[[सद्रागचन्द्रोदयः Source: EB]]
[
[TABLE]
[TABLE]
[TABLE]
॥ श्रीः ॥
अथ सद्रागचंद्रोदयः प्रारभ्यते ।
<MISSING_FIG href="../books_images/U-IMG-1694149853Untitled009-removebg-preview.jpg"/>
श्रीगणेशाय नमः ।
बव्हाकारैर्विरचितवपुर्योऽखिलस्थानकस्थोऽ
स्तोकं शोकं नुदति नितरां यः श्रुतिश्रामवर्ती॥
योऽलंकारैरधिकसुभगो रागपूराभिगम्यो
वंदे कालत्रितयमहितं माधवं तं च नादम्॥१॥
वंशः फारकिभूपतेः सुसरलो भूभारधारक्षमः
श्रीमत्सद्गुणिदानिशूरविमलक्ष्मापालशाखाबिभृत्॥
विख्यातो भुवि यत्र काव्यरसिकाः सत्कीर्तिवल्लीश्रिता-
श्चित्रं संचरतीति विश्वमखिलं के वर्णयंतीह तत्॥२॥
तत्राभूदहमद्दखाननृपतिर्वीराधिवीरेश्वर-
स्त्वौदार्यादिगुणैः समस्तवसुधाधीशैः सदा राजितः॥
दृप्यच्छत्रुगणेषु च प्रविलसत्संग्रामशक्तस्तथा
संहर्ताऽविरतं दरिद्रतमसो भूमंडलाखंडलः॥३॥
तज्जातस्ताजखानो नरपतितिलकः फारकी वै जयंतो
यंता शूरेश्वराणामरिसुभटघटाटोपजीमूतवातः॥
जातस्तातः प्रजानां भरणवितरणस्थापनाज्ञाकरेभ्यो
नित्यं दानोर्मिलोलैः सकलगुणनिधी राजते राजसिंधुः॥४॥
तज्जः श्रीबुरहानखानचतुरः कामानुकारी वरः
संगीतादिकलाप्रपूर्णविमलः साहित्यतेजोमयः॥
दारिद्र्यांधतमश्च यश्च गुणिनां हंताद्युदारैः करै-
र्भूमौ फारकिभूपतीशतिलकश्चंद्रश्चिरं राजते॥५॥
श्रीमद्दक्षिणदिङ्मुखस्य तिलके x x निदेशे शुभे
नित्यं भोगवतीव भोगिवसती रम्या सुपर्वादिभिः॥
अस्ति स्वस्तिकरी नरेंद्रनगरी त्वानंदवल्लीति या
तत्र श्रीबुरहानखाननृपतिः संगीतमाकर्णयत्॥६॥
संत्यस्मिन् बहुधा विरोधगतयो लक्ष्ये च लक्ष्मोदिते
जानंतीह सुलक्ष्मपक्षविगतिंकेचित्परे लौकिकीम्॥
तत्कुर्वंतु सुलक्ष्मलक्ष्यसहितं रागप्रकाशं बुधा
इत्युक्ते बुरहानखाननृपतौ विद्वत्सभामंडले॥७॥
श्रीमद्धनूमद्भरतार्जुनादिहार्दं समादाय सतां जनानाम्॥
तमोनिरासाय विलासगत्यै सद्रागचंद्रोदयमातनोमि॥८॥
अहो बुधाः पूर्णविधूदयेऽस्मिंस्तमस्वरूपो ग्रहणैकलोलः॥
क्रूराशयोयस्तदुपांतमेति तथा प्रदध्वं निजलक्ष्यमत्र॥९॥
लक्ष्यप्रधानं खलु शास्त्रमेतन्निशंकदेवोऽपि तदेव वष्टि॥
यल्लक्ष्म लक्ष्यप्रतिबंधकं स्यात् तदन्यथा नेयमिति ब्रुवाणः॥१०॥
अत्र प्रसादत्रितयं प्रयुक्तं स्वरप्रसादः प्रथमस्तु तत्र॥
द्वितीयकः स्यात्स्वरमेलनामा तृतीय आलप्तिगतः प्रसादः॥११॥
तत्रादिमे नादसमुद्भवश्च तत्स्थानकानि श्रुतयः स्वराश्च॥
विकारभेदा अथ वादिमुख्या ग्रामत्रयं चाऽपि च मूर्छनाश्च॥१२॥
तानाश्च तत्प्रस्तरणं च संख्या नष्टं तथोद्दिष्टमथ ग्रहाद्याः॥
वर्णस्तथाऽलंकरणं क्रमेण वक्ष्यंत एतानि ततो द्वितीये॥१३॥
वीणा प्रशंसामथ वीणिकायां तंत्रीः सषड्जादिकसारिकास्थाम्॥
मेलेषु च प्रस्तरणप्रकारसंख्यां कियन्मेलकलक्षणानि॥१४॥
तेभ्यः पृथग्रागजनिं च रागलक्ष्माणि वक्ष्यामि तथा तृतीये॥
आलप्तिकाद्यं गमकोक्तिपूर्वं कियत्सु रागेष्वपि वादनानि॥१५॥
स्वरादिकं नादसमुद्भवं स्यान्नादं ततस्तावदुदीरयामि॥
युज्येत चात्मा मनसा विवक्षुर्मनोऽग्निनाऽग्निस्त्वनिलेश्वरेण॥१६॥
ब्रह्मादिमग्रंथिस्थितः स मुख्यः प्राणः क्रमेणोर्ध्वगतिं दधानः॥
नाभौ तथा हृद्यथ कंठदेशे मूर्ध्यानने ध्वानमुपाकरोति॥१७॥
नाभ्यादिपंचाश्रयगोऽतिसूक्ष्मः सूक्ष्मश्च पुष्टश्च तथातिपुष्टः॥
सुकृत्रिमश्चेति भिदाः क्रमेण नदस्य शब्दे घञि नाद उक्तः॥१८॥
हृत्कंठमूर्धाश्रयगः क्रमेण त्रैविध्यमृष्येद्व्यवहारतोऽयम्॥
मंद्रश्च मध्याव्हयकश्च तारः पूर्वात्परः स्याद्द्विगुणः क्रमेण॥१९॥
ऊर्ध्वस्थितायां हृदि नाडिकायां नाङ्यस्तिरश्चयः पवनाहतास्ताः॥
द्वाविंशतिस्तीक्ष्णतराः क्रमेण नादं तु तावच्छ्रुतितां नयंति॥२०॥
कंठप्रदेशेऽप्यथ मूर्धदेशे द्वाविंशतिः स्युः श्रुतयस्तथैव॥
स्वराः श्रुतिभ्यः प्रभवंति ते तु षड्जादयः सप्त यथाक्रमेण॥२१॥
वेदाऽग्निपक्षाऽब्धिपयोधिवन्हिपक्षांतिमश्रुत्यधिसंश्रिताः स्युः॥
षड्जाभिधानस्त्वृषभस्ततः स्याद्गांधारको मध्यमपंचमौ च॥२२॥
ततः परं धैवतको निषाद इति स्वराः सप्त मता मुनींद्रः॥
सरी गमौ पश्च धनी क्रमेणेत्येषां स्वराणामभिधाः पराः स्युः॥२३॥
श्रुतेश्च नैरंतरभाविको यः स्निग्धोऽनुशब्दात्मक ओजसात्मा॥
श्रोतुर्मनोरंजन कारकत्वात्स्वतस्तु तज्ज्ञैरुदितः स्वरोऽसौ॥२४॥
क्रमान्मयूराव्हयचातकाजक्रौंचाभिधाः कोकिलदर्दुराख्यौ॥
मतंगजश्चामलमुद्धरंति पड्जादिकानित्युदितं मुनींद्रैः॥२५॥
शुद्धाः स्वरा ये तु भवंति सप्त तज्जान्विकारान्प्रवदामि सप्त॥
स्वोपांतिकश्रुत्यधिसंश्रितः स्यात् षड्जाभिधानो लघुषड्जनामा॥२६॥
एवं मपौ स्तो लघुशब्दपूर्वी साधारणो गः प्रथम श्रुतिस्थः॥
मस्य द्वितीयश्रुतिगोंऽतरः स्यात् षड्जाव्हयस्य प्रथम श्रुतिस्थः॥२७॥
तथा द्वितीयश्रुतिवर्तमानो निःकैशिकी काकलिनामधेयः॥
स्वस्थानकस्थेषु च तेषु नेष्टाः स्वरेषु भेदा विकृता मुनींद्रैः॥२८॥
नोपाददे धस्य विकारभेदं निशंकसूरिः खलु कूटताने॥
सर्वे युतास्ते विकृताश्च शुद्धाश्चतुर्दशैवेति मतं मदीयम्॥२९॥
अथो रिधावाद्यगनिश्रुतिस्थौ लक्ष्येषु वेदश्रुतिकौभवेताम्॥
मः पंचमाद्यां श्रुतिमेत्य लक्ष्ये क्वचिच्च पंचश्रुतितां प्रयाति॥३०॥
चतुर्दशानां गदितस्वराणां कियत्सु रागेषु भवेयुरेते॥
ननु स्वरस्य श्रुतितः पृथक्त्वं त्वया यदुक्तं न तथाऽत्र युक्तम्॥३१॥
