॥ श्रीः ॥
अथ सप्तत्रिंशोऽध्यायः ।
कस्यचित्त्वथ कालस्य नहुषो नाम पार्थिवः ।
प्राप्तवान् देवराज्यं हि नयबुद्धिपराक्रमैः1 ॥ १ ॥
प्रशशास तदा राज्यं देवैर्व्युष्टिमवाप्नुवन्2 ।
गान्धर्वं चैव नाट्यं च दृष्ट्वा चिन्तामुपागमत् 3 ॥ २ ॥
स चिन्तयित्वा मनसा कथमेष गृहे मम ।
4नाट्यप्रयोगो हि भवेदिति सादर एव सन् 5 ॥ ३ ॥
कृताञ्जलिः प्रयोगार्थं प्रोक्तवांस्तु सुरान् नृपः ।
6अप्सरोभिरिदं सार्धं नाट्यं भवतु मे गृहे ॥ ४ ॥
Abh
॥ अथ सप्तत्रिंशोऽध्यायः ॥
आकाङ्क्षाणां प्रशमनविधेः पूर्वभावावधीतां
धाराप्राप्तस्तुतिगुरुगिरां गुह्यतत्त्वं प्रतिष्ठा ।
ऊर्ध्वाधध्यः (धो यः) परभुवि(च) वा यत् समानं चकास्ति
प्रौढानन्तं तदहमधुनाऽनुत्तरं धाम नन्दे ॥
अथ यद्वशान्नाट्यशास्त्रमुपादेयं तदुपदेशसम्भवमूलभूयिष्ठभूतं भूलोकावतरणं नाट्यस्येतिहासेन प्रदर्शयन्नितिहासोपडन्न(न्य)त्वाद् गूढत्वेनोपदेशरूपस्य सारभागस्य तत्त्वस्य कथनाद् गुह्यतत्त्वकथनमध्यायमारभते । कस्यचित्त्वथ कालस्य नहुष इति ॥ १ ॥
कालेन प्रयुक्तो यतो देवराज्यं चकार ततस्तत्सम्बन्धित्वेनोक्तं गान्धर्वमिति । नृत्तं नाट्यं स्वर्गे दृष्ट्वा बद्धमिति श्लिष्टम् । तेनाप्सरस एवमन्येऽवतरन्त्वित्यर्थः ॥ २ ॥ ३–६ ॥
Notes
प्रत्युक्तो(क्तश्च) ततो देवैर्बृहस्पतिपुरोगमैः ।
1दिव्याङ्गनानां नैवेह मानुषैः सहं सङ्गतिः 1a॥ ५ ॥
1bहितं पथ्यं च वक्तव्यो भवान् स्वर्गाधिपो (हि यत्) ।
आचार्यास्तत्र गच्छन्तु गत्वा कुर्वन्तु ते प्रियम् ॥ ६ ॥
प्रोक्तवांस्तु ततो मां तु नृपतिः स कृताञ्जलिः ।
इदमिच्छामि 2भगवन् नाट्यमुर्व्यां प्रतिष्ठितम् ॥ ७ ॥
3पूर्वमाचार्यकं चैव भवताऽभिहिंत (हि प्रति)श्रुतम् ।
व्यक्तभावात्त्विदं लब्धं4 त्वत्सकाशाद् द्विजोत्तम ॥ ८ ॥
पितामहगृहेऽस्माकं (ऽस्माभिरे)तदन्तःपुरे जने ।
पितामहक्रियायुक्तमुर्वश्यां सम्प्रवर्तितम् ॥ ९ ॥
तस्याः प्रणाशशोकेन उन्मादोपर(ह)ते5 नृपे ।
विपन्नेऽन्तःपुरजने पुनर्नाशमुपागतम् ॥ १० ॥
प्रकाशमेतदिच्छामोभू6यस्तत् संप्रयोजितम् ।
तिथियज्ञक्रियास्वेतद् यथा स्यान् 7मङ्गलैः शुभैः ॥ ११ ॥
Abh
मामिति भरतमुनिम् ॥ ७ ॥
प्रतिश्रुतमङ्गीकृतं व्यक्ततामवलम्ब्येति । व्यक्तीभूतं तु त(त्व)त्सकाशात् ॥ ८ ॥
पितामहगृहे ब्रह्मलोके यत् तदस्माभिरिति मर्त्यैरन्तःपुरजने लब्धं दृष्टं चेत्याह । पितामहक्रियायुक्त– कर्मण्यां यद्ब्रह्मणा कृतं तदुर्वश्यां सत्यां सम्प्रवर्तितं पुरूरवसो गृहेऽवतीर्णम् ॥ ९ ॥
तस्याः प्रणय(या)पला(ली)यमानं स्वर्गगमनं जातम् । स्वात्मने प्राणार्पके प्रणयिनि नृपे पुरूरवसि वि(प)ने(न्ने) योऽपि च तत्परिजनः सोऽपि विपि(प)न(न्न) इति प्राणसङ्ग(ङ्क)तं(टं) नाट्यमस्माकम् ॥ १० ॥ ११–१६ ॥
