नाटकचन्द्रिका

[[नाटकचन्द्रिका Source: EB]]

[

** नाटकचन्द्रिका**

** श्रीश्रीकृष्णचैतन्यचन्द्राय नमः ।**

वीक्ष्य भरतमुनिशास्त्रं रसपूर्वसुधाकरं च रमणीयं ।

लक्षणं अतिसंक्षेपाद्विलिख्यते नाटकस्येदम् । । १ । ।

नातीवसङ्गतत्वाद्भरतमुनेर्मतविरोधाच्च ।

साहित्यदर्पणीया न गृहीता प्रक्रिया प्रायः । । २ । ।

दिव्येन दिव्यादिव्येन तथाऽदिव्येन वा युतं ।

धीरेणाढ्यं उदात्तेन कृष्णश्च ललितेन च । । ३ । ।

शृङ्गारवीरान्यतरमुख्यं रम्येऽनिवृत्तयुक् ।

प्रस्तावनान्तसम्बन्धं सन्धिसन्ध्यङ्गसङ्गतम् । । ४ । ।

सन्ध्यन्तरैकविंशत्या षट्त्रिंशद्भूषणैर्युतं ।

पताकास्थानकैर्युक्तं अथोपेक्षेपकैस्तथा । । ५ । ।

भाषाविधानसंयुक्तं सत्काव्यगुणगर्भितं ।

नाटकं दोषरहितं सर्वामन्दप्रदायकम् । । ६ । ।

तत्र नायकः

स्वयं प्रकटितैश्वर्यो दिव्यः कृष्णादिरीरितः ।

दिव्योऽपि नरचेष्टत्वाद्दिव्यादिव्यो रघूद्वहः । । ७ । ।

अदिव्यो धर्मपुत्रादिरेषु कृष्णो गुणाधिकः ।

नायकानां गुणाः सर्वे यत्र सर्वविधाः स्मृताः । । ८ । ।

लालित्यौदत्त्ययोरत्र व्यक्ता शोभाभरोऽधिकः ।

तेनैष नायको युक्तः शृङ्गारोत्तरनाटके । । ९ । ।

यत्परोढोपपत्योस्तु गौणत्वं कथितं बुधैः ।

तत्तु कृष्णं च गोपीश्च विनेति प्रतिपादितम् । । १० । ।

तथा चोक्तं रसविलासे (सुदेवकृते)

नेष्टा यदङ्गिनि रसे कविभिः परोढा

तद्गोकुलाम्बुजदृशां कुलं अन्तरेण ।

आशंसया रसविधेरवतारिकाणां

कंसारिणा रसिकमण्डलशेखरेण । । ११ । ।

अथ रसाः

रसाः शृङ्गारवीराद्या ज्ञेया रससुधार्णवे ।

अन्ये हास्यादयः कार्या अस्मिन्नङ्गतया बुधैः । । १२ । ।

अथेतिवृत्तं

इतिवृत्तं भवेत्ख्यातं क्प्तं मिश्रं इति त्रिधा ।

शास्त्रप्रसिद्धं ख्यातं स्यात्क्प्तं कविविनिर्मितं ।

तयोः सङ्कुलता मिश्रं क्प्तं रम्यं तु नाटके ।

नाटकं ख्यातवृत्तं स्यात्क्प्तवृत्ता तु नाटिका ।

ईहामृगो मिश्रवृत्त इति नाट्याङ्गभाषितं । ।

अथ प्रस्तावना

अथास्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते ।

प्रस्तावनायां तु मुखे नान्दी कार्या शुभावहा । ।

आशीर्नमस्क्रियावस्तुनिर्देशान्यतमान्विता ।

अष्टभिर्दशभिर्युक्ता किं वा द्वादशभिः पदैः । ।

चन्द्रनामाङ्किता प्रायो मङ्गलार्थपदोज्ज्वला ।

मङ्गलं चक्रकमलचक्रोरकुमुदादिकं । ।

तत्राशीरन्विता, यथा ललितमाधवे (१.१)

सुररिपुसुदृशांं उरोजकोकान्

मुखकमलानि च खेदयन्नखण्डः ।

चिरं अखिलसुहृत्चकोरनन्दी

दिशतु मुकुन्दयशःशशी मुदं वः । ।

नमस्क्रियान्विता, यथा तत्रैव (१.२)

अष्टौ प्रोक्ष्य दिगङ्गना घनरसैः पत्राङ्कुराणां श्रिया

कुर्वन्मञ्जुलताभरस्य च सदा रामावलीमण्डनं ।

यः पीने हृदि भानुजां अतुलभां चन्द्राकृतिं चोज्ज्वलां

रुन्धानः क्रमते तं अत्र मुदिरं कृष्णं नमस्कुर्महे । ।

वस्तुनिर्देशान्विता चात्रैव अष्टौ प्रोक्ष्य दिगङ्गना इत्यादिरेव ।

अष्टपदयुक्ता यथा वीरचरिते प्रथमाङ्के (प्रस्तावनायाः प्रथमः

श्लोकः)

अन्तःस्वच्छाय नित्याय देवाय हृतपाप्मने ।

त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः । ।

कश्चिदष्टपदां पादैरष्टभिः पद्ययोर्जगौ । । १७ । ।

दशपदान्विता यथा अभिरामराघवे

क्रियासु कल्याणं भुजगशयनादुत्थितवतः ।

कटाक्षाः कारुण्यप्रसररसवेणीलहरयः ।

हरेर्लक्ष्मीलीलाकमलदलसौभाग्यसुहृदः

सुधासारस्मेराः सुचरितविशेषैकसुलभाः । ।

द्वादशपदान्विता यथा सुररिपुसुदृशां उरोजकोकानित्यादि (ललं १.१) ।

अत्रैव चन्द्रनामाङ्किता मङ्गलार्थता चास्ति ।

भारत्यत्रोचिता वृत्तिरेषा तु चतुरङ्गिका ।

प्ररोचना मुखे चैव वीथीप्रहसने तथा । । १८ । ।

तत्र प्ररोचना

देशकालकथानाथसभ्यादीनां प्रशंसया ।

श्रोतॄणां उन्मुखीकारः कथितेयं प्ररोचना । । १९ । ।

यथा ललितमाधवे (१.७)

सूत्रधारः । किं इत्येवं उच्यते । पश्य पश्य

चकास्ति शरदुत्सवः स्फुरति वैष्णवानां सभा

चिरस्य गिरिरुत्द्गिरत्यमलकीर्तिधारां हरेः ।

किं अन्यदिह माधवो मधुरमूर्तिरुद्भासते

तदेष परओदयस्तव विशुद्धपुण्यश्रियः । ।

अथ आमुखं

सूत्रधारो नटीं ब्रूते स्वकार्यं प्रति युक्तितः ।

प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखं ईरितम् । । २० । ।

यदामुखं इति प्रोक्तं सैव प्रत्सावनोच्यते ।

पञ्चामुखाङ्गान्युच्यन्ते कथोद्घातः प्रवर्तकम् । । २१ । ।

प्रयोगातिशयश्चेति तथा वीथ्यङ्गयुग्मकं ।

उद्घात्यकावलगितसङ्गकं मुनिनोदितम् । । २२ । ।

तत्र कथोद्घातः

सूत्रिवाक्यं तदर्थं वा स्वेतिवृत्तसमं यदा ।

स्वीकृत्य प्रविशेत्पात्रं कथोद्घातः स कीर्तितः । । २३ । ।

यथा हरिविलासे

निरुपममहिमधुराणां जगतीदुर्बोधभावानां ।

लोकोत्तरचरितानां हृदयं को ज्ञातुं ईशति । ।

(नेपथ्ये) हन्त भोः सत्यं आत्थ लोकोत्तरचरितानां हृदयं को ज्ञातुम्

ईशतीति । ।

अथ प्रवर्तकं

आक्षिप्तं कालसाम्येन प्रवृत्तिः स्यात्प्रवर्तकम् । । २४ । ।

यथा केशवचरिते

उल्लासयन्सुमनसां परितः कलापं

संवर्धयन्सपदि वैभवं उद्धवस्य ।

धीरं नुमेरपि मनो मदयन्समन्ताद्

आनन्दनो मिलति सुन्दरि माधवोऽयं । ।

इति निष्क्रान्तौ ततः प्रविशति माधवः ।

यथा वा विदग्धमाधवे (१.१०)

सोऽयं वसन्तसमयः समियाय यस्मिन्

पूर्णं तं ईश्वरं उपोढनवानुगागं ।

गूढग्रहा रुचिरया सह राधयासौ

रङ्गाय सङ्गमयिता निशि पौर्णमासी । ।

अथ प्रयोगातिशयः

एषोऽयं इत्युपक्षेपात्सूत्रधारप्रयोगतः ।

प्रेवेशसूचनं यत्र प्रयोगातिशयो हि सः । । २५ । ।

यथा ललितमाधवे (४.१६) गर्भाङ्के

वृद्धया शश्वदारब्धनिरोधां अपि राधिकां ।

निराबाधं सदा साधु रमयत्येष माधवः । ।

अथोद्घात्यकं

पदानि त्वगतार्थानि तदर्थगतये नराः ।

योजयन्ति पदैरन्यैस्तदुद्घात्यकं उच्यते । । २६ । ।

यथा ललितमाधवे (१.११)

नटता किरातराजं निहत्य रङ्गस्थले कलानिधिना ।

समये तेन विधेयं गुणवति ताराकरग्रहणं । ।

(नेपथ्ये) हन्त राधामाधवयोः पाणिबन्धं कंसभूपतेर्भयाद्

अभिव्यक्तं उदाहर्तुं असमर्थो नटता किरातराजं इत्युपदेशेन बोधयन्

धन्यः कोऽयं चिन्ताविक्लवां मां आश्वासयतीति तत्र पौर्णमासीप्रवेशः । ।

अथावलगितं

यत्रैकस्मिन्समावेश्य कार्यं अन्यत्प्रसाध्यते ।

पुरानुरोधात्तज्ज्ञेयं नाम्नावगलितं बुधैः । । २७ । ।

यथा कंसवधे

नटराजपुरुषोत्तम कथं विलम्बसे ।

(नेपथ्ये) भोः कस्त्वं असि यदत्र मां त्वरयसि ।

सूत्रधारः कथं अयं गोपालवेशो भगवानुपस्थित एव पश्य पश्य

इत्यादि । ।

शृङ्गारप्रचुरे नाट्ये युक्तं आमुखं एव हि ।

वीथी प्रहसनं चेति द्विविधे नात्र लक्षिते । । २८ । ।

अत एवामुखं तत्र भवेल्ललितमाधवे ।

प्रस्तावनास्थापने द्वे आमुखस्यापरे भिदे ।

इत्याख्याय स्फुटं केचित्तयोः कुर्वन्ति लक्षणम् । । २९ । ।

यथा

नटीविदूषकनटसूत्रसंलापसङ्गतं ।

स्तोकवीथ्यादिसहितं भवेत्प्रस्तावनामुखं । ।

सर्ववीथ्यादिसहितं तदेव स्थापनोच्यते ।

वीराद्भुतादि प्रायेषु भवेत्प्रस्तावनोचिता । ।

हास्यबीभत्सरौद्रादौ प्रायेण स्थापना मतेति ।

वीथीप्रहसने द्वे तु रूपकाणां भिदे स्मृते । ।

अथ सन्धिः

एकैकस्यास्त्ववस्थायाः प्रकृत्या चैकयैकया ।

योगः सन्धिरिति ज्ञेयो नाट्यविद्याविशारदैः । । ३० । ।

तत्र प्रकृतिः

पाञ्चविध्यात्कथायास्तु प्रकृतिः पञ्चधा स्मृता ।

बीजं बिन्दुः पताका च प्रकरी कार्यं एव च । । ३१ । ।

तत्र बीजं

यत्तु स्वल्पं उपक्षिप्तं बहुधा विस्तृतिं गतं ।

कार्यस्य कारणं धीरैस्तद्बीजं इति कथ्यते । । ३२ । ।

यथा ललितमाधवे प्रथमद्वितीययोरङ्कयोः कल्पिते मुखसन्धौ निरूढो

राधामाधवयोरनुरागो बीजं उच्यते ।

अथ बिन्दुः

फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः ।

विच्छिन्ने यदविच्छेदकारणं बिन्दुरुच्यते । । ३३ । ।

यथा तत्रैवे तृतीयचतुर्थयोः कल्पित प्रतिमुखसन्धौ

कृष्णपुरगमनादिना मुख्यफले विच्छिन्ने तेनैव समाशासनं एतास्तूर्णं

नयत कियतीः इत्यादि सूर्यवाक्यश्रवणजनितकृष्णप्रत्याशां नीरे

मङ्क्षुमिमङ्क्षुं (४.१०) इत्याद्युक्त्या गर्भाङ्कश्च बिन्दुः ।

अथ पताका

यत्प्रधानोपकरणं प्रसङ्गात्स्वार्थं ऋच्छति ।

सा पताका बुधैः प्रोक्ता यादवामात्यवृत्तवत् । । ३४ । ।

यथा तत्रैव पञ्चमषष्ठ्योः कल्पिते गर्भसन्धौ

पौर्णमास्युद्धववृत्तं पताका ।

अथ प्रकरी

यत्केवलं परार्थस्य साधकं च प्रदेशभाक् ।

प्रकरी सा समुद्दिष्टा नववृन्दादिवृत्तवत् । । ३५ । ।

यथा तत्रैव सप्तमाष्टयोः कल्पिते विमर्षसन्धौ यथा

नववृन्दादिकुलादिवृत्तं प्रकरी । ।

अथ कार्यं

वस्तुनस्तु समस्तस्य साध्यं कार्यं इति स्मृतं ।

राधामाधवयोः सङ्गो यथा ललितमाधवे । । ३६ । ।

यथात्र नवमदशमयोः कल्पिते निर्वहःअणसन्धौ राधामाधवयोः

पुनः सङ्गमपुरःसरक्रीडादि । ।

प्रधानं अङ्गं इति च तत्तु स्याद्द्विविधं पुनः ।

प्रधानं नेतृचरितं व्यापि कृष्णस्य चेष्टितम् । । ३७ । ।

नायकार्थं कृदङ्गं स्यात्नायकेतरचेष्टितं ।

नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् । । ३८ । ।

बीजत्वाद्बीजं आदौ स्यात्फलत्वात्कार्यं अन्ततः ।

तयोः सन्धानहेतुत्वात्मध्ये बिन्दुं मुहुः क्षिपेत् । । ३९ । ।

यथायोगं पताकायाः प्रकार्याश्च निवेशनम् । । ४० । ।

अतएव बिन्दुर्, यथा पञ्चमे (ललं ५.२३)

स्फुरन्मणिसराधिकं नवतमालनीलं हरेर्

उदूढनवकुङ्कुमं जयति हारि बक्षःस्थलं ।

उडुस्तवकितं सदा तडिदुदीर्णलक्ष्मीभरं

यदभ्रं इव लीलया स्फुणं अदभ्रं उद्भ्राजते । ।

एवं षष्ठसप्तमादिष्वपि बिन्दुर्द्रष्टव्यः । ।

अथावस्था

कार्यस्य पञ्चधावस्था नायकादिक्रियावशात् ।

आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः । । ४१ । ।

तत्रारम्भः

बुधैर्मुख्यफलोद्योग आरम्भ इति कथ्यते ।

यथा ललितमाधवे मुखसन्धौ राधामाधवयोरन्योन्यसङ्गमाय

व्यवसाय आरम्भः ।

अथ यत्नः

यत्नस्तु तत्फलप्राप्तावौत्सुक्येन तु वर्तनम् । । ४२ । ।

यथा तत्रैव प्रतिमुखसन्धौ राधया कृष्णस्यान्वेषणे कृष्णेन च

गन्धर्वकृतनृत्यादौ राधावलोकायोद्यमो यत्नः ।

अथ प्राप्त्याशा

प्राप्त्याशा तु निजार्थस्य सिद्धिसम्भावना मता । ।

[*ण्Oठ्Eः सिद्धसद्भावना मता.]

तथा च मुनिनाप्य्(१९.११) उक्तं

ईषत्प्राप्तिर्यदा काचित्फलस्य परिकल्प्यते ।

भावमात्रेण तं प्राहुर्विधिज्ञाः प्राप्तिसम्भवं । ।

यथा, तत्रैव गर्भसन्धौ राधायाः सत्राजिति समर्पण् कृष्णस्य च

ललिताशङ्खचूडरत्नादिलाभादिना सम्भावनायोग्यत्वात्प्राप्त्याशा ।

अथ नियताप्तिः

नियताप्तिरविघ्नेन कार्यसंसिद्धिनिश्चयः ।

यथा, तत्रैव विमर्शसन्धौ राधादर्शनादविघ्नेन फलसंसिद्धिनिशयान्

नियताप्तिः ।

अथ फलागमः

निजाभीष्टफलावाप्तिर्भवेदेव फलागमः । । ४३ । ।

यथा तत्रैव निर्वहणसन्धौ

व्रजबन्धुसमागमराधालाभरत्नाभिषेकादिः फलागमः ।

पताकायास्त्ववस्थानं क्वचिदस्ति न वा क्वचित् ।

पताकया विहीने तु बीजबिन्दू निवेशयेत् । । ४४ । ।

अथ सन्ध्यङ्गानि

मुख्यप्रयोजनवशात्कथाङ्ग्.नां समन्वये ।

अवान्तरार्थसम्बन्धः सन्धोः सन्धानरूपकः । । ४५ । ।

मुखप्रतिमुखे गर्भविमर्शावुपसंहृतिः ।

पञ्चैते सन्धयस्तेषु मुखलक्षणं उच्यते । । ४६ । ।

अथ मुखं

मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा ।

अत्र तु द्वादशाङ्गानि बीजारम्भानुरोधतः । । ४७ । ।

राधामाधवयोरत्र प्रेमबीजसमुद्भवः ।

सूचितः सौष्टवात्तत्र यथा ललितमाधवे । । ४८ । ।

उपक्षेपः परिकरः परिन्यासो विलोभनं ।

युक्तिः प्राप्तिः समाधानं विधानं परिभावना । । ४९ । ।

उद्भेदभेदकरणान्येषां लक्षणं उच्यते ।

तत्रोपक्षेपः

उपक्षेपस्तु बीजस्य सूचनं कथ्यते बुधैः । । ५० । ।

यथा ललितमाधवे प्रथमेऽङ्के (१.१४)

पौर्णमासी (हन्त राधामाधवयोरिति पठित्वा) वत्से गार्गि श्रूयतां ।

कृष्णापाङ्गतरङ्गितद्युमणिजासम्भेदवेणीकृते

राधायाः स्मितचन्द्रिकासुरधुनीपुरे निपीयामृतं ।

अन्तस्तोषतुषारसम्प्रवलवव्यालीढतापोच्चयाः

क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वं अध्यास्महे । ।

अत्र राधामाधवयोरनुरागबीजस्य सूचनं उपक्षेपः ।

अथ परिकरः

बीजस्य बहुलीकारो ज्ञेयः परिकरो बुधैः ।

यथा तत्रैव (१.२४)

गार्गी (संस्कृतेन)

ह्रियं अवगृह्य गृहेभ्यः कर्षति राधां वनाय या निपुणा ।

सा जयति निसृष्टार्थी वरवंशजकाकली दूती । ।

अत्र वनाकर्षणादिना अनुरागबीजस्य बहुलीकरणात्परिकरः । ।

अथ परिन्यासः

बीजनिष्पत्तिकथनं परिन्यास इतीर्यते । । ५२ । ।

यथा तत्रैव प्रथमेऽङ्के

राधा (सरोमाञ्चम्)ः ललिदे का क्खु कह्नत्ति सुनीअदि जेण केअलं कण्णस्स ज्जेअ

अदिधीहोन्तेण उम्मतीकिज्जह्मि । । [ललिते, कः खलु कृष्ण इति श्रूयते? य़ेन केवलं

कर्णस्यैव अतिथीभवता उन्मत्तीक्रियेऽहं ।]