साद्यश्रुतेः कैशिकिनेश्च भेदः कुतस्तथाऽन्यश्रुतितः स्वराणाम्॥
यथेश्वरप्रेरितवातचक्रघातात्मभूतध्वनिरेव नाड्याम्॥३२॥
प्राग्घातमात्रश्रवणाच्छ्रुतिश्चानुध्वानरूपः स्वर इत्यकिंचित्॥
यैर्जातयः पंच मताः श्रुतीनां ते तु प्रमाणं प्रवदंति तत्र॥३३॥
चतुर्विधास्ते तु भवंति साद्या वादी च संवादिविवादिनौ च॥
तथानुवादीति मताः स वादी स्वरः प्रयोगे बहुलत्वमेति॥३४॥
यदंतरेऽष्टश्रुतयो द्विषड्वासंवादिनौ तौ ननिमावथश्च॥
एकश्रुतेरंतरितौ स्वरौ यौ विवादिनौ तौ तु मिथः सदा स्तः॥३५॥
शेषस्वराणामनुवादिता स्यादन्वर्थनामान इमे भवेयुः॥
ग्रामः स्वराणां गदितः समूहो यो मूर्छनाद्याश्रयतां प्रपन्नः॥३६॥
षड्जः स्वराणां जनको यतः स्याद्ग्रास्ततो मुख्यतयैव एषः॥
रागेषु सग्रामजनित्वमेव दृष्टं ततो ग्रामयुगं नहीष्टम्॥३७॥
आरोहणं च क्रमतोऽवरोहः सप्तस्वराणामिति मूर्छनोक्ता॥
ताः सप्त मध्यस्थितषड्जपंक्तावधस्तनैर्व्यादिभिरेव तत्र॥३८॥
संसारणीयास्तु यथाक्रमेण षड्जादिकाद्याः पुरतो भवेयुः॥
यां मूर्छनां यावतिथश्च षड्जःश्रयेद्धि सा तावतिथत्वमेति॥३९॥
पड्जादिमा तूत्तरमंद्रिकाद्या निषादपूर्वा रजनी द्वितीया॥
धाद्युत्तराद्यायतिका तृतीया तुर्या च पूर्वापिच शुद्धषड्जा॥४०॥
मादिस्तथा पंचममूर्छना तु नाम्ना कृतामत्सरिपूर्विकेति॥
गादिस्तु षष्ठी गदितेति नाम्नाऽश्वक्रांतिका र्याद्यभिरुद्गतांत्या॥४१॥
ता मूर्च्छनाः षाडवितीकृताश्च क्वचित्तथैवौडवितीकृताः स्युः॥
ताः शुद्धतानाः कथिता मुनींद्रैः सर्वेषुरागेषु विचारणीयाः॥४२॥
तानस्य तंत्र्यां द्विविधा क्रिया स्यात्प्रवेशतो निग्रहतस्तथैव॥
पूर्वप्रकर्षोत्तरमार्दवस्तु प्रवेशकोऽस्पर्शकनिग्रहः स्यात्॥४३॥
इति प्रगीता भरतादिभिश्च गीतोपयोगात्किल मूर्छनास्तु॥
ता व्युत्क्रमोच्चारयुतस्वरास्तु पूर्णा अपूर्णा अपि कूटतानाः॥४४॥
न्यस्य क्रमं स्थापय पूर्वपूर्वस्वरं पराधः स यदाग्रवर्ती॥
तत्पूर्वमस्योपरिगान्पुरः प्राङ्मूलक्रमस्य क्रमतस्तु शेषान्॥४५॥
एकादिकांकान्विलिखेत्तु सप्त पूर्वेण पूर्वेण परे परेऽत्र॥
हते क्रमेण प्रतिमूर्छनंस्यात्संख्या तदैकस्वरपूर्वकाणाम्॥४६॥
ये मूर्छनांत्यस्वरसंस्थितांकास्तान् पातयेत्प्रश्नसमुत्थितांकैः॥
शेषान् यथार्हंहननप्रपन्नैः पूर्वस्वरांकैश्च यथाक्रमेण॥४७॥
येनाहतिस्तावतिथः स्वरः स्याद्धतेरभावेऽगणनीयलब्धिः॥
प्रोक्तं द्वितीयाद्गणनं तथैव श्रीविठ्ठलोऽभाषत नष्टसिद्धिम्॥४८॥
गीतादिवर्तीग्रह ईरितश्च स्वरः प्रयोगे बहुलोंऽशनामा॥
विदारिकायाश्च समापको योऽपन्यासनामाभिध ईरितोऽसौ॥४९॥
विच्छिद्य विच्छिद्य कृतः प्रयोगो यः स्याद्विदारीत्युपगीयते च॥
न्यासःस गीतस्य समाप्तिकृत्स्यादेते तु सर्वत्र भवंति रागे॥५०॥
सर्वत्र षड्जो ग्रह एव रागे रक्त्यैकहेतोर्निधपादयो ये॥
वर्णाः प्रयोज्या न तु ते स्वराश्च ता मूर्छनाः षड्जभवा ह्यशेषाः॥५१॥
गानक्रिया वर्ण इति प्रदिष्टो बुधैर्भवेदेष चतुर्विधस्तु॥
स्थायी तथाऽऽरोह्यवरोहिणौच संचारिनामेत्यथ लक्ष्म वक्ष्ये॥५२॥
एकस्वरस्यैव कृतः प्रयोगो विश्रम्य विश्रम्य भवेत्स आद्यः॥
वर्णौद्वितीयोऽथ तृतीयकः स्तोऽन्वर्थाभिधौ मिश्रणतश्चतुर्थः॥५३॥
विशिष्टवर्णौघ उदीर्यते चालंकारकस्तत्र च रूपभेदाः॥
नोदीरिता विस्तरशंकितेन कतिप्रसिद्धानभिवर्णयामि॥५४॥
स्यादादिमांत्यस्वर एक एव येषाममी स्थायिनि संस्थितास्ते॥
प्रसन्नपूर्वोंऽतगतप्रसन्नः प्रसन्नपूर्वांतकनामधेयः॥५५॥
प्रसन्नमध्यः क्रमरेचिताख्यः पंचेत्यमी स्थायिनि संस्थिताः स्युः॥
यो मूर्च्छनायां प्रथमस्वरस्तु मंद्रोऽधिकारेऽत्र निरूपितोऽसौ॥५६॥
तारस्तु मंद्राद्द्विगुणः प्रयुक्तो मध्यस्तु यस्तद्द्वयमध्यगो वा॥
मंद्रः प्रसन्नो मृदुनामधेयस्तारस्तु दीप्तोऽथ लिपौखमूर्धा॥५७॥
मंद्रस्तु तारः स्थिरऊर्ध्वरेषस्तथा त्रिरुक्तेः प्लुतनामधेयः॥
मंद्रद्वयाद्दीप्तपुरःस्थिते तु प्रसन्नपूर्वं प्रवदंति तज्ज्ञाः॥५८॥
तद्वैपरीत्येंऽतगतप्रसन्नः प्रसन्नयोर्मध्यगते तु तारे॥
प्रसन्नपूर्वांतकनामधेयोऽलंकारकोऽसौ मुनिनोपदिष्टः॥५९॥
मंद्रे तु मध्यद्वयमध्ययाते प्रसन्नमध्यं प्रवदंति धीराः॥
स्यान्मूर्छनायाः प्रथमस्वरश्चेदंतद्वितीयोऽपि तदा कलैका॥६०॥
द्वितीयतुर्यावथ मध्यगौ चेत्तदा द्वितीया कथिता कलैषा॥
अंतर्यदा पंचममुख्यकाः स्युस्त्रयस्तृतीया तु कला तदा स्यात्॥
कलात्रयेणेति बुधैः प्रगीतोऽलंकारकोऽयं क्रमरेचिताख्यः॥६१॥
इति स्थायिगतालंकाराः ।
विस्तीर्णनामा त्वथ संनिकर्षः प्रेंखाख्यबिंदू हसिताभिधानः।
प्रच्छादनाक्षिप्तकनामधेयावारोहिगाः सप्त मता मुनींद्रैः॥६२॥
यन्मूर्धनादेः स्वरतः क्रमेण विश्रम्य विश्रम्य विलंबवद्भिः॥
स्वरैर्यदारोहणमादधाति विस्तीर्णनामाभिहितस्तदाऽयम्॥६३॥
ह्रस्वैः स्वरैर्द्विर्द्विरुदीरितैश्च निरंतरैः संनिपदादिकर्षः॥
यत्र स्वरद्वंद्वमुदीर्यपूर्वपूर्वोपयुक्तं स्वरमग्रसंस्थम्॥६४॥
आंदोल्यमानं च यथाक्रमेणारोहेदसौ प्रेंखकनामधेयः॥
प्लुतं तथा ह्रस्वमपि द्रुतं च ह्रस्वं प्लुतं ह्रस्वमथ प्लुतं च॥६५॥
कुर्वन् स्वरं याति यथाक्रमेणारोहेत्तदा बिंदुरुदीर्यतेऽसौ॥
स्वरेषु चैकोत्तरवर्धिताभिरावृत्तिभिर्यर्हि समीरितेषु॥६६॥
आधत्त आरोहमनुक्रमेण धीरास्तदाहुर्हसिताभिधानम्॥
स्यात् त्रिस्वराद्या तु कला तथान्ये द्वे पूर्वपूर्वांतिकपूर्विके स्तः॥६७॥
