रागकल्पद्रुमांकुरः

[[रागकल्पद्रुमांकुरः Source: EB]]

[

[TABLE]

[TABLE]

[TABLE]

॥श्रीगणेशाय नमः॥
अथ श्रीमद्रागकल्पद्रुमांकुरः।

हेरंबं गिरिजां शिवं रघुवरं नत्वा गुरुन्मारुतिं
संश्रित्योत्तरदेशसंप्रचलितं संगीतमार्गं श्रुतम्॥
वक्ष्ये भैरवरागतो ललितरागांतानहोरात्रगान्
वाद्यादिस्वरलक्षितांस्तु कतिचिद्रागान् क्रमेण स्फुटम्॥ १॥

स्वस्तिश्रीवैद्यनाथार्हणपरपरलीक्षेत्रवासी द्विजाग्र्यो
राजारामः समासीत्तुलसिकुलभवस्तत्सुतो रामचंद्रः॥
तत्पुत्रः काशिनाथो विबुधविरचितं लक्ष्यसंगीतशास्त्रं
भूयो भूयो विलोक्य प्रकटमिह परं रागतत्वं व्यनक्ति॥ २॥

रागादिर्भैरवाख्यो मृदुऋषभमभस्तीव्रगांधारनिः स्या-
द्वाद्यस्मिन्धैवतोसावृषभ इह तु संवादिरूपोऽभिगीतः॥
आरोहेऽल्पर्षभत्वं क्वचिदपि मृदनिं प्राहुरेकेऽवरोहे
प्रातःकाले स नित्यं जगति सुमतिभिर्गीयते मंजुतानैः॥ ३॥

इति भैरवः॥

संभेदः किल भैरवस्य कथितो बंगालसंज्ञो बुधै-
रारोहेऽप्यवरोहणे च नियतं वर्ज्यो निषादस्वरः॥
अन्यद्भैरवतुल्यमेव सकलं वक्रोऽवरोहे तु गो
गायंति प्रचुरं प्रभातसमये षड्भिः स्वरैर्गायकाः॥ ४॥

इति बंगालभैरवः॥

संस्थानकेऽस्मिन्यदि भैरवस्य
तीव्रो भवेद्धैवत एषनित्यम्॥
पूर्णस्तदानीमिह षड्जवादी
ह्यानंदपूर्वोऽयमवादि भैरवः॥ ५॥

इति आनंदभैरवः॥

संस्थान एवाजनि भैरवस्य
मिश्रस्वरूपः शिवभैरवोऽसौ॥
भेदस्त्वियान् भैरवतोऽस्य दृष्टो-
वरोहणे यन्निगयोमृदुत्वम्॥ ६॥

इति शिवभैरवः॥

संस्थाने किल भैरवस्य कथितो रागः प्रभाताभिधः
संपूर्णस्वरमंडितश्च ललितांगेन प्रयुक्तः सदा॥
वादी मध्यम ईरितो मधुरसंवादी च षड्जस्वरो
गायंति ध्रुवमेनमत्र सुधियः प्रत्यूषकाले मुदा॥ ७॥

इति प्रभातरागः॥

सौराष्ट्रोऽयं भैरवस्यैव मेले
मांशः पूर्णो धैवतद्वंद्वयोगी॥
आरोहे स्यात्तीव्रधोऽन्योऽवरोहे
प्रातर्गेयो दुर्बलोऽस्मिन्निषादः॥ ८॥

इति सौराष्ट्रः॥

रागो रामकली तु यत्र रिमधाः स्युः कोमला धैवतो
वादी रिस्तदमात्य ईरित इहारोहे मनी वर्जितौ॥
संपूर्णं त्ववरोहणं निगदितं कैश्चिन्निषादद्वयं
प्रत्यूषे मधुरस्वरं सुमतयो गायंति यं गायकाः॥ ९॥

इति रामकली॥

गुणकली त्वियं मंद्रमध्यगा
गनिविवर्जिता भैरवांगिनी॥
ऋषभधैवतौ मंत्रिवादिनौ
सदसि गीयते प्रातरौडुवा॥ १०॥

इति गुणकली॥

पूर्वांगे किल भैरवः स्फुटतरं यत्रोत्तरांगे पुनः
स्पष्टं भाति हरप्रिया भवति तद्रूपं विचित्रं ततः॥
वादित्वं त्विह षड्जएव निहितं संवादिता पंचमे
द्वैरूप्येण हि गीयते सुमतिभी रागिण्यहीरी प्रगे॥ ११॥

इति अहीरी॥

आरोहे न निरिह गस्तु वर्ज्य एव
क्वाचित्को भवति च पंचमोऽवरोहे॥
षड्जोंऽशो विलसति मध्यमश्च मंत्री
सा योगिन्युपसि चकास्ति भैरवांगे॥ १२॥

इति जोगिया॥

विभास इह वर्ज्यमध्यमनिषादकस्त्वौडुवो
रिकोमलधकोमलो भवति तीव्रगांधारकः॥
अमात्य ऋषभस्वरो भवति धैवतोंऽशस्वरो
मनो हरति शृण्वतामुषसि पंचमन्यासतः॥ १३॥

इति विभासः॥

रागो वेलावली स्याद्यदि रिगधनयस्तीव्रकाः कोमलो मः
षड्जांशः कैश्चिदुक्तः प्रकृतिसुरुचिरो धैवतांशो गमंत्री॥
आरोहेऽल्पौ मनी स्तः क्वचिदपि च निषादस्य वक्रत्वमुक्तं
प्रातःकाले सुवीणारवमधुरगलैः सुस्वरं गीयतेऽसौ॥ १४॥

इति वेलावली॥

मेले वेलावलीये प्रभवति रुचिरा शुक्लवेलावली य-
त्प्रारोहे दुर्बलोरिः क्वचिदपि च मृदुः स्यान्निपादोऽवरोहे॥
वादित्वं मध्यमे स्यात्तदनु भवति संवादिता षड्जएव
प्राह्णे गानं प्रदिष्टं सुनिपुणमतिभिर्मध्यमे न्यास इष्टः॥ १५॥

