[[स्वरमेलकलानिधिः Source: EB]]
[
॥ श्रीरस्तु ॥
श्रीमदभिनवभरताचार्यवाग्गेयकारतोदरमल्ल-
तिम्मामात्यनन्दन-
रामामात्येन निर्मितः
॥ स्वरमेलकलानिधिः ॥
——————
श्रीनवसालनाम्नि राज्ये मुद्राधिकारे नियुक्तेन
संस्कृतविद्यानैपुण्योपात्त येम्. ये. बिरुदविराजमानेन
एस्. नारायणस्वामिशर्मणा
संशोधितः ।
———
RAMAMATYA’S
S V A R A M E L A K A L A N I D H I,
(A work on Music)
EDITED BY
S. Narayanaswami Aiyar, M. A.,
of the Pudukkottai State Service.
कुम्भघोणस्थ “श्रीविद्यामुद्राक्षरशालायां”मुद्रापितस्सन्
विजयतेतराम् ॥
श्रीरस्तु ।
मूल्यं पादरूप्यकम् ] १९०६ \Price Ans. 4.
——
Copyright Reserved.
PREFACE.
_______
Swaramelakâlanidhi seems to have been once a popular book. Manuscript copies of the work have been preserved in many libraries of books on Music in several parts of India; but as these are not easily available to the public, the book has been printed so as to make it accessible to all.
Râmâmâtya, the author of the book, was a Niyogi Brahmin of the Todaramalla family, which was once well-known in and about Rajamundri, but is said to be now extinct. His father was one Timmâmâtyâ, of whom very little is known. Râmâmâtya seems to have been a distinguished musician and composer (vâggeyakâra) and earned by his proficiency in the science and art of Music the title of Abhinava Bharatâchârya or ‘the modern Bharata.’Among his musical compositions are mentioned ‘Râgakadambakam’, of which the several portions are to be composed in different râgas; ‘Panchatâlesvaram’ of which the different parts are to be adapted to the once prevalent five original * [tálas1; Svarânkam, Mátrikâ, Srîràngam, Srîvilâsam, &c, for the composition of which prabandhas elaborate rules are laid down in Sangitaralnákara, the standard treatise on Hindu Music. Râmâmâtya lived in the sixteenth century and was a minister of Râma Râja, the ill-fated king of Vijianagar that was defeated and slain in 1565 at Talikota. The minister was held in great respect by the king, from whom he received the grant of a large estate on the Coromandel Coast and a fort in the principality of Kondavîdu (near Guntur) that was then subject to Vijianagar. None of the works montioned above seem to have been preserved anywhere.
From the colophon+ at the end of the book, it will be found that the book was completed in the Srâvana month of
____________________________________________________________________________________________
*These live talas are said to have procceded from the five faces of Sankara
- शाकेनात्रधराधराब्धिधरणीगण्येऽथसाधारणे
वर्षे श्रावणमासि निर्मलतरे पक्षे दशम्यां तिथौ।
रामामात्यदिनिर्मितस्स्वरततेर्निर्मथ्य रत्नाकरं
सोऽयं मेलकलानिधिर्मतिमतामाकल्पमाकल्पताम्॥
Saka 1472—i e., in August—September of 1550 A.D. The circumstances in which the book was composed are referred to in the prefatory portion of the book. While Râma Râjâ, king of Vijianagar was, with his brothers Timma Râjâ and Venkatadri Râjâ, listening to the sweet discourse of Râmâmâtya’s music, Venkâtadri Raja referred to the conflicting views that, then prevailed with reference to the many questions connected with the science and art of Music, and requested Râmâmâtya to compose a work reconciling the differences. The request was supported by the king Ráma Râjâ, who knew of no better person for undertaking the work, as he thought that, while others knew only the theoretical or the practical side of the subject, Râmänâtya was an expert in both. The minister-musician felt that he was bound to respect the wishes of the king from whom he had received many favours and set about to compose a simple faultless work based on the Sangîtaratnákara.
The book, which from this account may be taken to be flawless, came in for very severe criticism from Venkatamakhi, (son of Govinda Dikshitar, a minister of a Naik king of Tanjore) who, in his Chaturdandiprakâsika, has written that, for the incaalable mischief that Ràmâmâtya caused by his wrong classification of melas, he could not escape punishment in the next world, even though he might go to Râmesvaram and have a purificatory bath there.
The book is divided into five portions as shewn below:—
(1) The prefatory portion, in which the author gives an account of the circumstances in which he wrote the book and of the plan on which the work was composed.
(2) The Svara portion, containing with other matter an account of the Srutis and Svarams.
