[[अभिनवतालमंजरी Source: EB]]
[
॥ श्रीराम ॥
श्रीमत्
अभिनवतालमंजरी ।
♦~•~♦♦~•~♦♦~•~♦
पं० अपातुलस्युपाख्यकाशीनाथप्रणीता ।
~~~~~~~~~~~~~~
साच
मुंबय्यां
विष्णुशर्मणा
निर्णयसागरयंत्रालये कोलभाटवीथ्यां नं. २३, रा. ये. शेडगे-
द्वारा मुद्राक्षरैरंकयित्वा प्राकाश्यं नीता ।
________________
शके १८३५
~~~~~
सन १९१४.
________________
(अस्य सर्वेऽधिकाराः स्वायत्तीकृताः)
Printed by R.Y. Shedge, at the Nirnaya-Sagar Press,
23, Kolbhat Lane, Bombay.
________________
Published by Vishnu Narayan Bhatkhande.
Walkeshwar,-Bombay.
॥ श्रीराम ॥
श्रीमत्
अभिनवतालमंजरी
♦~•~♦♦~•~♦♦~•~♦
श्रीर्वामेऽवनिजा पुनः कपिवरः पृष्ठे सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोरग्न्दिकोणेषुच।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जांबवा –
न्मध्ये नीलमणिप्रभासुरुचिरं श्रीरामचंद्रं भजे ॥ १॥
स्वस्ति श्रीवैद्यनाथाधिवसतिपरलीक्षेत्रवासी द्विजाग्र्यः
श्रीरामो जामदग्र्यस्तुलसिकुलभवस्तत्सुतः काशिनाथः।
देशीतालस्वरूपं प्रचलितमुदगालोच्य शास्त्रान्वयं च
तत्तत्तालाभिधाभिः प्रकटयति समीकृत्य तल्लक्षणानि ॥२ ॥
तालाः सांप्रतमत्र ये प्रचलिता लोकेषु सर्वेपि ते
शास्त्रोक्ताः खलु संति तत्र विदुषां नास्त्येव हि द्वापरः।
व्यत्यासस्तु लघुद्रुतादिषु तदंगेषु क्वचिद्दृश्यते
युक्तं तत्परिवर्त्तनं हि नियतं सर्वेषु भावेष्विह ॥३ ॥
लघुद्रुताद्यंगविपर्ययस्तु प्रस्तारतो जायत एव नित्यम्।
इतीह तालांगविपर्ययेस्मिन्न विप्रपत्तिः प्रमितौ समायाम् ॥४ ॥
उद्देशोयम्
एकतालो दादरा च त्रिपुटो रूपकस्तथा।
धुमालिरंकतालश्च झंपा शूलश्च रुद्रकः ॥१ ॥
चतुस्तालो विश्वतालो धमारो झूम्र इत्यपि।
दीपचंदी चाड्डपूर्वश्चतुस्तालः सवार्यथ ॥२ ॥
त्रितालो विष्णुतालश्च पुराणः शेष एव च।
विजयश्च गणेशश्च श्रुतिर्वै मागधस्तथा ॥३ ॥
ब्रह्मतालश्चेति ताला देशीयाः पंचविंशतिः।
कथितास्तालमंजर्यामस्यामेवमनुक्रमात् ॥४ ॥
एषामेव रत्नाकरप्रसिद्धनामानि
वक्ष्ये रत्नाकरीयाख्यास्तत्रादावेकतालिका।
यतिलग्नोंतरक्रीडस्तृतीयः प्रतितालकः ॥१॥
झंपा तथाड्डताली च चतुर्थो रुद्र एव च।
ततो वर्णयतिःप्रोक्तः समतालस्तस्थैव च ॥२॥