इति शुक्लवेलावली॥

मता यमनपूर्विका पुनरियं हि वेलावली
प्रविष्ट इह तीव्रमध्यम इति स्वरूपे भिदा॥
सपावभिहितौ बुधैरिह तु वादिसंवादिनौ
मनोज्ञमधुरस्वरैरुषसि गीयते सांप्रतम्‌॥ १६॥

इति यमनवेलावली॥

वेलावली स्यान्नटपूर्विकाऽपि
श्रुतिप्रिया मध्यमवाद्यलंकृता॥

आरोहणे यत्र नटो विभाति
प्रगीयते प्रातरियं सुधीभिः॥ १७॥

इति नटवेलावली॥

वेलावलीमेलभवो हि देव-
गिरिर्विलोमेधगदुर्बलोऽयम्‌॥
संपूर्णरागः किल षड्जवादी
कल्याणमिश्रोऽभिमतः प्रभाते॥ १८॥

इति देवगिरिः॥

वेलावलीरागभवस्त्वल्हैया
संवादिगांधारकवादिधैवतः॥
मृदुर्निषादोऽपि मतोऽत्र किंचि-
दारोहणे मध्यमवर्जितोऽयम्‌॥ १९॥

इत्यल्हैया॥

बिभाति सरपर्दकः सकलमान्यतीव्रस्वरै-
र्विलावलविशेष एव स इहप्रदिष्टो बुधैः॥
सपावथ धगौच कैश्चिदिह वादिसंवादिनौ
स्मृतावुषसि गीयते सुमधुरस्वरं गायकैः॥ २०॥

इति सरपर्दा॥

देशीकारस्त्वौडुवः शुद्धमेलः
प्रोक्तो नित्यं वर्जितोऽसौ मनिभ्याम्‌॥
गः संवादी धैवतस्त्वत्र वादी
पन्यासोऽयं गीयते प्रातरेव॥ २१॥

इति देशीकारः॥

वेलावल्या मेल एव प्रसिद्धो
लच्छासागो धैवतांशो गमंत्री॥
खंमाजांगेनैव यस्य प्रचारो
नित्यं प्राह्णे गीयतेऽसौ सुधीभिः॥ २२॥

इति लच्छासागः॥

वेलावल्याः प्रभेदः ककुभ इति मतो मान्यतीव्रस्वराढ्यः
संवादी चर्षभोऽस्मिन्‌ विलसति नितरां पंचमो वादिपीठे॥
संमिश्रो जैजवंत्याभवदिति सुधियो यद्वदंति ध्रुवं तद्‌
गायंति प्रातरेव प्रतिदिवसममुं गानसाखप्रवीणाः॥ २३॥

इति ककुभः॥

माडो रागो भवति मरुमेवाडदेशप्रसिद्धः
संपूर्णोऽयं परमरुचिरो मान्यतीव्रस्वरोत्थः॥
प्रायो वक्रक्रम इह सपौ वादिसंवादिनौ स्तः।
प्रारोहे दुर्बलधरिषभो गीयते सर्वकाले॥ २४॥

इति माडरागः॥

आभांत्यसां रिगमधनयः कोमलाः सोऽत्र वादी
मः संवादी क्वचिदपि धगौ वादिसंवादिनौ स्तः॥
प्रातःकालेडतिरुचिरतरा स्वैरिणी सर्वरम्या
संपूर्णासंजनयति मुदं भैरवी रागिणीऽयम्‌॥ २५॥

इति भेरवी॥

यस्यां तीव्रोभवति रिषभः कोमला एव सर्वे
वादी यस्यां विलसति सदा मध्यमः सोऽस्त्यमात्यः॥
एके प्राहुर्मृदुलमृषभं चावरोहे कदाचित्‌
प्रातर्गेया परममधुरा भैरवी सिंधुपूर्वा॥ २६॥

इति सिंधुभैरवी॥

भूपालः स्याद्धैरवीमेरजन्यो
नित्यं यस्मिन्वर्ज्यते मश्च निश्च॥
गः संवादी धैवतोऽस्त्यत्र वादी
प्रातः काले गीयते मंजुकंठैः॥ २७॥

इति भूपालः॥

सामंतोऽखिलकोमलस्वरयुतस्त्वारोहणे वर्जितो
गांधारेण निषादकेन च तथा त्यक्तोऽवरोहे निना॥
वादी मध्यम एव षड्जइह संवादी भवेन्निश्चितं
प्रातर्नित्यमसौ सुशिक्षितजनैर्मजुस्वरं गीयते॥ २८॥

इति सामंतः॥

तोडीयं यदि कोमला धगरयस्तीव्रौ मनी धैवतो
वादिस्थानगतः सदा विजयते गांधारसंवादिना॥
आरोहे ऋषभस्य दुर्वलतया षड्जग्रहन्यासतो
गंभीरप्रकृतिर्विलंबितलयं संगीयते संगवे॥ २९॥

इति तोडी॥

तोडिकैव किल गुर्जरी मता
पंचमेन रहिता यदा भवेत्॥
संवददृषभधैवतांशतो
गीयते सुमतिभिस्तु संगवे॥ ३०॥

इति गुर्जरी॥

तोडीमेले कोमलो मध्यमोऽयं
किंचित्कैश्चिद्गीयते संप्रविष्टः॥
लाचारीं तां तोडिकां धैवतांशां
प्राहुः सर्वे गीतशास्त्रप्रवीणाः॥ ३१॥

इति लाचारी॥

रागिण्यासावरीयं मृदुगमधनिभिस्तीव्रकेणर्षभेण
संयुक्तारोहणे या किल गनिरहिता चावरोहे तु पूर्णा॥