(3) The Vina portion, in which four kinds of the Vina instruments are described.
(4) The Mela portion, in which it is shewn that the rágas can be divided into twenty (or fifteen) classes.
(5) The Râga portion, in which the peculiarities of many Râgas or tunes are pointed out.
The manuscripts on which this printed book is based are those of theSvaramelakalânidhi in:—
A. The Madras Oriental Manuscripts Library.
B. The Tanjore Palace Sarasvatimahâl Library, (For a portion).
C. The Library of Brahma Sri Subbaráma Dîkshitar, a musician and composer of the Ettayapuram Samastânam.
Of manuscripts A and B, copies were got through Mr. P. Varadáchâryar, B. A.. Head Munshi, Oriental Mss. Library, Madras and Mr. T. S. Kuppuswâmi Sâstriyar, Teacher, Training School, Tanjore respectively, and the manuscript C was sent to me directly by its owner. I have to thank these three gentlemen for their kindness, as also my esteemed brother, Mr. S. Radhâkrishna Aiyar, B A, Principal, Maharaja’s College, Pudukkottai, for several valuable suggestions that I have received from him, and Brahma Srî Radhakrishna Sâstriyar, Teacher of Sanskrit Literature and Rhetoric, Sanskrit Pâthasâla, Pudukk tai, for his kindness in reading the proofs.
11th April, 1906.
PUDUKKOTTAI
THE EDITOR.
॥श्रीरस्तु॥
॥ स्वरमेलकलानिधौ ॥
उपोद्धातप्रकरणं ( पूर्वभागः)।
_______________
श्रीरङ्गैकनिधिर्गभीरललिताकारस्स्वराप्तिश्रुति-
ग्रामोदारपदैकतानविलसद्भक्तिप्रवीणावृतः।
श्रीरङ्गप्रणयीसनातनसमुत्तालाभिरामक्रियो
नादब्रह्ममयः प्रसाधितवपुर्नारायणस्त्रायताम्॥१॥
पुरा पुराणो मुनिराविरासीत् मुरारिनाभीनलिनान्तरालात्।
सङ्गीतसारः किल सामवेदात् वेदान्तशास्त्रादिव तत्वबोधः॥२॥
अस्मादभूदत्रिरमुष्य नेत्रात् अमर्त्यबन्धुर्विधुराविरासीत्।
यत्पादसङ्गादखिलाश्च गङ्गानद्योभरः सद्मकृते पयोधेः॥३॥
अक्षीभवन्कुक्षिभवो मुरारेर्ददर्श यत्कारणकाव्यसाह्यम्।
कलानिधिर्योऽनवगीतरत्नाकरं च पुष्णाति कनत्प्रवालम्॥४॥
ततो बुधोऽभूत्तनयोऽस्य तस्मात् पुरूरवाःपुण्यकृदायुरस्मात्।
यातितातो नहुषोऽपि तस्य वंशे बभूवुर्भरतादयोऽन्ये॥५॥
एषां कुलालंकृतिरेषजज्ञे श्रीरङ्गनाथो जितराजराजः।
तया सदाचारदृशा विविन्ते राजर्षिभावं रमितक्षमो यः॥६॥
तिम्माम्बिका तस्य बभूव देवी साध्वीजनानामिव या समष्टिः।
सती यशोदा विनताऽनसूया सुदक्षिणा सत्यवती सुभद्रा॥७॥
तपोविशेषेण तयोरशेषराजाधिराजोऽजनि रामराजः।
कन्याप्रदोऽस्मै स हि कृष्णरायः कन्यापितृत्वं बहुमन्यते स्म॥
भुजो यदीयो भुजगेन्द्रजेता भुवं बिभर्तीति न विस्मयाय।
चेतोऽणुमात्रं जगदेकधुर्यंशेषाचलेशं बहतीति चित्रम्॥९॥
यः खड्गैकसखस्सहानुजयुगो निर्गत्य विद्यापुरात्
लब्ध्वा गुत्तिगिरौ सदाशिवमहीपालं निरालम्बनम्।
स्वामिद्रोहकृतः प्रतीपनृपतीन्निर्जित्य भद्रासने
कर्णाटे भगवानिव ध्रुवमयं कीर्त्या सहास्थापयत्॥१०॥
दधीचिराधेयशिविक्षितीशं जीमूतवाहादिमजीवनाङ्गैः।
अवाप्तमूर्तेरिह येन कीर्तेर्भाति प्रणीतं भुवि वल्लभत्वम्॥११॥
तस्यानुजौ विश्रुततिम्मराज श्रीवेङ्कटाद्रिक्षितिपावभूताम्।
अजातशत्रोरभिजातवृत्तेः भीमार्जुनौ भीमभुजाविवार्यौ॥१२॥
अमुक्तपार्श्वद्वितयोऽनुजाभ्यां रामावतारो भुवि रामराजः।
दिवानिशं दीव्यति शीतभानुदिवाकराभ्यामिव रत्नसानुः॥१३॥
विजित्य सर्वानपि पारशीकान् रणेषु तत्कीर्तिपटच्चराणि।
आधूय भूयो हरितो वधूटीः विशोभयत्येष यशोदुकूलैः॥१४॥
श्रीरामयामात्यवरेण रत्नकूटाभिधं कारितमेष सौधम्।
आलोकयन्निर्जितवैजयन्तं हर्षोद्धुरो विस्मितमानसोऽभूत्॥१५॥
अनेकतेजोनिधिराजहंससमाकुलं नित्यमनन्तजिष्णुम्।
नानासुधर्मावलिनर्मवासमन्यं सुमेरुं समुदाहरन्ति॥१६॥
मन्दानिलाकम्पितवैजयन्ती मन्दारशाखाव्यतिघट्टनेन।
आरामलक्ष्म्या मरुतां तनोति हल्लीसलीलामिव यस्य लक्ष्मीः॥
पर्वेन्दुबिम्बोपलसीम्नि पादमारोप्य यस्मिन्नधिवासवत्यः।
पाञ्चालिकानां मिथुनानि कन्याः पाणिग्रहं प्रापयितुं यतन्ते।
सौधान्तरेऽस्मिन् कुरुते प्रमोदात् स रामराजस्समयापनोदम्।
सङ्गीतसाहित्यकलाविशेषशेषावतारैर्विबुधैरुपेतः॥१९॥
**सैलारागकदम्बमातृकलसद्गद्यप्रबन्धादिम-
द्वात्रिंशद्वरसूदकानधिगतश्रीपञ्चतालेश्वरान्।
श्रीरङ्गद्विपदस्वराङ्कसहितान्सश्रीविलासादिकान्
त्रिंशद्वासरविप्रकीर्णकमहानर्घप्रबन्धादिमान्॥२०॥चेतोरञ्जनषोडशध्रुवमुखानेकार्थगम्भीरषट्-
चत्वारिंशदुदारसालकमहागूढप्रबन्धान्वितान्।
अन्यान्विंशतिरागविश्रुततमश्रीपञ्चरत्नस्फुर-
द्गीतालंकृतसाक्षराक्षपनपर्यायैरुपेतानपि॥२१॥**
स वैणिकैस्संसदि गीयमानान् समञ्जसश्रावककण्ठनादैः।
श्रीरामयामात्यकृतप्रबन्धान् आकर्ण्यकर्णाभरणान्यनन्दत्॥२२॥
अत्रान्तरे संसदि रामराजं सङ्गीतसाहित्यविनोदभाजम्।
वेलानुरूपं विनयादवादीत् श्रीवेङ्कटाद्रिक्षितिपालसिंहः॥२३॥
सङ्गीतशास्त्रे बहुधा विरोधास्सन्त्येव लक्ष्येषु च लक्षणेषु।
सर्वंसमीकृत्य स राममन्त्री तनोतु शास्त्रं वचसा तवेति॥२४॥
अथासनस्यान्तिकभाजमेनं अधीतसङ्गीतकलारहस्यम्।