चंडश्च राजमार्तेंडस्तद्भेदश्च तथापरः।
चतुस्तालो गजझंपो राजविद्याधरस्तथा ॥३ ॥
प्रतापशेखरो लीला रागवर्धन इत्यपि ।
मुकुंदमल्लमठिका मागधश्च चतुर्मुखः ॥४ ॥
इति
एकतालः
यस्त्वेकताल इह सर्वजनप्रसिद्धो
भाषासु संप्रचलति द्विकलप्रमाणः।
रत्नाकरे निगदितःस किलैकताली-
त्याख्यो दुतप्रमित एकनिघातशाली ॥१ ॥
दादरा
भाषायामिह दादरेति विदितस्तालोस्ति यः षट्कलः
स स्पष्टं यतिलग्न इत्यभिधया रत्नाकरे वर्तते ।
पूर्वं यत्र नभस्ततश्च सरलो द्वावेव घातौ स्मृतौ
गीतेषु प्रचलत्सु योतिमधुरं मार्दंगिकैर्वाद्यते ॥२ ॥
त्रिपुटा
तालो यस्तेवरेति त्रिपुट इति च यो देशभाषाप्रसिद्धो
ग्रंथे रत्नाकरेसौ सुमतिभिरुदितोस्त्यंतरक्रीडसंज्ञः।
सप्तामुष्मिन्कलाः स्युः स्फुटमिह दविरामस्ततो दद्वयं स्या-
द्धातास्त्वत्र त्रयो वै सुरुचिरमतिभिर्वाद्यते मंजुपाटैः ॥३ ॥
रूपकतालः
तालः सप्तकलोत्र रूपक इति ख्यातोति लोकेषु यः
शास्त्रेसौ कथितस्तृतीय इति निःशंकेन रत्नाकरे ।
निःशब्दद्रुततो द्रुतो द्रुतविरामोस्तीह घातद्वयं
गीतेषु प्रविलंबितद्रुतलयैः पाटैः कलं वाद्यते ॥४ ॥
धुमालितालः
लोकेस्त्यष्टकलो धुमालिरिति कव्वालीति यो विश्रुतः
शास्त्रेस प्रतिताल इत्यभिहितःसंगीतरत्नाकरे।
यत्र स्यात्प्रथमं द्रुतोथ च लघुःप्रोक्तःपुनश्च द्रुतो
घाताः स्युस्त्रयएव रंजयति हृद्गीतेष्वभंगादिषु ॥५ ॥
अंकतालः
लोके नातिप्रसिद्धो य इह नवकलश्चांकतालोभिदृष्टः
शास्त्रे झंपेति नाम्ना प्रकटमभिहितः सूरिणा शार्ङ्गिणा सः ।
पूर्वे यत्र द्रुतः स्याल्लघुरथ दविरामश्च घातत्रयेण
संयुक्तो भाति गीतेषु हि सुनिपुणमार्दंगिकैर्वाद्यमानः ॥६ ॥
झंपा
जनेषु बहुविश्रुतो दशकलोत्र झंपेति यः
स शार्ङ्गिरचिते हि शास्त्र उदितोड्डतालीति वै।
द्रुतो द्रुतविरामकस्तदनु शब्दहीनो द्रुत-
स्ततो द्रुतविरामकोत्र कथितं निघातत्रयम् ॥७ ॥
शूलतालः
प्रख्यातः शूलसंज्ञो य इह दशकलःसर्वलोकेषुतालः
सोयं शास्त्रे चतुर्थःप्रकटमभिहितः सोढलस्यात्मजेन।
आदावत्रैकमात्रस्तदनु निगदितश्चार्धमात्रः पुनर्लो
यस्मिन्घातत्रयं स्यादतिरुचिरतरं वाद्यते तालविद्भिः ॥ ८ ॥
रुद्रतालः
तालश्चैकादशकल इह प्रोच्यते रुद्रसंज्ञः
प्रोक्तः पूर्वं द्रुत इह ततश्चाणुयुग्मं ततो दः।
