कुचेलोपाख्यानम्-अजामिलोपाख्यानं-च

[[कुचेलोपाख्यानम्-अजामिलोपाख्यानं-च Source: EB]]

[

[TABLE]

[TABLE]

<MISSING_FIG href="../../../books_images/1688643285.png"/>

H. H. Svati Tirunal Sri Rama Varma Kulasekhara Peruma।
Maha Rajah of Travancore 1813 to 1847 A. D.

[TABLE]

of the treatise ‘शं सदालं निदध्यात्’indicates through Mudrālaṅkāra, the date of completion of the work in the Kali Era, (1803875 days from the beginning of that Era) and the date of the author is thus the first part of the 19th century. Historically, this king was the son of Raṇi Lakṣmi Bai and was born in the month of Meṣa in the year 1813 and demised in his 34th year. His father was ŚrīRaja Raja Varma of the Parpa dynasty (Changanacherry) and his mother died in his second year and his maternal aunt ŚrīParvati Bai was the Regent during his minority. Just as the Crescent Moon gathers effulgence through the acquisition of fresh digits, he grew gathering brilliance through his proficiency in all fine arts. His genius and innate aptitude for music and literature, ripened by his education, easily raised him to the position of a great scholar, and poet. This poet was in fact a second creator. He had arare and perfect mastery over various languages such as Malayalam, Sanskrit, Mahratti, English, Telugu, Kaneresc, Tamil and Urdu. His Tutor in English and Politics was Mr. Subba Rao, his future Dewan. And it is most astonishing that the knowledge of the science of Politics proficient in tactics and embellished by exceeding courage, valour and heroism emblazed a heart that was imbued with the sweetest poetical fervour. Such great qualities as serenity, magnanimity, compassion, impartiality and imperiousness illumined his illustrious reign. During the very short period of his life, in the midst of the manifold demands of his kingly office, he attained a unique celebrity as a great man of letters. And his works are:—

  1. ŚrīPadmanābha Satakam.
  2. Syānandūrapuravarṇanaprabandham.
  3. Ajāmilopākhyānam.
  4. Kucelopākhyānam.
  5. Sangītakṛtis (in Sanskrit and Telugu).
  6. Utsavavarṇanam Prabandha (both in Sanskrit
    and Malayalam).
  7. Yayāticaritam.
  8. Bhaktimañjari.

The two Upākhyanas before us, which are among these works have been published by Mr. K. Chidambara Vadhyar B. A., in Malayalam characters under the title of

mocslogol Hobo on account of their musical quality, though they do notbelong strictly to the collection of songs. As we were going to publish his musical compositions in Devanagaricharacters, we noticed the high literary quality of these two Upakhyanas when compared to the other compositions and considering the separate publication of these two as more appropriate. we do accordingly. Here are a few illustrations that are highly fascinating to the minds of literary connoisseurs:—

मुदितः स चैवमुदितस्तु जायया

विमना अपि स्वयमनारतं धने।

कमलाधवाङ्घ्रिकमलानतीच्छया

प्रशशंस तामथ शशंस सादरम्॥ (Page 2).

अमुना भूमिदेवेनाकारि किं ननु

पुण्यमतिदीनशरीरेण।

मानितोऽयं ननु सरोरुहनाभेन

^(१)भासुरसुगुणारामेण॥

^(२)“साधु तदा निजभामिनीं

सपदि ददर्श विमोहिनीं

वाद्यगीतवरवनिताकरैः

परिचारितामतिविलासिनीं

रमणनिरीक्षणसम्भ्रमगलदुरु-

बाष्पमुखीं मृदुहासिनीं

सकलाभरणविभूषितदेहां

दिव्यतराम्बरशालिनीं

मनसा निजपदनमनं

सहसा रचयन्तीं गजगामिनीं

पङ्कजनाभकृपामृतवर्षा-

दमरबधूमिव भासिनीम्।” (Page 8).

^(३)“नामसुधामयि पिब मम रसने !

यामिह पिबता साधुकुलेन

तृप्तिरवाप्ता नो भुवने

यदि हरिनामपरा त्वमिहैका

भवति यमान्नहि भयमपि स्वप्ने” (Page 10).

————————————————————————————————————————

^(१)The suggestion here is relishable to Sahrdayas.

^(२)The attributes qualifying Kuce’a’s wife aro full of suggestion and afford the possibility of recognitive visualisation.

^(३)The result is indicated.

————————————————————————————————————————

“किञ्चजन्मशतकोटिकृताना

पाप्मनां दृढमनेन हि लोके।

निष्कृतिर्विरचिता हरिनाम

व्याजहार यदसौ श्रुतिरम्यम्॥”

(Page-13.)