त्रित्रिस्वरे यत्र कले स सद्भिः प्रच्छादनाख्यः कथितस्तदानीम्॥
एकांतरोच्चारयुतस्वरेषु पूर्वान्वितत्वेन पुरःस्थितस्य॥६८॥
आरोहणं स्यात्तु यथाक्रमेण यदा तदाक्षिप्तक उच्यतेऽसौ॥
आरोहणे लक्षितसप्तभेदा विलोमकेऽपि क्रमतो भवेयुः॥६९॥
इत्यारोह्यवरोह्यलंकाराः।
प्रसादकःप्रेक्षकरंजिताख्यावुत्क्षेपनामा परिवर्तकश्च॥
निष्कूजितोद्वाहितरेचिताख्या हुंकारकाख्यो ललितक्रमश्च॥७०॥
श्येनस्ततो ह्लादपदादिमानः संचारिगाश्चाग्निहिमांशुसंख्याः॥
चेत्पूर्वपूर्वः क्रियते स्वरस्य परस्य चोर्ध्वाधरतः प्रसादः॥७१॥
गतागतं संदधती कला चेत्सा द्विस्वरैकैकविवर्जितेन॥
भवेयुरन्याश्च कलास्तदानीं प्रेक्षाव्हयोऽसौ कथितः कवींद्रैः॥७२॥
द्विरुक्तमंद्रांतकला तथैव मंद्रादितोऽन्या यदि रंजितः स्यात्॥
चेत्पूर्वपूर्वन्यसनोर्ध्वलंभस्तु क्षेपकस्त्रिस्वरवत्कलासु॥७३॥
गीत्वा प्रसादस्य कलां कलादेस्तृतीयमेत्यादिमगानतः स्युः॥
यदा तदा लोकमनोभिरामं निष्कूजिताख्यं प्रवदंति धीराः॥७४॥
गीत्वा स्वरांस्त्रीनवरुह्य चैकं पराः कला यत्र भवंति गीताः॥
एकैकरिक्ताविहितः स एषोऽलंकार उद्वाहितनामधेयः॥७५॥
चेद्द्विस्वरी पूर्वकला भवेयुः पूर्वेण चैकोत्तरवर्धमानैः॥
स्वरैर्गतिं चागतिमादधानैर्हुंकारनामा कथितस्तदाऽयम्॥७६॥
प्रयुज्य मंद्रादिकलां द्विरुक्तपरस्वरेणोपगताममीषु॥
स्वरेषु दध्यादवरोहणं चेत्तदा मतोऽसौ स्खलिताभिधानः॥७७॥
पक्षत्रिवेदस्वरवत्कलाश्चेत्क्रमेण तिस्रः प्रथमस्वराद्याः॥
तथा द्वितीयादिकपूर्विकाः स्युर्भवेत्तदैषक्रमनामधेयः॥७८॥
स्वरैः सपूर्वैश्च यथाक्रमेण श्येनस्तु संवादिकयुग्मकैः स्यात्॥
मंद्रांतमंद्रादिकलास्तु यत्र स ह्लादमानाव्हयकः प्रणीतः॥७९॥
संचार्यलंकारगणः प्रयुक्त आरोहतः सोऽप्यवरोहतः स्यात्॥
बालप्रबोधाय कियत्प्रणीता बुधैर्यथेष्टं परिकल्पनीयाः॥८०॥
ज्ञानं स्वराणामथ रक्तिलाभो वर्णांगवैचित्र्यमलंकृतेः स्युः॥८१॥
श्रुतिकलितसुनादस्थानसर्वस्वराणां
विमलतरसुवर्णालंकृतीनां च भेदम् ॥
भुविसुजननिवासग्रामतानादिकानां
नृपवरबुरहानेनात्र निर्णीतमेव ॥ ८२ ॥
इति श्रीकर्णाटजातीयपुंडरीकविठ्ठलविरचिते सद्रागचंद्रोदये
स्वरप्रसादः समाप्तः ।
अथ वीणाप्रकरणम्
अथ स्वरा येऽत्र मताश्च भेदा ग्रहादयो वर्णगता विशेषाः॥
वीणाश्रया व्यक्तिरतो ह्यमीषां वीणास्वरूपं प्रतिपादयामि॥१॥
दंडे रमेशोऽत्र तदीयभार्या तंत्र्यां महेशः ककुभेऽप्युमा स्यात्॥
पत्र्यां तु तुंबे कथितो विधाता नाभौ सरस्वत्यपि दोरके तु॥२॥
नागेश्वरः शीतकरश्च जीवे सार्यां प्रदिष्टो दिवसाधिनाथः॥
तथाऽश्विनौ कीलयुगे तु मेरौ देवाधिपो देवमयीति वीणा॥३॥
नरं महापातकिनं पुनाति दृष्टा तदा हस्तगता पुनः किम्॥
यस्मात् कपालिप्रियतां प्रपन्ना तद्रुद्रवीणां कथयंति संतः॥४॥
श्रुतिस्मृतिभ्यां प्रतिपादिता या करे कृता ब्रह्मसुतादिभिश्च॥
वीणा चतुर्वर्गनिदानभूता तत्त्वेन वेद्या कविभिः प्रयत्नात्॥५॥
विशुद्धमेलाव्हयिका च मध्यमेलाभिधाना द्विविधेति वीणा॥
समंत्रिषड्जो यदि पूर्वसंस्थो वीणोर्ध्वगामुक्तकतंत्रिकासु॥६॥
स्याच्छुद्धमेला पमयोश्च तद्वदेकैकमुख्याच्च तु मध्यमेला॥
प्रत्येकमेते द्विविधे भवेतां स्याद्रागमेलाऽखिलपूर्विकैका॥७॥
द्वितीयिकैकोपपदा तथैव तत्र प्रवक्ष्याम्यथ लक्षणानि॥
स्थानेषु या मंद्रपरादिकेषु स्वरैरशेषैः सहवर्तमाना॥८॥
यदा तदा साखिलरागमेलाव्हयोपदिष्टा च चतुर्मुखाद्यैः॥
एकैकरागप्रतिमेलनं स्यान्मध्ये च तारे तु यदा स्वराणाम्॥९॥
एषोपगीयेत तदैकरागमेलाभिधा रागविदां वरिष्ठैः॥
लक्ष्यप्रवीणेन विनिर्मितायां सुवीणिकायामुपरि प्रदेयाः॥१०॥
तंत्र्यश्चतस्रोऽयस एव पार्श्वेऽधो दक्षिणे तिस्र इमा निवेश्याः॥
पुरोदितानामुपरिस्थितानां वामप्रदेशाश्रितपूर्वतंत्र्याम्॥११॥
षड्जं निदध्यादनुमंद्रसंज्ञं द्वितीयतंत्र्यामनुमंद्रपं च॥
तृतीयतंत्र्यामपि मंद्रषड्जं चतुर्थतंत्र्यामथ मंद्रमाख्यम्॥१२॥
त्रितंत्रिकाणामधराश्रितानामाद्या तु मध्यस्थितषड्जकेन॥
तंत्री समानश्रुतिरेषितव्या द्वैतीयिका मंद्रकपेन तद्वत्॥१३॥
तार्तीयिका मंद्रकषड्रजकेन तिस्रो ह्यमूः स्युः श्रुतिनामधेयाः॥
सारीनिवेशं च निरूपयामि यो वैणिकानामभिसंमतः स्यात्॥१४॥
आद्यानुमंद्राव्हयषड्जतंत्र्या शुद्धो यथा स्यादृषभस्तथाद्या॥
सारी निवेश्येत तथा द्वितीया तंत्र्या तया शुद्धगसिद्धिहेतोः॥१५॥
सारी तृतीयापि तथैव तंत्र्याधीयेत साधारणगस्य सिध्यै॥
सारी चतुर्थी लघुमध्यमस्य सिध्यै तया तंत्रिकया तथैव॥१६॥
तंत्र्या तया पंचमसारिका च निधीयते शुद्धमसाधनाय॥
सारी निवेश्या च तथैव षष्ठी तंत्र्या तथैवं लघुपाव्हयाय॥१७॥
अथ त्रितंत्रीभिरनुक्रमेण पराभिरासूदितसारिकासु॥
स्वरान् प्रभूतानभिवर्णयामि पेनानुमंद्रेण समाश्रिता या॥१८॥
द्वितीयतंत्र्योज्वलधैवताख्यः शुद्धो निषादाव्हयकः पुरस्तात्॥
स्यात् कैशिकी निर्लघुषड्जकश्च शुद्धः सनामार्षभको विशुद्धः॥१९॥
स्वराः प्रभूता इति षड् भवंति षट्सूक्तसारीषु यथा क्रमेण॥
द्वितीयतंत्र्या जनितौविशुद्धौ सरी प्रयोगे न च रक्षणीयौ॥२०॥
तृतीयया तंत्रिकयाऽपि यस्मान्मंद्रौ विशुद्धौ जनितौ पुनस्तौ॥
एतेऽनुमंद्राः कथिता मया च मंद्रस्वरांस्तानधुना ब्रवीमि॥२१॥
तृतीयया मंद्रसयुक्ततंत्र्यानुमंद्रवत् षट्स्वपि सारिकासु॥
