावंती तु पांशिका ॥ ६३ ॥

टिप्पनी।

खंमाजमेलजा रागा विभज्यन्ते द्विधा बुधैः ।

गांशका न्यंशकाश्चेति रहस्यं गणिसंमतम् ॥६४॥

खंमाजांगा मता गांशाः सोरट्यंगास्तु न्यंशकाः ।

तत्वमेतत्स्मरेन्नित्यमुपदिष्टं विवेकिभिः ॥ ६५ ॥

झिंझटी चाथ खंमाजो गारा दुर्गा तिलंगिका।

रागेश्वरी मता एते गांधारांशेन मंडिताः ॥ ६६ ॥

सोरटी देसइत्याह्वः कामोदस्तिलकायकः।

जयावन्तीह रागास्ते न्यंशका लक्ष्यविन्मते ॥ ६७॥

जयावन्तीह सा नूनं द्विगांधारसुयोगतः।

सूचयेत्परमेलं तं कणीटाख्यमसंशयम् ॥ ६८॥

मिश्ररागास्त्वनंतास्ते कस्तान वर्णयतुं क्षमः ।

केवलं ते समुन्नीया लक्ष्यमालंब्य कोविदैः॥६९ ॥

भैरवमेले।

भैरवः ।

भैरवाख्यसुमेलाञ्च जातो भैरवनामकः ।

आरोहे चावरोहेऽपि संपूर्णः सर्वसंमतः ॥ १॥

धैवतः संमतो वादी संवादी ऋषभो भवेत् ।

गानमस्य समादिष्टं प्रातःकालेऽतिरक्तिदम् ॥ २॥

पारोहे ऋषभाल्पत्वं संप्रोक्तं मर्मवेदिभिः।

आंदोलनं तथैव स्याद्रिधयोरिति संमतम् ॥३॥

सायंकाले यथा प्रोक्तं वैचित्र्यं गनिषादयोः ।

रिधयोस्तत्तथैव स्यात्प्रातःकाले मते सताम् ॥ ४॥

ग्रंथेषु केषुच्चित्तत्र निषादः कोमलो मतः ।

अवरोहे न रक्तिघ्नो भूयादिति विदो विदुः ॥ ५॥

मध्यमस्य प्रमुक्तत्वं प्रयोगे लक्षितं क्वचित् ।

तत्स्वरादृषभे पातो रक्तिदो घर्षणान्वितः ॥६॥

भैरवोऽयं यथा प्रातः श्रीरागः सायमीरितः ।

एकस्मिन् धैवतो राजाऽन्यस्मिन् स्यादृषभस्तथा ॥ ७ ॥

आन्दोलितौ रिधावत्र यतो रागांगवाचकौ ।

दृढपरिश्रमेणैतौ प्रथम साधयेद्बुधः ॥ ८॥

भैरवमेलजा लक्ष्ये प्रकारा बहवोऽपि ते ।

मातर्गेया मतास्त भैरवांगेन मंडिताः ॥९॥

शुद्धभैरवनामापि रागो ग्रंथेषु लक्षितः ।

स तु भैरविमेलोत्थो रिषवर्जित औडुवः ॥ १०॥

बंगालभैरवः।

भैरवाख्यसुमेलाच्च बंगालभैरवो मतः ।

आरोहे चावरोहेऽपि निषादस्वरवर्जितः ॥ ११

धैवतोऽन्न मतो वादी गवक्रश्चावरोहणे।

गानं सुनिश्चितं तस्य प्रातःकाले मनीषिभिः ॥ १२॥

सधयोः संगतिश्चात्र भवेद्रक्तिप्रदायिनी।

भैरवस्य प्रभेदो यद्भवांगं परिस्फुटम् ॥ १३॥

बंगाली चाथ बंगालो रागी लक्ष्ये स्वतंत्रकौ ।

रहस्यं विश्रुत त्येतत्सर्वेषां गानवेदिनाम् ॥ १४॥

शिवभैरवः ।

भैरवे मेलने प्रोक्तो भैरवः शिवपूर्वकः।

मिश्रमेलसमुन्पन्नो भैरवांगेनमंडितः ॥ १५ ॥

धैवतोऽत्र मतो वादी संवादी रिषभः स्मृतः।

गानमस्य समीचीनं प्रत्यूपसमयोचितम् ॥ १६ ॥

द्विगांधारद्विनिषादो गीयते लक्ष्यवर्त्मनि ।

प्रसिद्धिविधुरत्वातु रागोऽयं वादमूलकः ॥ १७ ॥

प्रारोहे गनितीव्रत्वादेरवांगं प्रदर्शयेत् ।

अवरोहे गमृदुत्वादीपत्तोड्यंगमादिशेत् ॥१८॥

मते केषांचिदप्येष शुद्धाख्यभैरवः स्वयम् ।

मृदुगनी रिषयुक्तः शुद्धाख्यः शास्त्रगोचरः॥ १९ ॥

प्रयोगे धैवतस्तीव्रः क्वचिलक्ष्ये समीक्ष्यते ।

मनाक्स्पर्शगतो न स्याद्रक्तिहानिकरोऽप्यसौ ॥२०॥

आनंदभैरवः।

मेलान्मालवगोलीयाज्जातो रागो गुणिप्रियः।

आनंदभैरवाख्यातः संपूर्णो मांशकस्तथा ॥ २१॥

पूर्वांग भैरवः प्रोक्तो वेलावल्युत्तरांगके।

गानं समीरितं चास्य प्रातःकाले सुरक्तदम् ॥ २२॥

आदिशान्ति पुनः केचिद्धमृदुमनुलोमके ।

तीव्रधं चावरोहेऽपि बुधः कुर्याद्यथोचितम् ॥ २३ ॥

रागोऽयं गीयते लक्ष्ये भैरवांगेन नित्यशः ।

अतो भैरवभेदोऽसौ संमतो लक्ष्यवर्त्मनि ॥ २४ ॥

आनंदभैरवीरागो गनिकोमलमंडितः।

रागलक्षणके प्रोक्तः सचास्मान्द्रेदमर्हति ॥ २५ ॥

प्रमुक्तो मध्यमोऽप्यन्त्र भवेदतिमनोहरः।

ऋषभांदोलनं स्पष्टं भैरवांगं प्रदर्शयेत् ॥ २६ ॥

अहीरभैरवः।

भैरवस्यैव मेलाञ्च संजातोऽहीरभैरवः ।

आरोहे चावरोहेऽपि संपूर्णस्तद्विदा मते ॥ २७ ॥

मध्यमः संमतो वादी संवादी षड्ज ईरितः ।

गानमस्य समीचीनं प्रातःकाले सुरक्तिदम् ॥ २८॥

पूर्वांगे भैरवः स्पष्ट उत्तरांगे हरप्रिया ।

वैचित्र्यं तु भवेदन मिश्रणादंगयोर्द्वयोः ॥ २९ ॥

ऋषभस्तीवकोऽप्यत्र प्रारोहेऽनुमतः क्वचित् ।

“मध्यमेन प्रमुक्तेन रागोऽयं स्यात्सुखावहः ॥ ३० ॥

रागलक्षणके ग्रंथे ह्यहोरी सांशिका मता।

हनुमत्तोडिमेलोत्था तद्रूपं तु स्वतंत्रकम् ॥ ३१ ॥

प्रभातभैरवः।

भैरवस्यैव मेलाच जातः प्रभातभैरवः ।

आरोहे चावरोहे च संपूर्णः संमतः सताम् ॥ ३२ ॥

मध्यमोऽत्र भवेद्वादी संवादी षड्जनामकः ।

गानं चास्य समीचीनं प्रभातसमये शुभम् ॥ ३३ ॥

भैरवस्थौ रिधावत्र मातःकालपसूचकौ ।

प्रमुक्तमध्यमाञ्चायं भैरवाद्भेदमर्हयेत् ॥ ३४॥

मुक्तत्वान्मध्यमस्येह ललितांग समुद्भवेत् ।

पंचमस्य प्रयोगेण तदंग दूरतां ब्रजेत् ॥ ३५ ॥

तीव्रमस्य मनाकस्पर्शी लक्ष्येऽत्र दृश्यते क्वचित् ।

अवरोहे न रक्तिमः स इत्युक्तं विचक्षणैः ॥ ३६ ॥

सौराष्ट्रभैरवः।

भैरवे मेलने ख्यातो रागः सौराष्ट्रभैरवः ।

मिश्रमेलसमुत्थोऽसौ प्रातर्गयो निदुर्बलः ॥ ३७॥

मध्यमः संमतो वादी संवादी षड्ज ईरितः ।

संपूर्णो गीयते लक्ष्ये धैवतद्वयसंयुतः ॥ ३८॥

प्रारोहे तीव्रधो युक्तः कोमलः स्याद्विलोमके।

विचित्रं रूपकं चैतल्लक्ष्ये वैमत्यकारणम् ॥ ३९॥

रामकली।

भैरवस्यैव मेलाञ्च जातो रागः सुनामकः ।

रामकलीति विख्यातः संपूर्णे लक्ष्यविश्रुतः॥४०॥

धैवतोऽत्र मतो वादी कैश्चित्पंचम ईरितः ।

गानमस्य समीचीनं प्रातःकालेऽतिरक्तिदम् ॥ ४१ ॥

रागोऽयमुद्भुतो लक्ष्ये मध्यमद्वयमंडितः ।

प्रायो मस्तीव्रकश्वेह प्रारोहणे प्रयुज्यते ॥ ४२ ॥

मुक्तत्वं मध्यमे युक्तं शुद्धे लक्ष्यविदा मते ।

रिधावान्दोलितावत्र भैरखांगप्रसूचकौ ॥ ४३ ॥

कोमलस्य निषादस्य प्रयोगः क्रियते यदा ।

तदा मपधनिधपताना स्याद्रागवाचकः ॥४४॥

मंदमध्यस्वरैर्गीतो भैरवो रक्तिदो यथा ।

रामकली मता तज्ज्ञैर्मध्यतारस्वरैस्तथा ॥ ४५ ॥

रागलक्षणके ग्रंथे रामकली प्रकीर्तिता।

आरोहे तु मनित्यक्ताऽवरोहे मध्यमोज्झिता ॥ ४६॥

रामक्रिया मता तत्रारोहे पंचमवर्जिता ।

अवरोह महीनाऽपि न तल्लक्ष्येऽत्र गोचरम् ॥ ४७ ॥

हृदयकौतुके ग्रंथे रामकरी सुलक्षिता।

गौरीमेलसमुत्पन्ना प्रारोहे मध्यमोज्झिता ॥४८॥

रिधकोमलसंयुक्ता गनितीव्रा मतीव्रका।

आरोहे मनिवर्ज्याच पांशाऽहोबलसंमता ॥४९॥

गुणकरी।

मेलने भैरवस्यैव गुणकरी मता बुधैः ।

आरोहे चावरोहे च गनिवर्ज्यातथौडुवा ॥ ५० ॥

धैवतोऽत्र मतो वादी संवादी रिपभस्वरः ।

गानमस्याः समीचीनं प्रातःकाले सुरक्तिदम् ॥ ५१॥

रागोयं गीयते लक्ष्ये भैरवांगेन नित्यशः ।

भक्तिमार्ग प्रयुक्तः सन् तापत्रयं निवारयेत् ॥ ५२ ॥

उद्ग्राहो मरिसंगत्या क्वचिद् दृष्टः समादृतः।

संयुक्तो भैरवांगेन न रक्तिघ्नो मते मम ॥ ५३॥

संगत्या रिमयोरत्र जोगियांगं समुद्भवेत् ।

निषादाभावतोऽत्र स्याज्जोगियाभित् परिस्फुटा॥ ५४॥

रिधकोमलसंयुक्ता गनिवा गुणक्रिया ।

वर्णिताहोबलेनापि स्वग्रंथे पारिजातके ॥ ५५ ॥

गांधारवर्जिता प्रोक्ता लोचनेन विपश्चिता ।

अवरोहे निसंयुक्ता गौरीमेले परिस्फुटा ॥ ५६ ॥

जोगिया ।

भैरवस्यैव मेले स्याज्जोगिया लोकविश्रुता ।

गांधारस्वरसंत्यक्ता नित्यक्ता चाधिरोहणे ॥ ५७ ॥

मध्यमोऽत्र भवेद्वादी संवादी षड्ज ईरितः।

गानमस्याः समादिष्टं प्रातःकाले सुरक्तिदम् ॥ ५८ ॥

रिमयोर्धमयोश्चान संगती बहुरक्तिदे।

मध्यमस्य प्रमुक्तत्वं नित्यं रागांगमादिशेत् ॥ ५९ ॥

जोगिया प्रकृतिश्चेपत्सावेरीसदृशी मता।

अवरोहे गसंयुक्ता सावेरी सर्वसंमता ॥६०॥

सावेरी भैरवश्चात्र संमिलतो यथायथम् ।

इति समर्थित कैश्चिन्न तद्धाति विसंगतम् ॥ ६१॥

कलिंगः।

भैरवस्यैव मेले स्यात्कलिंगस्य मता जनुः ।

आरोहे चावरोहऽपि कलिंगः पूर्ण ईरितः ॥ ६२ ॥

धैवतः पंचमो वाऽत्र स्वरो वादीतिसंमतः ।

गानं सुसंमतं चास्य चतुर्थप्रहरे निशि ॥ ६३ ॥

हस्वत्वादिधयोश्चात्र भैरवो नैव संभवेत् ।

चंचलप्रकृतिश्चायं संमतो लक्ष्यवेदिनाम् ॥ ६४ ॥

संपूर्ण सरलं रूपमेतत्सर्वगुणिप्रियम् ।

क्षुद्रगीतोपपन्नं च सर्वत्रैव सुरक्तिदम् ॥ ६५॥

विभासः ।

भैरवाख्यासुमेले च जातो रामो विभासकः ।

आरोहे चावरोहेऽपि निमध्यमविवर्जितः ॥ ६६॥

धैवतः संमतो वादी गांधारोऽप्रात्यतुल्यकः ।

गानं सुनिश्चितं तस्य प्रातःकालेऽतिरक्तिदम् ॥ ६७ ॥

विचित्रो गपसंगत्या सुशांतप्रकृतिः सदा।

उत्तरांगप्रधानोऽयं प्रभाते हर्षयन्मनः ॥ ६८॥

यत्र यत्र मनित्यागः संगतिर्गपयोर्भवेत् ।

सनियम रहस्यं तत् पूर्वमेव मयोदितम् ॥ ६९ ॥

स्वरे पंचमके न्यासो धैवतात्क्रियते यदा।

विभासांगं भवेत्स्पष्टमित्याहुर्लक्ष्यवेदिनः ॥ ७० ॥

संध्याकाले यथा रेवा तथा प्रातर्विभासकः ।

गांशिकाद्या मता तज्ज्ञैद्वितीयो धांशको मतः ॥ ७१ ॥

मेघरंजनी।

भैरवमेलसंजाता रागिणी मेघरंजनी ।

आरोहे चावरोहेऽपि पधहीनैवसंमता ॥ ७२॥

मध्यमः समतो वादी संवादी षड्ज ईरितः ।

गानं सुसंमतं तस्यास्तुरीये प्रहरे निशि ॥ ७३ ॥

मध्यमस्यात्रमुक्तत्वाल्ललितांगं परिस्फुटम् ।

धैवताभावतोह्यत्र तदंग दूरतां व्रजेत् ॥ ५४॥

समयोः संगतिश्चेह समादिष्टा विवेकिभिः।

विलंबितलये गीता रागिणीयं मनोहरेत् ॥ ७५॥

रागलक्षणके ग्रंथे मेघरजनिका मता।

मालवगौलके मेले पधहीनौडुघा ततः ॥ ७६ ॥

गौरी।

मालवगौलके मेले गौरी शास्त्रेषु वर्णिता।

आरोहे धगहीनासावरोहे समग्रिका ॥ ७७ ॥

ऋषभः स्यात्स्वरो वादी संवादी पंचमो भवेत् ।

गानं सुनिश्चितं तस्याश्चतुर्थमहरे दिने ॥ ७८ ॥

आदिशन्ति पुनः केचिदत्र तीव्रमयोजनम् ।

सायंगेये स्वरूपेऽस्मिन् भाति मे न विसंगतम् ॥ ७९ ॥

कलिंगांगा मता गौरी पूरियांगा तथैव च ।

मतं त्विदं मसिद्धं स्यात्सर्वत्र लक्ष्यवर्त्मनि ॥ ८०॥

मंद्रस्थस्य निषादस्य वैचित्र्यमद्भुतं मतम् ।

श्रोतारः प्रायशस्तत्र कुर्वन्ति रागनिर्णयम् ॥ ८१ ॥

ललितपंचमः।

भैरवाख्यसुमेलाञ्च जातो ललितपंचमः ।

आरोहे तु पवर्ज्यं स्यात् पूर्णवक्रावरोहकम् ॥ ८२ ॥

मध्यमः समतो वादी संवादी षड्ज ईरितः।

गानं चानुमतं तस्य तुरीयमहरे निशि ॥ ८३॥

रागोऽयं गीयते लक्ष्ये ललितांगपरिष्कृतः।

मध्यमावप्युभौ तत्र स्वीकृतौ गायनोत्तमैः॥ ८४॥

मध्यमेन प्रमुक्तेन ललितांग समुद्भवेत् ।

पंचमस्य प्रयोगेण बुधस्तत्परिमार्जयेत् ॥८५॥

अनूपसंगीतरत्नाकरे ।

औडुवः षाडवश्चैव संपूर्णश्च त्रिधा मतः ।

वसंतनंदकानंदस्वर्णाकर्षणपूर्वकाः ॥८६॥

गांधारपंचमाद्यश्च बहुलीपूर्वकस्ततः ।

रामभैरव इत्येवं भैरवो दशधा स्मृतः ॥ ८७॥

पूर्वीमले।

पूर्वी ।

पूर्वीतिनामके मेले स्यात्पूर्वी सुखदायिनी।

आरोहे चावरोहेऽपि संपूर्णैव मता बुधैः॥१॥

गांधारः संमतो वादी निषादो मंत्रितुल्यकः ।

गानमस्याः समादिष्टं दिनान्तेऽतिमनोहरम् ॥ २ ॥

व्यवहारे प्रसिद्धषा श्रीरागस्य कुटुंबिनी।

उद्धारोऽस्या भवेद्युक्तः श्रीरागानन्तरं ततः ॥ ३॥

प्रयोगः शुद्धमस्याऽत्र सह गेन मतो मनाक् ।

अवरोहे न मे भाति रक्तिहानिकरोऽप्यसौ ॥ ४ ॥

निसरिगमगस्वरै रागांगं विशदीभवेत् ।

श्रोतारोऽपि सुखं तैश्च कुर्वन्ति रागनिर्णयम् ॥५॥

आदिशन्ति पुनः केचिद्रागेऽत्र तीव्रधैवतम् ।

तत्स्वरेण मते तेषां धनाश्रीभिद्भवेत्स्कुटा ॥ ६॥

धैवतद्वंद्वमप्याहुः केचिदन्ये विपश्चितः ।

लक्ष्यमार्गमनुल्लंध्य बुधः कुर्यात्स्वनिर्णयम् ॥ ७ ॥

पूर्वी पूर्णा तथा गांशा सायंकालोचिता ततः।

ग्रंथे रागविबोधारये सोमनाथेन भापिता ॥८॥

तथैव रागमंजयां पूर्वी गौडीसुमेलजा॥

वर्णिता पुंडरीकेण सायंगेयाऽथ सांशिका ॥ ९॥

सायंगेयेषु रागेषु तीव्रमोऽपेक्षितो यतः।

मन्ये तज्जैः समाविष्टा रागेऽत्र मध्यमाबुभौ ॥ १० ॥

टिम्पनी।

पूर्वीमेलोस्थिता रागा विभज्यन्ते द्विधा बुधैः ।