तस्माच्चाणुत्रयमथ पुनःस्याद्दृतोष्टौ निघाता
नृत्ये गीते निपुणमतयो योजयंत्येनमार्याः ॥ ९ ॥
चौतालः
चतुस्तालो लोके विदित इह यो द्वादशकलः
स शास्त्रेप्युक्तो वर्णयतिरिति निःशंकसुधिया ।
लघू यत्रादौ द्वौ तदनु कथितं तु द्रुतयुगं
निघाताश्चत्वारो ध्रुवपदनियुक्तो विजयते ॥ १० ॥
विश्वतालः
तालो विश्व इति त्रयोदशकलो नातिप्रसिद्धो जने
ग्रंथे स्वे समताल इत्यभिहितः श्रीशार्ङ्गदेवेन सः।
यत्रादौ द्रुतयुग्ममीरितमतश्चाणुद्वयं दस्तत
स्तस्मादर्धविधुत्रयं तदनु दः प्रोक्ताः प्रघाता नव ॥ ११ ॥
धमारतालः
भाषायां प्रथितश्चतुर्दशकलस्तालो धमाराभिधः
सोयं चंड इति स्वयं निगदितः श्रीशार्ङ्गदेवेन हि।
साणू यत्र लघू ततो लघुरिति प्रोक्तं निघातत्रयं
वक्रश्चित्रविचित्रपाटगतिभिर्मार्दंगिकैर्वाद्यते॥ १२ ॥
झुम्रा
तालोस्ति प्रथितश्चतुर्दशकलो झूम्रेति लोकेषु यो
मार्तंडः सहि राजपूर्व उदितः संगीतरत्नाकरे।
यत्रादौ दविरामको निगदितस्तस्माल्लघुः स्यात्ततो
निःशब्दो दविरामको लघुरतःप्रोक्तं निघातत्रयम् ॥ १३ ॥
दीपचंदी
तालोन्यः कथितश्चतुर्दशकलो यो दीपचंदीति वै
पूर्वस्यैव हि भेद एष इति संस्पष्टं दरीदृश्यते।
यत्रादौ दविराम एव हि ततः प्रोक्तो लघुः पूर्ववत्
निःशब्दो दविराम एव हि ततो बाणो निघातत्रयम् ॥ १४ ॥
अडाचौतालतालः
दृष्टोन्योपि जने चतुर्दशकलोड्डादिश्चतुस्तालको-
सौ रत्नाकर ईरितोस्ति च यथाभिख्यश्चतुस्तालकः।
पूर्वं चात्र मतो द्रुतोथ लघवः प्रोक्तास्त्रयः सूरिभि-
र्ज्ञेयं घातचतुष्टयं सुमधुरं पाटैरभिश्रूयते ॥ १५ ॥
सवारी
सवारिरिति विश्रुतोस्ति दशपंच यस्मिन्कलाः
स एव गजझंप इत्यभिहितोस्ति रत्नाकरे ।
लघुर्गुरूरतःपरं द्रुतविराम इत्याश्रुतं
त्रिवारमभिहन्यते सुमधुरोऽभिगीतेष्वयम् ॥ १६ ॥
त्रितालः
आबालं विदितोस्ति षोडशकलो व्याप्त स्त्रितालो जने
शास्त्रे चापि हि शार्ङ्गिणा निगदितोयं राजविद्याधरः।
आदावत्र लघुः स्मृतोथ गुरुरभ्युक्तस्ततः स्याल्लघु
र्घाताः स्युस्त्रय एव सर्वजगतः प्राणप्रियोसौ मतः॥ १७ ॥
विष्णुतालः
तालो विष्णुरिहास्ति सप्तदशभिर्युक्तः कलाभिस्तु यः
शास्त्रेऽसौ कथितः प्रतापसहितो रत्नाकरे शेखरः ॥
ह्रस्वो दोथ लघुस्ततो द्रुतयुगं बिंदुर्विरामांतको