भवंति ते तु क्रमतोऽथ तत्र तृतीयतंत्र्योज्वलमध्यमश्च॥२२॥
लघ्वादिकः पंचमकोऽप्रयोगौ चतुर्थतंत्रीजनितौ पुनर्यत्॥
मंद्रेण मेनान्वितया चतुर्थ्या तंत्र्या भवेयुः क्रमशः स्वरास्ते॥२३॥
सारीषु षट्सु प्रतिपादितोऽसौ लघ्वादिकः पंचमनामधेयः॥
विशुद्धपो धैवतकोऽपि शुद्धः शुद्धो निषादाव्हयकः पुरस्तात्॥२४॥
स्यात्कैशिकी निर्लघुषड्जनामा मंद्रस्वराः संगदिता मयैते॥
तंत्रीचतुष्केण पुरोदितासु सारीषु षट्सु प्रथिताः स्वरा ये॥२५॥
सर्वेऽनुमंद्राव्हयकाश्च मंद्राः स्वयंभुवो न स्वधिया निबद्धाः॥
प्रमाणयुक्ताः सकलस्वरास्ते नैवान्यथा कश्चन कर्तुमीशः॥२६॥
हीनाधिकैकैकश्रुतिस्वरा ये मंद्रानुमंद्राश्रिततारसंस्थाः॥
न दोषवंतस्त्वतिदुर्ग्रहं तदसंप्रदायाश्रितपंडितानाम्॥२७॥
संवादिनौ योजय सर्वतस्तु स्वस्वप्रमाणादिति मध्यतोऽपि॥
तारेऽतितारे च निवेशनीयाः सार्यो यथायोगमिमाः सुधीभिः॥२८॥
मध्यादिकस्थानकसारिकासु तुरीयतंत्रीजनितग्रहाख्याः॥
स्वराः प्रयोज्या न तु भिन्नतंत्रीत्रयोद्भवा गीतविचक्षणेन॥२९॥
चतुर्दशोक्ता ननु पूर्वमेते स्वरास्ततो द्वादशसंख्यकानाम्॥
सारीनिवेशः क्रियते भवद्भिः कुतोंऽतरे काकलिनि द्वयोर्न॥३०॥
अत्रोच्यते काकलिनोंऽतरस्य पंक्तौ प्रयुज्यां यदि सारिके द्वे॥
संकीर्णभावान्न तदानुकूल्यं स्याद्वादनेऽतो न कृते पृथक्ते॥३१॥
तयोः समुत्पत्तिरुदीर्यते तु चेत्प्रस्तुतस्तत्सहितोऽपिरागः॥
लघ्वाख्ययोः षड्जमयोश्च सार्यौस्यातां यदैकैकश्रुतेर्विहीनौ॥३२॥
तदाच काकल्यभिधांतरौस्तः किंत्वत्र सूक्ष्मध्वनिभेदविज्ञाः॥
लघ्वादिकं सं लघुमध्यमं च तत्प्रातिनिध्येन वदंति लक्ष्ये॥३३॥
चतुःश्रुतित्वं रिधयोर्यदेतत्पंच श्रुतित्वं त्वथ मध्यमस्य।
यदा भवेत्प्रस्तुतरागवर्ति तदानुकूल्यां कुरु यंत्रसारीम्॥३४॥
विशुद्धमेला विहितेति वीणा त्वस्यां प्रभेदत्रयमन्यदस्ति॥
द्वितीयतुर्योर्ध्वगतंत्रिजन्योः स्याद्वैपरीत्यात्पमयोस्तदैका॥३५॥
अत्रानुमंद्राव्हयषड्जतंत्र्यां मपौ चतुस्त्रिश्रुतिकावयोगौ॥
पतंत्रिका मध्यमरंजितान्या तत्राब्धिरामश्रुतिकौ मपौ स्तः॥३६॥
सयुक्ततंत्र्यां जनितावयोगौ परा मतंत्री पयुता तथैव॥
शुद्धौ सरी पंचमतंत्रिकोत्थौ तदा प्रयोगे न च रक्षणीयौ॥३७॥
उक्ता विशुद्धाव्हयमेलभेदा या मध्यमेला परिलक्ष्यतेऽथ॥
विशुद्धमेलाव्हयवीणिकायामेवोपरिष्टाद्गततंत्रिकासु॥३८॥
आद्यानुमंद्राव्हयपंचमेन युता द्वितीया यदि मंद्रसेन॥
तंत्री तृतीयात्वथ मंद्रपेन तुरीयतंत्री यदि मध्यसेन॥३९॥
यदोपरिष्टाद्गततुर्यतंत्र्या पार्श्वत्रितंत्रीषु समश्रुतित्वम्॥
शुद्धौ सरी पाव्हयतंत्रिकोत्थौ धीरैः प्रयोगे न च संप्रयोज्यौ॥४०॥
स्यान्मध्यमेलेयमिति प्रयुक्ता किंत्वत्र भेदोऽपर एव चास्ति।
पतंत्रिकास्थानमयोजिता स्यात्तत्राब्धिरामश्रुतिकौ मपौ यौ॥४१॥
सतंत्रिकायां जनितावयोगौ पार्श्वत्रितंत्रीश्रुतितापि तद्वत्॥
तुरीयतंत्रीजनितौ स्वरौ यौ लोप्यौ तु तौ नैव कदाचिदत्र॥४२॥
नादस्य मंद्राज्जनिरुक्तपूर्वा स्याद्वैपरीत्येन विपंचिकायाम्॥
अथ स्वराणां विकृतप्रभेदा यै रागमेला जनिताः क्रमेण॥४३॥
सुविस्तरं प्रस्तरणाय तेषां युक्तिं सुबोधामुपवर्णयामि॥
सगौ मपौनिश्च यथाक्रमेण श्रुतित्रयं यांति विकारलब्धौ॥४४॥
पर्यायवृत्या विकृतैश्च तत्र व्यस्तैः समस्तैः प्रभवंति भेदाः॥
किंतु स्वरा ये विकृताश्च लिप्यां वक्रोत्तमांगाः प्रकटीभवेयुः॥४५॥
षड्जोयदा वैकृतिको भवेद्वा क्रमेण कार्यो निधयोर्विलोपः॥
एवं गमौ स्तो विकृतौ पनी च स्वपूर्वशुद्धान् क्रमतस्तु लुंपेत्॥४६॥
तत्रावधिः षड्जकपंचमार्वाक् श्रुतित्रये द्वित्वमवश्यमेषाम्॥
यदा समौ पंचमको द्विरुक्ताः क्रमेण न स्यान्निगमद्विरुक्तिः॥४७॥
यदैव सन्योर्युगपद्विकृत्यां भवेद्ध्रुवं धैवतकस्य लोपः॥
गमौ विकारौ युगपद्यदा तु तदा सदा स्यादृषभस्य लोपः॥४८॥
समध्यमः पंचमको द्विरुक्तो गांधारको वैकृतिकस्तु यत्र॥
न स्याद्द्विरुक्तस्य गनामकस्य तत्रैव लोपस्त्वृषभस्वरस्य॥४९॥
द्विधा द्विधा षड्जगमांतिकानां पस्य त्रिधा स्यात् क्रमतो विकृत्याम्॥
चतुर्भिदाः स्युः सगयोर्विकृत्यां तथा चतुर्धासमयोर्विकृत्याम्॥५०॥
रसप्रभेदाः सपयोश्च तद्वदेको हि सन्योर्गमयोस्तथैकः॥
गपाविकृत्यां त्रिविधा चतुर्धा गन्योर्विकृत्यां मपयोर्द्विधा च॥५१॥
मन्योश्चतुर्धा पनिषादयोः षट् द्विधा विकृत्यां सगमध्यमानाम्।
षोढा विकृत्यां सगपंचमानां सगांतिके वैकृतिके द्विधा च॥५२॥
भिदाश्चतस्रः समपाविकृत्यां द्विधा विकृत्यां समसप्तमानाम्॥
त्रिधा विकृत्यां निपषड्जकानामेको विकृत्यां गमपंचमानाम्॥५३॥
गमांतिके वैकृतिके तथा द्वौ गपांतिके स्युर्विकृतौ च षोढा॥
मपांतिके वैकृतिके चतुर्धा द्विधा विकृत्यां सगमाख्यपानाम्॥५४॥
एको विकृत्यां सगमांतिकानां त्रेधा विकृत्यां सगपांतिकानाम्॥
द्विधा विकृत्यां समपांतिकानां द्वेधा विकृत्यां गमपांतिकानाम्॥५५॥
एकैव पंचस्वपि वैकृतेषु, भेदा भवेयुः क्रमतश्च सर्वे॥
क्रमेण चैकैकविकारवत्वे रुद्रप्रभेदाः प्रभवंति तत्र॥५६॥
पंचाग्निभेदा द्विविकारतः स्युः पक्षाग्निभेदास्त्रिविकारतः स्युः॥
दश प्रभेदास्तु चतुर्विकारादेको भवेत्पंचविकारतस्तु॥५७॥
खांकैः कृता शुद्धसमन्वितानां संख्या भिदानां बुधविट्ठलेन॥
केचिद्विलुप्ताः कतिचिद्विरुक्ताः क्रमे स्वरा ये विकृतेर्वशात्तु॥