“भुजगशायिनो नाम मङ्गलं

परमजानतापीह कीर्तितम्।

दहति पाप्मनां जालमञ्जसा

भुवि शिखी यथा दारुसञ्चयम्”॥

Thus in considering the inner contents of this little work, it becomes evident to real critics that these two pieces though short, entitle the author to the status of a Mahakavi by virtue of the matter and manner.

The poetic license evinced by the author as by Kālidāsa and Bhāsa in the untrammelled progress of his literary art does but conduce to asthetic charm. For instance, we notice,

“सकृदिह मुष्टिं तस्माद्

गृह्णन् बलतो बुभोज पृथुकानाम्।”

Two manuscripts were utilised in the publication of the present work. One is the publication in Malayalam by Mr. Chidambara Vadhyar and the other belongs to Dr. Rohini Tirunal Raja of Maṇṇoor Maṭom Palace, Mavelikkara. It’s more correct and praise-worthy.

Trivandrum,

15-12-1107.

  **K.SĀMBAŚIVA ŚĀSTRI.**

————————————————————————————————————————

^(१)There is the suggession of the condonation of sin through the words हरि and श्रुतिरम्यम् ।

^(२)By the example of lngs of wood, there is the suggestion of the burning away of very severe sins.

————————————————————————————————————————

श्रीः
अवतारिका।

——————

महोन्नतमहामहिमश्री श्रीचित्रावतारमहाराजस्य भरणाधिकारप्रतिष्ठापनमहोत्सवमनुस्मार्य समुचितेन **‘चित्रोदयमञ्जरी’**नान्ना समुत्तम्भितेयमनन्तशयनसंस्कृतग्रन्थावलिरधुना कामपि महनीयपदविन्यासमञ्जुलां गतिमवलम्ब्य सुमनःसमुल्लाससरसा सुन्दरीव मन्ये नवनवां यौवनश्रियमधिगता। अस्यां प्रथमोऽयं गुच्छ इदमुपाख्यानद्वयं नाम। सुविमलेन विज्ञानधनेन कृतसेवनं कुचेलम्, अतिमधुरेण नामकीर्तनेन लब्धभक्तिमजामिलं च सम्पत्प्रापणेन जीवनदानेन च रक्षित्वात्मीयतां नीतवतः श्रीपद्मनाभस्याश्रितजनपरिपालनप्रवणमात्मकृत्यं प्रशंसतानेनोपाख्यानद्वयेन श्रीपद्मनाभदासस्य महाराजस्य स्वामिसमुचितां वृत्तिमभिव्यज्य स्थाने प्राथम्यमत्रावापि। किञ्च महोन्नतमहामहिमश्रीस्वातिश्रीरामवर्मवञ्चिमहाराजेन प्रणीतस्यास्य ततोऽपि प्राथम्यमिह चित्रोदयमञ्जर्यांप्राप्तावसरम्। यस्य हि कवेरनितरसाधारणा स्वकुलदैवते श्रीपद्मनाभे भक्तिरप्रतिहता। यदपि फलमिदमुपाख्यानद्वयमदसीयभक्तिमञ्जर्याः।

कविरयं स्वकृतेः स्यानन्दूरपुरवर्णनचम्पूप्रबन्धस्यान्तिमेन
“स्वातीजातेन चूडाधृतसरसिजनाभाङ्घ्रियुग्मेन लक्ष्मी-

राज्ञीपुत्रेण वञ्चीश्वरकुलजनुषा रामवर्माभिधेन।

भक्त्युद्रेकेण शश्वद् गुरुवरकृपया निर्मितं चम्पुकाव्यं

स्यानन्दूरेश्वरस्य प्रमितमुपहृतं शं सदालं निदध्यात्॥”

इति पद्येन स्वातीनक्षत्रजातः लक्ष्मीराज्ञ्याःपुत्रो रामवर्माभिधः श्रीवञ्चिमहाराज इति सिध्यति। अपिच ‘चूडाधृतसरसिजनाभाङ्घ्रियुग्मेन’ लक्ष्मीराज्ञीपुत्रेणे’ति विशेषणाभ्यामन्योन्यालिङ्गितार्थप्रतिपादनदिशा घटनापौर्वापर्येण च ‘सर्वं वाक्यं सावधारणमि’ति न्यायेन चूडाधृतसरसिजनाभाङ्घ्रियुग्मेन सतैव लक्ष्मीराज्ञीपुत्रत्वे प्रवेश इति सूचयद्भ्यांगर्भश्रीमानयं महाराज इत्यपि सिद्धम्। “शं सदालंनिदध्याद् इत्यनेन कलिदिनारम्भात् प्रभृति त्रिसहस्राष्टशत