घातैः षड्भिरधिश्रितो विजयते गीतेषु पाटाश्रितः ॥ १८ ॥
पुराणतालः
तालश्चाष्टादशकल इह स्यात्पुराणः प्रसिद्धो
लीलासंज्ञो विलसति हि संगीतरत्नाकरे सः ।
बाणःपूर्वं द्रुत उत लघुर्दद्वयं स्याल्लघुश्च
घातैः षड्भिर्विबुधहृदयं मोहयत्येष पाटैः ॥ १९ ॥
शेषतालः
एकोनविंशतिकलस्त्विह शेषतालो
सौ रागवर्धन इति प्रकटो हि शास्त्रे ।
लौ दौ ततो लघुरथाणुरथ द्रुतोऽस्मिन्
स्याद्धातसप्तकमयं हि विचित्रपाटः ॥ २० ॥
विजयतालः
तालोस्ति विशतिकलो विजयःप्रसिद्धः
शास्त्रे मुकुंद इति शार्ङ्गिकृतेऽभिगीतः।
यस्मिन् गुरुर्द्रुतयुगं च ततो गुरुर्वै
घातैश्चतुर्भिरधिकां मुदमातनोति ॥२१ ॥
गणेशतालः
अस्येकविंशतिकलो हि गणेशतालः
शास्त्रेषु मल्ल इति योभिहितः सुधीभिः।
लोणुर्लघुस्त्वणुयुगं लघुरर्धचंद्राः
प्रोक्तास्त्रयो दविरतिर्दश चैव घाताः ॥ २२ ॥
श्रुतितालः
कला यत्र द्वाविंशतिरभिमता यः श्रुतिरिति
प्रसिद्धोसौ शास्त्रे भवति मठिकेति प्रकटितः।
लघुः पूर्वं तस्माद्द्युगमथ लो दत्रयमथो
लघुः प्रोक्तं घाताष्टकमिह बुधैस्तालनिपुणैः ॥ २३ ॥
मागधतालः
मागधो विजयते लघुर्गुरुः स्याल्लघुर्द्रुतविरामदद्वयम्।
घातपट्कमुदितं तथा त्रयोविंशतिर्निगदितास्तु तत्कलाः ॥ २४ ॥
ब्रह्मतालः
लोकेषु प्रथितोऽष्टविंशतिकलो यो ब्रह्मतालोऽस्ति वै
संप्रोक्तः स चतुर्मुखः सुमतिना श्रीशार्ङ्गदेवेन हि।
बोणो दोथ लघुर्दयुग्ममथ लःस्याद्दत्रयं लःपुन-
र्घाताःस्युर्दश यत्र चित्रमधुरैः पाटैरसौ वाद्यते ॥ २५ ॥
एवं चोदक्प्रदेशे गुणिजनविदिताः संत्यसंख्यातताला
स्तेष्वेवातिप्रसिद्धाः कतिचिदिह यथाकर्णितास्तालविद्भ्यः।
तेषां संगीतरत्नाकरमिलितसमाख्याभिराख्याभियोगं
कृत्वा लक्ष्माणि मार्गंप्रचलितमनतिक्रम्य संदर्शितानि ॥ २६ ॥
शकेऽर्णवगुणेभशीतकरसंमिते वत्सरे १८३४
प्रसिद्धपरिधाविनाम्नि शुचिशुद्धषष्ठ्यां कवौ।
उदक्प्रथिततालकल्पतरुमंजरीयं मुदा
रघूत्तमपदांबुजे तुलसिमंजरीवार्पिता ॥ २७ ॥
| तालनाम | तालांगम् | मात्राः | घाताः |
| १ एकतालः | o | २ | १ |
| २ दादरा | o | ६ | |
| ३ तेवरा | ò o o | ७ | ३ |
| ४ रूपकतालः | o o ò | १० | २ |
| ५ धुमाली | o | o | ८ |
| ६ अंकतालः | o | ò | ९ |
| ७ झंपा | oòoò | १० | ३ |
| ८ शूलतालः | o | o | १० |