मूलक्रमोच्चारममीषु वक्ति श्रीविट्ठलः श्रीकरणैकधीरः॥५८॥
अथ मेलप्रकरणम्
मेलेषु सर्वेष्विह वर्णितेषु ज्ञानाय रागोद्भवनैकहेतून्॥
मेलानिदानीं विवृणोमि कांश्चित् पूर्वोक्तलक्ष्मान्वितवीणिकायाम्॥१॥
तत्राद्यमेलस्तु मुखारिकायास्ततो भवेन्मालवगौडमेलः॥
श्रीरागमेलस्तदनंतरं स्यात्स्याच्छुद्धनट्टव्हयकस्य मेलः॥२॥
देशाक्षिकाया अपि मेलकः स्यात्कर्णाटगौडस्य भवेत्सुमेलः॥
केदारकाख्यस्य भवेत्सुमेलो हिजेजमेलोऽपि हमीरमेलः॥३॥
कामोदरागाभिधकस्य मेलस्ततः सुतोड्याव्हयकस्य मेलः॥
आभीरिकायाः सुमतश्च मेलो मेलो भवेच्छुद्धवराटिकायाः॥४॥
स्याच्छुद्धरामक्र्यभिधस्य मेलो देवक्रियायाश्च भवेत्तु मेलः॥
सारंगमेलस्तदनंतरं स्यात्कल्याणमेलस्तु ततः पुरः स्यात्॥५॥
हिंदोलरागस्य भवेत्तु मेलः स्यान्नादरामक्र्यभिधस्य मेलः॥
इतीरितास्ते नवचंद्रसंख्या एवं परांस्तान् कलयंतु तज्ज्ञाः॥६॥
जन्यजनकरागस्वर निरूपणम्
सप्तस्वरा यत्र भवंति शुद्धा मुखारिकायाः कथितः स मेलः॥
मुखारिकामेलसमुद्भवास्तु मुखारिकाद्याः प्रभवंति केचित्॥
न्यासांशसा सग्रहसंयुता सा पूर्णा मुखारी क्रियते सदैव॥
इति मुखारी॥
शुद्धौ सरी मध्यमपंचमौ च शुद्धस्तथा धैवतको यदि स्यात्॥
लघ्वादिकौ षड्जकमध्यमौ चेत्तदा भवेन्मालवगौडमेलः॥
मेलादतो मालवगौडनामा गौंडक्रिया गुर्जरिका च टक्कः॥
पाडी कुरंजी बहुली च पूर्वी रामक्रिया द्राविडगौडनामा॥
गौडी च बंगालकनामधेयस्त्वासावरी पंचमरेवगुप्ती॥
मंजर्यपि स्यात्प्रथमादिरेषा कर्णाटबंगालविशुद्धगौडौ॥
स्याच्छुद्धपूर्वो ललितश्च देवगांधारको मारविकादयस्तु॥
न्यंशग्रहान्तो रिपवर्जितो वा सायं भवेन्मालवगौड एषः॥
इति मालवः॥
सांशग्रहा सांतयुता धरिक्ता गेया पुनर्गौंडकृतिः प्रभाते ॥
इति गौंडकृतिः ॥
न्यंशग्रहान्ता ससमुद्रिता वा स्याद्गुर्जरी प्रातरियं विगेया॥
इति गुर्जरी॥
सांशग्रहांतोऽन्तरकाकलीकः पूर्णोंऽत्ययामे क्रियते हि टक्कः॥
इति टक्कः॥
साशान्तिका सग्रहणी गरिक्ता स्यात्पाडिका तूदयमेति सायम्॥
इति पाडी॥
सांशांतिका सग्रहणी कुरंजी धाल्पा प्रयोगे विहिता सदैव॥
इति कुरंजी॥
मांशग्रहांता गनिवर्जिता वा नवा विगेया बहुली पराह्णे॥
इति बहुली॥
सांशांतिका सग्रहिका च पूर्णा स्यात्पूर्विका सा दिनतुर्ययामे॥
इति पूर्वी॥
सांशग्रहांता मनिवर्जिता च सा स्यात्तु रामक्र्यभिधा सदैव॥
इति रामक्रीः॥
न्यंशग्रहांतः सकलस्वरश्च स्फुरत्सपो द्राविडगौडकः स्यात्॥
सायंतनः कैश्चिदपीरितोऽसौ सालंगको वा गुणकर्यपीति॥
इति द्राविडगौडः॥
सांशग्रहा सांतवती धगाभ्यां रिक्ता दिनान्ते विहिता तु गौडी ॥
इति गौडी ॥
सांशग्रहांतः सकलस्वरश्च सदैव बंगालकनामकः स्यात्॥
इति बंगालः॥
मांशग्रहा मांतवती च पूर्णा ह्यासावरी शश्वदसौ नियुक्ता॥
इत्यासावरी॥
पांशांतिकः पग्रहको रिरिक्तोऽसौ पंचमः प्रातरुपैति जन्म॥
इति पंचमः॥
न्यासांशरी रिग्रहिका विगेया स्याद्रेवगुप्तिस्त्वसपा दिनान्ते॥
इति रेवगुप्तिः॥
पांशग्रहन्यासयुता सदैव मंजर्युपास्या प्रथमादिरेषा॥
इति प्रथममंजरी॥
सांशग्रहांतो रिविवर्जितश्च कर्णाटबंगाल उषस्युपात्तः॥
इति कर्णाटबंगालः॥
न्यंशग्रहांतश्च पवर्जनीयः शुद्धादिको गौड इतिप्रशस्तः॥
इति शुद्धगौडः॥
सांशांतिकः सग्रहकः परिक्तः प्रातस्तु शुद्धो ललिताभिधानः॥
इति शुद्धललितः॥
साशग्रहः सांतयुतश्च पूर्णः स्याद्देवगांधारक एष नित्यम्॥
इति देवगांधारः॥
सांशग्रहांता रिधवर्जिता च निरूप्यते मारविका सदैव॥
इति मारविका॥
इति मालवगौडमेलः ॥
चतुःश्रुती यत्र रिधौ भवेतां साधारणो गोऽपि च कैशिकी निः॥
तथा विशुद्धाः समपा भवंति श्रीरागकस्याभिहितः स मेलः॥
श्रीरागकोऽस्यादपि मालवश्रीर्धन्नासिका भैरविका तथैव॥
अन्येऽपि रागाः कतिचित्प्रसिद्धा भवंति सैंधव्यभिधादयश्च॥
सांशग्रहांतो धविवर्जितो वा श्रीरागनामाऽस्तमिते रवौ स्यात्॥
इति श्रीरागः॥
सांशग्रहा सांतयुता रिधाल्पा पूर्णा सदा राजति मालवश्रीः॥
इति मालवश्रीः॥
षड्जग्रहांता रिधवर्जितेष्टा धन्नासिका सांशवती प्रभाते॥
इति धन्नासी॥
सांशग्रहांता रिपमुद्रिता च पूर्णा सदा भैरविका विगेया॥
इति भैरवी॥
सांशग्रहांता त्वरिपा सदैव स्यात्सैंधवी सद्गमकैर्लसंती॥
इति सैंधवी॥
इति श्रीरागमेलः ॥
निगौ यदा त्रिश्रुतिको भवेतां लघ्वादिकौ षड्जकमध्यमौ च॥
तथा विशुद्धाः समपा भवंति विशुद्धनट्टाह्वयकस्य मेलः॥
विशुद्धनट्टाह्वयमेलकेऽपि विशुद्धनट्टप्रमुखा भवंति॥
सांशग्रहांतः सकलस्वरश्च स्याच्छुद्धनट्टोऽहनि तुर्ययामे॥
इति शुद्धनट्टः॥
इति शुद्धनट्टमेलः ॥
लघ्वादिकौषड्जकमध्यमौ चेद्गांधारकस्त्रिश्रुतिकस्तथा स्यात्॥
शुद्धा भवेयुः समपा निषादो देशाक्षिकाया गदितः स मेलः॥
देशाक्षिकामेलसमुद्भवाश्च देशाक्षिकाद्याः कतिचिद्भवंति॥
गांशग्रहां तामनिमध्यमां वा देशाक्षिकां प्रातरवैहि पूर्णाम्॥
इति देशाक्षी॥
इति देशाक्षीमेलः ॥
शुद्धौ समौ पंचमको विशुद्धः शुद्धो निषादो लघुमध्यमश्च॥
निगौ यदा त्रिश्रुतिको भवेतां कर्णाटगोडस्य तदैषमेलः॥
कर्णाटगौडोऽपि तुरुष्कतोडी विशुद्धबंगालकनामधेयः॥
छायादिको नट्टकनामधेयः सामंतकाद्याः प्रभवंत्यमुष्मात्॥
न्यंशग्रहांतो रिधवर्जितो वा पूर्णस्तु कर्णाट इनास्तशोभी॥
इति कर्णाटः ॥
मांशग्रहा मांतवती च पूर्णा मन्याहतां पंचमकंपयुक्ता॥