वादी स्याद्धैवतोऽस्यां श्रुतिरुचिरतरो गिश्च संवाद्यभीष्टो
विष्वक्तानप्रसारैर्मृदुमधुरगलैगींयते संगवे सा॥ ३२॥

इत्यासावरी॥

प्रख्याता जौनपूरी मृदुगमधनिका रोहणे गेन हीना
संपूर्णा चावरोहे नियतमभिहितश्चात्र वादी निषादः॥
गांधारः स्यादमात्यः प्रकटयति सदाऽऽसावरीतुल्यरूपं
गानं चास्या द्वितीयप्रहरसमुचितं प्राह्ण एवोपदिष्टम्॥ ३३॥

इति जौनपूरी॥

स्वरैसावर्याः किल जगति देशी सुविदिता
धगत्यक्ताऽऽरोहे विलसति वरोहे तु सकला॥
प्रसिद्धः संवादो भवति समयोरत्र मधुरः
प्रभां सारंगस्य प्रकटयति पूर्वेंऽग इह सा॥ ३४॥

इति देशी॥

आसावर्याः स्वरेभ्यः प्रभवति रुचिरो देवगांधाररागः
प्रारोहे वर्ज्यतोक्ता ध्रुवमिह रिधयोः पूर्णता चावरोहे॥
पूर्वांगे सा धनाश्रीः प्रविलसति सदाऽऽसावरी चोत्तरांगे
संवादी पंचमोंऽशः स इह सुमधुरं गीयते संगवे हि॥ ३५॥

इति देवगांधारः॥

आसावर्याः स्वरेभ्यो ध्रुवमजनि खटो मिश्ररागोऽयमुक्तो
धांशो गांधारमंत्री प्रकृतिचपलको मग्रहः पंचमांतः॥
पूर्वांगे भैरवोऽस्य प्रविलसति सदाऽऽसावरी चोत्तरांगे
गायंत्येनं हि सर्वे सुकुशलमतयः संगवे श्राव्यकंठाः॥ ३६॥

इति खटरागः॥

हरप्रियामेलसमुद्भवोऽयं
देशाख्यरागो धगदुर्बलः स्यात्॥
वाद्यत्र षड्जःसहचारिमध्यमः
सारंगभंग्या कुतुपेऽभिगीयते॥ ३७॥

इति देशाख्यः॥

सूहारागः किल गमनिभिः कोमलैर्भाति युक्तः
प्रारोहे धैवतविरहितश्चावरोहे तथैव॥
वादी मध्यः प्रविलसति संवादकः षड्जएव
चंचत्तानैः कुतुपसमये गीयते गानधुर्यैः॥ ३८॥

इति सूहारागः॥

सुग्राई स्यान्मृदुगमनिकारोहणे धैवतेन
हीनेत्युक्ता पुनरभिहिता चावरोहे धयुक्ता॥
संवादी तु प्रथित इह सः पंचमोऽस्त्यत्र वादी
विष्वक्तानैः कुतुपसमये गीयते गीतविद्भिः॥ ३९॥

इति सुग्राईरागः॥

सारंगो धगवर्जितो मृदुमनिस्तीव्रर्षभः पंचमः
संवादी किल वाद्यपीह ऋषभोऽसौ मध्यमादिर्मतः॥
आरोहे यदि धो भवेदिह तदा शुद्धोऽवरोहे तु धे
वृंदावन्यपि तीव्रनिर्भवति वै गेयस्तु मध्येऽहनि॥ ४०॥

इति सारंगः॥

रागोऽयं बडहंसको मृदुमनिर्गांधारहीनः सदा
वादी त्वत्र हि पंचमो भवति संवादी च षड्जस्वरः॥
सारंगस्य हि भेद एष इति यं सर्वे वदंति ध्रुवं
मध्याह्ने मधुरं च गीतिनिपुणैः षड्भिः स्वरैगींयते॥ ४१॥

इति बडहंसः॥

सारंगो गौडपूर्वो द्विम इति विदितोऽन्यैस्तु तीत्रैरुपैतः
प्रायः सर्वोऽपि वक्रो निरतिविरल एवात्र संदृश्यतेऽसौ॥
गांधारो धैवतश्च प्रविलसत उभौ वादिसंवादिरूपौ
केऽप्याहुर्वैपरीत्यं समयविद उतार्धात्परं गीयतेऽन्हः॥ ४२॥

इति गौडसारंगः॥

प्रोक्तेयं पटमंजरी गमनिभिर्युक्ता सदा कोमलै-
रारोहे धगदुर्बला निगदिता पूर्णाऽवरोहे पुनः॥
वादी स्यादिह षड्जएव किल संवादी मतः पंचमो
मध्याह्नात्परमेव सुस्वरमसौ संगीयते गायकैः॥ ४३॥

इति पटमंजरी॥

स्वरास्तु मृदवोऽखिला ऋषभधौ च नारोहणे-
वरोहसमये भवेयुरथ यत्र सर्वेऽपि च॥
समुल्लसति पंचमोंऽश इह षड्जसंवादिना-
पराह्णसंमयेषु निग्रहयुता धनाश्रीरियम्॥ ४४॥

इति धनाश्रीः॥

प्रोक्ता भीमपलाशिका गमनिभिर्या कोमलैर्मंडिता
प्रारोहे रिधवर्जिता प्रकथिता पूर्णाऽवरोहे पुनः॥
वादी मध्यम ईरितो भवति संवादी तु षड्जस्वरो
यामे चेह तृतीयकेऽहनि बुधैर्गीता मनोज्ञस्वरैः॥ ४५॥

इति भीमपलाशिका॥

हरप्रियामेलभवापवादिनी
रिधौ परित्यज्य समारुहंती॥
पूर्णावरोहा किल हंसकंकणी
द्विगा तृतीयप्रहरेऽह्नि गीयते॥ ४६॥