| ९ रुद्रतालः | ŏ̆ ŏ ̆̆ | ११ | ८ |
| १० चौतालः | o o | ||
| ११ विश्वतालः | oŏ̆ ŏ̆̆o | १३ | ९ |
| १२ धमारतालः | ĭĭ | १४ | |
| १३ झूम्रा | ò | ò | |
| १४ दीपचंदी | ò | ò | |
| १५ अड्डाचौतालः | o | ||
| १६ सवारी | ऽò | १५ | |
| १७ त्रितालः | ऽ | ||
| १८ विष्णुतालः | o | ooò | |
| १९ पुराणतालः | o | oo | |
| २० शेषतालः | ॥oo | ̆o | १९ |
| २१ विजयतालः | ऽoo ऽ | २० | ४ |
| । २२ गणेशतालः । ।**̆।̆̆ | |||
| ̆̆̆**ò | २१ | १० | |
| २३ श्रुतितालः | oo | ooo | |
| २४ मागधतालः | ऽ | òoo | |
| २५ ब्रह्मतालः | o | oo |
॥ श्रीराम ॥
अथ तालानां दश प्राणाः
♦⇔►♦⇔►♦⇔►♦
नत्वा गणपतिं सांबंश्रीरामं मारुतिं गुरून्।
तत्वज्ञानाय तालानां निगूढं लक्ष्म चक्ष्महे ॥१ ॥
तालस्तलप्रतिष्ठायामिति धातोर्घञिस्मृतः।
गीतं वाद्यं तथा नृत्यं यतस्ताले प्रतिष्ठितम् ॥२ ॥
तकारः शंकरः प्रोक्तो लकारःपार्वती स्मृता।
शिवशक्तिसमायोगात्तालइत्यभिधीयते ॥३ ॥
सदाशिवो हरिर्ब्रह्मा भरतः कश्यपो मुनिः।
दुर्गा शक्तिर्मतंगश्च यास्कशार्दूलकोहलाः ॥४ ॥
हनूमानंगदश्चैव नारदस्तुंबुरुस्तथा।
एते संगीतसर्वज्ञा बुधास्तालान्प्रचक्रमुः ॥५ ॥
तौर्यत्रिकं तु मत्तेभस्तालं तस्यांकुशं विदुः।
न्यूनाधिकप्रमाणं तत्प्रमाणं क्रियते यतः ॥६॥
कालमार्गक्रियांगानि ग्रहजातिकलालयाः।
यतिप्रस्तारकौचेति तालप्राणा दश स्मृताः ॥७ ॥
तस्मादत्र दश प्राणाः प्रदर्श्यंते क्रमादिह॥
तालतत्वपरिज्ञानकारणं तत्प्रदर्शनम् ॥८ ॥
अथ कालः
हस्तद्वयस्य संयोगे वियोगे चापि सर्वदा।
व्याप्तिमान्यः समादिष्टः स कालस्तालसंज्ञकः ॥९॥
कालस्ताल इति प्रोक्तोऽत्राण्वादिक्रियया मितः।
गीतादेः संमितिं कुर्वन्मार्गोदेशीति स द्विधा ॥१०॥
क्षणादिरूपो यः कालः स तून्नेतुं न शक्यते।
अणुदूतादिरूपस्तु कालस्तालोत्र कथ्यते ॥ ११ ॥
उपर्युपरि विन्यस्य पद्मपत्रशतं सकृत्।
सूच्यग्रतस्तत्संभेदे यःकालःस क्षणःस्मृतः ॥ १२ ॥
लवःक्षणैरष्टभिः स्यात्काष्ठा स्वादष्टभिर्लवै-।
अष्टकाष्ठा निमेषःस्यान्निमेषैरष्टभिः कला ॥ १३ ॥
कलाद्वयाचतुर्भागश्चतुर्भागद्वयादणुः।
अणुद्वयाद्रुतः प्रोक्तस्तद्वयेन लघुर्भवेत् ॥ १४ ॥
लघुद्वयाद्गुरुः प्रोक्तस्त्रिलघुःप्लुत उच्यते।