श्रीरामयामात्यमिदं बभाषेश्रीरङ्गराजाधिपरामराजः॥२५॥
विजानते लक्षणमात्रमेके विदन्ति लक्ष्यं कतिचिज्जगत्याम्।
सल्लक्ष्यलक्ष्मोभयसारवेदी सन्दृश्यते नैव भवानिवान्यः॥२६॥
विद्यानिधिः कल्लपदेशिकस्ते मातामहो दत्तिलवन्महीयान्।
गान्धर्वशास्त्रेषु ततोऽपि तानि तत्सम्प्रदायेन तव स्फुरन्ति॥
सङ्गीतशास्त्रेषु मतान्तराणि सन्त्येषु सारांशमुपाददानः।
संगृह्य सल्लक्षणलक्ष्ययुक्तं सङ्गीतशास्त्रं सरसं विधेहि॥२८॥
मतानुवृत्त्याभरतादिमानां स्वरप्रमाणं सुलभं कुरुष्व।
पतञ्जलिःपाणिनिशास्त्रदृष्ट्याशब्दव्यवस्थां कृतवान्यथादौ॥
हृत्पूरितानन्दमिति ब्रुवाणः कर्पूरवीटीमददादमुष्मै।
बादाय तामारचितानुमोदः विचारयामास स राममन्त्री॥३०॥
स एव सर्वाधिककोण्डवीट प्रधानदुर्गप्रतिपादनेन।
पूर्वार्णवेनैव परीतमूर्तेर्विभुत्वमुर्व्या विततार मह्यम्॥३१॥
अस्य प्रसादादमिताग्रहारप्रतिष्ठयाऽनेकमहीसुराणाम्।
आलम्वनं तत्र विधाय तेषां अनुग्रहादाप विशालकीर्तिम्॥
जेलूरिसिह्मासनपट्टणेन युक्तां सरत्नामिव हारवल्लीम्।
वितीर्य मे सश्रमवातिराश्मेरधीशतामस्य तुलामतानीत्॥३३॥
प्रयच्छति प्रत्यहमत्युदारां सम्माननां सादरमेष मह्यम्।
सन्नं जगत्यामुपकर्तुकामः स राजभूरस्य पटुर्मुदेहम्॥३४॥
अचिराद्विरचय्याहं स्वरमेलकलानिधिम्।
तमस्मै चोपदीकृत्य गम्यासं कृतकृत्यताम्॥
सोऽहं सङ्गीतसाहित्यलक्ष्मीदक्षिणनायकः।
इत्थं विचिन्त्य तं राममन्त्री वक्तुं प्रचक्रमे॥
——
॥ श्रीरामजयम् ॥
॥ स्वरमेलकलानिधिः॥
रामामात्य प्रणीतेऽस्मिन् स्वरमेलकलानिधौ।
उपोद्धात प्रकरणं स्वरप्रकरणं ततः॥
वीणाप्रकरणञ्चातो मेलप्रकरणं परम्।
रागप्रकरणञ्चेति पञ्चप्रकरणानिहि॥
उपोद्धातप्रकरणानन्तरं राममन्त्रिणा।
तत्र स्वरप्रकरणे द्वितीये प्रतिपाद्यते॥
गीतप्रशंसा गान्धर्वगानभेदास्ततःपरम्।
स्थानानि श्रुतयश्शुद्धास्स्वराश्चविकृता अपि॥
(सकलस्वरसंज्ञाश्च) लक्ष्यलक्षणसम्मताः।
अथ वीणाप्रकरणे तृतीये प्रतिपाद्यते॥
वीणाप्रशंसा वीणाया मेलनप्रक्रिया ततः।
प्रमाणकरणं शुद्धविकृतस्वरसंहतेः॥
शुद्धमेलाख्यवीणादौ मध्यमेलाह्वये ततः।
तृतीयेच्युतराजेन्द्रमेलवीणेति लक्षिता॥
अथ मेलप्रकरणे तुरीये प्रतिपाद्यते।
मेलानां विंशतिर्भेदाः रागास्तन्मेलसम्भवाः॥
न्यासा अंशा ग्रहास्तेषांनामपक्षान्तरे ततः।
मेलाः पञ्चदशेत्येवं गीते विंशतिरेवतु॥
उत्तरेतु प्रकरणे पञ्चमेप्रतिपाद्यते।
रागानां च त्रयोभेदाउत्तमाधममध्यमाः॥
उत्तमानांमध्यमानांरागाणां लक्षणं ततः।
अधमानां च केषांचित् एतावान् वस्तुसङ्ग्रहः॥
॥ इति श्रीमदभिनवभरताचार्यवाग्गेयकारतोदरमल्लतिमामात्यनन्दन
रामामात्यनिर्मिते स्वरमेलकलानिधौ उपोद्धातप्रकरणं संपूर्णम् ॥
——
सामवेदादिदं गीतं सञ्जग्राह पितामहः।
गीतेन प्रीयते देवस्सर्वज्ञः पार्वतीपतिः॥
गोपीपतिरनन्तोपि वंशध्वनिवशङ्गतः।
सामगीतिरतो ब्रह्मा वीणासक्ता सरस्वती॥
किमन्ये यक्षगन्धर्व देवदानवमानवाः।
अज्ञातविषयास्वादो बालः पर्यङ्किकागतः॥
रुदन् गीतामृतं पीत्वा हर्षोत्कर्षं प्रपद्यते।
वने चरस्तृणाहार श्चित्रं मृगशिशुः पशुः॥
लुब्धो लुब्धकसङ्गीते गीते यच्छति जीवितम्।
कृष्णसर्पोपि तद्गीतं श्रुत्वा हर्षं प्रपद्यते॥
तस्य गीतस्य माहात्म्यं के प्रशंसितुमीशते।
॥इति गीतप्रशंसा॥
गान्धर्वस्वरसन्धर्भोगीतमित्यभिधीयते।
गान्धर्वंगानमित्यस्य भेदद्वयमुदीरितम्॥
अनादि संप्रदायं यत् गन्धर्वैस्संप्रयुज्यते।
नियतं श्रेयसो हेतुस्तत् गान्धर्वंप्रचक्षते॥
यत्तुवाग्गेयकारेण रचितं लक्षणान्वितम्।
देशीरागादिभिः प्रोक्तं तद्गानं जनरञ्जनम्॥
तत्र लक्ष्यानुरोधेन गान्धर्वं संप्रयुज्यते।
तस्य लक्ष्यपरित्यागे प्रत्यवायो न विद्यते॥
तस्माल्लक्ष्यप्रधानं तन्नतल्लक्ष्म प्रधानकम्।
परित्यागेत्र लक्ष्यस्य रञ्जनं नैवजायते॥
तस्माल्लक्ष्यानुरोधेन गानं लोके प्रवर्तते।
सर्वसङ्गीतशास्त्रार्थवेदिना शार्ङ्गसूरिणा॥
गीतेर्लक्ष्यप्रधानत्वमाद्याध्याये निरूपितम्।
यद्वा लक्ष्मप्रधानानि शास्त्राण्येतानि मन्वते॥
तस्माल्लक्ष्यविरुद्धं यत् तच्छास्त्रं नेयमन्यथा।
ग्रहन्यासादिनियमो यद्वा शास्त्रस्य गोचरः॥
ग्रहन्यासस्वराणांतु लक्ष्यस्थानं विरुध्यते।
सर्वत्र परिहारोयं लक्ष्यलक्ष्म विरोधिनी॥
देशीरागेषु कथितश्शार्ङ्गदेवेन सूरिणा।
तेनैव कथिता गाने लक्षणा विततापि च॥
तस्माल्लक्ष्यप्रधानत्वं कृत्वा (वस्वे)!स्वलक्षणम्।
इति गीतस्य सर्वस्य द्विर्भावस्य भिदाद्वयम्॥
आत्मा विवक्षमाणोयं मनः प्रेरयते मनः।
देहस्थं वह्निमाहन्ति सप्रेरयति मारुतम्॥
ब्रह्मग्रन्थिस्थितस्सोथ क्रमादूर्ध्वपथे चरन्।
नाभिहृत्कण्ठमूर्धास्येष्वाविर्भावयतिध्वनिम्॥
नादोतिसूक्ष्मं सूक्ष्मं च पुष्टोऽपुष्टश्च कृत्रिमः।
इति पञ्चाभिधान्धत्तेपञ्चस्थानस्थितः क्रमात्॥
व्यवहारेत्वसौत्रेधा हृदिमन्द्रोभिधीयते।
कण्ठे मध्योमूर्ध्नितारो द्विगुणश्चोत्तरोत्तरः॥
॥इति स्थानानि॥
तस्य द्वाविंशतिर्भेदाश्श्रवणाच्छ्रुतयोमताः।
हृद्यूर्ध्वनाभिसंलग्नानाड्यो द्वाविंशतिर्मताः॥
तिरश्चस्तासुतावत्यश्श्रुतयोमारुताहताः ।
उच्चोच्चतरतांयाताः प्रभवन्त्युत्तरोत्तरम्॥
एवं कण्ठे तथा शीर्षे श्रुतिर्द्वाविंशतिर्मताः।
॥इति श्रुतयः॥
श्रुतिभ्यस्स्युस्वराष्षड्जर्षभगान्धारमध्यमाः।
पञ्चमो धैवतश्चाथ निषाद इति सप्त ते॥
तेषां संज्ञाः सरिगमपधनीत्यपरा मताः।
श्रुत्यनन्तरभावीयस्स्निग्धोनुरणनात्मकः॥