पूर्व्यंगाःपण्मताश्चाथ षट् श्रीरागांगमंडिताः ॥ ११ ॥

श्रीगौरि मालवी टंकी वसंताख्या तथैव च ।

त्रिवेणीसहिता एते श्रीरागांगपरिष्कृताः॥ १२ ॥

पूर्वी रेवाऽथ जेताश्रीविभासो दीपकस्तथा ।

परजाख्यो मता एते सर्वे पूर्व्यंगमंडिताः ॥ १३ ॥

श्रीरागः।

पूर्वीमेलसमुत्पन्नः श्रीरागो लश्यविश्रुतः ।

हरप्रियाह्वये मेले वर्णितोऽसौ पुरातनः ॥ १४ ॥

आरोहे गधवज्यं स्यादवरोह समयकम् ।

गानमस्य समादिष्टं दिनान्तेऽतिमनोहरम् ॥ १५ ॥

ऋषभः संमतो वादी संवादी पंचम भवेत् ।

केचिद्विपर्ययं प्राहुर्वयं लक्ष्यानुवतिनैः ॥ १६ ॥

गंभीरप्रकृतिर्नित्यं विलंवितलयान्वितः ।

अपश्यं म्याद्विनान्तेऽसी भुक्तिमुक्तिप्रदो नृणाम् ॥ १७ ॥

भीसगांगं स्वतंत्रं यन्मन्पते लक्ष्यवेदिभिः ।

सावधानं पधान्यायमम्पम्यं प्रथमं बुधः ॥ १८ ॥

रिषयोः संगतिश्चात्र भवेदांगंगवाचिका।

सरिरिमस्वरः स्पष्टं रागरूपं प्रदर्शन ॥ १८ ॥

पद्धत्यां दाक्षिणात्यानां श्रीरागो गीयतेऽधुना।

सरहरवियामेलस्वररिति परिस्फुटम् ॥ २० ॥

गोरी।

पूर्वमेलसमुत्पन्न द्वितीय गोरिरामिणी ।

आरोह गपीनासापररोह समधिका ॥२१॥

ऋषभः संमतो वादी संवादी पंचमो भवेत् ।

गानमन्याः समीचीनं दिनान्तो गोरिक्तिदन् ।॥ २२॥

श्रीरागस्य प्रसिद्धांग रागेत्राप्युपलभ्यते ।

मंद्रस्थानगतो निः स्यात्प्रायो रागांगवाचकः ॥ २३॥

आदिशंति पुनः केचिदत्रधैवतयोजनम् ।

अनुलोमे भवेद्येन श्रीरागभित्परिस्फुटा ॥ २४ ॥

श्रीरागे ऋषभो वादी गौरीस्यात्पंचमांशिका।

इत्याहुः केचिदप्यन्ये रागभेदोपलब्धये ॥ २५ ॥

टिप्पनी।

अथो प्रसंगतो वक्ष्ये मतभेदान्यथायथम् ।

पुरावृत्तं भवेद्गीयों येन लोके परिस्फुटम् ॥ २६ ॥

श्रीरागः पंडितैः पूर्वैः काफीमेले प्रकीर्तितः ।

आरोहणे गधत्यक्तः पूर्णों वक्रोऽवरोहणे ॥ २७ ॥

युक्तं नु वर्णनं चैतत्तत्कालवर्तिलक्ष्यतः ।

मेलभेदे ह्मवश्यं स्याद्रागभेदः परिस्कुरः ॥२८॥

लक्ष्ये तूत्तरकालीने संगीते परिवर्तनात् ।

रागावेतावुभौ प्रोक्तौ पूर्वीमेलसमाश्रितौ ॥ २९ ॥

एकमेलाश्रितत्वे स्यात्समाने लक्षणेऽपि च ।

अवश्यं गायनं कष्टं ततो वैमत्यसंभवः ॥ ३० ॥

आदिशंति क्वचिद्गीर्यां समूलं गधवर्जनम् ।

लंघन पंचमस्यैव कुत्रचित्समुदीरितम् ॥ ३१॥

अधुना गीयते गौरी लक्ष्ये श्र्यंगेन मंडिता ।

रिपसंवादसंपन्ना गत्यक्ता चाधिरोहणे ॥ ३२ ॥

गोड्यधगा तथा न्यंशा सोमनाथेन भापिता ।

तल्लक्षणापरा चैतीगौरी तेनैव कीर्तिता ॥ ३३ ॥

धीमता लोचनेनापि तरंगिण्यां प्रकीर्तिताः ।

भीगौरी चेतिकागौरी पहाड़ीगौरिका तथा ॥ ३४ ॥

आरोहे गधरिक्तास्ताः संपूर्णा अवरोहणे ।

प्रारोहे गधहीना सा निकंपनमनोहरा ।

वर्णिताहोरलेनासी स्वग्रंथे पारिजातके ॥ ३५॥

मध्यमौ द्वौ यदा गीर्यां संप्रयुक्ती यथायथम् ।

ललितापूर्विका गौरी भवेदिति सुसंमतम् ॥ ३६ ॥

मंदमध्यस्वरैर्गीतिः श्रीरागो रक्तिदो भवेत् ।

मध्यतारस्वरेर्गौरी भयेद्रक्तिप्रदायिनी ॥ ३७॥

मालवी।

पूर्वमिलसमुत्पन्ना मालवी बहुसंमता ।

आरोहे स्यान्निदोर्वल्यमवरोहे तु धस्य तत् ॥ ३८॥

श्रीरागांगा यतो गेया वैचित्र्यं रिस्वरे स्फुटम् ।

गानमस्या भवेत्सायं सर्वरक्तिप्रदायकम् ॥ ३९॥

ऋषभः संमतो वादी संवादी पंचमो भवेत् ।

संगतिर्गपयोश्चात्र भवेद्वैचित्र्यकारिणी ॥ ४०॥

अपूर्व रूपकं त्वेतल्लक्ष्यज्ञरनुशासितम् ।

रंजकं संमतं यस्माद्वाह्यमेव मनीषिणाम् ॥ ४१ ॥

रागलक्षणके ग्रंथे मालवी रागिणी मता।

कांभोजीमेलसंभूता वक्ररूपा तथैव च ॥४२॥

ग्रन्थे सारामृते प्रोक्ता रागिणीयं धगोज्झिता।

मेले मालवगौलीये सायंगेयाऽथ सांशिका ॥ ४३॥

टिप्पनी।

पूर्वो गौरी मालपी च ललिताऽथ वसंतिका ।

परजा पंचमाख्योऽपि शास्त्रे भैरवमेलजाः ॥ १४ ॥

तथाप्यतेषु रागेषु सर्वेषु लक्ष्यतेऽधुना।

तीव्रमस्य प्रयोगस्तद्विचार्य मर्मवेदिभिः ॥ ४५ ॥

त्रिवेणी।

पूर्वीमेलसमुत्पन्ना त्रिवेणी लोकविश्रुता।

आरोहे चावरोहेऽपि मध्यमेन विवर्जिता ॥ ४६॥

ऋषभोऽत्रभवेद्वादी संवादी पंचमो भवेत् ।

गानं सुसंमतं चास्याः सायंकाले मनोहरम् ॥ ४७ ॥

श्रीरागांगेन यद्गीता लक्ष्ये सर्वत्र सांप्रतम् ।

ऋषभस्यैव वादित्वं भवेद्युक्तं सतां मते ॥४८॥

संगतिर्गपयोः सिद्धा मध्यमाभावतोऽत्र सा।

अवरोहण वर्णेन रागिणयिं मनो हरेत् ॥ ४९॥

गौरीमेलसमुत्पन्ना त्रिबेणी मस्वरोज्झिता ।

कीर्तिताहोरलेनापि स्वग्रंथे पारिजातके ॥ ५० ॥

धीमता हृदयेशेन त्रिवणः समुदीरितः ।

औडयो मनिहीनोऽथ ग्रंथे हृदयकौतुके ॥ ५१ ॥

शुद्धरामक्रियामेले संपूर्णा सांशिका मता।

त्रावणी पुंडरीकेण ग्रंथे चंद्रोदयाह्वये ॥ ५२ ॥

मारवामेलजां केचिदेनां पांशां ब्रुवन्ति हि।

लक्ष्यमार्गमनुल्लंघ्य बुधः कुर्यात्स्वनिर्णयम् ॥ ५३ ॥

यदप्यंगीकृतं किंचिद्भवेद् मते सताम् ।

सुव्यक्तनियमाबद्धं नैव दोषास्पदं भवेत् ॥ ५४॥

देशिकारस्तथा गौरी तृतीया पविरागिणी।

त्रिवेण्यामत्र संयुक्ता इति लक्ष्यविदां मतम् ॥ ५५ ॥

टंकी।

पूर्वीमेले सुविख्याता रागिणी टकिका मता।

भार्या प्रकीर्तितिा लोके श्रीरागस्यैव पांशिका ॥ ५६ ॥

श्रीरागांगेन सा लक्ष्ये यतः सर्वत्र गीयते ।

गानं चाभिमतं नित्यं सायंकाले प्रतिष्ठितम् ॥ ५७ ॥

मालवी त्रिवणा गौरी पूर्वी टंकी तथैव च ।

मता एता बुधैः पंच श्रीरागस्य वरांगनाः ॥५८॥

महीनामथवा पूर्णामेनां गायन्ति गायकाः ।

त्रिवेण्यामृषभो वादी ह्यतस्तस्या भिदा स्फुटा ॥ ५९ ॥

वादिभेदाद्रागभेद इति लक्ष्यविदां मतम् ।

सर्वत्रैव प्रसिद्धं स्यान्महद्वैचित्र्यकारणम् ॥ ६०॥

गौरीमेलसमुद्भूता सायंगेयाऽथ सांशिका ।

कीर्तिता पुंडरीकेण ग्रंथे मंजरिनामके ॥ ६१॥

पूर्वीश्रीकानडारागैः सह भैरवमेलनात् ।

टंकः प्रवर्तते लक्ष्ये लोचनेन प्रकीर्तितम् ॥ ६२ ॥

रागबोधे मतण्टकः सांशन्यासग्रहो ध्रुवम् ।

वसंतमेलने सायं सोमनाथेन धीमता ॥ ६३ ॥

दीपकः ।

पूर्वीमेलसमुत्पन्नो दीपको गुणिसंमतः ।

आरोहणे रिवज्यं स्यादवरोहे निवर्जितम् ॥ ६४ ॥

षड्जस्वरो भवेद्वादी कैश्चित्पंचम ईरितः ।

गानं सुसंमतं चास्य दिने यामे तुरीयके ॥ ६५ ॥

केचिदेनं तु संपूर्ण निर्दिशन्ति विचक्षणाः ।

अन्ये प्राहुर्निहीनं तं कल्याणाख्यसुमेलजम् ॥६६॥

वेलावलसुमेलोत्थो निद्वयः श्रूयते क्वचित् ।

लक्ष्यगतमनुसृत्य बुधः कुर्यात् स्वनिर्णयम् ॥१७॥

आरोहे भनिवर्ज्यः स्याद्दीपको मालवोत्थितः ।

चिदुपाहोचलेनैतदादिष्टं पारिजातके ॥ ६८॥

लुप्तोऽयं राग इत्युक्तं लक्ष्ये गानविशारदैः।

न तन्मन्ये मतं तेषां केवलं युक्तिसंगतम् ॥ ६९ ॥

प्रज्वलनं स्वयं दृष्ट्वा दीपकानां सुदुष्करम् ।

कदाचित्स्याद्विलोपोऽस्य समादिष्टोऽन्न गायकैः ॥ ७० ॥

मिलित्वा गुणिभिर्लेख्यो ब्रूते लोचनपंडितः ।

कौतुकेऽपि तथैवोक्तं हृदयेशेन धीमता ॥ ७१ ॥

जेताश्रीः ।

पूर्वीमेलसमुत्पन्ना जेताश्रीर्बहुसंमता ।

आरोहे रिधवज्यं स्यादवरोहे समग्रकम् ॥ ७२॥

गांधारांशाऽथवा पांशा गीयते लक्ष्यवर्त्मनि ।

गानं सुसंमतं तस्याः सायंकाले मनोहरम् ॥ ७३ ॥

मारवामेलजां चापि क्वचिदेनां ब्रुवन्ति हि ।

लक्ष्यमार्गमनुल्लंब्य बुधः कुर्यात्स्वनिर्णयम् ॥ ७४ ॥

वराटी देशकारश्च धवलाख्या ततः परम् ।

सप्रमाणं मिलंत्यत्रेत्युचुर्गानविशारदाः ॥७५ ॥

पूर्वीमलमुसंजाता प्रारोहे रिधवर्जिता ।

जयश्रीः कीर्तिता तत्रपारिजातनिबंधके ॥ ७६ ॥

शुद्धरामक्रियामेले सोमनाथेन धीमता ।

जेताश्री रागिणी प्रोक्ता रिधाल्पा प्रातरिष्टदा ॥ ७७ ॥

गौरीमेलसमुत्पन्ना जयंतश्रीः प्रकीर्तिता।

प्रारोहे रिधसंत्यक्ता हृदयेशेन कौतुके ॥ ७८ ॥

पूरियाधनाश्रीः।

कामवर्धनिकामेलाज्जाता पूर्वाधनाश्रिका ।

आरोहे चावरोहेऽपि संपूर्णा बुधसंमता ॥ ७९ ॥

पंचमोऽत्र भवेद्वादी संवादी षड्ज ईरितः ।

गानमस्याः समीचीनं दिनान्तेऽतिमनोहरम् ॥ ८०॥

स्वीकुर्वन्ति पुनः केचिदेनां धनाभिश्रिकांस्वयम् ।

काफीमेलोद्भवा तेषां मते भीमपलाशिका ॥८१॥

शुद्धमध्यमहीनत्वाद्वादित्वात्पंचमस्य च ।

रागिणीयं भवेद्भिन्ना पूर्व्या इति परिस्फुटम् ॥ ८२ ॥

श्रीरागस्य मसिद्धांगं न चैवात्रोपलभ्यते ।

अतस्तदंगभूतास्ते विविक्ताः सुखमंजसा ॥ ८३ ॥

उत्तरांगप्रधानेषु वसंतपरजादिषु ।

मध्यमद्वयसंयोगाद्यर्थं तत्रापि शंकनम् ॥ ८४॥

स्वरैर्निसरिगमगैर्यथा पूर्वी भवेत् स्फुटा।

इयं परिस्फुटा लक्ष्ये स्यान्मरिगरिसस्वरैः ॥ ८५॥

रेवा।

पूर्वीमेलसमुत्पन्ना ख्याता रेवा गुणिप्रिया।

आरोहे चावरोहेऽपि मनिहीनैव संमता ॥ ८६ ॥

त्र्यंशिका गांशिका वासौ सायंगेया बुधैर्मता।

वर्जने निमयोः सिद्धा गपयोः संगतिः स्वयम् ॥ ८७ ॥

उत्तरांगप्रधानत्वे विभासांगं भवेत्स्फुटम् ।

निमयोर्यत्परित्यागस्तद्रारोऽपि सुसंमतः ॥ ८८॥

गौरीमेलसमुत्पन्ना विदुपाहोबलेन सा ।

मनित्यक्तोदिता रेवा गपादियमलस्वरा ॥ ८९ ॥

रिग्रहो रेवगुप्तिश्च रिन्यासो मनिवर्जितः ।

औडुवश्चरमे यामे दिनस्योक्तः कलानिधौ ॥ ९०॥

रागलक्षणके ग्रंथे रेवगुप्तिः प्रकीर्तितः।

मायामालवमेलाख्ये औडुवो मनिवर्जितः ॥ ९१ ॥

रागतरंगिणीग्रंथे लोचनेनापि कीर्तिता ।

रेवाख्या रागिणी तन्न गौरीमेलसमुत्थिता ॥ ९२ ॥

परजः।

पूर्वमिलसुसंजातः परजो विबुधप्रियः ।

आरोहे चावरोहेऽपि संपूर्णः सर्वसंमतः ॥ ९३ ॥

उत्तरांगप्रधानत्वात्तारषड्जांशशोभितः ।

गानमभीप्सितं तस्य नक्तं यामेऽन्तिमे सदा ॥ १४ ॥

ग्रंथेषु वर्णितश्चायं मायामालवगौडजः।

व्यवहारे तु मद्वंद्वो गीयते नैव संशयः ॥ ९५॥

रात्रिगेये स्वरूपेऽस्मिंस्तीव्रमस्य प्रयोजनम् ।

सुप्रमाणयुतं भूयाद्भूषणं न तु दूषणम् ॥१६॥

चपलप्रकृतिर्नित्यं क्षुद्रगीतसमाश्रयः ।

प्रायशो गीयते लक्ष्ये कलिंगमिश्रितो ध्रुवम् ॥ ९७ ॥

ग्रंथेषु दाक्षिणात्यानां परजः समुदीरितः ।

संपूर्णः सांशकश्चैव मायामालवगौडके ॥ ९८॥

गौरीमेलसमुत्पन्नो रागोऽयं समुदीरितः।

हृत्प्रकाशाह्वये ग्रंथे वयं लक्ष्यानुवर्तिनः ॥ ९९ ॥

वसंत

पूर्वीमेलसुसंजातो वसंतास्यो बुधैर्मतः ।

संपूर्णस्तारषड्जांशो वसंतर्तौ सुखपदः॥ १०० ॥

मगयोः पुनरावृत्या विशिष्टां रक्तिमावहेत् ।

परजस्य विभिन्नत्वं तत्रैव प्रकटीभवेत् ॥ १०१ ॥

रागेऽस्मिन्गायकैः प्रायो ललितांगं प्रदर्श्यते ।

यतः स्यात्सुलभं तेन रागस्यास्य प्रभेदनम् ॥ १०२॥

ग्रंथेषु वर्णितो दृष्टो मेले मालवगौडके ।

राविगेयो यतो लक्ष्ये तीव्रमे न विसंगतिः ॥ १०३ ॥

कुत्रचित्पंचमत्यक्तो मद्वंद्वस्तीव्रधान्वितः ।

लक्ष्येऽयं दृश्यते गीतो बुधः कुर्याद्यथोचितम् ॥ १०४ ॥

प्रचारो याहशो यन्त्र तादृशं तं समाचरेत् ।

इति संगीतविज्ञोक्तं तत्त्वं नित्यं स्मरेद्रुधः ॥ १०५॥

वसंत पंचमोऽल्पः स्यादारोहे लक्ष्यविन्मते ।

रिनिधपमगमगस्वरै रूप भवेत्स्फुटम् ॥ १०६ ॥

निदौर्बल्यं वसंते तत्प्राचुर्यं परजाह्वये।

सरिनिसनिधनिभिः परजः प्रस्फुटो भवेत् ॥ १०७॥

मारवामेले।

मारवा ।

मारवामेलनोत्पन्ना मारवा लक्ष्यविश्रुता ।

आरोहे चावरोहेऽपि पहीना षाडवा मता ॥१॥

ऋषभोऽत्र मतो वादी कैश्चिद्वैवत ईरितः ।

गानं सुनिश्चितं चास्या दिनान्ते बहुरक्तिदम् ॥२॥

सायंगेये स्वरूपेऽस्मिन् धांशत्वं न सुसंगतमा।

प्राचीनैमारिवा प्रोक्ता सांशा गांशाथवा ध्रुवम्॥ ३॥

उत्तरांगे पहीनत्वाद्विदोलांगं प्रदर्शयेत्।

हिंदाले रिपहीनत्वं रागभेदस्ततः स्फुटः॥ ४॥

अपस्वरा पंचमी स्यात् पठी हतस्वरा पुनः ।

प्रतापाद्या सप्तमी स्यादष्टमी तोडिकादिका ॥ २७ ॥

नागवराटी नवमी पुन्नागा दशमी स्मृता ।

एकादशी तु शोकाद्या कल्याणा द्वादशी मता।

एवं द्वादशधा प्रोक्ता वराटी पूर्वसूरिभिः ॥ २८॥”

