[[कुचेलोपाख्यानम् अजामिलोपख्यानं च Source: EB]]
[
________________
2023
TRIVANDRUM SANSKRIT SERIES
No. CXII. Sri Citrodayamanjari
No. I.
THE KUPPUSWAMI SASTRI RESEARCH INSTITUTE
MADRASA KUCĒLOPAKHYANA
AND AJĀMILOPĀKHYÁNA
BY
His Highness Svāti Tirunāl Sri Rāma Varma Kulasekhara Peruma।
Maharajah of Travancore.
988 m. E. 1813 A.D.
TO
1022 M. E. 1847 A. D.
EDITED BY
K. SAMBAŠIVA SASTRI
Curator of the Department for the Publication of
Oriental Manuscripts, Trivandrum.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAIL OF TRAVANCORE.
TRIVANDRUM: PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS,
1932.________________
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ११२. श्रीचित्रोदयमञ्जरी
ग्रन्थाङ्कः १. THE KUPPUSWAMI SASTRI RESEARCH INSTITUTE,
MADRAS. ९८८ तमादि १०२१ तमान्तकोलम्बाब्दजीविना
महोन्नतमहामहिम्ना स्वातिश्रीरामवर्मकुलशेखरवश्चिमहाराजेन
प्रणीतं
कुचेलोपाख्यानम् अजामिलोपाख्यानं च ।
प्राचीनग्रन्थप्रकाशनकार्याध्यक्षेण के. साम्बशिवशास्त्रिणा
संशोधितम् ।
तच
अनन्तशयने महामहिमश्रीचित्रावतारमहाराजशासने
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितम् ।
कोलम्बाब्दाः ११०७, ऊस्तान्दाः १९३२.________________
.
000
H. H. Svati Tirunal Sri Rama Varma Kulasekhara Peruma।
Maha Rajah of Travancore 813 to 1847 A. D.________________
॥श्रीः॥
श्रीमूलावनिपालमौलिमणिना सङ्कल्पितश्रीरिव ___ श्रीमूलात्मजनिस्तथा सहजया लक्ष्म्या च सम्भावितः।
स्वातिज्योतिरिवादितः समुदितश्चित्रावतारः स्वयं ___ मार्ताण्डाग्रसरो विराजति महाराजः स रामाभिधः ॥ भास्वद्वर्णमणिः प्रवालमृदुला श्रुत्याद्यलकारिणी __श्रीमद्वञ्चिवसुन्धरानवयशोराशिप्रकाशात्मिका। उत्फुल्लत्सुकृतिप्रसाधनधृतामोदोन्नदड्डिण्डिमा
श्रीचित्रोदयमञ्जरी सुमनसां सर्वस्वमुज्जृम्भताम् ॥
के. साम्बशिवशास्त्री.________________
of the treatise pi gran faqedra indicates through Mudralankāra, the date of completion of the work in the Kali Era, (1803875 days from the beginning of that Era) and the date of the author is thus the first part of the 19th century. Historically, this king was the son of Rani Lakşmi Bai and was born in the month of Meşa in the year 1813 and demised in his 34th year. His father was Sri Raja Raja Varma of the Parpa dynasty (Changanacherry) and his mother died in his second year and his maternal aunt Srī Parvati Bai was the Regent during his minority. Just as the Crescent Moon gathers effulgence through the acquisition of fresh digits, he grew gathering brilliance through his proficiency in all fine arts. His genius and innate aptitude for music and literature, ripened by his education, easily raised him to the position of a great scholar, and poet. This poet was in fact a second creator. He had al rare and perfect mastery over various languages such as Malayalam, Sanskrit, Mahratti, English, Telugu, Kaneresc, Tamil and Urdu. His Tutor in English and Politics was Mr. Subba Rao, his future Dewan. And it is most astonishing that the knowledge of the science of Politics proficient in tactics and embellished by exceeding courage, valour and heroism emblazed a heart that was imbued with the sweetest poetical fervour. Such great qualities is serenity, magnanimity, compassion, impartiality and imperiousness illumined his illustrious reign. During the very short period of his life, in the midst of the manifold demands of his kingly office, he attained a unique celebrity as is great man of letters. And his works are:—
- Srī Padmanābha Satakam. 2. Syānandūrapuravarṇanaprabandham. 3. Ajāmilopākhyānam. 4. Kucelopākhyānarn. 5. Sangītakstis (in Sanskrit and Telugu). 6. Utsavavarṇanam Prabantha (both in Sanskrit
and Malayalam). 7. Yayāticaritam. - Bhaktimañjari. The two Upākhyanas before us, which are among these works have been published by Mr. K. Chidambara Vadhyar B. A., in Malayalam characters under the title of mocslogol Hobo on account of their musical quality, though they do not________________
belong strictly to the collection of songs. As we were going to publish his musical compositions in Devanagari characters, we noticed the high literary quality of these two Upakhyanas when compared to the other compositions and considering the separate publication of these two as more appropriate. we do accordingly. Here are a few illustrations that are highly fascinating to the minds of literary connoisseurs:
मुदितः स चैवमुदितस्तु जायया
विमना अपि स्वयमनारतं धने । कमलाधवानिकमलानतीच्छया
प्रशशंस तामथ शशंस सादरम् ॥ (Page 2). अमुना भूमिदेवेनाकारि किं ननु
पुण्यमतिदीनशरीरेण । मानितोऽयं ननु सरोरुहनाभेन
*भासुरसुगुणारामेण ॥ “साधु तदा निजभामिनी सपदि ददर्श विमोहिनी वाघगीतवरवनिताकरैः परिचारितामतिविलासिनी रमणनिरीक्षणसम्भ्रमगलदुरुबाष्पमुखी मृदुहासिनी सकलाभरणविभूषितदेहां दिव्यतराम्बरशालिनी मनसा निजपदनमनं सहसा रचयन्तीं गजगामिनी पकजनाभकृपामृतवर्षादमरवभूमिव भासिनीम् ।”
(Page 8). “नामसुधामयि पिब मम रसने ! यामिह पिवता साधुकुलेन तृप्तिरवाप्ता नो भुवने यदि हरिनामपरा त्वमिहेका भवति यमानहि भयमपि स्वमे” (Page 10).
* The suggestion here is relishable to Sahrdayas
* The attributes qualifying Kuce’a’s wife aro fall of suggestion and afford the possibility of recognitive visualisation,
$ The result is indicated.________________
*“किस जन्मातकोटिकृताना
पाप्मनां हमनेन हि लोके । निष्कृतिविरचिता हरिनाम ग्याजहार यदसौ श्रुतिरम्यम् ॥”
(Page-13.) “भुजगशायिनो नाम मङ्गलं
परमजानतापीह कीर्तितम् । दहति पाप्मनां जालमञ्जसा
भुवि शिखी यथा दारुसञ्चयम्” ॥
Thus in considering the inner contents of this little work, it becomes evident to real critics that these two pieces though short, entitle the author to the status of a Mahakavi ky virtue of the matter and manner.