इति हंसकंकणी॥

यस्यां तीव्रौ मनी स्तः खलु ऋषभधगाः कोमला भांति यत्र
प्रख्यातः पंचमोंऽशः स्फुरति सहचरोऽप्यत्र षड्जोऽभिगीतः॥
आरोहे वर्जितौ तौ भवत इह रिधौ स्युश्च सर्वेऽवरोहे
प्रायः कालेऽपराहे सुचतुरमतिभिर्गीयते मूलतानी॥ ४७॥

इति मूलतानी॥

मतः पीलूरागः सकलमृदुतीव्रस्वरयुतो
मृदुर्गांधारोंऽशः सहचरति तीव्रस्तु निरिह॥

प्रसिद्धः सर्वत्र प्रचुरतरसंचाररुचिरः
सदा गेयःसर्वार्भकतरुणवृद्धैः परिचितः॥ ४८॥

इति पीलुः॥

द्वौ गौ द्वौ धौ द्वौ च नी कोमलो म-
स्तीव्रो यस्मिंश्चर्षभो भाति पूर्णः॥
वादी रिः संवादिना पंचमेन
बर्वारागो गीयते सर्वकालम्॥ ४९॥

इति बरवारागः॥

रागेऽस्मिन्मारुसंज्ञे किल गमधनयस्तीव्रकाः स्युर्मृदूरि-
र्वादी चात्रर्षभोऽयं ध्रुवमनुभवतो लक्ष्ययोगानुरोधात्॥
संवादी धैवतश्च स्फुटमिह गमनं साध्यतेऽतिश्रमेण
संगीताभ्यासशीलैर्नियतमविरतं गीयते सायमेव॥ ५०॥

इति मारुः॥

मालीगौरः परमरुचिरो मारुसंस्थानजन्यः
संपूर्णोऽसाविह किल रिधौ वादिसंवादिनौ स्तः॥
श्रीसंमिश्रो विलसति सदा पूरियामिश्रितश्च
सायंगीतो मधुरनिनदैर्मंद्रमध्यप्रचारः॥ ५१॥

इति मालीगौरः॥

वराटीति रागः स्मृतो मारुमेले
गवादी धसंवादियुक्तो विभाति॥
सदा पंचमेनाभियुक्तः सुपूर्णः
स सायं बुधैर्गीयते मंजुगीतैः॥ ५२॥

इति वराटी॥

जैत्रो रागो मारुसंस्थानजन्यः
प्रोक्तो नित्यं वर्जितोऽयं मनिभ्याम्॥

वादी चास्मिन्पंचमः संप्रदिष्टः
षड्जोऽमात्यो गीयते सायमेव॥ ५३॥

इति जैत्रः॥

प्रख्याता मालवश्रीः सगमपनियुता धर्षभाभ्यां विहीना
प्रारोहे चावरोहेऽप्यमृदुगमनिका भ्राजते सौडुवैव॥
प्रोक्तोऽस्यां पंचमोंऽशः प्रविलसति च संवादिरूपस्तु षड्जः
षड्जोद्गाहा सदेयं सुरुचिरमतिभिर्गीयते सायमेव॥ ५४॥

इति मालवश्रीः॥

पूर्वीरागःसकलविदितः कोमलाभ्यां रिधाभ्यां
मध्यस्तीव्रोमृदुरपि सदैवात्र तीव्रौ गनी स्तः॥
गो वाद्यत्र प्रविलसति तत्साहचर्ये निषादः
संपूर्णोऽसौ सरसविबुधैः सायमेव प्रगीतः॥ ५५॥

इति पूर्वी॥

पूर्वीस्वरैरेव युता त्रिवेणी
सदा विहीना खलु मध्यमेन॥
वादी मतोऽस्यामृषभोऽस्त्यमात्यो-
भिगीयते पंचम एव सायम्॥ ५६॥

इति त्रिवेणी॥

पूर्वीमेले संस्थिता सा तु टंकी
संपूर्णाऽसौ पंचमांशा प्रसिद्धा॥
संवाद्यस्यां प्रोच्यते चर्षभोऽयं
सायंकाले गीयते गीत्यभिज्ञैः॥ ५७॥

इति टंकी॥

पूर्वीपूर्यामिश्रिता साजगीरी
गांधारांशा पूर्णरोहावरोहा॥
ईषच्छुद्धो मध्यमो धैवतौ द्वौ
प्रोक्तौ यस्यां गीयते सायमेव॥ ५८॥

इति साजगिरी॥

पूर्वीमेले भाति वर्ज्या मनिभ्यां
षड्जांशा वा गांशिका कैश्चिदुक्ता॥
संवाद्यस्यां पंचमः संप्रदिष्टः
सेयं रेवा सायमेवाभिगीता॥ ५९॥

इति रेवा॥

पूर्वीसंस्थानजन्याऽखिलविबुधमता मालवी रागिणीयं
प्रारोहे निर्निषादा भवति विकलिता धैवतेनावरोहे॥
वादी यत्रर्षभः संप्रविलसति तथा पंचमोऽमात्य इष्टः
संगत्या गस्य पस्याप्यतिरुचिरतरा गीयते सायमेव॥ ६०॥

इति मालवी॥

जैत्रश्रीरिह वर्णिता गमनयस्तीव्रामृदू धर्षभा-
वारोहे रिधवर्जिता पुनरियं पूर्णावरोहे मता॥
गांधारस्य निषादकस्य च सदा संवादसंभूषिता
गीतालापविचारचारुमतिभिः सायं मुदा गीयते॥ ६१॥

इति जैत्रश्रीः॥

उक्ता पूर्याधनाश्रीरमृदुगमनिका कोमलौ धर्षभौ च
विभ्राणा पंचमांशा ऋषभसहचरी पूर्णरोहावरोहा॥
योगं पूर्वीधनाश्रीत्यभिहितविलसद्रागयोर्यद्दधाति
नाम्ना रागद्वयं संप्रकटयति बुधैर्गीयतेऽसौ दिनांते॥ ६२॥