जैत्रः।

मारवामेलनोत्पन्नो जैत्ररागः प्रकीर्तितः।

आरोह चावराहेऽपि मनित्यक्तो मतो बुधैः ॥ २९ ॥

पंचमोऽत्र भवेद्वादी संवादी षड्ज ईरितः।

गानं तस्य समादिष्टं दिनान्त्ययामके प्रियम् ॥ ३० ॥

ऋषभद्वंद्वमवाहस्तथैव धैवतद्वयम् ।

सगयोः संगतिः प्रोक्ता तथैव सपयोः क्वचित् ॥ ३१ ॥

तीव्रमस्य प्रयोगोऽत्रानुमतो घर्षणान्वितः।

अवरोहे मनाक् तज्ज्ञैर्गानसौकर्यहेतवे ॥ ३२ ॥

कल्याणमेलसंजातो जयकल्याणकाभिधः ।

पूर्वमेव मयारयातः स चास्माद्भेदमर्हयेत् ॥ ३३॥

मालीगौरा।

मारवामेलने जाता मालीगौरा मता बुधैः ।

आरोह चावरोहेऽपि संपूर्ण लक्ष्यविन्मते ॥ ३४ ॥

ऋषभः संमतो वादी पंचमोऽमात्यतुल्यकः।

गानं सुनिश्चितं सायं दिनान्त्ययामके बुधैः ॥ ३५॥

पूरियायां प्रविष्टश्वेत्स्वरः पंचमको यदा।

तदा समुद्भवेन्मालीगौरारूपं मते सताम् ॥ ३६ ॥"

श्रीरागपूरियायोगाद्गौरा स्यात्सुपरिस्फुटा ।

मंद्रमध्यस्वरैर्गीता भूयादतिमनोहरा ॥ ३७ ॥

प्रायशो धैवतद्वंद्वं प्रयुक्तमत्र गायकैः ।

सपयोः संगतिः स्पटं श्रीरागांगं प्रदर्शयेत् ॥ ३८ ॥

धनिसरिनिधपमगमधसस्वरैभवेत् ।

स्वरूपं प्रस्फुटं चास्या इत्याहुर्लक्ष्यवेदिनः ॥ ३९ ॥

साजगिरी।

मारवामेलनोत्पन्ना साजगिरी जनप्रिय।

आधुनिका मता तज्ज्ञैः संपूर्णा गांशिका तथा ॥ ४० ॥

धैवतद्वंद्वसंयुक्ता निमसंगतिशोभना ।

गानमस्याः समादिष्टं सायंकाले मनोहरम् ॥ ४१ ॥

मक्तमध्यमसंस्पर्शी भवेवातिरक्तिदः ।

पूर्यायाः पूर्विकायाश्च तेनैव स्यात् स्फुटा भिदा ॥४२॥

भूपिता पूरियांगेन यतो गीतात्र प्रायशः ।

मंद्रमध्यस्वरैर्गानमवश्यं स्यात्सुखावहम् ॥ ४३॥

पूरिया पूर्विका चापि मिलतोऽत्र यथायथम् ।

इति समर्थित लक्ष्ये गानशास्त्रविशारदैः ॥ ४४ ॥

सोहनी।

मारवामेलसंजाता सोहनी बुधसंमता ।

आरोहे चावरोहेऽपि परिक्ता मीयते सदा ॥ ४५ ॥

धैवतः संमतो वादी गांधारो मंत्रिसंनिभः ।

गानमस्याः समीचीनं रात्रवन्तिप्रयामके ॥ ४६ ॥

प्रयोगो दृश्यते शुद्धमध्यमस्य कृतः कचित् ।

संगतिर्धगयोनित्यं रागरूपं समादिशेत् ॥४७॥

अन्त्ययामप्रगेयत्वात्तारषड्जविचित्रता।

शोभते तत्र संगीतकेन्द्रस्थानं क्रमागतम्॥४८॥

विमासः ।

मरवमेलकोत्पन्नो विभसः श्रूयते जनैः।

संपूर्णे गीयते प्रतरंतिमगप्रधनकः॥४८॥

धैवतस्यैववादित्वं संवादित्वं तु गस्य तत्

गपयोर्मधयोश्वापिसंगती रक्तिकारणम् ॥ ५३ ॥

न्यसनं पंचमे नित्यं गांभीर्य दर्शयेन्महत् ।

विलंबितलये गीतो रागोऽयं बहुरक्तिदः ॥ ५४॥

देशिकारस्तथा गौरी मिलतोऽत्र यथायथम् ।

इति कैश्वित्समादिष्टं गानशास्त्रविशारदैः॥ ५५ ॥

ललिता।

मास्वामेलनोत्पन्ना रागिणी ललिता मता।

आरोहे चावरोहेऽपि पंचमेन विवर्जिता ॥ ५६ ॥

शुद्धमध्यमवादित्वं सर्वेषामेव संमतम् ।

अमात्यत्वं भरेत् षड्जे शास्त्रोक्तनियमागतम् ॥ ५७ ॥

उत्तरांगप्रधानत्वे तारषड्जविचित्रता ।

संगतिर्धमयोर्नित्यमपूर्वी रक्तिमावहेत् ॥ ५८॥

मध्यमस्य प्रमुस्तनं कस्य न द्रावयेन्मनः ।

तत्त्वरेणैव लक्ष्ये स्याल्ललितांगं स्वतंत्रकम् ॥ ५९॥

ग्रंथे रागविबोधाख्ये ललिता समुदीरिता।

शुद्धरामक्रियामेले धांशाऽपाथ धकोमला ॥ ६०॥

गौरीमेलसमुत्पन्ना ललिता पंचमोज्झिता।

विदुपाहोरलेनोक्ता स्वग्रंथे पारिजातके ॥६१ ॥

पंचमः।

मारवामेलसंजातः पंचमो लोकविश्रुतः ।

संपूर्णः शुद्धमाशोऽपि नक्तं यामोन्तिमे स्मृतः॥६२॥

उत्तरांगप्रधानोऽयं द्विमध्यमविभूषितः ।

परजानन्तरं गीतो ह्यवश्यं रंजयेन्मनः ॥ ६३ ॥

मुक्तत्वान्मध्यमस्यात्र ललितांगं भवेत्स्फुटम् ।

ललिते पंचमस्त्यक्त इति भेदः परिस्फुटः ॥ ६४ ॥

मध्यमद्वयसंयुक्तः पंचमेन विवर्जितः।

प्रकारः श्रूयते लक्ष्ये गायकानुमतोऽपरः ॥ ६५॥

हिंदोलांगयुतोऽपश्च प्रतिलोमे रिदुर्बलः ।

गीयतेऽसौ क्वचिल्लक्ष्ये गानशास्त्रविशारदैः ॥ ६६ ॥

ऋषभोनस्तथा पांशः पंचमः समुदीरितः।

धीमता सोमनाथेन मेले मालवगौलके ॥ ६७ ॥

गौरीमेलसमुद्भूतः पहीनश्वानुलोमके ।

मध्यमांशस्तथा पूर्णो लोचनेन प्रकीर्तितः ॥ ६८॥

पंचमांशो रिरिक्तोऽपि प्राप्तः पंचम इरितः।

रागचंद्रोदये ग्रंथे मालवगौडमेलजः ॥ ६९ ॥

भट्टिहारः।

मारवामेलनोत्पन्नो भट्टिहारः प्रकीर्तितः।

आरोहे चावरोहेऽपि संपूर्णो लक्ष्यविन्मते ॥ ७०॥

मध्यमोऽत्र मतो वादी संवादी षड्ज ईरितः।

गानं सुसंमतं तस्य राव्यामन्तिमयामके ॥ ७१॥

शुद्धमोऽत्र भवेन्मुक्तस्तत्रैव न्यसनं शुभम् ।

प्रयोगस्तीप्रमस्यास्मिन् रात्रिगेयत्वसूचकः ॥७२॥

पगयोर्धमयोश्चापि संगतिः स्यान्मनोहरा ।

अनुलोमे निदौर्बल्यं विलोमे वक्रता मिया ॥७३ ॥

खंमाजमेलसंजातो भटियारः श्रुतः क्वचित् ।

लक्ष्यमार्गमनुसृत्य कुर्याद्बुधः स्वनिर्णयम् ॥ ७४ ॥

रागतरंगिणीग्रंथे भटियालः प्रकीर्तितः ।

गौरीमेलसमुत्पन्नः पंचमेन विवर्जितः ॥७५॥

भंखारः।

मारवामेलसंजातो भंसारो गीयते जने।

आधुनिकं वदंतीमं केचिल्लक्ष्यविचक्षणाः ॥७६ ॥

संपूर्णः पंचमांशः स्यादुत्तरांगप्रधानकः।

यामे तुरीयके रात्र्यां गानमस्य सुसप्रदम् ॥ ७७ ॥

मध्यमद्वयसंयोगाद्विभासो भिन्नता व्रजेत् ।

मुक्तमस्य तिरोभावे भट्टिहारो न संभवेत् ॥ ७८॥

पगयोर्मधयोश्वेह संगतिः स्यान्मनोहरा ।

अप्रसिद्धस्वरूपत्वाद्गानमस्य सुदुर्लभम् ॥ ७९ ॥

टिप्पनी।

एवं च मारवामेले रागा द्वादश लक्षिताः।

सायंगेया भवेयुः षट् प्रातर्गयाः पडीरिताः ॥ ८०॥

पूरिया मारवा जैत्रो गौरा साजगिरी तथा ।

वराटी सहिता एते सायंगेया मता बुधैः ॥ ८१॥

ललितः पंचमश्चैव भट्टिहारो विभासकः ।

भंसारः सोहनी चेति प्रातर्गयाः समीरिताः ॥८२॥

गौर्यांगाः पूरियांगाश्च सायंगेया व्यवस्थिताः।

ललितांगास्तथा पोक्ताः सोहन्यंगाः प्रभातगाः ॥ ८३ ॥

सायंगेयेषु पूर्वांगं प्रबलं गुणिसंमतम् ।

प्राबल्यमुत्तरांगे स्यात् प्रातगैयेषु निश्चितम् ॥ ८४ ॥

स्थूलदृष्टिकृता एते नियमा मार्गदर्शकाः।

विशेषास्तु तत्रतत्र द्रष्टव्या मर्मवेदिभिः ॥८५॥

काफीमेले।

काफी।

हरप्रियाख्यमेलोऽसौ लक्ष्येऽत्र काफिसंज्ञितः ।

काफीरागस्तदुत्थः स्यादिति लक्ष्यविदां मतम् ॥ १ ॥

पंचमः संमतो वादी संवादी षड्जनामकः।

केचिद्गांधारमाहुस्ते वादिनं गानकोविदाः ॥ २ ॥

मध्यरात्रोचितो मेलो यथायं गनिकोमलः।

मध्याह्नार्हस्तथैवासौ को न जानाति मर्मविद् ॥ ३ ॥

दरबार्यादिकान् रागान्नकं गीत्वा धकोमलान् ।

तीनधैव्रतसंपन्नान् गायन्ति गायकाः क्रमात् ॥ ४ ॥

आसावर्यादिकान् गीत्वा दिवा धैवतकोमलान् ।

सारंगाख्यादिकान् लोके गायन्ति शुद्धधैवतान् ॥ ५॥

संभवेयुरवश्यं तेऽपवादा लक्ष्यवर्त्मनि ।

साधारणो मया प्रोक्तो नियमस्तत्वदर्शिनाम् ॥ ६ ॥

यतः संपूर्णरागोऽयमारोहे चावरोहणे।

लोक आश्रयरागत्वं काफीरागस्य संमतम् ॥ ७ ॥

काफीत्याधुनिक नाम पारसीकं परिस्फुटम् ।

स्वीकृतं यत्पुराणैस्तन्नैवास्माभिरुपेक्षितम् ॥ ८ ॥

दाक्षिणात्यमते काफीरागः श्रीरागमेलजः।

श्रीरागः कीर्तितस्तत्र गनिकोमलमंडितः॥ ९ ॥

हिंदुस्थानीयपद्धत्यां श्रीरागः पर्विमेलजः।

इति मया समाख्यातं पूर्वमेव सविस्तरम् ॥ १० ॥

न्यासः पंचमके काफ्यां सुस्पष्टं रागवाचकः ।

श्रोतारोऽपि सुसं तेन कुर्वन्ति रागनिर्णयम् ॥ ११ ॥

अनुलोमगतः क्षम्यः प्रयोगस्तीव्रनेर्मनाक् ।

काफीमेलोत्थरागेषु गानसौकर्यहेतवे ॥ १२ ॥

क्षुद्रगीतार्हता काफ्यां लोके सर्वत्र संमता।

शृंगाररसंभूयिष्ठां काफी शंसन्ति पंडिताः ॥ १३ ॥

टिप्पनी।

हिंदुस्थानीयपद्धत्यां रागाः काफ्याहमेलजाः ।

पंचांगेषु विभक्ताः स्युर्लक्ष्यमार्गानुसारतः ॥ १४ ॥

काफ्यंग प्रथमं प्रोक्तं धनाश्र्यंगं द्वितीयकम् ।

सारंगांगं तृतीयं स्याच्चतुर्थं कानडाह्वयम् ॥ १५ ॥

स्यात्यंचमं मलारास्यं भूरिरक्तिप्रदायकम् ॥

अथो वक्ष्ये क्रमादागांस्तान् पंचांगानुसारतः ॥ १६ ॥

काफी सिंदूरकः पीलू रागाः काफ्यंगमंडिताः ।

‘धनाश्रीर्धानिका भीमपलाशी हंसकंकणी ॥ १७ ॥

प्रदीपकी मता एता धनाश्र्यंगपरिष्कृताः। '