अत्र उन्मत्तीकरणेन बीजनिष्पत्तिकथनात्परिन्यासः ।

अथ विलोभनं

नायकादिगुणानां यद्वर्णनं तद्विलोभनं ।

यथा तत्रैव प्रथमेऽङ्के

तत्र कृष्णः (सन्निधाय)

समीक्ष्य तव राधिके वदनबिम्बं उद्भास्वरं

त्रपाभरपरीतधीः श्रयितुं अस्य तुल्यश्रियं ।

शशी किल कृसीभवन्सुरधुनीतरङ्गोक्षितां

तपस्यति कपर्दिनः स्फुटजटाटवीं आस्थितः । ।

तत्र राधासौन्दर्यगुणवर्णनाद्विलोभनं ।

अथ युक्तिः

सम्यक्प्रयोजनानां हि निर्णयो युक्तिरिष्यते । । ५४ । ।

यथा तत्रैव (पर १.१११२)

यशोदा भादि चन्दाअली णोमालिआ राहा माहरिअ सब्बॉ मह आसॉ

गुणासोहरपूरेण पुरेइ । तत्थबि बच्छो बिअ बच्चा लैई णेत्तभिङ्गं

सोन्दरमरन्देण आणन्देइ । । [भगवति चन्द्रावली नवमालिका राधा माधवी

च सर्वथा मम आशा गुणसौरभपूरेण पूरयति । तत्रापि वत्स इव वत्सा

लघ्वी नेत्रभृङ्गं सौन्दर्यमकरन्देन आनन्दयति । ]

भगवतीः गोकुलेश्वरि । सर्वेषां गोकुलवासिनां ईदृगेव समुदाचार इति ।

अत्र राधायां सर्वतोऽधिकानां गुणोत्कर्षाणां निर्णयो युक्तिः ।

अथ प्राप्तिः

प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिरित्यभिधीयते । । ५५ । ।

यथा तत्रैव (१.५१)

तत्र कृष्णः (पुनरुत्कर्णो भवन्सपुलकम्)

मधुरिमलहरीभिः स्तम्भयत्यम्बरे या

स्मरमदसरसानां सारसानां रुतानि ।

इयं उदयति राधाकिङ्किनीझङ्कृतिर्मे

हृदि परिणमयन्ती विक्रियाडम्बराणि । ।

अत्र राधाझङ्कृतिश्रवणात्कृष्णस्य सुखसम्प्राप्तिः प्राप्तिः ।

अथ समाधानं

बीजस्य पुनराधानं समाधानं इहोच्यते । । ५६ । ।

यथा तत्रैव

राधा (सास्रं)ः कुन्दलैए, अबि णाम इमस्स एकस्स बि हदण्त्तस्स मग्गं क्खणं

बि आरोहिस्सदि सो मह धण्णस्स कण्णस्स अदिधी । [कुन्दलते! अपि नाम

तस्यैकस्यापि हतनेत्रस्य मार्गं क्षणं अपि आरोहिष्यति स मे धन्यस्य

कर्णस्यातिथिः ।]

अत्र स्वयं राधया पुनरनुरागबीजस्याधानात्समाधानं ।

अथ विधानं

सुखदुःखकरं यत्तु तद्विधानं बुधा विदुः । । ५७ । ।

यथा तत्रैव द्वितीयाङ्के

राधिका (दूरतः कृष्णं ईषदवलोक्य, जनान्तिकं संस्कृतेन)

सहचरि निरातङ्कः कोऽयं युवा मुदिरद्युतिर्

व्रजभुवि कुतः प्राप्तो माद्यन्मतङ्गजविभ्रमः ।

अहह चटुलैरुत्सर्पद्भिर्दृगाङ्चलतस्करैर्

मम धृतिर्धनं चेतःकोषाद्विलुण्ठयतीह यः । । (२.११)

(पुनरवेक्ष्य) हद्धी हद्धी प्पमादो, ललिदे पेक्ख पेक्ख एणं बम्हऽरिणं

दट्ठूण विक्खुहिदं मह हदहिआं । ता इमस्स महापाबस्स अग्गिप्पवेसो जेब्ब

पराअचित्तं । [ह धिखा धिक्प्रमादः । ललिते प्रेक्ष्य प्रेक्ष्य । एतं

ब्रह्मचारिणं दृष्ट्वा विक्ष्ब्धं मे हतहृदयं । तदेतस्य महापापस्य

अग्निप्रवेश एव प्रायश्चित्तं ।]

ललिता ः हला, सच्चं कधेसि । ता णूणं सबण्णतणं भामेदि । [हला, सत्यं

कथयसि, तन्नूनं सवर्णत्वं भ्रमयति ।]

राधिका ः (पुनर्निभाल्य, संस्कृतेन)

सहचरि हरिरेष ब्रह्मवेशं प्रपन्नः

किं अयं इतरथा मे विद्रवत्यन्तरात्मा ।

शशधरमणिवेदी स्वेदधारां प्रसूते

न किल कुमुदबन्धोः कौमुदीं अन्तरेण । । (२.१२)

अत्र राधायाः कृष्णबुद्ध्या विप्रबुद्ध्या च सुखदुःखकथनाद्विधानं ।

अथ परिभावना

श्लाघ्यैश्चित्तचमत्कारो गुणौघैः परिभावना । । ५८ । ।

यथा तत्रैव प्रथमेऽङ्के

राधा (सचमत्कारं संस्कृतेन)

कुलवरतनुधर्मग्राववृन्दानि भिन्दन्

सुमुखि निशितदीर्घापाङ्गटङ्कच्छटाभिः

युगपदयं अपूर्वः कः पुरो विश्वकर्मा

मरकतमणिलक्षैर्गोष्ठकक्षां चिनोति । । ५२ । ।

ललिताः हला, सो एसो दे पराणनाधो । [हला, स एष ते प्राणनाथः ।]

राधाः (सोन्मादं पुनः संस्कृतेन)

स एष किं उ गोपिकाकुमुदिनीसुधादीधितिः

स एष किं उ गोकुलस्फुरितयौवराज्योत्सवः ।

स एष किं उ मन्मनःपिकविनोदपुष्पाकरः

कृशोदरि दृशोर्द्वईं अमृतवीचिभिः सिञ्चति । । (१.५३)

अत्र कृष्णस्य वैदग्धसौन्दर्यादिगुणनिदर्शनेन च

राधाचमत्कारकथनात्परिभावना ।

अथोद्भेदः

बीजस्य तु य उद्घातः स उद्भेद इति स्मृतः । । ५९ । ।

यथा तत्रैव द्वितीयाङ्के

राधिका (अपवार्य, संस्कृतेन)

चलाक्षिगुरुलोकतः स्फुरति तावदन्तर्भयं

कुलस्थितिरलं तु मे मनसि तावदुन्मीलति ।

चलन्मकरकुण्डलस्फुरितफुल्लगण्डस्थलं

न यावदपरोक्षतां इदं अपैति वक्त्राम्बुजं । । (२.२६)

अत्रादौ संवृत्तस्यानुरागबीजस्य स्वमुखेनैवोध्घातनादुद्भेदः ।

अथ भेदः

बीजस्योत्तेजनं भेदो यद्वा सङ्घातभेदनम् । । ६० । ।

यथा तत्रैव

कुन्दलता राहे, अक्खलिदं तुम्ह सदीब्बदं, ता अलं सां विक्खाबिदेण । [राधे,

जाने सस्खलितं तव सतीव्रतं, तदलं स्वयं विख्यापितेन । ]

विशाखा (सप्रणयाभ्यसूयम्) कुन्दलदे! का क्खु अबरा तुमं बिअ वंसीए

तिण्णिसञ्झं आअड्ढीअदि ? [राधे, का खल्वपरा त्वां इव वंश्या त्रिसन्ध्यम्

आकृष्यते ।]

कुन्दलता (सनर्मस्मितं, संस्कृतेन)

ददामि सदयं सदा विशदबुद्धिराशीःशतं

भवादृशि पतिव्रताव्रतं अखण्डितं तिष्ठतु ।

श्रुतैर्निखिलमाधुरीपरिणतेऽपि वेणुध्वनौ

मनः सखि मनागपि त्यजति वो न धैर्यं यथा । । (२.२०)

अत्र कुन्दलतया राधादिप्रेमस्योत्तेजनाद्भेदनाच्चात्मनस्ताभ्यो भेदः ।

अथ करणं

प्रस्तुतार्थसमारम्भं करणं परिचक्षते । । ६१ । ।

यथा, तत्रैव

कुन्दलता (संस्कृतेन)

त्रपां त्यज कुडङ्गकं प्रविश सन्तु ते मङ्गला

न्यनङ्गसमराङ्गणे परमसांयुगीना भव ।

विवस्वदुदये भवद्विजयकीर्तिगाथावली

पुरः स्कहि मुरद्विषः सहचरीभिरुद्गीयतां । । २.२४ । ।

अत्र प्रस्तुतस्य क्रीडारूपस्यार्थस्य समारम्भकथनात्करणं ।

अथ प्रतिमुखसन्धिः

भवेत्प्रतिमुखं दृश्यं बीजप्रकाशनं ।

बिन्दुप्रयत्नोपगमादङ्गान्यस्य त्रयोदश । । ६२ । ।

विषमात्यन्तविश्लेषाद्राधामाधवयोरिह ।

दृश्यादृश्यं प्रेमबीजं यथा ललितमाधवे । । ६३ । ।

विलासः परिसर्पश्च विधुतं शमनर्मणी ।

नर्मद्युतिः प्रगमनं विरोधः पर्युपासनं ।

पुष्पं वज्रं उपन्यासो वर्णसंहार इत्यपि । । ६४ । ।

तत्र विलासः

विलासः सङ्गमार्थस्तु व्यापारः परिकीर्तितः । । ६५ । ।

यथा तत्रैव चतुर्थाङ्के

माधवः (अधरे वेणुं विन्यस्य)

अक्ष्णोर्बन्धुं हरिहयहरिन्नागरिप्रागरिक्तां

रोगेणाविष्कुरु गुरुरुचं भानवीयां नवीनां ।

चक्राभिख्यः किं अपि विरहादाकुलः काकूलक्षं

कुर्वन्मुख्यस्त्वयि स वयसां अर्थिभावं तनोति । ।४.२२ । ।

अत्र माधवस्य सङ्गमार्थव्यापारकथनाद्विलासः ।

अथ परिसर्पः

स्मृतिर्नष्टस्य बीजस्य परिसर्प इति स्मृतः । । ६६ । ।

यथा तत्रैव

कृष्णः सखे सत्यं आशयैव कदर्थ्यमानोऽस्मि । यतः

नीरे मङ्क्षुमिमङ्क्षुं आर्तमुखरां उद्दिश्य चण्डद्युतेर्

दूरान्मण्डलतः कृपातुरतया यत्प्रादुरासीत्तदा ।

हा धिग्वागमृतेन तेन जनितस्तस्याः पुनः सङ्गम

प्रत्याशाङ्कुर उच्चकैर्मम सखे स्वान्तं हठाद्विध्यति । ।१० । ।

अत्र राधातिरोधानान्नष्टस्यानुरागबीजस्य पुनः सूर्यवचनेनानुस्मरणात्

परिसर्पः ।

अथ विधुतं

विधुतं कथितं दुःखं अभीष्टार्थानवाप्तितः ।

अथवानुनयादीनां विधुतं स्यान्निराकृतिः । । ६७ । ।

यथा तत्रैव तृतीयाङ्के

राधा (साक्रन्दम्)

निपीता न स्वैरं श्रुतिपुटिकया नर्मभणितिर्

न दृष्टा निःशङ्कं सुमुखि मुखपङ्केरुहरुचः ।

हरेर्वक्षःपीठं न किल घनं आलिङ्गितं अभूद्

इति ध्यायं ध्यायं स्फुटति लुठदन्तर्मम मनः । । (३.२६)

अत्र प्रकटं एव दुःखं विधुतं । यथा वा तत्रैव

पौर्णमासीः समाकर्णय वरवर्णिनीवर्णितं (नेपथ्ये)

नाश्वासनं विरचय त्वं इदं हताशो

शुष्यन्मुखी मम गुणं परिकीर्तयन्ती ।

दूरादमार्दवभृतोऽपि मुहुः क्षमायाः

कुक्षिं विदारयति पश्य रथाङ्गनेमिः । । (३.१७)

अत्र विशाखाकृतानुनयस्य राधया ग्रहणाद्विधुतं ।

अथ शमः

अरतेः शमनं धीरैः शम इत्यभिधीयते । । ६८ । ।

यथा तत्रैव चतुर्थेऽङ्के

वृन्दा नागरेन्द्र! मुञ्च वैमनस्यं । साम्प्रतं भवदभीष्टसिद्धये

शारिकामुखेन ललितां सन्दिश्य विशाखया भवन्तं निवेदयिष्यामि ।

अत्र जटिलया राधायां नीतायां वृन्दया माधवस्यारतिशमनाच्छमः ।

अपठित्वा शमं कश्चित्स पठत्यत्र तापनं ।

तथा हि (Sआहित्यदर्पणं ६.९१),

उपायादर्शनं यत्तु तापनं नाम तद्भवेत् । । इति ।

यथा तृतीयेऽङ्के

वृन्दा हा धिक्, हा हा धिक् । पश्य

न वक्तुं नावक्तुं पुरगमनवार्तां मुरभिदः

क्षमन्ते राधायै कथं अपि विशाखाप्रभृतयः ।

समन्तादाक्रान्ता निविडजडिमश्रेणिभिरिमाः

परं कर्णाकर्णिव्यवसितिं अधीरो विदधति । । (३.१२)

अत्रोपायदर्शनं प्रकटं एव ।

अथ नर्म

परिहासप्रधानं यद्वचनं नर्म तद्विदुः । । ६९ । ।

यथा तत्रैव चतुर्थेऽङ्के

जटिला (नासिकाग्रे तर्जनीं विन्यस्य स्थिता धुन्वन्ती साश्चर्यम्) अरे

बालिआभुजङ्ग! कं डंसिदुं एत्थ भम्मसि । [अरे बालिकाभुजङ्ग! कां

डंशितुं अत्र भ्राम्यसि ।]

माधवः लम्बोष्ठि! भवतीं एव गोष्ठपिशाचीं ।

अत्र प्रकटं एव नर्म ।

अथ नर्मद्युतिः

नर्मजाता रुचिः प्राज्ञैः नर्मद्युतिरुदाहृता । । ७० । ।

यथा तत्रैव

ललिता (स्मित्वा) अपि सरले, तुज्झ हिअए कत्थूरिआपत्तभंगं लिहन्तीए मए

पच्चक्खीकिदा सिविणसंगिणाअरकुंजर बिब्भमासि । ता फुडं कधेहि,

तैअजणसंगजोग्गे तस्मिं ओसरे दीहसुत्ता नीवीसहारी झत्ति णिक्कन्ता ण वेत्ति । [अयि

सरले! तव हृदये कस्तूरिकापत्रभङ्गं लिखन्त्या मया प्रत्यक्षीकृता

स्वप्नसङ्गिनागरकुञ्जरविभ्रमासि । तत्स्फुटं कथय । तृतीयजनसंयोग्ये

तस्मिन्नवसरे दीर्घसूत्रा नीवीसहचरी झटिति निष्क्रान्ता न वेति ]

राधिका (स्वगतम्) कधं तक्किदं अक्खिधुत्ताए । (प्रकाशम्,

सभ्रूभङ्गम्) वामे, कित्ति अलिअं आसंकसि? [कथं तर्कितं अतिधूर्तया? वामे,

किं इत्यलीकं आशङ्कसे?] (आच्त्४, परस्. ९२९३)

अत्र ललितानर्मजातया राधाया रुच्या धृत्या वा नर्मद्युतिः ।

अथ प्रगमणं

उत्तरोत्तरवाक्यं तु भवेत्प्रगमनं पुनः । । ७१ । ।

यथा तत्रैव

राधा

बाणरवईणन्दणं सबन्धुं,

रहपबरोबरि पेक्खिअ फ्फुरन्तं ।

[व्रजनृपतिनन्दनं सबन्धुं

रथप्रवरोपरि प्रेक्ष्य स्फुरन्तम्]

स्खलति मम वपुः कथं धरित्री

भ्रमति कुतः किं अमी नटन्ति नीपाः । । (३.१४)

ललिता सहि राहे, मा विसीद । पब्बदपरिक्कमोबक्कमो एसो । [सखि राधे, मा

विषीद, पर्वतपरिक्रमोपक्रम एषः ।]

राधिका

सहचरि, परिज्ञातं सद्य समस्तं इदं मया

पटिमपञलैस्त्वं निह्नोतुं कियत्प्रभविष्यसि ।

विरम कृपणे भावी नायं हरेर्विरहक्लमो

मम किं अभवन्कण्ठे प्राणा मुहुर्निरपत्रपाः । । (३.१५)

इत्यत्र राधाललितयोरुत्तरोत्तरं प्रगमनं ।

अथ विरोधः

यत्र व्यसनं आयाति विरोधः स निगद्यते । । ७२ । ।

यथा तत्रैव

राधिका

चेतः खिन्नजने हरेः परिणतं कारुण्यवीचीभरैर्

इत्याभीरनतभ्रुवां त्वै भवदालोकसम्भावना ।

मर्मग्रन्थविकृन्तनव्यसनिनी तं तादृशं वैरिणी

क्रूरेयं विरहव्यथा न सहते मद्भागधेयोत्सवं । । (३.२७)

अत्र स्पष्ट एव राधागमनेन विरोधः ।

अथ पर्युपासनम्

रुष्टस्यानुनयो धीरैः पर्युपासनं ईरितम् । । ७३ । ।

यथा तत्रैव चतुर्थे

जटिला ऐ अहिसारसग्गावेज्झाइणि ललिदे, एण्हिं पुत्तौ मे अहिमण्णु बिदूरे गदोत्थि,

ता सुण्णं घरं मुक्किअ कीस तुए आणीदा बहुडी । [अयि अभिसारमार्गोपाध्यायिनि

ललिते! इदानीं पुत्रको मेऽभिमन्युर्विदूरे गतोऽस्ति । तत्शून्यं गृहं मुक्त्वा

कस्मात्त्वया नीतात्र वधूटी ?]