The poetic license evinced by the author as by Kālidāsa and Bhasa in the untrammelled progress of his literary art does but conduce to asthetic charm. For instance, we notice,
“सकृदिह मुष्टिं तस्माद्
__गृह्णन् बलतो बुभोज पृथुकानाम् ।” Two manuscripts were utilised in the publication of the present work. One is the publication in Malayalam by Mr. Chidambara Vadhyar and the other belongs to Dr. Rohini Tirunal Raja of Maņņoor Matom Palace, Mavelikkara. It s more correct and praise-worthy.
Trivandrum, 1 15-12-1107.5
K, SĀMBAŠIVA SASTRI.
* There is the suggession of the condonation of sin through the words हरि and श्रुतिरम्यम् .
- By the example of lngs of wood, there is the suggestion of the burning away of very severe sing.________________
श्रीः भवतारिका।
महोन्नतमहामहिमश्री श्रीचित्रावतारमहाराजस्य भरणाधिकारप्रति - छापनमहोत्सवमनुस्मार्य समुचितेन ‘चित्रोदयमञ्जरी’नान्ना समुत्तम्भितेयमनतशयनसंस्कृतग्रन्थावलिरधुना कामपि महनीयपदविन्यासमञ्जुलां गतिमवलम्ब्य सुमनःसमुल्लाससरसा सुन्दरीव मन्ये नवनवां यौवनश्रियमधिगता । अस्यां प्रथमोऽयं गुच्छ इदमुपाख्यानद्वयं नाम । सुविमलेन विज्ञानधनेन कृतसेवनं कुचेलम् , अतिमधुरेण नामकीर्तनेन लब्धभक्तिमजामिलं च सम्पत्प्रा. पणेन जीवनदानेन च रक्षित्वात्मीयतां नीतवतः श्रीपद्मनाभस्याश्रितजनपरिपालनप्रवणमात्मकृत्यं प्रशंसतानेनोपाख्यानद्वयेन श्रीपद्मनाभदासस्य महाराजस्य खामिसमुचितां वृत्तिमभिव्यज्य स्थाने प्राथम्यमत्रावापि । किञ्च महोन्नतमहामहिमश्रीस्वातिश्रीरामवर्मवञ्चिमहाराजेन प्रणीतस्यास्य ततोऽपि प्राथम्यमिह चि. प्रोदयमञ्जयाँ प्राप्तावसरम् । यस्य हि कवेरनितरसाधारणा स्वकुलदैवते श्री. पमनाभे भक्तिरप्रतिहता । यदपि फलमिदमुपाख्यानद्वयमदसीयभक्तिमअर्याः।
कविरयं स्वकृतेः स्यानन्दूरपुरवर्णनचम्पूप्रबन्धस्यान्तिमेन “स्वातीजातेन चूडाधृतसरसिजनाभाघियुग्मेन लक्ष्मी
राज्ञीपुत्रेण वञ्चीश्वरकुलजनुषा रामवाभिधेन । भक्त्युद्रेकेण शश्वद् गुरुवरकृपया निर्मितं चम्पुकाव्यं
स्यानन्दूरेश्वरस्य प्रमितमुपहृतं शं सदालं निदध्यात् ॥” इति पद्येन स्वातीनक्षत्रजातः लक्ष्मीराझ्याः पुत्रो रामवर्माभिधः श्रीवञ्चिमहाराज इति सिध्यति । अपिच ‘चूडाधृतसरसिजनाभाघ्रियुग्मेन लक्ष्मीराज्ञीपुत्रेणेति विशेषणाभ्यामन्योन्यालिङ्गितार्थप्रतिपादनदिशा पटनापौर्वापर्येण च ‘सर्व वाक्यं सावधारणमिति न्यायेन चूडाधृतसरसिजनाभाङ्घियुग्मेन सतैव लक्ष्मीराज्ञीपुत्रत्वे प्रवेश इति सूचयन्यां गर्भश्रीमानयं महाराज इत्यपि सिद्धम् । “शं सदावं निदध्याद् इत्यनेन कलिदिनारम्भात् प्रभृति त्रिसहस्राष्टशन________________
पञ्चसप्तत्यधिकाष्टादशलक्ष(१८०३८७५)दिवसेषु गतेष्वेतत्प्रबन्धसमाप्तिरिति सूचनाद् मुद्रालङ्कारः” इति तत्पद्यव्याख्यातरीत्या क्रिस्तीयकोनविंशशताब्धाः पूर्वभागोऽस्य कवेर्जीवितसमय इति लभ्यते । निष्कृष्य चरित्रदिशा १८१३तमसंवत्सरे मेषमासि लक्ष्मीदेव्या लब्धावतारोऽयं चतुस्त्रिंशे वयसि स्वर्गमारुरोहेति प्रसिद्धिः । गर्भ एवात्मसमर्पणादिव वत्सरे द्वितीये लक्ष्मीदेव्या मात्रा वियुक्तस्यास्य, पर्पराजवंश्यः श्रीराजराजवर्मदेवः पिता, प्रतिनिधीभूय राज्य शासती श्रीपार्वतीराज्ञी मातृष्वसा च पोषको बभूवतुः । क्रमशः सर्वासु कलासु क्रममाणोऽयं बालचन्द्र इव नचिरात् सम्पूर्णमण्डलो दहशे । सङ्गीतसाहित्ययोराजानसिद्धा प्रतिभामुमनायासेन विद्याभ्यासेन समुत्तेजनक्षमेण कमपि महान्तं पण्डितं कविं च चक्रे । कैरली-गैर्वाणी-आगली-माहाराष्ट्री-आन्ध्रीकार्णाटी-द्राविडी-हिन्दुस्थानी इत्याभरनेकाभिर्भारतीभिरनितरसुलभाभिः स्वयंवृतोऽयं कश्चिदपर एव कविब्रह्माभवत् । किमधिकेन, अमात्यभावी श्रीसुब्बरायोऽस्य आगलविद्यायामनुरूपेषु राज्यतन्त्रकलाकौशलेषु चाचार्योऽभवत् । आश्चर्यमिदमेव तत्र महाराजे काममतिभूमिमगमत् , यत् कचन काव्यालापसरससरसेऽपि मानसपञ्जरे कूटप्रयोगकुशलं राज्यतन्त्रविज्ञानमतिवीर्यशौर्यपराक्रमोपस्कृतमैकाधिकरण्येन प्रविवेश । गाम्भीर्यौदार्यदयादाक्षिण्यैकशासनत्वादयो महागुणा अस्य भरणाभरणतां प्रतिपद्य निकामं शुशुभिरे । अतिहसीयस्यपि जीवितसमये, महति महत्यपि राज्यकार्यवैधुर्ये जाग्रति सरससाहिवीकारख्यातेरप्ययमसामान्यं भाजनमासीत् । कृतयश्चास्य —-