वागीश्वरी बहारश्च सुहा सुधाइका तथा ॥ १८॥

नायकी साहना तद्वदेशाख्यः कोशिकाह्वयः।

रागाः प्रकीर्तितास्तज्ज्ञैः कानडांगसुशोमनाः ॥ १९ ॥

शुद्धसारंगसामंतो मध्यमादिस्तथैवच ।

वृंदावनी वृद्धहंसो मीयांसारंगनामकः ॥२०॥

लंकाद्यदहनः पटमंजरी काफिमेलजा।

रागा एते मता अष्टौ सारंगांगविभूषिताः २१ ॥

मल्लारः शुद्धपूर्वोऽथ मीयांमल्लारकाभिधः ॥

गौंडमल्लारको मेघः सूरमल्लारसंज्ञितः ॥ २२ ॥

रामदासी तथा चर्जूचंचलाख्यौ च धूलिया ।

मीरामल्लारकः प्रोक्ता मल्लारांगप्रदर्शिनः ॥ २३ ॥

सैंधवी ।

काफीमेलसमुत्पन्ना सैंधवी कथ्यते जने ।

आरोहणे गनित्यक्ता संपूर्णा चावरोहणे ॥ २४॥

सपयोरेव संवादः कैश्चित्स रिधयोमतः ।

गानमस्याः समादिष्टं प्रायशः सार्वकालिकम् ॥ २५ ॥

वैमत्यं दृश्यते लोके निषादपरिवर्जने ॥

प्रयोगस्तत्स्वरस्येह क्षम्यते रोहणे मनाक् ॥ २६ ॥

लक्ष्ये तु गायनाः प्रायः काफीमिश्रितरूपकम् ।

पदर्शयन्ति सैंधव्या लोकरंजनवांछिनः ॥ २७॥

सिंघोडानामिका सैव सैंधवीति परिस्फुटम् ।

गपूर्वविबोधे स्यात्सोमनाथेन कीर्तितम् ॥ २८ ॥

अगनिः सैंधवी प्रोक्ता स्वग्रंथे तेन सूरिणा।

तिलोमे तु संपूर्णा पारिजाते समीरिता ॥ २९ ॥

काफीमेलसमुत्पन्नः सैंधवो धैवतादिकः ।

गरोहे गनिवज्योऽपि हृदयेशेन कीर्तितः ॥ ३०॥

पीलु।

काफीमेलसमुत्पन्नः पीलुरागो गुणिप्रियः।

आधुनिकस्तथैवासै पारसीकोऽपि संमतः ॥ ३१ ॥

गांधारः संमतो वादी संवादी सप्तमो भवेत् ।

गानं चास्य समादिष्टं तृतीयप्रहरे दिने ॥ ३२ ॥

मते केषांचिदप्येषाभिन्नषड्जसुमेलजः।

प्रारोहे ऋषभत्यक्तो गनिसंवादमंडितः ॥ ३३ ॥

यथायोगं मिलंत्यत्र स्वरास्तीव्राश्च कोमलाः ।

संकीर्णं रूपकं त्वेतन्नित्यं स्याज्जनमोहनम् ॥ ३४ ॥

काफी गौरी तथा भीमपलासी भैरवी क्वचित् ।

रागेऽस्मिन् संमिलन्त्याहुर्लक्ष्यलक्षणकोविदाः ॥ ३५ ॥

प्रायस्तीव्रस्वराणां स्यात्प्रारोहे सुप्रयोजनम् ।

विलोमे कोमलानां सन्नियमो भाति में स्फुटः॥ ३६ ॥

क्षुद्रगीतार्हता पीलूरागस्य संमता जने।

मिश्ररूपेण रागोऽयं नित्यं सहजसुंदरः ॥३७॥

भामपलासी।

काफीमेलसुसंजाता प्रोक्ता भीमपलासिका।

आरोहे रिधहीनं स्यादवरोहे समग्रकम् ॥ ३८ ॥

मध्यमांशग्रहन्यासा मुक्तमध्यममंडिता।

गानमस्याः समीचीनमपराह्णे सुसंमतम् ॥ ३९ ॥

वादित्वान्मध्यमस्यात्र धनाश्रीर्नैव संभवेत् ।

पूर्णत्वं प्रतिलोमे यद्धानीशंका कुतो भवेत् ॥ ४०॥

मते केपांचिदप्येषा रिधकोमलमंडिता ।

केचिद्विवर्जनं प्राहुरन्ये धैवतवर्जनम् ॥ ४१ ॥

एकैकश्रुत्यपकृष्टौ क्वचिद्रिधौ समीरिती ।

लक्ष्यमार्गमनुसृत्य बुधः कुर्याद्यथोचितम् ॥ ४२ ॥

संमतं श्रुतिभिन्नत्वे रक्तिभिन्नत्वमंजसा।

मते मे वादिभिन्नत्वं पर्याप्तं लक्ष्मभेदकम् ॥ ४३ ॥

ग्रंथेषु रागभेदास्तु श्रुत्यायत्ता न लक्षिताः ।

तद्विधानं न चावश्यं रागभेदोपलब्धये ॥४४॥

धनाश्रीः।

काफीमेलसमुद्भुता धन्याश्रीः कथिता जने।

प्रारोहे रिधहीनाऽसौ संपूर्णा प्रतिलोमके ॥ ४५ ॥

पंचमः संमतो वादी मंत्री षड्जः समीरितः ।

लक्ष्ये सुसंमतं गानं तृतीयप्रहरे दिन ॥ ४६ ॥

ग्रहः प्रायो निषादः स्यान्न्यासः स्यात् पंचमाह्वयः।

संगतिः पगयोश्चित्रा विलोमे तद्विदा मते ॥ ४७ ॥

वादित्वे मध्यमस्यात्र लसेद्धीमपलाशिका ।

प्रारोहे रिधसंत्यक्ता मध्यमांशसमन्विता ॥ ४८ ॥

तृतीययामगेयेषु रागेषु परिदृश्यते ।

दौर्बल्यं रिधयोः प्रायोऽनुलोमे लक्ष्यविन्मते ॥ ४९ ॥

दुर्बलत्वात्तयोस्तत्र प्रापल्यं समपेषु तत् ।

पवादित्वे धनाश्रीः स्यान्मांशत्वे स्यात्पलाशिका ॥ ५० ॥

शुद्धमेलसमुत्पन्ना प्रारोहे रिधवर्जिता।

धनाश्रीः कीर्तिता तत्र संगीतपारिजातके ॥ ५१ ॥

ग्रंथेषु केषुचित्प्रोक्ता धनाश्री रिधवर्जिता।

प्रातर्गेया तथा षड्ग्रजहांशा काफिमेलजा ॥ १२ ॥

नित्यं पमुद्रिता प्रोक्ता रिधोना सांशिका तथा ।

धनाश्रीर्धवलाद्यासौ विबोधे रागपूर्वके ॥ ५३ ॥

धानी।

हरप्रियाख्यमेलाञ्च धानीति संज्ञिता जने ।

रागिणी स्यात्समुत्पन्ना सुरसा सार्वकालिका ॥ ५४ ॥

आरोहे चावरोहेऽपि वर्जितर्षभधैवता।

गांधारोऽत्र मतो वादी निषादोऽमात्यसनिमः ॥ ५५॥

औडुवषाडया चापि विलोमे ऋषभान्विता।

क्वचित्समीक्षिता लक्ष्ये इति प्रज्ञा वदन्ति ते ॥ ५६ ॥

रिहीना रिधहीना वा साहोवलेन कीर्तिता।

तथैव तत्त्वबोधेऽसौ श्रीनिवासविनिर्मिते ॥ ५७ ॥

रागलक्षणके ग्रंथे शुद्धधन्नासिकेरिता ।

हरप्रियाव्हये मेले ऋषभधैवतोज्झिता ॥ ५८ ॥

कदाचित्सैव लक्ष्येऽत्र धानिसंज्ञा समीरिता ।

इत्याहुः पंडिताः केचिल्लक्ष्यलक्षणकोविदाः ॥ ५९॥

वादमूले तथाप्यत्र विषये तत्त्वदर्शिभिः ।

लक्ष्यगतमनुलंध्य कार्यं नित्यं स्ववर्तनम् ॥ ६० ॥

समपानां तु दौर्बल्ये ह्यभावे रिधयोस्तथा ।

कुतो गांभीर्यसंप्राप्तिर्भवेन्नैव सतां मते ॥ ६१ ॥

हंसकंकणी।

काफीमेलसमुत्पन्ना रागिणी हंसकंफणी।

लक्ष्याध्वनि बुधैर्गीता तृतीयप्रहरे दिने ॥ ६२ ॥

प्रारोहे रिधहीना स्यात्संपूर्णा प्रतिलोमके।

धनाश्चंगप्रागीतासौ भूरिरक्तिप्रदायिका ॥ ६३ ॥

गांधारद्वययोगोऽत्र कौशल्येन प्रदर्शितः।

रोहणे तीव्रगो युक्तो विलोमे कोमलाह्वयः ॥ ६४॥

पंचमः समतो वादी संवादी षड्ज ईरितः।

धनाश्र्यंगप्रधानत्वं रागेऽस्मिन् सर्वसंमतम् ॥ ६५ ॥

विचित्रमप्रसिद्धं च रूपमेतदसंशयम् ।

गीयते लक्ष्यमार्गेऽत्र केवलं गायनोत्तमैः ॥ ६६ ॥

प्रदीपकी।

स्यात्काफीमेलसंजाता प्रदीपकी सुसंमता ।

प्रारोहे रिधहीनं स्यादवरोहे समग्रकम् ॥ ६७॥

मंजरीं रागिणीं गीत्वा यदैपारभ्यते पुनः ।

किंचिदवर्णनीयं तद्वैचित्र्यमनुभूयते ॥ ६८॥

मंद्रमध्यस्वरैः सैव पलाशिकां प्रसूचयेत् ।

पलाशी मांशिका नित्यं सांशिकेयं मता जने ॥ ६९ ॥

मते केषांचिदप्येषामध्यमस्वरवादिनी ।

मतिलोमगतो रिः स्यादसत्प्रायोऽतिदुर्बलः ॥ ७० ॥

ईपन्मृदू समादिष्टौ कैश्चिदत्र रिधैवतौ ।

एतन्मर्मपरिज्ञानं केवलं विदुषां भवेत् ॥ ७१ ॥

तीव्रगांधारयोगोऽत्र कौशल्येन सुसाधितः।

विश्लिष्टो मध्यमोऽपि स्यात् कंकणीभेददर्शकः ॥ ७२ ॥

वागीश्वरी।

हरिप्रियाह्वये मेले वागीश्वरी मता बुधैः ।

प्रारोहणे पवज्यं स्यात्प्रतिलोमे समग्रकम् ॥ ७३ ॥

मध्यमः कीतितो वादी संवादी षड्ज ईरितः।

गानं सुसंमतं तस्या रात्र्यां तृतीययामके ॥ ७४ ॥

लंघनं पंचमस्य स्यात्समूलं लक्ष्यके क्वचित् ।

अल्पत्वं पंचमे युक्तं प्रतिलोमे सतो मते ॥ ७५॥

धनाश्रीकानडायुक्ता वागीश्वरी प्रकीर्तिता।

रागतरंगिणीग्रंथे लोचनेन मनीषिणा ॥ ७६ ॥

त्यक्ते पंचमके सद्यो ग्रंथोक्ता रागिणी भवेत् ।

पवर्जिता तथा मांशा श्रीरंजनीतिनामिका ॥ ७७ ॥

दाक्षिणात्यमते त्वेषा रीतिगौडास्यरागिणी ।

ग्रंथेषु केपुचित्तत्र वागीश्वरी द्विगा मता ॥ ७८ ॥

बहारः।

हरप्रियाह्वयान्मेलाज्जातो रागो गुणिप्रियः ।

आधुनिको बहारास्यश्चंचलप्रकृतिः सदा ॥ ७९ ॥

मध्यमः संमतो वादी संवादी षड्जनामकः।

गानं नित्यं समादिष्टं वसंतर्तै सुरक्तिदम् ॥८०॥

मधयोः संगतिश्चिवा रिहीनत्वं तु रोहणे ।

पतिलोमे धहीनत्वमिति मर्मविदां मतम् ॥ ८१ ॥

प्रारोहे मधसंगत्या धागीश्वयंगमावहेत् ।

अवरोहे धलुप्तत्वात्तदंगं परिमार्जयेत् ॥ ८२ ॥

संयोगः स्याद्रहारस्य नानारागेषु लक्षितः।

यथासंज्ञं बुधः कुर्यात्तत्र स्वरप्रयोजनम् ॥ ८३ ॥

सूहारागः ।

काफीमेलसमुत्पन्नः मुहयो लोकविश्रुतः ।

आरोहे चारोहेऽपि धैवतो वर्जितस्थरः ॥८४ ॥

मध्यमः संमतो वादी संवादी षड्जनामकः।

गानं समीरितं लोके द्वितीये पहरे दिने ॥ ८५॥

यद्यप्युत्तरभागेऽत्र रूपं सारंगसंनिभम् ।

पूर्वांगे व्यक्तगांधारः कुर्यात्तस्य निवारणम् ॥ ८६ ॥

मुक्तत्वं मध्यमस्येह नूनं स्यादतिरक्तिदम् ।

निषयोः संगत्तिर्न्यासः समीचीनो हि मध्यमे ॥ ८७ ॥

मेघदर्बारयोर्योगाद्रागोऽयं स्यात्समुत्थितः ।

वदंति पंडिताः केचिल्क्ष्यलक्षणकोविदाः ॥ ८८॥

सारंगस्य प्रकारेषु नित्यं गांधारवर्जनम् ।

न तत्कर्णाटभेदेषु ततस्तद्भित् परिस्फुटा ॥ ८९ ॥

सुघरायी।

हरप्रियाख्यमेलाञ्च सुघरायी समुत्थिता।

आरोहे धैवतोनासौ द्वितीयमहरोचिता ॥९० ॥

पंचमः संमतो वादी संवादी षड्जनामकः।

कर्णाटस्यैव भेदोऽयं सारंगांगविभूषितः ॥ ११ ॥

अडाना कानडा चैव वृंदावनी तथैव च ।

मिलन्त्यत्र यथान्यायमिति केचिद्वदन्ति ते ॥ ९२ ॥

सहाना रात्रिगेयोक्ता गेयैषा नित्यशो दिवा ।

नायकी कानडा रात्री दिनगेया तथा सुहा ॥ ९३ ॥

सुहा धैवतहीना स्यादत्र धो नानुलोमके ।

वृंदावन्यधगा नित्यं निषादद्वयमंडिता ॥ १४ ॥

देशाखः।

हरप्रियाह्वये मेले जातो रागः सुनामकः ।

देशाखइति विख्यातो लक्ष्येऽसिलगुणिप्रियः ॥ ९५॥

पंचमः संमतो वादी संवादी षड्जनामकः ।

कैश्चित्संवादिनौ प्रोक्तो तत्र षड्जकमध्यमौ ॥ १६॥

आरोहे चावरोहेऽपि धैवतो वर्जितस्वरः ।

दौर्बल्यं धगयोरत्र वर्णयन्ति पुनः क्वचित् ॥ ९७ ॥

गांधारांदोलनं न्यासो मध्यमे रुचिरो भवेत् ।

गपयोः संगती रम्या रागरूपं समादिशेत् ॥ ९८ ॥

देवसाग इति ख्यातो रागोऽयं लक्ष्यवर्त्मनि ।

गानं तस्य समादिष्टं द्वितीयाहरे दिने ॥ ९९ ॥

गद्वयो निद्वयश्चापि रिहीनः परिकीर्तितः ।

केषुचिच्छास्त्रग्रंथेषु न तल्लक्ष्येऽत्र लभ्यते ॥ १० ॥

नायकीकानडा।

काफीमेलसमुत्पन्नः कर्णाटो नायकी मतः ।

आरोहे चावरोहेऽपि धैवतो वर्जितस्वरः ॥ १ ॥

मध्यमो निश्रितो वादी संवादी षड्ज ईरितः ।

गानं तस्य समीचीनं रात्र्यां तृतीययामके ॥ २॥

पूर्वांगे स्यात्सुहायोगः सारंगस्योत्तरांगके ।

रिषयोः संगतिश्चित्रा रागभेदं प्रदर्शयेत् ॥ ३॥

देशाख्यो नायकी सूहा तथा सुधाइसंज्ञिता ।

सारंगांगा मता लक्ष्ये धगाल्पा गीतवेदिभिः॥ ४॥

धकोमलं सुसंपूर्णं वक्ररूपं तथैव च ।

वर्णयन्ति पुनः केचिदेनं लक्ष्येऽत्र नैव तत् ॥ ५॥

मल्लारकानडायोगाद्रूपमेतद्विनिर्मितम् ।

इत्यनूपविलासाख्ये ग्रंथे भावेन कीर्तितम् ॥ ६ ॥

कानडा कौशिफश्चापि वागीश्वरी तथैव च ।

मिलन्त्यति केचिद्दे संगिरंति मनीषिणः ॥ ७ ॥

सहाना।

हरमियाह्वये मेले सहानाजनुरीरिता ।

रूपमाधुनिक चैतत्संपूर्णं गुणिसंमतम् ॥ ८॥

पंचमः संमतो वादी षड्जः स्यान्मंत्रितुल्यकः ।

गानमभिमतं चास्या रात्र्यां तृतीययामके ॥ ९ ॥

प्रयोगात्तीव्रधस्यात्र ह्याडाणाभित्परिस्फुटा।

धगसंयोगतोऽप्यत्र नैव सारंगसंभवः ॥ १०॥

गपसंगत्यभावे स्याद्देवसागनिवारणम् ।

प्रतिरूपं दिवा चास्याः सुघरायी मता जने ॥ ११ ॥

कानडायाः प्रभेदोऽयमंगीकृतो यतो बुधैः ।

प्रयोगो धगयोरत्र भवेद्रक्तिप्रवर्धकः ॥ १२ ॥

निधनिपधमपैः स्याद्रागरूपप्रदशनम् ।

धैवतस्य परित्यागात्सुहा स्यात्सुपरिस्फुटा ॥ १३ ॥

कानडाऽथ फिरोदस्तो मिलतोऽत्र यथायथम् ।

इत्यनूपविलासाख्ये ग्रंथे भावेन कीर्तितम् ॥ १४ ॥

मल्लारकानडायोगादडाणायोगतोऽपि च ।

रागिणीयं समुद्भूतत्याहुः केचिद्विशारदाः ॥ १५ ॥

मध्यमादिः ।

काफीमेलसमुत्पन्ना मध्यमादिः प्रकीर्तिता।

आरोहे चावरोहे च गांधारधैवतोज्झिता ॥ १६ ॥

ऋषभः संमतो वादी संवादी पंचमो भवेत् ।

गानं चाभिमतं तस्या मध्याह्ने भूरिरक्तिदम् ॥ १७ ॥

स्वीकृतो ह्युपभेदोऽयं सारंगस्याऽत्र लक्ष्यके।

अभावो धगयोश्चाथ संगतो लक्ष्यवेदिनाम् ॥१८॥

पूर्वांगे परिसंगत्या निपयोरुत्तरांगके ।

रागोऽयं निश्चितः प्रायो भवेदिति सतां मतम् ॥ १९ ॥

प्रकारा बहवो लक्ष्ये सारंगस्य समीरिताः।

तेषु ये सुप्रसिद्धाः स्युस्ते मयाऽत्र प्रकीर्तिताः ॥ २० ॥

टिप्पनी।

मध्याह्ने मध्यरात्रे च सारंगांगं सुविश्रुतम् ।

तत्कालगेयरागेषु महद्वैचित्र्यकारणम् ॥ २१ ॥

सुहासुध्राइकाद्यास्ते रागा दिने तदंगजाः ।

नायक्यडाणकाद्यास्ते रात्रिगेयास्तथैव च ॥ २२ ॥

वृंदावनी मध्यमादिः सारंगः शद्धपूर्वकः ।

सामंतो बडहंसश्च मीयांसारंगनामकः ।

लंकादहनसारंग एते भेदा बहुश्रुताः ॥ २३ ॥

वृंदावनीसारंगः

काफीमेलसमुत्पन्ना वृंदावनी मता जने ।

आरोहे चावरोहेऽपि धगोना बहुसंमता ॥ २४ ॥

ऋषभः कीर्तितो वादी पंचमो मंत्रितुल्यकः ।

गानं तस्याः समादिष्टं मध्याह्ने लक्ष्यवर्त्मनि ॥२५॥

निषादौ द्वौ मतावत्र रागनामप्रसूचकौ।

मध्यमादिः सदा प्रोक्ता निकोमलपरिष्कृता ॥ २६ ॥

आदिशन्ति पुनः केचिदीपत्स्पर्शं विलोमके।

धैवतस्य यतस्तेन मध्यमाद्याः स्फुटा भिदा ॥ २७ ॥

केथिवृंदावनीरागे निषादं तीनसंज्ञकम् ।

प्राहुर्येन भवेदस्य मध्यमादिभिदा स्फुटा ॥ २८ ॥