स्वतोरञ्जयतिश्रोतृचित्तं स स्वर उच्यते।
सुव्यक्तमेववीणायामस्यार्थस्य निदर्शनम्॥
तत्र तृर्यश्श्रुतौषड्जस्सप्तम्यामृषभो मतः।
ततो नवम्यांगान्धारस्त्रयोदश्यान्तु मध्यमः॥
पञ्चमस्सप्तदश्यान्तु धैवतो विंशतिश्रुतौ।
द्वाविंश्यान्तु निषादस्स्यात् श्रुतिष्वित्थं स्वरोद्भवः॥
ननु श्रुतिश्चतुर्थ्यादिरस्त्वेवं स्वरकारणम्।
त्र्यादीनां तत्र पूर्वासां श्रुतीनां हेतुता कथम्॥
ब्रूमस्तुर्या तृतीयादिश्श्रुतिः पूर्वाभिकाङ्क्षया।
निर्धार्यतेऽतश्श्रुतयः पूर्वा अप्यत्रहेतवः॥
एते षड्जादयस्सप्त स्वराः शुद्धाः प्रकीर्तिताः।
विकृताश्चैव सप्तैवेत्येवं सर्वे चतुर्दश॥
ननु रत्नाकरे शार्ङ्गदेवेन विकृतास्स्वराः।
द्वादशोक्ताः कथं ते तु सप्तैव कथितास्त्वया ॥
सत्यं लक्षणतोभेदो द्वादशानामपीष्यते।
शुद्धेभ्यस्तत्रभेदस्तु सप्तानामेव लक्ष्यते॥
आधारश्रुतिसन्त्यागात् ध्वनिभेदः प्रकीर्तितः।
पञ्चानां परिशिष्टानां स्वराणां विकृतात्मनाम्॥
पूर्वस्वरश्रुतिर्ग्राह्यातत्पूर्वश्रुति वर्जनात्।
अपि लक्षणतोभेदे पूर्वोक्तस्वरसंहतेः॥
आधारश्रुतिनिष्ठत्वाल्लक्ष्यभेदो न विद्यते।
कथं नभेद इति चेत्सलक्ष्यस्थो निरूप्यते॥
शुद्धषड्जादच्युतस्तु सषड्जो नैवभिद्यते।
अच्युतो मध्यमश्शुद्धान्मध्यमान्नभिदां भजेम्॥
शुद्धर्षभाद्य विकृत ऋषभो न प्रथग्भवेत्।
विकृतो धैवतश्शुद्धाद्धैवतान्नातिरिच्यते॥
मध्यमश्रुत्यपादाने विकृतः पञ्चमस्तु यः।
विश्रुतेर्विकृतानैव पञ्चमाद्भेदमश्नुते॥
तस्माच्चतुर्दशस्वेव पूर्वोक्तेष्वेव पञ्चकः।
अन्तर्भूतो यतस्तस्मान्नप्रथक्कथितो मया॥
सप्तानां विकृतानां तु निर्देशं लक्ष्मचक्ष्महे।
च्युतषड्जश्च्युतो मध्यश्च्युतस्स्यात् पञ्चमस्ततः॥
स्यात् साधारणगान्धारोन्तरगान्धार इत्यति।
स्यात् कैशिक निषादोऽथान्यः काकलिनिषादकः॥
हित्वा चतुर्थस्याधार श्रुतिं षड्जोयदा श्रुतिम्।
तृतीयामाश्रयेदेषच्युतषड्जोभिधीयते॥
एवं लक्षणकालेन च्युतमध्यमपञ्चमौ।
शुद्धस्य मध्यमस्याथ गान्धारश्रुतिमाश्रितः॥
ससाधारण गान्धारोन्तरगान्धार उच्यते।
योमध्यमस्य शुद्धस्य श्रुतिद्वयमुपाश्रितः॥
प्रथमां शुद्धषड्जस्य निषादश्चेच्छ्रुतिं श्रितः।
स कैशिकनिषादाख्यः कथितो गीतवेदिभिः॥
निषादश्शुद्धषड्जस्य श्रयते चेच्छ्रुतिद्वयम्।
सकाकलिनिषादस्स्यादेवं सप्तापि लक्षिताः॥
चतुर्दशस्वरेष्वेषु वक्ष्ये लक्ष्यानुसारतः।
नामान्तराणि केषांचित् व्यवहारप्रसिद्धये॥
च्युतषड्जस्तु लोकेस्मिन् निषादत्वेन कीर्तितः।
च्युतषड्जनिषादाभिधानं तस्य विधीयते॥
च्युतस्थ मध्यमस्यापि गान्धार व्यवहारतः।
च्युतमध्यमगान्धारसंज्ञास्य क्रियते मया॥
च्युतपञ्चममाचष्टे लोको मध्यमसंज्ञया।
अस्माभिः कथ्यते सोथ च्युतपञ्चममध्यमः॥
लक्ष्ये तु कुत्रचित् शुद्ध गान्धारस्थानमाश्रयन।
ऋषभः कीर्त्यतेस्माभिः पञ्चश्रुत्यृषभाह्वयः॥
ससाधारण गान्धारस्थानस्थ ऋषभो यदि।
लक्ष्यानुसारतः प्रोक्तस्ततष्षट्श्रुतिकर्षभः॥
शुद्धे निषादे नामान्यत् स्यात्पञ्चश्रुतिधैवतः।
स्यात् कैशिकनिषादोन्यत् नामषट्श्रुतिधैवतः॥
अथानुवादः क्रियते क्रमादुक्तस्वरावलेः।
वक्ष्यमाणेग्रतोराग मेलने सुखबुद्धये॥
शुद्धास्सप्तस्वराश्शुद्धपूर्वयातत्तदाख्यया।
विज्ञेयाः क्रमशश्शुद्धषड्जश्शुद्धर्षभस्ततः॥
शुद्धगान्धार इति च शुद्धमध्यम इत्यपि।
शुद्धपञ्चम इत्येवं शुद्धधैवत इत्यति॥
ततश्शुद्धनिषादश्चेत्येवं सप्तस्वराभिधाः।
विकृतास्सप्त कथ्यन्ते च्युतषड्ज निषादकः॥
च्युतमध्धमगन्धारः च्युतमध्यमपञ्चमः।
ससाधारणगान्धार स्यात् कैशिकनिषादकः॥
स्यात् काकलिनिषादोऽथान्तरगान्धार इत्यऽपि।
शुद्धगान्धारके तस्य पञ्चश्रुत्यृषभाभिधा॥
साधारणेपि गान्धारे षट्श्रुत्यृषभनाम च।
अस्ति कश्चित् क्वचिद्रागमेलने गानसंमितम्॥
चतुर्दशस्वराह्येते रागेरागे भवन्त्यमी।
पर्यायेण स्वरास्सप्त त्रिस्थानेनाधिकाः क्वचित्॥
॥इति श्रीमद्भिनवभरताचार्यवाग्गेयकारतोदरमल्लतिंमामात्यनन्दन
रामामात्यनिर्मिते स्वरमेलकलानिधौ स्वरप्रकरणं द्वितीयम्॥
____________
स्वराणामथवक्ष्यन्ते ये मेलारागहेतवः।
अभिव्यक्तिस्स्फुटा तेषां वीणायामेवदृश्यते॥
तस्मान्निरूप्यते वीणा लक्ष्यलक्ष्मानुसारतः।
दण्डश्शम्भुरुमातन्त्री ककुभः कमलापतिः॥
इन्दिरा पत्रिका ब्रह्मातुम्बोनाभिस्सरस्वती।
दारकोवासुकिर्जीवा सुधांशुस्सारिका रविः॥
सर्वदेवमयी तस्मात् वीणेयं सर्वमङ्गला।
पुनीते विप्रहत्यादिपातकैः पतितं जनम्॥
दर्शनस्पर्शनेचास्य भोगस्वर्गापवर्गदे।
इति सङ्गीतनिपुणैः मुनिभिर्भरतादिभिः॥
वीणा प्रशंसिता तस्मात् श्लाघनीयतमामता।
धर्मार्थकाममोक्षाणामियमेव हि साधनम्॥
“गायति ब्राह्मणो वीणा गाथिना”विति च श्रुतौ।
अश्वमेधप्रकरणे वीणैका धर्मसाधनम्॥
वीणावादानुरक्तेभ्यो राजभ्यो वैणिकाजनाः।
लभन्ते काङ्क्षितानर्थान् तस्मात् वीणाऽर्थसाधनम्॥
कामयन्तेपि गायन्तं स्त्रिय इत्युदितं श्रुतौ।
गानस्य कामहेतुत्वं गानोत्पत्तिस्तु वीणया॥
वीणावादनतत्वज्ञः श्रुतिजातिविशारदः।
तालज्ञश्चाप्रयासेन मोक्षमार्गं सगच्छति॥
इत्येवं याज्ञवल्क्येन वीणा मोक्षाय शंसिता।
सा च रुद्रप्रियत्वेन रुद्रवीणेति गीयते॥
॥इति वीणाप्रशंसा॥
सा च वीणा त्रिभिर्भेदैर्युक्तालक्ष्ये प्रवर्तते।
तत्राद्या शुद्धमेलाख्या मध्यमेला द्वितीयका॥
त्रितीया च्युतराजेन्द्रमेलवीणेति लक्षिता।