१. श्रीपद्मनाभशतकम् । २. स्यानन्दूरपुरवर्णनप्रबन्धः । ३. अजामिलोपाख्यानम् । ४. कुचेलोपाख्यानम् । ५. सङ्गीतकीर्तनानि (संस्कृतआन्ध्रगादिभाषासु च । ६. उत्सववर्णनप्रबन्धः (संस्कृतकेरनोमयभाषारूपः) । ७. ययातिचरितम् ।
८. भक्तिमारी। इत्येता।________________
प्रकृतमुपाख्यानद्वयम्-उक्तासु कृतिष्वन्यतमे भिन्ने अपीमे उपाख्याने imvoilmgoolchaoइति संज्ञया केरललिप्या मुद्रिते पुस्तके तत्प्रसाधकेन श्रीमता के. चिदम्बरवाध्यार् बि. ए. बिरुदधारिणा गानानुगुणपदजातस्य निमित्तस्यान्तर्भाविते । परन्तु तासामेष सङ्गीतकृतीनां देवनागरलिप्यां मुद्रणप्रकाशने चोदितोऽहमनयोरुपाख्यानयोस्त्तमसाहितीकक्ष्यामन्यासां गीतीनामतथाविधतां चावेक्ष्य पृथक्करणमुचितं मन्यमानस्तदनुगुणं प्रसाधनमकरवम् । अत्र चेमानि सहृदयदृशामासेचनकानि मनागुदाहरणानि -
“मुदितः स चैवमुदितस्तु जायया
विमना अपि स्वयमनारतं धने । कमलाधवाधिकमलानतीच्छया प्रशशंस तामथ शशंस सादरम् ॥”
(पु. २. श्लो. ५) “अमुना भूमिदेवेनाकारि किं ननु पुण्यमतिदीनशरीरेण मानितोऽयं ननु सरोरुहनाभेन १भासुरसुगुणारामेण”
(पु. ५. गानं ७) २"साधु तदा निजभामिनी
सपदि ददर्श विमोहिनी वाद्यगीतवरवनितानिकरैः परिचरितामतिविलासिनी रमणनिरीक्षणसम्भ्रमगलदुरुबाष्पमुखीं मृदुहासिनी सकलाभरणविभूषितदेहां दिव्यतराम्बरशालिनी मनसा निजपदनमनं
सहसा रचयन्तीं गजगामिनी १. ‘अतिदीनशरीरेण भासुरसुगुणारामेण’ अत्र ध्वनिः सहृदयवेद्यः । २. अत्र कुचेलपत्नीविशेषणानि ध्वनिमर्यादया तत्त्वप्रत्यभिज्ञापकानि ।________________
पङ्कजनाभकृपामृतवर्षादमरवधूमिव भासिनीम्"
. (पु. ८. गानं ११). “नौमसुधामयि पिब मम रसने! यामिह पिबता साधुकुलेन तृप्तिरवाप्ता नो भुवने यदि हरिनामपरा त्वमिहैका भवति यमान्नहि भयमपि स्वप्ने”
(पु. १०. गानं १) “किंञ्च जन्मशतकोटिकृतानां
पाप्मनां दृढमनेन हि लोके । निष्कृतिर्विरचिता हरिनाम व्याजहार यदसौ श्रुतिरम्यम् ॥”
(पु. १३. श्लो. १३) " जगशायिनो नाम मङ्गलं
परमजानतापीह कीर्तितम् । दहति पाप्मनां जालमञ्जसा भुवि शिखी यथा दारुसञ्चयम् ॥"
__ (पु. १४. श्लो. १४) इत्थमाभ्यन्तरविचारे प्रस्तूयमाने खण्डकाव्ययोरप्याकृत्या, प्रकृत्या महाकविव्यपदेशानुरूपो महिमातिशयो महाराजस्यानयोरुपाख्यानयोः प्रतिफलित इति विदन्ति रसिकतमाः । ___महाकवेरस्य भासकालिदासादिवत् प्रयोगे निरङ्कुशत्वमनिवारितप्रसरे साहितीपरिस्पन्दे भवति महत्यै शोभायै ।
१. वस्तुनिर्देशकृत्यं फलात्मना च । २. अत्र हरि श्रुतिरम्यपदयोः पापहरणध्वनिः । ३. अत्र दारुसञ्चयदृष्टान्तेन कठिन कठिनपापनिर्दहनम् ।________________
तथाच दृश्यते कचित् - “सकदिह मुष्टिं तस्माद् गुपन् बलतो नुभोज पुकानाम् ।”
(पु. ६. सो. १९) इति ।
एतत्प्रसाधनाधारौ द्वावादशौँ । तयोरेकः श्रीमच्चिदम्बरवाध्यारपसाधितः केरललिपिमुद्रितः, द्वितीयः मावेलिकर मण्णूरमठं कोहारं श्रीमद्रोहिणीराजस्वामिकः शुद्धतरो विशिष्य प्रशंसाईः ।
अनन्तशयनम् , १५.१२.१०४.
के. साम्बशिवशास्त्री.________________
क्वचित् त्रयीपाठपरायणानां
शुश्राव घोषं धरणीसुराणाम् । महीसुरो विस्मयसाध्वसही
सन्तोषपर्याकुलितान्तरात्मा ॥ ११ ॥
अ.
गानं-५. धन्यासि. रूपकम्.
सन्ददर्श भूसुरमणिरपि च हर्म्यजालं श्रीसरसिजनाभभक्तयादवौषभरितं
कचन रुचिरहेमकुम्भलसितमतिविशालं सन्ददर्श श्लो. गुल्मत्रयं स समतीत्य ततश्च कक्ष्याः
श्रीकृष्णपादयुगदर्शनकौतुकेन । वेगेन षोडशसहस्रवधूगृहाणां
शैब्यागृहं प्रतिविशन् परमाप मोदम् ॥ १२ ॥ आर्या. तत्र तदानीं तस्याः सदने लीलाविशेषरतचित्तम् ।
त्रिजगन्नाथं शैरि भूमिसुरः प्राप निर्भरप्रीत्या ॥ १३ ॥
- ६. कामोदरी. आदिः. प. पूर्णचन्द्राननमैक्षतासौ यादवेशं च. (१) मणिमञ्चकृतवासं विशदविभूषणभासं
लसदमलमृदुहासं नीलकेशं (२) दयितामनु सहेलं निगदन्तमनुवेलं
दधतं स्विन्नमतिवेलं फालदेशं (३) जलजनाभमभिरामं वन्यमालया निकामं
रमयन्तं तामतिवामं भूरमेशं
.१. ‘विलन्दि’ गः पाठ________________
श्लो.
दृष्ट्वा दूरे कुचेलं. सपदि स भगवान् बाल्यमित्रं प्रमोदा
दुत्थायोपेत्य संश्लिष्य च सरसममुं गाढमश्रूणि मुञ्चन् । पर्यके सन्निवेश्य स्वयमथ विधिवत् साधु सम्पूज्य सद्यो
लिम्पन् पाटीरपङ्केन च सुरभितमेनाब्रवीत् स्वागतं तम् ॥१४॥ तावत् पर्यचरत् तं देवी शैब्या च तालवृन्तेन । यस्मै मुदितो भगवान् मुरभिदलभ्यं भुवीह किं तेन ॥ १५॥ दृष्ट्वा त्रिभुवनपतिना सादरमभिपूजितं कुचेलं तम् । अन्तःपुरजननिकरो विस्मयभरितो मिथोऽब्रवीदेवम् ॥१६॥
आर्या.
गानं–७.