पञ्चसप्तत्यधिकाष्टादशलक्ष (१८०३८७५) दिवसेषु गतेष्वेतत्प्रबन्धसमाप्तिरिति सूचनाद् मुद्रालङ्कारः”इति तत्पद्यव्याख्यातृरीत्या क्रिस्तीयैकोनविंश- शताब्द्याःपूर्वभागोऽस्य कवेर्जीवितसमय इति लभ्यते। निष्कृष्य चरित्रदिशा १८१३ तमसंवत्सरे मेषमासि लक्ष्मीदेव्यां लब्धावतारोऽयं चतुस्त्रिंशे वयसि स्वर्गमारुरोहेति प्रसिद्धिः। गर्भ एवात्मसमर्पणादिव वत्सरे द्वितीये लक्ष्मीदेव्या मात्रा वियुक्तस्यास्य, पर्पराजवंश्यः श्रीराजराजवर्मदेवः पिता, प्रतिनिधीभूय राज्यं शासती श्रीपार्वतीराज्ञी मातृष्वसा च पोषकौबभूवतुः। क्रमशः सर्वासु कलासु क्रममाणोऽयं बालचन्द्र इव नचिरात् सम्पूर्णमण्डलो ददृशे। सङ्गीतसाहित्ययोराजानसिद्धा प्रतिभामुमनायासेन विद्याभ्यासेन समुत्तेजनक्षमेण कमपि महान्तं पण्डितं कविं च चक्रे। कैरली-गैर्वाणी-आङ्गली-माहाराष्ट्री-आन्ध्री-कार्णाटी-द्राविडी-हिन्दुस्थानी इत्याभरनेकाभिर्भारतीभिरनितरसुलभाभिः स्वयंवृतोऽयं कश्चिदपर एव कविर्ब्रह्माभवत्। किमधिकेन, अमात्यभावी श्रीसुब्बरायोऽस्य आङ्गलविद्यायामनुरूपेषु राज्यतन्त्रकलाकौशलेषु चाचार्योऽभवत्। आश्चर्यमिदमेव तत्र महाराजे काममतिभूमिमगमत्, यत् क्वचन काव्यालापसरससरसेऽपि मानसपञ्जरे कूटप्रयोगकुशलं राज्यतन्त्रविज्ञानमतिवीर्यशौर्यपराक्रमोपस्कृतमैकाधिकरण्येन प्रविवेश। गाम्भीर्यौदार्यदयादाक्षिण्यैकशासनत्वादयो महागुणा अस्य भरणाभरणतां प्रतिपद्य निकामं शुशुभिरे। अतिह्रसीयस्यपि जीवितसमये, महति महत्यपि राज्यकार्यवैधुर्ये जाग्रति सरससाहितीकारख्यातेरप्ययमसामान्यं भाजनमासीत्। कृतयश्चास्य—

 १. श्रीपद्मनाभशतकम्।  
 २. स्यानन्दूरपुरवर्णनप्रबन्धः।  
 ३. अजामिलोपाख्यानम्।  
 ४. कुचेलोपाख्यानम्।  
 ५. सङ्गीतकीर्तनानि (संस्कृतआन्ध्र्यादिभाषासु च।  
 ६. उत्सववर्णनप्रबन्धः (संस्कृतकेरलोभयभाषारूपः)।  
 ७. ययातिचरितम्।  
 ८. भक्तिमञ्जरी।  

इत्येताः

** प्रकृतमुपाख्यानद्वयम्—**उक्तासु कृतिष्वन्यतमे भिन्ने अपीमे उपाख्याने “

imvoilmgoolchao” इति संज्ञया केरललिप्या मुद्रिते पुस्तके तत्प्रसाधकेन श्रीमता के. चिदम्बरवाध्यार् बि. ए. बिरुदधारिणा गानानुगुणपदजातस्य निमित्तस्यान्तर्भाविते। परन्तु तासामेव सङ्गीतकृतीनां देवनागरलिप्यां मुद्रणप्रकाशने चोदितोऽहमनयोरुपाख्यानयोरुत्तमसाहितीकक्ष्यामन्यासां गीतीनामतथाविधतां चावेक्ष्य पृथक्करणमुचितं मन्यमानस्तदनुगुणं प्रसाधनमकरवम्। अत्र चेमानि सहृदयदृशामासेचनकानि मनागुदाहरणानि—

“मुदितः स चैवमुदितस्तु जायया

विमना अपि स्वयमनारतं धने।

कमलाधवाङ्घ्रिकमलानतीच्छया

प्रशशंस तामथ शशंस सादरम्॥”

              (पु. २. श्लो. ५)

“अमुना भूमिदेवेनाकारि किं ननु
पुण्यमतिदीनशरीरेण
मानितोऽयं ननु सरोरुहनाभेन

^(१)भासुरसुगुणारामेण”
(पु. ५. गानं ७)
^(२“)साधु तदा निजभामिनीं
सपदि ददर्श विमोहिनीं
वाद्यगीतवरवनितानिकरैः
परिचरितामतिविलासिनीं
रमणनिरीक्षणसम्भ्रमगलदुरु-
बाष्पमुखीं मृदुहासिनीं
सकलाभरणविभूषितदेहां
दिव्यतराम्बरशालिनीं
मनसा निजपदनमनं
सहसा रचयन्तीं गजगामिनीं

पङ्कजनाभकृपामृतवर्षा-
दमरवधूमिव भासिनीम्”
(पु. ८. गानं ११).