इति पूर्व्याधनाश्रीः॥

श्रीरागः कथितोऽत्र तीव्रनिगमोऽस्मिन्कोमलौ धर्षभौ
वादी पंचम ईरितो मधुरसंवादी मतश्चर्षभः॥
आरोहे तु धगौ न संस्पृशति संपूर्णोऽवरोहे सदा
गीतोऽवश्यमसौ दिनांत्यसमये संभुक्तिमुक्तिप्रदः॥ ६३॥

इति श्रीरागः॥

गौरीरागः प्रकटतरमाभाति तुल्यः श्रियैव
भेदः किंचिद्भवति च परं वादिसंवादितोऽस्य॥

वादी चात्रर्षभ इति जगुः पंचमोऽमात्यवर्यः
सायं गीतः सुखयति मनो मंद्रनी रक्तिदोऽस्मिन्॥ ६४॥

इति गौरी॥

मेले पूर्व्या दीपकः षड्जवादी
प्रारोहे संवर्ज्यतेऽत्रर्षभो हि॥
वर्ज्यः प्रोक्तश्चावरोहे निषादः
सायंकाले गीयते गानधुर्यैः॥ ६५॥

इति दीपकः॥

कल्याणो यमनो विभाति सकलैस्तीव्रैःस्वरैर्मंडितो
गांधारः कथितोऽत्र वाद्यथ च संवादी निषादस्वरः॥
शेषाः स्युस्त्वनुवादिनः क्वचिदिह स्यात्कोमलो मध्यमो
गेयो रात्रिमुखे मनीषिभिरसौ संपूर्णरागो मतः॥ ६६॥

इति यमनकल्याणः॥

कल्याणः शुद्धपूर्वः किल सरिगपधैस्तीव्रकैरौडुवोऽय-
मारोहेऽथावरोहे निधपमगरिसैस्तीव्रकैरेव पूर्णः॥
वादी गांधार एवात्र भवति सह संवादिना धैवतेन
गेयोऽसौ पूर्वयामे निशि सकलबुधैर्मंद्रमध्यस्वरेषु॥ ६७॥

इति शुद्धकल्याणः॥

भूपाली नाम रागस्त्विह सरिगपधैः पंचतीव्रस्वरैः स्या-
दारोहे चावरोहेऽपि च स खलु पुनर्नैव भेदं प्रपेदे॥
गांधारो धैवतोऽत्र प्रविलसत उभौ वादिसंवादिनौ तौ
प्रख्यातश्चौडुवोऽयं निशि गुणिनिकरैर्गीयते पूर्वयामे॥ ६८॥

इति भूपाली॥

हंमीरः परिपूर्णराग इह गांधारग्रहो धांशकः
केचित्पांशमिमं जगुः कतिपरे षड्जग्रहांशं विदुः॥
आरोहे रिनिदुर्बलो निगदितो वक्रोऽवरोहे गतो
राज्याद्यप्रहरे द्विमध्यमलसत्तीव्रस्वरैर्गीयते॥ ६९॥

इति हंमीरः॥

श्यामो रागो भवति विलसन्मद्वयश्चान्यतीव्रः
प्रारोहे धैवतविरहितः षड्जवादी तथाऽस्मिन्॥
संवादी च प्रकृतिरुचिरो मध्यमः संप्रदिष्टः
पूर्वे यामे सरसमतिभिर्गीयतेऽसौ निशायाम्॥ ७०॥

इति श्यामः॥

कामोदो भाति युक्तः किलरिगधनिभिस्तीव्रकैर्मद्वयेन
वादी चात्र प्रसिद्धः प्रविलसति सदा पंचमो रिस्त्वमात्यः॥
स्तोकोऽमुष्मिन्निषादः प्रकटयति रुचिं वक्रगश्चावरोहे
सानंदं पूर्वयामे निशि विबुधजनैर्गीयते मंजुकंठैः॥ ७१॥

इति कामोदः॥

हेमः कल्याणभेदोऽस्त्यनतिपरिचितो मान्यतीव्रस्वरोऽसौ
संपूर्णः षड्जवादी ह्यनिरपि गदितो मंत्रिणा पंचमेन॥
आरोहे वर्ज्यते धः सरसरुचिकरो मंद्रमध्यस्वरेषु
सर्वेषां रक्तिदोऽयं प्रथमनिशि सदा गीयते गीत्यभिज्ञैः॥ ७२

इति हेमकल्याणः॥

तीव्रस्वरैरिह विभाति स चंद्रकांतः
प्रारोहणे मरहितः सकलोऽवरोहे॥
गांधारवाद्ययममात्यनिषादयुक्तः
कल्याणभेद इति गीतिविदो वदंति॥ ७३॥

इति चंद्रकांतः॥

प्रख्यातो नटराग एष मृदुमस्तीव्रस्वरैर्मेतरै-
रारोहे परिपूर्णताऽस्य धगयोस्त्यागोऽवरोहे मतः॥
वादी दीव्यति मध्यमो लसति संवादी तु षड्जस्वरो
धीमद्भिः प्रहरात्परं सुमधुरं रात्रावसौ गीयते॥ ७४॥

इति नटरागः॥

छायानाटः प्रकृतिरुचिरः पंचमांशो ज्यमात्यो
मद्वंद्वी चामृदुरिगधनिः पंचमाद्रौप्रपाती॥

आरोहे संस्पृशति च न निं योऽवरोहे गवक्रः
पूर्वे यामे निशि सुमतिभिर्गीयते चारुगीतैः॥ ७५॥

इति छायानाटः॥

केदारस्त्वभिवर्णितो रिगनिधैस्तीव्रैःसदाऽलंकृतो
वादी कोमलमध्यमो भवति संवादी च षड्जस्वरः॥
तीव्रोऽपि क्वचिदत्र मध्यम इहारोहे रिगौ वर्जितौ
यामे च प्रथमे निशासु मधुरं वीणारवैर्गीयते॥ ७६॥