यमुनाकल्याणी. आदितालः. अमुना भूमिदेवेनाकारि किं ननु पुण्यमतिदीनशरीरेण मानितोऽयं ननु सरोरुहनाभेन भासुरसुगुणारामेण
जमुना
आर्मा. कथयामासतुरेतौ
कृष्णकुचेलौ कथाः पुरातीताः। गुरुकुलवसतौ स्वैरं
धृत्वा च मिथः करौ तदा प्रीत्या ॥ १७॥
स्मरसि
गानं-८. काफी. आदिः.
स्मरसि पुरा गुरुवनितावचसा गतमस्माभिर्वनमतितरसा इन्धनजालसमानयनाथ निशि तिमिरेण तदा विततायां सोढं वर्ष जातमकाले
भ्रान्तं विधृतकरैरयि ! सहसा १. ‘आनन्दभैरवी ।’ ग. पाठः.
स्मरसि________________
स्मरसि
च. (२) उपसि समेत्य स देशिकतिलको
दृष्ट्वास्मानिह वलितान् विपिने मोदपरीतोऽनुग्रहमकरोदतिकरुणार्द्रतरेण हि मनसा एवं सरसिजनाभो भगवान् तमिह कुचेलं शंसन् सरसं स पुनरभाणीदेतां वाणी द्विजमनु जितमिहिरो निजमहसा
स्मरासि
श्लो. मद्यं किमानीतमुपायनं त्वया ___ तद् दीयतां मे यदिहार्पितं जनैः । भक्तैरपि स्तोकमहो महद् भवे
दित्थं स पृष्टोऽपि ददौ न लज्जया ॥ १८ ॥ आर्या. विज्ञायागमहेतुं
तस्य चिकीर्षुश्च तं जितधनेशम् । सकृदिह मुष्टिं तस्माद् ___ गृह्णन् बलतो बुभोज पृथुकानाम् ॥ १९ ॥ आरममाणे भोक्तुं
पुनरपि मुष्टिं द्वितीयमपि देवे । प्राप्ता तरसा लक्ष्मी
स्त्वलमिति पाणिं प्रभोस्तदा जगृहे ॥२० ॥ श्लो. द्विजो निशां तां हरिमन्दिरे नयन्
__ यथासुखं भोजनपाननिर्वृतः । दिने द्वितीये प्रययौ धनं विना
निजालयं वीलितमानसस्ततः ॥ २१ ॥ आर्या. निजसदनं प्रति गच्छन्
भूसुरमौलिस्ततो हरिनिकेतात् । मध्येमार्ग चिन्ताम्
एतामगमद् विलज्जितः कामम् ॥ २२ ॥________________
जलधि
गानं–९. बिहार. आदितालः. प. अलधिसुतारमणेन हि सोऽहं
सरसमालिङ्गितो निस्सन्देहम् च. (१) पर्यङ्के निजदयितासहिते समुपाकलितो नवसुमलसिते
जलधि (२) वालव्यजनविराजितकरया परिचरितो निजसुदृशा वरया
जलधि (३) अधनोज्वाप्य हि वित्तमसीमं स्मरति न मामिति न ददौ कामं
जलधि (४) यदि खलु याञा रचिता हि मया
दास्यति भगवान् सकलं दयया (५) सरसिजनाभ! हरे! बहुतान्तां किन्नु वदामि गतो मम कान्तां
जलधि श्लो. इत्थं विचिन्त्य धरणीसुरमौलिरेष
श्रीकृष्णदिव्यवचनामृतपानतृप्तः । सम्प्राप्तवान् स्वभवनान्तिकमम्बुजाक्ष
पादारविन्दयुगलं कलयन् हृदन्तः ॥ २३ ॥ दृष्ट्वा तदाथ मणिगोपुरसौधसञ्च
याट्टालकादिसुपरिष्कृतमेष गेहम् । कस्येदमत्र भवनं किमिदं हि यद्वा
मार्गभ्रमोऽयमिति सोऽयमवाप शङ्काम् ॥ २४ ॥ आर्या. विस्मयहर्षनिमग्नः
स्थित्वा क्षणमेष चित्रवत् तत्र । परितो निरीक्षमाण
श्चिन्तितवानेवमाशु ननु चित्ते ॥ २५ ॥
१. ‘आहरि’ ग. पाठः.________________
अहह
गानं-१०. यमुनाकल्याणी. रूपकम्,
प. अहह नैव जाने च. (१) काञ्चननवरत्नलसितगोपुर
मिह किं मदीयमहो दयाराम ! रामराम ! (२) प्रचुरगन्धदिव्यधूपसुरभिकुसुम
परिमिलितं लसति भूरि धामधाम धाम (३) श्रीसरसिजनाभ! चरणयुगलविनत
लोकनिकरकलितसर्वकाम ! कामकाम !
अहह
अहह
साधु
साधु
गानं-११. तोटी. आदिः. प. साधु तदा निजभामिनी
सपदि ददर्श विमोहिनी च. (१) वाद्यगीतवरवनितानिकरैः
परिचरितामतिविलासिनी (२) रमणनिरीक्षणसम्भ्रमगलदुरु
बाष्पमुखीं मृदुहासिनी (३) सकलाभरणविभूषितदेहां
दिव्यतराम्बरशालिनी (४) मनसा निजपदनमनं
सहसा रचयन्ती गजगामिनी (५) पङ्कजनाभकृपामृतवर्षा
दमरवधूमिव भासिनी
श्लो. गत्वा स्वकीयसदनान्तरयं महिष्या
साकं तया वरविभूषणभूषिताङ्ग्या । दृष्ट्वा स सम्पदमसीमतरां प्रसन्नो
भूमीसुरः परमतर्कयदेवमन्तः ॥ २६ ॥
१. ‘बिलन्दि’, २. ‘भैरवी’ ग. पाठः.________________
माधवा
गानं-१२.
बिभास्. आदिः. प. माधवालोकनं नूनं मामकोदयनिदानम्
अन्यथा कथमवाप्ता सम्पदेवममिता च. (१) अपि परमयाचितो हृदि मोदसुपरीतो
दिशति चार्थिततये जलदवदविता (२) स्वजनोपदां मितामपि मानयति महितां
मदुपायनवदहो मदनजनयिता नवतोयधराभे भवतु सारसनामे मम सदा मतिरहो प्रेमभारभरिता
माधवा
माधवा
माधवा
श्लो. एवं विनिश्चित्य स भूसुरेन्द्रः
पश्यन् मदोत्थं धनिनां निपातम् । प्रवृद्धभक्तिश्चिरमब्जनामे
बुभोज कामानतिसङ्गहीनः ॥ २७ ॥ योऽसौ दीनं कुचेल द्विजवरमतनोत् सर्वसम्पत्समृद्धं ___ गृह्णन् तस्माच मुष्टिं बत पृथुकमयीं वीलितात् सौहृदेन । तं वै कारुण्यसिन्धुं भजत भुवि जनाः! सर्वलोकैकनाथं सचित्सान्द्रस्वरूपं नवजलदनिभं श्रेयसे पद्मनाभम् ॥ २८॥
इति कुचेलोपाख्यानं समाप्तम् ॥________________
२. अजामिलोपाख्यानम्. श्लो. भर्तुर्वक्षसि भासिते सुविमले संवर्तकालोत्कट
प्रोद्यत्कोटिविकर्तनच्छविघटासर्वकषे कौस्तुभे। दृष्ट्वा वर्म निजं प्रियोरसि गतामन्यां विशङ्कथ श्रियो
रुष्टाया हृदयानुवर्तनरतः श्रीपद्मनाभोऽवतु ॥१॥
नाम
नाम
गानं–१.