एवं कालगतिः प्रोक्ता तालझैः पूर्वसूरिभिः ॥ १५ ॥
॥ इति कालः ॥
अथ मार्गाः
मार्गाः स्युस्तत्र चत्वारो ध्रुवश्चित्रश्च वार्तिकः।
दक्षिणश्चेति संगीतरत्नाकरमतं भवेत् ॥ १६॥
चूडामणौ
दक्षिणो वार्तिकश्चित्रो ध्रुवश्चित्रतरस्तथा।
षष्ठश्चित्रतमश्चेति षण्मार्गाः शास्त्रसंमताः॥१७ ॥
मणिदर्पणे
मार्गा द्वादश विख्याता दक्षिणो वार्तिकस्तथा।
चित्रो ध्रुवश्चित्रतरस्तथा चित्रतमो मतः ॥ १८ ॥
चतुर्भागस्त्रुटिश्चैवानुत्रुटिर्घर्षणस्तथा।
अनुघर्षणकश्चेति स्वरश्च षडिमे पुनः ॥ १९ ॥
॥ इति मार्गाः ॥
अथ क्रिया
निःशब्दा शब्दयुक्ता च क्रिया तु द्विविधा मता।
निःशब्दा तु कला प्रोक्ता चतुर्धा सा प्रकीर्तिता ॥ २० ॥
आवापश्चाथ निष्कामो विक्षेपश्च प्रवेशकः।
निःशब्देति चतुर्धोक्ता सशब्दापि चतुर्विधा ॥ २१ ॥
ध्रुवः शंपा तथा तालःसंनिपात इतीरिता।
पातःकला च सा ज्ञेया तासां लक्ष्माभिधीयते ॥२२ ॥
आवापस्तत्र हस्तस्योत्तानस्यांगुलिकुंचनम्।
निष्कामोधस्तलस्य स्यादंगुलीनां प्रसारणम् ॥ २३ ॥
क्षेपो दक्षिणपार्श्वस्योत्तानस्य प्रसृतांगुलेः।
विक्षेपोधस्तलस्यास्य प्रवेशोंगुलिधूननम् ॥ २४ ॥
ध्रुवो हस्तस्य पातः स्याच्छोटिकाशब्दपूर्वकः।
शंपा दक्षिणहस्तस्य तालो वामकरस्य तु ॥
उभयोः सन्निपातः स्यात्तासां मार्गवशान्मितिः ॥ २५ ॥
॥ इति क्रिया ॥
अथांगानि
अनुद्रुतो द्रुतश्चाथ दविरामो लघुस्तथा।
लविरामो गुरुश्चैव प्लुतश्चेति यथाक्रमम् ॥ २६ ॥
सप्तांगानीह तालेषु ज्ञातव्यानि सदा बुधैः।
अण्वाद्याद्यक्षरैर्ज्ञेयं संति संज्ञातराण्यपि ॥ २७ ॥
अनुद्रुतेणुःकरजमर्धचंद्रोंकुशं धनुः।
अर्धमात्रं व्यंजनं खं बिंदुश्च वलयं द्रुते ॥ २८ ॥
व्यापकः सरलो ह्रस्वः शरो दंडो लघुः स्मृतः।
दीर्घो वक्रो द्विमात्रो गोजीवः पूज्यो भवेद्गुरुः ॥ २९ ॥
त्र्यंगस्त्रिमात्रको दीप्तः शृंगी सामोद्भवःप्लुतः।
अणौ चंद्रो द्रुते शंभुर्दविरामे षडाननः ॥ ३० ॥
लघौ देवी दविरामेजीवो गौरीपतिर्गुरौ।
प्लुते त्रयो विरिंच्याद्या देवता मुनिभिः स्मृताः ॥ ३१ ॥
एकमात्रो लघुः प्रोक्तो द्विमात्रो गुरुरुच्यते।
त्रिमात्रः प्लुत उद्दिष्टो मात्रार्धंतु द्रुतो मतः ॥ ३२ ॥
अनुद्रुतश्चतुर्थांशो मात्राया इति संस्मृतम्।
पंचलघ्वक्षरोच्चारमिता मात्रास्ति मार्गके ॥ ३३ ॥