सहस्ररश्मेरुदये विरेजे तुरुष्कतोडीयमुदीर्यमाणा॥
इति तुरुष्कतोडी ॥
मांशांतको मग्रहकश्चपूर्णः स्याच्छुद्धबंगाल उपस्युपात्तः॥
इति शुद्धबंगालः॥
षड्जग्रहः सांतयुतश्च सांशोंऽतराश्रितः काकलिदीप्यमानः॥
छायादिमः सायमसौ विगेयो नट्टाह्वयो गानविचक्षणेन॥
इति छायानटः॥
षड्जग्रहन्यासयुतश्च पूर्णः षड्जांशयुक्तोंऽतरकाकलीकः॥
प्रयुज्यमानः स विभातकाले चकास्ति सामंतकनामधेयः॥
इति सामंतः॥
इति कर्णाटगौडमेलः ॥
लघ्वादिकौ षड्जकमध्यमौ च शुद्धौ समौ पंचमको विशुद्धः॥
निगौ विशुद्धौ च यदा भवंति तदा तु केदारकमेल उक्तः॥
केदारनारायणगौडकाख्यौवेलावली शंकरभूषणाख्यः॥
स्तो नट्टनारायणमध्यमादी मल्लारको गौंडकनामधेयः॥
सालंगनट्टाभिधकश्च भूपालिका च सावेर्यभिधानिका च॥
सौराष्ट्रिका नाम तथापि चान्ये कांबोजिकाद्याः प्रभवंत्यमुष्मात्॥
न्यंशांतको निग्रहकोऽरिधो वा केदारकः सायमभीष्ट एषः॥
इति केदारः॥
गांशग्रहो गांतयुतो रिशून्यः प्रातस्तु नारायणगौडकः स्यात्॥
इति नारायणगौडः॥
धांशग्रहांता रिपवर्जिता वा वेलावली प्रातरसावभीष्टा॥
इति वेलावली॥
षड्जग्रहः सांतयुतोऽशषड्जसप्तस्वरो मुद्रितभूषितश्च॥
सूर्योदयेऽयं समुदीर्यमाणो विराजते शंकरभूषणाख्यः॥
इति शंकराभरणः॥
षड्जग्रहः सांतयुततोंऽशषड्जोयुतस्तु पूर्णेंऽतरकाकलिभ्याम्॥
विराजमानः सततं नियुक्तोऽसौ नट्टनारायणनामधेयः॥
इति नट्टनारायणः॥
मांशांतको मग्रहको रिधास्तः प्रातः प्रयुज्येत स मध्यमादिः॥
इति मध्यमादिः॥
धांशग्रहो धांतयुतोऽसपश्च मल्लारनामोषसि गीयतेऽसौ॥
इति मल्हारः॥
धांशांतको धग्रहकश्च पूर्णो विभातकाले च स गौंडरागः॥
इति गौंडः॥
सांशग्रहः सांतयुतश्च पूर्णः सालंगनट्टोऽहनि तुर्ययामे॥
इति सालंगनट्टः॥
गांशग्रहांता निमवर्जिता या भूपालिका प्रातरसौ विगेया॥
इति भूपाली ॥
धांशग्रहांता सपवर्जनीया सावेरिका प्रातरियं नियोज्या॥
इति सावेरी ॥
सांशग्रहा सांतयुताच पूर्णा सौराष्ट्रिका सायमियं विगेया॥
इति सौराष्ट्री॥
सांशग्रहा सांतवती मनिभ्यां समुज्झिता चांतरकाकलीष्टा॥
कांबोजिका सा तु विगीयमाना विभातकाले नितरां विभाति॥
इति कांबोजी॥
इति केदारमेलः॥
शुद्धौ सरी मध्यमपंचमौ च विशुद्धधो मो लघुशब्दपूर्वः॥
निः कैशिकी चापि यदा तदा तु हिजेजरागस्यहि मेलकः स्यात्॥
हिजेजमेलात्तु हिजेजकाख्योऽप्यन्ये तथा भैरवकादयः स्युः॥
न्यंशग्रहांत्योंऽतरकाकलीकः पूर्णो हिजेजः क्रियते सदैव॥
इति हिजेजः॥
धांशग्रहन्यासयुतश्च पूर्णः प्रातः प्रयुज्येत स भैरवाख्यः॥
इति भैरवः॥
इति हिजेजमेलः॥
शुद्धौ सगौ मध्यमपंचमौ च शुद्धस्तथा धैवतको यदि स्यात्॥
लघ्वादिकौ पड्जकमध्यमौ चेत्तदा हमीराह्वयनट्टमेलः॥
इति हमीरनट्टमेलः॥
शुद्धौ धपौ पंचमको लघुश्च शुद्धौ सरी त्रिश्रुतिकौ निगौ च॥
एवं यदा स्यात्स्वरमेलनं च तदा हि कामोदकमेल एषः॥
मेलादतो येऽपि विशेषरागाः कामोदकाद्याः प्रकटीभवंति॥
षड्जग्रहांशांतविराजमानः कामोदरागो दिवसांत्ययामे॥
इति कामोदः॥
इति कामोदमेलः॥
शुद्धौ सरी मध्यमपंचमौ च शुद्धस्तथा धैवतको यदि स्यात्॥
साधारणो गोऽपि च कैशिकी निस्तदा तु तोड्याह्वयकस्य मेलः॥
तोड्यादयः केचन सिद्धरागा भवंति तोडीगतमेलतोऽपि॥
मांशग्रहांता पधकंपयुक्ता तोडी भवेत्प्रातरसौ तु पूर्णा॥
इति तोडी॥
इति तोडीमेलः॥
शुद्धौ सपौशुद्धमधैवतौ च साधारणो गोऽपि च शुद्धगश्च॥
षड्जाभिधानो लघुशब्दपूर्वं आभीरिकाया गदितः स मेलः॥
आभीरिकामेलसमुद्भवा ये आभीरिकाद्याः प्रभवंति केचित्॥
षड्जग्रहा सांतवती च सांशाऽऽभीरी दिनांते जनिमेति पूर्णा॥
इत्याभीरी॥
इत्याभीरीमेलः॥
शुद्धौ सरी शुद्धगपंचमौ चेत्तथोज्वलो धैवतनामधेयः॥
लध्वादिकौ षड्जकपंचमौ च मेलस्तदाशुद्धवराटिकायाः॥
सांशग्रहा सांतवती च शुद्धवराटिकेष्येत सदैव पूर्णा॥
इति शुद्धवराटी ॥
षड्जग्रहन्यासवती च सांशा सप्तस्वरा काकलिनोपयाता॥
दिवानिशं राजति गीयमाना तद्वेदिभिः सामवराटिकासौ॥
इति सामवराटी॥
इति शुद्धवराटीमेलः॥
शुद्धौ सरी शुद्धपधैवतौ चेन्मनामधेयो लघुपूर्वकश्च॥
लघ्वादिकौषड्जकपंचमौ चेद्विशुद्धरामक्र्यभिधस्य मेलः॥
मेलादमुष्माच्च विशुद्धरामकृतिस्तथा त्रावणिकाभिधाना॥
देशीविभासौ ललितादयोऽपि प्रसिद्धरागाः प्रभवंति चान्ये॥
सांशग्रहः सांतयुतश्च पूर्णो विशुद्धरामक्र्यभिधो दिनस्य॥
मध्यात्परं गीयत आख्ययैनं तथा जगुः केचन देशिकारम्॥
इति शुद्धरामक्रीः॥
सांशग्रहा सांतयुता च पूर्णा सा त्रावणी दीव्यति वासरांते॥
इति त्रावणी॥
न्यासांशरी रिग्रहणी परिक्ता प्रयुज्यते शश्वदसौ च देशी॥
इति देशी॥
सांशग्रहांतो ललितोऽपरोऽसौ सप्तस्वरः प्रातरसौविगेयः॥
इति ललितः॥
इति शुद्धरामक्रीमेलः ॥
शुद्धौ समौशुद्धपनी तथैव लध्वादिकौषड्जकपंचमौच॥
पंचश्रुतिर्मश्च यदा भवेत्तु देवक्रियायाः कथितः स मेलः॥
मेलादमुष्मात्कतिचित्तु रागा देवक्रियाद्याः प्रकटीभवंति॥
षड्जग्रहः सांतयुतश्च सांशः समुज्झितः पंचमकेन वा स्यात्॥
तुरीययामे दिवसस्य शुद्धवसंतको देवकृतिः सदैव॥
इति देवक्रीः॥
इति देवक्रीमेलः॥
शुद्धौ सगौ मध्यमपंचमौ च लध्वादिकौषड्जकपंचमौ चेत्॥
निःकैशिकी चापि यदा तदा स्यात्सारंगकस्याभिहितः स मेलः॥
सारंगकाद्या जनिता भवेयुरनेन सारंगकमेलकेन॥
सांशग्रहः सांतयुतश्च पूर्णःसारंगकः स्यादपराह्णशोभी॥
इति सारंगः ॥
इति सारंगमेलः ॥