काम्बोधि. आदिः. प. नामसुधामयि पिब मम रसने ! च. (१) यामिह पिबता साधुकुलेन
तृप्तिरवाप्ता नो भुवने (२) यदि हरिनामपरा त्वमिहैका
भवति यमान्नहि भयमपि स्वप्ने (३) सारसनाम! विभो! नारायण !
माधवेति निगद सुखेऽपि च कदने
नाम
नाम
श्लो. कन्याकुब्जे बभूव श्रुतविदुरुमहाः संज्ञयाजामिलः प्राग
भूमीदेवो हि कश्चिच्छुचिरनघतमः साधुवृत्तोपपन्नः । स्निग्धां मुग्धां गृहाश्रम्यथ निजसदृशीं वल्लभां प्राप्य काले
देवाचार्याग्निशुश्रूषणमुखममलं चाचरन् धर्ममार्गम् ॥२॥
गानं-२. यमङ्कल्याणी. बिलन्दि.
प. विपिनमसौ समगादेकदा च. (१) तातोक्त्या कुशसमिधो नेतुं
मानसपूर्णमुदा (२) कुलटां काञ्चन पथि स निवृत्तो
क्षत हन्त तदा
विपिन
विपिन________________
च. (३) हेयामनिशं योजितहृदयैः
सारसनाभपदा
विपिनं
आर्या. स्वैरिण्या परिरब्धो विगलितमन्दाक्षलेशमेष तया।
____ समभूत् सोढं मोहं नैव समर्थः स कामविवशतया ॥३॥ श्लो. स्वधर्माद् विरम्याशु पित्र्येण भूयो
धनेनेह सन्तोष्य तां पुंश्चलीं सः कुलीनां च बालां विसृज्य स्वपत्नी
चिरं बिभ्रदासीच दासीकुटुम्बम् ॥ ४ ॥ प्रणष्टे स्वपित्र्ये धनौघे समस्ते
सदा पुंश्वलीपोषणे जागरूकः । अवधैः स चौर्यैः पुनघृतकृत्यै
रवाप्यार्थमेनां सुरा(पां? पां) पुपोष ॥ ५ ॥
गानं -३.
झेंझोटि. बिलन्दि. प. कुटिलामसतीमिमामरमयदयमेवं च. (१) हेयसुरापानसदाशोणितनेत्रां तां
रागमन्युलोभमोहशमलभृतस्वान्तां (२) मुहुरपि मत्तप्रलपनमवशं कलयन्तीं
स्वमिह समालोक्य विना कारणं हसन्ती (३) पद्मनाभपदविस्मरणैकहेतुभूताम्
आत्मनो नजानन्नयमपि चिरतरमेतां
कुटिलां
कुटिलां
कुटिलां
आर्या. अष्टाशीतिवयस्कस्त्वस्यां जातेषु दशसु तनयेषु ।
अन्तभवे प्रेमभरं नारायणनानि हन्त स बभार ॥ ६ ।
गानं-४.
दिण्डि. समालोक्यासौ बालकं हसन्तं तुतोषास्फुटोक्त्याथ तं लसन्त;________________
१२ मुदा लीलायामस्य सोऽनुवेलं मुमोचाश्रूणिं निश्चलोऽतिवेलं त्रिलोकाधीशं चिन्मयं घनाभम् अनाराध्यैवानिशं पद्मनाभम् .
श्लो. भुञ्जानः प्रपिबन् सुतं ममतया सम्भोजयन् पाययन्
मन्वानः क्षणलेशमप्यमुमृते कल्पोपमं दुस्सहम् । स्वप्नेऽप्यच्युतचिन्तया विरहितः पापः स दासीपतिवृद्धस्त्वागतमन्तकं नच विवेदात्यन्तमूढाशयः ॥ ७॥ उपस्थितायामथ पञ्चतायां
भयङ्करांस्त्रीन् यमराजदूतान् । दृष्ट्वाप्लुतेनाकुलधीः स्वरेण
नारायणेत्यर्भकमाजुहाव ॥ ८॥ आर्या. तावत् तन्मुखगलितश्रीहरिनामाक्षरैकमाहात्म्यात् ।
दिव्यस्वरूपवन्तो माधवदूताः समापतन्नारात् ॥ ९ ॥
गानं-५.
आहरि. अटतालः.
वारयामासुरमी हरिदूता याम्यानधिकजवेन वारयामासु च. (१) वीक्ष्य पाशेनावलयितमेनं
निरुपमकदनावहेन मा मा नयत विमुञ्चत सहसा यूयममुमिति बलेन
वारयामासु (२) तदिह निशम्य वचो यमदूता
जगदुरमूनन्तकेन सम्प्रेषिता हि वयं विनिवारिता वदत केन कारणेन
वारयामासु
९. ‘वैष प ग. पाठः.________________
छन्द. भुजगशायिनो नाम मङ्गलं
परमजानतापीह कीर्तितम् । दहति पाप्मनां जालमञ्जसा
भुवि शिखी यथा दारुसञ्चयम् ॥ १४ ॥ आर्या. यदि खलु वः सन्देहो धर्मेऽस्मिन् परमुदीरितेऽस्माभिः ।
पृच्छत संयमिनीशं स्वं पतिमेवाशु धर्ममर्मविदम् ॥ १५ ॥ श्लो. श्रुत्वा श्रीहरिसेवकैर्निगदितामेताममी भारती
दिव्यं भागवतं च धर्मममलं नियि ते सत्वरम् । निर्मुच्यामुमजामिलं सुविवशं याम्याच पाशात् ततो
मृत्योस्तावदमूमुचन्नथ भटाः सूनोस्त्विषामीशितुः ॥१६॥
गानं–७. बिहाग. आदिः.
प. ननामाखिलेशानुगानसौ मुदामेयया च. (१) पाशाद् विमुक्तोऽसौ तदा प्रकृतिमितो निजां
भासितानुरुवनमालया (२) श्रीपद्मनाभे मानसं दधौ गुणान् निशमयन्
विरहितो घनपापबाधया
ननाम
ननाम
आर्या. आत्मकृतं पुनरशुभं संस्मरतोऽथास्य भूमिदेवस्य ।
बन्धविमोचनहेतुः पश्चात्तापो महानमूदेवम् ॥ १७ ॥
भैरवी. बिलन्दि. प. मुधैव यातानि दिनानि शतं अ.