चतुर्भिरक्षरैर्दैशी षड्भिरप्यक्षरैः क्वचित्।
अनया मात्रया ज्ञेया लघुगुर्वादिकल्पना ॥ ३४ ॥
अत्यल्पघातेऽणुर्ज्ञेयःसूक्ष्मघाते द्रुतो मतः।
पूर्णघाते लघुः प्रोक्तो घातात्क्षेपे गुरुर्मतः ॥ ३५॥
घातात्करभ्रमो यत्र प्लुतो ज्ञेयो विचक्षणैः।
अर्धचंद्रस्वरूपोणुर्द्रुतः स्याद्वलयाकृतिः ॥ ३६ ॥
दविरामो द्रुते रेखा लघुस्तु सरलाकृतिः।
लविरामो लघौ रेखा गुरुर्वक्रः प्लुतस्त्रिकम् ॥ ३७ ॥
गुरौ रेखेति चिह्नानि लिप्यामुक्तानि सूरिभिः।
द्रुते विरामोणुर्ज्ञेयो विरामस्तु द्रुतो लघौ ॥ ३८ ॥
तित्तिरिश्चटकश्चैव बकचातककोकिलाः।
वायसः कुक्कुटश्चैव क्रमादुच्चारयंत्यमून् ॥ ३९ ॥
॥ इत्यंगानि ॥
अथ ग्रहाः
समोतीतोऽनागतश्च विषमश्च चतुर्विधः।
ग्रहस्तालेषु विज्ञेयः सूक्ष्मदृष्ट्या विचक्षणैः॥ ४०॥
गीतादिसमकालस्तु समपाणिः समग्रहः।
गीतादौ विहिते यश्च तालवृत्तिर्विधीयते ॥४१ ॥
अतीताख्यो ग्रहो ज्ञेयः सोवपाणिरिति स्मृतः।
पूर्वंतालप्रवृत्तिः स्यात्पश्चाद्गीतादिरुच्यते ॥४२ ॥
अनागतः स विज्ञेयः स एवोपरिपाणिकः।
आद्यंतयोरनियमे विषमग्रह उच्यते ॥ ४३ ॥
तालो वितालोनुतालः प्रतितालश्चतुर्विधः।
समग्रहो भवेत्तालो वितालोतीतकः स्मृतः।
अनागतोनुतालः स्याद्विषमः प्रतितालकः ॥४४ ॥
॥ इति ग्रहाः ॥
अथ जातयः
चतुरस्रस्तथा व्यस्रः खंडो मिश्रस्तथैव च।
संकीर्ण इति विज्ञेया जातयः क्रमशो बुधैः ॥४५ ॥
तथैव मात्रा विज्ञेयाः क्रमशस्तालवेदिभिः।
द्विगुणत्रिगुणाद्यत्र लक्ष्यदृष्टया सुसंमतम् ॥ ४६ ॥
चतुर्वर्णैस्त्रिभिर्वर्णैः पंचवर्णैस्तथैव च।
सप्तवर्णैश्च नवभिर्जातयः क्रमशः स्मृताः ॥४७ ॥
चतुरस्रो ब्राह्मणः स्यात्र्यस्रः क्षत्रिय एव च।
खंडो वैश्यस्तथा मिश्रः शूद्र इत्यभिधीयते ॥ ४८॥
संकीर्णजातिः संकीर्ण इत्येताः पंच जातयः।
॥ इति जातयः ॥
अथ कलाः
ध्रुवका सर्पिणी कृष्णा पद्मिनी च विसर्जिता।
विक्षिप्तका पताका च कला स्यात्पतिताष्टमी ॥४९ ॥
सशब्दा तु ध्रुवा ज्ञेया सर्पिणी वामगामिनी।
कृष्णा दक्षिणतो गंत्री पद्मिनी स्यादधोगता ॥ ५० ॥
विसर्जिता बहिर्याता विक्षिप्ताकुंचनात्मिका।
पताका तूर्ध्वगमनात्पतिता करपातनात् ॥ ५१ ॥
ध्रुवपाते प्रयोज्यास्ता नावापादौ कदाचन।
लघौ तु ध्रुवका ज्ञेया ध्रुवका पतिता गुरौ ॥ ५२ ॥