————————————————————————————————————————

^(१)‘अतिदीनशरीरेण भासुरसुगुणारामेण’अत्र ध्वनिः सहृदयवेद्यः ।

^(२)अत्र कुचेलपत्नीविशेषणानि ध्वनिमर्यादया तत्त्वप्रत्यभिज्ञापकानि ।

————————————————————————————————————————

“^(१)नामसुधामयि1 पिब मम रसने !
यामिह पिबता साधुकुलेन
तृप्तिरवाप्ता नो भुवने
यदि हरिनामपरा त्वमिहैका
भवति यमान्नहि भयमपि स्वप्ने”
(पु. १०. गानं १)

“^(२)किञ्च2 जन्मशतकोटिकृतानां
पाप्मनां दृढमनेन हि लोके।
निष्कृतिर्विरचिता हरिनाम
व्याजहार यदसौ श्रुतिरम्यम्॥”
(पु. १३. श्लो. १३)

“^(३)भुजगशायिनो3 नाम मङ्गलं
परमजानतापीह कीर्तितम्।
दहति पाप्मनां जालमञ्जसा
भुवि शिखी यथा दारुसञ्चयम्॥”

(पु. १४. श्लो. १४)

इत्थमाभ्यन्तरविचारे प्रस्तूयमाने खण्डकाव्ययोरप्याकृत्या, प्रकृत्या महाकविव्यपदेशानुरूपो महिमातिशयो महाराजस्यानयोरुपाख्यानयोः प्रतिफलित इति विदन्ति रसिकतमाः।

महाकवेरस्य भासकालिदासादिवत् प्रयोगे निरङ्कुशत्वमनिवारितप्रसरे साहितीपरिस्पन्दे भवति महत्यै शोभायै।

तथाच दृश्यते कचित्—

“सकृदिह मुष्टिं तस्माद्

गृह्णन् बलतो बुभोज पृथुकानाम्।”

(पु. ६. श्लो. १९)

इति।

एतत्प्रसाधनाधारौ द्वावादर्शौ। तयोरेकः श्रीमच्चिदम्बरवाध्यारप्रसाधितः केरललिपिमुद्रितः, द्वितीयः मावेलिक्कर मण्णूरमठं कोठ्ठारं श्रीमद्-रोहिणीराजस्वामिकः शुद्धतरो विशिष्य प्रशंसार्हः।

अनन्तशयनम् , १५.१२.२०७
के. साम्बशिवशास्त्री.

——————

क्वचित् त्रयीपाठपरायणानां
शुश्राव घोषं धरणीसुराणाम्।
महीसुरो विस्मयसाध्वसह्री-
सन्तोषपर्याकुलितान्तरात्मा॥११॥

————

गानं—५. धन्यासि. ^(१)रूपकम्.4

प. सन्ददर्श भूसुरमणिरपि च हर्म्यजालं
अ श्रीसरसिजनाभभक्तयादवौघभरितं
क्वचन रुचिरहेमकुम्भलसितमतिविशालं सन्ददर्श

श्लो. गुल्मत्रयं स समतीत्य ततश्च कक्ष्याः
श्रीकृष्णपादयुगदर्शनकौतुकेन।
वेगेन षोडशसहस्रवधूगृहाणां
शैब्यागृहं प्रतिविशन् परमाप मोदम्॥१२॥
आर्या. तत्र तदानीं तस्याः सदने लीलाविशेषरतचित्तम्।
त्रिजगन्नाथं शैरिं भूमिसुरः प्राप निर्भरप्रीत्या॥१३॥

————

गानं - ६. कामोदरी. आदिः.
प. पूर्णचन्द्राननमैक्षतासौ यादवेशं
च. (१) मणिमञ्चकृतवासं विशदविभूषणभासं
लसदमलमृदुहासं नीलकेशं
पूर्ण
(२) दयितामनु सहेलं निगदन्तमनुवेलं
दधतं स्विन्नमतिवेलं फालदेशं
पूर्ण
(३) जलजनाभमभिरामं वन्यमालया निकामं
रमयन्तं तामतिवामं भूरमेशं
पूर्ण