तिस्रोपिचैता वीणास्तु प्रत्येकं द्विविधा मताः॥
सर्वस्थाने तु निखिलैस्सर्वैयुक्तातु याभवेत्।
सा सर्वरागमेलाख्यवीणेति परिकीर्तिता॥
एकैकरागसम्बन्धि स्वरसंमेलनं यथा।
मध्येचालनसारीषु रागमेला द्वितीयका॥
तन्त्री तृस्थानसारीभिर्योजिता सैकतंत्रिणा।
सा मध्यमेलान्तर्भावात् पृथक् लक्ष्येण गृह्यते॥
शुद्धमेला मध्यमेला च्युतराजेन्द्र मेलका।
एतासांतिस्रणांलक्ष्म कथ्यते लक्ष्ममार्गतः॥
तत्रादौ शुद्धमेलाख्यवीणालक्षणमुच्यते।
निर्मितायां प्रवीणेन शिल्पिना लक्ष्यवेदिना॥
वीणावामुपरिस्थाने चतस्रोलोहतन्त्रिकाः।
बध्नीयात्पार्श्वतस्तिस्रोऽधस्ताद्दक्षिणभागतः॥
सप्तस्वेतासु तन्त्रीषु वक्ष्यामस्स्वरयोजनम्।
तत्रोपरिस्थिनानां तु तासां चतसृणामपि॥
आद्यायां स्थापयेत् षड्जमनुमन्द्राभिधानकम्।
अनुमन्द्रं पञ्चमन्तु द्वितीयायां निवेशयेत्॥
त्रितीयायां तन्त्रिकायां मन्द्रषड्जं प्रयोजयेत्।
कल्पयेञ्चस्वरंतन्त्र्यां चतुर्थ्यां मन्द्रमध्यमम्॥
अधस्थानां त्रितन्त्रीणां स्वरयोजनमुच्यते।
प्रथमा मध्यषड्जेन समानश्रुतिरिष्यते॥
द्वितीया तन्त्रिकाज्ञेया मन्द्रपञ्चमसंमिता।
तृतीया मन्द्रषड्जेन संमिता कथिता बुधैः॥
एतास्तिस्रोपिपार्श्वस्थाः कथ्यन्ते श्रुतिसंज्ञकाः।
अथ सारीसन्निवेशं वक्ष्ये वैणिकसंमतम्॥
आद्यानुमन्द्रषड्जाख्य तन्त्र्यां शुद्धर्षभो यथा।
स्यात्तथा सारिकास्थाप्या प्रथमाथ द्वितीयका॥
तत्तन्त्र्यां शुद्धगान्धारसिध्यै स्थाप्याथसारिका।
तृतीया सारिकास्थाप्या पूर्वतन्त्र्यां यथास्फुटम्॥
स्यात् साधारणगान्धारस्स्थाप्यासारी चतुर्थिका।
च्यूतमध्यमगान्धारःपूर्वतन्त्र्यां यथाभवेत्॥
शुद्धमध्यमसिध्यर्थं पञ्चमी सारिका ततः।
निवेश्या पूर्वतन्त्र्यां न षष्ठास्थाप्याथ सारिका॥
यथा व्यक्तस्तथा तन्त्र्यां च्युतपञ्चममध्यमः।
अथापराभिस्तिस्रभिः तन्त्रीभिर्येस्वराः क्रमात्॥
एतासु षट्सु सारीषुजायन्ते तान् प्रचक्ष्महे।
पञ्चमेनानुमन्द्रेण युक्ततन्त्र्या द्वितीयया॥
शुद्धस्याद्धैवतः शुद्धो निषादश्च ततःपरम्।
कैशिकाख्यनिषादोथ च्युतषट्ज निषादकः॥
शुद्धषड्जस्ततश्शुद्धऋषभष्षट्स्वराअमी।
पूर्वक्षिप्तासु सारीषु षट्सु जाता यथाक्रमम्॥
द्वितीययानयातन्त्र्या जातौ षड्जर्षभावुभौ।
शुद्धौमन्द्रौ प्रजायेते पुनस्तन्त्र्या तृतीयया॥
तस्मात् प्रयोगेन ग्राह्यौ जातौतन्त्र्या द्वितीयया।
अनुमन्द्रस्वराः प्रोक्ता वक्ष्ये मन्द्रस्वरानथ॥
तृतीयया मन्द्रषड्ज तन्त्र्यास्युरनुमन्द्रवत्।
पूर्वासु षट्सु सारीषु क्रमाच्छुद्धर्षभस्तथा॥
शुद्धगान्धारकस्साधारणगान्धारकस्तथा।
च्युतमध्यमगान्धारश्शुद्धमध्यमसंज्ञकः॥
अनन्तरस्वरः प्रोक्तश्च्युतपञ्चममध्यमः।
तृतीयतन्त्र्याजातोपि प्रयोगेनैव गृह्यते॥
जायेते तौ पुनस्तन्त्र्या चतुर्थ्याथस्वरौयतः।
मन्द्रमध्यमतन्त्र्यातु चतुर्थ्यास्युरमीस्वराः॥
पूर्वासु षट्सुसारीषु च्युतपञ्चममध्यमः।
शुद्धपञ्चम नामा च ह्युत्तरं शुद्धधैवतः॥
ततश्शुद्धनिषादाख्य कैशिक्याख्यनिषादकः।
च्युतषड्जनिषादाख्य एते शुद्धस्वराः कृतीः॥
चतुस्तन्त्रीभिरेताभिस्सारीषट्के पुरोदिते।
अनुमन्द्राश्चमन्द्राश्च सर्वे जाताः स्वराः क्रमात्॥
इति मेलप्रकारः॥
स्वयम्भुवस्स्वराः केचित् स्वस्यबुध्या प्रकल्पिताः।
तस्मात् प्रमाणयुक्तन्वं कर्तुं मार्गोनिरूप्यते॥
श्रुतयो द्वादशाष्टौ वा ययोरन्तरगोचराः।
मिथस्संवादिनौ तौ तु स्वरौ सर्वत्र योजयेत्॥
एवं रत्नाकरप्रोक्तो मार्गोयं संप्रदर्शितः।
स्वरप्रमाणतां कर्तुं मार्गान्तरमथोच्यते॥
चतुर्थतन्त्र्यां सम्भूतश्शुद्धोयं मन्द्रपञ्चमः।
द्वितीयायां सारिकायां स्वयम्भूरिति कथ्यते॥
तस्मात् द्वितीयसार्यांये हितास्सर्वेपि तेस्वराः।
स्वयम्भुवः प्रमाणस्य कर्तुं शक्या नचान्यथा॥
द्वितीयसार्य्यांजातस्य तन्त्र्याचापि द्वितीयया।
अनुमन्द्रस्य शुद्धस्य निषादस्य प्रमाणतः॥
चतुर्थसार्यां सञ्जाते तन्त्र्याचापि तृतीयया।
मन्द्रे शुद्धनिषादाख्ये सप्रमाणे कृतेसति॥
चतुर्थसार्यांसञ्जातास्स्वरास्सर्वे स्वयम्भुवः।
प्रमाणयुक्ताः केनापि न कर्तुं शक्यमन्यथा॥
तृतीयसार्यांतन्त्र्यान्तु सञ्जातस्य द्वितीयया।
च्युतषड्जनिषादस्य चानुमन्द्रप्रमाणतः॥
षष्ठसार्य्यांसमुत्पन्नास्स्वरास्सर्वे स्वयम्भुवः।
प्रमाणयुक्तास्शक्यन्ते नान्यथा कर्तुमोजसा॥
पञ्चम्यां सारिकायान्तु षड्जमध्यमसम्भवात्।
तज्जानां प्रविभागाश्च ते सर्वे स्युस्स्वयम्भुवः॥
पञ्चाम्यांसारिकायान्तु तन्त्र्या जातस्य तुर्यया।
मन्द्रस्य कैशिकाख्यस्य निषादस्य प्रमाणतः ॥
तृतीयायां सारिकायां सञ्जातस्य तुरीयया ।
तन्त्र्या मन्द्रस्य शुद्धस्य धैवतस्य प्रमाणतः ॥
आद्यसार्यांसमुद्भूते तन्त्र्याचापि द्वितीयया ।
अनुमन्द्राभिधेशुद्धे धैवते मानयोगिनि ॥
कृते सति समुत्पन्नास्सर्वे प्रामाणिकास्स्राः \।
इदं प्रमाणं सारीषु षट्रसुत्पन्नेस्वरावलेः ॥
प्रमाणनिर्णयं कर्तुं रामामात्येन दर्शितम् ।
इति प्रमाणस्वरप्रकरणम् ।
एतत् स्वरप्रमाणेन मध्येतारेऽनुतारके ।
स्थाने स्थाप्यास्सारिकास्युर्यथायोग्यं विचक्षणैः ॥
मध्यादिस्थानसारीषु जातास्तन्त्र्या तुरीयया ।
ग्राह्यास्स्वराः प्रयोगेषु नान्यतन्त्रीत्रयोद्भवाः ॥
ननु त्वया पुराप्रोक्तास्स्वरास्सर्वे चतुर्दश ।
स्वराणां द्वादशानां चाविक्षेपश्चकृतोधुना ॥
काकल्याख्यानिषादस्यांतरगांधारकस्यच ।
उत्पत्यर्थंकथन्नोक्ते सारिक (द्वे) तदुच्यते ॥