ध्रुवका सर्पिणी कृष्णास्तिस्त्र एताः प्लुते मताः।
तत्र मार्गप्रभेदेन कलाभेदान्प्रचक्ष्महे ॥ ५३ ॥
तदर्धार्धप्रभेदेन शास्त्रतः संप्रदायतः।
ध्रुवका पतिता चित्रे वार्तिके त्वादिमे उभे ॥ ५४॥
अंत्ये द्वे च प्रयोक्तव्ये क्रमादष्टौ च दक्षिणे।
ध्रुवेत्वेकैव ध्रुवका द्रुतश्चित्रतरे मतः ॥ ५५ ॥
अनुद्रुतश्चित्रतमे चतुर्भागे तदर्धकम्।
त्रुटौ तदर्धभागः स्यातदर्धं स्यादनुत्रुटौ ॥ ५६ ॥
तदर्धं घर्षणे ज्ञेयं तदर्धं चानुघर्षणे।
स्वरे तदर्धमेवं हि मार्गेषु स्यात्कलाक्रमः ॥ ५७ ॥
॥ इति कलाः ॥
अथ लयाः
क्रियानंतरविश्रांतिर्लयः स त्रिविधो मतः।
द्रतो मध्यो विलंबश्चद्रुतः शीघ्रतमो मतः ॥ ५८ ॥
द्विगुणद्विगुणौज्ञेयौ तस्मान्मध्यविलंबितौ।
मार्गभेदाच्चिरक्षिप्रमध्यभावैरनेकधा ॥ ५९ ॥
॥ इति लयाः ॥
अथ यतयः
लयप्रवृत्तिनियमो यतिरित्यभिधीयते।
समा स्रोतोवहा चैव मृदंगा च पिपीलिका।
गोपुच्छा चेति विबुधैर्यतिः पंचविधोदिता ॥ ६०॥
आदिमध्यावसानेपु लयैकत्वात्समैकघा।
आदिमध्यावसानेषु लयत्रैध्यात्रिधा पराः ॥ ६१ ॥
चिरमध्यद्रुतलयैर्युक्ता स्रोतोवहा मता।
अन्या विलंबमध्याभ्यां मध्यद्रुतवती परा ॥ ६२ ॥
मृदंगा तु द्रुताद्यंता ज्ञेया मध्ये विलंबिता।
तथैवान्या द्रुताद्यंता मध्ये मध्यलयान्विता ॥ ६३ ॥
परा मध्यद्रुताद्यंता तथा मध्ये विलंबिता।
पिपीलिका तु कथिता मध्यद्रुतविलंबिता ॥ ६४ ॥
आद्यंतमध्या चैवान्या प्रोक्ता मध्ये द्रुतान्विता।
मध्ये मध्यान्विताद्यंतविलंबितलया परा ॥ ६५ ॥
द्रुतमध्यविलंबैः स्याद्गोपुच्छा द्रुतमध्यभाक्।
द्वितीयान्या भवेन्मध्यविलंबितलयान्विता ॥६६॥
॥ इति यतयः ॥
अथ प्रस्तारः
न्यस्याल्पमाद्यान्महतोधस्ताच्छेपं यथोपरि।
प्रागूने वामसंस्थांस्तु संभवे महतो लिखेत् ॥ ६७ ॥
अल्पानसंभवे तालपूर्त्यै भूयोप्ययं विधिः।
सर्वाण्ववधिरालेख्यः प्रस्तारोयं द्रुते लघौ ॥ ६८ ॥
गुरौ प्लुते समस्ते च व्यस्ते व्यस्ते त्वणौ न सः।
एवं तालस्य विबुधैर्दश प्राणा निरूपिताः ॥ ६९॥
वीणावादनतत्वज्ञः श्रुतिजातिविशारदः।
तालज्ञश्चाप्रयासेन मोक्षमार्गं समश्नुते ॥ ७० ॥
अनेन भगवान् सीतारामचंद्रो गुणिप्रियः।
प्रीयतां परमोदारः सर्वकामधुगीश्वरः ॥ ७१॥
श्रीसीतारामचंद्रार्पणमस्तु।
]