मृदुनिमंडिता प्रोक्ता हृदयेशेन धीमता।

वृंदावनी धगत्यक्तौटुया विज्ञसुसावहा ॥ २९ ॥

रिमयोः संगतिश्चित्रा रागेऽस्मिन् भूरिरक्तिदा।

सैव स्याद्रिपयोस्तव मध्यमाद्यां विदा मते ॥ ३० ॥

धगयोर्गोपनं लक्ष्ये मुख्यं सारंगलक्षणम् ।

यथायोग्यप्रमाणेन प्रायः सर्वत्र लक्षितम् ॥ ३१॥

शुद्धसारंगः ।

हरप्रियाह्वये मेले शुद्धसारंगनामकः ।

आरोहे चावरोहेऽपि गांधारो वर्जितस्वरः ॥ ३२ ॥

ऋषभोऽत्र मतो वादी संवादी पंचमी भवेत् ।

द्वितीयप्रहरे गानं सर्वरक्तिप्रदं दिने ॥ ३३ ॥

धैवतस्य प्रयोगोऽत्र व्यक्तो यत्परिहश्यते ।

मध्यमादेः प्रभिन्नत्वमवश्यं प्रस्फुटं भवेत् ॥ ३४ ॥

मध्यमो द्वौ निषादी द्वौ विलोमे धैवतो मनाक् ।

एभिः स्याच्छुद्धसारंगः स्वतंत्रो लक्ष्यवर्त्मनि ॥ ३५॥

तीव्रमध्यमहीनत्वं वृंदावन्या सुसंमतम् ।

शुद्धमध्यमरिक्तत्वं नूरसारंगलक्षणम् ॥ ३६॥

केचित्समादिशन्त्यत्र धैवतस्यैव लंघनम् ।

लक्ष्ये न तत्तथाप्यच बुधः कुर्याद्यथोचितम् ॥ ३७॥

हृदयकौतुके थे तथैव हृत्प्रकाशके।

दिमध्यमो धगोनश्च सारंगः परिकीर्तितः ॥ ३८॥

संगीतपारिजाताख्ये ग्रंथेऽहोबलसूरिणा।

सारंगो वर्णितः स्पष्टं निमद्वंद्वो धगोज्झितः ॥ ३९ ॥

मीयांसारंगः।

प्रियाह्वये मेले मीयांसारंग ईरितः।

आरोहे चावरोहेऽपि गांधारो वर्जितस्वरः ॥४०॥

ऋषमः संमतो वादी संवादी पंचमो मतः ।

गानं चास्य समीचीनं द्वितीयप्रहरे दिने ॥ ४१ ॥

यतः सारंगभेदोऽयं न्यंशत्वं युक्तमेव तत् ।

मंद्रमध्यस्वरैर्गीतो भूरिरक्तिप्रदो भवेत् ॥ ४२ ॥

रिपयो रिमयोश्चाथ संगत्या नित्यशो जने ॥

सारंगांग भवेत्स्पष्टमित्याहुर्लक्ष्यवेदिनः ॥ ४३ ॥

संगतिर्निधयोरन रागभेदं प्रदर्शयेत् ।

मीयांमल्लारिकाच्छाया तत्रैव प्रकटीभवेत् ॥ ४४ ॥

सनिधनिधसैः प्रायो रागस्य मंडनं भवेत् ।

गांधाराभावतो नित्यं मल्लारांगं निवारयेत् ॥ ४५ ॥

मृदुनिषादसंयुक्ता मध्यमादिर्भजेद्भिदाम् ॥

वृंदावनी धगोनाऽसौ निषादद्वयसंयुता ॥ ४६ ॥

द्विमध्यमप्रभिन्नः स्यात्सारंगः शुद्धपूर्वकः ।

एकेन तीव्रमेन स्यान्नूरसारंगसंज्ञितः ॥४७॥

सामंतसारंगः।

काफीमेलसमुत्पन्नः सामंतो गुणिसंमतः।

आरोहे चावरोहेऽपि गांधारो वर्जितस्वरः ॥ ४८ ॥

सारंगस्य प्रभेदोऽयं रिपसंवादमंडितः।

गानं तस्य समीचीनं द्वितीयप्रहरे दिने ॥ ४९ ॥

धैवतस्यात्र संस्पर्शी विलोमेऽनुमतो मनाक् ।

देससारंगयोगेन रूपमेतत्समुद्भवेत् ॥ ५० ॥

आरोहे चावरोहेऽपि धगहीनः प्रकीर्तितः ।

हृत्प्रकाशाह्वये ग्रंथे हृदयेशेन धीमता ॥ ५१ ॥

गांधारद्वयसंयुक्तो न्यासोद्ग्राहांशषड्जकः ।

सामंता कीर्तितो ग्रंथे संगीतपारिजातके ॥ ५२॥

कर्णाटारपसुमेले च सामंतः परिकीर्तितः ।

मंजर्यां पुंडरीकेण काकल्यंतरभूषितः ॥ ५३॥

बडहंससारगः ।

काफीमेलसमुत्पन्नो बडहंसो बुधैर्मतः ।

कैश्चिदन्यैर्वर्णितोऽसौ शंकराभरणस्वरः ॥ ५४ ॥

ऋषभः संमतो वादी संवादी पंचमो मतः।

गानमस्य समीचीनं द्वितीयमहरे दिने ॥ ५५॥

सारंगस्य प्रभेदोऽयं संमतः सर्वतोऽधुना।

ततो गांधारलोपोऽत्र समादृतो विचक्षणैः ॥ ५६ ॥

बडहंसे मतं प्रायो धगस्वरप्रलोपनम् ।

मुक्तत्वं मध्यमेऽभीष्टमपन्यासस्तु निस्वरे ॥ ५७ ॥

सारंगनामके मेले रागोऽयं कीर्तितः स्फुटम् ।

लोचनेषतथैवाऽपि हृदयेशेन धीमता ॥ ५८ ॥

तीव्रमध्यमयोगोऽत्र वर्णितो हृत्प्रकाशके ।

यतो लक्ष्यविरोध्येतन्नतत्संमानमर्हयेत् ॥ ५९॥

प्रयोगस्तीव्रधस्याऽत्र विलोमे दृश्यते क्वचित् ।

लक्ष्यमार्गमनुल्लंध्य कुर्यात्तत्र प्रवर्तनम् ॥ ६०॥

पटमंजरी।

हरप्रियाह्वये मेले मंजरी पटपूर्विका ।

रागिणी श्रूयते लक्ष्ये संपूर्णा बहुसंमता ॥ ६१ ॥

आरोहे धगदौर्बल्यात्सारंगांगं प्रसूचयेत् ।

सारंगे लंघनं प्रोक्त समूलं स्वरयोस्तयोः ॥ ६२॥

वादित्वं षड्जके निष्ठं संवादित्वं तु पंचमे ।

सारंगानन्तरं गानं भवेदस्याः सुरक्तिदम् ॥ ६३ ॥

सरिमपस्वरैयक्तं सारंगांगं प्रदर्शयेत् ।

धगयोः सुप्रयोगात्तद्गायनः परिमार्जयेत् ॥ ६४ ॥

संगतिर्धगयोरत्र भवेद्रक्तिप्रवर्धनी।

रिगमगस्वरैश्चह देसीरूपं भिदां भजेत् ॥ ६५ ॥

दुर्लभं रूपमेतद्यदवश्यं संभवेत्ततः।

लक्ष्याध्वनि मतानैक्यं बुधः कुर्यात्स्वनिर्णयम् ॥ ६६ ॥

मते केषांचिदप्यत्र द्विगांधारप्रयोजनम् ।

पंचमस्यापि वादित्वं न तन्मे भाति संगतम् ॥ ६७ ॥

मेले शुद्धस्वराणां तां केचिदन्ये विदो विदुः।

न तद्विसंगतं भाति मतं लक्ष्यानुसारतः ॥ ६८॥

शुद्धस्वरयुतं रूपं रात्रिगेयं भवेत्प्रियम् ।

मया प्रपंचितं त्वत्र तृतीयमहरे दिने ॥ ६९॥

शुद्धमल्लारः।

काफीमेलसमुत्पन्नः शुद्धमल्लारनामकः ।

आरोहेऽप्यवरोह च गनिहीनौडुवो मतः ॥ ७० ॥

मध्यमः संमतो वादी संवादी षड्ज ईरितः।

गानमस्य समीचीनं वर्पाकाले मतं बुधैः ॥ ७१ ॥

मुक्तत्वान्मध्यमस्यात्र तथैव पधसैः स्वरैः ।

रागोऽयं लक्ष्यते स्पष्टमिति सर्वत्र संमतम् ॥ ७२ ॥

रागवियोधके ग्रंथे सोमनाथेन धीमता।

मल्लारिमलने प्रोक्तो रागोऽयं गनिवर्जितः ॥ ७३ ॥

मेघरागस्य संस्थाने प्रोक्तो हृदयकौतुके ।

निद्वंद्वतीव्रगोपेतो न तल्लक्ष्येऽत्र दृश्यते ॥ ७४ ॥

संगत्या धमयोस्तत्र दुर्गा स्यात्सुपरिस्फुटा। ।

जलधारो भवेद्भिन्नः केदारांगेन प्रस्कुटम् ॥७५ ॥

गौंडमल्लारः।

हरप्रियाह्वये मेले गौंडमल्लार ईरितः।

मतान्तरे पुनश्चासौ शंकराभरणे स्मृतः ॥ ७६ ॥

संपूर्णो मध्यमांशोऽपि गीयते लक्ष्यवर्त्मनि।

गानं तस्य समीचीनं वर्पाकाले सुनिश्चितम् ॥ ७७॥

रिगरिमगरिसैः स्याद्गौडांग लोकविश्रुतम् ।

मपधसैस्तथैवः स्यान्मल्लारांग परिस्फुटम् ॥ ७८॥

परित्यागे तु निगयोः शद्धमल्लारको भवेत् ।

मध्यमादृषभो पायोविशिष्टां रक्तिमावहेत् ॥ ७९ ॥

रिपयोः संगतिः प्रायो रागेऽस्मिन् गुणिसंमता।

प्रारोहे दुर्बलो निः स्यादिति मर्मज्ञसंमतम् ॥८०॥

यदा गृह्णाति गांधारं कोमलं निमृदुं तथा।

सधनिपमपगमारिसौर्भवेत्सुमंडनम् ॥ ८१ ॥

मीयांमल्लार ।

हरप्रियाभिधे मेले जायते विद्यधप्रियः ।

मीयांमल्लाररागोऽसौ वर्षास्तु सुखदायकः ।

संवादिनौ सपौ प्रोक्तौ गांधारे दोलनं भवेत् ।

निधयो रिवयोश्चैव संगती रागवाचिके ॥ ८३ ॥

मंद्रस्थानगतं गानं नित्यं स्याद् हृदयंगमम् ।

विलंबितलयालापः कस्य नो हर्षयेन्मनः ॥८४ ॥

निपादद्वयसंयोंगो दृश्यते लक्ष्यके क्वचित् ।

प्रच्छन्नधैवतः कुर्याद्वहारपरिमार्जनम् ॥ ८५॥

गांधारान्दोलने स्पष्टं कानडांगं परिस्फुटम् ।

मध्यमादृषभो पातो मल्लारांग सुनिर्णयेत् ॥ ८६ ॥

मल्लारकानडायोगाद्रागोऽयं परिकल्पितः ।

तानसेनकृतिश्चेयमिति लोके सुसंमतम् ॥ ८७॥

मपनिधनिसैरस्य विशिष्टांगं भवेत्स्फुटम् ।

मपधसधपैर्लोके गौडांगं विशदं भवेत् ॥८८॥

सूरमल्लारः।

काफीमेलसमुत्पन्नः सूरमलार ईरितः ।

निर्मितः सूरदासेनेत्याहुर्लक्ष्ये विवक्षणाः ॥ ८९ ॥

आरोहे चावरोहेऽपि धगयोर्लोपनं मतम् ।

समयोरेव संवादो व्यस्तत्वं मध्यमे शुभम् ॥९०॥

दौर्बल्याद्धगयोरत्र सारंगांगस्य संभवः ।

अतो मनाङ्मतः स्पर्शी धैवतस्य न बाधकः ॥९१॥

मध्यमादृषभो पातः सोरटीं दर्शयेद्यदि।

निपयो रिपयोश्चात्र संगत्या तां निवारयेत् ॥ ९२॥

निमपनिधपैश्यापि रागांगं विशदीभवेत् ।

मध्यमान्तस्वरस्थायो मल्लारांगं प्रसूचयेत् ॥ ९३॥

कोचिद्गांधारकं प्राहुः कोमलमत्ररागके ।

न तदग्राह्यमित्यूचुर्लक्ष्यलक्षणकोविदाः ॥ ९४ ॥

मल्लारो मध्यमादिश्च रांगऽस्मिन्मिलतो मृशम् ।

इति लक्ष्यविदां तावन्मतं भाति सुसंगतम् ॥ ९५॥

शुद्धपूर्वकमल्लारे गनिवर्ज्यं समीरितम् ।

धगग्राही पुनगाडो नित्यं लक्ष्ये भिदां भजेत् ॥ ९६॥

कानडागौंडसंयोगान्मियांमल्लारको भवेत् ।

मध्यमादिस्तथा गौंडो मिलतः सूरनामके ॥ ९७॥

गंभीरप्रकृतिर्मेघे विलंबितलयोद्धृतः।

उत्तालस्वरसंगीतो वर्षासु जनयेत्सुखम् ॥ ९८॥

रामदासीमल्लारः।

हरप्रियाह्वये मेले जातो रागः सुनामकः ।

रामदासीति विख्यातः संपूर्णो लोकविश्रुतः ॥१९॥

मध्यमः संमतो वादी संवादी षड्ज ईरितः ।

गानं तस्य समीचीनं वर्षाकाले सुनिश्चितम्॥१०० ॥

गांधारस्तीव आरोहेऽवरोहे कोमलाभिधः ।

अमसिद्धमिदं रूपं नूनं रक्तिप्रदायकम् ॥१॥

द्विगांधारप्रयोगात्स्यादन्यमल्लारभित्स्फुटा।

रिमयोर्निपयोश्चापि संगतिर्भूरिरक्तिदा ॥२॥

सहानागौडसंयोगाद्रूपमेतद्विनिर्मितम् ।

धीमता रामदासेनेत्याहुः केचिद्विपश्चितः ॥३॥

मतान्तरे तु मृदुग एक एवाऽत्र संमतः ।

लक्ष्यमार्गमनुल्लंघ्य कुर्यात्तत्र स्वनिर्णयम् ॥ ४ ॥

नटमल्लारः।

काफीमेलसमुत्पन्नो नटमल्लार ईरितः।

आरोहे चावरोहेऽपि संपूर्णस्तद्विदां मते ॥५॥

मध्यमः कीर्तितो वादी संवादी षड्ज ईरितः।

गोनं चास्य समीचीनं वर्पाकाले सुनिश्चितम् ॥ ६॥

नटमल्लारसंयोगाद्रागोऽयं निर्मिती बुधैः ।

पूर्वांगे स्यान्नटच्छाया मल्लारस्योत्तरांगके ॥७॥

रिमयो रिपयोश्वात्र संगतिः सुखदायिनी।

ईपन्निकोमलस्पर्शः प्रतिलोमेऽत्र क्षम्यते ॥ ८॥

मतान्तरे द्विगांधारो गीयते लक्ष्यवर्त्मनि ।

नित्यं लक्ष्यमनुल्लंघ्यकुर्यात्तत्र स्ववर्तनम् ॥९॥

टिप्पनी

काफी रागः सदा पूर्णः पीलुादशसुस्वरा ।

प्रारोहे गनिहीनासौ सिंदूरा शास्त्रसंमता ॥ १० ॥

धन्यासी रिधरित्तोक्ता रोहणे पंचमांशिका।

तथैव संमता भीमपलासी मध्यमांशिका ॥११॥

आरोहे चावरोहेऽपि धानी स्याद्रिधवर्जिता ।

पंचमांशा द्विगांधारा विचित्रा हंसकंकणी ॥ १२॥

गद्वया मध्यमांशाच लोके प्रदीपकी स्मृता।

प्रारोहेरिर्बहाराख्योऽड्डाणांगेन परिष्कृतः ॥ १३ ॥

वागीश्वरी त्वपारोहे संपूर्णा कैश्चिदीरिता।

धवर्जिता मता सूहा मध्यमांशाच मुक्तमा ॥ १४ ॥

प्रतिलोमे धसंस्पर्शा पाशा सुघ्राइका जने ।

नायकी धैवतोना स्याद्रिपसंगतिशोभना ॥ १५॥

सहाना तु मुसंपूर्णा निपसंगमनोहरा ।

गांधारांदोलिता कौंसी वागीश्वर्यांगमंडिता ॥ १६ ॥

धरिक्तो देवशासः स्याद्गपसंगविचित्रकः ।

मद्वंद्वः शुद्धसारंगो मध्यमादिर्धगोज्झितः ॥ १७ ॥

प्रतिलोमे घसंस्पर्शा वृन्दावनी मता जने ।

मुक्तमो बडहंसःस्याद्धस्पर्शी गीयते क्वचित् ॥ १८॥

गवर्जितो मतो लक्ष्ये सामंतो देसकांगकः ।

मल्लारांगो भवेन्मीयांसारंगो निधशोभनः ॥ १९॥

मृदुगः श्रूयते लोके लंकादहननामकः ।

ईषन्मृदुगसंस्पर्शा संपूर्णा पटमंजरी ॥ २० ॥

शुद्धमलारकः प्रोक्तोऽर्गानविशारदैः ।

तीव्रगांधारसंयुक्तो गौंडमल्लारको जने ॥ २१॥

मंडितः कानडांगेन मीयांमल्लारसंज्ञितः।

धगोनः सूरमल्लारो धेपत्स्पर्शोऽथवा कचित् ॥ २२॥

मेघमल्लारनामासौ नित्यं लक्ष्ये धगोज्झितः ।

गद्वंद्व संमतं तत्र रामदासिमलारके॥ २३॥

गद्वयं धद्वयं चापि मीरामल्लारनामके।

छायानहाश्रयः प्रोक्तो नटमल्लारसंज्ञितः ॥ २४ ॥

चंचलाद्यससाख्योऽपि चर्ज्वाह्वयोऽथ धूलिया।

अप्रसिद्धा मता एते नित्यं स्युर्वादमूलकाः ॥ २५॥

आसावरीमेले।
आसावरी।

ग्रंथेषु भैरवीमेलो यः पुराणैः प्रकीर्तितः।

स एवासावरीसंज्ञो लक्ष्ये विद्भिः समाहतः ॥ २६ ॥

मेलादस्मात्समुत्पन्न आसावरीति नामकः ।

रागो गुणिप्रियश्चाथ प्रारोहे गनिवर्जितः ॥ २७ ॥

धैवतोऽत्र मतो वादी संवादी गस्वरो भवेत् ।

गानं चास्य समादिष्टं द्वितीयप्रहरे दिने ॥ २८ ॥

मध्यमेन ग्रहोऽभीष्टः पंचमे न्यसनं शुभम् ।

उत्तरांगप्रधानत्वात्मतिलोमे परिस्फुटः ॥ २९ ॥

संगतिः पगयोश्चित्राऽवरोह चाल्पपंचमः।

रिमपनिधपस्वरै रागोऽयं स्पष्टतां व्रजेत् ॥ ३०॥

रागतरंगिणीग्रंथ आसावरी प्रकीर्तिता।

लोचनाख्येन विदुपा गौरीमेलसमाश्रिता ॥ ३१ ॥

तथैव कौतुकाख्येऽसौ हृदयेशेन लक्षिता ।

मायामालवके मेले सोमनाथेन भापिता ॥ ३२॥

गौरीमेलसमुत्पन्ना पुंडरीकेण वर्णिता। ।

रागलक्षणके ग्रंथे तोडीमेले निरूपिता ॥ ३३॥

जौनपुरी।

आसावरीसुमेलोत्था जौनपुरी गुणिप्रिया ।

सुलतानहुसेनेन निर्मितयमिति प्रथा ॥ ३४ ॥

धैवतः संमतो वादी कैश्चित्पंचम ईरितः ।

गानमस्याः समीचीनं द्वितीयमहरे दिने ॥ ३५॥

प्रारोहे स्याद्गवर्ज्यत्वमवरोहे समग्रकम् ।

गरिमपस्वरैर्नित्यं स्वस्वरूपं प्रकाशयेत् ॥ ३६॥

‘आसावरीसमीपत्वात्तदंग प्रस्फुटं क्वचित् ।

रोहणे गनिवर्ज्यत्वादासावरी भिदां भजेत् ॥ ३७॥

आधुनिकमिदं रूपं यवनः संप्रसाधितम् ।

इति सुसंमतं लक्ष्ये नूनं रक्तिमदायकम् ॥ ३८॥

तौरुष्कतोडिका ख्याता प्राचीनोक्तान लक्ष्यके ।

जौनपुरी। कदाचित्स्यादिति कुत्रापि संमतम् ॥ ३९॥

आसावरीमध्यमादियोगोऽत्र सूचितः क्वचित् ।