काकल्यन्तरयोर्व्यक्त्यै स्थाप्येतेसारिके यदि।
तदासङ्कीर्णभावेन वादनेनानुकूलता ॥
तस्मानौक्ते पृथक्वाक्ये तदुत्पत्तिस्तु कथ्यते ।
च्युतमध्यमगान्धारसार्यनेकश्श्रुतिर्यथा ॥
काकल्याः स्यात्तथोत्पत्तिरिति गानविदांमतम् ।
काकल्यन्तरसंयुक्तोरागस्स्यात् प्रस्तुतो यथा ॥
तथात्वेवंप्रकारेण तयोरुत्पत्तिरिष्यते ।
च्युतमध्यमगान्धारच्युतषड्जनिषादकौ ॥
क्रमादन्तरकाकल्यास्स्थाने प्रतिनिधिं विदुः ।
ध्वनेरल्पविशेषेण केचिल्लक्ष्यैकतत्पराः ॥
एतदेवाभिसन्धाय कथितं शार्ङ्गसूरिणा ।
अल्पप्रयोगस्सर्वत्र काकलीचान्तरस्वरः ॥
लक्षिता शुद्धमेलाख्यवीणालक्ष्यविदां मतम् ।
इति शुद्धमेलः ।
अथोच्यते मध्यमेलवीणाया लक्षणं स्पुटम् ।
अत्रैव शुद्धमेलाख्यवीणायामुपरिस्थिता ॥
आद्यतन्त्र्यनुमन्द्राख्यपञ्चमेनयुतायदा ।
द्वितीया मन्द्रषड्जेन तन्त्रिका संयुता यदि ॥
मन्द्रपञ्चमसंयुक्ता तृतीया तन्त्रिका यदि ।
तृतीया मन्द्रषड्जेन तन्त्रिका चेत्समन्विता ॥
तथा भवेत् मध्यमेलवीणा पार्श्वे त्रितन्त्रिका ।
उपरिस्थत्रितन्त्रीभिस्समानश्रुतिका यदि ॥
इति मध्यमेलवीणा ।
तदन्याच्युततन्त्रीषु मध्यपञ्चमतन्त्रिका ।
स्यादच्युत महारायमेलवीणा मयोदिता ॥
इति श्रीमदभिनवभरताचार्यवाग्गेयकारतोदरमल्लतिम्मामात्यनन्दन
रामामात्यनिर्मिते स्वरमेलकलानिधौ वीणाप्रकरणं तृतीयम् ॥
———
एवं प्रपञ्चितं लक्ष्म वीणानां तिसृणामपि ।
अनन्तरं प्रवक्ष्यामि रागमेलान्यथाक्रमम् ॥
देशभाषाप्रसिद्धेन रागनाम्नाविशेषितान् ।
तत्तद्रागप्रधानत्वान्मेलान् वक्ष्येक्रमादिमान् ॥
लक्षणं लक्ष्यते पश्चादुद्देशः क्रियतेऽधुना ।
सर्वेषु रागमेलेषु मुखारी मेल आदिमः ॥
ततो मालवरागस्य मेलश्श्रीरागमेलकः ।
सारङ्गनाटमेलश्च मेलोहिन्दोलकस्य च ॥
शुद्धरामक्रियामेलो देशाक्षी मेलकोऽपरः ।
मेलःकन्नडगौलस्य शुद्धनाट्याश्च मेलकः ॥
आहरीमेलकश्चैव नामरामक्रियापरः ।
मेलश्शुद्धवराल्याश्च रीतिगौलस्य मेलकः ॥
वसन्तभैरवीमेलसंज्ञकस्तु प्रकीर्तितः ।
केदारगौलमेलश्च हेजुज्जी मेलकस्ततः ॥
मेलस्सामवराल्याश्च रेवगुप्तेश्चमेलकः ।
सामन्तनाममेलश्चकाम्भोजीमेलकस्ततः ॥
मेलाविंशतिरेवैते तेषां लक्षणमुच्यते ।
शुद्धसप्तस्वरैर्युक्तो मुखारीमेलको भवेत् ॥
अस्मिन् मेले मुखारीच ग्रामरागाश्च केचन ।
सम्मतश्शुद्ध इत्येष शार्ङ्गदेवविपश्चितः ॥
इति मुखारिमेलः ।
शुद्धास्सरिमपाश्शुद्धधैवतश्च ततःपरम् ।
च्युतमध्यमगान्धारश्च्युतषड्जनिषादकः ॥
एतैस्सप्तम्वरैर्युक्तस्सम्मतोरागवेदिनाम् ।
मेलो मालवगौलस्य रामामात्येन लक्षितः ॥
अस्मिन् मेले सम्भवन्ति ये रागास्तानथ ब्रुवे ।
रागो मालवगौलाख्यो ललितोभौलकस्तथा ॥
सौराष्ट्रो घूर्जरीमेचभौलीच फलमञ्जरी ।
गुण्डक्रिस्सिन्धुरामक्रिच्छायागौलः कुरञ्ज्यपि ॥
रागः कन्नटबङ्गालः तथा मङ्गलकैशिकः ।
रागो मलहरीत्यादि रागाः केचित् भवन्त्यतः ॥
इति मालवरागभेलः ।
शुद्धषड्जो॥थपञ्चश्रुत्र्यृषभश्च तथापरः ।
स्यात्साधारणगान्धारश्शुद्धौपञ्चममध्यमौ ॥
पञ्चश्रुतिर्धैवतश्च कैशिक्याख्यनिषादकः ।
एतैस्सप्तस्वरैर्युक्तश्श्रीरागस्य च मेलकः ॥
अस्मिन् मेले सम्भवन्ति येरागास्तानथ ब्रुवे ।
श्रीरागो भैरवी गौली धन्यासी शुद्धभैरवी ॥
वेलावली मालवश्रीः शङ्कराभरणोऽपि च ।
आन्दोली देवगान्धारी मध्यमादिस्तथापरा ॥
एवमाद्याश्च कतिचिद्रागा मेलात्भवन्त्यतः ।
इति श्रीरागमेलः ।
पञ्चश्रुतृयषभश्शुद्धषड्जमध्मपञ्चमाः ।
पञ्जश्रुतिधैवतश्च च्युतषड्जनिषादकः ॥
च्युतमध्यमगान्धारः एतैस्सप्तस्वरैर्युतः ॥
सारङ्गनाटमेलोयं रामामात्येन लक्षितः ॥
एतन्मेलकसम्भूतान् रागान् वक्ष्यामि कांश्चन ।
सारङ्गनाटसावेरी तथासारङ्गभैरवी ॥
नटनारायणी शुद्धवसन्तः पूर्वगौलकः ॥
स्यात् कुन्तलवराली च भिन्नषड्ज स्तथैव च ॥
नारायणीत्येवमाद्याः केचिद्रागा भवन्त्यतः ।
इति सारङ्गनाटमेलः ।
श्रीरागमेले यल्लक्ष्म तत् स्याद्धिन्दोलमेलके ।
धैवतश्शुद्ध एवात्र विशेषोऽयं प्रदर्शितः ॥
कांश्चित् तत्रोद्भवान् रागान् वक्ष्ये लक्षणसङ्गतान् ।
हिन्दोलो मार्गहिन्दोलो भूपालादिपिरित्यमी ॥
अन्ये च कतिचिद्रागास्सम्भवन्त्यत्र मेलके ।
इति हिन्दोलमेलकः ।
शुद्धस्सरिपधाश्चैव च्युतमध्यमपञ्चमः।
च्युतमध्यमगान्धारः च्युतषड्जनिषादकः॥
शुद्धरामक्रियामेलस्स्यादेभिस्सप्तभिस्स्वरैः।
अत्रमेले सम्भवन्ति येरागास्तानथ ब्रुवे॥
शुद्धरामक्रिया पालिरार्द्रदेशीच दीपकः।
इत्याद्यास्सम्भवन्त्यत्र मेले रागाश्चकेचन॥
इति शुद्धरामक्रियामेलः।
षट्च्छ्रुत्र्यृषभकश्शुद्धषड्जमध्यमपञ्चमाः।
पञ्चश्रुतिर्धैवतश्च च्युतषडड्जनिषादकः॥
च्युतमध्यमगान्धारश्चेत्येतत्स्वरसंयुतः।
देशाक्षीमेलकः प्रोक्तो रामामात्येन धीमता॥
देशाक्षिप्रमुखा रागा भवन्त्यत्र क्वचित् क्वचित्॥
इति देशाक्षिमेलः।
देशाक्षीरागमेलस्य लक्षणं यदुदाहृतम्।
मेले कन्नडगौलस्य तस्मात् भेदोस्ति कश्चन॥
कैशिक्याख्य निषादोऽत्र प्रयोज्यो लक्ष्यवेदिभिः।
अस्मिस्तु मेले सञ्जातान् रागान् कति च न ब्रुवे॥
एकःकन्नडगौलाख्यस्तथा घण्टारवोऽपि च।
शुद्धबङ्गालनामा च छायानाटस्ततःपरः॥
तथातु रुष्कतोडी च नागध्वनिरतः परः।
देवक्रियेत्येवमाद्या रागाः केचित भवन्त्यतः॥
इति कन्नडगौलमेलः।
शुद्धस्वरास्तुसमपाष्षट्च्छ्रुतृयषभधैवतौ।
च्युतमध्यमगान्धारश्च्युतषड्जनिषादकः॥
स्वेररंमाभस्सयुक्तर्श्शुद्धैनाट्याश्च मेलकः।