ललिता (सशङ्कं आत्मगतम्) हद्धी, डाइनीए अडाहिणपैदीए ड्दहिठम्मि

बुठ्ठिआए । (प्रकाशम्) अय्ये गग्गीए भणिदं अज्ज माहबीपुप्फेहिं पूइदो सूरो

सुरहिकोड्प्पदो होदुत्ति माहबीमण्डबं लंहिखदा मए राहिआ, ता प्पसीद

प्पसीद । [हा धिक्! डाकिन्या दक्षिणप्रवृत्त्या दग्धास्मि वृद्धया । आर्ये, गार्ग्या

भणितम्, अद्य माधवीपुष्पैः पूजितः सूर्यः सुरभिकोटिप्रदो भवति । इति

माधवीमण्डपं लम्भिता मया राधिका । तत्प्रसीद प्रसीद ।

अत्र रुष्टाया जटिलाया ललितयाप्यनुनयात्पर्युपासनं ।

अथ पुष्पं

परिशेषो विधानं यत्पुष्पं तदिति संज्ञितम् । । ७४ । ।

यथा तत्रैव तृतीये

विदूरे कंसारिर्मुकुटितशिखण्डावलिरसौ

पुरे गौराङ्गीभिः कलितपरिरम्भो विलसति ।

(इति साभ्यसूयं पुनर्निरूप्य, सखेदम्)

न कान्तोऽयं शङ्के सुरपतिधनुर्धाममधुरस्

तडिल्लेखाहारी गिरिं अवललम्बे जलधरः । । (३.४०)

अत्र पुनर्जलधरतया विशेषज्ञानात्पुष्पं ।

अथ वज्रं

वज्रं तदिति विज्ञेयं साक्षान्निष्ठुरभाषणम् । । ७५ । ।

यथा तत्रैव चतुर्थे

जटिला (पृष्ठतः परिक्रम्य पुत्रस्य हस्तं आकर्षन्ती साक्षेपम्) रे

गोउलकिसोरीलंपडओ, अरे परघरलण्ठनओ । कहं तुमं बि अप्पणो पुत्तं

मण्णिस्सदि जडिला ? [रे गोकुलकिशोरीलम्पट, अरे परगृहलुण्ठक । कथं

त्वां अप्यात्मनः पुत्रं मंस्यति जटिला ।]

अत्र जटिलायाः पुत्रं प्रति निष्ठुरभाषणं वज्रं ।

अथोपन्यासः

युक्तिभिः सहितो योऽर्थः उपन्यासः स उच्यते । । ७६ । ।

यथा तत्रैव तृतीये

(नेपथ्ये)

अद्य प्राणपरार्धतोऽपि दयिते दूरं प्रयाते हरौ

हा धिग्दुःसहशोकशङ्कुभिरभूद्विद्धान्तरा राधिका ।

तेनास्याः प्रतिषेधं अर्थचरिते त्वं मा कृथा मा कृथाः

क्षीणेयं क्षणं अत्र सुष्ठु विलुठत्यार्तस्वरं रोदितुं । । (३.२९)

अत्र युक्तिसहितार्थता प्रकटैव । केचितुपन्यासः प्रसादनं इति (Sआह्ढ् ६.९३)

वदन्ति । तत्रोदाहरणं चतुर्थे

जटिला कुलपुत्ति, सिरेण मे साबिदासि । [कुलपुत्रि, शिरसा मे शापितासि ।]

अत्र जटिलायाः राधाप्रसादनं ।

अथ वर्णसंहारः

सवर्णोपगमनं वर्णसंहार इष्यते । । ७७ । ।

यथा तत्रैव, चतुर्थे

दैत्याचार्यस्तदास्ये विकृतिं अरुणतां मल्लवर्याः सखायो

गण्डौन्नत्यं खलेशाः प्रलयं ऋषिगणा ध्यानमुञ्चास्रं अम्बा ।

रोमाञ्चं सांयुगीनाः कं अपि नवचमत्कारं अन्तः सुरेन्द्राः

लास्यं दासाः कटाक्षं ययुरसितदृशां प्रेक्ष्य रङ्गे मुकुन्दं । । (४.४)

अत्र दैत्याचार्यनारदादयः ब्राह्मणाः क्षितीशसांयुगीनादयः क्षत्रियाः,

मल्ला दासादयो वैश्याः शूद्रादयश्च इति वर्णसंहारः ।

अथ गर्भसन्धिः

दृष्टादृष्टस्य बीजस्य गर्भो हासगवेषणात् ।

द्वादशाङ्गो भवेदेष पताकांशानुसारतः । । ७८ । ।

राजेन्द्रता प्रसङ्गेन हासो वन्दिजनोक्तितः ।

पुनरन्वेषणं जातं प्रसेनान्वेषणात् । । ७९ । ।

ह्रासोद्भूः पुनरन्वेष्टिर्ललितादर्शनादभूत् ।

हरेः प्रणयबीजस्य यथा ललितमाधवे । । ८० । ।

अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।

सङ्ग्रहश्चानुमानं च तोटकाधिबले तथा । । ८१ । ।

उद्वेगः सम्भ्रमाक्सेपावेषां लक्षणं उच्यते ।

तत्राभूताहरणं

अभूताहरणं तत्स्याद्वाक्यं यत्कपटाश्रयम् । । ८२ । ।

यथा तत्रैव पञ्चमेऽङ्के

विरचयन्जनईं अतिविस्मितां

भुजचतुस्टयवानजनिष्ट यः ।

स भगिनीं तव शूरसुतात्मजो

यदुवरः परिणेष्यति रुक्मिणीं । । (५.९)

अथ कपटवाक्यं इदं अभूताहरणं ।

अथ मार्गः

मार्गस्तत्त्वार्थकथनम्…

यथा तत्रैव

कृष्णः (पत्रिकां वाचयित्वा)

[*व्.ल्. फ़ोर्कृष्णःः नारदः]

निखिला शिखिनि नयन्नपि सुखानि जात्यासितापाङ्गी ।

रमयति कृष्णः सुघनो वृन्दावनगन्धिनीरेव । । (५.१०)

अत्र हरिणा हृदयत्वप्रकटनान्मार्गः ।

अथ रूपं

… रूपं वाक्यं वितर्कवत् । । ८३ । ।

यथा तत्रैव

कृष्णः (सानन्दम्) सखे, कथं अनुभूतपूर्वेव कापि शिञ्जितसरणी प्रसह्य

मां आद्रीकरोति ।

[*ण्Oठ्Eः कृष्णःसाशङ्कम्]

अत्र चन्द्रावलीनूपुरादिशिङ्जितश्रवणात्कृष्णस्य वितर्को रूपं ।

अथोदाहरणं

सोत्कर्षं वचनं यत्तु तदुदाहरणं मतम् । । ८४ । ।

यथा तत्रैव

सुपर्णाः (निर्वर्ण्य सविस्मयम्)

सौन्दर्याम्बुनिधेर्विधाय मथनं दम्भेन दुग्धाम्बुधेर्

गीर्वाणैरुदहारि हारि परितो या सारसम्पन्मयी ।

सा लक्ष्मीरपि चक्षुषां चिरचमत्कारक्रियाचातुरीं

धत्ते हन्त तथा न कान्तिभिरियं राज्ञः कुमारी यथा । । (५.३०)

अत्र चन्द्रावलीरूपोत्कर्षकथनं उदाहरणं ।

अथ क्रमः

भावज्ञानं क्रमो यद्वा चिन्त्यमानार्थसङ्गतिः । । ८५ । ।

यथा षष्ठे

नववृन्दा (स्वगतम्)

जनितकमललक्ष्मीविभ्रमे नेत्रवीथीं

गतवति चिरकालादंशुके कंसहन्तुः ।

अलघुभिरपि यत्नैर्दुस्तरां संवरीतुं

विकृतिं अतुलबाधां हन्त राधा दधाति । । (६.२५)

अत्र नववृन्दाया राधाया भावज्ञानात्चित्न्यमानहरिचिह्नस्य राधया

दर्शनाद्वा क्रमः ।

अथ सङ्ग्रहः

सङ्ग्रहः सामदानार्थसंयोगः परिकीर्तितः । । ८६ । ।

यथा तत्रैव पञ्चमे

भीष्मः (सानन्दम्)

[*ण्Oठ्Eः भीष्मकः (सादरम्)]

अविदितस्तनयां अनयान्नयन्न्

उपकृतिं कृतवान्मम जाम्बवान् ।

मुनिमनःप्रणिधेयपदाम्बुजस्

त्वं असि येन वरो दुहितुर्वरः । । (५.३७)

अत्र सामनिमित्तकन्यासं अर्पणादिना सङ्ग्रहः ।

अथानुमानं

लिङ्गादूहोऽनुमानता…

यथा तत्रैव षष्ठे

चन्द्रावली (संस्कृतेन)

साधर्म्यं मधुरिपुविप्रयोगभाजां

तन्वङ्गी मुहुरियं अङ्गकैस्तनोति ।

आकृत्या श्रियं अपि माधवीं किं एनां

दैन्येऽपि प्रथयितुं आर्तयः क्षमन्ते । । (६.२३)

अत्र दैन्येऽपि माधुरीदर्शनेन लिङ्गेन

कृष्णविप्रयोगभाक्त्वस्याभ्यूहोऽनुमानं ।

अथ तोटकं

… वचः संरम्भि तोटकम् । । ८७ । ।

यथा तत्रैव षष्ठे

नारदः

मणीन्द्रं पारीन्द्रप्रवरं अहरन्निघ्नतनयं

विनिघ्नन्ते तं च प्रबलं अथ भल्लूकनृपतिः ।

पराभूय स्वैरी तं अपि मुरवैरी तव धनं

तदाहर्ता पाप त्वं असि पतितस्तापजलधौ । । (६.१५)

अत्र संरम्भेन तोटकं प्रकटं एव ।

अथाधिबलं

बुधैरधिबलं प्रोक्तं कपटेनाधिवञ्चनम् । । ८८ । ।

यथा तत्रैव पञ्चमे

श्रीकृष्णः

पर्यशीलि पशुबालघटायां

केलिरङ्गघटनाय मया यः ।

सुष्ठु सोऽयं अकओर्त्परदुर्गे

वैशयन्सचिवतां नटवेषः । । (५.२७)

अत्र नटवेषकपटेन परवञ्चनं अधिबलं ।

अथोद्वेगः

शत्रुवैरादिसम्भूतं भयं उद्वेग उच्यते । । ८९ । ।

यथा तत्रैव षष्ठे

चन्द्रावली (जनान्तिकम्) सहि माहवि ! पेक्ख । एसो अज्जौत्तस्स सच्चसंकप्पिदा

सेइबिमद्दणो सच्चभामाए सोन्देरपूरो धीरं बि मं आन्दोलेदि । [सखि माधवि,

पश्य । एष आर्यपुत्रस्य सत्यसङ्कल्पिता सेतुविमर्दनः सत्यभामायाः

सौन्दर्यपूरो धीरां अपि मां आन्दोलयति ।]

अत्राविर्भूतसपत्नीदर्शनाच्चन्द्रावल्या उद्वेगः ।

अथ सम्भ्रमः

शत्रुव्याघ्रादिसम्भूता शङ्का स्यादिह सम्भ्रमः । । ९० । ।

यथा तत्रैव पञ्चमे

(नेपथ्ये)

सप्तिः सप्ती रथ इह रथः कुञ्जरो मे

तूणस्तूणो धनुरुत धनुर्भोः कृपाणी कृपाणी ।

का भ्äः का भीरयं अयं अहं हा त्वरध्वं त्वरध्वं

राज्ञः पुत्री बत हृतहृता कामिना वल्लवेन । ।(५.३०)

अत्र स्पष्ट एव सम्भ्रमः ।

अथाक्षेपः

गर्भबीजसमुत्क्षेपं आक्षेपं परिचक्षते । । ९१ । ।

यथा तत्रैव षष्ठे

कृष्णः (सवैक्लव्यम्)

निखिलसुहृदां अर्थारम्भे विलम्बितचेतसा

मसृणितशिखो यः प्राप्तोद्भूद्मनागिव मार्दवं ।

स खलु ललितासान्द्रस्रेहप्रसङ्गघनीभवन्

पुनरपि बलादिन्धे राधावियोगमयः शिखी । । (६.४३)

अस्य सुहृदर्थसम्पादने गर्भितस्य पुनः ललितादर्शनेनोत्क्षेपादाक्षेपः ।

अथ विमर्शसन्धिः

यत्र प्रलोभनक्रोधय्व्यसनाद्यैर्विमृश्यते ।

बीजवान्गर्भनिर्भिन्नः स विमर्श इतीर्यते । । ९२ । ।

प्रकरीनियताप्तानुगुण्यादत्राङ्गकल्पनं ।

बकुलानववृन्दादिप्रलोभनवशाद्यथा । । ९३ । ।

देवी शङ्कादितश्चात्र प्रेमबीजविमर्शनं ।

राधामाधवयोः प्रोक्तं स्फुटं ललितमाधवे । । ९४ । ।

अववादोऽयं सम्फेटो विद्रवद्रवशक्तयः ।

द्युतिप्रसङ्गश्छलनं व्यवसायो विरोधनं ।

प्ररोचना विवलनं आदानं स्युस्त्रयोदश । । ९५ । ।

अथाववादः

दोषप्रख्याववादः स्यात्…

यथा तत्रैव सप्तमे

राधिका (सव्यथम्)

चिरादद्य स्वप्ने मम विविधयत्नादुपगते

प्रपेदे गोविन्दः सखि नयनयोरक्षणभुवं ।

गृहीत्वा हा हन्त त्वरितं अथ तस्मिन्नपि रथं

कथं प्रत्यासन्नः स खलु पुरुषो राजपुरुषः । । (७.२२)

अत्रातुरस्य क्रौर्यकीर्तनादववादः ।

अथ सम्फेटः

सम्फेटो रोषभाषणं ।

यथा तत्रैव

राधिका (संस्कृतेन)

शास्तु द्वारवतीपतिंस्त्रिजगतीं सौन्दर्यपर्याचितः

किं नस्तेन विरम्यतां कथं असौ शोकाग्निरुज्ज्वाल्यते ।

युष्माभिः स्फुटयुक्तिकोटिगरिमव्याहारिणीभिर्बलाद्

आकर्ष्टुं व्रजराजनन्दनपदाम्भोजान्न शक्या वयं । । ७.२ । ।

अत्र बकुलां प्रति गूढदोषोक्त्या सम्फेटः ।

अथ विद्रवः

विद्रवो वधबन्धादिः…

यथा तत्रैवाष्टमे

कृष्णः प्रिये, युष्माकं अद्भुतं आकर्ण्यतां साम्प्रतं अहं

सूरसौगन्धिकं आहरिष्यन्पाण्डवेन सह खाण्डवाडवीं प्राविशं । तत्र

मृगानाहण्डिनो गाण्डीविनः श्येनाभ्यां निगृहीतयोः पक्षिणोरेकः प्राहेत्यादि ।

अत्र पक्षिनिग्रहादिना विद्रवः ।

अथ द्रवः

…द्रवो गुरुतिरिस्क्रिया । । ९६ । ।

यथा तत्रैव

माधवी भट्टोदारिए कासारे पसारिदणि अब्बदं वगीं समरिअ हसामि ।

[भर्तृदारिके कासारे प्रसारितनिजव्रतां बकीं स्मृत्वा हसामि ।]

अत्र स्वामिन्या राधाया उपहासेन द्रवः ।

अथ शक्तिः

विरोधशमनं शक्तिः…

यथा तत्रैव

नववृन्दा (लतान्तरे स्थित्वा) हन्त कथं अङ्गीकृतराधाप्रसाधना देवीयम्

उपलब्धा । तदेष माधवो यावदेनां राधिकां प्रतीत्य न प्रमादम्

आदधाति तावदहं पद्यं एकं हारीतेन हारयामीति ।

अत्र राधात्वेन चन्द्रावलीज्ञानादुत्पन्नस्य विरोधस्य शमनात्शक्तिः ।

अथ द्युतिः

…तर्जनोद्वेजने द्युतिः । । ९७ । ।

यथा तत्रैव

राधा (सभयम्) हन्त, चंचल चंचरीअ चिट्ठ चिट्ठ । एसा लीलाकमलेण

ताडेमि तुमं धिठ्ठं । [चञ्चल चञ्चरीक तिष्ठ तिष्ठ । एषा लीलाकमलेन

ताडयामि त्वां धृष्टं ।]

इत्यत्र भ्रमराद्युद्वेगेन भ्रमरं प्रति तर्जनेन च द्युतिः ।

अथ प्रसङ्गः

प्रस्तुतार्थस्य शमनं प्रसङ्गः परिकीर्तितः ।

प्रसङ्गं कथयन्त्यन्ये गुरूणां परिकीर्तनम् । । ९८ । ।

तत्राद्यं, यथा तत्रैवाष्टमे

चर्चां सिञ्चति शोषयत्यपि मिथो विस्पर्धते वासकृत्

नेत्रद्वन्द्वं उरश्च यद्विरहतो बाष्पायमाणं मम ।

हन्त स्वप्नशतेऽपि दुर्लभतरप्रेक्ष्योत्सवा प्रेयसी

प्राप्योत्सङ्गं अतर्कितं मम कथं सा राधिका वर्तते । । ८.३ । ।

अत्र प्रस्तुतस्य विरहदुःखस्य शमात्प्रसङ्गः ।

द्वितीयं यथा सप्तमे

राधा (संस्कृतेन)

खेलन्मञ्जुलवेणुमण्डितमुखी साचिभ्रमंल्लोचना

मुग्धे मूर्ध्नि शिखण्डिनी धृतवपुर्भङ्गीत्रयाङ्गीकृतिः ।

कैशोरे कृतसङ्गतिः सुरमुनेराराध्यते शासनाद्

अस्माभिः पितुरालये जलधरश्यामच्छविर्देवता । । ७.२४ । ।

अत्रेष्टदेवनारदयोः पितुश्च कीर्तनाद्गुरुकीर्तनं ।

अथ छलनं

अपमानादिकरणं छलनं परिकीर्तितम् । । ९९ । ।

यथाष्टमे

कृष्णः हन्त कलिकण्डूलतुण्डमात्रसर्वस्वे तमोमयि माधविके!

विरम्यतां । द्वयोः परं जेतुं अशक्येयं चन्द्रावली ।

अत्र माधवीभर्त्सनापमानाच्छलनं ।

अथ व्यवसायः

व्यवसायस्तु सामर्थ्यस्याख्यापनं उदीर्यते । । १०० । ।

यथा सप्तमे

राधिका (सन्निवृत्य सलज्जं संस्कृतेन)

कंसारेरवलोकमङ्गलविनाभावादधन्येधुना

बिभ्राणा हतजीविते प्रणयितां नाहं सखि प्राणिमि ।

क्रूरेयं न विरोधिनी यदि भवेदाशामयी शृङ्खला

प्राणानां ध्रुवं अर्बुदान्यपि तस्य त्यक्तुं सुखेनोत्सहे । । ७.१३ । ।

अत्र प्राणार्बुदत्यागार्थसामान्यकथनाद्व्यवसायः ।

कश्चित्तु, व्यवसायस्तु विज्ञेयः प्रतिज्ञाहेतुसम्भवः । । इत्याह (Sआह्ढ् ६.१०३) ।

यथा तत्रैव सप्तमे

यस्योत्तंसः स्फुरति चिकुरे केकिपत्रप्रणीतो

हारः कण्ठे विलुठति कृतः स्थूलगुञ्जावलीभिः ।

वेणुर्वक्त्रे रचयति रुचिं हन्त चेतस्ततो मे

रूपं विश्वोत्तरं अपि हरेर्नान्यदङ्गीकरोति । । (७.६)

अथ विरोधनं

विरोधनं विरोधोक्तिः संरब्धानां परस्परम् । । १०१ । ।

यथाष्टमे

चन्द्रावली (सोल्लुण्ठस्मितम्) ऐ लोलुहे आलि, कीस मं अनापेक्खिअ तं

णिअमहाब्बदं तुए सुट्ठु पडिट्ठिदं । [अयि लोलुपे आलि, कस्मान्मां अनापृच्छ्य

तन्निजमहाव्रतं त्वया सुष्ठु प्रतिष्ठितं ।]

राधिका देइ, सरण्णस्स जणस्स संरक्खणे अक्खमासि तहबि परिहसेसि । णूणं

ईसरीणां क्खु जुत्तं एदं । [देवि, शरण्यस्य जनस्य संरक्षणे अक्षमासि तथापि

परिहससि । नूनं ईश्वरीणां खलु युक्तं एतत् ।]

अत्र निगूढसंरम्भयोश्चन्द्रावलीराधयोः विरोधोक्त्या विरोधनं ।

अथ प्ररोचना

सिद्धवद्भाविनोऽर्थस्य सूचनात्स्यात्प्ररोचना । । १०२ । ।

यथा तत्रैव सप्तमे

नववृन्दा

अलं विलापैः समयक्रमस्य

दुरूहरूपा गतयो भवनित् ।

शरन्मुखे पश्य सरस्तटीषु

खेलन्त्यकस्मात्खलु खञ्जरीटाः । । ७.५ । ।

इत्यत्र कञ्जरीटदृष्टान्तेन भाविकृष्णसङ्गमस्य सूचनात्प्ररोचना ।

यद्वा तत्रैव

राधा (संस्कृतेन)

अजनि सफलः सौख्यं भूयान्कलेवरधारणे

सहचरि परिक्लेशो योऽभून्मया किल सेवितः ।

अहह यदिमाः श्यामश्यामा पुरो मम वल्लवी

कुलकुमुदिनीबन्धोस्तास्ताः स्फुरन्ति मरीचयः । । ७.२७ । ।

अत्र प्रतिमासन्दर्शनानन्देन भाविकृष्णसङ्गमनस्य सिद्धवत्सूचनात्

प्ररोचना ।

अथ विवलनं

आत्मश्लाघा विवलनं ।

यथा तत्रैवाष्टमे

कृष्णः (सविस्मयम्) कोऽयं माधुर्येण ममापि मनो हरन्मणिकुड्यम्

अवष्टम्ब्य पुरो विराजते । (पुनर्निभाल्य) हन्त कथं अत्राहं एव

प्रतिबिम्बितोऽस्मि । (इति सौत्सुक्यम्)

अपरिकलितपूर्वः कश्चमत्कारकारी

स्फुरति मम गरीयानेष माधुर्यपूरः ।

अयं अहं अपि हन्त प्रेक्ष्य यं लुब्धचेताः

सरभसं उपभोक्तुं कामये राधिकेव । ।८.३४ ।

अत्र विस्मयेन निजरूपश्लाघनं विवलनं ।

अथादानं

आदानं कार्यसङ्ग्रहः । । १०३ । ।

यथा तत्रैवाष्टमे

नववृन्दा (राधां अवेक्ष्य) हन्त हन्त!