इति केदारः॥

केदारस्य प्रभेदो विलसति मलुहा मेतरैः सर्वतीव्रैः
संयुक्तो मध्यमांशः सहजरुचिरसंवादिषड्जाभिरामः॥
आरोहे प्रायशोसावृषभधरहितः श्यामकामोदमिश्रो
गीतः पूर्वे हि यामे निशि कुशलजनैर्मंद्र मोद्ग्राहपूर्वम्॥ ७७॥

इति मलुहा॥

केदारेऽस्मिंस्तीव्रमस्य प्रयोगो
भूयान् स्तोकं कोमलो निर्यदि स्यात्॥
हंमीरांगं दृश्यते यत्र किंचि-
त्तं केदारं चांदनीपूर्वमाहुः॥ ७८॥

इति चांदनीकेदारः॥

पूरिया तु षाडवा रिकोमलान्यतीव्रका
मंद्रमध्यचारिणी सुरक्किदा पवर्जिता॥
मंदगामिनी मता गवादिनी निसंवदा
स्निग्धमंजुलस्वरैर्निशासु गीयते बुधैः॥ ७९॥

इति पूरिया॥

विहंग इह गीयते ममृदुरन्यतीव्र स्वरो
रिधौ त्यजति रोहणे स्पृशति चावरोहे पुनः॥
तथा निगदितौ गनी रुचिरवादिसंवादिनौ
निशीथसमये सदा श्रुतिमनोहरं गीयते॥ ८०॥

इति विहंगः॥

प्रसिद्ध इह शंकरो भवति षाडवो वर्ज्यमः
सपावभिमतौ सदा मधुरवादिसंवादिनौ॥
परैस्तु रिमवर्जितः कथित औडुवोऽपि क्वचि-
न्निशीथसमयेऽभिगीत इह चारुतीव्रस्वरैः॥ ८१॥

इति शंकरः॥

खंमाजो यत्र तीव्रा ऋषभगधनयो मो मृदुर्निर्मृदुः स्या-
दारोहे रिर्निषिद्धो भवति च परिपूर्णोऽवरोहे पवक्रः॥
वादी गांधार एव प्रविलसति तथा संवदानो निषादो
रात्रौ यामे द्वितीये प्रमदयति मनः श्रोतृणामेष रागः॥ ८२॥

इति खंमाजः॥

खंबावती मृदुमनी रिगधैश्च तीव्रै-
र्युक्तार्षभेण नियतं रहितावरोहे॥
गांशा निषादसहचारिसमाश्रिता च
गायंति तां किल निशि प्रहरे द्वितीये॥ ८३॥

इति खंबावती॥

रागेश्वर्यपि पंचमेन रहिता खंमाजसंस्थानजा
प्रारोहे ऋषभं न संस्पृशति धो वक्रोऽवरोहे मतः॥
षड्जोवाद्यथ मध्यमेन सततं संवादिना रोचते
यामिन्यां प्रहरात्परं सुमतिभिर्मंजुस्वरं गीयते॥ ८४॥

इति रागेश्वरी॥

खंमाजसंस्थानभवास्ति दुर्गा
नित्यं परिभ्यां परिवर्जितेयम्॥
गांशा धसंवादिविराजमाना
द्वितीययामे निशि गीयमाना॥ ८५॥

इति दुर्गा॥

तिलंग इह वर्णितो मृदुमनिस्तथा तीव्रगः
सदैव रिधवर्जितो भवति गांशकश्चौडुवः॥

निषाद इह संवदत्यथ च नीपयोः संगति-
र्निशि प्रहरतः परं समभिगीयते गायनैः॥ ८६॥

इति तिलंगः॥

झिंझूटीत्येष रागः सकलजनमतः कोमलाभ्यां मनिभ्या-
मन्ये तीव्राः प्रयुक्ताः क्वचिदपि मृदुगस्तीव्रनिश्चापि गेयः॥
वादी गांधार उक्तः श्रुतिरुचिरतरो धैवतः संप्रवादी
प्रारोहेऽल्पौ निगौ स्तो निशि मधुरगलैर्मंद्रमध्याभिगीतः॥ ८७॥

इति झिंझूटी॥

पाहाडिका भवति मेतरसर्वतीव्रा
मन्यल्पका सततसंश्रितमंद्रमध्या।
वादी तु षड्जइह पंचममंत्रियुक्तः
संगीयते सुचतुरैः खलु सर्वदाऽसौ॥ ८८॥

इति पाहाडिका॥

यदा तु रिगधाः स्वरा निगदिताश्च तीव्रास्तथा
मृदुर्भवति मध्यमो विलसतो निषादावुभौ॥
मतावृषभधैवतौ सरसवादिसंवादिनौ
धगौ न यदि रोहणे निशि तदा मता सोरटी॥ ८९॥

इति सोरटी॥

रागो देसः पंचमांशोर्यमात्यः
संपूर्णोऽयं सोरटी तुल्य एव।
किंचिद्भेदाच्चावरोहे रिवक्रो
रात्रौ यामादुत्तरं गीयतेऽसौ॥ ९०॥

इति देसरागः॥

प्रोक्तेयं जयजयवंतिका तु पूर्णा
गौ नी द्वावपि मृदुमो रिधौ च तीव्रौ॥
वादी रिर्विलसति पंचमोहि मंत्री
सोरट्यंगत इह गीयते निशायाम्॥ ९१॥

इति जयजयवंती॥

कामोदस्तिलकादिरत्र मृदुमस्तीव्रेतरः सांशकः
संवादी किल पंचमो मत इहारोहे च धो वर्जितः॥
सोरट्यंगयुतोऽवरोहमृदुनिर्वक्रर्षभालंकृतः
सानंदं निशि गीयते सुमतिभिर्यामात् परं सुस्वरम्॥ ९२॥