श्लो. दृष्ट्वा दूरे कुचेलं सपदि स भगवान् बाल्यमित्रं प्रमोदा-
दुत्थायोपेत्य संश्लिष्य च सरसममुं गाढमश्रूणि मुञ्चन्।
पर्यङ्के सन्निवेश्य स्वयमथ विधिवत् साधु सम्पूज्य सद्यो
लिम्पन् पाटीरपङ्केन च सुरभितमेनाब्रवीत् स्वागतं तम्॥१४
आर्या तावत् पर्यचरत् तं देवी शैब्या च तालवृन्तेन।
यस्मै मुदितो भगवान् मुरभिदलभ्यं भुवीह किं तेन॥१५॥
दृष्ट्वा त्रिभुवनपतिना सादरमभिपूजितं कुचेलं तम्।
अन्तःपुरजननिकरो विस्मयभरितो मिथोऽब्रवीदेवम्॥१६॥

————

गानं -७. यमुनाकल्याणी. आदितालः.

प. अमुना भूमिदेवेनाकारि किं ननु
पुण्यमतिदीनशरीरेण
च. मानितोऽयं ननु सरोरुहनाभेन
भासुरसुगुणारामेण जमुना

————

आर्या. कथयामासतुरेतौ
कृष्णकुचेलौ कथाः पुरातीताः।
गुरुकुलवसतौ स्वैरं
धृत्वा च मिथः करौ तदा प्रीत्या॥१७॥

————

गानं—८. ^(१)काफी.5 आदिः.

प. स्मरसि पुरा गुरुवनितावचसा
गतमस्माभिर्वनमतितरसा स्मरसि
च (१) इन्धनजालसमानयनार्थं
निशितिमिरेण तदा विततायां
सोढं वर्षं जातमकाले
भ्रान्तं विधृतकरैरयि! सहसा स्मरसि
च. (२) उषसि समेत्य स देशिकतिलको
दृष्ट्वास्मानिह वलितान् विपिने
मोदपरीतोऽनुग्रहमकरो—
दतिकरुणार्द्रतरेण हि मनसा स्मरसि
(३) एवं सरसिजनाभो भगवान्
तमिह कुचेलं शंसन् सरसं
स पुनरभाणीदेतां वाणीं
द्विजमनु जितमिहिरो निजमहसा स्मरसि

————

श्लो. मह्यंकिमानीतमुपायनं त्वया
तद् दीयतां मे यदिहार्पितं जनैः।
भक्तैरपि स्तोकमहो महद् भवे-
दित्थं स पृष्टोऽपि ददौ न लज्जया॥१८॥
आर्या. विज्ञायागमहेतुं
तस्य चिकीर्षुश्च तं जितधनेशम्।
सकृदिह मुष्टिं तस्माद्
गृह्णन् बलतो बुभोज पृथुकानाम्॥१९॥
आरममाणे भोक्तुं
पुनरपि मुष्टिं द्वितीयमपि देवे।
प्राप्ता तरसा लक्ष्मी-
स्त्वलमिति पाणिं प्रभोस्तदा जगृहे॥२०॥
श्लो. द्विजो निशां तां हरिमन्दिरे नयन्
यथासुखं भोजनपाननिर्वृतः।
दिने द्वितीये प्रययौ धनं विना
निजालयं व्रीलितमानसस्ततः॥२१॥
आर्या. निजसदनं प्रति गच्छन्
भूसुरमौलिस्ततो हरिनिकेतात्।
मध्येमार्गं चिन्ताम्
एतामगमद् विलज्जितः कामम्॥२२॥

————

गानं— ९. बिहाग्. आदितालः.

प.      जलधिसुतारमणेन हि सोऽहं  
        सरसमालिङ्गितो निस्सन्देहम्  
च. (१)  पर्यङ्के निजदयितासहिते  
        समुपाकलितो नवसुमलसिते     जलधि  
   (२)   वालव्यजनविराजितकरया  
        परिचरितो निजसुदृशा वरया     जलधि  
   (३)   अधनोऽवाप्य हि वित्तमसीमं  
        स्मरति न मामिति न ददौ कामं   जलधि  
   (४)   यदि खलु याञ्चारचिता हि मया  
        दास्यति भगवान् सकलं दयया    जलधि   
   (५)   सरसिजनाभ ! हरे[^6] ! बहुतान्तां  
        किन्नु वदामि गतो मम कान्तां     जलधि

————

श्लो. इत्थं विचिन्त्य धरणीसुरमौलिरेष
श्रीकृष्णदिव्यवचनामृतपानतृप्तः।
सम्प्राप्तवान् स्वभवनान्तिकमम्बुजाक्ष-
पादारविन्दयुगलं कलयन् हृदन्तः॥ २३॥
दृष्ट्वा तदाथ मणिगोपुरसौधसञ्च-
याट्टालकादिसुपरिष्कृतमेष गेहम्।
कस्येदमत्र भवनं किमिदं हि यद्वा
मार्गभ्रमोऽयमिति सोऽयमवाप शङ्काम्॥२४॥
आर्या. विस्मयहर्षनिमग्नः
स्थित्वा क्षणमेष चित्रवत् तत्र।
परितो निरीक्षमाण-
श्चिन्तितवानेवमाशु ननु चित्ते॥२५॥