आलोके कमलेषणस्य सजलासारे दृशौ न क्षमे

नाश्लेषे किल शक्तिभागतिपृथुस्तम्भा भुजावल्लरी ।

वाणी गद्गदकुण्ठितोत्तरविधौ नालं चिरोपस्थिते

वृत्तिः कापि बभूव सङ्गमनये विघ्नः कुरङ्गीदृशः । । ८.११ । ।

अत्र कृष्णदर्शनादिरूपकार्यसङ्ग्रहादादानं ।

कश्चित्तु विद्रवविवलनछलनाद्यत्र न पठित्वा खेदप्रतिषेधछादनानि

पठन्ति लक्षयन्ति च ।

तत्र खेदः

मनश्चेष्टासमुत्पन्नः श्रमः खेद इतीर्यते । । १०४ । ।

यथा तत्रैव सप्तमे

राधिका (संस्कृतेन)

ममायासीद्दूरे दिगपि हरिसङ्गप्रणयिनी

प्रपेदे खेदेन त्रुटिरपि महाकल्पपदवीं ।

दहत्याशासर्पिर्विरचितपदप्राणदहनो

बलान्मां दुर्लीलः कं इव करवै हन्त शरणं । । ७.१ । ।

अथ प्रतिषेधः

ईप्सितार्थप्रतीघातः प्रतिषेध इतीर्यते । । १०५ । ।

यथा तत्रैव

राधा (समीक्ष्य सखेदं आत्मगतम्) कहं इंदीअरेण रहंगीए

संगमिट्ठं अहिणंदिदे मच्छरा कलहंसी मिलिदा । [कथं इन्दीवरेण

रहङ्ग्या सङ्गमितुं अभिनन्दिते मत्सरा कलहंसी मिलिता ।

अत्र देव्यागमनात्कृष्णसङ्गप्रतीघातः ।

अथ छादनं

कार्यार्थं अपमानादेः सहनं छादनं मतं ।

यथा सप्तमे नववृन्दा (प्रविश्य) सखि, मा विषादं कृथाः पश्य

पादे निपत्य बदरीं अवलम्बमाना

कान्तं रसालं अनुविन्दति माधवीयं ।

प्राणेशसङ्गमविधौ विनिविष्टचित्ता

नो पारवश्यकदनं मनुते हि साध्वी । । (७.३)

स्पष्टं एव छादनं ।

अथ निर्वहणसन्धिः

मुखसन्ध्यादयो यत्र विकीर्णा बीजसंयुताः ।

महत्प्रयोजनं यान्ति तन्निर्वहणं उच्यते । । १०७ । ।

अत्राङ्गकल्पनाकार्यफलागमसमागमात् ।

राधादीनां तु सर्वासां कुमारीणां अवाप्तितः । । १०८ । ।

उद्वाहाद्युत्सवः प्रोक्तो यथा ललितमाधवे ।

सन्धिर्विरोधो ग्रह्तनं निर्णयः परिभाषणम् । । १०९ । ।

प्रसादानन्दसमयाः कृतिर्भाषोपगूहने ।

पूर्वभावोपसंहारौ प्रशस्तिश्च मनीषिभिः । । ११० । ।

इति निर्वहणस्याङ्गान्युक्तान्यस्य चतुर्दश ।

तत्र सन्धिः

बीजोपगमनं सन्धिः…

यथा तत्रैव नवमेऽङ्के

निह्नूतामृतमाधुरीपरिमलः कल्याणि बिम्बाधरौ

वक्त्रं पङ्कजसौरभं कुहरितश्लाघाभिदस्ते गिरः ।

अङ्कश्चन्दनशीतलस्तनुरियं सौन्दर्यसर्वस्वभाक्

त्वां आसाद्य ममेदं इन्द्रियकुलं राधे मुहुर्मोदते । । (९.९)

अत्रानुरागबीजोपगमनात्सन्धिः ।

अथ विरोधः

… विरोधः कार्यमार्गणम् । । १११ । ।

यथा तत्रैव नवमाङ्के नववृन्दा

माधवीविरहितां मधुवीरः

कुण्डिनेश्वरसुतां निशमय्य ।

नन्दयन्स्फुरदमन्दविलासैर्

हासकन्दललसन्मुखं आह । । (९.७)

सत्याख्यस्य विलोकाय लोकस्यात्मभुवार्थितः ।

प्रतिष्ठासुरहं देवि तत्रानुज्ञा विधीयतां । । (९.८)

अत्र राधासङ्गमकार्यस्य मारणाद्विरोधः ।

अथ ग्रथनं

ग्रथनं सदुपेक्षेपः…

यथा तत्रैव राधिका (कृष्णं पश्यन्ती)

अंजलिं एत्तं सलिलं सभरीए अहिलसंतीए ।

ओबरि सां णाजलदा धारावरिसी समुल्लसई । । ९.१९

[अञ्जलिमात्रं सलिलं शफर्या अहिलषन्त्या ।

उपरि स्वयं नवजलदो धारावर्षी समुल्लसति । ।]

अत्र पुनः सहसा कृष्णदर्शनरूपस्य सदर्थस्योपक्षेपाद्ग्रथनं ।

अथ निर्णयः

निर्णयस्त्वनुभूतोक्तिः । । ११२ । ।

यथा तत्रैव कृष्णः

नवमदनविनोदैः केलिकुञ्जेषु राधे

निमिषवदुपरामं काम आसेदुषीणां ।

उपचितपरितोषप्रोषितापत्रपाणां

स्मरसि किं इव तासां शारदीनां क्षपाणां । । (९.४७)

अत्र स्पष्ट एव निर्णयः ।

अथ परिभाषणं

परिभाषा मिथो जल्पः परिवादोऽथवा भवेत् । । ११३ । ।

तत्राद्यं यथा तत्रैव

मधुमङ्गलः भोदि किं ति आअदासि? [भवति किं इत्यागतासि?]

सुकण्ठी इमस्स पण्होत्तरस्स सदिक्खं अण्णं बि महुरं सुणिदुं । [अस्य

प्रश्नोत्तरस्य सदृक्षं अन्यदपि मधुरं श्रोतुं ।]

मधुमङ्गलः भोदि पण्णोत्तरं बि तुए सुणिदम्? [भवति प्रश्नोत्तरं अपि

त्वया श्रुतम्]

सुकण्ठी ण केअणं इदं ज्जेब । [न केवलं इदं एव ।]

मधुमङ्गलः अबरं किं? [अपरं किं ?]

सुकण्ठी जा किं पि दिठ्ठं तं गदुअ देइए णिवेदिस्सं । [यत्किं अपि दृष्टं तद्

गत्वा देव्यै निवेदयिष्यामि ।]

अत्र विदूषकसुकण्ठ्योर्मिथो जल्पः । द्वितीयो यथा तत्रैव

मधुमङ्गलः (संस्कृतेन)

असि विषकण्ठीकठिने किं इति सुकण्ठीति भण्यते चेटि ।

अथवा का मम शस्ता भद्रेत्यभिधीयते विष्टिः । । ९.२१

अत्र सुकण्ठ्याः दोषदर्शनात्परीवादः ।

अथ प्रसादः

शुश्रूषाद्युपसम्पन्ना यत्प्रसादः प्रसन्नता । । ११४ । ।

यथा नवमे

कृष्णः (सहर्षम्) सुकण्ठिके! बाढं अस्मिन्नर्थे दुष्करस्ते मया

निष्क्रयः ।

अत्र श्रीकृष्णस्य प्रसादः स्पष्ट एव ।

अथानन्दः

आनन्दोऽभीष्टसम्प्राप्तिः…

यथा तत्रैव दशमे

नयनयोः स्तनयोरपि युग्मतः

परिपतद्भिरसौ पयसाञ्झिरैः ।

अहह वल्लवराजगृहेश्वरी

स्वतनयं प्रणयादभिषिञ्चति । ।(१०.१४) । ।

अत्र यशोदाया आनन्दः ।

यथा वा तत्रैव

कृष्णः (सानन्दम्) चिरेणाद्य गोकुलवासिनां इवात्मानं अभिमन्यमानः

प्रमोदमुग्धोऽस्मि ।

अत्र कृष्णस्यानन्दः ।

अथ समयः

समयो दुःखसङ्क्षयः । । ११५ । ।

यथा तत्रैव दशमे

राधिका (मुखादञ्चलं अपास्य, सविक्रोशम्) हा हा कधं पिअसही मे ललिदा ।

हा कधं बच्चला भावदी । हा कधं अज्जिआ मुहरा । [हा हा कथं प्रियसखी

मे ललिता । हा कथं वत्सहा भगवती । हा कथं आर्या मुखरा ।] (इत्यानन्देन

घूर्णन्ती भूमौ स्खलति ।)

अत्र सुहृद्दर्शनाद्राधाया दुःखसङ्क्षयः ।

अथ कृतिः

लब्धार्थस्य कृतिः स्थैर्यं …

यथा तत्रैव चन्द्रावली (जनान्तिकम्)

भावदि बहिणीए करं गेण्हिदुं मह बाणेण अब्भत्थीअदु… अज्जौत्तो ।

[भगवति भगिन्याः करं ग्रहीतुं मम वचनेन अभ्यर्थ्यतां आर्यपुत्रः ।]

अत्र यशोदादिसमागमाल्लब्ध्यस्य राधिकारूपार्थस्य चन्द्रावलीप्रार्थनेन

स्थैर्यकृतिः ।

अथ भाषणं

मानाद्याप्तिश्च भाषणम् । । ११६ । ।

यथा तत्रैव

(भगिन्यौ पौर्णमासीं अन्तराकृत्य गोपेन्द्रं प्रणमतः)

नन्दः वत्से, परस्परस्य प्राणाधिक्यं भजन्त्यौ सौभाग्यवत्यौ भूयासं ।

अत्र नन्दकृताशीर्वादादिमानप्राप्त्या भाषणं ।

अथोपगूहनं

अद्भुतार्थपरिप्राप्तिरुपगूहनं उच्यते । । ११७ । ।

यथ तत्रैव

राधा (सर्वासां पादानभिवाद्य सोत्कण्ठम्) कुसलिणी किं मे बहिणी

चन्दाअली । [कुशलिनी किं मे भगिनी चन्द्रावली ।]

चन्द्रावली (गाढं परिष्वज्य) बहिणी एसाम्हि दुज्जणीहतचन्दाअलिआ । [भगिनी,

एषास्मि दुर्जनी हतचन्द्रावलिका ।] (इति रोदिति)

राधिका (सानन्दं ससम्भ्रमं पादयोः पतन्ती) हद्धि हद्धि, बिडम्बिदह्मि

हददेब्बेण । [हा धिक्! हा धिक्!, विडम्बितास्मि हतदैवेन ।]

अत्रादृष्टपूर्वभगिन्योः परस्परालिङ्गनाद्यद्भुतार्थपरिप्राप्तिर्

उपगूहनं ।

अथ पूर्वभावः

मुख्यकार्यस्य संसर्गः पूर्वभावः प्रकीर्तितः । । ११८ । ।

यथा तत्रैव

पौर्णमासी यशोदामातः, उपस्थितोऽयं सर्वोऽभिषेकसम्भारः । तद्

अलङ्क्रियतां प्रथमं राधया सह पर्ववेदी ततः क्रमेण कुमारीभिश्च ।

अत्र मुख्यकार्यस्य राधामाधवयोः परिणयमहोत्सवस्य संसर्गात्

पूर्वभावः । केचित्पूर्ववाक्यं केचित्पूर्वभाषां इति पठन्तो लक्षयन्ति

(Sआह्ढ् ६.११३) पूर्ववाक्यं तु विज्ञेयं यथोक्तार्थोपदर्शनं । यथा तत्रैव

(नेपथ्ये)

विनीते राधायाः परिणयविधानानुमतिभिः

स्वयं देव्या तस्मिन्पितुरिह निबन्धे मुदितया ।

कुमारीणां तासां अयं उपनयन्षोडश कृती

सहस्राणि स्मेरः प्रविशति शताढ्यानि गरुडः । । (१०.३१)

अत्र पूर्वं कृष्णेन तृतीयाङ्के यदुक्तं एतास्तूर्णं नयत कियतीरित्यादिना

पुनः स्वयं गमनं तस्यैवोपदर्शनं ।

अथोपसंहारः

कृतार्थतोपसंहारः सर्वाभीष्टोपलक्सितः । । ११९ । ।

यथा तत्रैव दशमे

कृष्णः (सर्वं अभिनन्द्य जनान्तिकम्) प्राणेश्वरि राधे प्रार्थयस्व किं अतः

परं ते प्रियं करवाणि । (इत्यारभ्य)

राधिका (सानन्दं संस्कृतेन)

सख्यस्ता मिलिता निसर्गमधुरप्रेमाभिरामीकृता

यामी मे समगंस्तु संस्तववती श्वश्रूश्च गोष्ठेश्वरी ।

वृन्दारण्यनिकुञ्जधाम्नि भवता सङ्गोऽयं रङ्गवान्

संवृत्तः किं अतः परं प्रियतरं कर्तव्यं अत्रास्मि मे । । (१०.३६) । ।

अत्र प्रकटं एवोपसंहारः ।

अथ प्रशस्तिः

मङ्गलाशंसनं सम्यक्प्रशस्तिरभिधीयते । । १२० । ।

यथा तत्रैव

तथापीदं अस्तु

चिरादाशामात्रं त्वयि विरचयन्तु स्थिरधियो

विदध्युर्ये वासं मधुरिमगभीरे मधुपुरे ।

दधानः कैशोरे वयसि सखितां गोकुलपतेः

प्रपद्येथास्तेषां परिचयं अवश्यं नयनयोः । । १०.३७ । ।

अत्र माथुरमञ्जुलनिबद्धवासानां नेत्रपथे

कृष्णावाप्तिरूपमङ्गलाशंसनात्प्रशस्तिः ।

पञ्चानां एव सन्धीनां चतुषष्टिः क्रमादिह ।

कीर्तिरानि मयाङ्गानि सम्यग्ललितमाधवे । । १२१ । ।

रसभावानुबोधेन प्रयोजनं अवेक्ष च ।

साफल्यं कार्यं अङ्गानां इत्याचार्याः प्रचक्षते । । १२२ । ।

केषांचिदेषां अङ्गानां वैफल्यं केचिदूचिरे ।

दशरूपककाराद्यास्तत्सर्वेषां न सम्मतम् । । १२३ । ।

मुखादिसन्धिष्वङ्गानां क्रमोऽयं न विवक्षितः ।

क्रमस्यानादरादाद्यैः लक्ष्येषु व्युत्क्रमादपि । । १२४ । ।

अङ्गान्निष्पादयेदेतान्नायका प्रतिनायका ।

तदभावे पताकाद्यास्तदभावे तथेतरः । । १२५ । ।

अथ सन्ध्यन्तराणि

सुखादिसन्धिष्वङ्गानां अशैथिल्याय सर्वदा ।

सन्ध्यन्तराणि योज्यानि तच्च तत्रैकविंशतिः । । १२६ । ।

सामदाने भेददण्डौ प्रत्युत्पन्नमतिर्वधः ।

गोत्रस्खलितं ओजश्च धीः क्रोधः साहसं भयम् । । १२७ । ।

माया च संवृतिर्भ्रान्तिर्दूत्यं हेत्ववधारणं ।

स्वप्नलेखौ मदश्चित्रं एषां लक्षणं उच्यते । । १२८ । ।

तत्र साम

भवेत्साम प्रियं वाक्यं स्वानुवृत्तिप्रकाशनम् । । १२९ । ।

यथा ललितमाधवे दशमेऽङ्के

कृष्णः प्रिये मैवं ब्रवीः

सन्तु भ्राम्यदपाड्गभङ्गिखुरलीखेलाभुवः सुभ्रुवः

स्वस्ति स्यान्मदिरेक्षणे क्षणं अपि त्वां अन्तरा मे कुतः ।

ताराणां निकुरुम्बकेन वृतया श्लिष्टेऽपि सोमाभया

नाकाशे वृषभानुजां श्रियं ऋते निष्पद्यते स्वश्छटा । । (१०.१०)

अथ दानं

दानं तु कथितं धीरैः प्रिअयवस्तुसमर्पणम् । । १३० । ।

यथा तत्रैव अष्टमे

माधवी भट्टिदारिए सहत्थेण तुए गंठिदा एसा सूरसोअंधिअमाला ।

[भर्तृदारिके, स्वहस्तेन त्वया ग्रथितैषा सूरसौगन्धिकमाला ।] २१

चन्द्रावली (मालां आदाय) अज्जौत्त, एसा कौत्थुहस्स सहबासिणी होदु ।

[आर्यपुत्र, एषा कौस्तुभस्य सहवासिनी भवतु ।] (इति वक्षसि विन्यस्यति ।) २२

अथ भेदः

भेदस्तु कपटालापैः सुहृदां भेदकल्पना । । १३१ । ।

यथा चतुर्थे

जटिला (अपवार्य, सालीकस्नेहम्) अयि बच्छे, सदा मं पलोहिअ ललिदा अहिसारेदि त्ति

मह पुत्तस्स पुरदो बहूडिआ अलिअं जेब्ब तुमं सन्दूसेदि । ता कित्ति लाहवं सहेसि ।

[अयि वत्से, सदा मां प्रलोभ्य ललिता अभिसारयति इति मम पुत्रस्य पुरतो

वधूटिकालीकं एव त्वां दूषयति । तत्किं इति लाघवं सहसे? ।] १०५

अत्र जटिलया कपटेन ललिताया भेदः कृतः ।

अथ दण्डः

दण्डस्त्वविनयादीनां दृष्ट्या श्रुत्या च तर्जनम् । । १३२ । ।

यथा द्वितीये

कृष्णः (साटोपम्) रे रे दुष्ट!