शुद्धौ सगौ शुद्धपधौ तथैव लघ्वादिकौषड्जकपंचमौ च॥
साधारणो गोऽपि यदा भवेयुः कल्याणकस्याभिहितः स मेलः॥
कल्याणमेलाप्रथिता भवंति कल्याणकाद्याः कतिचित्तु रागाः॥
सांशग्रहः सांतयुतश्च पूर्णःकल्याणनामोदयमेति सायम्॥
इति कल्याणः॥
इति कल्याणमेलः॥
शुद्धौ सरी शुद्धमपंचमौ च शुद्धस्तथा धैवतको यदि स्यात्॥
गनी तथा त्रिश्रुतिकौभवेतां तदातु हिंदोलक मेल उक्तः॥
अतोऽपि हिंदोलवसंतकौ च केचित्प्रसिद्धाः प्रभवंति चान्ये॥
सांशग्रहांतो रिपवर्जितश्च हिंदोलकः प्रातरुपैति जन्म॥
इति हिंदोलः॥
सांशांतकः सग्रहकश्चपूर्णो वसंतनामोषसि गीयतेऽसौ॥
इति वसंतः॥
इति हिंदोलमेलः॥
शुद्धौ यदा षड्जकपंचमौ च शुद्धौ रिधौ मध्यमकोऽपि शुद्धः॥
साधारणो गो लघुषड्जकश्च स्यान्नादरामक्र्यभिधस्य मेलः॥
यो नादरामक्र्यभिधो ह्यमुष्मादन्ये प्रसिद्धाः प्रभवंति केचित्॥
सांशग्रहां सांतयुतां च नादरामक्रियां सायमुशंति पूर्णाम्॥
इति नादरामक्रीः॥
इति नादरामक्रीमेलः॥
लक्ष्माणि रागेष्विति लक्षितानि क्रियंत उक्तानि विमृश्य दद्यात्॥
न्यासग्रहांशेषु च पूर्णतायां श्रुतौ तथा षाडव औडवेऽपि॥
सर्वत्र देशीगतरागवृंदे श्रीमद्धनूमान्नियमं न वव्रे॥
रागाः शिवेन त्रिविधाः प्रयुक्ताः शुद्धाश्च सालंगगतास्तथैव॥
संकीर्णकाश्चेति तदैव शुद्धो योऽनन्ययुक्तोऽप्यतिरंजकः स्यात्॥
सालांगकश्चान्यवरक्तियुक्तः संकीर्णकस्तूभयरक्तिहेतुः॥
ध्वनेर्विशेषः स्वरवर्णभेदैर्विभूषितो यो जनरंजकः स्यात्॥
रागो हि धीरैर्गदितोऽप्यनंता रागाश्च देशस्वरनामकाः स्युः॥
रागे नु सप्तस्वरके भवंति पूर्वोदिताः सक्रमकूटतानाः॥
नवाङ्कऋत्वग्निसचंद्रसंख्या रागे मताः षाडवतोऽपि तानाः॥
षट्पंचरंध्रेन्दुमिताश्च तानाः स्युरौडवे मार्गणपक्षरामाः॥
सकलस्वरमयं श्रीरुद्रवीणाप्रकारं।
स्वरवररचना सद्रागमेलप्रभेदम्॥
सुललितगतिनानारागलक्ष्मादिकं च।
नरवरबुरहानः स्पष्टमेवं करोति॥
इति श्रीकर्णाटकजातीयपुंडरीकविट्ठलविरचिते सद्रागचंद्रोदये
स्वरमेलप्रसादो द्वितीयः।
अथ गमकालप्तिप्रकरणम्।
कंपः स्वरे स्याद्गमको जनानामानंदकस्तस्य गदामि भेदान्॥
तत्रादिमः स्यात्तिरिपाभिधानस्ततः परं स्यात्स्फुरिताह्वयश्च॥
स्यात्कंपितो लीनकनामधेयश्चांदोलितश्चापि वलिस्त्रिभिन्नः॥
ततः पुरस्तात् कुरुलाहताख्यावुल्लासितप्लावितहुंफिताश्च॥
ततः परं मुद्रितनामितौ च मिश्रश्च ते स्युः शरचंद्रसंख्याः॥
लघिष्टकोच्चारमितो भवेद्यो ध्वानस्य कंपानुकृतेर्मनोज्ञः॥
द्रुतस्य तुर्यांशकवेगयुक्तः स तु प्रणीतस्तिरिपाभिधानः॥
तृतीयकांशप्रमितो द्रुतस्य वेगात्प्रदिष्टः स्फुरिताह्वयश्च॥
द्रुतार्धमानाज्जववान्प्रयुक्तो यः कंपिताख्यो गमकः प्रसिद्धः॥
लीनस्तु स स्याद्रुतमानवेगादांदोलितः स्याल्लघुवेगतोऽपि॥
अनेकवक्त्रत्वयुतस्त्वरातः प्रयुज्यमानो वलिरेष उक्तः॥
त्रिस्थानविश्रांतिविवर्जितो यस्त्रिभिन्ननामा निबिडस्वरश्च॥
चेद्ग्रंथिलः कंठमृदुर्भवेच्च तदा वलिः स्यात्कुरुलाभिधानः॥
स्वरं निहत्याग्रगतं निवृत्तो निगद्यते चाहतनामधेयः॥
अथापरांस्तु क्रमतः स्वरान् यो व्रजेत्तमुल्लासितमामनंति॥
यत्कंपनं स्यात् प्लुतमानवेगात्तं प्लावितं नाम वदंति तज्ज्ञाः॥
यः स्याद्गभीरो हृदयंगमश्च हुंकारको हुंफितनामयुक्तः॥
मुखस्य संमुद्रणसंभवो यो विधायते मुद्रितकस्वरः स्यात्॥
स्यान्नामितोऽसौ नमनात्स्वराणामेतद्भिदामिश्रणतोऽपि मिश्रः॥
मिश्रस्य भेदा बहवो भवंति न वर्णिता विस्तरकातरेण॥
इति गमकभेदाः॥
स्थायास्तु रागावयवाश्च सप्त त्वेते भवेयुर्भजनाश्रितास्तु॥
ततो मताः स्थापनिकोपयाता गतिस्थिताः शब्दसमाश्रिताश्च॥
ढालाश्रिता वाहनिकाश्रिताश्च छायागताश्चेत्यथ लक्षणानि॥
विशिष्टमाधानमतिप्रयत्नाद्रागस्य चोक्तं भजनं तदा स्यात्॥
स्थाया भवेयुर्भजनाश्रितास्ते संस्थाप्य संस्थाप्य कृतिस्तु तेषां॥
लक्ष्ये तु रम्यानुपदं सुधीभिः स्थाया मताः स्थापनिकोपयाताः॥
गतिस्तु गीतस्य विलासयुक्ता गजेंद्रवत्तत्सहिता गतिस्थाः॥
स्निग्धत्वमाधुर्यसुमांसलाश्च ये मुक्तशब्दैः परिगृह्यमाणाः॥
स्थायास्तु ते शब्दगता भवंति ढालस्तु मुक्ताफलवत्प्रचारः॥
विलुंठनात्मा सहिता ह्यनेन स्थाया मता ढालसमाश्रितास्ते॥
आरोहिगं चाप्यवरोहिसंस्थं संचारिनिष्ठं स्थिरकंपनं च॥
सा गीयते वाहनिका तु तज्ज्ञैस्तदन्विता वाहनिकाश्रिताः स्युः॥
छाया तु षोढा स्वररागरागांतरोत्थिता देशसमुद्भवा च॥
क्षेत्रोद्भवा यंत्रसमुद्भवेति तल्लक्षणानि क्रमतो ब्रवीमि॥
न्यूनाधिकत्वेन यदा श्रुतीनां स्वरांतरा स्यात्स्वरसंभवा सा॥
छाया तु रागस्य निजैव या स्याद्रागोद्भवां तां निगदन्ति धीराः॥
रागे तु रागांतरवद्भवेद्या गीयेत रागांतरसंभवा सा॥
देशस्वभावादुदयं प्रपन्ना रागे भवेद्देशसमुद्भवा च॥
वपुस्त्विति क्षेत्रमुदीर्यते तु क्षेत्रोदया क्षेत्रसमुत्थिता स्यात्॥
या वंशयंत्रादिसमुद्भवा च निगद्यते यंत्रसमुत्थिताऽसौ॥
स्थाया अमूभिः सहितास्तु गीताश्छायाश्रिता गीतविशेषविज्ञैः॥
इति स्थायभेदाः।
या वर्णकालंकरणैः प्रपन्ना स्थायैः सुकंपैरतिचित्रिता च॥
मनोहरा स्याद्बहुभंगिभेदैरालप्तिरुच्येत तदा मुनींद्रैः॥
यत्र ग्रहन्यासकयोश्च मंद्रापन्यासतारौडवषाडवानां॥
पूर्णस्य मध्यांशकयोर्विवेको रागस्य चालाप इति प्रसिद्धः॥
रूपप्रकाशीकरणं तयोश्च तदेव रागालपनं वदंति॥