शुद्धनाटीप्रभृतयो रागा अत्र भवन्ति च॥
इति शुद्धनाटीमेलः।
शुद्धास्समपधाश्चैव पञ्चश्रुतृयषभस्तथा ।
साधारणोऽपि गान्धारश्च्युतषड्जनिषादकः ॥
स्वरैरमीभिस्संयुक्त आहरीमेलको भवेत् ।
आहरीप्रमुखा रागा भवेयुरिहमेलके॥
इत्याहरीमेलः।
शुद्धास्समपधारिश्र च्युतषड्जनिषादकः ।
साधारणोऽपि गान्धारस्स्वरैरभिस्समन्वितः ॥
नादरामक्रियामेलस्तस्मिन् रागाश्च केचन ।
नादरामक्रियामुख्यास्सम्भवन्ति क्वचित् क्वचित् ॥
इति नादनामक्रियामेलः ।
शुद्धगान्धार इत्येतैरन्वितोयस्स्वरैर्भवेत् ।
मेलश्शुद्धवराल्याश्चतत्र द्युद्धवरालके ॥
अप्येव सम्भविष्यन्ति रागा देशविभेदतः ।
इति शुद्धवरालिमेलः।
शुद्धास्सरिगमापञ्च पञ्चश्रुतिकधैवतः ।
कैशिक्याख्यनिषाद श्चेत्येतैर्युक्तः स्वैरस्तुयः ॥
सरीतिगौलमेलस्स्याद्रीतिगौलादयोऽत्र च ।
रागाः केचित् भवन्तीति सम्मतं गानवेदिनाम् ।
इति रीतिगौलमेलः ।
च्युतमध्यमगान्धारः कैशिक्याख्यनिषादकः ।
शुद्धास्सरिमपाधश्च स्वरैरेभिस्समन्वितः ॥
वसन्तभैरवीमेलः तस्मिन् रागाश्च केचन ।
वसन्तभैरवीसोमरागप्रभृतयो मताः ॥
इति वसन्तभैरवीभेलः ।
शुद्धाश्चसमपाः पञ्चश्रुतीचर्षभधैवतौ ।
च्युतमध्यमगान्धारश्च्युतषड्जनिषादकः ॥
केदारगौलमेलःस्यात् स्वरैरेभिस्समन्वितः।
तस्मिन् केदारगौलश्चस्यान्नारायणगौलकः॥
एवमाद्यास्सम्भवन्तिमेले रागाः क्वचित् क्वचित्।
इति केदारगौलमेलः।
मेलाःपञ्चभुविप्रोक्ता काकल्यन्तरवर्जिताः।
काकल्यन्तरसंयुक्तान् पञ्चमेलान् प्रचक्ष्महे॥
शुद्धौ च षड्जऋषभौशुद्धाश्चसपधास्तथा।
गान्धारोऽन्तरसंज्ञश्चकाकल्याख्यानिषादकः॥
एतावत्स्वरसंयुक्तो हिजूजीमेलको भवेत्।
इत्येषशार्ङ्गदेवस्य सम्मतोमार्गवेदिनः॥
इति सामवरालमेलः।
शुद्धास्सरिपमाश्शुद्धनी गान्धारकोऽन्तरः।
एतैस्सप्तस्वरैरेवगुप्तिमेल उदाहृतः॥
तस्मिन् रागे रेवगुप्तिश्शुद्धरागाश्चकेचन।
रत्नाकरे च मेलानां शार्ङ्गदेवेन लक्षिताः॥
इति रेवगुप्तिमेलः।
रिधौषट्श्रुतिकौचैत्र काकल्यन्तरकौनिगौ।
शुद्धषड्जमपा एतैस्सम्मितो हि स्वरैर्यदा॥
तदा सामन्तमेलस्स्यात्तत्र रागास्तदादयः।
इति सामन्तमेलः।
गनीचान्तरकाकल्यौरिधौ पञ्चश्रुती तथा।
तेषां शुद्धास्तु समपाह्येतैःकाम्भोजिमेलकः॥
काम्भोजिप्रमुखा रागा मेलेस्मिन् सम्भवन्ति हि।
इति काम्भोजिमेलः।
लक्षिता विंशतिर्मेलाःगात्रेस्युर्नियता अमी।
पक्षद्वयन्तु वीणायां वक्ष्यते लक्ष्यसम्मितम्॥
ग्राहत्वन्तरकाकल्यौ स्वररूपे पृथक् पृथक् ।
पक्षोयं प्रथमस्तत्रमेलास्स्युर्विंशतिर्ध्रुवम् ॥
अन्तरस्सचकाकल्या ग्राह्याःप्रतिनिधिः क्रमात् ।
च्युतमध्यमगान्धारश्च्युतषड्जनिषादकः॥
अयं द्वितीयः पक्षोऽत्रमेलाःपञ्चदशस्मृताः।
शेषाःपञ्चदश स्वेषु पञ्चलीनास्तदुच्यते॥
वसन्तभैरवीमेले लीनोर्हाजुज्जिमेलकः।
अथसामवराल्याश्च मेलोयंप्रागुदीरितः॥
अत्र प्रतिनिधेःपक्षे मुखारीमेलपूर्वकः।
केदारगौलमेलान्तामेलाः पञ्चदशस्मृताः॥
इति श्रीमदाभिनवभरताचार्यवाग्गेयकारतोदरमल्लतिस्मामात्य
निर्मितस्वरमेलकलानिधौ मेलप्रकरणं चतुर्थम्।
_________
एतेषु नाम तेरागाउत्तमा मध्यमा अपि।
अधमाश्चापि सकलाः कथ्यन्ते ते विवेकतः॥
मुखारी शुद्धनाटी च तथा मालवरागकः।
ततश्शुद्धवरालीच गुज्जरी ललितस्तदा॥
शुद्धरामक्रियाशुद्धवसन्तो भैरवी तथा।
हिन्दोलरागश्श्रीरागःरागःकन्नडगौलकः॥
सामन्तरागो देशाक्षी धन्यासीभौलिकेति च।
आहरीचापि मल्हारी मालवश्रीस्ततःपरम्॥
सारङ्गनाटिरित्येतास्स्यू रागाश्चोत्तमोत्तमाः।
असङ्कीर्णतमालोके रागविंशतिरेव च॥
गीतप्रबन्धकालापठाययोग्या भवन्ति हि ।
इत्युत्तमरागाः।
केदारगौलःकाम्भोजी बङ्गालःकन्नडाह्वयः।
मेलाहरिर्मध्यमादिर्नारिणी रीतिगोलकः॥
नादरार्मक्रियापाडिर्भूपालीरैवगुप्तिकः।
गुण्डक्रियाहिजुजीच वसन्तादिश्च भैरवी॥
रागस्सामवरालिश्चेत्येते पञ्चदशैव च।
रागप्रबन्ध (घण्टा) र्हामध्यमाशल्यकस्तथा॥
इति मध्यमरागः।
सौराष्टोमेचबोली च छायागौलकुरञ्जिकौ।
सिन्धुरागक्रियागौडी पाडीभङ्गलकौशिकः॥
पूर्वगौलिस्सोमराग आन्दोली मन्त्रमञ्जरी।
शङ्कराभरणं देवगान्द्धारी दीपकस्तथा॥
नटनारायणीशुद्धभैरवीभिन्नषड्जकः।
स्यात् कुन्तलवराली चरागस्सारङ्गभैरवी॥
शुद्धबङ्गालको नागध्वनिर्घण्टारवस्तथा।
मार्गहिन्दोलकाश्चायागाष्टिरेवक्रियापि च॥
नारायणीगौलरागौततसेताडीवरालकौ।
तुरुष्कतोडीरागश्चरागस्सावेरिका तथा॥
आर्द्धदेशीत्यादयश्च रागास्युरधमाःक्रमात्॥
सर्वेष्वेतत्पुरोक्तेषु मध्यमेषूत्तमेषुच।
अन्तर्भूतश्चसङ्कीर्णा पामरभ्रामकाश्चते।
ठायातानप्रबन्धानामयोग्यावहुलाश्चते॥
तस्मान्नतेपरिग्राह्यारागसङ्गीतकोविदैः।
इत्यधमरागाः।
देशिरागश्चसकला षड्जग्रामसमुद्भवाः।
ग्राहांशन्यासमन्त्रादिषाडवौडवपूर्णकाः॥
देशीत्वात्सर्वरागेषु भवन्ति नभवन्ति च।
तथापि लक्ष्यमाश्रित्य लक्ष्यज्ञाननुसृत्यच॥
विंशत्युत्तमरागाणामसङ्कीर्णस्वरूपिणाम्।
मध्यमानां तथा पञ्चदशानाञ्चततः परम्॥
अधमानां च केषां च लक्षणं लक्ष्यतेऽधुना।
संपूर्णस्वरसंयुक्तषड्जन्यासग्रहांशकः॥
योगेयः पश्चिमेयामेनाटिरागस्स उच्यते।
इति नाटिरागः।
षड्जांशासग्रहाषड्जन्यासतां सङ्गता तु या। …………
सर्वायामेषु या गेया सावरालीतिकीर्तिता॥
इति वरालरागः।
सारङ्गनाटी संपूर्णा सन्यासासग्रहापिच।
षड्जांशन्याससंपूर्णो गेयोमाध्यन्दिनात्परम्॥
इति शुद्धरामक्रियारागः।
सग्रहासांशिकांषड्जन्यासांसंपूर्णतांगता।