हा मम कुलटायामिह दधतो मानसमनवरतं मुधैव च. (१) भामिनीमिह निजामपि विहाय कृतं कर्म मयावमतं ।
जरठौ मातापितरौ गमितौ शोकमहो विततं मुधैव (२) क्षुधिततमाय वै भूमिसुराय हन्त यथाभिमतं
नैव वितीर्ण जातुचिदन्नं घिमां पापरतं मुधैव________________
च. (३) तीर्थकुलेऽपि नो स्नातं शुभदे तेजो मम विहतं
पङ्कजनाभपदसरोरुहयोः सकृदपि नैव नतं
मुधैव
आर्या. उत्पथगैरिह भोज्ये धर्मनैरेष दारुणे नरके।
नूनं सपदि पतिष्यति पुरुषो हा हन्त गर्हितः सद्भिः ॥१८॥ श्लो. ये मां व्यकर्षन्निह पाशहस्ता
भयङ्करास्ते क्व गतास्त्विदानीम् । व्यमोचयन्मां सहसा हि तेभ्यो
ये तेऽपि याताः क्व मनोज्ञरूपाः ॥ १९ ॥ आर्या. क्वासौ पापतमोऽहं कचखलु नारायणेति नाम शिवम् ।
तस्मात् तथा यतिष्ये मग्नो न स्यां यथा पुनर्मोहे ॥२०॥
गानं–९.
बिभास्. अटतालः. इति समुपागतनिर्वेदोऽयं गङ्गाद्वारमवाप्तः सहसा तत्र देवसदने विलसन् देवं माधवमचिन्तयदिह हृदि तरसा तदनु विलोक्यासौ तानेव दूतान् । शौरर्ववन्दे विनतेन शिरसा शोषितांहोमयकर्दमराशिः श्रीपद्मनाभपदाम्बुजरजसा
इति समु
इति समु
इति समु
श्लो. तीर्थे मुक्त्वा शरीरं सपदि स भगवत्पार्षदानां स्वरूपं
गृह्णन् तैरेव साधु विमलतममथारुह्य हैमं विमानम् । प्राप्तो वैकुण्ठमाचं सुरमुनिनिवहैर्भक्तियुक्तैः समेतं यत्रासौ देदिवीति श्रितविबुधतरुः पद्मनाभो घनाभः ॥२१॥________________
श्रुत्वा यमोऽथ निजभृत्यमुखादुदन्तं
भक्तेषु वै मधुरिपोस्तु न गच्छतेति । संवार्य तान् निजमघं परिमाटुकामः
संप्रार्थयन् मुहुरवन्दत पद्मनाभम् ॥ २२ ॥ पापः सोऽयमजामिलाख्यधरणीदेवो विमुक्तिं गतो
यन्नामग्रहणेन सोऽथ भगवान् कारुण्यलेशेन नः। आयुःश्रीसुखकान्तिकीर्तिविजयान् दद्यादजस्रं मुदा श्रीभूमीपरिवेष्टितो निरुपमः श्रीपद्मनाभो हरिः ॥२३॥ इति अजामिलोपाख्यानं समाप्तम् ॥
शुभं भूयात् ।________________
श्लोकानुक्रमणी।
लाकः.
पृष्ठम्.
अष्टाशौतिवयस्कः आत्मकृतं पुनरशुभं आरभमाणे इति कथितां याम्यभेटैः इतीरितेयं इत्थं विचिन्त्य इमां निशम्य भारती उत्पथगैरिह उपस्थितायामथ एवं विनिश्चित्य कथयामासतुरेतौ कन्याकुब्जे किञ्च जन्मशतकोटि क्वचित् त्रयीपाठ क्वासौ पापतमोऽहम् गङ्गाधराहत गत्वा स्वकीय गुल्मत्रयं स समात्य गेहे गेहे स खलु तत्र तदानी तथापि कल्याणि! तस्य च दयिता तावत् तन्मुखगलित तावत् पर्यचरत् तीर्थे मुक्त्वा शरीरं दृष्ट्वा तदाथ
पृष्ठम्. श्लोका. ११ दृष्ट्वा त्रिभुवनपतिना १४ दृष्ट्वा दूरे
६ द्विजो निशां तां १३ निजसदनं प्रति ३ निदेशपाला यदि
पन्नगशयनपदाज १३ पापः सोऽयं १५ प्रणष्टे स्वपित्र्ये १२ भर्तुर्वक्षसि ९भुजगशायिनो नाम ५ भुजानः प्रपिबन् १० मह्यं किमानीत १३ मुदितः स चैव
४ यदि खलु वः सन्देहो १५ ये मां व्यकर्षनिह १ योऽसौ दीनं कुचेलं ८ विचिन्तयन्ने ४ विज्ञायागमहेतुं २ विशन् पुरान्तः ४ विस्मयहर्ष ३ श्रुत्वा यमोऽथ २ श्रुत्वा श्रीहरिसेवकः १२ \। सान्दीपनेरथ
५ स्वधर्माद् विरम्याशु १५ स्वैरिण्या परिरब्धः________________
रागानुक्रमणिका।
रागः.
पृष्ठम्.
१३.
अठाण आहरि काफी कामोदरी काम्बोधि खट् झञ्झोटि
\। रागः. पृष्ठम्.
धन्यासि ४. पूर्वी २. बिभास् ९, १५. बिहाग ७, १४. भैरवी १४. मध्यमावती ३. यमुनाकल्याणी २, ५, ८. यमकल्याणी १०.
तोटी.
दिण्डि________________
कुचेापारूमानानानु मांगा।
गानम्
रागः
गानसाधा
यमुनाकल्याणी
॥
पूर्वी
बिहाग
र
कामोदरी
खद
५ अमुना भूमिदेवेन ८ अहह नैव जाने
जगतीनायकं व्रजामि जलधिसुतारमणेन पूर्णचन्द्राननम् भज भज मानस! भजसि न किं बत! माधवालोकनं नूनं सन्ददर्श भूसुरमणिः साधु तदा निज स्मरति नु मां सदयं स्मरसि पुरा गुरु
यमुनाकल्याणी
बिभास्
धन्यासि CI
तोटी
।
मध्यमावती काफी
अजामिलोपाख्यानगानानुक्रमणिका ।
पृष्ठम्
गानम्
रागः
गानसङ्ख्या
१५ इति समुपागत ११ कुटिलामसती १३ धर्ममार्गपालसभा १४ ननामाखिलेशानुगानसौ
नामसुधामयि पिब मुधैव यातानि वारयामासुरमी
विपिनमसौ समगात् ११ समालोक्यासौ
बिभास झेन्झोटि अठाण बिहाग काम्बोधि भैरवी आहरि यमकल्याणी दिण्ड________________
RS. AS. P, No. 9-विरूपाक्षपश्चाशिका Virupaksapancasika
(Vedānta) by Virūpā kşanātha with the commentary of Vidyacakra
vartin (out of stock). O 8 0 No. 10-HIT FIAT Matangalila (Gajalakşaņı)
by Nilakantha (out of stock)! 0 8 0 No. 11-तपतीसंवरणम् Tapatisamvarana
(Nataka) by Kulasekhara Varma with the commentary of Sivarama
(out of stock). 2 40 No. 12–qtarfaith Paramarthasara (Vedānta)
by Adibeșa with the commentary of
Rāghavānanda (out of stock). 0 8 0 No. 13-सुभद्राधनअयम् Subhadradhananjaya.