इति तिलककामोदः॥

रागो मल्लारसंज्ञः सरिमपधइतिप्रोक्तपंचस्वराढ्य-
स्तीव्रावस्मिन् रिधौ स्तो भवति सहचरः पंचमः सोऽत्र वादी॥
यद्रागाकालगानोद्भवदुरितमयं हंति तस्मादवश्यं
गेयो वर्षासु नित्यं भुवि सकलजनैरौडुवः कल्मषघ्नः॥ ९३॥

इति मल्लारः॥

मल्लारमेले यदि कोमलो निः
क्वचित्तु तीव्रोऽपि च संप्रयुक्तः॥
षड्जांशमेवेह वदंति सर्वे
तं मेघमल्लारमिति स्वरज्ञाः॥ ९४॥

इति मेघमल्लारः॥

मल्लारो यः सूरपूर्वोऽभिगीतो
द्वावत्र प्रच्छादनीयौ धगौ स्तः॥
षड्जो वादी मध्यमः संप्रवादी
रागाभिज्ञैर्गीयते प्रावृषीह॥ ९५॥

इति सुरमल्लारः॥

मीयामल्लार इति विदितो यस्तु कर्णाटमिश्रः
षड्जो वादी रुचिर इह संवादिना पंचमेन॥
गांधारस्य स्फुटविलसदांदोलनं निद्वयं च
प्रच्छन्नो धो विलसति सदा मध्यमाद्रौ प्रपातः॥ ९६॥

इति मीयामल्लारः॥

संपूर्णोऽयं गौंडमल्लारागो
न्यल्पारोहस्तीव्रमान्यस्वरो यः॥

मांशः संवादी तु षड्जो मतोऽस्मिन्
गायंति ज्ञाः प्रावृषि प्रायशोऽमुम्॥ ९७॥

इति गौंडमल्लारः॥

काफीरागोस्त्यमृदुलरिधः कोमलाभ्यां गमाभ्यां
द्वाभ्यां निभ्यां परममधुरः पंचमो वादिरूपः॥
संवादी स्यात्स इह कतिचिद्वादिनं गं वदंति
सांद्रस्निग्धं सरसमतिभिर्गीयतेऽसौ निशायाम्॥ ९८॥

इति काफी॥

काफीमेले सिंधुरोऽस्ति प्रसिद्धः
प्रारोहे गांधारवर्ज्योऽवरोहे॥
पूर्णः पडूजो वाद्यमात्यः प एव
प्रेक्षावद्भिगींयते सर्वकालम्॥ ९९॥

इति सिंधुरः॥

धानी प्रोक्ता मृदुगमनिका वर्जिता धर्षभाभ्या-
मारोहेऽस्याः सगमपनयः स्युस्त एवावरोहे॥
वादी गांधार इह निसखः प्रोच्यते ह्यौडुवेयं
चंचच्चारुस्वरसुरुचिरं गीयते सर्वकालम्॥ १००॥

इति धानी॥

नीलांबर्यपि कोमलैर्गमनिभिर्युक्ता क्वचित्तीव्रगा
सोद्गाहोत्तमवादिपंचमयुता स्यात्पङ्जसंवादिका॥
आरोहे धविवर्जिता निगदिता पूर्णाऽवरोहे पुन-
श्चारूगानधुरंधरैः सुमतिभिः सा गीयते सर्वदा॥ १०१॥

इति नीलांबरी॥

गारारागो भवति मृदुमस्तीवरिस्तीव्रधश्च
द्वौ गांधारौविलसत इह द्वौ निषादौ तथैव॥
तीव्रावारोहण इतरके कोमलौतौगनी स्तः
पड्जो वादी परमरुचिरो गीयते सर्वकालम्॥ १०२॥

इति गारारागः॥

प्रोक्तः कर्णाटरागो मृदुगमधनिको मंद्रमध्यस्वरस्थो
वादी तीव्रर्षभोऽत्र श्रवणमधुरसंवादिना पंचमेन \।\।
आरोहे दुर्बलो गः प्रविलसति सदांदोलनं गे प्रयुक्तं
धो वर्ज्यश्चावरोहे सुरुचिरगमकैर्गीयते प्राङ्गिशीथात्॥ १०३

इति कर्णाटकः॥

कर्णाटसंस्थानभवो हि नायकी
संवादिषड्रजः खलु मध्यमांशः॥
प्रोक्तः सदा धैवतवर्जितो वै
द्वितीययामे निशि गीयतेऽसौ॥ १०४॥

इति नायकी॥

हुसेनी च कर्णाटकस्यैव भेदो
भवेत्तारषड्रजांशको मोद्ग्रहश्च॥
युतः पंचमेनैव संवादिनाऽयं
प्रयुक्तो निशायां द्वितीये हि यामे॥ १०५॥

इति हुसेनी॥

कौशी च कर्णाटकभेद एव
संपूर्णरागः खलु मध्यमांशः॥
मिश्रस्तु किंचित्स हि मालकौशिना
निशीथकाले मधुरं प्रगीयते॥ १०६॥

इति कौशी॥

रागोऽड्डाणः प्रसिद्धो मृदुनिगमयुतस्तीव्रधस्तीव्ररिश्च
तारः षड्जोऽत्र वादी सहचरति सदा पंचमो मध्यसंस्थः॥
आरोहे दुर्बलौ तौ भवत इह धगौ धं मृदुं केचिदाहुः
कर्णाटस्यैव भेदः सरससुमधुरं गीयतेऽसौ निशीथे॥ १०७॥

इत्यड्डाणः॥

सहानारागोऽयं मृदुगमनिकस्तीव्रधरिको
न धः स्यादारोहे विलसति विलोमे तु स मनाक्॥
समाम्नातः पांशो भवति सहकारी तु स इह
स्फुरत्तानैर्गीतो जनयति निशीथे मुदमसौ॥ १०८॥

इति सहाना॥

तीव्रौ रिधौ गमनयो मृदवो हि यस्यां
संवादिषड्जसहिता खलु मध्यमांशा॥
आरोहणे परहिता सकलाऽवरोहे
वागीश्वरी सुमतिभिः कथितार्धरात्रे॥ १०९॥