————

गानं—१०. यमुनाकल्याणी. ^(१)रूपकम्,6

प. अहह नैव जाने
च. (१) काञ्चननवरत्नलसितगोपुर-
मिह किं मदीयमहो दयाराम ! रामराम ! अहह
(२) प्रचुरगन्धदिव्यधूपसुरभिकुसुम
परिमिलितं लसति भूरि धामधाम धाम अहह
(३) श्रीसरसिजनाभ! चरणयुगलविनत-
लोकनिकरकलितसर्वकाम ! कामकाम ! अहह

————

गानं—११ ^(२)तोटी.7 आदिः.

————

 श्लो.    गत्वा स्वकीयसदनान्तरयं महिष्या  
          साकं तया वरविभूषणभूषिताङ्ग्या।  
        दृष्ट्वा स सम्पदमसीमतरां प्रसन्नो  
          भूमीसुरः परमतर्कयदेवमन्तः॥२६॥  

गानं—१२. बिभास्. आदिः.
प. माधवालोकनं नूनं मामकोदयनिदानम्
अन्यथा कथमवाप्ता सम्पदेवममिता माधवा
च. (१) अपि परमयाचितो हृदि मोदसुपरीतो
दिशति चार्थिततये जलदवदविता माधवा
(२) स्वजनोपदां मितामपि मानयति महितां
मदुपायनवदहो मदनजनयिता माधवा
(३) नवतोयधराभे भवतु सारसनाभे
मम सदा मतिरहो प्रेमभारभरिता माधवा

————

श्लो. एवं विनिश्चित्य स भूसुरेन्द्रः
पश्यन् मदोत्थं धनिनां निपातम्।
प्रवृद्धभक्तिश्चिरमब्जनाभे
बुभोज कामानतिसङ्गहीनः॥२७॥

योऽसौ दीनं कुचेंल द्विजवरमतनोत् सर्वसम्पत्समृद्धं
गृह्णन् तस्माच्च मुष्टिं बत पृथुकमयीं व्रीलितात् सौहृदेन।
तं वै कारुण्यसिन्धुं भजत भुवि जनाः! सर्वलोकैकनाथं
सच्चित्सान्द्रस्वरूपं नवजलदनिभं श्रेयसे पद्मनाभम्॥२८॥

इति कुचेलोपाख्यानं समाप्तम्॥

————

२. अजामिलोपाख्यानम्.

श्लो. भर्तुर्वक्षसि भासिते सुविमले संवर्त्तकालोत्कट-
प्रोद्यत्कोटिविकर्त्तनच्छविघटासर्वंकषे कौस्तुभे।
दृष्ट्वा वर्ष्मनिजं प्रियोरसि गतामन्यां विशङ्क्यश्रियो
रुष्टाया हृदयानुवर्तनरतः श्रीपद्मनाभोऽवतु॥१॥

————

गानं—१. काम्बोधि. आदिः.
प. नामसुधामयि पिब मम रसने ! नाम
च. (१) यामिह पिबता साधुकुलेन
तृप्तिरवाप्ता नो भुवने नाम
(२) यदि हरिनामपरा त्वमिहैका
भवति यमान्नहि भयमपि स्वप्ने नाम
(३) सारसनाम! विभो! नारायण !
माधवेति निगद सुखेऽपि च कदने नाम

————

श्लो. कन्याकुब्जे बभूव श्रुतविदुरुमहाः संज्ञयाजामिलः प्राग्
भूमीदेवो हि कश्चिच्छुचिरनघतमः साधुवृत्तोपपन्नः।
स्निग्धां मुग्धां गृहाश्रम्यथ निजसदृशीं वल्लभां प्राप्य काले
देवाचार्याग्निशुश्रूषणमुखममलं चाचरन् धर्ममार्गम्॥२॥

————

गानं - २. यमङ्कल्याणी. बिलन्दि.
प. विपिनमसौ समगादेकदा
च. (१) तातोक्त्या कुशसमिधो नेतुं
मानसपूर्णमुदा
विपिनं
(२) कुलटां काञ्चन पथि स निवृत्तो
ह्यैक्षत हन्त तदा
विपिनं

च. (३) हेयामनिशं योजितहृदयैः

          सारसनाभपदा               

विपिनं

आर्या. स्वैरिण्या परिरब्धो विगलितमन्दाक्षलेशमेष तया।
समभूत् सोढं मोहं नैव समर्थः स कामविवशतया॥३॥

श्लो. स्वधर्माद् विरम्याशु पित्र्येण भूयो
धनेनेह सन्तोष्य तां पुंश्चलीं सः
कुलीनां च बालां विसृज्य स्वपत्नीं
चिरं बिभ्रदासीच्च दासीकुटुम्बम्॥४॥
प्रणष्टे स्वपित्र्ये धनौघे समस्ते
सदा पुंश्वलीपोषणे जागरूकः।
अवद्यैःस चौर्यैः पुनर्द्यूतकृत्यै-
रवाप्यार्थमेनां सुरा(पां? पीं) पुपोष॥५॥

————

गानं—३. झेंझोटि. बिलन्दि.