गांधान्यासावरीयोगः कैश्चिदन्यैः प्रसूचितः ॥४०॥

गांधारी ।

आसावरीसुमेले च गांधारी कीर्तिता बुधः ।

आरोहणे गरिक्तासी संपूर्णा चावरोहणे ॥४१॥

धैवतोऽत्रामतो वादी गांधारो मंत्रितुल्यकः।

गानं तस्याः समादिष्टं द्वितीयमहरे दिने ॥ ४२ ॥

ऋषभद्वयसंपन्ना चासावर्यगधारिणी ।

गरिमपस्वरैर्नित्यं स्वातंत्र्यं दर्शयेज्जने ॥४३॥

रितीव्रा जौनपुर्याख्या निगोनासावरीरिता।

प्रारोहे देवगांधारो द्विगो रिधोज्झितोऽथवा ॥४४॥

हृदयकौतुके ग्रंथे हृदयेशेन सूरिणा।

देवगांधारकः प्रोक्तो गौरीमेले निगोज्झितः ॥४५॥

तथैव सोमनाथेन वर्णितोऽसौ स्वनिर्मिती।

सांशो भैरवमेलोत्थोऽप्यहोरलेन वर्णितः ॥ ४६ ॥

रागचंद्रोदये ग्रंथे पुंडरीकेण धीमता।

देवगांधारकः प्रोक्तो मेले मालवगौलके ॥ ४७ ॥

तेनैवं रागमालाख्यग्रंधेऽसौ परिकीर्तितः।

शंकराभरणे मेले इति सर्वत्र विश्रुतम् ॥४८॥

चतुर्दडिप्रकाशिकाग्रंथे वेंकटसूरिणा ।

देवगांधाररागोऽयं प्रोक्तः काफ्याह्वमेलजः ॥ ४९ ॥

रागलक्षणके ग्रंथे देवगांधार ईरितः ।

नटभैरविमेलोत्थः प्रारोहे रिधवर्जितः ॥ ५० ॥

देशी।

नटभैरविकामेले प्रोक्ता देशी गुणिप्रिया ।

प्रारोहे धगवर्ज्यंत्वं प्रतिलोमे समयकम ॥ ५१ ॥

पंचमः कीर्तितो वादी मंत्रितुल्यस्तु रिस्वरः ।

गानं चास्याः समाख्यातं द्वितीयप्रहरे दिने ॥ ५२॥

योजयंति पुनः केचिदत्र तीव्राख्यधैवतम् ।

अन्येऽपि धैवतद्वंद्वं बुधः कुर्याद्यथोचितम् ॥ ५३ ॥

पूर्वांगे विलसेदत्र सारंगांगं विशेषतः ।

उत्तरांगे लसेदासावर्यंगं लक्ष्यविन्मते ॥ ५४॥

देशीतोडी मता मेले गौन्याख्ये लोचनेन वै ।

तथैव कौतुके प्रोक्तं हृदयेशेन सूरिणा ॥ ५५॥

शुद्धरामक्रियामेले सोमनाथेन वर्णिता।

हरप्रियाह्वये मेले प्रोक्ता व्यंकटधीमता ॥ ५६ ॥

रागलक्षणके ग्रंथे नटभैरविमेलने ।

प्रारोहे गस्वरत्यक्ता कीर्तिता चांध्रसंमता ॥ ५७ ॥

खटरागः।

आसावरीसुमेलाच खटरागः समुत्थितः ।

आरोहे चावरोहेऽपि संपूर्णस्तद्विदां मते ॥ ५८ ॥

धैवतः संमतो वादी गांधारो मंत्रिसंनिभः ।

गानमस्य समीचीनं द्वितीयमहरेऽहनि ॥ ५९ ॥

वर्णयंति पुनः केचिदेनं पंचमवादिनम् ।

गग्रहं पंचमन्यासं बुधः कुर्यात्स्वनिर्णयम् ॥ ६०॥

प्रकृतिचपलश्चित्रो बहुभिर्गमकयुतः।

उत्तरांगप्रधानोऽयं संगवे भूरिरक्तिदः ॥ ६१ ॥

एके भैरवमेलेऽमुं वर्णयंति विपश्चितः।

मिश्रमेलसमुत्पन्नं कथयंति पुनः परे ॥ ६२ ॥

रद्वयो रिद्वयश्वाथ धैवतद्वयसंयुतः।

सटरागः श्रुतो लोके धगान्दोलनभूषितः ॥ ६३ ॥

रागतरंगिणीग्रंथे तथा हृदयकौतुके ।

कीर्तितः सटरागोऽयं गौरीमेलसमाश्रयः ॥ ६४ ॥

वरारी गुर्जरी गौरी श्यामा चासावरीति च ।

गांधारीसंयुता एताः स्युः षड्ग इतीरितम् ॥ ६५ ॥

दरवारीकानडा।

आसावरीसुमेलाञ्च जातो रागः सुनामकः ।

कर्णाटाह्वयको लक्ष्ये प्रोटालापाहं उत्तमः ॥ ६६ ॥

ऋषभः संमतो वादी संवादी पंचमो मतः ।

गानं सुनिश्चितं चास्य तृतीयपहरे निशि ॥ ६७ ॥

अपभ्रंशस्तु कर्णाटशद्वस्य कानडा जने ।

दरबारीति यवनैर्गीतत्वाद्राजसंसदिः॥ ६८॥

सदान्दोलितगांधारो विलंवितलयान्वितः।

मन्द्रमध्यमचारोऽयं निपसंगमनोहरः ॥ ६९॥

कर्णाटस्य प्रकारास्ते बहवो लोकविश्रुताः।

प्रारोहे दुर्बलो गःस्यादवरोहे न धैवतः ॥ ७० ॥

सरिमपधनिसैः स्याद्रोहणमतिरक्तिदम् ।

सधनिपमपगरिसैरवरोहणं मतम् ॥ ७१ ॥

अडाणा।

आसावरीसुमेलाञ्च जातोऽड्डाणो गुणिप्रियः ।

प्रारोहे हीनगांधारो धगवक्रो विलोमके ॥ २॥

षड्जवादी पसंवादी गीयते प्रायशो जने ।

गानं चास्य समीचीनं तृतीयप्रहरे निशि ॥ ७३ ॥

दौर्बल्याद्धगयोः किंचित्सारंगांगं भवेत्स्फुटम् ।

विलोमे पगसंगत्या भवेत्तदपवारणम् ॥ ७४ ॥

कर्णाटके यथा प्रोक्ता मंद्रमध्यविचित्रता।

तारमध्यगता चात्र प्रोच्यतेऽसौ विचक्षणः ॥ ७५॥

कर्णाटमेलने मोक्तो रागोऽयं लोचनादिकैः ।

तीव्रधैवतगांधारो न तल्लक्षयेऽद्य संमतम् ॥ ७६ ॥

मग्रहः तारषड्जांशः प्रतिलोममनोहरः ।

तृतीययामके रात्र्यां नूनं स्यादतिरकिदः ॥ ७७॥

कौशिकः ।

आसावरीसमेलोत्था कौशिकीकानटा मता।

पारोह रिपहीनाऽसौ संपूर्णा चावरोहणे ॥ ७ ॥

मध्यमः संमतो वादी साहचर्ये तु षड्जकः ।

गानं समीरितं तस्या निशीथे भूरिरक्तिदम् ॥ ७९ ॥

कानडा मालकोशश्च मिलतोऽत्र यथायथम् ।

काफीमेलगता कौसी पूर्वमेव मयोदिता ॥ ८० ॥

मधनिसनिधमैः स्यान्मालकोशांगदर्शनम् ।

पगमगरिसैः कुर्याद् बुधस्तदंगवारणम् ॥ ८१ ॥

अप्रसिद्धमिदं रूपं गायनोत्तमनिर्मितम् ।

समुद्भूतं यथान्यायमवश्यं रक्तिदं भवेत् ॥ ८२ ॥

सिंधुभैरवी।

आसावरीसुमेलाञ्च भैरवी सिंधुपूर्विका ।

आरोहे चावरोहेऽपि संपूर्णा धैवतांशिका ॥ ८३ ॥

वर्णयन्ति पुनः केचिदेनां मध्यमवादिनीम् ।

गानं सुनिश्चितमस्या द्वितीयप्रहरे दिने ॥ ८४ ॥

ऋषभद्वययोगोऽत्र दृश्यते लक्ष्यके क्वचित् ।

परिवर्त्य पुनः षड्जं गायन्ति गायनाः क्वचित् ॥ ८५॥

आधुनिकं स्वरूपं स्यादेतत्याहुर्विचक्षणाः।

मंद्रमध्यप्रचारेण वैचित्र्यं तनुत्ते ध्रुवम् ॥ ८६ ॥

झीलफः।

आसावरीमेलजन्यो झीलफः श्रूयते जने ।

राग आधुनिको ह्येप संपूर्णो धैवतांशकः॥८७॥

जौनपुर्यपि स्वड्रागो द्वावत्रावयवी मती।

प्रातःकालप्रगेयत्वादुत्तरांगं परिस्फुटम् ॥ ८८॥

भैरवमेलनेऽप्याहुः केचिदेनं विचक्षणाः।

धवादिनं रिनित्यक्तं बुधः कुर्याद्यथोचितम् ॥ ८९ ॥

टिप्पनी

आसावर्यां गनी न स्तः प्ररोह ऋषभद्वया।

गांधारी कीर्तिताऽऽरोहे जौनपुरीगवर्जिता ॥ ९०॥

झीलफे धैवतद्वंद्वं षड्रागेऽपि तथैवच ।

प्रारोहे न धगौ देश्यां पूर्णा सिंध्याख्यभैरवी ॥ ९१ ॥

मंद्रमध्यसुसंचारा दरवारी भता जने।

मध्यतारसुसंचारोऽड्डाणः सर्वत्र विश्रुतः॥ ९२॥

कौसी सुसंमता लक्ष्ये मालकंसांगधारिणी।

एवमासावरीमेलजाता रागा दशेरिताः ॥ ९३ ॥

भैरवीमेले।
भैरवी ।

ग्रंथोक्ततोडिकामेलो लक्ष्येऽत्र भैरवीरितः ।

अस्मान्मेलासमुत्पन्ना भैरवी लोकविश्रुता ॥ ९४ ॥

धैवतः संमतो वादी कैश्चिमध्यम ईरितः ।

आरोहे चावरोहेऽपि संपूर्णा सरला मता ॥ १५ ॥

उत्तरांगप्रधानत्वात्प्रातर्गेयत्वमीक्षितम् ।

रिगमगरिसैः स्यात्स्वरूपं सुपरिस्फुटम् ॥ ९६ ॥

काफीमेलसमुत्पन्ना लोचनेन प्रकीर्तिता।

तथैव हृदयेशेन वर्णितेयं स्वनिर्मितौ ॥ ९७ ॥

श्रीरागमेलने ख्याता पुंडरीकेण धीमता।

तन्मेलजैव संमोक्ता विबोधे रागपूर्वके ॥१०॥

रागलक्षणकारेण भैरवी कीर्तिता स्फुटम् ।

नटभैरविमेलोत्था पुरावृत्तमितीरितम् ॥ ९९ ॥

बिलासखानीतोडी।

भैरवीमलसंजाता तोडी बिलासखानिका।

निर्मिता तानसेनस्य बिलासाख्येन सूनुना ॥ १००॥

धगसंवादसंपन्ना नित्यं संपूर्णरूपिणी ।

गानं चास्याः समीचीनं द्वितीयप्रहरेऽहनि ॥१॥

सरिनिसरिगरिंगमगरिसस्वरैर्भृशम् ।

स्वरूपं स्यादभिव्यक्तं प्रायः प्रज्ञा वदन्ति ते ॥ २ ॥

आसावरी तथा तोडी मिलतोऽत्र यथायथम् ।

प्रारोह मनिदौर्बल्यं वैचित्र्यं चावरोहणे ॥३॥

यथान्यायं सुगीतौ चेन्मनिषादौ स्वराविह ।

अवश्यं भैरवीभिन्नं रूपं तत्र समुद्भवेत् ॥ ४॥

मालकोशः ।

भैरवीमेलसंजातो रागो लोके गुणिप्रियः ।

मालकोश इति ख्यातो रिपवर्जित औडुवः ॥५॥

मध्यमः संमतो वादी संवादी षड्ज ईरितः ।

गानं तस्य समीचीनं तृतीयप्राहरे निशि ॥ ६ ॥

आलापनार्हता चास्य संमता गानवेदिनाम् ।

शुद्धमध्यमवादित्वं भवेदांभीर्यवाचकम् ॥ ७ ॥

मुक्तत्वं मे स्वरे नित्यं रागस्वातंत्र्यमादिशेत् ।

गमधनिसनिधमस्वरै रूपं भवेत् स्फुटम् ॥ ८ ॥

विदग्धा गायनाश्चात्र कुर्वन्ति बुद्धिपूर्वकम् ।

क्वचिद्रिपप्रयोगं ते विलोमे रक्तिवृद्धये ॥ ९ ॥

तरंगिण्याह्वये ग्रंथे रागोऽयं स्यात्मकीर्तितः ।

कर्णाटमेलने स्पष्टं तीव्रवगस्वरान्वितः ॥१०॥

स एव रागमंजर्यां पुंडरीकविपश्चिता ।

अधगः सव्रिकः प्रोक्तः काफीरागारयमेलने ॥ ११॥

केषुचिच्छास्त्रग्रंथेषु रागो मंगलकौशिकः ।

गौरीमेलसुसंजातः स चास्माद्भेदमहयेत् ॥ १२ ॥

प्राचीनग्रंथकारैर्ये हिंदोलः संप्रकीर्तितः।

मालकोशः स एवात्र लक्ष्य इति विदां मतम् ॥ १३॥

टिप्पनी

भैरवी स्यात् सदा पूर्णा मालकोशोऽरिपो मतः।

तोडी विलाससान्याया तोड्यंगभैरवी स्वयम् ॥ १४ ॥

तोडीमेले।
तोडी।

वराटीतोडिकामेलो यो ग्रंथेषु निरूपितः ।

समादृतः स एवान तोडीति लक्ष्यवेदिभिः ॥ १५॥

अस्मान्मेलासमुत्पन्ना रागिणी तोडिकाह्वया। ।

आरोहे चावरोहे च संपूर्णा लोकविश्रुता ॥ १६ ॥

धैवतः संमतो वादी गांधारो मंत्रितुल्यकः।

गानमस्याः समीचीनं द्वितीयप्रहरेऽहनि ॥ १७ ॥

संगतिर्धगयोरत्र भवेद्रक्तिप्रदायिनी।

आरोहे स्याद्रिपाल्पत्वं वैचित्र्यमवरोहणे ॥१८॥

प्रातःकालोचितं नैव तीव्रमस्य प्रयोजनम् ।

लोके प्रतीयमानत्वात् स्वीकृतमपवादकम् ॥ १९ ॥

ग्रंथोक्ततोडिमेलोऽसौ लक्ष्ये भैरविनामकः ।

इति मया पुरैवोक्तं पुनरुक्तिर्निरर्थका ॥२०॥

दरबारी तथा लक्ष्मी लाचारी च बहादुरी।

हुसेनीनामिका तोडी तोडी बिलासखानिका ॥२२॥

एवं बहुविधास्तोड्यो रागांतरविमिश्रिताः।

प्रसिद्धिं च समानीता लोके यवनगायकैः ॥ २२॥

गुर्जरीतोडी।

तोडीमेलसमुत्पन्ना गुर्जरी कीर्त्यते बुधैः।

आरोहे चावरोहेऽपि नित्यं स्यात्पविवर्जिता ॥ २३ ॥

धैवतः संमतो बादी रिर्गो वा मंत्रिसंनिमः।

गानं सुनिश्चितं तस्या द्वितीयमहरेऽहनि ॥ २४ ॥

मध्यतारविचित्राऽसौ मन्यते गायनः कचित् ।

मते तेषां पुनस्तोडी मंद्रमध्यप्रचारिणी ॥२५॥

ग्रंथेषु गुर्जरी प्रोक्ता स्पष्टं भैरवमेलने ।

रित्रिका पेन हीना साऽथवा पूर्णा प्रभातमा ॥ २६ ॥

अद्यापि गीयते चासौ संपूर्णा कुत्रचिजने ।

तोडीमेलसमुत्पन्ना न तल्लक्ष्येऽत्र संमतम् ॥ २७ ॥

मुलतानी।

तोडीमेलसमुत्पन्ना मूलतानी निरूपिता।

प्रारोहे रिघहीनाऽसौ पंचमांशा जनप्रिया ॥२८॥

मगयोः संगतिश्चित्रा तयोरेव सुदोलनम् ।

भवेद्रक्तिप्रदं नित्यं तृतीयप्रहरोत्तरम् ॥ २९ ॥

आरोहे रिधहीनत्वमपराह्णत्वसूचकम् ।

प्रसिद्धो नियमो ह्येप सूरिणां पूर्ववर्तिनाम् ॥ ३० ॥

मध्याह्नार्हान् धगाल्पांस्तान् रागान् गीत्वा यथोचितम् ।

प्रवर्तते रिधत्यक्तान् गातुं गातुर्मनः स्वयम् ॥ ३१ ॥

मुलतानीगते गे तु तीव्रत्वारोपणे पुनः ।

झटित्युत्पत्स्यते तत्र पूर्वारागस्य मेलनम् ॥ ३२ ॥

शेषयामे दिने प्रायः समपाः प्रबलाः स्मृताः ।

निरवद्यंरहस्यं तत्को न वेत्तीह मर्मवित् ॥ ३३ ॥

धन्याः खलु पंडितास्ते येरिदं कौतुकं महत् ।

निर्मितं बुद्धिसामर्थ्यात् संततं विश्वमोहनम् ॥ ३४॥

निसमगपमधपमगपमगरीससाः ।

स्वररतैः स्वरूपं स्यान्मूलतान्याः परिस्फुटम् ॥ ३५॥

भावभट्टमते।

प्रथमा शुद्धतोडी स्यादेशीतोडी द्वितीयिका।

बहादुरी तृतीया स्याद्गुर्जरी च चतुर्थिका ॥ ३६॥

छायातोडी पंचमी स्यातू षष्टि तोडी वराटिका ।

हुसेनी सप्तमी प्रोक्ता जौनपूरी तथाष्टमी ॥

आसातोडी च नवमी नवधा कीर्तिता बुधैः ॥ ३७॥

टिप्पनी

तोडी लोके सदा पूर्णा गुर्जरी पंचमोज्झिता ।

मूलतान्यां रिधीनस्तः प्रारोहे गीतविन्मते ॥ ३८॥

वाग्गेयकारलक्षणम् ।
रत्नाकरे।

वाङ्मातुरुच्यते गेयं धातुरित्यभिधीयते ।

वाचं गेयं च कुरुते यः स वाग्गेयकारकः ॥ ३९॥

शब्दानुशासनज्ञानमभिधानप्रवीणता ।

छन्दःप्रभेदवेदित्वमलंकारेषु कौशलम् ॥ ४०॥

रसभावपरिज्ञानं देशस्थितिषु चातुरी ।

अशेपभाषाविज्ञानं कलाशास्त्रेषु कौशलम् ॥४१॥

तुर्यत्रितयचातुर्यं हृद्यशारीरशालिता।

लयतालकलाज्ञानं विवेकोऽनेककाकुषु ॥४२॥

प्रभूतप्रतिभोन्द्रेदभाक्त्वं सुभगगेयता।

देशीरागेष्वभिज्ञत्वं वाक्पटुत्वं सभाजये ॥४३॥

रागद्वेपपरित्यागः सार्द्रत्वमुचितज्ञता।

अनच्छिष्टोक्तिनिबंधो नूत्नधातुविनिर्मितिः॥४४॥

परचित्तपरिज्ञानं प्रबंधेषु प्रगल्भता ।

द्रुतगीतविनिर्माणं पदान्तरविदग्धता ॥४५॥

त्रिस्थानगमकप्रौढिर्विविधालप्तिनैपुणम् ।

अवधानं गुणैरेभिर्वरो वाग्गेयकारकः ॥ ४६॥

विदधानोऽधिकं धातुं मातुमन्दस्तु मध्यमः ।

धातुमातुविदप्रौढः प्रचंधेष्वपि मध्यमः ॥ ४७ ॥

रम्यमातुविनिर्माताऽप्यधमो मंदधातुकृत् ।

वरो वस्तुकविवर्णकविर्मध्यम उच्यते ।

कुट्टिकारोऽन्यधातौ तु मातुकारः प्रकीर्तितः ॥४८॥

उत्तमगायनलक्षणम् ।

हृद्यशब्दः सुशारीरो ग्रहमोक्षविचक्षणः ।

रागरागांगभाषांगक्रियांगोपांगकोविदः ॥ ४९ ॥

प्रबंधगाननिष्णातो विविधालातितत्ववित् ।

सर्वस्थानोञ्चगमकेप्वनायासलसदगतिः ॥ ५० ॥

आयत्तकंठस्तालज्ञः सावधानो जितश्रमः ।