(Nataka) by Kulasekhara Varma with the commentary of Sivarāma
(out of stock). 200 No. 14-atferc: Nitisara (Niti) by Kāmandaka, with the commentary of Sankarārya
(out of stock). 3 8 C No. 15-Fahraa Svapnavasavadatta
(Nāțaka) by Bhāsa (second edition). 1 8 No. 16-afareittarou Pratijnayaugandha
rayana (Nā taka) by Bhāsa
(out of stock). 1 8 0 No. 17-9474 Pancharatra (Națaka) by
Bhāsa (out of stock). 1 0 0 No. 18-aftrauitera Narayaniya (Stuti) by Närāyaṇa Bhatta with the commentary of Desainangalavārya
(out of stock). 400 No. 19-ATTACitest: Manameyodaya (Mímāmsā) by Nārāyaṇa Bhatta and Nārāyaņa
Paņqita (out of stock). 1 4 0 No. 20- Ar Avimaraka (Nataka) by
Bhāsa (out of stock). 1 8 0 No. 21-ansata Balacarita (Nāțakıl) by
Bhāsa (out of stock). 100________________
3
R8, AS. P. No. 22-AZHETI TT-calfa-garetta-AUTO
EHFT Madhyamavyayoga-Duta -
vakya-Dutaghatotkaca-Karnabhara and Urubhanga (Nāțaka)
by Bhāsa (out of stock). 1 8 0 No. 23-Arareturering: Nanartharnavasam
ksepa (Koša) by Keśavasvāmin (Part I, 1st and 2nd Käņdas).
(out of stock). 112 0 No. 24-hengfort: Janakiparinaya (Kāvya)
No. 25–Tutt allant Kanadasiddhantacandrika (Nyāya) by Gangādhara
sūri (out of stock). O 12 0 No. 26—377 allein Abhisekanataka by
Bhāsa (out of stock). 0 12 0 No. 27-Acara: Kumarasambhava (Kāvya)
by Kalidasa with the two commentaries, Prakāsikā of Arunagirinātha and Vivaraņa of Nārāyaṇa Pandita (Part I, 1st and 2nd Sargas)
(out of stock). 1 12 0 No. 28-TEFTATTN: Vaikhanasadharmaprasna (Dharmasútra) by Vikhanas
(out of stock). 0 8 0 No. 29-aranterturarieta: Nanartharnayasam -
ksepa (Kosa) by Keśavasvämin
(Part II, 3rd Kāņķa) (out of stock). 2 4 0 No. 30—areglan Vastuvidya (Śilpa) (out of
stock) 0 12 No. 31-amareruter erat: Nanartharnavasam -
ksepa (Koša) by Kesayasyāmin (Part III, 4th, 5th and 6th
Bāņdas). 1 0 0 No. 32–FACEFHE: Kumarasambhava (Kāvya),
by Kālidāsa with the two coinment
aries, Prakātikā of Aruņagirinātha and Vivaraņa of Nārāyaṇa l’apdita Part II, 3rd, 4th and 5th Sargas)
(out of stock). %________________
RS. AS. P. No. 33-EROTIHE: Vararuoasangraha
(Vvākarana) with the commentary Dípaprabhā of Nārāyaņa
(out of stock). 0 8 0 No. 34-Aforador: Manidarpana (Nyāya) by
Rājacūļāmaņimakhin. 1 4 0 No. 35-APOTER: Manisara (Nyāya) by Gopf
nātha. 1 8 0 No. 36-ATTFTTHA: Kumarasambhava (Kavya)
by Kālidăsa with the two commentaries, Prakāsikā of Aruņagirinātha and Vivasaņa of Nārāyaṇa Pandita
(Part III, 6th, 7th and 8th Sargas). 3 0 0 No. 37—Traitang 4 Asaucastaka (Smộti) by
Vararuci with commentary. 0 4 No. 38-नामलिङ्गानुशासनम् Namalinganusasana.
(Koša) by Amarasimha with the commentary Tikāsarvasva of Vandyaghatīya Saryānanda (Part I, 1st
Kāņda). 2 0 0 No 39 arbati Carudatta (Nāțaka) by Bhāsa
(out of stock). O 12 0 No. 40. VEERETH Alankarasutra by Rājānaka
Ruyyaka with the Alankārasarvasva of Mankhuka and its commentary by
Samudrabardha (second edition). 2 8 0 No. 41—3723HY264 Adhyatmapatala (Ve
dānta) by Apastamba with Vivarana of Sri Sankara-Bhagavat-Pāda
(out of stock). 0 4 0 No. 42-afarurale* Pratimanataka by Bhāsa
(out of stock). 180 No. 43—Trafestgamta Namalinganusasana
(Koša) by Amarasimha with the two commentaries, Amarakośodghatana of Kęsrasvāmin’ and Tīkāsarvasva of Vandyaghatīya Sarvānanda (Part II,
2nd Kanda, 1-6 vargas). 2 8 0 Nə. 44-4 h Tantrasuddha by Bhattāraka
Vedottama. 0 4 0________________
RS. AS. ? No. 45–59769a Prapancahrdaya. 10 C No. 46- Tarrara: Paribhasavrtti (Vyā
karaņa)by Nīlakantha Díkşita. 0 8 0 No. 47-fergrafarempah Sidhantasiddhanjana (Vedārīta) by Kyşņānanda Sarasvati
(Part I.) 1 12 0 No. 48–FAEFTETE Do. Do.
(Part II). 2 () O No. 49-vezifenil Goladipika (Jyotişa) by
Parameśvari. 0 4 0 No. 50-Talat’ : Rasarnayasudhakara
(Alankâra) by Singa Bhūpāla. 3 0 0 No. 51-ATARIATETAĦ Namalinganusasana
(Kośa) by Amarasimha with the two commentaries, Amarakośodghățana of Kķirasyāmin and Tīkāsarvasva of Vandyaghatiya Sarvānanda (Part III,
2nc Kanda, 7-10 vargas). 2 0 0 No. 52-नामलिङ्गानुशासनम् Namalinganusasana
(Koša) by Amarasimha with the commentary Tikâ sarvasva of Vandyaghatîya Sarvânanda (Part IV, 3rd
Kända). 1 8 0 No. 53—27acfada: Sabdanirnaya (Vedântaj by
Prakâsâtmayatîndră. O 12 0 No. 54 Filegrarefart: Sphotasiddhi
nyayavichara (Vyakaraņa). 0 40 No. 57-ATTAREFAH Mattavilasaprahasana (Nâțaka) by Mahendravikrama
varunan. 08 0 No. 56-ATGIOTENSI Manusyalayaca
ndrika (Silpa) Tout of stock). 0 8 0 No. 57-रघुवीरचरितम् Raghuviracarita
(Kîvya). 1 4 0 No. 58-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana (Vedânta) by Krsnananda Sarasvati
(Part III). 200________________
RS. AS. P. No. 59— AFC Nangananda (Nâ taka) by
Harsadeva with the commentary Vimarsins of Sivarâma (out of
stock). 3 4 0 No. 60-gaala: Laghustuti by Laghubhattâraka
with the commentary of Rayhavânanda. 0 8 0 No 61-fasetrafta Siddhantasiddhanjana (vedânta) by Rrşnânanda Sarasvati
(Part IV). 1 4 0 No. 62- THTHAE: Sarvamatasangraha. 080 No. 63-facrargareta Kiratarjuniya (Kavya)
by Bhāravî with the commentary Sabdârthadīpika of Citrabhânn (1, 2
and 3 Sargas). 280 No. 64- aar: Meghasandesa by Kalidasa with the commentary Pradipa of
Dakşiņâvartanātha. 0 12 0 No. 65–Thah Mayamata (Šilpa) by Maya
muni (out of stock). 3 4 0 No. 60-HETARET Maharthamanjari (Darbuna) with the cominentary Parimala of
Maheśvarânanda. 24 0 No. 67—IFFERENUT: Tantraasamuccaya (Tantra)
y Nârûyapa with the commentary
Vimarsini of Jankara (Part I,
1-6 Patalās) (out of stock).’ 3 4 0 No. 68- SETST: Tattvaprakasa (Agama) by
Śrī Bhojadeva with the commentary
Tâtpa-vadipika of Sri Kunāra. 1 12 0 No. 6)-Traferayaanefa: [senasivaguru
devapaddhati(Tantra)byĪsa nativagurudevamiéra Part I, Sâmānya.