प. कुटिलामसतीमिमामरमयदयमेवं
च. (१) हेयसुरापानसदाशोणितनेत्रां तां
रागमन्युलोभमोहशमलभृतस्वान्तां
कुटिलां
(२) मुहुरपि मत्तप्रलपनमवशं कलयन्तीं
स्वमिह समालोक्य विना कारणं हसन्ती
कुटिलां
(३) पद्मनाभपदविस्मरणैकहेतुभूताम्
आत्मनो नजानन्नयमपि चिरतरमेतां
कुटिलां

आर्या. अष्टाशीतिवयस्कस्त्वस्यां जातेषु दशसु तनयेषु।
अन्तभवे प्रेमभरं नारायणनाम्नि हन्त स बभार॥६॥

गानं-४. दिण्डि.
समालोक्यासौ बालकं हसन्तं
तुतोषास्फुटोक्त्याथ तं लसन्तं;

       मुदा लीलायामस्य सोऽनुवेलं  
       मुमोचाश्रूणिं निश्चलोऽतिवेलं;  
       त्रिलोकाधीशं चिन्मयं घनाभम्  
       ^(१)अनाराध्यैवानिशं[^9] पद्मनाभम् .

श्लो. भुञ्जानः प्रपिबन् सुतं ममतया सम्भोजयन् पाययन्
मन्वानः क्षणलेशमप्यमुमृते कल्पोपमं दुस्सहम्।
स्वप्नेऽप्यच्युतचिन्तया विरहितः पापः स दासीपति-
र्वद्धस्त्वागतमन्तकं नच विवेदात्यन्तमूढाशयः॥७॥

    उपस्थितायामथ पञ्चतायां  
       भयङ्करांस्त्रीन् यमराजदूतान्।  
    दृष्ट्वाप्लुतेनाकुलधीः स्वरेण  
       नारायणेत्यर्भकमाजुहाव॥८॥

आर्या. तावत् तन्मुखगलितश्रीहरिनामाक्षरैकमाहात्म्यात्।
दिव्यस्वरूपवन्तो माधवदूताः समापतन्नारात्॥९॥

गानं - ५. आहरि. अटतालः.
प. वारयामासुरमी हरिदूता याम्यानधिकजवेन वारयामासु
च. (१) वीक्ष्य पाशेनावलयितमेनं
निरुपमकदनावहेन
मा मा नयत विमुञ्चत सहसा

     यूयममुमिति बलेन               

वारयामासु
(२) तदिह निशम्य वचो यमदूता
जगदुरमूनन्तकेन
सम्प्रेषिता हि वयं विनिवारिता
वदत केन कारणेन
वारयामासु

छन्द. भुजगशायिनो नाम मङ्गलं

    परमजानतापीह कीर्तितम्।  
    दहति पाप्मनां जालमञ्जसा  
    भुवि शिखी यथा दारुसञ्चयम्॥१४॥  

आर्या. यदि खलु वः सन्देहो धर्मेऽस्मिन् परमुदीरितेऽस्माभिः।
पृच्छत संयमिनीशं स्वं पतिमेवाशु धर्ममर्मविदम्॥१५॥
श्लो. श्रुत्वा श्रीहरिसेवकैर्निगदितामेताममी भारतीं
दिव्यं भागवतं च धर्मममलं निर्णीयते सत्वरम्।
निर्मुच्यामुमजामिलं सुविवशं याम्याच्च पाशात् ततो
मृत्योस्तावदमूमुचन्नथ भटाः सूनोस्त्विषामीशितुः॥१६॥

————

गानं—७. बिहाग्. आदिः.
प. ननामाखिलेशानुगानसौ मुदामेयया
च. (१) पाशाद् विमुक्तोऽसौ तदा प्रकृतिमितो निजां
भासितानुरुवनमालया
ननाम
(२) श्रीपद्मनाभे मानसं दधौ गुणान् निशमयन्
विरहितो घनपापबाधया
ननाम

————

आर्या. आत्मकृतं पुनरशुभं संस्मरतोऽथास्य भूमिदेवस्य।
बन्धविमोचनहेतुः पश्चात्तापो महानमूदेवम्॥१७॥