राधापराधिनि मुहुस्त्वयि यन्न शस्तं

शक्ष्यामि कर्तुं अखिलां गुरुरेष खेदः ।

सर्वाङ्गिलेयं अभिधावति लुप्तधर्मा

त्वां मुक्तिकालरजनी बत किं करिष्ये । । २.२८ । ।

अत्र शङ्खचूडतर्जनं दण्डः ।

अथ प्रत्युत्पन्नमतिः

तात्कालिकी च प्रतिभा प्रत्युत्पन्नमतिर्मता । । १३३ । ।

यथा तत्रैव द्वितीये

ललिता कुन्दलदे, अस्सुदपुब्बा एसा कीरिसी रिचा बहुएण पडिज्जै । [कुन्दलते,

अश्रुतपूर्वैषा कीदृशी ऋग्बडुकेन पठ्यते ।]

मधुमङ्गलः (साट्टहासम्) बुट्टिए, आहीरीमुद्धिआ तुमं री री गीदं च्चेअ

जाणासि । अम्हा वेदस्स तुमं कासि । ता सुणाहि कोसुं एस्वईए साहाए तैअ वग्गस्स

ललणासुहारी रिचा एसा । [वृद्धे, आभीरीमुग्धिका त्वम्, री री गीतं एव जानासि ।

अस्मद्वेदस्य त्वं कासि । तत्शृणु कौसुमेषव्याः शाखायास्तृतीयवर्गस्य

ललनाशुभकरी ऋगेषा ।]

अत्र मधुमङ्गलस्य प्रतिभा ।

अथ वधः

वधस्तु जीवितद्रोहक्रिया स्यादाततायिनः । । १३४ । ।

यथा द्वितीये (नेपथ्ये)

मुष्टिना झटिति पुणजनोऽयं

हन्त पापविनिवेशितचेताः ।

पुण्डरीकनयनेन सखेलं

दण्डितः सकलजीवितवित्तं । । (२.३०)

अथ गोत्रस्खलितं

तद्गोत्रस्खलितं यत्तु नामव्यत्ययभाषणम् । । १३५ । ।

यथा सप्तमे

चन्द्रावली कण्ह (इत्यर्धोक्ते सलज्जम्) अज्जौत्त!

कृष्णः (सानन्दस्मितम्) प्रिये! दिष्ट्या सुधाधारां पायितोऽस्मि । तदलम्

आर्यपुत्रेति कूपाम्बुना ।

अत्र चन्द्रावल्याः समयोल्लङ्घनाद्गोत्रस्खलितं ।

अथौजः

ओजस्तु वागुपन्यासो निजशक्तिप्रकाशकः । । १३६ । ।

यथा पञ्चमे

सुपर्णः देव बाढं आतपत्रफणापटलीलधीयसः किङ्करस्यास्य

गरुत्मतः सकृत्पक्षविक्षेपकेलयेऽपि न पर्याप्तिं एष्यति, दूरे विश्राम्यतु

सखा मे सुदर्शनः कल्पान्तकुशलः ।

अत्र गरुडेन स्वशक्तिप्रकाशनादोजः ।

अथ धीः

इष्टार्थसिद्धिपर्यन्ता चिन्ता धीरिति कथ्यते । । १३७ । ।

यथा द्वितीये

राधिका कुन्दलदे! प्पसीद अनुकम्पेहि । अज्ज सा क्खु सामला कोमुदी जेण

पीदा । ता जेब्ब पुण्णवन्तं अप्पणो वामलोअणंचलं एत्थ खिण्णे मन्दभाइणि

जणे खणं अप्पेहि । [कुन्दलते! प्रसीद अनुकम्पय । अद्य सा खलु श्यामला

कौमुदी येन पीता । तं एव पुण्यवन्तं आत्मनो वामलोचनाञ्चलं एतस्मिन्

खिन्ने मन्दभागिनि जने क्षणं अर्पय ।] ३८

कुन्दलता (सासूयं इवालोक्य) अलं परपुरिसे गिञ्चन्तीहिं तुम्हेहिं

संभासणेण (इति धावन्ती जटिलां उपेत्य) अज्जे! कहं पढमं ब्रह्मणं ण

मग्गेसि, जो क्खु सुरं पुआबैस्सदि । [अलं परपुरुषे गृध्यन्तीभिर्युष्माभिः

सम्भाषणेन । आर्ये कथं प्रथमं ब्राह्मणं न मृगयसे, यः खलु सूर्यं

पूजापयिष्यति ।] ३९

जटिला बच्छे, सच्चं कहेसि । ता पसीद । आणेहि एक्कं बिअक्खणं बम्हणं ।

[वत्से, सत्यं कथयसि । तस्मात्प्रसीद । आनयैकं विचक्षणं ब्राह्मणं ।] ४०

अत्र राधिकोत्कण्ठातिशयदर्शनेन जटिलासमक्सं एव विप्रवेशेन

कृष्णप्रवेशचिन्तनं कुन्दलतायाः धीः ।

अथ क्रोधः

क्रोधस्तु मनसो दीप्तिरपराधादिदर्शनात् । । १३८ । ।

यथा द्वितीये (नेपथ्ये)

फुल्लत्यारान्नवविचकिले केलिकुञ्जेषु फुल्ला

शेफालीनां स्खलति कुसुमे हन्त चस्खाल बाला ।

मीलत्युच्चैः कुवलयवने मीलिताक्षी किलासीत्

वाच्यं किं वा परं उपहसीर्मा प्रणामच्छलेन । । (२.७)

अत्र पद्मासखीनां हरये रोषः ।

अथ साहसं

स्वजीवितनिराकाङ्क्षो व्यापारः साहसं भवेत् । । १३९ । ।

यथा दशमे

राधिका (सखेदं आत्मगतम्) साहु रे कीर साहु । बाट्ठं अणुग्गहिदम्हि, ता

दाणिं दुल्लहाहिट्ठदाणदच्छिणं तित्थवरं कालिअदेहं प्पविसिय अप्पाणं

सप्पाणं तुरिअं उबहिरस्सं । [साधु रे कीर साधु । बाढं अनुगृहीतास्मि, तद्

इदानीं दुर्लभाभीष्ठदानदक्षिणं तीर्थवरं कालियह्रदं प्रविश्य

आत्मानं सर्पेभ्यस्त्वरितं उपहरिष्यामि ।] ९८

अत्र राधायाः कालियह्रदप्रवेशः साहसं ।

अथ भयं

भयं त्वाकस्मिकत्रासः…

यथा नवमे चित्रदर्शने

मधुमङ्गलः एसो संखऊडो । [एष शङ्खचूडः ।]

राधा (सभयम्) परित्ताहि परित्ताहि (इति कृष्णं आलिङ्गति) ।

अत्र शङ्खचूडप्रसङ्गेन राधात्रासो भयं ।

अथ माया

… माया कैतवकल्पना । । १४० । ।

यथा चतुर्थे

वृन्दा (सानन्दम्) किं नाम राधासखीनां धियां अक्षुण्णं पश्य पश्य ।

मन्दा सान्ध्यपयोदसोदररुचिः सैवाभिमन्योस्तनुर्

वक्त्रं हन्त तदेव खर्वटघटीघोणं विगाढेक्षणं ।

व्यस्ता सैव गतिः करीरकुसुमच्छायं तदेवाम्बरं

मुद्रा कापि तथाप्यसौ पिशुनयत्यस्य स्वरूपच्छटां । । (४.३३)

अत्र संवृत्तिः

संवृत्तिः स्वयं उक्तस्य स्वयं आच्छादना भवेत् । । १४१ । ।

यथा नवमे

कृष्णः (वृन्दां अवलोक्य) सत्यभामा, मयि कथं (इत्यर्धोक्तेः । नववृन्दा

दृशं कूणयति ।)

चन्द्रावली (सखेदं नीचैः) विण्णादं पेम्मगोरवं । [विज्ञातं

प्रेमगौरवं ।]

कृष्णः (विभाव्य, स्वगतम्) हन्त, कथं असौ देवी । भवतु संवरीतुं

प्रयतिष्ये । (प्रकाशम्)

सती कथं असौ भामा देवी नाद्य प्रसीदति ।

निदानं अविदं सद्यः खिद्यते हृदयं मम । । (९.५९)

अत्र स्वयं उक्तस्य सत्यभामेत्यस्य शब्दस्य सती कथं अभामा इत्य्

अर्थान्तरेण संवरणात्संवृत्तिः ।

अथ भ्रान्तिः

भ्रान्तिर्विपर्ययज्ञानं प्रसङ्गस्यापि निश्चयात् । । १४२ । ।

यथा नवमे कृष्णः

अत्र भावि निरातङ्कमारो मे रमणं मम ।

दुरत्यन्ते कुशस्थल्या यदि दर्भाङ्गभूरियं । । (९.५८)

चन्द्रावली माहवि, णूणं दिट्ठह्मि जं विदब्भंगभुत्ति बाहरीअदि ।

[माधवि नूनं दृष्टास्मि, यद्विदर्भऽङ्गभूरिति व्याह्रियते ।]

अत्र विदर्भाङ्गभूरित्यस्य विगतदर्भभूमित्वाज्ञानं देव्याः भ्रान्तिः ।

भ्रान्तिस्तु केचिदिच्छन्ति भृङ्गबाधाविचेष्टितं ।

अथ दूत्यं

दूत्यं तु सहकारित्वं दुर्घटे कार्यवस्तुनि । । १४३ । ।

यथा प्रथमे, कुन्दलता

तिह्णाउला चऊरी पञ्जरिआसञ्जदा चिरं जलै ।

पाअं बंजुलकुञ्जे ताराही सप्पधारेहि । । (१.५८)

[तृष्णाकुला चकोरी पञ्जरिकासंयता चिरं ज्वलति ।

पादं बञ्जुलकुञ्जे ताराधीश प्रसारय । ।]

अत्र जटिलाप्रातिकूल्येन कुन्दलताया दुर्घटे राधासङ्गमकार्ये सहकारित्वं

दूत्यं ।

अथ हेत्ववधारणं

निश्चयो हेतुनार्थस्य मतं हेत्ववधारणम् । । १४४ । ।

यथा द्वितीये

वृन्दा स्थाने खल्वियं तव चिन्ता । तथ्यं एषा दुष्टेनाक्रान्ता त्रिलोकीं एव

सन्तापयेत् । यतः

विद्योतन्ते गुणपरिमलैर्याः समस्तोपरिष्टात्

ताः कस्यार्तं दधति न खल्स्पर्शदग्धास्तरुण्यः ।

भूयो भूयः स्वयं अनुपमां क्लान्तिं आसादयन्ती

मन्दाक्रान्ता भवति जगतः क्लेशदात्री हि चिन्ता । । (२.९)

अत्र चित्रनिदर्शनोपबृंहितेन सर्वगुणोत्तमस्त्रीदुःखरूपेण हेतुना

सर्वजनदुःखस्य निश्चयाद्धेत्ववधारणं ।

अथ स्वप्नः

स्वप्नो निद्रान्तरे किञ्चिज्जल्पितं परिचक्षते । । १४५ । ।

यथा सप्तमे

नववृन्दा

श्वाफल्केः सफलीबभूव ललिते हृल्लालसावल्लरी

हा धिक्पश्य मुरान्तकोऽयं उररीचक्रे रथारोहणं ।

इत्थं ते करुणस्वरस्तवकितं स्वप्नायितं शृण्वती

मन्ये तन्वि पतत्तुषारकपटाच्चक्रन्द यामिन्यपि । । (७.१०)

अत्र राधायाः स्वप्नायितं ।

अथ लेखः

विवक्षितार्थकलिता पत्रिका लेख ईरितः । । १४६ । ।

यथा पञ्चमे

पौर्णमासी

अचिरं निरस्य रसितैः प्रतिपक्षं राजहंसनिकुरम्बं ।

कृष्णघनस्त्वां अमृतैस्तृषितां चन्द्रकवतीं सिञ्च । । (५.७)

इत्यसौ चन्द्रावलीपत्रिकालेखः ।

अथ मदः

मदस्तु मद्यजः…

यथा पञ्चमे

भीष्मः (पुनरवधाय, सस्मितम्)

बिले क्व नु विलिल्यिरे नृपपिपीलिकाः पीडिताः

पिनस्मि जगदण्डकं ननु हरिः क्रुधं धास्यति ।

शचीगृहकुरङ्ग रे हससि किं त्वं इत्युन्नदन्न्

उदेति मदडम्बरस्खलितचूडं अग्रे हली । ।(५.४१) । ।

अत्र बलदेवस्य मदः ।

अथ चित्रं

चित्रं त्वाकाराणां विलोकनम् । । १४७ । ।

यथा नवमे

नववृन्दा (प्रविश्य) समीक्ष्यतां विचित्रं इदं चित्रं ।

अत्र माथुरचरित्रं चित्रलिखितं ।

सन्ध्यन्तराणां विज्ञेयः प्रयोगस्त्वविभागतः ।

तथैव दर्शनादेषां अनैयत्येन सन्धिषु । । १४८ । ।

अथ विभूषणानि

एवं अङ्गैरुपाङ्गैश्च सुश्लिष्टं रूपकश्रियः ।

शरीरं वस्त्वलङ्कुर्यात्षड्त्रिंशद्भूषणैः स्फुटम् । । १४९ । ।

भूषणाक्षरसङ्घातौ हेतुः प्राप्तिरुदाहृतिः ।

शोभासंशयदृष्टान्तावभिप्रायो निदर्शनम् । । १५० । ।

सिद्धिप्रसिद्धिर्दाक्षिण्यं अर्थापत्तिर्विभूषणं ।

पदोच्चयस्तुल्यतर्को विचारस्तद्विपर्ययः । । १५१ । ।

गुणातिपातोऽतिशयो निरुक्तं गुणकीर्तनं ।

गर्हणानुनयौ भ्रंशो लेशः क्षोभो मनोरथः । । १५२ । ।

अनुक्तिसिद्धिः सारूप्यं माला मधुरभाषणं ।

पृच्छोपदिष्टदृष्टानि षड्त्रिंशद्भूषणानि हि । । १५३ । ।

तत्र भूषणं

गुणालङ्कारबहुलं भाषणं भूषणं स्मृतम् । । १५४ । ।

यथा नवमे

कृष्णः (समन्तादवलोक्य)

लक्ष्मीः कैरवकाननेषु परितः शुद्धेषु विद्योतते

सन्मार्गद्रुहि सर्वशार्वरकुले प्रोन्मीलति क्षीणता ।

नक्षत्रेषु किलोद्भवत्यपचितिः क्षुद्रात्मसु प्रायिकी

शङ्के शङ्करमौलिरभ्युदयते राजा पुरस्ताद्दिशि । ।९.१० । ।

अत्र प्रसादमाधुर्यादिगुणानां अनुप्रासश्लेषानुमानाद्यलङ्काराणां च

सत्तया भूषणं ।

अथाक्षरसङ्घातः

वाक्यं अक्षरसङ्घातो भिन्नार्थं श्लिष्टशब्दकम् । । १५५ । ।

यथा पञ्चमे

सुपर्णः देव! पश्य पश्य

वक्त्राणि भान्ति परितो हरिणेक्षणानाम्

आरुढहर्म्यशिरसां भवदीक्षणाय ।

यैर्निर्मितानि तरसा सरसीरुहाक्ष

चन्द्रावलीपरिचितानि नभस्तलानि । । (५.३२)

अत्र चन्द्राणां आवल्या परिचितानीत्यत्र चन्द्रावली नाम प्रतिभानाद्

अक्षरसङ्घातः ।

अथ हेतुः

स हेतुरिति निर्दिष्टो यत्साध्यार्थप्रसाधकम् । । १५६ । ।

यथा सप्तमे

मधुमङ्गलः (निरीक्ष्य) पिअबास्स! पेक्ख काए बि अणुराइणीए सेवा किदत्थि ।

[प्रियवयस्य, पश्य कयाप्यनुरागिण्या सेवा कृतास्ति ।]

कृष्णः सखे! साधु लक्षितं ।

असौ व्यस्तन्यासा विशदयति माला विवशतां

विभक्तेयं चर्चा नयनजलवृष्टिं कथयति ।

करोत्कम्पं तस्या वदति तिलकं कुञ्चितं इदं

कृशाङ्ग्याः प्रेमाणं वरिवसितं एव प्रथयति । । (७.३२)

अत्रानुरागसाधनाय विवशत्वादिहेथेतूनां कथनादयं हेतुः ।

अथ प्राप्तिः

एकदेशविलोकेन प्राप्तिः शेषाभियोजनम् । । १५७ । ।

यथा नवमे

कृष्णः (परिक्रम्य)

लब्धा कुरङ्गि नवजङ्गमहेमवल्ली

रम्या स्फुटं विपिनसीमनि राधिकात्र ।

अस्यास्त्वया सखि गुरोर्यदियं गृहीता

माधुर्यवल्लितविलोचनकेलिदीक्षा । । ९.१७ । ।

अत्र लोचनसौन्दर्यदीक्षालालसस्य एकदेशस्य त्वयि विलोकनेन सालं त्वया

लब्धेति विशेषार्थस्य योजनात्प्राप्तिः ।

अथोदाहरणं

वाक्यं यद्गूढतुल्यार्थं तदुदाहरणं मतम् । । १५८ । ।

यथा द्वितीये

कुन्दलता (सस्मितम्) राहि, देहि मे पारितोसिअं, यं सुट्ठु दुल्लहं दे

अब्भत्थिदं मए णिब्बाहिदं । [राधे, देहि मे पारितोषिकं । यत्सुष्ठु दुर्लभं

तेऽभ्यर्थितं मया निर्वाहितं ।] ८०

राधिका (वक्रं अवेक्ष्य) कुन्दलदिए, किं मे अब्भत्थिदं? [कुन्दलते, किं

मेऽभ्यर्थितम्?] ८१

कुन्दलता अई, कीस भुअं भंगुरेसि, जा सूराराहणं भणामि । [अयि, कस्माद्

भ्रुवं भङ्गुरयसि, यत्सूर्याराधनं भणामि ।] ८२

अत्र कुन्दलता भणितस्य साभिप्रायगूढार्थतया उदाहरणं ।

यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।

साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतं । । इति (Sआह्ढ् ६.११७)

तद्यथा, षष्ठे

नारदः ततस्तेनोक्तं

ज्वलितो जनः कृशानौ शाम्यति तप्तः कृशानुनैवायं ।

भगवति कृतागसो मे भगवानेवाधुना शरणं । । (६.१७)

अथ शोभा

शोभा स्वभावप्राकट्यं यूनोरन्योन्यं उच्यते ।

यथा चतुर्थे

राधिका (माधवं अवलोक्य, सानन्दं आत्मगतम्) भो भावं,

आणन्दपज्जण्ण, ण क्खु रुन्धीऐ जलासारेण उक्कंठिदा तवस्सिणीहि मे

दिट्ठीचौरी । क्खणं पिबेदु एसा दुल्लहं इमस्स मुहचन्दस्स जोण्हं । [भो

भगवन्, आनन्दपर्जन्य, न खलु रुन्ध्यतां जलासारेणोत्कण्ठिता तपस्विनी मे

दृष्ट्चकोरी । क्षणं पिबत्वेषा दुर्लभां अस्य मुखचन्द्रस्य ज्योत्स्नं ।] ९९

कृष्णः (राधां अवेक्ष्य, सहर्षम्)

धावत्याक्रमितुं मुहुः श्रवणयोः सीमानं अक्ष्णोर्द्वयी

पौष्कल्यं हरतः कुचौ बलिगुणैरारब्धमानं ततः ।

मुष्णीतश्चलतां भ्रुवौ चरणयोरुद्यद्धनुर्बिभ्रमे

राधायाः तनुपत्तने नरपतौ बाल्याभिधे शीर्यति । । (४.२७) १०१

अत्र परस्परभावप्राकट्याच्छोभा । कैश्चित्तु

सिद्धैरर्थैः समं यत्राप्रसिद्धोऽर्थः प्रकाशते ।

श्लिष्टलक्षणचित्रार्था सा शोभेत्यभिधीयते । । इत्याह । (Sआह्ढ् ६.१७६)