Notes
1तस्मिन् (स्मान्) मम गृहे बद्धं नानाप्रकृतिसंश्रयम् ।
स्त्रीणां ललितविन्यासैर्यतो नः प्रथयिष्यति ॥ १२ ॥
तथाऽस्त्विति मया प्रोक्तो नहुषः पार्थिवस्तदा ।
सुताश्चाहूय सम्प्रोक्ता 2सामपूर्वं सुरैः सह ॥ १३ ॥
अयं हि नहुषो राजा याचते नः कृताञ्जलिः ।
गम्यतां सहितैर्भूमिं प्रयोक्तुं नाट्यमेव च3 ॥ १४ ॥
करिष्यामश्च शापान्तमस्मिन् सम्यक् प्रयोजिते ।
ब्राह्मणानां नृपाणां च 4भविष्यथ न कुत्सिताः ॥ १५ ॥
तत्र गत्वा 5प्रयुज्यन्तां (ध्वं)प्रयोगान् वसुधातले ।
न शक्यं चान्यथा कर्तुं वचनं पार्थिवस्य हि ॥ १६ ॥
6अस्माकं चैव 7सर्वेषां नहुषस्य महात्मनः ।
8आत्मो(प्तो)पदेशसिद्धं हि नाट्यं प्रोक्तं स्वयंभुवा ॥ १७ ॥
9शेषमुत्तरतन्त्रेण9a कोहलस्तु करिष्यति10 ।
11प्रयोगः(गान्)कारिकाश्चैव निरुक्तानि तथैव च ॥ १८ ॥
अप्सरोभिरिदं 12सार्धं क्रीडनीयकहेतुकम् ।
अधिष्ठितं मया स्वर्गे स्वातिना नारदेन च ॥ १९ ॥
ततश्च13 वसुधां गत्वा नहुषस्य गृहे द्विजाः ।
स्त्रीणां प्रयोगं बहुधा 14बद्धवन्तो यथाक्रमम् ॥ २० ॥
Abh
प्रयोज्यत्वेन वाद्यं(नाट्यं)ब्रह्मणैवोक्तमित्यलङ्घ्योऽयमिति भाव इति शेषः ॥ १७ ॥
कोहल इति । यदस्माभिर्लोकानुमानादिसिद्धत्वे नोक्तं निमित्त इति ॥ १८ ॥
उत्सर्गे तु नोपदेशफलमपि तु क्रीडनीयकहेतुकम् । रसचर्वणापात्रसारमननुवृत्या विभावानुभावनभागगते कर्मफलसम्बन्धावबोधविश्रान्त………तत्र भरतश्चापि । नारदैर(देना)प्सरोभिश्चाधिष्ठितं परिरक्षितम् ॥ १९ ॥ २० ॥
Notes
1अत्रोपभोगतस्ते तु मानुषीपु ममात्मजाः2 ।
बद्धवन्तोऽधिकस्नेहं तासु तंद् द्विजसत्तमाः (तेषु तेषु द्विजोत्तमाः) ॥ २१ ॥
प्रत्रानुत्पाद्य बद्ध्वा च प्रयोगं च यथाक्रमम् ।
ब्रह्मणा समनुज्ञाताः प्राप्ताः स्वर्गं पुनः सुताः3 ॥ २२ ॥
एवमुर्वीतले नाट्यं शिष्यैः समवतारितम् ।
भरतानां च 4वंशोऽयं भविष्यं च प्रवर्तितः ॥ २३ ॥
कोहलादिभिरेवं तु वत्सशाण्डिल्यधूर्तितैः ।5
मर्त्यधर्मक्रियायुक्तैः कञ्चित्कालमवस्थितैः ॥ २४ ॥
एतच्छास्त्रं प्रणीतं हि नराणां बुद्धिवर्धनम् ।
त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम् ।
मङ्गल्यं ललितं चैव ब्रह्मणो वदनोद्भवम् ॥ २५ ॥
य इदं शृणुयान् नित्यं प्रोक्तं चेदं स्वयम्भुवा ।
कुर्यात् प्रयोगं यश्चैवमथवाऽधीतवान् नरः ।। २६ ।।
या गतिर्वेदविदुषां या गतिर्यज्ञकारिणाम् ।6
या गतिर्दानशीलानां तां गतिं प्राप्नुयाद्धि सः ।। २७ ।।
Abh
तेषु तेष्विति लीलादिषु । द्विजोत्तमा इत्यत्र पूर्वभोगत्वात् तावदेव प्रीताः ।। २१ ।। २२ ।।
शिष्यैर्भरतसुतैः ।। २३ ।।
कोहलादिभिरिति । तत्प्रधानैः सर्वशास्त्रनिबन्धनदर्शनमितिहासपुराणार्थवादकार्यचित्रपुस्तलेपादिभिः ।। २४ ।।