————

गानं—८. भैरवी. बिलन्दि.
प. मुधैव यातानि दिनानि शतं
अ. हा मम कुलटायामिह दधतो मानसमनवरतं मुधैव
च. (१) भामिनीमिह निजामपि विहाय कृतं कर्म मयावमतं।
जरठौ मातापितरौ गमितौ शोकमहो विततं
मुधैव
(२) क्षुधिततमाय वै भूमिसुराय हन्त यथाभिमतं
नैव वितीर्णं जातुचिदन्नं धिङ्मांपापरतं
मुधैव

च. (३) तीर्थकुलेऽपि नो स्नातं शुभदे तेजो मम विहतं  
       पङ्कजनाभपदसरोरुहयोः सकृदपि नैव नतं     

मुधैव

————

आर्या. उत्पथगैरिह भोज्ये धर्मघ्नैरेष दारुणे नरके।
नूनं सपदि पतिष्यति पुरुषो हा हन्त गर्हितः सद्भिः॥१८॥
श्लो. ये मां व्यकर्षन्निह पाशहस्ता
भयङ्करास्ते क्व गतास्त्विदानीम्।
व्यमोचयन्मां सहसा हि तेभ्यो
ये तेऽपि याताः क्व मनोज्ञरूपाः॥१९॥
आर्या. क्वासौ पापतमोऽहं क्वचखलु नारायणेति नाम शिवम्।
तस्मात् तथा यतिष्ये मग्नो न स्यां यथा पुनर्मोहे॥२०॥

————

गानं–९. बिभास्. अटतालः.

इति समुपागतनिर्वेदोऽयं
गङ्गाद्वारमवाप्तः सहसा
तत्र देवसदने विलसन् देवं
माधवमचिन्तयदिह हृदि तरसा इति समु
तदनुविलोक्यासौ तानेव दूतान्।
शौरेर्ववन्दे विनतेन शिरसा इति समु
शोषितांहोमयकर्दमराशिः
श्रीपद्मनाभपदाम्बुजरजसा इति समु

————

श्लो. तीर्थे मुक्त्वा शरीरं सपदि स भगवत्पार्षदानां स्वरूपं
गृह्णन् तैरेव सार्धंविमलतममथारुह्य हैमं विमानम्।
प्राप्तो वैकुण्ठमाद्यंसुरमुनिनिवहैर्भक्तियुक्तैः समेतं
यत्रासौ देदिवीति श्रितविबुधतरुः पद्मनाभो घनाभः॥२१॥

श्रुत्वा यमोऽथ निजभृत्यमुखादुदन्तं
भक्तेषु वै मधुरिपोस्तु न गच्छतेति।
संवार्य तान् निजमघं परिमार्ष्टुकामः
संप्रार्थयन् मुहुरवन्दत पद्मनाभम्॥२२॥
पापः सोऽयमजामिलाख्यधरणीदेवो विमुक्तिं गतो
यन्नामग्रहणेन सोऽथ भगवान् कारुण्यलेशेन नः।
आयुःश्रीसुखकान्तिकीर्तिविजयान् दद्यादजस्रं मुदा
श्रीभूमीपरिवेष्टितो निरुपमः श्रीपद्मनाभो हरिः॥२३॥

इति अजामिलोपाख्यानं समाप्तम्॥

————

शुभं भूयात्।

श्लोकानुक्रमणी।

————————

[TABLE]

रागानुक्रमणिका।

————————

[TABLE]

कुचेलोपाख्यानगानानुक्रमणिका

——————————————

[TABLE]

**अजामिलोपाख्यानगानानुक्रमणिका। **

[TABLE]

]


  1. “१. वस्तुनिर्देशकृत्यं फलात्मना च । " ↩︎

  2. “२. अत्र हरि श्रुतिरम्यपदयोः पापहरणध्वनिः” ↩︎

  3. " ३. अत्र दारुसञ्चयदृष्टान्तेन कठिन कठिनपापनिर्दहनम् ।” ↩︎

  4. “.१. बिलन्दि गः पाठः” ↩︎

  5. “१ आनन्दभैरवी । ग. पाठः.” ↩︎

  6. “१. बिलन्दि " ↩︎

  7. “२. भैरवी ग. पाठः.”

    प. साधु तदा निजभामिनीं
    सपदि ददर्श विमोहिनीं साधु
    च. (१) वाद्यगीतवरवनितानिकरैः
    परिचरितामतिविलासिनीं साधु
    (२) रमणनिरीक्षणसम्भ्रमगलदुरु
    बाष्पमुखीं मृदुहासिनीं साधु
    (३) सकलाभरणविभूषितदेहां
    दिव्यतराम्बरशालिनीं साधु
    (४) मनसा निजपदनमनं
    सहसा रचयन्ती गजगामिनीं साधु
    (५) पङ्कजनाभकृपामृतवर्षा-
    दमरवधूमिव भासिनीं साधु ↩︎