इति वागीश्वरी॥

बहाररागो निगमैस्तु कोमलै-
रस्मिन्समौ संवदतः परस्परम्॥
आरोहणे रिर्न न धोऽवरोहणे
ऋतौ वसंते मधुरं स गीयते॥ ११०॥

इति बहाररागः॥

रागाग्र्यो मालकौशिर्मृदुलगमधनिः प्रौढपंचस्वराढ्यो
गंभीरोच्चस्वभावस्त्यजति स ऋषभं पंचमं चापि नित्यम्॥
वाद्यस्मिन्मध्यमः संप्रविलसति भृशं षड्जसंवादियुक्तः
प्रख्यातस्त्वौडुवोऽयं प्रकटयति रुचिं यो निशीथात्परस्तात्॥ १११॥

इति मालकौशिः॥

हिंदोलोऽसावौडुवः सर्वतीव्रो
नित्यं हीनः पंचमेनर्षभेण॥
वादी गांधारस्वरो धैवतः सं-
वादी गेयः सर्वकालं वसंते॥ ११२॥

इति हिंदोलः॥

वसंतर्तौ गेयो मृदुलऋषभस्तीव्रसकलः
पहीनो मद्वंद्वः समगपुनरावृत्तिरुचिरः॥
सवादी मामात्योऽप्यहनि निशि चाव्याहतगतिः
स्थितस्तारे षड्जेस जगति वसंतो विजयते॥ ११३॥

इति वसंतः॥

मेलाद्वासंतिकाद्वै प्रभवति रुचिरो भट्टिहारोऽपि रागः
संपूर्णो मध्यमांशः परममधुरसंवादिषड्जस्वरो हि॥
मिश्रा यस्मिन् त्रयोऽमी परजललितकालिंगका इत्थमूचू
रात्रौ यामे तृतीये सुकुशलमतिभिर्गीयते मंजुतानैः॥११४॥

इति भट्टिहारः॥

भंखाररागस्तु वसंतमेले
संपूर्णरूपः खलु पंचमांशः॥
द्विमध्यमोऽसौ मृदुलर्षभश्च
रात्रौ तृतीये प्रहरेऽभिगीयते॥११५॥

इति भंखारः॥

रागः पंचम एष सर्वविदितो युक्तो वसंतस्वरैः
वादी मध्यम एव यत्र विलसत्संवादिषड्जोमतः॥
आरोहे ऋषभं न संस्पृशति यो घर्ज्यर्षभोऽपि क्वचि-
द्रात्रावंतिमयामके सुमतिभिर्मंजुस्वरं गीयते॥११६॥

इति पंचमरागः॥

रागोऽयं परजाभिधो निगदितः पूर्णो बहूनां मते
तीव्रौ यत्र गनी मृदू किल रिधौ तीव्रो मृदुर्मध्यमः॥
तारः षड्ज इहांश इत्यभिहितः स्यात्पंचमोऽमात्यको
रात्रावंतिमयाम एव सुखदो विद्वद्वरैगींयते॥११७॥

इति परजः॥

यत्र स्यादृषभो मृदुर्निधमगास्तीव्राःस्वराः पंचमो
वर्ज्यः स्यादथ मध्यमो निगदितः क्वापि क्वचित्कोमलः॥
वादी धैवत उच्यते सहचरो गांधारकः कथ्यते
रात्र्यामंतिमयामके सुमधुरं सा गीयते सोहनी॥११८॥

इति सोहनी॥

रागः प्रोक्तः कलिंगो मृदुरिमधयुतस्तीव्रगांधारनिः स्या-
द्वादी गांधारकोऽस्मिन्सरलगतिरसौ धैवतो मंत्रिवर्यः॥

पूर्णारोहावरोहः प्रकृतिसुरुचिरः सर्वलोकप्रसिद्ध-
स्तुर्ये यामे निशायां सकलबुधवरैगींयते मंजुतानैः॥११९॥

इति कलिंगः॥

असौ ललितपंचमो भवति भैरवस्य स्वरै-
र्द्विमध्यमविभूषितः परहितः सदारोहणे॥
मतोंऽश इह मध्यमः सरसषड्जसंवादिना
निशाचरमयाम एव ललितांगतो गीयते॥ १२०॥

इति ललितपंचमः॥

भैरवस्य मेल एव मेघरंजनी मता
पंचमेन धैवतेन वर्जिता सदौडुवा॥
षड्जमंत्रिणी समीरिता च वादिमध्यमा
गीयते विलंबितं बुधैर्निशांत्ययामके॥ १२१॥

इति मेघरंजनी॥

गीतांतेऽसौ भवति ललितः कोमलेनर्षभेण
युक्तस्तीव्रैस्तुगमधनिभिः कोमलेनापि मेन॥
मांशः षड्जोऽत्र तु सहचरः पंचमो वर्ज्यतेऽस्मिं-
स्तुर्ये यामे निशि सुमतिभिगींयते मंगलार्हः॥ १२२॥

इति ललितः॥

काशीनाथतुलस्यपाविरचितः कल्पद्रुमांकूरको
विंशत्युत्तरमुख्यरागशतसच्छ्लोकैःसमालंकृतः॥
रामाग्निद्विपभूविरोधकृति यश्चैत्र्यां समापूरितः
सोयं पुष्पफलैः समृद्धिमुपयात्वस्मिन्जगन्मंडले॥ १२३॥

एवं रागाह्यनंता रघुवरनृपतेः सद्गुणा अप्यनंता
गातुं ज्ञातुं च सर्वान्दशशतवदनः स्यादनंतो न शक्तः॥
गेयं सर्वैस्तथापि स्वमतिपरिमितं सद्यशो राघवस्य
योगाद्यागाद्विरागात्प्रियमधिकतया रामचंद्रस्य गानम्॥ १२४॥

॥ श्रीरामचंद्रार्पणमस्तु॥

]