शुद्धच्छायालगामिज्ञः सर्वकाकुविशेपवित् ॥ ५१ ॥

अपारस्थायसंचारः सर्वदोपविवर्जितः ।

क्रियापरो व्यक्तलयः सुघटो धारणान्वितः ॥ ५२ ॥

स्फूर्जन्निर्जवनो हारिरहःकृद्भजनोद्धरः।

सुसंप्रदायो गीतज्ञैर्गीयते गायनाग्रणीः ॥ ५३॥

गुणैः कतिपयैर्हीनो निर्दोषो मध्यमो मतः ।

महामाहेश्वरेणोक्तः सदोषो गायनोऽधमः ॥ ५४॥

शिक्षाकारोऽनुकारश्च रसिको रंजकस्तथा।

भावुकश्चेति गीतज्ञाः पंचधा गायनं जगुः ॥ ५५॥

अन्यूनशिक्षणे दक्षः शिक्षाकारो मतः सताम् ।

अनुकार इति प्रोक्तः परमंग्यनुकारकः ॥५६ ॥

रसाविष्टस्तुरसिको रंजक श्रोतृरंजकः ।

गीतस्यातिशयाधानाद्भावुकः परिकीर्तितः ॥ ५७ ॥

एकलो यमलो वृंदगायनश्चेति ते विधा।

एक एव तु यो गायेदसावेकलगायनः ॥ ५८॥

सद्वितीयो यमलकः संवृंदो वृंदगायनः ।

रूपयौवनशालिन्यो गायन्यो गातृविन्मताः ।

माधुर्यधुर्यध्वनयश्चतुराश्चतुरप्रियाः ॥ ५९॥

सदोपगायनलक्षणम् ।

संदष्टोद्धृष्टसूत्कारिभीतशंकितकम्पिताः ।

कराली विकलः काकी वितालकरमोदकाः ॥ ५० ॥

झोम्बकस्तुम्बकी वक्री प्रसारी विनिमीलया।

विरसापस्वराव्यक्तस्थानभ्रष्टाव्यवस्थिताः ॥ ६१॥

मिश्रकोऽनवधानश्च तथान्यः सानुनासिकः ।

पंचविंशतिरित्येते गायना निन्दिता मताः ॥ ६२॥

सुशारीरलक्षणम् ।

रागाभिव्यक्तिशक्तत्वमनभ्यासेऽपि यद्ध्वनेः ।

तच्छरीरमितिमोक्तं शरीरेण सहोद्भवात्॥६३॥

तारानुध्वनिमाधुर्यरक्तिगांभीर्यमार्दवः ।

घनतास्निग्धताकांतिप्राचुयादिगुणयुतम् ॥६४॥

तत्सुशारीरमित्युक्तं लक्ष्यलक्षणकोविदैः।

अनुध्वानविहीनत्वं रुक्षत्वं त्यक्तरक्तिता॥६५॥

निःसारता विस्वरता काकित्वं स्थानविच्युतिः ।

काश्यं कार्कश्यामित्याद्यैः कुशारीरंकुदूषणैः॥६५॥

प्रस्तुतसंगीतस्थितिः।

अस्मत्संगीतं स्वायत्तीकृतमशिक्षितर्जनः ।

अतोऽत्र दोपबाहुल्यं स्वभावादुपलभ्यते ॥ ६७ ॥

संगीतस्य सुशिक्षितशिक्षकाभावतोऽधना।

तारतम्यपरिज्ञानसाधनं नैव विद्यते ॥६८॥

साम्यक्तयाऽन्यथा वैतदत एवाभिमन्यते ।

संगीतं मोहिनीरूपमित्याहुः सत्यमेव तत् ॥ ६९ ॥

योग्यरसभावमापारागप्रभृति साधनैः ।

गायकः श्रोतृमनसि नियतं जनयेत् फलम् ॥ ७० ॥

अस्मदीयेष्वाधुनिकगायकेयु समततः ।

यथोक्तनियमान् ज्ञात्वा गायन्तो विरला जनाः ॥ ७१॥

भाषाऽव्यक्ता हावभावाः प्रतीयन्ते विसंगताः।

व्यस्ताश्चेष्टास्तथाऽऽक्रोशाः केवलं कर्कशा मताः ॥७२॥

एतादृग्गायनान्न स्यात् परिणामो ह्यभीप्सितः ।

ततो हास्यरसस्यैव केवलं स्यात् समुद्भवः ॥ ७३ ॥

अर्थहीना हावभावा वीररसस्य ये सदा ।

दृश्यन्ते गायने तेभ्यः कथं स्यादुत्तमं फलम् ॥ ७४॥

अनुसृत्यैव शब्दार्थ ध्वनेः संक्रमणं भवेत् ।

गायकास्तादृशा दृटाः स्वपद्यार्थं न ये विदुः ॥७५॥

कथमेते विजानीयू रसभावरहस्यकम् ।

तथैव ते कथं विद्युः संगीतस्वरसंक्रमम् ॥ ७६ ॥

भिद्यतेऽनेकया देशीसंगीतमिति विश्रुतम्।

ययोः कयोरपि भवेट्रंथयोनैकवाक्यता ॥ ७८ ॥

अत एवातिकठिनं तादृग्ग्रंथस्य लेखनम् ।

यः सर्वत्रोपयुज्येत समभावेन केवलम् ॥ ७८॥

नैव द्रव्यार्जनोद्देशः शंकनीयोऽत्र कश्चन ।

संगीतष्टाध्वशिक्षार्थं यत्नस्त्वेप मया कृतः ॥ ७९ ॥

नूनं पद्धत्यनुगुणशिक्षणाभ्यासतः सताम् ।

आवश्यकतया तादृग्ग्रंथापेक्षाऽपि विद्यते ॥ ८० ॥

कीदृग्ग्रंथा इष्टा इति प्रतीयेत सतां यदा।

तदापि स्यान्मदायाससाफल्यमिति मे मतिः ॥ ८१॥

नूत्नशिष्याऽपेक्षयादौ स्युरिष्टा योग्यशिक्षकाः।

अध्यापयिष्यन्ति तेऽमुं विषयं सम्यगेव हि ॥ ८२ ॥

ग्रंथस्योद्देश आदौ स्यादस्य शिक्षकनिर्मितिः ।

शिष्यानध्यापयिष्यति तादृशाः शिक्षकास्ततः ॥ ८३ ॥

इति श्रीलक्ष्यमंगीतद्वितीयाध्याय ईरितः ।

चतुराख्येनभरतपूर्वखंडनिवासिना ॥ ८४॥

एवं श्रीमल्लक्ष्यसंगीतनामा

यत्नैर्नूत्नो निर्मितोऽयं प्रबंधः।

प्राचीनार्वाचीनसंगीतभक्त

प्रीत्यै यातः पूर्णतामत्र सद्यः ॥ ८५॥

शाके शशाङ्कगुणानागमहीमिताब्दे ।

मासे मधौ सितदले प्रथमेऽह्नि सोमे।

लक्ष्याद्यकारि चतुराह्वयपंडितेन

संगीतकं भरतखंडनिवासिनेदम् ॥८६॥

॥ इति श्रीमलक्ष्यसंगीतं संपूर्णम् ॥

। परिशिष्टम् ।

प्रसिद्धप्राचीनग्रथोक्तरागवर्गीकरणानि

**रत्नाकरे, **

शुद्धादिपंचगीतिसमाश्रितत्रिंशद्रामरागनामानि,

शुद्धयाम् ७

१,षड्जग्राम २,मध्यमग्राम ३,शुद्धकशिक ४,शुद्धपंचम
५,शुद्धकैशिकमध्यम ६,शुद्धसाधारित ७,शुद्धषाडव

भिन्नायाम् ५

१,भिन्नषड्ज २,भिन्नपंचम ३,भिन्नकैशिक
४,भिन्नतान ५,भिन्नकशिकमव्यम

गाड्याम् ३

गौडकेशिक
गौडपंचम
गौडकैशिकमध्यम

वेसरायाम् ८

१,सौबीर २,टक्क
३,बोट्ट ४,मालवकैशिक
५,टक्ककैशिक ६,हिंदोल
७,मालवपंचम ८,वेसरषाडव

साधारण्याम् ७

१,रूपसाधरणं २,शक ३,भमाणपचम ४,नर्त
५,गाधारपचम ६,षड्जकैशिक ७,कुकुभ

उपर्युक्तेपु ग्रामरागेषु ये भाषाविभाषांतरभाषाजनकाः,

१,सौबीर २,कुकुभ ३,टक्क ४,पचम ५,भिन्नपचम
६,टक्ककैशिक ७,हिंदोल ८,बोट्ट ९,मालवकैशिक १०,गाधारपचम
११,भिन्नषड्ज १२,वेसरषाडव १३,मालवपंचम १४,तान १५,पचमषाडव

श्रीमल्लक्ष्यसंगीतम् ।

ग्रामरागजनितभाषादिकनामानि,

१ सौवीरे, भाषाः ४

१,सौवीरी २,वेगमध्यमा ३,साधारिता ४,गांधारी

२ ककुभे, भाषाः ६

१,भिन्नपंचमी २,कांबोजी ३,मध्यमग्रामा
४,रगंती ५,मधुरी ६,शकमिश्रा

विभाषाः ३

१,भोगवर्द्वनी २,आभीरिका ३,मधकरी

अंतरभाषा १

१ शालवाहनिका

३ टक्के, भाषाः २१

१,त्रबणा २,त्रवणोद्भवा ३,वैरंजी
४,मध्यमग्रामदेहा ५,मालवकेसरी ६,छेवाटी
७,सौंधवी ८,कोलाहला ५,पंचमलक्षिता
१०,सौराष्ट्री ११,पंचमी १२,वेगरंजी
१३,गांधारपंचमी १४,मालवी १५,तानवलिता
१६,ललिता १७,रविचंद्रिका १८,ताना
१९,बाहेरिका २०,दोह्या २१,वेसरी

विभाषाः ४

१,देवारवर्धनी २,आंघ्री ३,गुर्जरी ४,भावन

४ पंचमे भाषाः १०

१,केशिकी २,त्रावणी ३,तानोद्भवा ४,आमीरी ५,गुर्जरी
६,सौंधवी ७,दाक्षिणात्या ८,आंघ्री ५,प्रांगली १०,भावनी

विभाष २

१,भम्माणी २,आंघालिका

५ भिनपंचमे, भाषाः४

१,धैऋतभूषिता २,शुद्धभिन्ना
३,वराटो ४,विशाला

परिशिष्टम् ।

विभाषा १

१ कौशली

६ टक्ककैशिके, भाषे २

१,मालवा २,भिन्नवलिता

विभाषा१

१ द्राविही

७ हिंदोले, भाषाः ९

१,वेसरी २,चूतमंजरी ३,षड्जमध्यमा
४,मधुरी ५,भित्रपौराली ६,गौडी
७,मालववेसरी ८,छेवाटी ९,पिंजरी

८ बोट्टे, भाषाः १

१,मागली

९ मालवकैशिके, भाषाः १३

१,बंगाली २,खजिनी ३,मांगली ४,हर्षपुरी ५ ,मालववेसरी
६,गुर्जरी ७,गौडी ८,पौराली ९,अर्धवेसरी १०,शुद्धा
११,मालवरूपा १२,सैधवी १३,आभीरी

विभाषे २

१,कांबोजी २, देवारवर्धनी

१० गांधारपंचमे, भाषाः १

१,गाधारी

११ भिन्नषड्जे, भाषाः१७

१,गांधारवल्ली २,कच्छेली ३,स्वरवल्ली
४,निषादिनी ५,त्रवणा ६,मध्यमा
७,शुदा ८,दाक्षिणात्या ९,पुलिदिका
१०,तुबुरा ११,षड्जभाषा १२,कालिदी
१३,ललिता १४,श्रीकठी १५,बगाली
१६,गांधारी १७,सेधवी

श्रीमल्लक्ष्यसंगीतम् ।

विभाषाः ४

१,पौराली २,मालवा
३,कालिदी ४,देवारवर्धनी

१२ येसरपाडये, भाषे २

१,बाहा २,बाह्यपाडवा

विभाषे २

१,पार्वती २,श्रीकंठी

१३ मालवपंचमे, भाषाः ३

१,वेदवती २,भाविनी ३,विभाविनी

१४ ताने,भाषा १

१,तानोद्गवा

१५ पंचमपाडवे, भाषा १

१,पोता

मतातरे, रेवगुप्ते भाषा १

१ शक्का

अनुक्तजनका विभाषा

१ पल्लवी

अंतरभाषाः

१,भासवलिता २,किरणावली ३,शकवलिता

रत्नाकरोक्तोपरागाः ८

१,शकतिलकः २,टक्कसेववः ३,कोकिलापंचमः ४,रेवगुप्तः
५,पंचमपाडवः ६,भावनापचमः ७,नागगांधारः ८,नागपंचमः

रागाः २०

१,श्रीरागः २,नट्टः ३,बंगालः ४,द्वितीयबंगालः
५,भासः ६,मध्यमपाडवः ७,रत्नहंमः ८,कोल्हहामः
९,प्रसवः १०,ध्वनिः ११,भैरवः १२,मेघरागः
१३,सोमः २४,कामोदः २५,द्वितीयकामोदः १६,आम्रपंचमः
१७,कंदर्पः १८,देशान्यः १६,केशिककुकुभः २०,नट्टनारायणः

परिशिष्टम्

रागांगभाषांगक्रियांगोपांगनामानि,

पूर्वप्रसिद्धानि रागांगानि ८

१,शंकराभरणः २,घंटारवः ३,आहंसा ४,दीपकः
५,रीतिः ६,पूर्णाटिका ७,लाटी ८,पलवी

भाषांगानि ११

१,गांभीरी २,वौहाटी ३,खशिका ४,उत्पली
५,गोल्ली ६,नादांतरी ७,नीलोत्पली ८,छाया
९,तरंगिणी १०,गांधारगतिः ११,गेरंजी

क्रियांगानि १२

१,भावक्री २,स्वभावक्री ३,शिवक्री ४,मरुकक्री
५,त्रिनेत्रक्री ६,कुमुदक्री ७,दनुक्री ८,ओजक्री
९,इंद्रक्री १०,नागकृतिः ११,धन्यकृतिः १२,विपायक्री

उपांगानि ३

१ पूर्णाटः २ देवालः ३ गुरुंजिका

अधुनाप्रसिद्धरागांगादिकानां नामानि

रागांगानि १३

१,मध्यमादिः २,मालवश्रीः ३,तोडी ४,बंगालः
५,भैरवः ६,वराटी ७,गुर्जरी ८,गौडः
९,कोलाहलः १०,वसंतः ११,धनाश्रीः १२,देशी
१३,देशाख्या

भाषांगानि ९

१,डोबक्री २,प्रथममंजरी ३,शुद्धवाटिका
४,आसावरी ५,आदिकामोदी ६,नागध्वनिः
७,वेलावली ८,नट्टा ७,कर्णाटमंगलः

श्रीमलक्ष्यसंगीतम् ।

उपांगानि २७

१,कुंतलवराटी १०,सौराष्ट्रगुर्जरी १९,छायानट्टा
२,द्राविडीवराटी ११,दक्षिणागुर्जरी २०,रामकृतिः
३,सैधवीवराटी १२,द्राविडीगुर्जरी २१,वल्लातिका
४,स्थानवराटी १३,भुंच्छिका २२,महलारी
५,हस्तस्वरवराटी १४,स्तंभातीर्थिका २३,महलारः
६,प्रतापवराटी १५,छायावेलावली २४,कर्णाटगौडः
७,छायातोडी १६,प्रतापवेलावली २५,देशवालगौडः
८,तुरुष्कतोडी १७,भैरवी २६,तरुष्कगौडः
९,महाराष्ट्रगुर्जरी १८,सिंघलीकामोदा २७,द्रविडगौडः

" सर्वैपामिति रागाणां मिलितानां शतद्वयम् ।

चतुःषष्ट्यधिकं ब्रूते शाङ्गी श्रीकरणाग्रणीः ॥"

रागसंख्यानिर्णय.

ग्रामरागाः ३० भाषारागाः ९६
उपरागाः विभाषारागाः २०
रागाः २० अंतर्भाषारागाः
पूर्वप्रसिद्धरागांगानि शार्ङ्गदेवसमयप्रसिद्धरामांगानि १३
पूर्वप्रसिद्धभाषांगानि ११ शार्ङ्गदेवसमयप्रसिद्धभाषांगानि
पूर्वप्रसिद्धक्रियांगानि १२ शार्ङ्गदेवसमयप्रसिद्धक्रियांगानि
पूर्वप्रसिद्धउपांगानि शार्ङ्गदेवसमयप्रसिद्धउपांगानि १७

मिलिताः २६४ रागाः

टिप्पनी

उपरिनिर्दिष्टशार्ङ्गदेवसमयप्रसिद्धरागा दाक्षिणात्यपद्धत्यामद्यापि

तत्तनामभिरुपलब्धा इति विचारणीयम्

परिशिष्टम्

शिवमते,रागाः६

१,श्रीराग २,वसत ३,पचम
४,मेघ ५,भैरव ६,बृहन्नाट

१ श्रीरागभार्या ६

१,मालवी २,त्रिवणी ३,गोरी
४,केदारी ५,मधुमाधवी ६,पाहाडिका

२ वसतभार्या ६

१,देशी २,देवगिरी ३,वराटी
४,तोडी ५,ललिता ६,हिंदोली

३ भैरवभार्या ६

१,भेरवी २,गुर्जरी ३,रामकिरि
४,गुणकिरी ५,बगाली ६,सधवी

५ मेघभार्या ६

१,मल्लारी २,सोरटी ३,सावेरी
४,कौशिकी ५,गाधारी ६,हरश्रृंगारा

६ नट्टनारायणभार्या ६

१,कामोदी २,आभीरी ३,नाटिका
४,कल्याणी ५,सारगी ६,नट्टहबीरा

रागार्णवमते

षड्गा

१,भैरव २,नाट ३,गौडमाल्व
४,पचम ५,मल्लार ६,दशाख्य

श्रीमलक्ष्यसंगीतम् ।

भैरवाश्रितरागाः ५

१,बंगाली २,गुणकिरी ३,मन्यमादिः ४,वसंतः ५,धनाश्री

पंचमाश्रितरागाः ५

१,ललिता २,गुर्जरी ३,देशी ४,वराडी ५,रामकृतिः

नादसंश्रिता रागाः ५

१,नट्टनारायणः २,गांधारः ३,सालगः ४,केदारः ५,कर्णाटकः

मल्लारसंश्रया रागाः ५

१,मेघ २,मल्लारी ३,मालकौशिकः ४,पटमंजरी ५,आसावरी

गौडमालवाश्रितरागाः ५

१,हिंदोलः २,त्रिवणा ३,आधाली ४,गौरी ५,पठहंसिका

देशाख्याश्रिता रागाः ५

१,भूपाली २,कुडायी ३,कामोदी ४,नाटिका ५,वेलावली

हनूमन्मते

षड्गाः

१,भैरवः २,हिंदोलः ३,श्रीरागः
४,कौशिकः ५,दीपकः ६,मेघः

भैरवांगनाः ५

१,मध्यमादिः २,भैरवी ३,बंगाली ४,वराटी ५,सेधवा

कौशिकांगनाः ५

१,तोही २,खंवावती ३,गौरी ४,गणकी ५,कुकुभा

हिंदोलवरांगनाः ५

१,वेलावली २,रामकिरी ३,देशाख्या ४,पटमंजरी ५,ललिता

दीपकभार्याः ५

१,केदारी २,कानडा ३,देशी ४,कामोदी ५,नाटिका

श्रीरागभार्याः ५

१,वासंती २,मालवी ३,मालश्रीः ४,धंनासिका ५,आसावरी

मेघयोपितः ५

१,मल्लारी २,देशकारी ३,भूपाली ४,गुर्जरी ५,टंकी

परिशिष्टम्

रागविबोधे,

जन कमेलाः २३

१,मुखारी ९,मालवगौड १७,काबोदी
२,रेवगुप्ति १०,रीतिगौड १८,मल्लारी
३,सामवरालि ११,आभीरनाट १९,सामंतः
४,तोडी १२,हमीर २०,कर्णाटगौड
५,नादरामक्री १३,शुद्धवराटी २१,दशाक्षी
६,भैरव १४,शुचिरामक्री २२,शुद्धनाटः
७,वसत १५,श्रीराग २३,सारग
८,वसतभैरवी १६,कल्याण

जन्यराग ७६

[TABLE]

स्वरमेलकलानिधौ,

जनकमेलरागाः २०

१,मुखारी ६,शुद्धरामक्रिया ११,नादरामक्री १६,हेजुज्जिः
२,मालवगौडः ७,देशाक्षी १२,शुद्धवराटी १७,सामवराली
३,श्रीरागः ८,कंनद्वगौडः १३,रीतिगौडः १८,रेवगुप्तिः
४,सारंगनाटः ९,शुद्धनाटः १४,वसंतभैरवी १९,सामंतः
५,हिंदोलः १०,अहीरी १५,केदारगौडः २०,कांबोजी