pâda). 1 8 0 No. 70-Trefasstafet: Aryamanjusrimulakalpa (Part I).
2 & 0 No. 71-JTHET: Tantrasamucoaya(Tantra)
by Nûrî yaņa with the commentary Vimarsins of Sankara(Part II, 7–12
Patalās) (out of stock). 3 8 0________________
RS. AS. P. No. 72-aararaarsla: Isanasivaguru
devapaddhati (Tantra) by Isānasira
gurudevamisra (Part II, Mantrapāda). 400 No. 73-9acafayfa : Isvarapratipatti
prakasa (Vedānta) by Madhusūdanasarasvati.
- 0 4 0 No. 74- Freza: Yajnavalkyasmrti with
the commentary Balakridâ of Visvarû pâcârya. (Part I –Åcara and Vyavahâra Adhyâyās).
3 4 0 No. 75-Fataycan Silparatna (Šilpa) by Sri
kumara (Part I). 2 12 0 No. 76—arfasexftistica: Aryamanjusrimula
kalpa (Part II). 3 0 0 io. 77-aralararadauga: Isanasivaguru
devapaddhati (Tantra) by Iśānasiva. gurudevamiéra (Part III, Kriyāpāda
1-30 Patalās). 3 0 0 No. 78—371ATTUTTE Asyalayanagrhya
sutra with the commentary Anăvila of Haradattācārya.
260 No. 79-spelaren Arthasastra of Kattalya with
commentary by Mahamahopadhyāya T. Ganapati Sāstri (Part I -1 & 2 Adhikaraņis).
3 12 0 No. 80-salah Do. Do. (Part 11–3-7 Adhikaraņās).
4 0 0 No. 81–8 rra:Yajnavalkyasmrti with
the commentary Bâlakrida of Visvarūpācārya (Part II. Prayascittadhyaya).
2 0 0 No. 82- CÆ Arthasastra of Kautalya
with commentary by. Mahâınabopādhyāya T. Ganapati Sāstri (Part III,
8-15 Adhikaraņās). No. 83-sarafraganefa: Isanasivaguru
devapaddhati (Tantra) by Tšāna sivagurudevamisra (Part IV, Kriya pāda 31–64 Patalas and Yogapāda). 3 8 0
3
4
0________________
deva.
080
RS. AS. P. No. 84—377fAsgafreq: Aryamanjusrimula a kalpa (Part III).
200 No. 85–fararega Visnusamhita (Tantra). 2 8 0 No. 86-HGEFA Bharatacarita (Kavya). by Krşņakavi.
18 0 No. 87- IGHTETT: Sangitasamayasara (Sangsta) of Sangitakara Pârsva
1 2 0 No. 88-9674 T: Kavyaprakasa (Alankâra) of{Mammaţabhatta with the two com
mpradāya prakāśins of Sri Vidyācakravartin and the Sâhityacadâmaņi of Bhattagopâla
(Part I, 1-5 Ullâsās). 3 0 0 No. 89-Führefare: Sphotasiddhi (Vyākaraṇa)
by Bharatamiśra. No. 90-HHIAR at Mimamsasloka
vartika with the commentary Kābika of Sucaritamiéra (Part I).
2 8 0 No. 91-ENTRETH Horasastra of Varāhamihirā
cārya with the Vivaraņa of Rudra. 3 0 0 No. 92-Taghara Rasopanisat. No. 93-वेदान्तपरिभाषा Vedantaparibhasa
(Vedānta) of Dharmarājādhvarindra with the commentary Prakasika of
Peddādīkşita. 1 8 0 No. 94- caft Brihaddesi (Sangita) of
Matangamuni. 1 8 0 No. 95–Tuetfair Ranadipika (Jyotişa) of
Kumāragaņaka, 0 4 0 No. 96-#fifear Rksamhita with the Bhāşya
of Skandasvāmin and the commentary of Venkatamādhavārya (Part I, 1st
Adhyāya in 1st Aştaka). 1 8 0
2
0
0
of________________
Rs. As. P. No. 97-ATEATAEar Naradiyamanusamhita
(Smrti) with Bhāşya of Bhavasvamin. 2 0 0 No. 98—Paragrah Silparatna (Šilpa) by Śrf
kuināra. 2 8 l No. 99-ATATAN Mimamsasloka
vartika (Mīmāmsa) with the commentary Kasikā of Sucaritamiéra
(Part II). 2 0 0 No. 100-T9 17:Kavyaprakasa (Alankāra)
of Mammațabhațța with the two commentaries, Sampradāyaprakāśins of Srīvidyācakravartin and Sāhityacūdamaņi of Bhattagopāla. (Part II,
6–10 Ullāsās). 5 j0 No. 101- SHOTT Aryabhatiya (Jyotişa) of
Aryabhatācārya with the Bhāşya of Nīlakaņķhasomasutyan (Part I.
Gañitapāda). 2 8 0 No. 102-arch Dattila (Sangīta) of Dattila
muni. 0 4 0 No. 103-AAREST: Hamsasandesa (Vedānta) with commentary.
08 No. 104-Faqattet Sambapancasika
(Stuti) with commentary. No. 105-fargeta: Nidhipradipa of Siddha
érikaạthaśambhu. No, 106-01 Tarif Prakriyasarvasva.
(Vyākaraṇa) of Śrī Nārāyaṇa
Bhatta with commentary (Part I.) 100 No. 107 YCAKavyaratna (Kavya)
of Arhaddása 0 120 No. 108-aisaratuslarry Balamartanda
vijaya. (Nāțaka) of Devarājakavi, 180 No. 109-TTTER: Nyayasara with the
commentary of Vāgudsvasari. 1 8 0
040________________
RS.
AS. .
AM
La rabhatustry with the Bhagya Habarbaromasatvan.(Part II.
Kalakriyapada) 100 M- Bridayapriya (Vaidyaka) by Paramourara.
00 118
runteren eremiti Tocalopakbruna and Ajamilopalthyana (sangita) by H. H.
Svati Sri Rama Varnia Maharaja. 040 dyply to:
The Curator for the publication of Oriental Manuscripts,
Trivandrum.
]