सा तु द्विधा रागनिबद्धकाभ्यां विशेषणाद्वच्मि तयोः प्रभेदम्॥
या वर्तते वस्त्वनपेक्ष्य रागालप्तिर्निजस्थानचतुष्टयेन॥
यत्र स्वरे रागनिवेशनं स्यात्स्थायीति नाम्ना मुनिभिः प्रणीतः॥
व्द्यर्धस्तु तस्मादुदितस्तुरीयः स्यादष्टमस्तु द्विगुणाभिधानः॥
यः पंचमः षष्ठकसप्तमौ च त्वर्धस्थिता इत्यभिधानकाः स्युः॥
स्थायिस्वरादूर्ध्वगचालनेन द्व्यर्धादधोवर्तिनि चालनाद्वा॥
स्थाय्यंतभूतो मुखचाल एषः स्वस्थानकं तत्प्रथमं वदंति॥
व्द्यर्धस्वरे चालनतस्तदेव स्वस्थानकं तु प्रथितं द्वितीयम्॥
अर्धस्थिते चालनतस्तृतीयं संचालनाच्चद्विगुणे चतुर्थम्॥
स्वस्थानकैस्तैरिति सर्वरागालप्तिर्मता गानविशारदानाम्॥
यदा पृथग्भूतविदारिकः स्यादालापकष्ठाय इति प्रसिद्धः॥
तालेन रागेण च वस्तुगेन निबद्धकालप्तिरियं भवेद्या॥
सा तु प्रतिग्राहणिका तथान्या प्रभंजनीति द्विविधा भवेच्च॥
आलप्तिका स्थायममुं विधाय निबद्धकस्यावयवान् गृहीत्वा॥
यदा प्रतिग्राहणिका तदा स्यात्प्रभंजनी द्वैधमिति व्रजेच्च॥
विदारिकाभागपदैर्यदिष्टैः स्थायस्थितिः स्याच्च निबद्धकेऽपि॥
नानाप्रकारः क्रियते तदासौ तज्ज्ञैर्मता स्थायकभंजनी सा॥
तेन प्रमाणेन च तैः पदैर्या त्वन्यैः प्रकारैरखिलं निबद्धम्॥
गायेत्तदासावनिबद्धपूर्वा स्याद्भंजनी सा जनरंजनाय॥
आमोदमंदं त्वधिकप्रसन्नैः स्थायैश्च सूक्ष्मैर्बहुभंगिभिश्च॥
जीवस्वरव्याप्तिपरैस्तु पूर्वं रागस्य संस्थापनिका क्रियेत॥
इत्यालप्तिप्रकरणम्।
अथ वादनानि।
अथो पुरा लक्षितवीणिकायां सर्वेषु देशीगतवस्तुकेषु॥
रागेषु केषांचन वादनानि मुग्धावबोधार्थमुदीरयामि॥
मंद्राश्रितो मध्यगतोऽपि मश्चेत्स्थायी विधीयेत परांस्ततस्त्रीन्॥
आरुह्य पन्याह्वयषड्जकाख्यान्पंचावरुह्य क्रमतस्तु षड्जात्॥
स्थायिस्वरांतानुपहन्यतेधः स्वस्थानमाद्यं त्विति मध्यमादेः॥
द्व्यर्धाख्यमर्धस्थितनामधेयमारुह्य तद्वद्द्विगुणाभिधानम्॥
आद्यं निजस्थानकमभ्युपैति स्वस्थानकानां त्रितयं परं स्यात्॥
स्वरं समारोहति च क्रमेण स्यात्सर्वरागेषु निधानमेतत्॥
इति मध्यमादिः।
मंद्रस्थितान्निग्रहतः प्रयुज्य परं ततः प्राप्य तृतीयतुर्यौ॥
उपेत्य च स्थायितृतीयकं च स्थायिस्वरात्तुर्यमथ प्रपद्य॥
ततः स्वरानप्यवरुह्य पंच स्थायिस्वराधस्तनतुर्यमेत्य॥
कृत्वा ततः स्थायिपुरःस्थितं च गत्वा स्वरं स्थायिनमग्रगं तु॥
स्थायिस्वरात्तुर्यमथ प्रपद्य ग्रहस्वरादग्रगतं विहाय॥
न्यासो विधीयेत यदा ग्रहाख्ये तदा भवेन्मालवगौडनामा॥
इति मालवगौडः।
चेद्धैवतं स्थायितया प्रपद्य ततस्तृतीयं च चतुर्थकं च॥
स्थायिस्वरांतानवरुह्य तत्राधोवर्तमानं तु तुरीयमेत्य॥
स्थायिस्वरं याति यदा तदानीं रागो भवेद्भैरवनामधेयः॥
इति भैरवः।
षड्जंविधाय द्विगुणं ग्रहाख्यमधस्तनं स्थायिनमप्युपेत्य॥
द्वितीयकं तुर्यमथ प्रयुज्य द्वितीयकं स्थायिनमास्पृशेच्च॥
नीते विलंबित्वमपि द्वितीये श्रीरागकः स्थायिविमोचनात्स्यात्॥
इति श्रीरागः।
मध्यस्थषड्जग्रहतस्तृतीयं यदा समाश्रित्य चतुर्थकं तु॥
उक्त्वा द्वितीयं तु तृतीयकं च स्पृष्ट्वा स्वरौ तुर्यकपंचमौ च॥
एतत्क्रमेणाप्यवरोह इष्टः स्थायिद्वितीयं च विनापि तुर्यं॥
ततस्तृतीयं समुदीर्य मुक्तिर्ग्रहे तु धन्नास्यभिधः प्रसिद्धः॥
इति धन्नासी।
चेद्धैवतं स्थायिपरं विलंब्यस्पृष्ट्वा ग्रहाख्यं च तथा द्वितीयम्॥
ईषद्विलंब्यग्रहपूर्वसंस्थं तृतीयमारुह्य तथा ग्रहाद्यौ॥
स्वरौ तृतीयं सुविलंब्यतस्याधस्थग्रहात्स्पर्शनमात्रतस्त्रीन्॥
आरुह्य संस्पृश्य तथा ग्रहाख्यं स्वरं द्वितीयं समुपेत्य कुर्यात्॥
ग्रहाभिधाने न्यसनं तदानीमुपेत्य मल्लारकनामधेयः॥
इति मल्लारः।
मध्यस्थसं स्थायितया विधाय समेत्य तस्मादधरस्वरौ च॥
स्थायिस्वरात् त्रीनपि वादयित्वा वेगेनचैतानवरुह्य तद्वत्॥
ग्रहस्वरेंऽतः क्रियते यदा तु तदोपजायेत वसंतनामा॥
इति वसंतः।
सस्थायिनं पूर्वगतस्वरं चेद्गत्वा समारोहति पंच तस्मात्॥
तुर्यंद्वितीयं द्विरुदीर्य मुक्तिः स्थायिन्युपेयाज्जननं वराटी॥
इति वराटी।
मध्यस्थषड्जग्रहपूर्वभूतं कृत्वा परौ तुर्यमथो विलंब्य॥
द्वितीयमास्पृश्य तथा तृतीयं मुक्तौ ग्रहे रामकृतिर्विशुद्धा॥
इति शुद्धरामक्रीः॥
इति वादनानि।
रागाः कियंतः कथिता मयैवं निबध्नतानुग्रहमर्भकेषु॥
यद्बोधतोऽधीतसुरागतायां सिद्धिं सुधीराः प्रतिपादयेयुः॥
नरपतिबुरहानो रागविद्याविवेकी
गमकगतिविभेदस्थायकानां प्रभेदम्॥
सकलजनविपंची रागकाद्यं प्रकारं
गुणिजनमवबोद्धुंचात्र योग्यं करोतु॥
इति श्रीविट्ठलादिष्टः प्रसादत्रयसुंदरः॥
रागचंद्रोदयो भाति जनाज्ञानतमोहरः॥
विद्वज्जनचकोरा ये रागचंद्रोदयं मम॥
विलसंतं सुपश्यंतु नादपीयूषकांक्षिणः॥
वरबुरहृदिजाते रागचंद्रे प्रसन्ने
भ्रमतिमिरविशेषो नाशमायात्यशेषम्॥
इति मनसि विचिंत्य प्रायशो यः पठेदु-
द्भवति सकलपृथ्वीरागिणां रागसिद्धिः॥
**कर्णाटे शैवगंगाभिधनगनिकटे सातनूर्वाह्वयो यो
ग्रामस्तत्राग्रजन्मप्रवरसुनिकराज्जामद्ग्न्योऽस्ति वंशः॥
तत्र श्रीविठ्ठलार्योऽभवदमितयशास्तद्गुणाख्या तु तस्यै-
तत्सूनो रागचंद्रोदय इति च भजन्कैरवाणां मुदेऽस्तु॥
**
इति श्री कर्णाटजातीयपुंडरीकविट्ठलविरचिते सद्राग-
चंद्रोदये आलप्तिप्रसादस्तृतीयः।
समाप्तोऽयं रागचंद्रोदयो ग्रंथः॥
<MISSING_FIG href="../books_images/U-IMG-1694242727mama.png"/>
]