“अस्मिन्मेले मुखारी च ग्रामरागाश्च केचन ।

संमतः शुद्ध इत्येष शार्ङ्गन्देवविपश्चितः ॥

“शुद्धौ च षड्जरिषभौ शुद्धाश्च मपधास्तथा।

गांधारोंऽतरसंज्ञश्च काकल्याख्यनिषादकः॥

एतावत्स्वरसंयुक्तो हेजुज्जीमेलको भवेत् ।

हेजुज्याद्या भवत्यत्र ग्रामरागाश्च केचन ॥

इत्येष शार्ङ्गदेवस्य संमतो मार्गवेदिनः ॥

“शुद्धाः सरिमपाः शुद्धौ धनी गांधारकोंतरः।

एतैः सप्तस्वरै रेवगुप्ति मेल उदाहृतः ॥

तस्मिन् रागो रेवगुप्तिः शुद्धरागाश्च केचन ।

रत्नाकरस्य मेलानां शार्ङ्गदेवेन लक्षितम् ॥

परिशिष्टम् ।

अथ जन्यरागवर्गीकरणम्

[TABLE]

श्रीमलक्ष्यसगीतम् ।

चतुर्दंडीप्रकाशिकाया जनकमेलरागाः ७२

शुद्धमध्यमयुक्ता ३६

१,कनकाबरा १०,नटाभरण १९,झकारभ्रमरी २८,केदारगौल
२,फनद्युति ११,काकिलरव २०,रीतिगौल २९,शकराभरण
३,सामवराला १२,रूपावती २१,किरणावली ३०,नागाभरण
४,भानुमती १३,हजुज्जी २२,श्रीराग ३१,कलावती
५,मनारजनी १४,वसतभैरवी २३,गौरीवेलावली ३२,चूडामणि
६,तनुकीर्ति १५,मालवगौड २४,वीरवसत ३३,गमातरगिणी
७,सनाप्रणी १६,वेगवाहिनी २५,शरावता ३४,छायानाट
८,तोडी १७,छायावती २६,तरगिणी ३५,देशाक्षी
९,भिन्नषड्ज १८,शुद्वमालवी २७,सारसेना ३६,चलनाट

तीव्रमध्यमयुक्ता ३६

३७,सौगधिनी ४६,स्तवराज ५५,शामला ६४,भुपावती
३८,जगन्मोहन ४७,सौवीरा ५६,चामरा ६५,शातकल्याण
३९,वरालिका ४८,जीवतिका ५७,सोमद्युति ६६,चतुरागिणी
४०,नभामणि ४९,धवलाग ५८,सिहरव ६७,सतानमजरी
४१,कुभिनी ५०,नामदशी ५९,धामवती ६८,ज्योति
४२,रविक्रिया ५१,रामक्रिया ६०,नैषध ६९,धौतपचम
४३,गीर्वाणि ५२,रमामनोहरी ६१,कुतल ७०,नासामणि
४४,भवानी ५३,गमकक्रिया ६२,रतिप्रिय ७१,कुसुमाकर
४५,शैवपतुवराली ५४,वशवती ६३,गीतप्रिय ७२,रसमजरि

एतेष्वपि लोकप्रसिद्धा मेला १९

१,मुखारी ६,अहीरी ११,शकराभरण १६,पतुवराली
२,सामवराली ७,भैरवी १२,सामत १७,शद्वरामकी
३,भूपाल ८,श्री १३,दशाक्षी १८,सिंहरव
४,वसतनैरवी ९,हजज्जा १४,नाट १९,कल्याणी
५,गौल १०,काभाजी १५,शुद्धवराली

परिशिष्टम् ।

जन्यरागाः

मेलनाम लोकप्रियजन्यरागनामानि
१,मुखारी १,मुखारी
२,सामवराली १,सामवराली
३,भूपालः १,भूपालः२,भिन्नषड्जः
४,वसंतभैरवी १,वसंतभैरवी
५,गौलः १,गौला,२ गुंडक्रिया, ३,सालंगनाट.;४ नादरामाक्रिया,५ ललिता, ६,पाडी, ७,गुर्जरी, ८,बहुली,९,मल्लहरी १०,सावेरी, ११,छायागौलः, १२,पूर्वगौलः,१३,कर्णाटबंगालः, १५,सौराष्ट्रः
६,आहरी १,आभेरी, २,हिंदोलवसंतः
७,भैरवी १,भैरवी, २,हिंदोलः; ३,आहीरी, ४,घंटारवः,५,रीतिगौलः
८,श्रीरागः १,श्रीः,२,सालगभैरवी.३,धंन्यासी, ४,मालवश्रीः, ५देवगांधारः, ६,आंधाली,७,वेलावली, ८,कंनड़गौलः
९,हेजुज्जी १,हेजुज्जी, २,रेवगाप्तिः
१०,कांभोजी १,कांभोजी, २,केदारगौलः, ३,नारायणगौलः
११,शंकराभरणः १,शंकराभरणः, २,आरभी. ३,नागध्वनिः, ४,सामः,५,शुद्धवसंतः, ६,नारायणदेशाक्षी, ७,नारायणी.
१२,सामंतः १,सामंतः
१३,देशाक्षी १,देशाक्षी
१४,नाटः १,नाटः
१५,शुद्धवराली १,शुद्धवराली
१६,पतुवराली १,पतुवराली
१८,सिहरवः १,सिहरवः
१९,कल्याणी १,कल्याणी

श्रीमलक्ष्यसंगीतम् ।

संगीतसारामृते,

(चतुर्दडिप्रकाशिकोक्तद्विसप्ततिमेलरचनातत्वमत्रापि संमतम् )

लोकप्रियमेलाः १९

१,श्रीरागः ८,कांभोजी १५,वसंतभैरवी
२,शुद्धनाटः ९,भैरवी १६,भिन्नषड्जः
३,मालगौडः १०,मुखरि* १७,देशाक्षी
४,वेटावली ११,वेगवाहिनी १८,छायानाटः
५,वराली १२,सिधुरामक्रिया १९,सारंगः
६,शुद्धरामक्रीः १३,हेजुज्जी
७,शंकराभरणः १४,सामवराली

* " सर्वेषु रागमेलेषु मुखारीमेल आदिमः

शुद्दैः सप्तस्वरैर्युक्तो मुखारी मेल ईरितः ॥

अस्मिन्मेले मुखारी च ग्रामरामाच केचन ।

लोकप्रसिद्धनामाऽयं शास्त्रसिद्धाभिधस्त्वसौ ।

शुद्धसाधारित इति तुलजेंद्रेण निश्चितः”

जन्यरागाः

[TABLE]

चत्वारिंशंच्छतरागनिरूपणे पुरागाः १०

१,श्रीरागः ५,कौशिकः ९,दीपकः
२,वसंतः ६,मेघः १०,हंसकः
३,पंचम ७,नट्टनारायणः
४,भैरवः ८,हिंदोलः

१ भार्यापुत्रादिप्रपंचः

५,स्त्रियः १,गोटी,२,कोलाहली,३,आंधाली,४,द्राविडी, ५,मालवकौशिकी
४,कुमाराः १ शुद्धगौडः, २,कर्नाटः, ३,मालवः, ४ पूर्विकः
४,स्नुषाः १,वराटी, २ बौली, ३,मध्यपादिः ४,आरभी.

२ वसंतपरिवारः

५,स्त्रियः १,नीलांबरी,२,धनाश्रीः,३,रामक्रीः,४,पटमंजरी, ५,गोडक्रीः
४,कुमाराः १,सामः,२,सोमः, ३,रीतिगौला, ४,शंकराभरणः
५,स्नुषाः १,कल्याणी, २,दुःसवराटी, ३,सावेग, ४,तरंगिणी.

३ पंचमपरिवारः

५,स्त्रियः १,त्रिवली, २ बल्लको, ३,संबापती, ४,ककुभा, ५,आहरी.
४,कुमाराः १,वलहंसः, २,गाधारः, ३,देवहिंदोला, ४,पावकः.
५,स्नुषाः १,नारायणी, २,भूपाली, ३,मारू, ४,नवरोचिका,

परिशिष्टम्

४ भैरवपरिवारः

५,स्त्रियः १,वेलावली, २,भैरवी, ३,गुर्जरी, ४,ललिता, ५,कर्णाटी.
४,कुमाराः १,पंचवकः, २,कल्हारः, ३ ललितः, ४,चंद्रशेसरः
५,स्नुषाः १,कुरंगमाली, २,वीचिका, ३,मंगलकौशिकी, ४,माहुली

५ कौशिकपरिवारः

५,स्त्रियः १,तोडी, २,देवगांधारी, ३,देशाख्या, ४,गुणक्रिया,५,शुद्धसवेरी
४,कुमाराः १,विद्युन्मालः, २,कामोदः ३,सारंगः, ४,मोदकः
४,स्नुषाः १,नट्टा, २,तरंगिणी, ३,पूर्णचंद्रिका, ४,पालिका.

६ मेघपरिवारः

५,स्त्रियः १,त्रोटकी, २,मोटकी, ३,बृहन्नाट, ४,अपरा, ५,अहंनटा.
४,कुमाराः १,घंटकंठः, २,कमलः, ३,घंटारवः, ४,रोहकः
४,स्नुषाः १,सुधामयी, २,डोंबक्रि, ३,मृतसंजीवनी, ४,मेघरंजी.

७ नटनारायणपरिवारः

५,स्त्रियः १,बंगाली, २,शुद्वसालंका, ३,कांभोजी, ४ मधुमाधवी,५,देवक्री
४,कुमाराः १,शुद्धबंगालः २,नाटः,३,गारुड., ४,मोहनः
४,स्नुषाः १,त्रैलंगी, २,लांगली, ३,सोरटी, ४,हंबीरी,

८ हिंदोलपरिवारः

५,स्त्रियः १,देशी, २,शिवकी, ३,ललिता, ४ मल्लारी,५,सुहसिका
४,कुमाराः १,रमणीयः, २,मुखारि.,३,उदयपचमः, ४,शुद्धवसतः.
४,स्नुषाः १,सिधुरामकिया,२,वेगवाहिनी, ३,धरा, ४,छायातरगिणी.

९ दीपकपरिवारः

५,स्त्रियः १,आसावरी, २,नाटिका, ३,देहली, ४,कानडा,५,केदारी
४,कुमाराः १,केदारगोलः,२,वैरंजी, २,होलिः, ४,सौराष्ट्रः.
४,स्नुषाः १,कुरजमंजरी, २,नागवराली, ३,देवरंजनी, ४,सुरसिंधुः.

श्रीमल्लक्ष्यसगीतम् ।

१० हसकपरिवारः

५,स्त्रियः १,श्रीरंजनी, २,मालश्रीः, ३,सरस्वतीमनोहरी ४,गौरी ५,ईशमनोहरी
४,कुमाराः १,नागध्वनिः २,सामत., ३,भिन्नपचम. ४,टक्कः
४,स्नुषाः ११,मालीरी, २,श्यामकल्याणी, ३,देशाक्षी, ४,बिलहरी.

रागतरंगिण्याम्

जनासस्थितय., १२

१,भैरवी ७,सारग
२,तोडी ८,मघा
३,गौरी ९,वनाश्रीः
४,कर्णाट १०,पूर्वी
५,कदार ११,मुखारी
६,इमन १२,दीपक

जन्यरागव्यवस्था

[TABLE]

परिशिष्टम् ।

[TABLE]

पंडरीकविठ्ठलकृतसद्रागचंद्रोदये।

जनकमेला । १९ ।

१,मुखारी, ८,हिजेज, १५,दशक्रिया,
२,मालवगौड., ९,हमीर, १६,सारग,
३,श्रीरागः, १०,कामोद, १७,कल्याण.,
४,शुद्धनट्ट, ११,तोडि, १८,हिंदोल,
५,देशाक्षिका, १२,आभीरी, १९,नादरामक्री,
६,कर्णाटगौड, १३,शुद्धवराटी,
७,केदारक., १४,शुद्धरामक्री,

[TABLE]

पुंडरीकविठ्ठलविरचितरागमालायाम् ।

षट् रागा ।

१,शुद्धभैरव ४,शुद्धनाट
२,हिंदोल ५,श्रीराग
२,देशिकार

तया वनिता । पुत्राश्च ।

परिशिष्टम् ।

रागनाम वनिता
१,शुद्धभैरव १,धनासी २,भैरवी ३,सधवी ४,मारवी ५,आसावरी
पुत्रा
१,भरव २,शुद्धललित ३,पचम ४,परज ५,बगाल
२,हिंदोल वनिता
१,भूपाली २,वराटी ३,तोडी ४,प्रथममजरी ५,तुरुप्कतोडी
पुत्रा
१,वसत २,शुद्धबगाल ३,श्याम ४,सामत ५,कामोद
२,देशिकार वनिता
१,रामक्री २,बहुली ३,देशी ४,जयतश्री ५,गुर्जरी
पुत्रा
१,ललित २,विभास ३,सारग ४,त्रिवण ५,कल्याण
५,श्रीराग वनिता
१,गोडी २,पाडी ३,गुणकरी ४,नादरामक्री ५,गुडक्री
पुत्रा
१,टक्क २,दवगाधार ३,मालव ४,शुद्धगौड५,कर्णाटबगाल
४,शुद्धनाट वनिता
१,मालवश्री २,दशाक्षा ३,देवकी ४,मधुमाधवी ५,आहरी
पुत्रा
१,जिजावत २,सालगनाट ३,कर्णाट ४,छायानाट ५,हमीरनाट
६,नट्टनारायण वनिता
१,वेलावला २,कावाजा ३,सावरी ४,सुहवी ५,साराष्ट्री
पुत्रा
१,मल्हार २,गौड ३,कदार ४,शकराभरण ५,बिहागड

श्रीमल्लक्ष्यसीनम् ।

पुंडरीकविठ्ठलकृतरागमंजर्याम् ।

जनकमाल

१,मुखरि ८,दशाक्षी १५,नादरामक्री
२,सामराग ९,देशिकार १६,हिदोलः
३,टोडी १०,सारग १७,कर्णाटः
४,गोडी ११,आहेरी १८,हमीरः
५,वराटी १२,कल्याण १९,माल्वकैशिकः
६,केदारि १३,कामोद २०,श्रीराग
७,शुद्धनाट १४,हिजेज

जन्यरामा ।

मेलरागनाम जन्यराग
१,मुखारी १,मुखारी
२,सामराग १,सामराग
३,टोडी १,टाडी, २,शुद्धभरव
४,गोडी १,गाटी २,कर्णाग्बगाल ३,गुर्जरी ४,बहुली ५,आसावरी ६,रामरली ७,मारु ८,गुणकरी ९,टक्क १० शुद्धललित ११,पचम १२,पटमजरी १३,मारवगौड१४,पर्वी १५,भैरवी १६ पाडी
५,वराटी १,श्यामवराटी २,शुद्धवराटी
६,केदारि १,कदार २,गाड ३,मल्लार ४,नटनारायण ५,वेलवली ५,भूपाली ७,काबोजी ८,मधुमाधवी ९,शकराभरण १०,सावरी ११,सुहवी १२,नारायणी १३,कदारनाट
७,शुद्धनाट १,शुद्धनाट
८,दशाक्षी १,दशाक्षी
९,देशिकार १,दशिकार २,त्रावणी ३,देशी ४,ललित ५,दापक ६,विभास
१०,सारग १,सारग
११,आहेरी १,आहेरी
१२,कल्याण १,कल्याण
१३,कामोद १,कामोद
१४,हिजेज १,हिजज२,भैरव
१५,नादरामक्री १,नादरामक्री
१६,हिदोलः १,हिदोलः२,वसंतः
१७,कर्णाटः १,कर्णाटः२,सामंतः ३,सौराष्ट्री ४,छायानटः ५,शुद्धबंगालः ६,तुरुप्कतोडी
१८,हमीरः १,हमीरः
१९,माल्वकैशिकः १,माल्वकैशिकः२,मालवश्रीः ३,धन्नासी ४,सधनी ५,देवगांधारः
२०,श्रीरागमेलः १,श्रीरागः

सूची

(ग्रंथगतरागाणाम)

रगनाम रगनाम
गौड सारंगः
अडाणा गौड मल्लरः
अलेय्या गौरी
अहीर भैरवः
चन्द्रकान्तः
आनंद भैरवः
आसावरी छायानटः
इमनः जयजयवन्ती
इमनी जयत कल्याणः
जेतश्रीः
ककुभा जैत्रः
कलिंगः जोगिया
काफी जौनपुरी
कामोदः
केदारः झिंझूटी
कौशिकः झीलफः
खटः टंकी
खंबावती
खंमाजः तिलक कामोदः
तिलंगिका
गांधारी तोडी
गारा त्रिवेणी
गुणकरी
गुणकली दरबारी कानडा
गुर्जरी तोडी दीपकः
दुर्गा
रगनाम रगनाम
देवगिरी भखार
देशास भीमपलासी
दशिकार भूपाली
दशा भैरव
देस भैरवा
धनाश्रा मध्यमादि
धाना मलुहाकेदार
मारवा
नट मालकोश
नटमल्लरः मालवा
नट वेलवली मालश्री
नायकी कानडा मालीगौरा
माड
परमजरी मीयामल्लार
परज मीयासारग
पहाडी मूलतानि
पचम मेघरजनी
पालू
पूर्वी रागेश्वरी
प्रदापका रामकली
प्रभातभैरव रामदासीमल्लार
रेवा
बडहससारग
बहार लच्छासाख
बिलासखानातोडी ललितपचम
बिहाग ललित
बगालभैरव
वराली
भट्टिहार वसत
वागीश्वरी
विभास
रगनाम रगनाम
वृदावनीसारग सामत सारग
वेलावली सिंधु भैरवी
सुधरायी
शकर सुर मल्लार
शिवभैरव सूहा
शुक्लवेलावली सैधवी
शुद्धकल्याण सोरटी
शुद्धमल्लार सोहनी
शुद्धसारंग सौराष्ट्रभैरव
श्यामरल्याण
श्री हमीर
हसककणी
सर्पर्द हिंदोल
सहाना हेमकल्याण
साजगिरी

शुद्धिपत्र

पृष्ट पंक्ति अशुद्ध शुद्ध
२२ धमार्थ धर्मार्थ
१७ १५ मध्यग्राम मध्यमग्राम
२९ तै तैः
२१ सप्तैवेत्मेवं सप्तैवेत्येवं
२१ १७ निरुप्यते निरूप्यते
२२ काकली काकलि
२५ १९ न्सतैव न्सप्तैव
२६ यदि मे यदिमे
२६ १४ षट्श्रुतेर्गो षट्श्रुतिर्गो
३० काकल्यैव काकलैतु
३३ १४ द्यथा तद्यथा
३५ १५ काकलानिः काकलीनिः
४५ उक्ष्येस्वराः लक्ष्येस्वराः
५७ भेदेः भेदैः
५९ निदर्शन् निदर्शनम्
५९ १४ (नः) (नुः)
५९ तदभ्यासो तथाभ्यसो
७१ २१ धः धा
८६ १० प्रवृत प्रवृत्त
८६ १० प्रवृतं प्रवृत्तं
९२ केदाः केदारः
९९ २४ अवरोहेन अवरोहेण
१०३ अवरोह अवरोहे
१०९ १६ द्भेवत् द्भवेत्
११० कोशल्येन कौशल्येन
११० हरिणी हारिणी
११३ २३ वर्णयतुं वर्णयितुं
१३३ १७ यथायथाम् यथायथम्
१३५ १० मक्तमध्याम मुक्तमध्याम
१३७ २० प्राक्तः प्रातः
१३५ प्रयोगस्तीप्र प्रयोगस्तीव्र
१४० १५ पंचागसारकः पंचंगसारकः
१४१ सै सौ
१५० २३ प्रदशनम् प्रदर्शनम्
१५३ मानमस्य गानमस्य
१५४ प्रवर्धनी प्रवर्धिनी
१५४ २३ मल्लदिमेलने मल्लरिमेलने
१७४ २१ शुद्वनदः शुद्वनट्टः
१७४ २१ शुद्धनदः शुद्धनट्टः

]