मुखारी सर्वसमये गातुं योग्याप्रकीर्तिता॥
इति मुखारीरागः।
संपूर्णा भैरवीरागस्सन्यासस्सांशकोमतः।
षड्जग्रहस्तथागेयो यामे यः पश्चिमे च सः॥
इति भैरवीरागः।
सन्यास आहरीरागःसांशषड्जग्रहोपिच।
संपूर्णश्चरनेयामेगातव्योऽसौविचक्षणैः॥
इत्य हरीरागः।
सामन्तरागष्षड्जांशःषड्जन्यासश्चसग्रहः।
दिनस्यचरभेयामे गेयस्संपूर्णतायुतः॥
इति सामन्तरागः।
नित्यासांशग्रहोपेतः रागःकन्नडगौलकः।
संपूर्णोपिकदाचित्स्यात् आरोहे त्यक्तमध्यमः॥
गेयोह्नःपश्चिमेयामे (उत्कलाना) मतिप्रियः।
इति कन्नडगौलः।
सन्यासस्सग्रहः पूर्णोदेशाक्षीराग उच्यते।
आरोहेमनिवर्जोसौ पूर्वयामे च गीयते॥
इति देशाक्षी।
इत्युत्तमसंपूर्णदशमध्यमं सग्रहन्यासा।
बौलिकस्स्यात् षाडवी सा च गातव्या दिनस्यादिभागतः॥
इति बौलरागः।
रागश्शुद्धवसन्ताख्य सन्यासस्सग्रहोपिच।
गीयते सर्वयामेषु सर्वदा मङ्गलप्रदा॥ …………
इति मालमश्रीः।
पवर्जिता रिग्रहांशन्यासाषाडविका(नवत्)।
कदाचिदवरोहे सा युता सा घूर्जरी भवेत्॥
दिनस्य प्रथमे यामे गेया सा गानकोविदैः।
इति घूर्जरी।
सग्रहासन्यासंयुक्ता ललिता पञ्चमोत्थिता।
षाडवी प्रथमे यामे गेया सा शोभनप्रदा॥
इति ललिता।
इत्युत्तमषाडवाः पञ्च।
हिन्दोलकोरिधत्यक्त औडवस्सग्रहांशकः।
सन्यासश्शुभदोगेयः सरागस्सार्वकालिकः॥
इति हिन्दोलः।
धैवतांशग्रहन्यासो रागो माल्हरिसंज्ञकः।
औडवो गनिवर्जोसौ प्रभाते गीयते बुधैः॥
इति मल्हरी।
रागो धन्याससंज्ञोयो बहुशो रिधवर्जितः।
गेयः प्रातरसौ तज्ञैः सर्वासांशग्रहौडवः॥
इति धन्यासी।
रागो मालवगौलश्चनिन्यासोंशग्रहो मतः।
औडवो रिपवर्जश्च कदाचिद्रिपसंयुतः॥
गेयस्सायाह्नसमयो रागानामुत्तमोत्तमः।
इति मालवगौलः।
श्रीरागस्सग्रहस्सांशस्सन्यासोगधवर्जितः।
औडवोपि भवेद्रागः कदाचित् गधसंयुतः॥
सायाह्नेगीयतामेषस्सर्वसंपत्प्रदायकः।
इति श्रीरागः।
इत्युत्तमौडवा. पञ्च।
केदारगौडस्संपूर्णो निन्यासो रिग्रहोपिच।
निषादांशश्चतुर्थोह्नि प्रहरे गीयते बुधैः॥
इति केदारगौलः।
नादरामकियारागो षड्जन्यासस्तुसग्रहः।
षड्जांशस्तु संपूर्णो गेयो यामेतुरीयके॥
इति नामक्रिया।
सन्यासा सग्रहा सांशस्संपूर्णापि क्वचिद्भवेत्।
आरोहे मनिवर्जासौकाम्भोजी सायमीरिता॥
इति काम्भोजी।
षड्जांशा सग्रहाषड्जन्यासा सामवरालिका।
संपूर्णा सर्वदा गेया सामवेदसमुद्भवा॥
इति सामवरालीं।
रीतिगौलोनिषादांशोनिन्यासग्रह एव च।
संपूर्णागीयते सायं मुखारीमेलमाश्रितः॥
इति रीतिगौलरागः।
हिजूजिरागसंपूर्णो मन्यासोमग्रहांशकः।
गेयोह्निपश्चिमे यामे काकल्यन्तरभूषितः॥
इति हिजूजिरागः।
गांशो नारायणीरागो गांधारन्यासकग्रहः।
संपूर्णा प्रातरुद्गेयावरोहेरिच्युताक्वचित्॥
इति नारायणी।
पूर्णो वेलावलीरागोधन्यासस्तु धचग्रहः।
क्वचिद्रिसाभ्यांन्यूनः स्यादवरोहे सः प्रभातजः॥
इति वेलावली।
इति मध्यमरागेषु संपूर्णोऽष्टौ।
रागः कन्नडबंगालो गांधारग्रहगगांशकः।
गन्यासऋषभन्यूनः प्रातर्गेयस्सषाढवः॥
इति कन्नडबंगालः।
पालिरागस्तु संन्यास सांशषड्जग्रहस्स्मृतः।
तुरीययामे गेयोसौनहीनष्षाडवोमतः॥
इति पालीरागः।
वसन्तभैरवीरागस्संन्यासः पञ्चमोज्ज्वितः।
संग्रहष्षढ्जकन्यासःप्रातर्गेयस्सषाढवः॥
इति वसन्तभैरवी।
सांशो गुंडक्रियारागस्तग्रहन्यासषाढवः।
धवर्जितः पूर्वयामेगेयो धैवतयुक्क्वचित्॥
इति गुंडक्रिया।
इति मध्यमरागेषु षाढवाश्चत्वारः।
मध्यमादिर्मग्रहांशो मन्याशोरिधवर्जितः।
औडवा पश्चिमेयामे दीनस्यपरिगीयते॥
इति मध्यमादिरागः।
भूपालिरागस्सन्यासस्सांशस्सग्रह एव च।
मनिलोपार्दोढवस्स्यात् प्रातःकाले च गीयते॥
इति भूपाली।
रिग्रहोरेवगुप्तिस्स्याद्रिन्यासोमनिवर्जितः।
औढवश्चरमेयामे दिवसस्य न षीयते॥
इति रेवगुप्तिः।
मध्यमरागेषुऔडवरागास्त्रयः॥
इति मध्यमरागाः।
अथाधामनां रागाणां केषांचिल्लक्ष्म कथ्यते।
सावेरिरागो धन्यासो धांशोधग्रह एव च॥
औडवस्सपलापेने प्रगेगेयो विचक्षणैः॥
इति सावेरिरागः।
घंटारवो धैवतांशो धग्रहन्यास एव च।
गलोपात्षाढवः प्रोक्तस्सर्वकाले प्रगीयते॥
इति घंटारवः।
रागोनागध्वनिः पूर्णस्सषड्जस्सग्रोपि च।
षड्जन्यासो गीयतेसौ सर्वदा गीतकोविदैः॥
इति नागध्वनीः।
सन्यासस्सग्रहस्सांश रागस्संपूर्ण एव च।
सोमरागस्सदागेयो मंद्रमध्यमभूषितः॥
इति सोमरागः।
पञ्चमांशग्रहन्यास आंदोलीराग ईरितः।
निगपांशष्षाडवोयं मध्यमादिसमुज्वलः॥
इत्यांदोली।
शंकराभरणोरागस्संपूर्णस्सांशकस्स्मृतः।
षड्जन्यासग्रहस्सोयं सामन्तश्चायमाश्रितः॥
इति शंकराभरणः।
भिन्नषड्जाख्य रागोयं संग्रहः परिकीर्तितः।
षड्जन्यासष्षाडवोयं मलोपात् गीयते सदा॥
एवं प्रकारेणोन्नेयां रागाश्शेषा विचक्षणैः।
अतिसंकीर्णभावेन नास्माभिर्लक्षिताः क्वचित्॥
इत्यधमरागाः॥
गानोपयोगिनां त्वेतत् प्रबन्धानांतु लक्षणम्।
रत्नाकरे शार्ङ्गदेव सूरिणा कथितम् स्फुटम्॥
गान्धर्वमखिलञ्चापि तत्रैव स्फुटमीरितम्।
तत एवावगन्तव्यः तस्मान्नकथितं मया।
शाकेनात्र धराधराब्धिधरणीगण्येयसाधारणे
वर्षे श्रावणमासि निर्मलतरे पक्षे दशम्यां तिथौ।
विनिर्मितस्वरततसङ्गीतरत्नाकरात्
सोयं मेलकलानिधिर्मतिमता माकल्पमाकल्पताम्॥
इति श्रीमदभिनवभरताचार्यवाग्गेयकारतोदरमल्लतिम्मामात्य-
नन्दन रामामात्यनिर्मिते स्वरमेलकलानिधौ रागप्रकरणम्
पञ्चमं संपूर्णम्॥
_________
]
-
“These five talas are said to have proceeded from the five faces of Sankara” ↩︎