सर्वं नाट्यस्यांशाः सर्वत्र रसप्राधान्यात् साक्षात्कारकल्पबुद्धिसम्पादनात् प्राव(वी)ण्याच्च । यथोक्तं ते विहितेर्ष्यामित्यादि । सन्तो(तो)बुद्धिविषयान् प्रकाशयन्तीति ।। २५ ।। २६–२९ ।।
Notes
दानधर्मेषु सर्वेषु कीर्त्यते तु महत् फलम् ।
प्रेक्षणीयप्रदानं हि सर्वदानेषु शस्यते ।। २८ ।।
न तथा गन्धमाल्येन देवास्तुष्यन्ति पूजिताः ।
यथा नाट्यप्रयोगस्थैर्नित्यं तुष्यन्ति मङ्गलैः ।। २९ ।।
गान्धर्वं चेह नाट्यं च यः सम्यक् परि(म्यगनु) पालयेत् ।
स ईश्वरगणेशानां लभते सद्गतिं पराम् ।। ३० ।।
एवं नाट्यप्रयोगे बहुविधिविहितं कर्मशास्त्रं प्रणीतं
नोक्तं 1यच्चात्र लोकादनुकृतिकरणात् संविभाव्यं तु तज्ज्ञैः ।
किं चान्यत् सम्प्रपूर्णा भवतु वसुमती नष्टदुर्भिक्षरोगा
शान्तिर्गोब्राह्मणानां भवतु नरपतिः पातु पृथ्वीं समग्राम् ।। ३१ ।।*
[इति भारतीये नाट्यशास्त्रे गुह्यतत्त्वकथनाध्यायः सप्तत्रिंशः ।।]2
नाट्यशास्त्रं संपूर्णम् ।।
Abh
गान्धर्वमिति । नृत्यं नाट्यं योऽनुपालयेत् । उपदेशव्याख्यानविवरणादिना च । ईश्वरगणेशतां(शानां) लभन्ते(ते)सद्गतिं परामिति । शिवसायुज्यम् ।। ३० ।।
अनुयायिताकरणमनुकृतिः । नरपतिरिति । पुरुषोत्तम ईश्वरः सकलजगत्पालयिता । इति शिवम् ।। ३१ ।।
श्रीमध्यदेशभवविप्रवरार्तिगुप्त- वंशोत्थितः शिवपदार्पितचित्तवृत्तिः ।। (संगीत)रागनयशृङ्खल(सु)प्रसिद्धो वंशोद्भवस्थितिवशात्तनृसिंहगुप्तः ।। १ ।।
तस्यात्मजोऽभिनवगुप्तपदाभिधानो भट्टेन्दुरात्मपदपांसुपवित्रमूर्तिः ।। सद्विप्रतातवदनादधिगम्य नाट्य- वेदं व्यधत्त विवृत्तिं लघुमर्थपूर्णाम् ।। २ ।।
Notes
- (N) reads one more verse(V. 233) : महापुण्यं प्रशस्त च लोकानां नयनोत्सवं । नाट्यशास्त्रं समाप्तोऽयं भवतामायुषोवहम् ।।
शिवपुरविजयहेतुविजयादिकरुद्रसहस्रपूतया प्रवरपुराभिधानकाश्मीरकधानशुभे वितस्तया ।। अधिगतजन्मवसतिरमृतकरशेखरभक्तिसक्तितो रचयति नाट्यवेदविवृतिं लघुमभिनवगुप्त भारतीम् ।। ३ ।।
प्रभुः शम्भुर्यस्य प्रथितपरमार्थस्थितिसुखः पराधीनश्चेतो व्यधित स तदारार्ज(ध)नविधौ ।। ततः शस्तस्वात्मान्तरहृदयविश्रान्तिकृतिनः कृतिं तस्येत्थं भोः शृणुत भगवन्तः सहृदयाः ।। ४ ।।
सज्जनान् कविरसौ न याचते ह्लादनाय शशभृत् किमर्थितः । नापि निन्दति खलान् मुहुर्मुहु- र्धिक्कृतोऽपि न हि शीतलोऽनलः ।। ५ ।।
नाट्यार्थप्रथनात् तस्मात् तुष्ट(ष्टो)नाट्ये परेण यत् । क्रियात् तेनैष जनतामानन्दोल्लाससुन्दराम् ।। ६ ।।
इति महामाहेश्वराभिनवगुप्ताचार्यविरचितायां नाट्यवेदवृत्ता- वभिनवभारत्यां गुह्यतत्त्वकथनं सप्तत्रिंशः ।।
।। समाप्ता चेयमभिनवगुप्तकृतिः ।।