यथा नवमे

नववृन्दा (पुरोऽवलोक्य, सहर्षम्)

निर्मितभुवनविशुद्धिर्विधुर्मधुरालोकसाधने निपुणा ।

उल्लसितपरमहंसा भक्तिरिवेयं शरन्मिलिअति । । ९.१ । ।

अथ संशयः

अनिश्चयात्तु यद्वाक्यं सन्देहस्य निगद्यते । । १५९ । ।

यथा द्वितीये (नेपथ्ये)

स्थूलस्तालभुजोन्नतिर्गिरितटीवक्षाः क्व यक्षाधमः

क्वायं बालतमालकन्दलमृदुः कन्दर्पकान्तः शिशुः ।

नास्त्यन्यः सहकारितापटुरिह प्राणी न जानीमहे

हा गोष्ठेश्वरि कीदृगद्य तपसां पाकस्तवोन्मीलति । । (२.२९)

अत्र संशयेनैव वाक्यसमाप्तेरयं संशयः ।

अथ दृष्टान्तः

स्वपक्षे दर्शनं हेतोर्दृष्टान्तः साध्यसिद्धये । । १६० । ।

यथा नवमे

कृष्णः (विमृश्य) अथवा

धीरः प्रकृत्यापि जनः कदाचिद्

धत्ते विकारं समयानुरोधात् ।

क्षान्तिं हि मुक्त्वा बलवच्चलन्ती

सर्वंसहा भूरपि भूरि दृष्टा । । (९.२०)

अत्र धीरेऽपि जने विकारसद्भावे साध्ये तत्साधकस्य चलनरूपविकारस्य

हेतोः सर्वंसहायां भुवि दर्शितत्वाद्दृष्टान्तः ।

अथाभिप्रायः

अभिप्रायस्त्वभूतार्थो हृद्यः साम्येन कल्पितः ।

अभिप्रायं परे प्राहुर्ममतां हृद्यवस्तुनि । । १६१ । ।

यथा चतुर्थे

कृष्णः (सोत्सुकं रोमाञ्चं उन्मील्य)

उद्गीर्णाद्भुतमाधुरीपरिमलस्याभीरलीलस्य मे

द्वैतं हन्त समक्षयन्मुहुरसौ चित्रीयते चारणः ।

चेतः केलिकुतूहलोत्तरलितां सद्यः सखे मामकं

यस्य प्रेक्ष्य सुरूपतां व्रजवधूसारूप्यं अन्विष्यति । । (४.१९)

अत्राभूतार्थरूपस्य भगवद्द्वितीयत्वस्य नटे कल्पनं अभिप्रायः । हृद्य्

अवस्तुनि स्वसौन्दर्ये भोगेच्छया ममता वा ।

अथ निदर्शनं

यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनं ।

परोपेक्षाव्युदासार्थं तन्निदर्शनं उच्यते । । १६२ । ।

यथा चतुर्थे

गार्गी (संस्कृतेन)

कामं सर्वाभीष्टकन्दं मुकुन्दं

या निर्बन्धात्प्राहिणोदिन्धनाय ।

आचार्यानी सा करोति स्म पण्यं

पिण्याकार्थं हन्त चिन्तामणीन्द्रं । । (४.६)

अत्र बिम्बानुबिम्बवस्तुबोधनात्निदर्शनं ।

अथ सिद्धिः

अतर्कितोपपन्नः स्यात्सिद्धिरिष्टार्थसङ्गमः ।

यथा षष्ठे

कृष्णः (यथा कृत्वा सगद्गदम्)

उपतरु ललितां तां प्रत्यभिक्षाय सद्यः

प्रकृतिमधुररूपां वीक्ष्य राधाकृतिं च ।

मणिं अपि परिचिन्वन्शङ्खचूडावतंसं

मुहुरहं उद्घूर्णं भूरिणा सम्भ्रमेण । । (६.४०)

अत्र इष्टस्य ललितादर्शनस्यातर्कितोपपन्नत्वात्सिद्धिः । कश्चित्तु बहूनां

कीर्तनं सिद्धिरभिप्रेतार्थसिद्धये इत्य्(Sआह्ढ् ६.१८६) आह । तद्यथा दशमे

कृष्णः प्रिये त्वदास्यं पश्यतो मे नोपमानवस्तूनि हृदयं आरोहन्ति नः ।

यतः

धत्ते न स्थितियोग्यतां चरणयोरङ्केऽपि पङ्केरुहं

नाप्यङ्गुष्ठनखस्य रत्नमुकुरः कक्षासु दक्षायते ।

चण्डि त्वन्मुखमण्डलस्य परितो निर्मञ्छनेऽप्यञ्जसा

नौचित्यं भजने समुज्ज्वलकला सान्द्रापि चन्द्रावली । । (१०.११)

अत्र स्पष्टं गुणकीर्तनं ।

अथ प्रसिद्धिः

प्रसिद्धिर्लोकविख्यातैरर्थैः स्वार्थप्रसाधनम् । । १६३ । ।

यथा षष्ठे

नववृन्दा (स्वगतम्)

वसन्ती शुद्धान्ते मधुरिमपरीता मधुरिपोर्

इयं तन्वी सद्यः स्वयं इह भवित्री करगता ।

वृताङ्गीं उत्तुङ्गैरविकलमधूलीपरिमलैः

प्रफुल्लां रोलम्बे नवकमलिनीं कः कथयति । । (६.२८)

अत्र लोकविख्यातस्य प्रफुल्लकमलिनीरोलम्बसङ्गमस्य कथनेन स्वार्थस्य

राधामाधवयोः सङ्गमस्य साधनं प्रसिद्धिः ।

अथ दाक्सिण्यं

दाक्षिण्यं तु भवेद्वाचा परचित्तानुवर्तनम् । । १६४ । ।

यथा द्वितीये

ललिता (सालीकम्) अज्जे, पेक्ख । एसो कण्हो मोट्टिमं अह्म विडम्बणं करेदि ।

[आर्ये, पश्य । एष कृष्णः बलादस्मद्विडम्बनं करोति ।] ११७

अत्र ललितया मुखरायाः चित्तानुवृत्तिर्दाक्षिण्यं ।

अथार्थापत्तिः

उक्तार्थानुपपत्त्याऽन्यो यस्मिन्नर्थः प्रकल्पते ।

वाक्यान्माधुर्यसंयुक्तात्सार्थापत्तिरुदाहृता । । १६५ । ।

यथा नवमे

नववृन्दा

कुन्ददन्ति दृशोर्द्वन्द्वं चन्द्रकान्तमयं तव ।

उदेति हरिवक्त्रेन्दौ स्यन्दते कथं अन्यथा । । ९.१३

अत्र स्यन्दनान्यथानुपपत्त्या नेत्रस्य चन्द्रकान्तमयत्वाकल्पनादियम्

अर्थापत्तिः । यथा वा दशमे

चन्द्रावली देअ! तुह्म विलास सोक्खाणं बाहादेण किद महापराहम्हि । ता

कारुण्णेण आणबेहि जधा गोठ्ठबैणो गोट्ठं गदुअ बसंती तुमं सुहिणं

करेमि । [देव! तव विलाससौख्यानां व्याघातेन कृतमहापराधास्मि । तत्

कारुण्येन आज्ञापय यथा गोष्ठपतेर्गोष्ठं गत्वा वसन्ती त्वां सुखिनं

करोमि । १०२

अत्र गोष्ठगमनार्थस्यानुपपत्त्या सत्यासङ्गमनिषेधः प्रकल्प्यते ।

अथ विशेषणं

सिद्धान्बहून्प्रधानार्थानुक्त्वा यत्र प्रयुञ्जते ।

विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् । । १६६ । ।

यथा चतुर्थे, कृष्णः

लक्ष्मीवानिह दक्षिणानिलसखः साक्षान्मधुर्मोदते

माद्यद्भृङ्गविहङ्गहारिविहसत्यत्रापि वृन्दावनं ।

राधा यद्यभिसारं अत्र कुरुते सोऽयं महानेव मे

सान्द्रानन्दविलाससिन्धुलहरीहिन्दोलकोलाहलः । । (४.१७)

अत्र प्रसिद्धार्थान्मधुवृन्दावनादीनुक्त्वा राधाभिसारस्य

वैशिष्यकथनाद्विशेषणं । कश्चित्तु लेखिष्यमाणं

नवनवसुधासम्बन्धोऽपि (१.३३)

इत्यादिपद्यं अत्रोदाहरति ।

[*ण्Oठ्Eः Fउल्ल्वेर्से गिवेन्बेलोw, अत्१७१ (अतिशयः).]

अथ पदोच्चयः

बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः ।

उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः । । १६७ । ।

यथा चतुर्थे, कृष्णः

मतिरघूर्णत सार्धं अलिव्रजैः

धृतिरभून्मधुभिः सह विच्युता ।

व्यकसदुत्कलिका कलिकालिभिः

समं इह प्रियया वियुतस्य मे । । (४.२१)

अत्र मत्यादीनां घूर्णादिक्रियासु अलिव्रजादिभिः समावेशादयं पदोच्चयः ।

कश्चित्तु उच्चयोऽर्थानुरूपो यः पदानां स पदोच्चयः इत्य्(Sआह्ढ् ६.१८०) आह ।

यथा दशमे

[*ण्Oठ्Eः संचयो]

सुतनु किञ्चिदुदञ्चय लोचने

चलचकोरचमत्कृतिचुम्बिनी ।

स्मितसुधां च सुधाकरमाधवी

विधुरतो विधयेऽत्र धुरन्धरां । ।१०.८ । ।

अथ तुल्यार्थकः

रूपकैरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितः ।

अप्रत्यक्षार्थसंस्पर्शः तुल्यतर्क इतीरितः । । १६८ । ।

यथा तत्रैव नवमे, कृष्णः

कदर्थनादप्युरुबाल्यचापलैर्

उत्सर्पतो स्नेहभरेण विक्लवां ।

विलोकमानस्य ममाद्य मातरं

हविर्विलायं हृदयं विलीयते । । (९.२६)

अत्र हविर्विलायं इति लुप्तोपमयाऽप्रत्यक्षस्य चित्तद्रवस्य कथनं

तुल्यतर्कः । कश्चित्तु तुल्यतर्को यदर्थेन तर्कः प्रकृतगामिना इत्य्(Sआह्ढ्

६.१८०) आह । यथा चतुर्थे

जटिला णूणं नूउरसहेन आहडिट्टा एदे हंसा हंसणंदिणीजलादो वणे

धाअन्ति । ता बहूडिआ णादिदूरे हबिस्सदि । [नूनं नूपुरशब्देन आकर्षिता एते

हंसा हंसनन्दिनीजलात्वने धावन्ति । तद्वधूटिका नातिदूरे भविष्यति ।]

अथ विचारः

विचारस्त्वेकसाध्यस्य बहुसाधनवर्णनं ।

यथा प्रथमे, कृष्णः

सखे, मधुमङ्गल, पश्य

अतनुतृणकदम्बास्व्>अदशैथिल्यभाजाम्

अविरलतरहंभारम्भताम्यन्मुखीयं ।

चटुलितनयनश्रीरवली नैचिकीनां

पथि सुवलितकण्ठी गोकुलोत्कण्ठिताभूत् । । (१.२८)

अत्रोत्कण्ठितस्या साध्यस्य साधनानि तृणास्वादशैथिल्यादीनि । यद्वा अग्रे

लेख्यं शरणं इह यो भ्रातुः (५.२५) इत्यादि पद्यं अत्रोदाहरणं ज्ञेयं ।

कश्चित्तु विचारो युक्तिवाक्यैर्यदप्रत्यक्षार्थदर्शनं इत्य्(Sआह्ढ् ६.१८२) आह ।

अत्रोक्तं उदाहरणं अपि सङ्गच्छते ।

अथ तद्विपर्ययः

विचारस्यान्यथाभावो विज्ञेयस्तद्विपर्ययः । । १६९ । ।

यथा षष्ठे

राधा (सव्यथं आकाशे संस्कृतं आश्रित्य)

विचित्रायां क्षौण्यां अजनिषत कन्याः कति न वा

कठोराङ्गी नान्या निवसति मया कापि सदृशी ।

मुकुन्दं यन्मुक्त्वा समयं अहं अद्यापि गमये

धिगस्तु प्रत्याशां अहह धिगसून्धिङ्मम धियं । । (६.२१)

अत्रोद्वेगातिशयेन प्रत्याशाधिकरणाद्विपर्ययः ।

अथ गुणातिपातः

गुणातिपातो व्यत्यस्तगुणाख्यानं उदाहृतः । । १७० । ।

यथा चतुर्थे

जटिला (सोल्लुण्ठं विहस्य, संस्कृतेन)

व्रजेश्वरसुतस्य कः परवधूविनोदक्रिया

प्रशस्तिभरभूषितं गुणं अवैति नास्य क्षितौ ।

यदेष रतितस्करः पथि निरुध्य साध्वीर्बलात्

तदीयकुचकुट्मले करजं ओं नमो विष्णवे । । (४.३१)

अत्र प्रकटश्च गुणातिपातः । कश्चित्तु गुणातिपातः कार्ये यद्विपरीतं गुणान्

प्रति इत्याह (Sआह्ढ् ६.१८४), यथा पञ्चमे चन्द्रावली (संस्कृतेन)

शरणं इह यो भ्रातुस्तस्य प्रतीपविधायिना

हितकृदपि ता देव्यास्तस्याः समग्रं उपेक्षणं ।

गतिरविकलो यो मे तस्य प्रियस्य च विस्मृतिर्

बत हतविधो वामे सर्वं प्रयाति विपर्ययं । । (५.२५)

अथ अतिशयः

बहून्गुणान्कीर्तयित्वा सामान्येन च संश्रितान् ।

विशेषः कीर्त्यते यत्र ज्ञेयः सोऽतिशयो बुधैः । । १७१ । ।

यथा प्रथमे कृष्णः

नवनवसुधासम्बन्धोऽपि प्रियोऽपि दृशां सदा

सरसिजवनीं म्लानां कुर्वन्नपि प्रभया स्वया ।

विधुरपि कलापूर्णोऽप्युच्चैः कुरङ्गधरः शशी

व्रजमृगदृशां वक्त्रैरेभिः सुरङ्गधरैर्जितः । । १.३३

अत्र चन्द्रमुखयोः सुधासम्बन्धत्वादिसामान्यगुणकीर्तनानन्तरं

मुखेषु सुरङ्गत्वकीर्तनं विशेषः ।

अथ निरुक्तं

निरुक्तं निरवद्योक्तिर्नामान्यर्थप्रसिद्धये । । १७२ । ।

यथा प्रथमे कृष्णः (चन्द्रावलीं आसाद्य सानन्दम्)

नीतस्तन्वि मुखेन ते परिभवं भ्रूक्षेपैविक्रीडया

बिभ्यद्विष्णुपदं जगाम शरणं तत्राप्यधैर्यं गतः ।

आसाद्य द्विजराजितां विजयिनः सेवार्थं अस्योज्ज्वलच्

चन्द्रोऽयं द्विजराजतापदं अगात्तेनासि चन्द्रावली । । (१.४०)

अत्र चन्द्रावली नाम निरुक्तं ।

अथ गुणकीर्तनं

लोके गुणातिरिकानां बहूनां यत्र नामभिः ।

एकः संशब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् । । १७३ । ।

यथा द्वितीये, कृष्णः (पुरो राधां पश्यन्नपवार्य)

विहार सुरदीर्घिका मम मनःकरीन्द्रस्य या

विलोचनचकोरयोः शरदमन्दचन्द्रप्रभा ।

उरोम्बरतटस्य चाभरणचारुतारावली

मयोन्नतमनोरथैरियं अलम्बि सा राधिका । । २.१० । ।

अत्र सुरदीर्घिकाशब्दैः राधासंशब्दनं गुणकीर्तनं ।

अथ गर्हणं

यत्र सङ्कीर्तयन्दोषान्गुणं अर्थेन दर्शयेत् ।

गुणान्वा कीर्तयन्दोषं दर्शयेद्गर्हणं हि तत् । । १७४ । ।

त्र्त्राद्यं यथा सप्तमे,

माधवी देअ, कटोरप्पा एसा भट्टिदारिआ सुट्ठु ताबं सोढुं पारेदि जं

तुम्ह पच्चक्खं च्चेअ चंदभाआमंदिरे जलंतं जलनकुंडं जलकेलिकुण्डं

बिण्णादबदी । [देव, कठोरात्मैषा भर्तृदारिका सुष्ठु तापं सोढुं पारयति

तत्तव प्रत्यक्षं एव चन्द्रभागामन्दिरे ज्वलन्तं ज्वलन्तकुण्डं

जलकेलिकुण्डं विज्ञातवती ।] १४९

कृष्णः (स्वगतम्) माधवि, साधु साधु यदत्र स्नेहातिरेकं सूचयन्ती समये

सख्यसेवां वितनोषि । १५०

अत्र कठोरादिरूपस्य दोषस्य कथनं अपि

कृष्णविषयानुरागगुणकीर्तनतया पर्यवसितं । द्वितीयं यथा चतुर्थे

कुन्दलता बीराहिमण्णो, पुण्णबदी मे सही राहा । जाए दक्खिणा सच्चबादिणी

सिणिद्धा तुम्ह मादा सुस्सू लद्धा । [वीराभिमन्यो! पुण्यवती मे सखी राधा,

यया दक्षिणा सत्यवादिनी स्निग्धा तव माता श्वश्रूर्लब्धा ।] १३३

अत्र गुणकीर्तनं अप्यर्थतो दोष इति गर्हणं ।

अथानुनयः

अभ्यर्थनापरं वाक्यं विज्ञेयोऽनुनयो बुधैः ।

यथा पञ्चमे, कृष्णः सास्रं

अयं कण्ठे लग्नः शशिमुखि जनस्ते प्रणयवान्

यदप्राप्त्या धन्यां तनुं अतनुरूपां तृणयसि ।

प्रसीदाद्य प्राणेश्वरि विरम मास्मिन्ननुगते

कृथाः पत्यावत्याहितं इदं उरो मे विदलति । । ५.३५ । ।

अत्र कृष्णेन चन्द्रावलीप्रार्थनं अनुनयः ।

अथ भ्रंशः

पतनात्प्रकृतादर्थादन्यस्मिन्भ्रंश ईरितः । । १७५ । ।

यथा नवमे, माधवी

देअ, इमाणं पेम्मकोमलाणं अक्खराणं मा क्खु णं अहिरूबं जाणाहि । जं

एसा ण होदि । [देव, एषा प्रेमकोमलानां अक्षराणां मा खल्वेतां अभिरूपां

जानीहि । यदेषा सत्या न भवति ।] १९४

कृष्णः साधु माधविके! साधु । मदीयहृदयाशङ्का त्वया निरस्ता । तद्

इन्द्रजालाभिज्ञया नववृन्दयैव निर्मितेयं मायिकी देवी रसालमूलवर्तिनी

खलु सत्या ।

अत्र सत्याशब्दस्य प्रकृतार्थं सत्यभामारूपं परित्यज्य तथार्थलक्षणस्य

कथनाद्भ्रंशः । कश्चित्तु कथयन्ति बुधाः भ्रंशं वाच्यादन्यतरद्वचः

इत्याह । यथा प्रथमे, कृष्णः

[*ण्Oठ्Eः Sआह्ढ् ६.१८७ हस्दृप्तादीनां भवद्भ्रंशो वाच्यादन्यतरद्वचः ।]

सरोजाक्षि परोक्षं ते कदापि हृदयं मम ।

न स्प्रष्टुं अप्यलं बाधा राधा त्वाक्रम्य गाहते । । १.४२

अत्र वाच्याद्राधाया अस्पर्शादन्यद्बाधाक्रमणं भ्रंशः ।

अथ लेशः

लेशः स्यादिङ्गितज्ञानकृद्विशेषणवद्वचः । ।

यथा पञ्चमे, भीष्मकः

अयं इह किल कन्याबान्धवानां निबन्धः

समुचित इति लक्ष्मीकान्त विज्ञापयामि ।

मम दुहितुरनुज्ञोल्लङ्घनादङ्गनायाः

कथं अपि न परस्याः पाणिसङ्गो विधेयः । । ५.३८ । ।

(इत्याद्युक्तौ श्रीकृष्णः पौरमासीमुखं ईक्षते)

पौर्णमासी मुकुन्द! गोकुलकुमारीकुलानि चन्द्रावलीमात्रावशेषाणि

दुर्विदग्धेन विधिना कृतानि । तदत्र का क्षतिः?

अत्र चन्द्रावलीमात्रावशेषाणीति विशेषणवद्वचः कृष्णेङ्गितज्ञापकतया

संवृत्तं इति लेशः ।

अत्र क्षोभः

क्षोभस्त्वन्यगते हेतावन्यस्मिन्कार्यकल्पनम् । । १७६ । ।

यथा सप्तमे, कृष्णः

त्वदङ्गसङ्गतैरेभिस्तप्तोऽस्मि मिहिरातपैः ।

विन्दन्ती वन्दनच्छायां मां देवि शिशिरीकुरु । । ७.३७ । ।

अत्र सूर्यातपेषु चन्द्रावल्यङ्गसङ्गतेषु तत्कार्यभूतस्य तापस्य कृष्णेन

स्वस्मिन्कल्पनात्क्षोभः । कश्चित्तु क्षोभस्थाने सङ्क्षेपं पञ्हन्लक्षयन्ति

सङ्क्षेपो यत्तु सङ्क्षेपादात्मान्यर्थे प्रयुज्यते । (Sआह्ढ् ६.१९२) यथाष्टमे

कृष्णः देवि, त्रिलोककक्षासु किं तवाभीष्टं? तदभिव्यज्य

निजनिदेशभाजनं अन्यतयैव पर्याप्तसमस्तनिश्रेयसे प्रेयसि विधेहि

प्रसादमाधुरीं ।

अथ मनोरथः

मनोरथस्तु व्याजेन विवक्षितनिवेदनम् । । १७७ । ।

यथा चतुर्थे

राधिका (सौत्सुक्यं पुरो दृष्ट्वा) हला ललिदे, पेक्ख पेख धण्णा एसा

तरंगलेहा जा खु सेवालबल्ली णिबद्धपाअं णं हंसिअं मोआबेदि । ता फुडं

भिसिणीपत्तन्तरिदेण कलहंसेण संघडैस्सदि । [हला ललिते, पश्य पश्य धन्या

एषा तरङ्गलेखा या खलु शैवालवल्लीनिबद्धपादां एनां हंसिकां

मोचयति । तत्स्फुटं बिसिनीपत्रान्तरितेन कलहंसेन संघट्टिष्यति ।] ७१

अत्र हंसीव्याजेन राधायाः कृष्णसङ्गमाभिलाषकथनं मनोरथः ।

अथानुक्तसिद्धिः

प्रस्तावनैव शेषार्थो यत्रानुक्तोऽपि बुद्ध्यते ।

अनुक्तसिद्धिरेषा स्यादित्याह भरतो मुनिः । । १७८ । ।

[*ण्Oठ्Eः Fइर्स्त्रेफ़ेरेन्चे तो भरत, wहों हे हस्नोत्बीन्फ़ोल्लोwइन्ग्वेर्य्च्लोसेल्य्.

णाट्१६.१६९ = प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यन्न प्रतीयते । वचनेन

विनानुक्तसिद्धिः सा परिकीर्तिता । ।]

यथा चतुर्थे राधा

हला लबंगकुडुङ्गे आहरन्ती तुमं बुंदाअणबासिणा मत्तकलहिन्देण आअदुअ

हत्थेण गहीदहत्थासि संबुत्ता । तदो संभमेन घुस्मन्तीए तुह हढेण

ओट्ठपल्लां डंसन्तेण तिना बामे त्थबास्मि फुरन्ततिक्खकामङ्कुसं

करपुक्खरं । [हला लवङ्गकुञ्जे आहरन्ती त्वं वृन्दावनवासिना

मत्तकलभेन्द्रेण आगत्य हस्तेन गृहीतहस्तासि संवृत्ता । ततः सम्भ्रमेन

घूर्णन्त्यस्तव हठेण ओष्ठपल्लवं दंशता तेन वामे स्तवके

स्फुरत्तीक्ष्णकामाङ्कुशं करपुष्करम् ।] ९१

अत्रानुक्तस्यापि स्तने नखरार्पणस्य बोधादनुक्तसिद्धिः ।

अथ सारूप्यं

दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवं ।

सादृश्यं यत्र सङ्क्षोभात्तत्सारूप्यं निरूप्यते । । १७९ । ।

यथा चतुर्थे

जटिला अरे आहिण्डिआ कीस मुखं ढकेसि? जं दे बिज्जा न बिक्काइदा । [अरे आहिण्डिक"

कस्मान्मुखं आच्छादयसि? यत्ते विद्या न विक्रीता ।] (इति प्रसह्य

सम्मुखयति) १२६

अभिमन्युः (स्वगतम्) हद्धी हद्धी बाउलिऽए अम्माए लज्जापज्जाउलो किदम्हि ।

ता इदो अबक्कमिस्सं । [हा धिक्, हा धिक्! बातूलिकया अम्बया लज्जापर्याकुलः

कृतोऽस्मि । तदितोऽपक्रमिष्यामि ।] १२७

अत्र सारिकामुखश्रुतकृष्णप्रवेशसङ्क्षोभाज्जटिलायाः स्वपुत्रे

कृष्णबुद्धिकथनात्सारूप्यं ।

अथ माला

बहूनि कारणान्येव सा मालेत्यभिधीयते । । १८० । ।

यथा द्वितीये

राधा ललिदे प्पसीद प्पसीद सुठ्ठु संकौलम्हि । [ललिते प्रसीद प्रसीद

सुष्ठु शङ्काकुलास्मि ।] (पुनः संस्कृतेन)

गतप्रायं सायं चरितपरिशङ्की गुरुजनः

परीवादस्तुङ्गो जगति सरलाहं कुलवती ।

वयस्यस्ते लोलः सकलपशुपालीसुहृदसौ

तदा नम्रं याचे सखि रहसि सङ्चारय न मां । । २.१९

अत्र सायं गमनादिबहुकारणानां स्वेष्टसञ्चारणाभावाय कथितत्वात्माला ।

अथ मधुरभाषणं

यत्प्रसन्नेन मनसा पूज्यं पूजयितुर्वचः ।

स्तुतिप्रकाशनं तत्तु ज्ञेयं मधुरभाषणम् । । १८१ । ।

यथा पञ्चमे

नृपौ (सप्रश्रयम्)

एकस्मिन्निह रोमकूपकुहरे ब्रह्माण्डभाण्डावली

यस्य प्रेक्षयते गवाक्षपदवीघूर्णत्पराणूपमा ।

केयं तस्य समृद्धये तव विभो राजेन्द्रताग्रामटी

शौटीर्येण चमत्कृतिं तदपि नः कां अप्यसौ पुष्यति । ।(५.१७)

अत्र प्रकटं एव मधुभाषणं ।

अथ पृच्छा

प्रश्न एवोत्तरे यत्र सा पृच्छा परिकीर्तिता । ।

यथा नवमे

कृष्णः (पुरो दाडिमीं उपेत्य)

कान्तिं पीतांशुकस्फीतां बिभ्रती विक्षिता वने ।

मयाद्य मृग्यमाणा सा त्वया मृगविलोचना । । (९.१८)

अत्र हे शुक, पीतां कान्तिं बिभ्रती मया मृग्यमाणा सा दृष्टेति प्रश्च्ने, हे

पीतांशुक, त्वया मृग्यमाणा सा मया दृष्टेत्युत्तरेण पृच्छा ।

अथोपदिष्टं

शास्त्रानुसारि यद्वाक्यं उपदिष्टं तदुच्यते । । १८२ । ।

यथा षष्ठे नारदः

प्रेयस्यः पशुपालिका विहरतो यास्तत्र वृन्दावने

लक्ष्मीदुर्लभचित्रकेलिकलिका कान्तस्य कंसद्विषः ।

राधा तत्र वरीयसीति नगरीं तां आश्रितायां क्षितौ

सेवां देवि समस्तमङ्गलकरी यस्यास्त्वं अङ्गीकुरु । । (६.१९)

अत्र हरिप्रियजनसेवा समस्तमङ्गलकरीति शास्त्रानुसारित्वं ।

अथ दृष्टं

जात्यादिवर्णनं धीरैर्दृष्टं इत्यभिधीयते । । १८३ । ।

यथा द्वितीये

वृन्दा (पुरो दृष्टिं क्षिपन्ती)

करोति दधिमन्थनं स्फुटविसर्पिफेनच्छटा

विचित्रितगृहाङ्गणं गहनगर्गरीगर्जितं ।

मुहुर्गुणविकर्षणप्रवणताक्रमाकुञ्चित

प्रसारितकरद्वयीक्वणितकङ्कणं मालती । । (२.३)

अत्र दधिमथनक्रियास्वभाववर्णनं दृष्टं । ।

सन्ध्यन्तराण्यनुक्त्वैव भूषणं लक्षणाख्यया ।

प्रोच्यतेऽन्यत्त्रय्स्त्रिंशत्सङ्ख्या कश्चिद्विभूषणम् । । १८४ । ।

मुनेरसम्मत्तत्वेन तत्तु सर्वं उपेक्षितं ।

केषाञ्चिदत्र सन्ध्यङ्गगुणालङ्कारलक्ष्मणाम् । । १८५ । ।

अन्तर्भावेऽपि यत्नेन कर्तव्यत्वाय कीर्तितं ।

अथ पताकास्थानानि

अर्थस्य तु प्रधानस्य भाव्यवस्थस्य सूचकम् । । १८६ । ।

यदागन्तुकभावेन पताकास्थानकं हि तत् ।

एतद्द्विधा तुल्यसंविधानं तुल्यविशेषणम् । । १८७ । ।

तत्राद्यं त्रिप्रकारं स्याद्द्वितीयं त्वेकं एव हि ।

एवं चतुर्विधं ज्ञेयं पताकास्थानकं बुधैः । । १८८ । ।

तत्राद्यं

सहसिअवार्थसम्पत्तिर्गुणवत्युपचारतः ।

पताकास्थानकं इदं प्रथमं परिकीर्तितम् । । १८९ । ।

यथा ललितमाधवे सप्तमे

राधिका (परिक्रम्य पीतोत्तरीयाञ्चलं गृह्णन्ती सकम्पम्)

दग्धं हन्त दधानया वपुरिदं यस्यावलोकाशया

सोढा मर्मविपाटने पटुरियं पीडातिवृष्टिर्मया ।

कालिन्दीयतटीकुटीरकुहरक्रीडाभिसारव्रती

सोऽयं जीवितबन्धुरिन्दुवदने भूयः समालिङ्गितः । । ७.१८ । ।

अत्र प्रतिबिम्बे सोऽयं जीवितबन्धुरित्युपचारप्रयोगेण भाविनः कृष्णस्य

सूचनात्सहसार्थसम्पत्तिरूपं इदं पताकास्थानकं ।

अथ द्वितीयं

वचःसातिशयश्लिष्टं काव्यवस्तुसाश्रयं ।

पताकास्थानकं इदं द्वितीयं परिकीर्तितम् । । १९० । ।

यथा द्वितीयेऽङ्के कृष्णः

स्मररोधनानुबन्धी क्रमविस्तारितकलाविलासभवः ।

क्षणदापतिरिव दृष्टः क्षणदायी राधिकासङ्गः । । (२.१७)

(नेपथ्ये) दुर्लभः पुण्डरीकाक्ष वृत्तस्ते विप्रकर्षतः । ९०

कृष्णः (सव्यथं उच्चैः) भोः कोऽयं दुर्लभः? ९१

(पुनर्नेपथ्ये)

यत्नादन्विष्यमाणोऽपि वल्लवैः पशुमण्डलः । । (२.१८) ९२

अत्र भविष्यतो राधासङ्गमदुर्लभत्वस्य सूचनादिदं श्लिष्टं नाम

द्वितीयं पताकास्थानकं ।

अथ तृतीयं

अर्थोपक्षेपणं यत्तु लीनं सविनयं भवेत् ।

श्लिष्टोत्तरयुतं नाम तृतीयं परिकल्पितम् । । १९१ । ।

यथा सप्तमे, कृष्णः

(सर्वतः प्रेक्ष्य) प्रियवयस्य! कियद्दूरे सा वृन्दाटवी ?

मधुमङ्गलः (संस्कृतेन)

स्फुटच्चटुलचम्पकप्रकररोचिरुल्लासिनी

मदोत्तरलकोकिलावलिकलस्वरालापिनी ।

मरालगतिशालिनी कलय कृष्णसाराधिका

(इत्यर्धोक्ते)

कृष्णः (ससम्भ्रमौत्सुक्यम्) वत्स क्वासौ ?

मधुमङ्गलः (अङ्गुल्या दर्शयन्)

पुरः स्फुरति वल्लभा तव

कृष्णः (सव्यग्रम्) वयस्य! नाहं पश्यामि । तदाशु दर्शय । क्व सा मे

राधिका ?

मधुमङ्गलः … मुकुन्द वृन्दाटवी । । (७.१७)

अत्र सज्जल्पितेन मधुमङ्गलवाक्येन भाविनो राधादर्शनस्य

सूचनाच्छ्लिष्टोत्तरं नाम तृतीयं पताकास्थानं ।

अथ दर्शनं

द्व्यर्थो वचनविन्यासः सुश्लिष्टः काव्ययोजितः ।

उपन्यासेन युक्तस्तु चतुर्थं परिकीर्तितम् । । १९२ । ।

यथा पञ्चमे सुपर्णः

नभसि रभसवद्भिः श्लाघमाना मुनीन्द्रैर्

महितकुवलयाक्षी कीर्तिशुभ्रांशुवक्त्रा ।

नृपकुलं इह हित्वा चेदिराजप्रधानं

मुरदमन गमिष्यत्युत्सुकां त्वां जयश्रीः । । (५.२८)

अत्र सुपर्णस्य द्व्यर्थवचनेन चन्द्रावलीप्राप्तिसूचनात्तुल्यविशेषणं ।

अथार्थोपक्षेपकाः

वस्तु सर्वं द्विधा सूच्यं असूच्यं इति भेदतः ।

रसहीनं भवेदत्र वस्तु तत्सूच्यं उच्यते । । १९३ । ।

अदर्शनीयं अङ्के तदवश्यं वाच्यं एव चेत् ।

अर्थोपक्षेपकैरेतत्सूचयेत्सुष्ठु पण्डितः । । १९४ । ।

विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैः ।

अथ विष्कम्भः

भवेद्विष्कम्भको भूतभाविवस्त्वंशसूचकः । । १९५ । ।

अमुख्यपात्रैः सङ्क्षेपादादावङ्कस्य दर्शितः ।

स शुद्धो मिश्र इत्यु क्तो मिश्रः स्यान्नीचमध्यमैः । । १९६ । ।

विदग्धमाधवे यद्वद्द्वितीयाङ्कमुखे कृतः ।

मुखरायुक्तया नानीद्मुख्यासौ मिश्रसंज्ञकः । । १९७ । ।

शुद्धः केवलमध्येऽयं एकानेककृतो भवेत् ।

विनिर्मितो बहुत्रायं तस्मिन्ललितमाधवे । । १९८ । ।

अथ चूलिका

प्राज्ञैर्यवनिकान्तःस्थैरदृश्यैर्या तु निर्मिताः ।

आदावङ्कस्य मध्ये वा चूलिका नाम सा भवेत् । । १९९ । ।

स्पष्टं बहुत्रोदाहरणं ।

अथाङ्कास्यं

यत्र स्यादङ्क एकस्मिन्नङ्कानां सूचनाखिला ।

तदङ्कास्यं इति प्राहुर्बीजार्थख्यापकं च यत् । । २०० । ।

गार्गीसंयुक्तया पौर्णमास्या ललितमाधवे ।

प्रथमाङ्के यथा सुष्ठु सुहितं निखिलं स्फुटम् । । २०१ । ।

केचित्तु

पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर्भाव्यङ्कवस्तुनः ।

सूचनं तदविच्छेद्यैर्यत्तदङ्कास्यं ईरितम् । । २०२ । ।

इति लक्षयन्ति ।

एतदङ्कावतारेण गतार्थत्वात्तु केचन ।

प्रथमोक्तार्थं एवेदं वदन्त्यङ्कमुखं बुधाः । । २०३ । ।

अथाङ्कावतारः

अङ्कावतारः पात्राणां पूर्वाङ्कार्थानुवर्तिनां ।

अविभागेन सर्वेषां भाविन्यङ्के प्रवेशनम् । । २०४ । ।

स्पष्टं उदाहरणं ।

अथ प्रवेशकः

यन्नीचैः केवलं पात्रैर्भाविभूतार्थसूचनं ।

अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः । । २०५ । ।

यदा स्यान्नीरसं सूच्यं आमुखानन्तरं तदा ।

विष्कम्भोऽङ्कास्यकं वा स्यादामुखाक्षिप्तपात्रकम् । । २०६ । ।

यदा तु सरसं वस्तु मूलादेव प्रवर्तते ।

आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः । । २०७ । ।

असूच्यं तु शोभोदाररसभावनिरन्तरं ।

प्रारम्भे यद्यसूच्यं स्यादङ्कं एवात्र कल्पयेत् । । २०८ । ।

असूच्यं तु द्विधा दृश्यं श्रव्यं चाद्यं तु दर्शयेत् ।

द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः । । २०९ । ।

स्वगतं स्वैकविज्ञेयं प्रकाशं तद्द्विधा भवेत् ।

सर्वप्रकाशं नियतप्रकाशं चेति भेदतः । । २१० । ।

सर्वप्रकाशं सर्वेषां स्थितानां श्रवणोचितं ।

द्विधा विभज्यते तच्च जनान्तं अपवारितम् । । २११ । ।

त्रिपताककरेणान्यानपवार्यान्तरा कथां ।

या मिथः क्रियते द्वाभ्यां तज्जनान्तिकम् उच्यते । । २१२ । ।

रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितं ।

अथाङ्कस्वरूपं

प्रत्यक्षनेतृचरितः क्षुद्रचूर्णकसंयुतः । । २१३ । ।

नातीवगूढशब्दार्थो नातिप्रचुरपद्यवान् ।

अयुतो बहुभिः कार्यैर्बीजसंहरणेन च । । २१४ । ।

अनेकदिननिर्वर्त्यकथया च विवर्जितः ।

दिनार्धदिनयोर्योग्यवस्तुना परिकल्पितः । । २१५ । ।

वधेन दूराह्वानेन युद्धराज्यादिविप्लवैः ।

शापोत्सर्गविहाराभ्यां रतभोजनमृत्युभिः । । २१६ । ।

स्नानानुलेपनिद्राद्यैश्चुम्बनालिङ्गनादिभिः ।

व्रीडाहेतुर्भिरन्यैश्च बीभतैश्च विना कृतः । । २१७ । ।

अन्तनिष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्तितः ।

अथ गर्भाङ्कः

अङ्कप्रसङ्गाद्गर्भाङ्कलक्षणं वक्ष्यते मया । । २१८ । ।

अङ्कस्य मध्ये योऽङ्कः स्यादसौ गर्भाङ्क ईरितः ।

वस्तुसूचकनान्दीको दिङ्मात्रमुखसङ्गतः । । २१९ । ।

अर्थोपक्षेपकैर्हीनो युतः पात्रैस्तु पञ्चषैः ।

अन्वेष्यवस्तुविषयः स्वाधाराङ्कान्तशोभितः । । २२० । ।

नातिप्रपञ्चेतिवृत्तः प्रस्तुतार्थानुबन्धकः ।

प्रथमाङ्के न कर्तव्यः सोऽयं काव्यविशारदैः । । २२१ । ।

चतुर्थेऽङ्के तु गर्भाङ्को यथा ललितमाधवे ।

अथ सामान्यनिर्णयः

नाटकेऽङ्का न कर्तव्या पञ्चन्यूना दशाधिकाः । । २२२ । ।

विष्कम्भकाद्यैरपि नो वधो वाच्योऽधिकारिणः ।

अन्योन्येन तिरोधानं न कुर्याद्रसवस्तुनोः । । २२३ । ।

यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा ।

विरुद्धं तत्परित्याज्यं अन्यथा वा प्रकल्पयेत् । । २२४ । ।

अविरुद्धं च यद्वृत्तं रसाभिव्यक्तयेऽधिकं ।

तदप्यन्यथयेद्धीमान्न वदेद्वा कदाचन । । २२५ । ।

लास्याङ्गानि दश तथा वीथ्यङ्गानि त्रयोदश ।

अङ्केष्वपि निबध्यानि केचिदेवं प्रचक्सते । । २२६ । ।

प्रायस्तान्यपि सन्त्येव तस्मिन्ललितमाधवे ।

क्वचिदत्र विनिष्पाद्यं धीरैराकाशभाषितम् । । २२७ । ।

अन्येनानुक्तं अप्यन्यो वचः श्रुत्वैव यद्वदेत् ।

इति किं भणसीत्येतद्भवेदाकाशभाषितम् । । २२८ । ।

अथ भाषाविधानं

नाटके तत्र पात्राणां भाषारूपं निरूप्यते ।

तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः । । २२९ । ।

चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्यवृत्तिभिः ।

आसां संस्कारराहित्याद्विनियोगो न गद्यते । । २३० । ।

भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः ।

तत्र संस्कृता

संस्कृता देवतादीनां मुनीनां नायकस्य च । । २३१ । ।

लिङ्गिविप्रवणिक्क्षत्रमन्त्रिकञ्चुकिनां अपि ।

अरण्यदेवीगणिकामन्त्रिजाधीतियोषिताम् । । २३२ । ।

योगिन्यप्सरसोः शिल्पकारिण्या अपि कीर्तिता ।

तत्र प्राकृती

षोढान्तिमा प्राकृती स्याच्छौरसेनी च मागधी । । २३३ । ।

पैशाची चूलिकापैशाच्यपभ्रंश इति क्रमात् ।

अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत् । । २३४ । ।

ऐश्वर्येण प्रमत्तानां दारिद्र्योपहतात्मनां ।

ये नीचाः कर्मणा जात्या तेषां च प्राकृतं स्मृतम् । । २३५ । ।

तत्रापि नायिकादीनां शौरसेनी प्रकीर्तिता ।

आसां एव तु गाथासु महाराष्ट्री स्मृता बुधैः । । २३६ । ।

अत्रोक्ता मागधी भाषा राजान्तःपुरचारिणां ।

तथा विदूषकादीनां चेटानां अपि कीर्तिता । । २३७ । ।

रक्षःपिशाचनीचेषु पैशाचीद्वितयं भवेत् ।

अपभ्रंशस्तु चण्डालयवनादिषु युज्यते । । २३८ । ।

सर्वेषां कारणवशात्कार्यो भाषाव्यतिक्रमः ।

माहात्म्यस्य परिभ्रंशान्मदस्यातिशयात्तथा । । २३९ । ।

प्रच्छादनं च विभ्रान्तिर्यथालिखितवाचनं ।

कदाचिदनुवादं च कारणानि प्रचक्षते । । २४० । ।

नायिकानां सखीवेश्याकितवाप्सरसां तथा ।

वैदग्ध्यार्थं प्रयोक्तव्यं संस्कृतं चान्तरान्तरा । । २४१ । ।

स्पष्टान्येषां उदाहरणानि ।

अथ वृत्तयः

अथोच्यन्ते स्वभावेन वृत्तयः परमाद्भुताः ।

जाता नारायणादेता मधुकैटभयोर्वधे । । २४२ । ।

नेतृव्यापाररूपास्तु रसावस्थानसूचिकाः ।

चतस्रो वृत्तयो धीरैः प्रोक्ता नाट्यस्य मातरः । । २४३ । ।

भारत्यारभटी चैव सात्वती कैशिकी तथा ।

तत्र भारती

एषा वाणीप्रधानत्वाद्भारतीति निगद्यते । । २४४ । ।

प्रस्तावनोपयोगित्वात्तत्रैव परिकीर्तिता ।

स्त्रीहीना पुरुषश्रेष्ठप्रयोज्या वाक्प्रधानिका । । २४५ । ।

भारती संस्कृतैर्युक्ता वृत्तिः स्याच्चतुरङ्गिका ।

अथारभटी

मायेन्द्रजालप्रचुरचित्रयुद्धक्रियामया । । २४६ । ।

आटोपच्छेद्यभेदाढ्या वृत्तिरारभटी मता ।

अङ्गान्यस्यास्तु चत्वारि सङ्क्षिप्तिरवपातनम् । । २४७ । ।

वस्तूत्थापनसम्फेटावित्याह भरतो मुनिः ।

तत्र सङ्क्षिप्तिः

सङ्क्षिप्तिरुक्ता सङ्क्षिप्तवस्तुसृष्टिर्महाद्भुता । । २४८ । ।

यथा

विधिना हते शिशुकुले तादृशं अपरं हरिस्तथा व्यतनोत् ।

विरमतु परस्य वार्तां स्वयं एव विसिस्मये स यथा । ।

अथावपातनं

विभ्रान्तिरवपातः स्यात्प्रवेशद्रवविद्रवैः ।

यथा

निघ्नन्विघ्नं इवाग्रतः कुवलयापीडं मृदुक्रीडया

तुङ्गां रङ्गभुवं प्रविश्य तरसा प्रत्यर्थिनां त्रासनः ।

दृप्यन्मल्लदवाम्बुदश्चलदृशा क्षुद्रानपि द्रावयन्

पश्याराद्गरुडायते सरुडयं कंसोरगे केशवः । ।

अथ वस्तूत्थापनं

तद्वस्तूत्थापनं यत्तु वस्तु मायोपकल्पितम् । । २४९ । ।

यथा

दौर्जन्यानि हृदि स्फुटानि कपटस्नेहेन संवृण्वती

मायाकल्पितसुन्दरी मधुरिमा लेभे व्रजं पूतना ।

तस्याः सुष्ठु तथा पयोधररसः प्रीतः शिशुक्रीडया

वैकुण्ठेन हठाद्यथा न स पुनः मातुस्तथा पास्यते । ।

अथ सम्फेटः

सम्फेटः स्यात्समाघातः क्रुद्धसङ्क्रुद्धयोजितः । । २५० । ।

यथा

चाणूरमल्लेन यथा मुरारेर्

अन्योन्यं आसीद्गुरुसम्प्रहारः ।

कंसस्य येनानकदुन्दुभेश्च

सन्तापचिन्ताभिरुरः पफाल । ।

अथ सात्वती

सात्त्विकेन गुणेन्पै त्यागशौर्यादिना युता ।

हर्षप्रधाना निःशोका सात्वती परिकीर्तिआत् । । २५१ । ।

अङ्गान्यस्यास्तु चत्वारि संलापोत्तापकावपि ।

सङ्घात्यपरिवर्तौ चेत्येषां लक्षणं उच्यते । । २५२ । ।

अथ संलापः

ईर्ष्याक्रोधादिभिर्भावै रसैर्वीराद्भुतादिभिः ।

परस्परं गभीरोक्तिः संलाप इति कीर्त्यते । । २५३ । ।

यथा

वयं बालास्तुल्यैः सह रचयितुं युद्धं उचितं

पुरो यूयं मल्लाः प्रकटितकरालाचलरुचः ।

मदेनोन्मत्तानां मृदुलतनुभिः कः कलभकैः

करीन्द्राणां धीरः परिणमनरङ्गं रचयति । ।

अवितथं असि बालः कालरूपं विभिन्दन्

द्विरदपतिं उदग्रं बालविक्रीडयैव ।

इह किल भुजयुद्धप्रस्तुतेरुच्चलेयं

तव तनुकृतसख्या साक्षिणी बालराजिः । ।

अथोत्थापकः

प्रेरणं यत्परस्यादौ युद्धायोत्थापकस्तु सः ।

यथा

लुञ्छन्नस्मि पुरस्त्रिविष्टपपुरीसौभाग्यसारश्र्यं

गीर्वाण्श्वरपारिजातं अमरीकन्दर्पसन्दर्पदं ।

पौलोमीकुचकुम्भकेलिमकरीव्यापारवैज्ञानिकः

पाणिस्तेन हि दक्षिणः कथं असुअ दम्भोलिं उद्यच्छते । ।

अथ सङ्घात्यः

प्रभावमन्त्रदेवाद्यैः सङ्घात्यः सङ्घभेदनम् । । २५४ । ।

तत्र प्रभावेन, यथा

दुकूलं धुन्वाना जयजयजयेत्युच्चभणितिः

स्थिता रङ्गाभ्यर्णे प्रणयगरिमोद्दामितमुखी ।

प्रभावं पश्यन्ती कं अपि कमनीयाद्भुतरसं

हरेः कंसोपेक्षां वधित बत साक्षान्मधुपुरी । ।

मन्त्रेण, यथा

निशम्य युक्तिं दनुजार्दनस्य

गोवर्धनाराधनबद्धरागां ।

आभीरगोष्ठी रभसेन सर्वा

गीर्वाणराजस्य मखाद्व्यरंसीत् । ।

अथ परिवर्तकः

प्रारब्धकार्यादन्यस्य करणं परिवर्तकः ।

यथा

व्रजभुवि गुरुगर्वात्कुर्वतस्तीव्रवृष्टिं

हृदि भवदनुभावादद्यभीतिर्ममासीत् ।

त्वं असि किल कृपालुर्दोग्धुकामोऽपि कामं

तदिह मयि शरण्ये गोकुलेन्द्र प्रसीद । ।

अथ कौशिकी

नृत्यगीतविलासादिमृदुशृङ्गारचेष्टितैः ।

समन्विता भवेद्वृत्तिः कैशिकी श्लक्ष्णभूषणा । । २५५ । ।

हरेः केशाभिसम्बन्धात्कैशिकीति प्रथां गता ।

अङ्गान्यस्यास्तु चत्वारि नर्मतत्पूर्वका इमे । । २५६ । ।

स्फञ्जः स्फोटश्च गर्भश्चेत्येषां लक्षणं उच्यते ।

तत्र नर्म

शृङ्गाररसभूयिष्ठः प्रियचित्तानुरञ्जकः । । २५७ । ।

अग्राम्यः परिहासः स्यान्नर्म तत्तु त्रिधा मतं ।

शृङ्गारहास्यजं शुद्धहास्यजं भयहास्यजम् । । २५८ । ।

शृङ्गारहास्यजं नर्म त्रिविधं परिकीर्तितं ।

सम्भोगेच्छाप्रकटनादनुरागनिवेशनात् । । २५९ । ।

तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ।

सम्भोगेच्छाप्रकटनं त्रिधा वाग्वेषचेष्टितैः । । २६० । ।

तत्र वाचा, यथा पद्यावल्यां (२०७)

गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते

किं त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा ।

इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदासलाम्

आश्लिष्यन्पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः । ।

वेशेन यथा रसार्णवसुधाकरे (१.२७३)

अभ्युद्यते शशिनि पेशलकान्तदूती

सन्तापसंवलितमानसलोचनाभिः ।

अग्रा हि मण्डनविधिर्विपरीतभूषा

विन्यासहासितसखीजनं अङ्गनाभिः । ।

चेष्टया, यथा

श्यामे यां अनुरोधसि प्रियसखीवर्गान्तरस्थायिनी

सव्यां स्मेरमुखी दृशं मधुभिदः स्मेरे मुखाम्भोरुहे ।

भृङ्गोद्भासिनि दक्षिणां तु किरती क्रीडानिकुञ्जे मुहुः

सूर्ये रज्यति सच्छलं विचिनुते तपाय पुष्पावलिं । ।

अनुरागप्रकाशोऽपि भोगेच्छानर्मवत्त्रिधा ।

तत्र वाचा, यथा

देहि कुन्दं इति देवि वक्ष्यती

यन्मुकुन्दं अविलम्बं अब्रवीः ।

तावकीनकुलपालिकाव्रतं

तेन साम्प्रतं अभूद्विकरस्वरं । ।

वेशेन, यथा

यदुपहससि मां सदाभिसारोत्

सुकहृदयां अभितस्तदत्र युक्तं ।

वपुषि हरिकथाप्रसङ्गमात्रे

तव च कथं पुलकालिरुन्मिमील । ।

चेस्टया, यथा

सखि कुर्वती विविक्ते वनमालागुम्फनाभ्यासं ।

विदितासि त्वं अखण्डितपातिव्रत्ये कृतं भणितैः । ।

तत्र वाचा, यथा

व्रजराजकुमार मा कृथाः

स्तुतिमुद्राभिरनल्पचातुरीं ।

अनिमित्तविशङ्कितेन ते

वचसाहं गुरुणास्मि बोधिता । ।

वेशेन, यथा ललितमाधवे

चन्द्रावली (सोत्प्रासस्मितम्)

कज्जलसामलमज्झं पल्लासाणुज्जलं मुउंदस्स ।

गुंजाफल्लं ब्ब अहरं सहि पेक्खन्ती पमोदामि । ।

[कज्जलश्यामलमध्यं पल्लवशोणोज्ज्वलं मुकुन्दस्य ।

गुञ्जाफलं इवाधरं सखि पश्यन्ती प्रमोदे । ।] ९.५४

चेष्टया, यथा रससुधाकरे (१.२७३)

लोलभ्रूलतया विपक्षदिगुपन्यासे विधूतं शिरस्

तद्वृन्दस्य निशामनेऽकृत नमस्कारं विलक्षस्मितं ।

रोषात्तामरकपोलकान्तिनि मुखे दृष्ट्या नतं पादयोर्

उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः । ।

अथ शुद्धहास्यजं

शुद्धहास्यजं अप्युक्तं तद्वदेव त्रिधा बुधैः । । २६२ । ।

तत्र वाचा, यथा

वृद्धे चन्द्र इति प्रतारय न मां अज्ञासिषं मद्भयान्

निक्षिप्तं नवनीतपिण्डं उपरि स्थानेऽद्य राधाम्बया ।

गूढं पातयितास्मि दीर्घतरया यष्ट्येति वाचं हरेर्

इन्दुन्यस्तदृशो निशम्य मुखरा क्षेमं हसन्ती क्रियात् । ।

वेशचेष्टाभ्यां, यथा

कम्बलकृतवृषवेषं भृङ्गाभृङ्गी प्रणीतसंरम्भं ।

प्रेक्ष्य हरिं विधिरहसीन्मुदिरच्छन्नो गभीरोऽपि । ।

अथ भयहास्यजं

हास्याद्भयेन जनितं कथितं भयहास्यजं ।

तद्द्विधा मुखं अङ्गं तु तद्द्वयं पूर्ववत्त्रिधा । । २६३ । ।

मुख्यं वाचा, यथा

शैलेन्द्रोद्धृतिलीलया किल परित्राते गवां मण्डले

तत्र स्तोत्रविधित्सयाभ्युपगतं दृष्ट्वा सहस्रेक्षणं ।

प्रत्यासीदति पश्य राक्षसपतिः साक्षादयं पाहि मां

इत्युत्क्रोशति मुग्धवल्लवशिशौ स्मेरो हरिः पातु वः । ।

एवं वेशचेष्टाभ्यां अप्युदाहार्यं ।

अथान्याङ्गं । तत्र वाचा, यथा

यद्युल्लङ्घ्य गिरं विसर्पति ततः स्वाङ्गे व्रणं पाणिजैः

कुर्वन्नेव कृतं त्वयेति जरतीलक्साय वक्ष्याम्यहं ।

इत्युक्ते स्वरं आकुलां इव भयादालोक्य राधां पुनः

स्तब्धीभूतगतिं हरिः स्मितमुखः श्लिष्यन्मुदं वः क्रियात् । ।

वेषेण, यथा

राधापुरः स्फुरति संविहिताभिमन्यु

वेषे मुरद्विषि मनागुपलब्धभीतिः ।

नैसर्गिकीं प्रणयतः स्वमनःप्रवृत्तिं

तत्रावधार्य चतुरा स्मितं आततान । ।

चेष्टया, यथा रससुधाकरे (१.२७५)

प्रह्लादवत्सल वयं बिभिमो विहाराद्

अस्मादिति ध्वनितनर्मसु गोपिकासु ।

लीलामृदु स्तनतटेषु नखाङ्कुराणि

व्यापारयन्नवतु वः शिखिपिच्छमौलिः । ।

नर्मेदं अष्टादशधा विस्पष्ञं अभिदर्शितं ।

अथ नर्मस्फञ्जः

नर्मस्फञ्जः सुखोद्योगो भयार्तो नवसङ्गमः । । २६४ । ।

यथा

साशङ्कं क्षिपतोर्दृशं प्रतिदिशं व्रीडाजडस्वान्तयोर्

याता क्वासि निशीति तीव्रजरतीवाचाधिकत्रस्तयोः ।

गोष्ठद्वारि निवेशितस्य कुहरे गोग्रन्थिराशेस्तदा

राधामाधवयोरभूत्क्वणिकरस्तस्मिन्नवः सङ्गमः । ।

अथ नर्मस्फोटः

नर्मस्फोटो भावलेशैः सूचितोऽल्परसो मतः । । २६५ । ।

यथा विदग्धमाधवे

मधुमङ्गलः (कृष्णं पश्यन्स्वगतम्)

फुल्लप्रस्¨नपटलैस्तपनीयवर्णं

आलोक्य चम्पकलता किल कम्पतेऽसौ ।

शङ्के निरङ्कनवकुङ्कुमपङ्कगौरी

राधास्य चित्तफलके तिलकीबभूव । । (२.२५)

अथ नर्मगर्भः

नेतुर्वा नायिकाया वा व्यापारः स्वार्थसिद्धये ।

प्रच्छादनपरो यस्तु नर्मगर्भः स उच्यते । । २६६ । ।

यथा, रससुधाकरे (१.२७९)

श्रियो मानग्लानेरनुशयविकल्पैः स्मितमुखे

सखीवर्गे गूढं कृतवसतिरुत्थाय सहसा ।

समनेष्ये धूर्तं तं अहं इति जल्पन्नतमुखीं

प्रियान्तां आलिङ्गन्हरिररतिखेदं हरतु वः । ।

तिस्रोऽर्थवृत्तयः प्रोक्ता शब्दवृत्तिस्तु भारती ।

अथैतासां चतसॄणांरसनैयत्यं उच्यते । । २६७ । ।

शान्तवीराद्भुतप्रीतवत्सलेषु तु सात्वती ।

प्रेयः शृङ्गारहास्येषु प्रोक्ता वृत्तिस्तु कैशिकी । । २६८ । ।

बीभत्से करुणे चारभटी वीरे भयानके ।

प्रायो रसेषु सर्वत्र भारती करुणादिषु । । २६९ । ।

इति ध्वनिप्रस्थापनपरमाचार्यश्रीमद्रूपगोस्वामिप्रभुपादप्रणीता

श्रीनाटकचन्द्रिका समाप्ता । ।

**********************************************

]